परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८५ असाधुत्वापत्तिः, 'उदिते जुहोति, अनुदिते जुहोती'तिवत् शास्त्रद्वयप्रामाण्यात् पर्यायापत्तिर्वा स्यादिति 'इको यणची'त्यादीनां मदुत्तरप्रवृत्तिमत्ता शास्त्रेण यस्य साधुत्वं बोध्यते, तदपि साध्विति स्वोत्तरप्रवृत्तिमच्छास्त्रस्य अभ्यनुज्ञादानमपि विधेयम् । तत्तच्छास्त्रैः साधुत्वविधानफलं च 'अष्टाध्यायीस्थसाधुत्वविधायकशास्त्रं साधुशब्दघटके- ष्वेव प्रवर्तते' इति नियमपरिरक्षणमेव, तेन 'गगरी'शब्दघटकेकारादिषु 'इको यणची'त्यादी- नामप्रवृत्तिः सिद्ध्यति । स्वोत्तरप्रवर्तमानशास्त्रान्तरबोधितासाधुत्वासमानाधिकरणं साधुत्वं पुण्यजनकतावच्छेदकमिति वैयाकरणसमयः । एवञ्चानया तत्तच्छास्त्रस्थाभ्य- नुज्ञावाक्यीय-स्वोत्तरप्रवृत्तिमत्पदार्थे मदीयसन्निपातविघातकातिरिक्तेनेति सङ्कोचः क्रियते, तेन 'बुद्धावि'त्यत्र 'अच्च घेरि'ति शास्त्रेण स्वसन्निपातविघातक-टाब्बिघेरभ्य- नुज्ञादानाभावेन तदप्रवृत्तिसिद्धिः । अनित्यत्वविषये तु एतत्परिभाषाप्रयोज्यसङ्कोचघटक- स्वसन्निपातविघातकशास्त्रे तत्तच्छास्त्रातिरिक्तत्वेन सङ्कोचः; यथा 'कष्टाये'ति निर्देशेनास्या अनित्यत्वेन 'ङेर्यं' इत्यस्य अभ्यनुज्ञावाक्यघटक-सन्निपातविघातकपदार्थे 'सुपि चे'त्यतिरिक्तत्वेन सङ्कोचाद् 'रामाये'त्यत्र तस्य 'ङेर्यं' इत्येतत्सन्निपातविघात- कत्वेऽपि दीर्घसिद्धिः । माधवानुयायिनस्तु—'ङेर्यं' इत्यस्य अभ्यनुज्ञावाक्ये एतत्परिभाषाप्रयुक्तसङ्कोचे तत्तच्छास्त्रातिरिक्तत्वेन सङ्कोचकरणापेक्षया अनित्यत्वविषये अभ्यनुज्ञावाक्ये 'सन्नि- पात'परिभाषाप्रयोज्यसङ्कोचाभाव एव क्रियते, तेन 'नामी'ति सूत्रारम्भसामर्थ्ये- नैतस्या अनित्यत्वात् 'ह्रस्वनद्याप' इत्यस्याभ्यनुज्ञावाक्ये सन्निपातपरिभाषाप्रयोज्य- सङ्कोचाभावेन अविशेषात् 'रायो हली'त्यस्याप्यभ्यनुज्ञादानसत्त्वेन 'प्रराणामि'त्यत्रा- ऽऽत्त्वसिद्धिः । 'ह्रस्वनद्याप' इत्येतदभ्यनुज्ञावाक्ये सन्निपातपरिभाषाप्रयुक्तसङ्कोचा- भावादेव 'रामाणामि'त्यत्र परत्वात् 'सुपि चे'ति दीर्घस्यैव प्रवृत्त्या 'नामी'त्यस्य 'अग्नीनामिन्दूनामि'ति अनकारान्तोदाहरणदानं भाष्यकृतः स्वरसत उपपद्यते । न च 'इनान्नलोप' इति सूत्रस्थभाष्यविरोधेन ईदृशप्रकारस्यायुक्तत्वम्, तत्र हि 'नान्नलोप' इति न्यासे 'यज्ञानाम् यत्नानामि'त्यत्र लोपमाशङ्क्य “इदमिह सम्प्रधार्यं लोपः क्रियतां दीर्घो वा” इत्युक्त्वा “परत्वान्न लोप” इत्युक्तम्, 'नामी'त्यपेक्षया लोपस्य परत्वेऽपि 'सुपि चे'त्यपेक्षया परत्वाभावेन त्वदुक्तरीत्या नुडुत्तरं 'सुपि चे'त्यस्य प्रवृत्तौ बाधकाभावात् नलोपापेक्षयाऽपि तस्य परत्वात्प्रवृत्त्यापत्त्या भाष्यविरोधः स्पष्ट एवेति वाच्यम् ; सुपि चे'त्यपेक्षया लोपस्य नित्यत्वेन प्रतिपदोक्तत्वेन च पूर्वं प्रवृत्तिरिति भाष्याशयकल्पनेनादोषादिति प्राहुः । तन्न ; 'ह्रस्वो नपुंसक' इत्युत्तरं
नियमपरिरक्षणमेवेति । अयम्भावः—साधुत्वं द्विविधम्, एकं शास्त्रप्रवृत्त्यर्हत्वरूपं शास्त्र- प्रक्रियानिर्वाहाय परिकल्पितं प्रकृतिप्रत्ययादिगतार्थवत्त्वमिव, अपरं पुण्यजनकतावच्छेदकीभूतो व्याकरणशास्त्रज्ञानाभिव्यङ्ग्यो शब्दनिष्ठो जातिविशेषो मुख्यमेव । तच्च 'यदिह परिनिष्ठितत्वेन ज्ञाप्यं तत्साधु' इत्यर्थापत्तिकल्पितवाक्येन बोध्यत इति । तदुक्तं मञ्जूषायाम्—'साधूनामेव प्रत्ययविधावुद्देश्यत्वेन प्रकृतित्वम्, खण्डसाधुत्वबोधनद्वारा समुदायसाधुत्वबोधकं व्याकरणमर्थ- वत्त्वबोधनवत्' इति । एतेन साधुत्वाऽसाधुत्वरूपविरुद्धधर्मविच्छिन्नस्य बोधनादिदं शास्त्र- मप्रमाणमेवेति अपास्तम् ।
सर्वत्रैव तत्सन्निपातविघातकस्य 'इकोऽचि विभक्तावि'ति नुमः प्राप्त्या तत्सूत्रारम्भ- सामर्थ्येन सन्निपातपरिभाषाया अनित्यत्वावश्यकत्वेनात्रापि 'ह्रस्वो नपुंसक' इत्यस्याभ्यनुज्ञावाक्ये सङ्कोचसामान्याभावे ह्रस्वविधायकशास्त्रेण 'इकोऽची'ति शास्त्र- स्येव 'ह्रस्वस्य पिति कृति'ति शास्त्रस्याप्यभ्यनुज्ञाततया सुल्वादिशब्देषु तुगापत्तेर्दुर्वा- रत्वात् । मन्मते तु 'ह्रस्वो नपुंसके'त्यस्याभ्यनुज्ञावाक्ये 'इकोऽची'त्यतिरिक्तं यन्म- त्सन्निपातविघातकं तदतिरिक्तनेति विशेषरूपेण सङ्कोचात् 'ह्रस्वस्य पिती'त्यस्या- भ्यनुज्ञादानाभावेन तदप्रवृत्तेः । एवं 'ह्रस्वनद्यांप' इत्यस्याभ्यनुज्ञावाक्येऽपि 'नामी'- त्येतदतिरिक्तं यन्मत्सन्निपातविघातकं तदतिरिक्तनेत्येवंविशेषरूपेण सङ्कोचात् 'नामी'त्यस्याभ्यनुज्ञादानेऽपि 'रायो हली'त्यस्य तदभावेन तदप्रवृत्त्या 'प्रराणामि'- त्यस्य साधुत्वाभावात् । एवं 'श्रीपाये'त्यत्र 'सुपि चे'त्यनेन ह्रस्वा
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८७ न्यायमूलेषा । 'ह्रस्वनद्याप' इत्येतदतिरिक्तं यत्स्वसन्निपातसम्पादकं शास्त्रं तत्सन्निपातविघातकातिरिक्तौ दीर्घौ भवतीत्यर्थान्न दोषः । अत्र पक्षेऽपि 'प्ररीणामि'त्यत्र आत्त्वस्य 'ह्रस्वनद्याप' इत्येतत्सन्निपातविघातकत्वेन 'रायो हली'त्यस्याप्रवृत्तिः । 'नामी'त्यत्र सूत्रारम्भसामर्थ्येन उक्तरूपेण सङ्कोचेऽप्यत्र तथासङ्कोचे मानाभावः । वस्तुतस्तु—अयं द्वितीयप्रकार एव युक्तः । प्रथमकल्पे च 'बुद्धौ' इत्यादौ 'अच्च घेरि'ति शास्त्रेण स्वनििमत्तसन्निपातविघातक-टाब्विधेयः, उक्तन्यायसहकारेण अभ्यनुज्ञादानाभावेऽपि उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्यौत्सर्गिकतया तदीयो- द्देश्यतावच्छेदके सङ्कोचं विना टाप्प्रवृत्तेर्दुर्वारत्वपत्तिः । किञ्चैवं 'नाव्यमि'- त्यत्र उक्तदिशाऽनया दोषवारणासम्भवेन नौप्रतिषेधस्य 'हल्स्वरप्राप्तावि'ति परिभाषा- ज्ञापकत्वासम्भवः । किञ्च—पूर्वनिर्दिष्टपरिभाषार्थे एव ग्रन्थकर्तुः सामञ्जस्ये 'स्वप्रवृत्तेः प्राक् स्वनििमत्तभूत' इति वक्ष्यमाणग्रन्थेन परिभाषया अर्थान्तरोपवर्णनस्य नैर्थ- क्यापत्तिः । किञ्च—संज्ञाशास्त्रस्य साधुत्वविधायकत्वाभावेन पूर्वशास्त्राभ्यनुज्ञाया अभावात् 'कुम्भकारेभ्य' इत्यादौ अनयाऽव्ययसंज्ञाया वारणपरभाष्यासङ्गतिः । किञ्च परिभाषायां विघातपदस्याणन्तत्वकल्पनया सन्निपातलक्षणविधेस्तद्विघातकशास्त्रप्रवृत्ति- निरोधकत्वकल्पनेन अल्पदोषप्रयोजक्योपजीव्यविरोधनिवारकत्वेऽपि महादोषप्रयोजकस्य स्वेन स्वोपजीव्यवियातकरणस्यान्याय्यत्वबोधने शास्त्रकारस्याविवेकित्वापत्तिः । विघातपदे भावघञ्कल्पनेन सन्निपातलक्षणविधेः स्वनििमत्तभूतसन्निपातविघात- नििमत्तत्वसामान्याभावबोधकत्वकल्पने तु स्वरसत एवोभयं सिद्ध्यतीति दिक् । न्यायमूलेषेति । केचित्तु—'न तिसृ'ति सूत्रमत्र ज्ञापकम्; अन्यथा 'तिसृ- णामि'त्यत्र तत्परिभाषाभावे 'तिसृ+नामि'त्यवस्थायामन्तरङ्गत्वात् ङीपि तद्वैयर्थ्या- पत्तिः । एतत्सत्त्वे तु प्रकृतिप्रत्ययसन्निपातप्रयोज्य-तिस्रादेशस्य ङीपं प्रत्यनिमित्त- टाप्प्रवृत्तेर्दुर्वारत्वापत्तिरिति । टापः प्रवृत्तावपि तद्धटितस्य साधुत्वाभ्यनुज्ञाभावेन लोके प्रयोगाभावाददोष इत्यरुचेराह—किञ्चैवमिति । ज्ञापकत्वासम्भव इति । गुणविधानपक्षे तदसम्भवेऽपि लाघवात् गुणमात्रविधानपक्षे तत्सम्भवोऽस्त्येव, फलमुखगौरवन्तु न दोषावहमित्यरुचेराह—किञ्चेति । नैरर्थक्यापत्ति- रिति । इष्टापत्त्या आह—किञ्चेति । वारणपरभाष्यासङ्गतिरिति । एतत्समाधानन्तु 'तदुदाहरणपरभाष्यप्रामाण्येन' इत्यादिना मूले एव स्फुटमत आह—किञ्चेति । वस्तुतस्तु—उभयविधरूपेण तत्तद्विधेये धर्मशास्त्रप्रयुक्तसङ्कोचापेक्षया अभ्यनुज्ञातवाक्ये एव नीतिशास्त्रप्रयुक्तसङ्कोच एव लाघवात् दोषाभावाच्च प्रथमप्रकारोऽपि निर्दुष्ट एवेति बोध्यम् । अत्र कल्पे नीतिशास्त्रमूलको “विरोधिंन नोपजीवयेत्” इति न्यायो मूलम् । सन्निपात- लक्षणविधित्वमस्या लिङ्गम् । द्वितीयकल्पे “धर्मशास्त्रमूलकः उपजीव्यविरोधो न न्याय्यः” इति हि न्यायोऽस्य लिङ्गम् । सन्निपातविघातकशास्त्रत्वञ्च अस्या लिङ्गमिति तात्पर्यम् ।
२८८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्य- विशेषणसन्निपातोऽपि गृह्यते । अत एव 'ग्रामणिकुलमि'त्यादौ नपुंसकह्रस्व- त्वेऽपि 'पिति कृती'ति तुग् न ; प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तद्विघातकत्वात् । तुक्यजन्तत्वविघातः स्पष्ट एव । त्वेन तदप्रवृत्त्या सूत्रसार्थक्यं स्पष्टमेव । न च 'न षडि'ति निषेधः शङ्क्यः ; स्वस्रादिगणे तिसृ-चतसृपाठस्यानार्षत्वेन तन्निषेधायोगात् । अत एव 'कृन्मेजन्तः' इति सूत्रे भाष्ये 'तिस्रश्चतस्र' इत्यत्र ङीपमाशङ्क्य "आचार्यप्रवृत्तिर्ज्ञापयति न तिसृ- चतसृभावे ङीब् भवतीति । "यदयं न तिसृचतस्रिति नामि दीर्घत्वप्रतिषेधं शास्ती"- त्युक्तमिति । तन्न युक्तम् ; 'तिस्रोऽतिक्रान्तानामति तिस्रिणामि'त्यत्र ङीपि 'लिङ्गविशिष्ट'- परिभाषया ङीबन्ते उपसर्जनत्वात् 'गोस्त्रियोरिति ह्रस्वे 'नामी'ति दीर्घे च प्राप्ते न्यूनसमुदायापेक्षत्वेन अन्तरङ्गत्वात्पूर्वं ह्रस्वे कृते प्राप्तदीर्घवारणाय उक्तसूत्रस्य आवश्यकत्वेन ज्ञापकत्वासम्भवात् । परे तु-'अतितिस्री + नामि'ति स्थिते 'नामी'त्यस्यापि प्रतिपदोक्तत्वरूपा- न्तरङ्गत्वेन नित्यत्वेन चोभयोः समत्वात् परत्वाद्दीर्घोत्तरं ह्रस्वे 'लक्ष्ये लक्षण'न्यायेन पुनर्दीर्घाप्राप्त्या उक्तसूत्रस्य वैयर्थ्येन ज्ञापकत्वं सुस्थमेवेति प्राहुः । यत्तु-'वाचि ह्रस्वश्चे'ति न्यासेनैव 'श्रियाम्, श्रीणामि'त्यादीष्टरूपसिद्धौ 'वामि, ङिति ह्रस्वश्चे'ति योगद्वयकरणमस्यां ज्ञापकम् । ज्ञापिते तु 'श्रीणामि'त्यत्र अजादित्वमुपजीव्य जायमानेन नदीत्वेन नुट्द्वारा अजादित्वविघातेनानया नुड्- प्राप्त्या 'वामी'त्यस्याऽऽवश्यकत्वम् । तत्सत्त्वे तु नुड्विशिष्टे आम्त्वेन सन्निपात- विघाताभावः स्पष्ट एव । तव तु अजादित्वस्य वर्णत्वव्याप्यधर्मघटितत्वेन 'यदागम'- परिभाषायाऽऽनयनाभावेन तद्विरोधः स्पष्ट एव । न च 'मतिश्चोमा चे'ति द्वन्द्वेऽच्- परत्वेन मतिशब्दस्य नदीत्वेन घित्वाभावात् पूर्वनिपातानापत्त्या ईदृशन्यासस्य वक्तु- मशक्यत्वमिति वाच्यम् ; 'मतिश्च चित्रश्चे'ति द्वन्द्वे सिद्धान्ते ङित्परत्वेऽपि नदीत्वा- भावार्थं प्रत्ययाक्षेपस्याऽऽवश्यकत्वेन उक्तदोषासम्भवादिति प्राहुः । तन्न ; 'वापि ह्रस्वश्चे'ति न्यासेन सिद्धेः सिद्धान्तेऽप्युक्तयोगविभागवैयर्थ्येन तस्योक्तांशज्ञापकत्वा- सम्भवात्, 'ङिति ह्रस्वश्चे'त्यत्र नित्यस्त्रीत्वसम्बन्धो 'वामी'त्यत्र च 'अतिश्रियामति- श्रीणाम्, ब्राह्मणानामि'ति सिद्धयर्थं तदसम्बन्ध इति भाष्यसम्मतसिद्धान्तस्य असिद्धया तथाविधैकयोगस्य कर्तुमशक्यत्वाच्च । स्पष्टं चेदं तत्रैव सूत्रे शब्देन्दुशेखरटिप्पणे । अत एवेति । न्यायमूलत्वादैवेत्यर्थः । विशेष्यविशेषणसन्निपात इति । अभेद इत्यर्थः । अत एवेति । अभेदस्यापि ग्रहणादेवेत्यर्थः । तुक्यजन्तत्वविघात इति । इदं अभेद इत्यर्थ इति । तस्याप्युपजीव्यत्वात्, परिभाषाया सन्निपातपदेन उपजीव्यमात्रस्य ग्रहणात् । ज्ञापकसिद्धत्वाङ्गीकारे तु तत्साजात्यात् पौर्वापर्यलक्षणसन्निपात एव गृह्येतेति भावः ।
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८९ न च अर्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतयाऽसिद्धत्वम् ; अर्थकृतबहि- रङ्गतवानाश्रयणस्योक्तत्वात् । किञ्च ‘षत्वतुकोरसिद्ध’ इत्येतद्बलात् कृति- तुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तेः । सर्वविधसन्निपातग्रहणादेव वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यादित्येतत् परिभाषादोषनिरूपणावसरे वार्तिककृतोक्तम् । नहि प्रत्ययः पूर्वपरसन्निपातनिमित्तकः, स एव च सन्निपातशब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तक इति शङ्कायां तदभ्युपेत्याङ्गसंज्ञा तर्ह्यनिमित्तं स्यादित्येकदेशिनोक्तमिति न तद्भाष्यविरोधः । किञ्चैवं ‘शैवो गार्ग्यो वैनतेय’ इत्यादावपि अङ्गसंज्ञाया लोपनिमित्तत्वानापत्त्या वर्णाश्रय इत्यस्य वैयर्थ्यम् । ह्रस्वस्यैव तुगागम इत्यभिप्रायेण । तत्पक्षे ह्यागमसन्निधाने तद्विशिष्टेऽच्त्वेऽपि तकारस्य समुदायावयवत्वम् अवयवावयवन्यायगम्यं पाश्चात्यमिति आगमविधानकालिकाजन्तत्व- विघातो दुर्वार एव । ह्रस्वान्तस्य तुगागमे तु यदागमन्यायेन विधानवेलायामेव अव- यवत्वंग्रह इति नास्त्यजन्तविघात इति बोध्यम् । वार्तिककृतोक्तमिति । अन्यथा पूर्वपरसन्निपाताभावादेतद्विरोधः स्पष्ट एव । एक- देशिनोक्तमिति । ननु विशेष्यविशेषणसन्निपातं बुद्ध्वा प्रवृत्तं भाष्यं कुतो नैकदेशीति चेन्न । मानाभावात्, 'जराया जरस्'त्यादिसूत्रारम्भसामर्थ्येन आतिदेशिकसन्निपात- विघाताभावमादाय तदप्रवृत्तिर्नेत्यत्र अतिदेशपदेन एकदेशविकृतन्यायातिरिक्तस्य ग्रहणेन अङ्गत्वस्य विघाताभावादङ्गसंज्ञा तर्ह्यनिमित्तमिति भाष्ये एवैकदेश्युक्तिकथनस्य युक्तत्वात् । अत एव ‘अजरांसी’त्यत्र जरसादेशोत्तरं नुम् भाष्ये उक्तः ; अन्यथा अङ्गत्व- स्याऽऽदेशेन विघातेन नुमोऽप्राप्त्या तदसङ्गतिः । अत एव च ‘वर्णाश्रयः प्रत्यय’ इति प्रत्युक्तम् ; अन्यथा ‘शैव’ इत्यत्रापि अङ्गत्वविघातेन वर्णाश्रय इति कथनमयुक्तमेव स्यात् । अत एव कतेर्नामीति वक्तव्ये सामान्येन नामीति दीर्घविधानेन सन्निपातपरिभाषाया अनित्यत्वोपवर्णनं शेखरोक्तं सङ्गच्छते ; अन्यथा ‘कतीनामि’त्यत्र तेन दीर्घे षट्त्वविघातः स्पष्ट एवेति दिक् । ननु विशेष्य-विशेषणसन्निपातग्रहणादेव ‘ग्रामणिपुत्रे’त्यादौ तुग्वारणसम्भवेऽन्त- तद्विशिष्टेऽच्त्वेऽपीति । इदमग्रिमञ्च नव्यमतेन बोध्यम् । सूत्रारम्भसामर्थ्येनेति । अङ्गत्वमुपजीव्य जायमान आदेशोऽङ्गत्वस्य विघातकः कथं भवेदिति सूत्रमेव व्यर्थं स्यादिति भावः । एकदेशविकृतन्यायेति । इदमुपलक्षणम्—स्थानि- वद्भावस्य, अन्यथा न्यायस्य सर्वविकारतया अप्राप्तेः । नुमोऽप्राप्त्येति । जरसोऽप्राप्त्येति युक्तः पाठः । वस्तुतः—‘गौरी’त्यादौ अतिव्याप्ति- परक-‘कृन्मेजन्त’भाष्यासङ्गत्या स्थानिवद्भावोपलक्षकत्वं वक्तुमशक्यमिति चिन्त्यमेतत् ॥ ८६ ॥ ३७
२१० परिभाषेन्दुशेखरः ३ प्रकरणे- 'ग्रामणिकुलम्, ग्रामणिपुत्र' इत्यादौ उत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद् बहिरङ्गपरिभाषयाऽपि वारणं सम्भवतीति 'कृन्मेजन्त' इत्यत्र 'ह्रस्वस्य पिती'ति सूत्रे चैकदेशिना तया परिभाषया तुग्वारितो भाष्ये। अत एव परिभाषाफलत्वेनेदमुक्तं 'कृन्मेजन्त' इति सूत्रे वार्तिक- कृतेति केचित् । सन्निपातलक्षणविधित्वमस्या लिङ्गम् । स्वप्रवृत्तेः प्राक् स्वनिमित्त- भूतो यः सन्निपातस्तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति । नन्वेवं 'रामाये'त्यादौ 'सुपि चे'ति दीर्घानापत्तिः, अदन्ताङ्ग-ङेसन्नि- पातेन जातस्य यादेशस्य तद्विघातकत्वात् । न च यजादिवत्सापेक्षदीर्घस्य बहिरङ्गतयाऽसिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम् ; आरोपिता- रङ्गपरिभाषया तुग्वारणं भाष्योक्तमसङ्गतमित्यत आह—उत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिदिति । ईधातोः क्विपि ह्रस्वे 'इ+कुलमि'त्यत्र बहिरङ्गत्वभावात् तुग्वारणा- यास्य आवश्यकत्वमिति तदाशयः । एकदेशिनेति । 'नाजानन्तर्य'परिभाषाऽज्ञानेन प्रवृत्त- त्वादस्य एकदेश्युक्तित्वमिति भावः । अत एवेति । अस्यैकदेश्युक्तित्वादेवेत्यर्थः । परिभाषा- फलत्वेनेति । सन्निपातपरिभाषाफलत्वेनेत्यर्थः । सन्निपातलक्षणविधित्वमिति । सन्निपातलक्षणशास्त्रत्वमित्यर्थः । विधिशब्दे करणे क्तिप्प्रत्ययात् । एवं चास्या 'न तिसृ'ति शास्त्रदेशीयत्वेन सापादिकतया त्रिपाद्यास्तादृश- शास्त्रत्वप्रकारकज्ञानाभावात् तत्रेयं न प्रवर्तते । अत्र मानं च 'मय उञो वो वा' इत्यनेन वकारविधानमेव । तस्यास्त्रिपाद्यां विधानं वत्वस्यासिद्धत्वादनुस्वाराभावार्थम् । अस्याः त्रिपाद्यां प्रवृत्तौ तु तयैवानुस्वारवारणे 'इको यणची'त्युत्तरं 'मय उञो वो वे'ति पाठेन यणोऽनुवृत्त्या चेष्टसिद्धौ तद्वैयर्थ्यं स्पष्टमेव । अत एव च 'नर्तिष्यती'त्यत्रेष्टः सकार- निमित्तकत्वेऽपि षत्वम्, 'धुक्षीष्टे'त्यत्र धत्वस्य दादित्वनिमित्तकत्वेऽपि भष्भावः, 'जग्ध- मि'त्यत्र जग्धादेशस्य तकारनिमित्तत्वेऽपि धत्वम्, 'द्रक्ष्यतो'त्यत्र 'षढोरि'ति कत्वस्य सकारनिमित्तत्वेऽपि षत्वम्, 'सञ्छम्भुरि'त्यत्र तुकः शकारनिमित्तकत्वेऽपि 'शश्छोऽटी'ति च्छत्वं चेत्यादि सिद्ध्यतीति भावः । स्वप्रवृत्तेः प्रागिति । अत्र तद्विघातकेति कान्तपाठस्त्वयुक्तः, किन्तु तद्विघातस्येति घञन्तपाठ एव युक्तः; अन्यथाऽनन्वयापत्तेः । स्वातिरिक्तशास्त्रस्य = 'सुपि चे'त्याद्यति- रिक्तस्य 'ङेर्य' इत्यादिशास्त्रस्य । स्वप्रवृत्तेः प्राक् = 'सुपि चे'त्यादिप्रवृत्तेः प्राक् । स्वनिमित्त- भूत = 'सुपि चे'त्यादिशास्त्रनिमित्तभूतः । तथा च स्वनिमित्तभूतः सन्निपातः स्वनिमित्त- भूतसन्निपातसम्पादकस्य स्वातिरिक्तशास्त्रस्य निमित्तभूतः सन्निपातश्चेत्युभयविधोऽपि गृह्यते इति सूचितम् । एतदुभयविधसन्निपातसङ्ग्रहायैव 'स्वप्रवृत्तेः प्राक् स्वनिमित्त- भूत' इत्युभयोपादानम् । एतद्ग्रन्थबोधितसङ्कोचप्रकारः प्राक् प्रदर्शित एवेति बोध्यम् ।
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९१ सिद्धत्वेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः । किञ्च अन्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः । किञ्च आतिदेशिकसन्निपातविघाताभावमादाय एतत्प्रवृत्तौ ‘गौरी’त्यादौ सम्बुद्धि- लोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात् तत्रैतस्य अति- व्याप्तिपर-‘कृन्मेजन्त’-इतिसूत्रस्थभाष्यासङ्गतिः । सन्निपातस्य अशास्त्रीयत्वा- त्रात्र स्थानिवत्त्वमिति चेत् ; तर्ह्यत्रासिद्धत्वमपि कथमिति विभावय, अशास्त्रीयेऽसिद्धत्वाप्रवृत्तेः, ‘ईदूदेदि’ति सूत्रे कैयटेन स्पष्टमुक्तत्वात् । एवञ्च पूर्वत्रासिद्धीयेऽपि कार्ये एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेन्न । ‘कष्टाये’ति निर्देशेनैतस्या अनित्यत्वात् । ययोः सन्निपातस्य विघातकं शास्त्रं तयोः सन्निपातनिमित्तकविधौ उपादानमपेक्षितमिति तु नाऽऽग्रहः । अत एव ‘दाक्षिरि’त्यत्र अकारान्त- प्रकृतीन् सन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽल्लोपस्य निमित्तं न स्यादित्याशङ्क्य अनित्यत्वेन समाहितं ‘कृन्मेजन्त’ इति सूत्रे भाष्ये—‘‘न- हाङ्गसंज्ञायामदन्तस्याङ्गसंज्ञे’’त्युक्तमस्ति । न च ‘कुम्भकारेभ्य, आधय’ इत्यादौ अव्ययसंज्ञाया अनया परिभाषया वारणपरभाष्यासङ्गतिः, अनया परिभाषया लुङ्मा भूत्, अव्ययत्वं तु स्या- देव, लुका हि तदीयसन्निपातस्य विघातो नाव्ययसंज्ञया, संज्ञाफलं त्वकच् स्यादिति वाच्यम् ; एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात्परम्परया वा वस्तुतस्तद्विघातेति । ननु शास्त्रप्रवृत्तौ च तद्बुद्धिरेव नियामिका, न तु वास्तविकी तत्सत्ता ; अन्यथा ‘हर+एही’त्यत्र यलोपस्यासिद्धत्वेऽपि वृद्धिर्दुर्वारैत्य- रुचेराह—किञ्चेति । ननु ‘डेर्य’ इत्यस्य प्रवृत्तेः प्रागेवाऽभ्यनुज्ञाकाले ‘मत्सन्निपात- विघातकः क’ इति जिज्ञासायां ‘सुपि चे’त्यस्योपस्थित्या तस्य बहिरङ्गत्वमिति न तत्कृतं विघातं पश्येदित्यरुचेराह—किञ्चेति । अशास्त्रीयत्वादिति । वस्तुतः—अत्र प्रत्ययसत्ताबोधनमेव आवश्यकम्, सन्निपातस्त्वार्थसमाजग्रस्त एवेति चिन्त्यमेत- दिति केचित् । समाहितमिति । यद्यपीदं भाष्यमेकदेशि ; तथाप्यत्रांशे मानं भवत्येवेति बोध्यम् । परम्परयेति । लुग्द्वारा एत्वनिमित्तविभक्तिनाशादित्यर्थः । नन्वेवं ‘सत्यूखतुः’ इत्यत्र सवर्णदीर्घानापत्तिः, लिड्विघातक-लुक्प्रयोजका-ऽम्सम्पादकगुरुमत्वसम्पादक- त्वेन दीर्घस्य परम्परया द्वित्वोपजीव्यलिड्विघातकत्वादिति चेन्न । विधिद्वया- घटितपरम्पराया एव ग्रहणेनादोषात् । अत्र-चैतद्भाष्यमेव मानम् ।
स्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्तमित्यर्थेनादोषात् । एतेन अत्र अकच् स्यादित्यपास्तम् । न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधेऽपि अकजेकवाक्यता- पन्ना स्यादिति वाच्यम् ; अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्ग- गुणादेरसिद्धत्वात् । लुगेकवाक्यतापन्ना तु न, गुणादितोऽन्तरङ्गोभयोरपि शब्दतः सुबाश्रयत्वात् । 'न यासयोरि'ति निर्देशाच्चैषा अनित्या, तेन नातिप्रसङ्गः । स्पष्टा चेयं 'कृन्मेजन्त' इति सूत्रे भाष्ये । अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि । वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तम् 'दाक्षिः' । आत्त्वं पुग्विधेः 'क्रापयति' । पुग् ह्रस्वस्य 'अदीदपत्' । त्यदाद्यकारष्टाब्बिधेः 'यासे'ति । इड्विधिराकार- लोपस्य 'पपिवान्' । 'ह्रस्वनुड्भ्यां मतुप्, अन्तोदात्तादुत्तरपदादि'ति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य 'अग्निमान्, परमवाचा' । नदीह्रस्वत्वं सम्बुद्धिलोपस्य 'नदि, कुमारी'त्यादि । यादेशो दीर्घत्वस्य 'कष्टाय' । इतोऽन्यत्र प्रवृत्तिरेव, 'दोषाः खल्वपि साकल्येन परिगणिता' इति- भाष्योक्तेरित्यन्यत्र विस्तरः ॥ ८६ ॥ अन्तरङ्गायामिति । अकचः स्वार्थिकत्वादिति भावः । शब्दत इति । अकच् तु सुबुत्पत्त्यनन्तरं प्रवर्तमानोऽपि न तथा सुबाश्रय इति भावः । पुग्विधेः क्रापयतीति । ननु 'आतिदेशिके'त्यत्र यदागम न्यायातिरिक्तत्वेन सङ्कोचः । अत एव 'साम आकमि'त्यत्र सुटस्त्वामोऽवयवत्वान्न सन्निपातविघात इत्युक्तं भाष्य-शेखरयोः । किञ्च 'आतिदेशकसन्निपातविघाताभावेऽप्येषा प्रवर्तते' इत्यत्र बीजं हि अतिदेशेन तत्त्वबुद्धावपि अतिदेशप्रवृत्तेः पूर्वक्षणेषु विघातोऽस्त्येवेति, तच्च यदागम न्यायविषये नास्ति, विधानकाल एव अवयवत्वेन बोधनात् । एवं च न 'क्रापयती'त्यत्र अनित्यत्वफलमिति चेन्न । 'क्रीङ्जीनामि'त्यनेन णिजव्यवहित- पूर्ववर्तिनिर्दिश्यमानावयवेच आत्त्वविधानेन पुकि सति निर्दिश्यमानत्वविघातेन अनित्यत्वस्याऽऽवश्यकत्वात् । यदागमन्यायेन निर्दिश्यमानत्वं तु न ; 'अपिबत्' इत्यत्रापि अडागमसहितस्य पिबादेशापत्तेरित्युक्तमधस्तात् । अग्निमानिति । अन्तोदात्तत्व- मुपजीव्य जायमानेन मतुबुदात्तत्वेन शेषनिघातद्वारा तद्विघातः स्पष्ट एवेति बोध्यम् । इतोऽन्यत्रेति । एतदुदाहरणात् 'एचोऽयवायाव्' इत्यादिनिर्देशाच्च सन्धिकार्ये- ऽप्येषा न प्रवर्तते । तत्राऽऽत्त्वमुपजीव्य जायमानेन उत्वेन गुणद्वारा तद्विघातः स्पष्ट एव । अत एव 'गवाग्रमि'त्यादिसिद्धिः ॥ ८६ ॥
८७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९३ ननु 'पञ्चेन्द्रण्यो देवता अस्य, पञ्चेन्द्र' इत्यादौ 'द्विगोर्लुगि'त्यणो लुकि 'लुक् तद्धित' इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिरत आह— सन्न्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः ॥ ८७ ॥ —: ❃ :— अत्र च 'बिल्वकादिभ्यश्छस्य लुगि'ति सूत्रस्थं छग्रहणं ज्ञापकम्। तद्धि सन्न्नियोगशिष्टानामिति । 'सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टाः, अन्यतरश्च अन्यतरश्च अन्यतरश्च अन्यतरे, तेषामपाये' इति च विग्रहः ; अत एव बहुवचनोपपत्तिरिति—केचित् । परे तु—द्वित्वविशिष्टसन्न्नियोगशिष्टत्वावच्छिन्नबोधकतया सन्न्नियोगशिष्ट- पदस्य बहुवचनान्तत्वोपपत्तिः । एकशेषेण तु न निर्वाहः ; यावतामेकशेषः क्रियेत तावतां ग्रहणेऽपि अवशिष्टानांग्रहणप्रसङ्गात्, विवक्षितसंख्याज्ञानं च दुर्लभम्, 'उभयोरि'त्यत्र 'उभयेषामि'त्यापत्तिश्चेत्याहुः । अन्यतरसमभिव्याहारे सन्न्नियोगशिष्टानामिति बहुवचनमनुपपन्नमत आह—सन्न्नियोग- शिष्टौ चेति । परे त्विति । सन्न्नियोगशिष्टत्वम्—समुच्चयेन विहितत्वं द्वयोर्द्वयोरेव दृष्टमिति प्रत्येकं बोधकवत् सन्न्नियोगशिष्टत्वेन उभयबोधकतात्पर्येण एकशेषमन्तराऽपि सन्न्नियोगशिष्टपदप्रयोगो भवितुमर्हति, अन्यतरपदसमभिव्याहाररूपतात्पर्यग्राहकवशात्, 'घटौ' इतिवत्। तदुक्तं सरूप- सूत्रभाष्ये—"अर्थौ अर्थौ प्रति च यत् तदपि प्रत्यर्थम्, अर्थान् अर्थान् प्रति च यत् तदपि प्रत्यर्थमेव" इति ; तदाऽऽह—द्वित्वविशिष्टेति । ननु द्वित्वस्य द्वित्वत्वेन शक्यतावच्छेदककोटौ प्रवेशे नित्यद्विवचनान्तप्रयोगोपपत्तिः, ताभ्यां सन्न्नियोगशिष्टो 'ङीप् च' इति एकवचनान्तप्रयोगानुपपत्तिश्च । लक्षणया तथा बोधनसम्भवेऽपि सामान्यतो द्वित्वत्वेन द्वित्वप्रवेशे अनभीप्सितद्वित्ववतामपि बोधप्रसङ्गः । तत्तद्द्वित्वत्वेन द्वित्वप्रवेशे तु विवक्षितानां तावतां ज्ञानं दुर्लभं स्यादिति चेत्—सत्यम् । वस्तुतो द्वित्वविशिष्टस्य सन्न्नियोग- शिष्टत्वेन बोधकमिति तदर्थात् । एतेन सन्न्नियोगशिष्टपदं द्वित्वविशिष्टसन्न्नियोगशिष्टत्वावच्छिन्न- बोधकमित्ययुक्तमेव, ताभ्यां सन्न्नियोगशिष्टो 'ङीप् चे'ति दीक्षितोक्त्या द्वित्वस्य सन्न्नियोगशिष्टपद- प्रवृत्तिनिमित्तकोटौ अप्रवेशादिति कैश्चिदुक्तं तत्परास्तम् । उभयात्मकाश्च यावन्तो सन्न्नियोगशिष्टाः, तेषां बहुत्वान् बहुवचनान्ततोपपत्तिः । अत एव एकशेषेण न निर्वाहः, प्रत्यर्थंशब्दन्निवेश इति पक्षे हि एकशेषारम्भात् ; तदेतदाह – एकशेषेण तु नेत्यादि । अवशिष्टानांग्रहणप्रसङ्गादिति । यत्तु—अष्टाध्याय्यां यावन्तः सन्न्नियोगशिष्टास्तेषां सर्वेषामेकशेषकरणेन अवशिष्टाभाव एव इति। तन्न ; तावतां सन्न्नियोगशिष्टानामास्माकमेकशेष- प्रवृत्तिकाले ज्ञानासम्भवात् । आचार्याणां तज्ज्ञानसम्भवेऽपि अस्मदुद्देशेन तेषां शास्त्रप्रवृत्तेः, अस्माकं तज्ज्ञानस्य तदानीमसत्त्वेन वाक्यार्थबोधविलयप्रसङ्गात् । कथञ्चित् तत्सम्भवेऽपि तावता- मेकशेषकरणे गौरवापाताच्च ।
२९४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्यर्थम् । कृतकुगागमा नडाद्यन्तर्गता बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन ।
समुच्चयेन विहितघटकान्यतरस्यापाये सम्भाविते तदुभयोरप्यनुत्पत्तिः कर्तव्येति परिभाषार्थः । यथाश्रुतं तु न सम्यक् ; एकस्यापाये उभयस्याभावात् । वस्तुतः—एकसत्त्वे उभयाभावबुद्धावपि 'एकस्मिन्नष्टे उभयं नष्टमि'ति व्यव- हारस्य लोके असत्त्वेन यथाश्रुतार्थेऽपि दोषविरहः । अत्र केचित्—इयं परिभाषा धर्मिग्राहकमानाल्लुग्विषया, तेन 'फौल्लिरि'त्यत्र उकारनाशेऽपि न लत्वस्य निवृत्तिः । 'खेयमि'त्यत्र इकारनिवृत्तावपि क्यपो न निवृत्तिः । 'तार्तीयीक' इत्यत्र सम्प्रसारणनाशेऽपि न प्रत्ययनाश इति वदन्ति । तन्न युक्तम् ; 'वातातीसाराभ्यामि'ति निष्पन्नवातकिशब्दादपत्येऽणि टिलोपे कुको निवृत्त्यभावापत्त्या 'वात' इति रूपासिद्धिप्रसङ्गात् । लुगितरत्र प्रवृत्तिस्वीकारादेव 'ऐनेय' इत्यत्रैतत्परि- भाषाप्रयोजनकारनिवृत्त्यभावाय पूर्वस्य स्थितौ स्थानिवद्भावाश्रयणमाकरोक्तं सङ्गच्छते । अस्याः परिभाषायाश्चान्यतरस्य प्रधानस्य निवृत्तौ तदितरस्याप्रधानस्य निवृत्तिरित्यर्थ आश्रीगते, तेन 'फौल्लिरि'त्यत्र निष्ठादेशप्रकरणे लत्वस्यैव प्राधान्या- दुत्वस्याप्रधानत्वेन तन्निवृत्तावपि न लत्वनिवृत्तिः । एवमन्यत्र प्रत्ययविधानप्रकरणेन इत्व-सम्प्रसारणयोरप्राधान्यात् न तन्निवृत्तावनया प्रत्ययनिवृत्त्यापत्तिः । एवम् 'ऐनेय' इत्यत्र च ङीप एव प्राधान्यात्तन्निवृत्तौ प्राप्तनकारनिवृत्त्यभावार्थं स्थानिवत्त्वमप्या- वश्यकमिति दिक् । केचित्तु—'अचः परस्मि'ति सूत्रे भावसाधनविधिशब्दान्त-पूर्वविधिशब्दे- ऽप्यविशेषात् पञ्चमीसमासाश्रयणेन 'फौल्लिरि'त्यादावपि पूर्वत्वेन दृष्टात् फकारादेः परस्थ लकारादेः स्थितौ कर्तव्यायां स्थानिवद्भावेन अन्यतरापायाभावेन लकारादे- र्निवृत्तिः सुलभा । न च पञ्चमीसमासपक्षेऽव्यवहितपरस्यैव ग्रहणम्, अत एव 'हे गौरि'त्यत्र सुलोपो नेति प्रकृते तदसम्भव इति वाच्यम् ; 'हे गौरि'त्यत्र पञ्चमी- समासप्रयुक्तस्थानिवद्भावस्य अनित्यत्वेनाप्रवृत्तावपि इष्टप्रयोगे तदप्रवृत्तकल्पने मानाभावादिति वदन्ति । यथा स्यादिति । एतत्परिभाषाभावे च कुको निवृत्तेरप्राप्तौ तद्वैयर्थ्यं स्पष्ट- मेवेति भावः । कृतकुगागमा इति । व्याख्यानादिति भावः, तेन कप्रत्ययान्तबिल्वक-
सम्भावित इति । अन्यथा 'पञ्चभिरेनीभिः क्रीत, पञ्चैत' इत्यत्र नकारापायेऽपि तकारश्रवणं न स्यात् ; 'देवदत्तहन्तृहत'न्यायेन । स्थानिनिवृत्त्याऽऽदेशस्थित्योरित्यर्थ उभयो- रित्यस्य इति—परे । रूपासिद्धिप्रसङ्गादिति । ननु इष्टापत्तिरेवेति चेदाह—लुगितरेत्रेति । इति दिगिति । नन्वेवमन्यतरस्य अप्रधानत्वेऽन्वाचयशिष्टत्वं स्यात्, न तु समुच्चयं- शिष्टत्वमित्यस्वरस इति समाधानान्तरमाह—केचित्त्विति । व्याख्यानादितीति । 'बिल्वकादिभ्यः' इति गणेन निर्देशसामर्थ्यादित्यर्थः । नहि
An accurate, line-by-line transcription of the Sanskrit text on the page in Devanagari:
८७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९५ न चैवमपि छग्रहणं व्यर्थम्, कृतकुगागमानुवादसामर्थ्यादेव तदनिवृत्ति- सिद्धेः, अन्यथा बिल्वादिभ्य इत्येव वदेत्, 'लक्षणप्रतिपदोक्त'परिभाषया बिल्वादिपुरस्कारेण विहितप्रत्ययस्यैव लुग्विधानान्नातिप्रसङ्ग इति वाच्यम् ; ततोऽपि प्रतिपदोक्तत्वेन 'बिल्वादिभ्योऽण्' इति विकारार्थस्य लुगापत्ति- वारणार्थं कुगनुवादचारितार्थ्यात् । समुच्चयार्थक-चशब्दयोगे तु विधेययो- रेककालिकत्वैकदेशत्वनियमात् न्यायसिद्धाऽपीयम् । यत्तु 'णाविष्ठवद्दि'त्यनेन पुंवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम् ; अन्यथा 'एतयती'त्यादौ टिलोपेनैव ङीपि निवृत्ते 'सन्नियोगशिष्ट'परिभाषया नस्यापि निवृत्त्या '
२९६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ‘ऐनेयः, श्यैनेय’ इत्यादि तु स्थानिवत्त्वेन सिद्धमित्यन्यत्र विस्तरः ॥८७॥ ननु ‘चुरा शीलमस्याः सा, चोरी’त्यादौ ‘शीलम्, छत्रादिभ्यो ण’ इति णे ङीप् न प्राप्नोतीत्यत आह— ताच्छीलिके णेऽण्कृतानि भवन्ति ॥ ८८ ॥ —: ❖ :— ‘अन्’ इत्यणि विहितप्रकृतिभावबाधनार्थं ‘कार्मस्ताच्छील्ये’ इति निपातनमस्या ज्ञापकम् । ताच्छीलिकणान्तात् ‘अणो द्व्यच’ इति फिज्सिद्धिरप्यस्याः प्रयो- जनमिति नव्याः । ताच्छीलिक इत्युक्ते ‘तदस्यां प्रहरणमि’ति णे ‘दाण्डे’त्येव । ‘कार्म’ इति सूत्रे भाष्ये स्पष्टा ॥ ८८ ॥ ननु ‘कंसपरिमृद्भ्यामि’त्यादौ मृजेर्वृद्धिदुर्वारित्यत आह-- धातोः कार्यमुच्यमानं तत्प्रत्यये भवति ॥ ८९ ॥ —: ❖ :— ‘भ्रौणहत्ये’ तत्त्वनिपातनमस्या ज्ञापकम् । ‘धातोः स्वरूपग्रहणे प्रत्ययसत्तार्थं पुंवद्भावावश्यकत्वम् । सति तु तस्मिन् स्त्रीत्वप्रयुक्तलुको निवृत्त्या तद्धित- निमित्तकाऽऽदिवृद्ध्यादिसिद्धिरिति भावः । केचित्तु—सन्नियोगशिष्टन्यायेन निवृत्त्यभावरूपपूर्वविधिसत्त्वेन एकेनैव उभयार्थ- सिद्ध्या न तन्त्रस्याऽऽवश्यकत्वमिति वदन्ति ॥ ८७ ॥ शीलमिति । शीलमित्यनुवर्त्तमाने इत्यर्थः । अण्कृतानीति बहुवचनफलमाह—ताच्छोलिकेति । नव्या इति । तथा चैतद्भाष्याननुगृहीतं फलमित्यस्वरसः । ‘छत्रादिभ्योऽणि’ति वक्तव्ये णेग्रहणादेषाऽनित्या, तेन ‘च्छात्रे’त्यत्र न ङीबिति बोध्यम् ॥ ८८ ॥ तत्प्रत्यय इति । धातुत्वावच्छिन्नोद्देश्यताके प्रत्यय इत्यर्थः । तत्त्वनिपातनमिति । न च कुत्वाभावार्थं निपातनावश्यकत्वेन ज्ञापकत्वासम्भव इति वाच्यम् ; ‘हो हन्तेरि’त्यत्र णित्साहचर्यात् ञितोऽपि ण्वञतिरिक्तस्य ग्रहणेन मूले—स्थानिवत्त्वेनेति । एतेन ‘भस्याढे तद्धिते’ इत्यत्राऽऽढे इति निषेध एव अनि- त्यत्वे मानमिति केषाञ्चिन्मतं परास्तम् ॥ ८७ ॥
८९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९७ तत्प्रत्यये कार्यविज्ञानमि’ति पाठस्तु ‘प्रसृड्भिरि’त्यादौ ‘अनुदात्तस्य चदुं- पधस्ये’त्यमापादनेन भाष्ये दूषितः । यत्कार्यं प्रत्ययानिमित्तं तत्रेयं व्यवस्थापिका, तेन पदान्तत्वनिबन्धनं ‘नशेर्वे’ति कुत्वं ‘प्रणड्भ्यामि’त्यादौ भवत्येव । इयङादिविधौ तु नैषा, ‘न भूसुधियोरि’ति निषेधेनानित्यत्वात् । ‘मृजेर्वृद्धिरि’त्यत्र भाष्ये स्पष्टा ।।८९।। कुत्वाभावस्य सुवचत्वेन ज्ञापकत्वस्य सुस्थत्वात् । पाणिनितात्पर्यविषयीभूततत्त्व- विधानस्य वैयर्थ्येन उक्तपरिभाषानुपानमित्याशयात् । अत एव भाष्यकृता “अत्र तत्त्वं निपात्यत” इति व्याख्यातम् । एतेन टिलोपाभावार्थं निपातनावश्यकत्वेन ज्ञापकत्वासम्भव इति परास्तम् । प्रत्ययनिमित्तमिति । इयं च धर्मिग्राहकमानेन प्रत्ययत्वव्याप्यधर्मावच्छिन्नो- द्देश्यताके विधावेव प्रवर्तते इति भावः । वस्तुतः—इयमुक्तिर्निष्फला, ‘नशेर्वे’त्यत्र तत्प्रवृत्तावपि ‘प्रणड्भ्यामि’त्यादौ धातूद्देश्यकक्विप्प्रत्ययपरकत्वस्य सत्त्वेन कुत्वप्रवृत्तौ बाधकाभावात् । न चैवं ‘वचिस्र्प्यो’त्यस्य प्रत्ययनिमित्तकत्वाभावेऽपि अनया धातूद्देश्यकप्रत्ययनिमित्त- कत्वापत्त्या वेञो विजन्तात् क्यचि सम्प्रसारणानापत्तिरिति वाच्यम् ; इष्टापत्तेः । अत एव भाष्ये “उच्चारणसामर्थ्यात् काम्यचः ककारस्य नेत्वमि”त्युक्तम् ; अन्यथा वेञो विजन्तात्काम्यचि सम्प्रसारणार्थं कित्त्वस्याऽऽवश्यकत्वेन तदसङ्गतिः स्पष्टैव । न चैवं किति धातौ सम्प्रसारणवारणाय ‘वच्यादिभ्यो विहिते कितौ’ति विहितविशेषणवैय्यर्थ्यापत्तिः, एनया तत्प्रत्यये सम्प्रसारणविधानेन किति धातौ तदप्राप्तेरिति वाच्यम् ; अशब्दादाचारक्विबन्ताद् घञर्थे के विजन्तवच्यादेः पूर्वं- प्रयोगे सम्प्रसारणव्यावृत्तये विहितविशेषणसार्थक्यस्य सुवचत्वात् । तत्रोक्त- परिभाषया तु न निर्वाहः, कस्य धातूद्देश्यकत्वादित्यन्यत्र विस्तरः । अनित्यत्वादिति । वस्तुतस्तु—ज्ञापकसाजात्याद् धातुत्वेतरधातुत्वव्याप्यधर्माव- च्छिन्नबोधकपदोपादने एव एतत्परिभाषाप्रवृत्तिस्वीकारेण इयङादिविधौ तदप्रवृत्त्या अनित्यत्वस्य नोपयोगः । ‘सृजिदृशोरे’त्यत्र एतत्परिभाषाप्रवृत्तेर्निंविवादतया तत्प्रत्यये इत्यस्य सम्बन्धार्थार्थिकारानुरोधेन ‘अनुदात्तस्य चर्दुपधस्ये’त्यत्रापि तद्ग्रहणेन ‘प्रसृद्भििरि’त्यत्र उक्तदोषानवकाश इति दिक् ।। ८९ ।। ज्ञापकस्य सुस्थत्वादिति । वस्तुतस्—“निपातनानि अनेक प्रयोजनानि भवन्ति, [
२९८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु 'सर्वके, उच्चकैरि'त्यादौ सर्वनामाऽव्ययसंज्ञे न स्यातामत आह- तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ ९० ॥ -: ✤ :- 'नेदमदसोरकोरि'ति सूत्रे 'अकोरि'ति निषेधोऽस्या ज्ञापकः । 'तदेक- सर्वके उच्चकैरिति । ननु 'जसः शी, अव्ययादाप्सुप' इत्यत्र विहितविशेषणसत्त्वा- न्नात्र दोष इति चेन्न । विहितपदार्थस्य सर्वनामाद्यभिन्नतदाद्यवधिकपररूपतया अकज्विशिष्टस्य तदादित्वाभावेन उक्तदोषस्य सुवचत्वात् । तन्मध्यपतित इति । तत्त्वं च निर्दिश्यमानपरिभाषायां प्राङ् निरूपितमेव ; 'गङ्गां प्रविष्टाऽनेका नदी गङ्गाग्रहणेन गृह्यते, देवदत्तस्थो गर्भो देवदत्तग्रहणेन गृह्यते' इति लोकन्यायेनायमर्थो न सिद्धयति, सर्वनामत्वादेरुपसर्गत्वादिवदुक्तपरिमाणत्वेन न्यूनेऽधिके वा शास्त्रव्यापारमन्तरा तत्त्वबुद्धेरसम्भवाद् ज्ञापकसाध्य एवायमर्थ इति 'येन विधिरि'ति सूत्रे भाष्ये विधिरि'ति ज्ञापकमाह—नेदमदस इति । इदम् 'एतत्तदोरे'ति सूत्रस्थस्य 'अकोरि'त्यस्योपलक्षणम्, 'नेदमदसोरिति' सूत्रे भाष्ये 'इदमदसोः कात्' इति न्यस्यातो भिस इति सिद्धे इदमदसोर्भिस ऐः स्यात्तर्हि कादेवेति नियम- माश्रित्य 'अकोरि'त्यस्य प्रत्याख्यानात् । विप्रतिषेधसूत्रभाष्ये 'नेदमदस' इत्येतद्घटकस्य 'अकोरि'त्यस्य एतत्परिभाषाज्ञापकत्वोपवर्णनं तु यथाश्रुतसूत्राभिप्रायेण सम्भवप्रदर्शन- मात्रपरमिति बोध्यम् । नन्वेवं निर्दिश्यमानपरिभाषायां तन्मध्यपतितत्वनिरूपणावसरे गङ्गानदी- दृष्टान्ते उद्देश्यत्वादेरसम्भवेन तत्सिद्धैतन्न्यायेऽपि तत्प्रवेशस्यायुक्तत्वात् तत्परिष्कारे 'स्वनिष्ठोद्देश्यता निरूपितविधेयताश्रयत्व'रूपसम्बन्धमनिवेश्य तत्स्थाने 'स्वसत्तो- त्तरसत्ताकत्व'रूपसम्बन्धनिवेशनं पूर्वोक्तमप्रामाणिकम् , 'येन विधिरि'ति सूत्रे भाष्ये 'विषम उपन्यास' इति ग्रन्थेन तन्मध्यपतितन्यायस्य गङ्गादिदृष्टान्तासिद्धित्व- मूले—न स्यातामिति । अपाठादिति शेषः । ननु 'सर्वके, उच्चकैः' इत्यादौ अकज्विशिष्टे सर्वनामाऽव्ययसंज्ञयोरभावेऽपि न दोषः, सुबन्तात् तद्धितोत्पत्तिरिति सिद्धान्तेन सुबुत्पत्त्यनन्तरमेव अकच्प्रवृत्त्या 'मासपूर्वाः, अत्युच्चैसो' इत्यादौ शीसुकोर्वारणाय 'जशः' शी, अव्ययादाप् सुपः' इत्यादौ विहितविशेषणस्य आवश्यकत्वेन अव्ययसर्वनामविहितजस्-सुपोः सत्त्वेनादोषादित्याशयेनाऽऽशङ्कते--नन्विति । सुवचत्वादिति । न च 'सर्व + जस्' इत्यवस्थायामेव परत्वात् शीभावादिकार्य- प्रवृत्त्युत्तरमकचि कृते अवतरणासङ्गतिरिति वाच्यम्; 'अन्तरङ्गानपि०' इति न्यायेन शीभावादिकं बाधित्वात् पूर्वमकचि 'यस्मात् प्रत्ययविधिस्तदादि'त्युक्तेः अप्रत्यय इति निषेधाप्राप्त्या जसन्तस्य प्रातिपदिकसंज्ञायां जसो लुकि पुनर्जसि अकज्विशिष्टस्य सर्वनामत्वाभावेन ततो विहितत्वाभावात् सर्वनामाभिन्नतदाद्यवधिकपरत्वाभावाच्च शीभावाप्राप्त्याऽवतरणसङ्गतेः सूपपादत्वात् ॥ ९० ॥
९०-९१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९९ देशभूतं तद्ग्रहणेन गृह्यते' इति 'येन विधिरि'ति सूत्रे भाष्ये पाठः ॥९०॥ ननु 'गातिस्थाघुपाभूभ्य' इति सिचो लुक् 'अपासीदि'त्यादौ पातेरपि स्यादत आह— लुग्विकरणालुग्विकरणयोर्लुग्विकरणस्य ॥ ९१ ॥ —: ✤ :— अस्याश्च ज्ञापकः 'स्वरतिसूती'ति सूत्रे सूडिति वक्तव्ये सूतिसूयत्योः पृथङ् निर्देश इति कैयटः । तन्न ; साहचर्यादलुग्विकरणस्यैव ग्रहणे प्राप्ते पृथङ्निर्देशस्य तज्ज्ञापकत्वासम्भवात् । ध्वनिता चेयं परिभाषा 'यस्य विभाषे'त्यत्र भाष्ये । तत्र हि विदित इति प्रयोगे निषेधमाशङ्क्य "यदुपाधेर्विभाषा तदुपाधेर्निषेधो 'विभाषा गमहनविदविशाम्'ति सूत्रे शविकरणस्य ग्रहणं लुग्विकरणश्चायमि"त्यु- क्तम् । तत्र चो हेतौ ; यतोऽयं लुग्विकरणोऽतो विशिसाहचर्याच्छविकरणस्य ग्रहणं न तु हनिसाहचर्यादस्यापि, एतत्परिभाषाविरोधादिति तदाशयः । अत एव परिभाषायां लुग्विकरणस्यैवेति नोक्तम् । कण्ठतस्तु भाष्ये एषा क्वापि न पठिता । 'गातिस्थे'ति सूत्रे पिबतेर्ग्रहणं कर्तव्यमिति वार्तिक- कृता सर्वत्रैव पाग्रहणेऽलुग्विकरणस्य ग्रहणमिति भाष्यकृता चोक्तम् । 'स्वरतिसूति' इति सूत्रे कैयटेन च स्पष्टमुक्ता ॥ ९१ ॥
प्रतिपादनात् तद्बलेऽनोक्तार्थकल्पनाया असम्भवादिति चेन्न । भाष्यकृता लोक- न्यायस्य अक्परिमाणधर्मानेयने असामर्थ्यप्रतिपादनेन परिभाषासिद्धयावदर्थासाध- कत्वबोधनेऽपि तदङ्गानामव्ययत्वादीनां लोकन्यायेनाऽऽनयनस्य भाष्यकाराभि- मततया निरुक्तसम्बन्धन्निवेशनस्र्य सप्रमाणत्वादिति दिक् ॥ ९० ॥ साहचर्यादिति । पूर्वोत्तरयोरलुग्विकरणयोः स्वरति-धूनोः साहचर्यादित्यर्थः । वस्तुतस्तु—स्वरतिधूनूदित्सूङो वेति न्यासे साहचर्याश्रयणेऽपि दोषाभावे- नेष्टसिद्धेः कैयटोक्तमपि युक्तमेवेति बोध्यम् । ननु सूति-सूयत्योः पृथङ्निर्देशस्य लुग्विकरणस्यैव ग्रहणमिति विपरीतार्थ- ज्ञापनेऽपि चारितार्थ्यसम्भवात् त्वदुक्तस्यैवाऽऽचार्याभिप्रेतत्वमित्यत्र मानाभाव इत्यत्र आह—ध्वनितेति । अन्यतरार्थस्य तेन कल्पनसम्भवेऽपि भाष्यप्रामाण्यादुक्तार्थ एव पाणिन्याभिप्रेत इति भावः । तदेवाह—अत एवेति । पूर्वोक्तभाष्यसन्दर्भेण अलुग्विकरणस्यैव ग्रहण- मित्यर्थस्याभिप्रेतत्वादेवेत्यर्थः ॥ ९१ ॥
३०० परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु 'प्रजिघाययिषती'त्यादौ 'हेरचङी'ति विधीयमानं कुत्वं न स्यादत आह— प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् ॥ ९२ ॥ —: ✤ :— अचङीति प्रतिषेध एवास्या ज्ञापकः । इयं च कुत्वविषयैव । 'हेर- चङी'ति सूत्रे भाष्ये स्पष्टेयम् ॥ ९२ ॥ ननु 'युष्मभ्यामि'त्यादौ 'भ्यस्' इत्यत्र भ्यमिति च्छेदे भ्यसो भ्यमि कृते अन्त्यलोपे एत्वं स्यादत आह— अङ्गवृत्ते पुनर्वृत्तावविधिः ॥ ९३ ॥ —: ✤ :— अङ्गे = अङ्गाधिकारे, वृत्तम् = निष्पन्नम्, यत्कार्यं तस्मिन्सति पुन- रन्यस्य अङ्गकार्यस्य वृत्तौ = प्रवृत्तौ अविधानं भवतीत्यर्थः । एषा च 'ज्यादादीयस' इत्याद्विधानेन ज्ञापिता, अन्यथा इकारलोपेन 'अकृत्सार्वे'ति दीर्घेण च सिद्धे तद्वैयर्थ्यं स्पष्टमेव । अत एव भिन्नस्थानिका- ङ्गकार्यविषयाऽप्येषा । —————— कुत्वं न स्यादिति । ननु 'हेरचङी'त्यस्य हिनोतेरभ्यासात्परस्य कुत्वमित्यर्था- दुक्तरूपे तत्सत्त्वेन कुत्वं सुवचमिति चेन्न । 'वार्ण'परिभाषायां प्राक् प्रदर्शितरीत्या द्वित्वप्रयोजकप्रत्यये इत्यस्यात्र सूत्रे सम्बन्धेनोक्तरूपे णिचो व्यवधानात्तादृश- प्रत्ययपरत्वाभावेन कुत्वाप्राप्त्युद्भावनस्य युक्तत्वात् । अत एव च 'अचङी'ति सूत्रभाष्योक्तं तज्ज्ञापकं सङ्गच्छते । कुत्वविषयैवेति । अत एव 'शाययती'त्यत्र 'अदिप्रभृतिभ्य' इति न शपो लुगिति भावः । भाष्ये स्पष्टेयमिति । तत्र हि “हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात् । ज्ञापकं तु चङोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्ये”ति उक्तम् ॥ ९२ ॥ तद्वैयर्थ्यमिति । ननु ज्यायश्शब्दाण्ण्यन्तात्क्विपि णिलोप-यलोपयोः पुनस्तस्मा- णिजन्तात्क्विपि पुकि सम्पन्नाद् ज्याप्शब्दादीयसुनि 'ज्यापायानि'ति सिद्धयर्थ- माकारविधानं चरितार्थमिति चेन्न । ज्ञापकपरोक्तभाष्यप्रामाण्येन एषामनभिधानात् , णिलोपस्य स्थानिवत्त्वेन तदप्राप्तेश्चेति बोध्यम् । अत एवेति । आदग्रहणज्ञापितत्वेन तत्साजात्यादित्यर्थः । नन्वेतत्परिभाषासत्त्वे 'येषामि'त्यादौ त्यदाद्यत्वोत्तरं 'बहुवचने' इत्येत्त्वाना-
९३-९५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३०१ इयं चानित्या, द्वयोरिति निर्देशात् । अनित्यत्वबललभ्यार्थमादायैव ‘भ्यसोऽभ्यमि’ति सूत्रे भाष्ये निष्ठातस्येति पठितम् । केचित्तु अनया परिभाषया न किञ्चिल्लक्ष्यं साध्यते । अत एव ‘ज्ञाजनोर्जा, ज्यादादीयस’ इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनमिति प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्य इत्येव प्रयोजनमुक्तम्, न तु लक्ष्य- सिद्धिरूपम् । तदुक्तम्—‘भ्यसोऽभ्यमि’त्यत्राभ्यमिति च्छेदः शेषे लोपश्चा- न्त्यलोप एव ‘अतो गुणे’ इति पररूपेण सिद्धं ‘युष्मभ्यमि’त्यन्यत्र निरू- पितम् । एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं भाष्यं ‘भ्यसोऽभ्यमि’ति सूत्रस्थं च भाष्यमेकदेश्युक्तिरित्याहुः ॥ ९३ ॥ यत्तु ‘ओरोदि’ति वाच्ये ‘ओर्गुण’ इति गुणग्रहणात्— संज्ञापूर्वकविधेरनित्यत्वम् ॥ ९४ ॥ —: ✤ :— इयं च विधेयकोटो संज्ञापूर्वकत्व एव, तेन ‘स्वायम्भुवमि’त्यादि सिद्धम् । तथा निलोडित्येव सिद्ध आनिग्रहणात्— आगमशास्त्रमनित्यम् ॥ ९५ ॥ —: ✤ :— पत्तिर अत आह—अनित्येति । निष्ठातस्येति । परिनिष्ठितस्येत्यर्थः । एवञ्च यत्राङ्गाधिकblockारीय- कार्यप्रवृत्त्युत्तरं लक्ष्यस्य परिनिष्ठितत्वं सम्पद्यते, तत्र द्वितीयमङ्गाधिकारोयं कार्यं न प्रवर्तते । यत्र तु न तथा, तत्र पुनरङ्गाधिकारीयमपरं प्रवर्तते एव । परिनिष्ठितत्वज्ञानं च शिष्टप्रयोगादितो ज्ञेयमिति तदाशयः । प्रयोजनमुक्तमिति । तच्च पिबादेशस्य आदन्तत्वादन्यथासिद्धमिति भावः । इत्यन्य- त्रेति । इत्यादिरस्या विषयोऽन्यत्र शेखरे शब्दरत्ने च विस्तरेण निरूपित इत्यर्थः ।। ९३।। इयं चेति । यत्र शास्त्रे संज्ञाशब्दो विधेयताप्रयोजकस्तस्याऽनित्यत्वमित्यर्थः । धर्मिग्राहकमानसिद्धस्यार्थस्यास्वीकारे तु प्रायः शास्त्रमात्रस्य संज्ञापूर्वकत्वेन अनित्यत्व- स्वीकारेऽनिष्टप्रसङ्ग इति भावः । स्वायम्भुवमिति । अत्र संज्ञापूर्वकत्वेन गुणस्याप्रवृत्ते- रुवङ् सिद्धयति । मूले—न तु लक्ष्यसिद्धिरूपमिति । 'युष्मभ्यम्, दवयति, स्रजयति' इत्यादिलक्ष्याणा- मन्यथासिद्धत्वादिति शेषः । तत्राऽऽद्यस्य सिद्धिप्रकारमाह मूले—तदुक्तमिति । अस्याः लक्ष्या- साधकत्वमित्यर्थः ॥ ९३ ॥
तेन 'सागरं तर्तुकामस्ये'त्यादि सिद्धम् । तथा तनादिपाठादेव सिद्धे 'तनादिकृञ्भ्य' इति सूत्रे कृञ्ग्रहणात्- गणकार्यमनित्यम् ॥ ९६ ॥ -: ❖ :- तेन 'न विश्वसेदविश्वस्तमि'त्यादि सिद्धम् । तथा चक्षिङो ङित्करणात्- अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् ॥ ९७ ॥ -: ❖ :- तेन 'स्फायन्तिर्मोक' इत्यादि सिद्धम् । तथा विनार्थेनञा समासेन अनुदात्तं पदमेकमित्येव सिद्धे वर्जं- ग्रहणात्- नञ्घटितमनित्यम् ॥ ९८ ॥ -: ❖ :- तेन 'नेयङुवङि'त्यस्यानित्यत्वात् 'हे सुभ्रु' इति सिद्धमिति । तन्न; भाष्येऽदर्शनात् । भाष्यानुक्तज्ञापितार्थस्य साधुतानियामकत्वे मानाभावात्, भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पारायणादौ अदृष्ट- मात्रार्थकत्वकल्पनाया एवौचित्यात् । किञ्च ज्ञापितेऽप्यानीत्यस्य न सार्थक्यम् , आडागमशून्यप्रयोगस्य तर्तुकामस्येति । अत्रेऽडभावसिद्धिरस्याः प्रयोजनम् । गणकार्यमिति । गणनिर्देशप्रयुक्तं कार्यमनित्यमित्यर्थः । विश्वसेदिति । अदादिगणप्रयुक्तशब्लुकः प्रवृत्त्यभावः । स्फायन्तीति । अत्र धातोरनुदात्तेत्त्वेऽपि परस्मैपदशतृसिद्धिः । हे सुभ्रु इति । अत्रानित्यत्वेन उक्तनिषेधाप्राप्त्या नदीत्वेन 'अम्बार्थ' इति ह्रस्वसिद्धिः । अदर्शनादिति । ननु शिष्टप्रयोगसमर्थनाय तत्तत्पाणिनिप्रयासवैयर्थ्यान्यथानुप- पत्त्यैतत्कल्पनेऽपि क्षतिविरह इत्यत आह-भाष्यानुक्तेति । तथा च महर्षेरज्ञानकल्पना- पेक्षया शिष्टप्रयोगाणामसाधुत्वकल्पनमेव न्याय्यमिति भावः । नन्वेवं तत्तत्परिभाषाज्ञापक- सूत्रकारप्रयत्नवैयर्थ्यमत आह-अदृष्टेति ।
'प्रानी'त्यत्र णत्वाभावाय लोड्ग्रहणमावश्यकमित्यपास्तम् ।" WAIT! Look at line 11: Wait, is it "आन-धातोः" or "आङ्-धातोः"? Wait, what root has णत्व in "प्रानी"? If the prefix is "प्र", and then comes the root. Wait, "प्र-अन्"? Prefix "प्र" has 'र्'. The root has 'न्'. If the root is "अन्" (to breathe): प्र + अन्. Wait, when does 'न्' become 'ण्'? By "उपसर्गादसमासेऽपि णोपदेशस्य" (or "अनितेः" which prohibits it, or 8.4.19 "अनितेः" vs "प्राणिति")! In "प्राणिति", 'न्' becomes 'ण्'. Now, what if the root is "अन्" in कर्मणि लुङ् चिण्? Then it would be: प्र + अन् + चिण् -> Wait, why would णत्व happen or not happen? Wait, look at the root name in line 10: Could it be "अन्-धातोः"? Look at the characters: "एतेन आन-धातोः". Wait, why "आन-"? Is there a root "आन"? Wait, what if it's "अन-धातोः"? Look at the first character: is it 'अ
३०४ परिभाषेन्दुशेखरः [३ प्रकरणे- एवमेव— आतिदेशिकमनित्यम् ॥ ९९ ॥ -: ॐ :- सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान् ॥ १०० ॥ -: ॐ :- इत्यादि भाष्यानुक्तं बोध्यम् । ‘स्वायम्भुवमि’त्यादि लोकेऽसाध्वेवेत्यन्यत्र विस्तरः ॥ ९९-१०० ॥ यदपि ननु हन्तेर्यङ्लुक्याशीर्लिङि वधादेशो न स्यादत आह— आतिदेशिकमनित्यमिति । अत्र च ‘लोटो लङ्वदि’त्यतिदेशो ज्ञापकः । अन्यथा ङ्लोङित्युक्तेऽपि ङित्कार्यान्निर्वाहे तद्वैयर्थ्यापत्तिः । तेन ‘जुह्वत्वि’त्यत्र ‘सिजभ्यस्ते’ति जुस् नेति—प्राञ्चः । वस्तुतः—सिच्साहचर्यादभ्यस्तादपि अनतिदिष्टङित्त्ववतो लकारस्य स्थाने जायमानस्य झेर्जुसित्यर्थस्वीकारेण उक्तदोषाभावादेतस्या आनर्थक्यं भाष्यानुक्तत्वेन अप्रामाण्यं चेति भावः । लोपविधिरिति । अत्र ज्ञापकञ्च ‘नाग्लोपो’त्यत्र प्रत्याहारग्रहणमिति—प्राञ्चः । वस्तुतः—तस्य वृद्धेर्लोपो बलीयानिति विशेषांशज्ञापकताया भाष्यकृतोक्तत्वेन सर्वविधिभ्यो लोपविधेर्बलवत्त्वे प्रमाणाभाव इति भावः । इड्विधिरिति । अत्र ज्ञापकं च ‘नेड्बशी’त्यत इटोऽनुवृत्तौ पुनः ‘अर्धधातुकस्ये’- त्यत्रेड्ग्रहणमिति—प्राञ्चः । वस्तुतः—तस्य भाष्यकृता प्रत्याख्यातत्वात् अर्थान्तरसङ्ग्रहाय तदावश्यकत्वस्य उपवर्णितत्वाच्चोक्तार्थज्ञापकत्वासम्भव इति बोध्यम् । लोकेऽसाध्वेवेति । वेदे तु तन्वादित्वादुवङ् सिद्ध्यति । एवं ‘वृत्रं हनति, वृत्रहे’त्यत्र ‘बहुलंञ्छन्दसी’ति शपो लुगभावो बोध्यः ॥ ९९-१०० ॥ वधादेशो न स्यादिति । लिङ्प्रकृतेः समुदायस्य हन्त्वाभावादुत्तरखण्डस्य तदा- दित्वाभावात् पूर्वखण्डस्य लिङ्परकत्वाभावादिति भावः । तन्न; तन्न्यायस्य ज्ञापकस्थले अप्रवृत्त्यङ्गीकारात् । तत्राधिकरणे सत्रयागे सर्वे एव यजमानास्तर्हि विरोधे आर्त्विजं बाध्यतेति ये यजमानास्ते ऋत्विज इति प्रत्यक्षविहितेन आर्त्विज्यस्यैव बलवत्त्वं याजमानस्य चोदकप्राप्तत्वादित्युक्तम् । एवमत्र प्रत्यक्षविहितेन इकारेण अकारोच्चारणं बाध्यत नेत्, ज्ञापकपरसकलभाष्योच्छेद एव प्रसज्येत । अत एव द्वितीयोऽपि न, सूत्रभेदं तमुपाचरन्ती- त्यादिना ‘अच उपसर्गात्त’ इति सूत्रभाष्येण तिरस्कृतत्वात् ॥ ९४-९८ ॥