भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

१६८ प्रबोधचन्द्रोदयम् ( विचिन्त्य ) आदिष्टास्मि देव्या विष्णुभक्त्या । वत्से श्रद्धे, अहमत्र हिंसाप्रायसमरदर्शनपराङ्मुखी । तेन वाराणसीमुत्सृज्य शालिग्रामाभि- धाने भगवतः क्षेत्रे कंचित्कालमतिपालयामि । त्वं तु यथावृत्तमागत्य मे निवेदयिष्यसीति । तदहं देव्याः सकाशं गत्वा सर्वमेतत्समरवृत्तान्तमा- वेदयामि । ( परिक्रम्यावलोक्य च ) एतच्चक्रतीर्थम् । यत्रासौ संसारसागरो- त्तारतरणिकर्णधारो भगवान् हरिः स्वयं प्रतिवसति । ( प्रणम्य ) इयं च महामुनिभिरुपास्यमाना भगवती विष्णुभक्तिः शान्त्या सह किमपि मन्त्र- यते । यावदुपसर्पामि । ( इति परिक्रामति ) ( ततः प्रविशति विष्णुभक्तिः शान्तिश्च ) शान्तिः—देवि, प्रबलचिन्ताकुलहृदयामिव भवतीमालोकयामि । बन्धुवधजन्मशोकाग्निर्ममान्तःकरणं छिन्दन् कायं क्लिश्यन् अन्तरात्मानञ्च दहन्निव प्रवर्धत इत्यर्थः ॥ ३ ॥ हिंसाप्रायसमरदर्शनपराङ्मुखी-हिंसामययुद्धावलोकनविमुखी । तेन-वैमुख्येन अतिपातयामि-गमयामि । वृत्तम्-समाचारः । समरवृत्तान्तम्-युद्धसमाचारम् । आवेदयामि-सूचयामि । संसार एव सागरः समुद्रस्तत उत्तारः पारगमनं तत्र या तरणिः नौः तस्याः कर्णधारः नाविकः । यः संसारसागरादुद्धारकः, यमाश्रित्य जनो भवभयादुद्धारमवाप्नोतीति तात्पर्यम् । महामुनिभिः-महर्षिभिः, उपास्यमाना- सेव्यमाना । मन्त्रयते-विचारयति । प्रबलचिन्ताकुलहृदयाम्-महत्या चिन्तया व्याकुलमनसम् । ( सोचकर ) देवी विष्णुभक्तिने आदेश दिया है—वत्से श्रद्धे, मै हिंसाप्रधान युद्ध नहीं देख सकती । अतः वाराणसी छोड़कर शालग्राम नामक क्षेत्रमें कुछ दिन प्रतीक्षा करूंगी । तुम आकर यथावृत्त समाचार मुझे बताती रहना । और मै देवीके समीप जाकर सारा युद्ध वृत्तान्त बताऊ गी । ( चलकर और देखकर ) यही तो है चक्रतीर्थ । जहाँ संसारसागरसे पार उतारने वाले स्वयं भगवान् हरि निवास करते हैं । ( प्रणाम करके ) ये हैं महामुनियोंसे आराधित भगवती विष्णुभक्ति जो शान्तिके साथ कुछ बातें कर रही हैं, जब तक समीप जाता हूं । ( समीप जाती है ) ( विष्णु भक्ति और शान्तिका प्रवेश ) शान्ति—देवि, आपको प्रबल चिन्तासे युक्त हृदय देख रही हूँ ।

पञ्चमोऽङ्कः १६६ विष्णुभक्तिः—वत्से, एतस्मिन् वीरवरक्षये महति संप्राये जाते न जाने बलवता महामोहेनाभियुक्तस्य वत्सस्यविवेकस्य कीदृशो वृत्तान्त इति दुःस्थितमिव मे हृदयम् । शान्तिः—किमत्र विचिन्त्यते । ननु भगवती देवानुग्रहा तन्नियत- मेव राज्ञो विवेकस्य विजय इति जानामि । विष्णुभक्तिः—वत्से, यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यते । कामं तथापि सुहृदामनिष्टाशङ्कि मानसम् ॥ ४ ॥ विशेषतश्च श्रद्धायाश्चिरगमनान्मनो मनसि संदेहमारोपयति । श्रद्धा:—( उपसृत्य ) भगवति, प्रणमामि । वीरवरक्षये-योधप्रधानावनाशकारणे । सम्प्राये-युद्धे । अभियुक्तस्य-युद्धोद्य- तस्य । दुःस्थितम्-व्यग्रम् । कृतानुग्रहा-प्रसन्ना । नियतम्-निश्चितम् । यद्यपीति० यद्यपि यद्यपि प्रमाणात् प्रमाणसाधनसमूहात् विजयः प्रायः सम्भवतः अवधार्यते अनुमीयते, प्रायः, तथापि विजयस्य सम्भावनाविषयत्वेऽपि सुहृदाम् युध्यमानजनमित्राणाम् मानसम् हृदयम् अनिष्टाशङ्कि अहितसम्भावनापरम् 'स्नेहः पापमाशङ्कते' इति न्यायेन सत्यामपि जयसम्भावनायां हृदयं पदं नार्धायते इत्यर्थः । प्रमाणसिद्धमन्यद्भवतु, हृदयं तु पापमेव ध्यायति, तस्य तद्विषये नातिशय- स्नेहवत्त्वात् । तदहं तद्विजये सन्दिग्धानहृदया जाये इति तात्पर्यार्थम् ॥ ४ ॥ विशेषतः-प्रधानभावेन । यदि विवेकस्य विजयः प्राप्स्यत नूनं श्रद्धाऽऽगत्य मह्यं तं समाचारमसूचयिष्यन्न चागता सा, तदहं सन्देहं वहामीति प्रसङ्गार्थः । विष्णुभक्ति—वत्से, वीरक्षयकर इस युद्धमे बलवान् महामोही अभियुक्त वत्स विवेकका क्या समाचार होगा ? इसीसे हमारा हृदय विकल है । शान्ति—इसमे चिन्ताकी क्या बात है ? जब आपकी कृपा है तो मै जानती हूँ कि निश्चय राजा विवेककी जीत होगी । विष्णुभक्ति—वत्से, यद्यपि प्रमाणसे अभ्युदय प्रमाणित होता है तथापि हितैषियोंका हृदय अनिष्टकी आशङ्का ही किया करता है ॥ ४ ॥ खास करके चिन्ताका कारण यह हो रहा है कि बहुत दिनोंसे श्रद्धा नहीं आई है । श्रद्धा—( समीप जाकर ) भगवति, प्रणाम करती हू ।

१७० प्रबोधचन्द्रोदयम् विष्णुभक्तिः—श्रद्धे, स्वागतम् । श्रद्धा—देव्याः प्रसादेन । शान्तिः—अम्ब, प्रणमामि । श्रद्धा—पुत्रि, मां परिष्वजस्व । शान्तिः—( तथा करोति ) श्रद्धा—वत्से, देव्या विष्णुभक्तेः प्रसादान्मुनिजनचेतःपदं प्राप्नुहि । विष्णुभक्तिः—अथ तत्र किं वृत्तम् ? श्रद्धा—यद्देव्याः प्रतिकूलमाचरतामुचितम् । विष्णुभक्तिः—तद्विस्तरेणावेद्य । श्रद्धा—आकर्णयतु भवती । देव्यामादिकेशवायतनादपक्रान्तायामेव किंचिदुत्सृष्टपाटलिम्नि भगवति भास्वति, विजयघोषणाहूयमानेकवरवीर- बहुलतरसिंहनादबधिरितदिगन्ते संततरथतुरङ्गखुरखण्डितभूमण्डलोच्छ- परिष्वजस्व-आलिङ्ग । प्रसादात्-अनुग्रहात् । मुनिजनचेतःपदम्-मुनिजनानां हृदये स्थानम् । तत्र-विवेकमोहयोर्युद्धे । प्रतिकूलम्-विरुद्धम् । उचितम्-योग्यम् । आकर्णयतु-शृणोतु । आदिकेशवायतनात्-केशवाख्यविष्णुमन्दिरात् । अपक्रान्ता- याम्-प्रचलितायाम् । उत्सृष्टपाटलिम्नि-त्यक्तलौहित्ये, रक्तिमान जहतीत्यर्थः । विष्णुभक्ति—श्रद्धे, तुम्हारा स्वागत है। श्रद्धा—देवीके प्रसादसे। शान्ति—मां, प्रणाम करती हूं। श्रद्धा—बेटी, मेरे गले लग जा। शान्ति—(वैसा करती है) श्रद्धा—वत्से, देवी विष्णुभक्तिके प्रसादसे मुनिजनके हृदयमे स्थान प्राप्त करो। विष्णुभक्ति—और वहाँका क्या समाचार है? श्रद्धा—देवीके विरुद्ध आचरण करने वालोंके लिये जो उचित है। विष्णुभक्ति—तो विस्तारसे बताओ। श्रद्धा—आप सुने, आपके केशवायतनसे हटते ही सूरजकी लालिमाके कुछ कम होने पर विजय घोषणासे आहूत अनेक वीरवर बार बार सिंहनाद करके दिशाओंको

पञ्चमोऽङ्कः १७१ लद्विपुलरजःपटलान्तरितकिरणमालिनि प्रबलतरकर्णतालास्फालनोच्छल- त्समदकरिकुम्भसिन्दूरसन्ध्यायमानदशदिशि प्रलयजलधरध्वानभीषणे तेषास्माकं संनद्धे सैन्यसागरे महाराजमहामोहस्य महाराजेन नैयायिक- दर्शनं दौत्येन प्रहितम् । गत्वा च तेनोक्तो महामोहः । विष्णोरायतान्यपास्य सरितां कूलान्यरण्यस्थलीः पुण्याः पुण्यकृतां मनांसि च भवान्म्लेच्छान्व्रजेत्सानुगः । भास्वति-सूर्ये । विजयघोषणया-जयशब्देन आहूयमानाः-युद्धार्थमाकार्यमाणा येऽ- नेके वरवीराः शूरश्रेष्ठास्तेषां बहुलतरेण सिंहनादेन युद्धोत्साहप्रभवघनगर्जितेन बधि- रितः शब्दान्तरग्रहणायोग्यतां गमितो दिगन्तो यत्र तस्मिन् , जातायां जयघोष- णायां तयैव वीरा आहूयन्ते, तेषां सिंहनादाश्च शब्दान्तराणि स्वशब्देरन्तरयितुं यदा प्रारम्भं कृतवन्तस्तदेत्यर्थः । सन्ततम् सर्वदा रथतुरगाणाम् रथाश्वानाम् खुरैः खण्डितात् कुट्टितात् भूमण्डलात् धरावल्यात् उच्छलताम् उपरिगच्छतां रजसां धूलीनां पटलेन समूहेन अन्तरितः तिरोभूतः किरणमाली सूर्यः यत्र तस्मिन् , तुरग- खुरोत्खातमहीसमुत्थरजोभरेण सूर्यं आच्छन्नतां गत इत्यर्थः । प्रबलतरं सम्भ्रमपूर्वकं कर्णतालास्फालनं कर्णचालनं तेन उच्छलता समुत्पतता समदकरिकुम्भसिन्दूरेण मत्तकरीन्द्रमस्तकवर्तिसिन्दूररजसा सन्ध्यायमाना दश दिशो यत्र तस्मिन् । प्रलय- जलधरध्वानभीषणे-प्रलयकालिकमेघवद्भयङ्करे । सन्नद्धे-युद्धोद्यते । सैन्यसागरे- सैनिकसमुद्रे । दौत्येन-दूतभावेन । प्रहितं-प्रेषितम् । तेन-न्यायदर्शनेन । विष्णोरिति० भवान् मोहः विष्णोः आयतानि मन्दिरादिस्थानानि सरिताम् नदी- नाम कूलानि तटानि, पुण्याः पवित्राः अरण्यस्थलीः वनभूमीः पुण्यकृतां धर्मात्मनां मनांसि च अपास्य त्यक्त्वा सानुगः कामक्रोधाद्यनुगामियुक्तः म्लेच्छान् म्लेच्छ- शब्दग्रहणअसमर्थ बनाने लगे, सतत चारों रथमे लगे हुए घोड़ों के खुर पड़नेसे भूमण्डलके धूली समूहसे सूरज छिप गये, प्रबलतर कर्णतालके आस्फालनसे उड़ते हुए मत्तगजकुम्भके सिन्दूरसे दश दिशामें सन्ध्या होने लगी, प्रलय मेघकी तरह भयङ्कर युद्धारम्भ उनके साथ हमलोगोंका हुआ, तब हमारे महाराजने महामोहके पास नैयायिक दर्शनको दूत बनाकर भेजा । जाकर उसने महामोहसे कहा- भगवान्‌के मन्दिर, जलाशयके तट, पुण्य कानन, तथा पुण्यात्माओंके हृदयको छोड़ आप म्लेच्छदेशमें अपने अनुगामियोंको साथ लेकर चले जाइये, अन्यथा तलवारकी

१७२ प्रबोधचन्द्रोदयम् नो चेत्सन्तु कृपाणदारितभवत्प्रत्यङ्गधाराक्षर- द्रक्तस्फीतविदीर्णवक्त्रविवराः फेत्कारिणः फेरवाः ॥ ५ ॥ विष्णुभक्तिः—ततस्ततः। श्रद्धा—ततो देवि, विकटललाटतटताण्डवितभ्रुकुटिना क्रुद्धेन महा- मोहेनाभिहितम्। अनुभवत्वस्य दुर्नयपरिपाकस्य विवेकहतकः फलमित्य- विधाय स्वयं पाखण्डागमाः पाखण्डतर्कशस्त्रैः समं समराय प्रथमं समुद्यो- जिताः। अत्रान्तरेऽस्माकमपि सैन्यशिरसि— वेदोपवेदाङ्गपुराणधर्मशास्त्रेतिहासादिभिरुच्छ्रितश्रीः। देशान् व्रजेत् गच्छतु। नो चेत् न यदि गच्छति तदा फेत्कारिणः फेत्कारशब्द- कृतः फेरवाः शृगालाः कृपाणेन विवेकादेः खङ्गेन दारितं द्विधाभावं गमितं यत्प्रत्यङ्गं सर्वाङ्गम् ततः धारया धाराऽऽकारेण निर्गच्छत् बहिरागच्छत् यद्रक्तं शोणितं तेन तल्लोभेन विदीर्णाः व्यात्ता वक्त्रविवराः आस्यदेशा येषां तादृशाः सन्तु। विष्णुमन्दिर- सरित्कूलवनभूमिसज्जनहृदयानि विहाय मोहो भवान् म्लेच्छाध्युषितदेशमासाद्य प्राणान् रक्षतु, एतदाज्ञाऽवसाने भवताकृते भवतः प्रत्यङ्गं खङ्गेन छिन्नं भविष्यति, ततो निर्गच्छतः शोणितस्य पाने च धृतलोभाः फेत्कारशब्दकराः शृङ्गालव्यात्तवदनाः सन्तः समन्ततोऽत्र प्रचरिष्यन्ति, तदनयोर्वर्त्मनोर्येनेष्टं तेन गम्यताम् इत्यर्थः॥ शार्दूलविक्रीडितं वृत्तम् ॥ ५ ॥ विकटललाटतटताण्डवितभ्रुकुटिना-क्रोधोदयवशात् विकटे भयङ्करे ललाटतटे भालप्रदेशे ताण्डविता नर्त्तिता भ्रुकुटिः वक्रा भ्रूयेन तेन। अनुभवतु-प्राप्नोतु। अस्य- वर्त्तमानस्य। दुर्विनयपरिपाकस्य-अविनयस्य, औद्धत्यस्येति यावत्। पाखण्डागमाः- नास्तिकशास्त्राणि। पाखण्डतर्कशस्त्रैः-नास्तिकमतयुक्तिरूपैरस्त्रैः। समराय-युद्धाय। समुद्योजिताः-सन्नद्धा। कृताः। सैन्यशिरसि-सेनाऽग्रभागे। वेदोपवेदाङ्गेति० वेदाः ऋग्यजुःसामाथर्वाणः, उपवेदाः-आयुर्वेदधनुर्वेदगान्ध- धारसे कटी आपकी देहसे बहने वाले रक्तके लिये फेरवगण मुंह बाकर फेत्कार करते हुए दौड़ेंगे ॥ ५ ॥ विष्णुभक्ति--इसके बाद ? श्रद्धा—देवि, उसके बाद भयङ्कर ललाटतटमे भौंहें नचाकर क्रुद्ध महामोहने कहा। इस अविनयका फल विवेक भोगे, ऐसा कहकर स्वयं पाखण्डागमोंको पाखण्डतर्कशास्त्रोंके -साथ युद्धके लिये नियोजित किया। इसी बीच हमारी सेनामें— वेद, उपवेद, वेदाङ्ग, पुराण, धर्मशास्त्र तथा इतिहास आदिसे शोभित पद्मधारिणी चन्द्र-

पञ्चमोऽङ्कः १७३ सरस्वती पद्मधरा शशाङ्कसंकाशकान्तिः सहसाविरासीत् ॥ ६ ॥ विष्णुभक्तिः—ततस्ततः । श्रद्धा—ततो देवि, वैष्णवशैवसौरादयो देव्याः सकाशमागताः। विष्णुभक्तिः—ततस्ततः । श्रद्धा—तदनन्तरं च— साङ्ख्यन्यायकणादभाषितमहाभाष्यादिशास्त्रैर्वृता स्फूर्जन्न्यायसहस्रबाहुनिकरैरुद्द्योतयन्ती दिशः । मीमांसा समरोत्सुकाविरभवद्धर्मेन्दुकान्तानना वर्थशास्त्रानामानश्चत्वारः, अङ्गानि शिक्षाकल्प्निरुक्तव्याकरणज्यौतिषच्छन्दांसि षट्, पुराणानि ब्रह्मवैवर्त्तादीनि अष्टादश, धर्मशास्त्राणि मानवधर्मशास्त्रादीनि, इति- हासाः भारतादयः, तदादिभिः तत्प्रभृतिः उच्छ्रितश्रीः समृद्धसौभाग्या पद्मधरा कमलाऽलङ्कृतपाणिः शशाङ्कसङ्काशकान्तिः चन्द्रसदृशदीप्तिः सरस्वती वाग्देवी सहसा हठात् आविरासीत् प्रकटीभावमापत् । एवं युद्धे प्रवृत्तकल्पे तत्तदुपाङ्गाङ्गो- पबृंहितवेदपुराणेतिहासादिभिर्दीप्यमाना वाणी तत्राविर्भूतेत्यर्थः ॥ ६ ॥ वैष्णवाः विष्णुभक्ताः, सौराः सूर्योपासकाः, तन्मतान्त्येव वा सकाशम्-समीपम् । साङ्ख्यन्यायेति० साङ्ख्यम् कापिलदर्शनम्, न्यायोऽक्षपादमतम्, कणादभाषितम् वैशेषिकशास्त्रम्, महाभाष्यं शब्दब्रह्मव्युत्पादकं व्याकरणशास्त्रम्, तदादिभिः तत्प्र- भृतिभिः शास्त्रैः वृता युक्ता, स्फूर्जन्तः पञ्चाङ्गसमन्वितत्वेन भासमानाः न्यायाः अधिकरणान्येव सहस्रबाहुनिकराः सहस्रसंख्यका भुजा इव तैः स्वावयवभूतसहस्र- सङ्ख्यकैरधिकरणैः दिशः उद्द्योतयन्ती प्रकाशयन्ती, समरोत्सुका विचाररूपयुद्धो- त्सुका, धर्मेन्दुकान्तानना धर्म एवेन्दुस्तद्वत्कान्तं कमनीयमाननं यस्या तादृशी, त्रयी त्रिनयना वेदत्रयरूपनेत्रत्रययुक्ता, मीमांसा विचारशास्त्रम् वाग्देव्याः सरस्वत्याः तुल्यकान्ति सरस्वती सहसा प्रकट हुई ॥ ६ ॥ विष्णुभक्ति—उसके बाद । श्रद्धा—देवि, उसके बाद वैष्णव, शैव, सौर आदि शास्त्र देवीके पास आये । विष्णुभक्ति—उसके बाद । श्रद्धा—तदनन्तर— सरस्वतीके आगे साख्य, न्याय, कणाद तथा महाभाष्य आदि शास्त्रोंसे युक्त मीमांसाके हजार हाथरूप किरणोंसे दिशाओंको प्रकाशमय करती हुई, समरोत्सुका और धर्मरूप

१७४ प्रबोधचन्द्रोदयम् वाग्देव्याः पुरस्त्रयीत्रिनयना कात्यायनीवापरा ॥ ७ ॥ शान्तिः—अये, कथं पुनः स्वभावप्रतिद्वन्द्विनामागमानां तर्काणां च समवायः संपन्नः । श्रद्धा—पुत्रि, समानान्वयजातानां परस्परविरोधिनाम् । परैः प्रत्यभिभूतानां प्रसूते संगतिः श्रियम् ॥ ८ ॥ पुरतः अग्रे अपरा कात्यायनी इव द्वितीया गौरीव आविरासीत् प्रकटीबभूव । कात्या- यन्यपि त्रिनयना इन्दुकान्तानना समरोत्सुका सहस्रबाहुशालिनी चेति दुर्गा सप्त- शती । यदा सरस्वती योद्धुं समनह्यत्तदा तत्पुरतो मीमांसा कात्यायनीव, प्रादुरा- सीदित्यर्थः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ७ ॥ स्वभावप्रतिद्वन्द्विनाम्-स्वारसिकविरोधिनाम् । आगमा अपि स्वभावतः पर- स्परविरुद्धाः, यथा-‘द्वे ब्रह्मणी वेदितव्ये’ इत्यस्य ‘एकमेवाद्वितीयं ब्रह्म’ इत्यतो विरोधः । तर्काणामपि परस्परविरोधः प्रसिद्ध एव । समवायः-सङ्घातः, समाने कार्ये सहभाव एवात्र समवायः । सम्पन्नः-जातः । समानेति० समाने अभिन्ने अन्वये वंशे जातानां प्रसूतानाम् परस्परविरोधिनाम् अन्योन्यविरुद्धानाम् परैः शत्रुभिः अभिभूतानाम् आस्कन्दितानाम् सङ्गतिः सह- भावः श्रियं सम्पदं प्रसूते जनयति, समानवंशजाताः परस्परविरोधिनोऽपि परकर्तृ- कापमानोपस्थितौ यदि परस्परं संहता भवन्ति तदा तेषामभ्युदयो जायते, लोकि- कीयं स्थितिः, तथैवात्रापि परस्परविरुद्धानां तत्तच्छास्त्राणां वेदरूपमेकमन्वयं विभ्रतां संहतिरपराजयेतालक्षणां श्रियं जनयेदिति भावः । दृश्यन्ते चापि लोकाः स्वभ्रातृभिः सातिशयविरोधा अपि परास्कन्दनावसरे संहताः । उक्तश्चायमर्थो महाभारते युधि- ष्ठिरेणापि—‘वयं पञ्च वयं पञ्च वयं पञ्च शतञ्च ते । अन्यैः सह विवादे तु वयं पञ्च- शतोत्तरम्’ इति ॥ ८ ॥ मुखचन्द्रशोभिता मीमांसा वेदत्रयीरूप तीन आंखोसे युक्त दूसरी कात्यायनीकी तरह प्रकट हुई ॥ ७ ॥ शान्ति—अजी, स्वभावविरोधी आगम और तर्कोंका समन्वय किस प्रकार हुआ ? श्रद्धा—बेटी, परस्परविरोधी समानवंश प्रसूतोका जब दूसरो द्वारा अभिभव होता है तब उनमें मेल हो जाती है और उससे भलाई होती है ॥ ८ ॥

पञ्चमोऽङ्कः १७५ येन वेदप्रसूतानां तेषामवान्तरविरोधेऽपि वेदसंरक्षणाय नास्तिक- पक्षप्रतिक्षेपगाय शास्त्राणां साहित्यमेव । आगमानां च तत्त्वं विचारयताम विरोध एव । तथाहि— ज्योतिः शान्तमनन्तमद्वयमजं तत्तद्गुणोन्मीलना- द्ब्रह्मेत्यच्युत इत्युमापतिरिति प्रस्तूयतेऽनेकधा । तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितै- र्गम्योऽसौ जगदीश्वरो जलनिधिर्वारां प्रवाहैरिव ॥ ६ ॥ वेदप्रसूतानाम्-वेदमूलकानाम् । तेषाम्-तत्तच्छास्त्राणाम् । अवान्तरविरोधे- आभ्यन्तरिकविरुद्धत्वे । वेदसंरक्षणाय-वेदरक्षायै । नास्तिकपक्षप्रतिक्षेपगाय-चार्वा- कादिमतनिरसनाय । साहित्यम्-मिलनम् । तत्त्वं विचारयताम्-याथात्म्यं भावय- ताम्, अविरोधः-समन्वयः । तथा चोक्तं महिम्नः स्तोत्रे—'त्रयी साङ्ख्यं योगः पशु- पतिमत्तं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्या- दृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव' इति । ज्योतिरिति० शान्तम् सर्वविधक्रियाराहित्येन स्तिमितकल्पम् अनन्तम् अवसान- शून्यम् अद्वयम् सजातीयद्वितीयरहितम् अजम् उत्पत्तिरहितम् (ब्रह्म) तत्तद्- गुणोन्मीलनात् तेषां तेषां गुणानामारोपात् सत्त्वप्राधान्यरजःप्राधान्यतमःप्राधान्य- रूपस्वरूपगुणत्रितयाध्यासात् ब्रह्मा इति अच्युतः विष्णुिरिति उमापतिः शिव इति चानेकधा नानाप्रकारेण प्रस्तूयते । एकमपि ब्रह्म रजोगोगमारोप्य विधातृतया सत्त्वगुणाश्रयत्वमुपचर्याविष्णुरूपेण तमोगुणप्राचुर्यकल्पनया च शिवत्वेनोच्यत इति वक्तव्यसारः । नानापथप्रस्थितैः भिन्नभिन्नवर्त्मभिश्चलितैस्तैस्तैः भिन्नैः सदागमैः आस्तिकशास्त्रैः वारां प्रवाहैर्जलधाराभिर्जलाविधिः समुद्र इव असौ परमेश्वरः पर- मात्मा एव गम्यः प्राप्यः । यथानेकपथप्रस्थिता अपि जलप्रवाहा अन्ते सागरमेव प्रपद्यन्ते तथा तत्तन्मतान्यपि परमात्मन्येव पर्यवस्यन्ति, श्रूयते हि वादनानाविध्यं यथा-कुसुमाञ्जलौ-शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति जैसे वेदप्रभव शास्त्रोंमे यद्यपि अवान्तर विरोध है फिर भी वेदके संरक्षण तथा नास्तिक मतखण्डनमे सबका एक मत ही है । आगमोंमे तत्त्वविचार करने पर विरोध है ही नहीं । क्योंकि— शान्त, अनन्त, अद्वितीय, अजन्मा, ज्योति तत्तद्गुणप्रकाशसे ब्रह्मा, अच्युत, उमापति इस प्रकार अनेकधा कहा जाता है । भिन्न-भिन्न तथा नानापथ प्रस्थित शास्त्रोंसे वहीं एक ईश्वर कहा जाता है, जैसे जलप्रवाह समुद्रमें ही गिरते हैं ॥ ९ ॥

१७६ प्रबोधचन्द्रोदयम्

विष्णुभक्तिः—ततस्ततः । श्रद्धा—ततो देवि, परस्परं करितुरगपदातीनां निरन्तरशरनिकरधारा- संपातोपदर्शितदुर्दिनानां तेषामस्माकं च योधानां सङ्ग्रामस्तुमुलसंप्रहारः प्रावर्तत । तथाहि— बहुलरधिरतोयास्तत्र सस्रुः स्रवन्त्यो निबिडपिशितपङ्काः कङ्करङ्कावकीर्णाः । शरदलितविदीर्णोत्तुङ्गमातङ्गशैल- स्खलितरयविशीर्णच्छत्रहंसावतंसाः ॥ १० ॥ कापिलाः, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इति पातञ्जलाः, लोकवेदवि- रुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, सर्वज्ञ इति सौगताः, निरावरण इति दिगम्बराः, उपास्यत्वेन देशित इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः, इति ॥ ९ ॥ करितुरगपदातीनाम्—हस्त्यश्वपादचारिसेनानाम् । निरन्तरेति० निरन्तरं सततं शरनिकरस्य बाणसमूहस्य धारासम्पातेन अखण्डवर्षणेनोपदर्शितं प्रकटीकृतं दुर्दिनं मेघच्छन्नमहो यैस्तादृशानाम् । तेषाम्-मोहपक्षीययाणाम् । अस्माकम्-विवेकानु- गानाम् । योधानाम्-युद्धद्यमानवीराणाम् । संग्रामः-युद्धम् । तुमुलसम्प्रहारः-भय- ङ्करशस्त्रनिपातः । प्रावर्त्तत-प्रारेभे । बहुलेति० तत्र बहुलं समधिकं रुधिरं रक्तमेव तोयं जलं यासु ताः, निबिडं घनं पिशितं मांसमेव पङ्कः कर्द्दमो यासु तादृश्यः, कङ्काः पक्षिविशेषास्त एव रङ्का दीन- प्राणिनस्तैरवकीर्णाः व्याप्ताः शरैः बाणैर्दलिता जर्जरतां गमिता अत एव विदीर्णाः विपाटिताः ये उत्तुङ्गाः उच्चाः मातङ्गाः हस्तिनस्त एव शैलाः पर्वतास्तेभ्यः स्खलि- तरयाः शून्यवेगास्ते विशीर्णच्छत्राणि इतस्ततः प्रसृतानि श्वेतातपत्राण्येव हंसाः विष्णुभक्ति—उसके बाद । श्रद्धा—देवि, उसके बाद परस्पर हाथी, घोडा, पदचर सभी निरन्तर शरवर्षासे दुर्दिन दिखने लगे, उनके और हमारे सैन्यमें तुमुल युद्ध छिड़ गया । मांसरूप पङ्कसे युक्त तथा कङ्करूप दीन प्राणियोंसे पूर्ण, रुधिरजलमयी नदियाँ बह निकलीं। बाणोंसे खण्डित सिरवाले हाथीरूप शैलसे वेगसे गिरने वाले छत्र ही उस नदीके हंस प्रतीत होते थे ॥ १० ॥

पञ्चमोऽङ्कः १७७ तस्मिन्नेवातिमहति महादारुणे सङ्ग्रामे परापरपक्षविरोधितया पाषण्डागमैरग्रेसरीकृतं लोकायतं तन्त्रमन्योन्यसैन्यविमर्द्दनैर्नष्टम् । अन्ये तु पाषण्डागमा मूलनिर्मूलतया सदागमार्णवप्रवाहेण पर्यस्ताः । सौगता- स्तावत्सिन्धुगान्धारपारसिकमागधान्ध्रहूणवङ्गकलिङ्गादीन्म्लेच्छप्रायान्प्र- विष्टाः । पाषण्डदिगम्बरकापालिकादयस्तु पामरबहुलेषु पाञ्चालमालवा- श्वेतपक्षिभेदा अवतंशा भूषणानि यासां तास्तथोक्ताः स्रवन्त्यः नद्यः तत्र युद्धभूमौ सस्रुः प्रावहन्त । तुमुले सङ्ग्रामे प्रवर्त्तमाने रुधिरतोयप्रवाहिन्यो नद्यस्तत्र युद्धक्षेत्रे प्रावहन्न्यत्र नद्यां जलं रक्तमेव, कर्दमस्थानीयं मांसम् , कङ्का एव च दीनाः प्राणिनः, हस्तिनां विपाटितानां शिरोदेशेभ्यस्तत्रस्थितानां मृतानाञ्च राज्ञां यानि श्वेतातप- त्राणि पतन्ति तानि हंसा इव प्रतीयमानास्तस्या नद्या भूषणतां भजन्त इत्यर्थः । साङ्गरूपकमलङ्कारः । मालिनीवृत्तम् , तल्लक्षणं यथा—'ननममययुतेयं मालिनी- भोगिलोकैः' इति ॥ १० ॥ महादारुणे-अतिभयङ्करे । परापरपक्षविरोधितया-स्वपक्षविरोधितया स्ववि- रोधिविवेकपक्षविरोधितया च अयमर्थः-पाखण्डागमा जैनबौद्धचार्वाकतान्त्रिकादयो मनस्येवमचिन्तयन् यदयं लोकायतागमः पुरतो यातु, अयमस्माकमपि शत्रुरेव, सर्व- शत्रोर्विवेकस्यापि तथाभूतः, यद्ययं जयति तदा जितमस्माभिः, अथायं विवेकेन पराजीयतेऽथापि नास्माकं किमपि च्छिन्नम् , अत एव ते मिलित्वा लोकायतं मतं पुरः कृतवन्त इति भावः 'कण्टकेनैव कण्टकम्' इति नीतिस्तत्र प्रयुक्तेति भावः । अन्योन्यसैन्यविमर्द्दनैः-पस्परसैनिकसङ्घर्षैः । केवलं सैन्यसङ्घर्षमात्रेण लोकायतं मतं नष्टमिति प्रतिपादनात्तच्छ्रुताऽनतिप्रौढ़तर्कप्रयोगजेयता च लोकायतमतस्य ध्वनिता । अन्ये-लोकायतातिरिक्ताः । पाखण्डागमाः जैनबौद्धादयः । मूलनिर्मूल तया-शिथिलमूलतया । सदागमार्णवप्रवाहेण-सदागमावैदिकमार्गप्रवृत्तमतानि तान्येव अर्णवः समुद्रः, गभीरत्वादर्णवत्वोक्तिः, तस्य प्रवाहेण-धारया । पर्यस्ताः- परितः क्षिप्ताः । यथा निर्मूलाः पथि पतिताः पदार्थाः पयसः प्रबलप्रवाहेण दूरं नीयन्ते तद्वदिमेऽपि पाखण्डागमाः सदागमप्रवाहेण शिथिलमूलतया दूरमत्यवाह्य- उस महान् तथा दारुण युद्धमे पाखण्डागमोंने परापर पक्षविरोधी होनेके कारण लोका- यत मतको आगे करदिया जो अन्योन्य सैन्य सङ्घर्षसे नष्ट हो गया । और पाखण्डागम मूल शून्य होनेके कारण सदागमरूप समुद्रके प्रवाहमे बह गये । बौद्धमत सिन्धु, गान्धार, पारसीक, मागध, आन्ध्र, हूण, वङ्ग, कलिङ्ग, आदि म्लेच्छप्राय देशोंमे जा बसे । पाखण्ड दिगम्बर कापालिक आदि पामरबहुल पाञ्चाल मालव आभीर आवर्त्त सागरानूप देशोंमे १२ प्र० च०

१७८ प्रबोधचन्द्रोदयम् भीरावर्त वर्त्तसागरानूपेषु सागरोपान्ते निगूढं संवरन्ति । न्यायाद्यनुगत- मीमांसावगाढप्रहारजर्जरीकृता नास्तिकतर्कास्तेषामेवागमानामनुपथं प्रयाताः । विष्णुभक्तिः—ततस्ततः । श्रद्धा—ततो वस्तुविचारेण कामो हतः, क्षमया क्रोधपारुष्यहिंसादयो निपातिताः, सन्तोषेण लोभतृष्णादैन्यानृतपैशुन्यवाक्स्तेयासत्प्रतिग्रहादयो निगृहीताः, अनसूयया मात्सर्यं जितम्, परोत्कर्षसंभावनया मदो निष्षू- दितः, परगुणाधिक्येन मानः खण्डितः । न्तेति भावः । सौगताः-सुगतोबुद्धस्तत्प्रणीता आगमाः । म्लेच्छप्रायान्-म्लेच्छधर्म- धारिजनबहुलान् । यन्न देशेषु भूम्ना म्लेच्छा वसन्ति तान्प्रयाता इति भावः । पामर- बहुलेषु नीचजनैः समधिकभावेनोषितेषु । सागरानूपेषु-सागरतटवासिदेशेषु, 'जल- प्रायमनूपं स्यात्' इत्यमरः । सागरोपान्ते-समुद्रतीरे । निगूढम्-अप्रकटभावेन । न्यायाद्यनुगतमीमांसया-न्यायसहकृतेन मीमांसाख्यविचारशास्त्रेण । अवगाढप्रहार जर्जरीकृता दृढतरप्रहारशकलीकृताः । नास्तिकतर्काः-बौद्धादिन्यायाः । तेषाम्- बौद्धशास्त्राणाम् । अनुपदम्-पश्चात् । अनेन बौद्धागमबौद्धशास्त्रबौद्धतर्काणां तिरस्का- रकथनेन द्रवसंज्ञकं विमर्शसन्धेरङ्‌गमुक्तम्, तल्लक्षणं यथा-'द्रव इत्युच्यते तज्ज्ञैर्वि- दुषां च तिरस्क्रिया' इति । वस्तुविचारेण—नारीस्वरूपस्यास्थिमांसादिमयत्वभावनया । हतः-दूरंगमितः, स्वचित्तादपगमनमेव कामवधो बोध्यः । क्षमया-सहिष्णु तया । क्रोधपारुष्यहिंसा- दयः-कोपकठोरतापरवधप्रवृत्तिप्रभृतयः, एतेषां क्षमाऽभावप्रभवतया क्षमया निरासो ज्ञेयः, स्वविरुद्धव्यपासनस्वाभाव्याद् भावानाम् । निपातिताः-मारिताः । सन्तोषेण- लोभनिवृत्तिरूपेण भावेन । दैन्यम्-तुच्छताप्रत्ययः, अनृतम्-मिथ्याभाषणम्, पैशु- छिप गये । न्यायादिसे अनुगत मीमांसाके कठोर प्रहारसे जर्जर नास्तिक तर्क उन्ही आगमोंके पीछे हो लिये । विष्णुभक्ति—उसके बाद । श्रद्धा—उसके बाद वस्तुविचारने कामको मारा क्षमाने क्रोध पारुष्य हिंसा आदिको समाप्त किया, सन्तोषने लोभ तृष्णा दैन्य मिथ्याभाषण पैशुन्य वचनचौर्य असत्प्रतिग्रह आदिको निगृहीत किया । अनसूयाने मात्सर्यको जीता, परोत्कर्षसंभावना ने मदको दबाया, परगुणाधिक्यने मानको खण्डित किया ।

पञ्चमोऽङ्कः १७६ विष्णुभक्तिः—( सहर्षम् ) साधु साधु संपन्नम् । अथ महामोहस्य को वृत्तान्तः । श्रद्धा—देवि, महामोहोऽपि योगोपसर्गैः सह न ज्ञायते क्वापि निली- नस्तिष्ठतीति । विष्णुभक्तिः—अस्ति तर्हि महाननर्थशेषः । प्रहरणीयश्चासौ । यतः— अनादरपरो विद्वानीहमानः स्थिरां श्रियम् । अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ ११ ॥ न्यम्-सूचकता, वाक्स्तेयम्-अपलापः, परोक्तिचौर्यं वा, असत्प्रतिग्रहः-अनुचितदान- स्वीकारः । निगृहीताः-पराजिताः । अनसूयया-असूया परगुणेष्वक्षमा तदभाव- रूपाऽनसूया तया । मात्सर्यम्-परदोषावेक्षणम् । परोत्कर्षसंभावनया-संभवन्ति परेष्वपि मम गुणेभ्योऽधिका गुणा इति बुद्ध्या । मदः-उत्सेकः । मानः-अभिमानः । अत्र वधबन्धताडनादिप्रतिपादनात् विद्रवो नाम विमर्शसन्धेरङ्गमुक्तम् , तथा च तल्लक्षणम्-‘विद्रवः कथ्यते बन्धवधसन्ताडनादिकः' इति । वृत्तान्तः-समाचारः । योगोपसर्गैः-योगस्य चित्तवृत्तिनिरोधस्य उपसर्गैः विघ्नैः । महामोह इत्यारभ्य लीनस्तिष्ठतीत्यन्तेन विरोधशमप्रतिपादनाच्छक्त्याख्यं विमर्शसन्धेरङ्गमुक्तम्-तदुक्तम्-‘विरोधशमन शक्तिः' इति । अनर्थशेषः-अवशिष्यमाणोऽनर्थः । प्रहरणीयः-ताडनीयः । अनादरपर इति० अनादरपरः अवमानप्रवृत्तः विद्वान् पण्डितः स्थिराम् अनपायां श्रियम् समृद्धिम् ईहमानः कामयमानः अग्नेः शेषम् , ऋणात् शेषम् , शत्रोः शेषम् न शेषयेत् त्यजेत् । शत्रुवधप्रवृत्तः सम्पत्तीमीहमानो विद्वानग्नेर्ऋणस्य शत्रोश्च कमपि भाग न शिष्टं त्यजेद्यतोऽमी भागमात्रावशिष्टाः पुनरपि प्रज्वलन्ति, तन्महामो- हस्य कुत्रापि निलीयस्थितस्य तदवस्थायां त्यागो न कार्यः किन्त्वन्विष्यासौ व्या- पाद्य इति भावः ॥ ११ ॥ विष्णुभक्ति—( हर्षसे ) ठीक हुआ । अब महामोहकी क्या खबर है ? श्रद्धा—देवि, महामोह भी योगोपसर्गोंके साथ न मालूम कहाँ छिपा है ? विष्णुभक्ति—तब तो अनर्थकी जड़ शेष है ही । उसे मारना होगा । क्योंकि— अनादृत होकर स्थिर सम्पत्तिकामुक विद्वान् अग्नि, ऋण तथा शत्रु का शेष न छोड़े ॥११॥

१८० प्रबोधचन्द्रोदयम् अथ मनसः को वृत्तान्तः । श्रद्धा—देवि, तेनापि पुत्रपौत्रादिव्यसनजनितशोकावेशेन जीवोत्स- र्गाय व्यवसितम् । विष्णुभक्तिः—( स्मितं कृत्वा ) यद्येवं स्यात्सर्व एव वयं कृतकृत्या भवामः । पुरुषश्च परां निवृतिमापत्स्यते । किंतु कुतस्तस्य दुरात्मनो जीवत्यागः ? । श्रद्धा—एवं देव्यां प्रबोधोदयाय गृहीतसंकल्पायामचिरं शरीरेण सह नैव भविष्यति । विष्णुभक्तिः—तद्भवतु । अस्य वैराग्योत्पत्तये वैयासिकीं सरस्वतीं प्रेषयामः । ( इति निष्क्रान्तौ ) मनसः-चित्तस्य, मनोऽपत्यान्येवंमे सर्वे लोभादयो व्यापादिता इति तद्वरथा- प्रश्नो नासामयिकः । व्यसनजनितशोकावेशेन—विपत्तिप्रभवखेदवेगेन । जीवोत्सर्गाय-प्राणपरित्या- गाय । व्यवसितम्-चेष्टितम् , एवं स्यात्-मनो म्रियेत । वयम्-विष्णुभक्त्यादयः । कृतकृत्याः-सम्पादितविधेयाः । मनसि विरते तत्कृतोपद्रवाणामपि शान्तिमभि- प्रेत्येदमुक्तम् , मन एव प्रधानं तदुक्तम्—'मन एव मनुष्याणां कारणं बन्धमोक्षयोः' इति । निर्वृत्तिम्-शान्तिम् । आपत्स्यते-प्राप्स्यति । दुरात्मनः-दुष्टस्य । जीवत्यागः- मरणं, जीवापसरणं वा । देव्याम्-विष्णुभक्तौ । गृहीतसङ्कल्पायाम्-स्थिरमतौ । शरीरेण सह नैव भविष्यति-शरीरसम्बन्धं विहास्यति-मृतं भविष्यति । अस्य—मनसः । वैराग्योत्पत्तये-विरक्तिमुत्पादयितुम् । वैयासिकीम्-व्यास- प्रोक्ताम् । मनकी क्या खबर है ? श्रद्धा—उसने भी पुत्रपौत्र आदिके व्यसनसे जन्य शोकके वेगमे प्राण दे देनेका उद्योग किया ! विष्णुभक्तिः—( हंसकर ) यदि ऐसा हो जाय तब तो हम सभी कृतकृत्य हो जाय, पुरुषको भी शाश्वत शान्ति प्राप्त होजाय, किन्तु वह अभागा क्योंकर मरेगा ? श्रद्धा—देवी जब प्रबोधोदयके लिये इस प्रकार दृढ़ निश्चय है तो वह निश्चय ही नही रह सकेगा । विष्णुभक्ति—तो ठीक है । इसको वैराग्य उत्पन्न करनेके लिये वैयासिकी सरस्वतीको भेजती हूं । ( दोनोका प्रस्थान )

पञ्चमोऽङ्कः १८१

प्रवेशकः। ( ततः प्रविशति मनः संकल्पश्च ) मनः-( सास्रम् ) हा पुत्रकाः, क्व गताः स्थ। दत्त मे प्रियदर्शनम्। भो भोः कुमारकाः रागद्वेषमदमात्सर्यादयः, परिष्वजध्वं माम्। सीदन्ति ममाङ्गानि। हा। न कश्चिन्मां वृद्धमनाथं संभावयति। क्व गता असूया- दयः कन्यकाः। आशातृष्णाहिंसादयो वा स्नुषाः। कथं ता अपि मन्द- भाग्यस्य मे समकालमेव दैवहतकेनापहृताः। विसर्पति विषाग्निवद्दहति शर्ममर्माविध- स्तनोति भृशवेदनाः कषति सर्वकार्श्यं वपुः। विलुम्पति विवेकितां हृदि च मोहमुन्मीलय- त्यहो ग्रसति जीवितं प्रसभमेव शोकज्वरः ॥ १२ ॥

प्रियदर्शनम्-मधुरं भवदवलोकनम्। कुमारकाः-मम शिशवः। परिष्वजध्वम्- आलिङ्गत। सीदन्ति-जडभावमिव लभन्ते। अनाथम्-रक्षकशून्यम्। संभावयति- भाषणतोषणादिना प्रबोधयति। स्नुषाः-पुत्रवध्वः। मन्दभाग्यस्य-हतभाग्यस्य। समकालम्-सहैव। दैवहतकेन-नीचेन भाग्येन। अपहृताः-अन्यत्र नीताः। विसर्पतीति० एषः शोकज्वर विषाग्निवत् विषज्वालाजालतुल्यम् विसर्पति सर्वाण्य- ङ्गानि व्याप्नोति। शर्म सुखम् दहति नाशयति, मर्माणि विध्यन्तीति मर्माविधः अरुन्तुदाः भृशवेदनाः अत्यर्थपीडाः तनोति विस्तारयति, सर्वकार्श्यं सर्वैरुपायैः कर्शि- त्वा वपुः शरीरं कषति हिंसयति। विवेकिताम् धैर्यवत्ताम् विलुम्पति विघटयति, हृदि

प्रवेशक। ( मन और सङ्कल्पका प्रवेश ) मन-( रोकर ) हाय मेरे पुत्रो, तुम कहाँ गये ? मुझे अपना दर्शन दो। अरे राग, द्वेष, मदमात्सर्य आदि कुमारो, मुझसे लिपट जाओ, हाय ! कोई मुझ वृद्ध अनाथका नहीं सुनता है। असूया आदि हमारी कन्यायें कहाँ है ? आशातृष्णा आदि हमारी बहुए कहाँ हैं ? मुझ अभागेकी वह सभी भी एक साथ ही भाग्यद्वारा किस प्रकार हरली गई । शोकजनित सन्ताप विषदाहकी तरह फैल रहा है, मर्मवेधी वेदना उत्पन्न करता है शरीरको सर्वथा कृश कर रहा है, विवेकको दूर भगा रहा है और हृदयमे मोहको उत्पन्न करके हठात् जीवनको ग्रस्त कर रहा है ॥ १२ ॥

१८२ प्रबोधचन्द्रोदयम् ( इति मूर्च्छितं पतति ) संकल्पः—( सास्रम् ) राजन्, समाश्वसिहि समाश्वसिहि । मनः—( समाश्वस्य ) कथं देवी प्रवृत्तिरपि न मामेवमवस्थं समा- श्वासयति । संकल्पः—( सास्रम् ) देव, कुतोऽद्यापि प्रवृत्तिः । यतः श्रुतकुटुम्बव्य- सनसंजातशोकानलदग्धहृदया हृदयास्फोटं विनष्टा । मनः—हा प्रिये, कासि देहि मे प्रतिवचनम् । ननु देवि, स्वप्नेऽपि देवि रमसे न विना मया त्वं स्वापे त्वया विरहितो मृतवद्‍भवामि । हृदये शोकम् परितापम् उन्मीलयति प्रकटयति, अहो खेदे प्रसभम् हठेन (शोकज्वरः) जीवितमेव ग्रसति व्यापादयति, शोकसन्तापः । विषज्वालेव काये प्रसर्पति, सुखमव- साययति, वेदनां जनयति, शरीरं क्रशयति, धैर्यं क्षुल्लुकयति, मोहं प्रकटीकरोति, तदेव जीवनमेव विपादयतीत्यर्थः । पृथ्वीवृत्तम्-‘जसौ जसजला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥ १२ ॥ एवमवस्थम्-ईदृश्यामावस्थायां पतितम् । समाश्वासयति-धैर्यं बन्धयति । कुतोऽद्यापि प्रवृत्तिः—नास्त्यधुना प्रवृत्तिरित्यर्थः । श्रुतेति० श्रुतम् आकर्णितम्, कुटुम्बानाम् पोष्यवर्गाणाम्, व्यसनम् निधनम् , तेन सञ्जातः उत्पन्नः, शोकानलः-हृदयखेदवह्निः, तेन दग्धहृदया आलीढचित्ता । हृदयास्फोटम्-हृदये स्फुटित्वा । विनष्टा मृता । स्वकुटुम्बभूतकामादिनिधनवृत्तान्तं निशम्य मृतेत्यर्थः । प्रतिवचनम्-उत्तरम् । स्वप्नेऽपीति० हे देवि प्रवृत्ते, त्वं मया विना विरहिता स्वप्नेऽपि कदाचिदपि न ( मूर्च्छित होकर गिरता है ) सङ्कल्प—( रोकर ) राजन्, धीरज धरिये, धीरज धरिये । मन—( आश्वस्त होकर ) क्यो देवी प्रवृत्ति भी मुझे इसस्थितिमे आश्वासन नही दे रही है ? सङ्कल्प—( रोकर ) देव, अब देवी प्रवृत्ति कहाँ ? उनका तो कुटुम्बव्यसनश्रवणजात शोकानलसे हृदय जलगया, वह चलवसीं । मन—हाँ प्रिये, कहाँ हो मुझे उत्तर दो । देवि— स्वप्नमें भी तुम हमारे बिना नही रमती, और मै भी स्वप्नमें तुमसे रहित होकर

पञ्चमोऽङ्कः १८३ दूरीकृतासि विधिदुर्ललितैस्तथापि जीवत्यवेहि मन इत्यसवो दुरन्ताः ॥ १३ ॥ ( पुनर्मूर्च्छति ) संकल्पः—राजन्, समाश्वसिहि समाश्वसिहि । मनः—( समाश्वस्य ) अलमस्माकमतः परं जीवितेन । संकल्प, चितामारचय । यावदनलप्रवेशेन शोकानलं निर्वापयामि । ( ततः प्रविशति वैयासिकी सरस्वती ) सरस्वती—प्रेषितास्मि भगवत्या विष्णुभक्त्या । यथा 'सखि सर- रमसे प्रसन्ना तिष्ठसि, त्वया प्रवृत्त्या विरहितः शून्यः ( अहम् ) स्वापे स्वप्नावस्था- यामपि ( किमु वक्तव्यं तदा जागरस्य ) मृतवत् अक्रियः भवामि जाये । विधिदुर्ल- लितैः दैवदुर्विलासैः तथापि एवं सत्यपि ( त्वं प्रवृत्तिः ) दूरीकृता मनसो वियोजि- ताऽसि, ( एवं जातेऽपि ) मनः महल्लक्षणोजनः जीवति प्राणिति ( ततः ) असवः प्राणाः दुरन्ताः दुरवसानाः कष्टमृत्यव इत्यवेहि जानीहि । अयि प्रवृत्ते, त्वं मया विरहिता सती स्वप्नेऽपि न नन्दसि, स्वापे चाहं त्वया विरहितो निष्क्रियो मृत- कल्पश्च जाये, तदेवमावयोरनुरागो दृढमूलः सप्रमाणश्च, सा चेदृशी त्वं मम प्रेयसी मद्वियोजिताऽसि, अथाप्यहं न म्रिये तत्र प्राणानां कठिनतैव हेतुर्न मम जिजी- विषेति भावः । वसन्ततिलकं वृत्तम्, लक्षणमन्यत्रोक्तम् ॥ १३ ॥ अतः परम्-कामादीनां निधनात्परतः । आरचय-सज्जीकुरुष्व अनलप्रवेशेन- वह्नौ प्रवेशं कृत्वा । शोकानलम्-खेदज्वालान् निर्वापयामि-शमयामि । प्रेषिता-प्रहिता । अपत्यव्यसनखिन्नस्य-कामादिसन्ततिविनाशक्लिष्टस्य । प्रबोधनाथ-धैर्योत्पादनाय, तस्य-मनसः । वैराग्योत्पत्तिः-संसाराद्विरक्तिः यतस्व- यत्नं कुरुष्व । मृतकके तुल्य हो जाया करता हूँ । भाग्यवश तुम मुझसे दूर कर दी गई हो तथापि जो मैं जी रहा हूँ इससे मालूम पड़ता है कि प्राण बडे कठिन होते हैं ॥ १३ ॥ ( फिर मूर्च्छित हो जाता है ) सङ्कल्प—राजन्, धीरज धरिये, धीरज धरिये । मन—( आश्वस्त होकर ) अब हमारा जीना व्यर्थ है । सङ्कल्प ! चिता तैयार करो, जिससे आगमें प्रवेश करके शोक सन्तापको शान्तकरूं । ( वैयासिकी सरस्वतीका प्रवेश ) सरस्वती—देवी विष्णुभक्तिने मुझे भेजा है कि सखि सरस्वति, जाओ, अपत्यव्यसन

१८४ प्रबोधचन्द्रोदयम् स्वति, गच्छापत्यव्यसनखिन्नस्य मनसः प्रबोधनाय । यथा च तस्य वैराग्योत्पत्तिर्भवति तथा यतस्वे'ति । तद्भवतु । तत्संनिधिमेवोपसर्पामि । ( उपसृत्य ) वत्स, किमेवमतिविक्लवोऽसि, ननु विदितपूर्व्वं भवता भावा- नामनित्यता, अवीतानि च त्वयैतिहासिकान्युपाख्यानानि । तथाहि— भूत्वा कल्पशतायुषोऽम्बुजभवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो मही जलधयो नष्टाः परं कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहः अत्र मनसः प्रबोधनाय विष्णुभक्त्या प्रेषितायाः सरस्वत्यास्तथा भवत्वित्युक्त्या स्वशक्तिप्रकटनप्रतीतेर्व्यवसायाख्यं विमर्शसन्धेरङ्गमुक्तम्-तल्लक्षणं यथा-‘व्यवसायः स्वशक्त्युक्तिः' इति । अतिविक्लवः-अतिखिन्नः । विदितपूर्वा-पूर्वत एव ज्ञाता । भावानाम्-सांसा- रिकसकलपदार्थानाम्, अनित्यता-विनश्वरता । अधीतानि-पठितानि । ऐतिहा- सिकानि-महाभारतादीतिहासप्रसिद्धानि, आख्यानानि-कथाः । ऐतिहासिककथाः पठितवतो युक्त्या चास्य संसारस्य विनाशशीलतां ज्ञातवतस्तवातिवैकलव्यं नोप- पद्यते, तच्चेदं क्षुद्र हृदयेवैकल्यमिति भावः । संसारस्यानित्यतायां युक्तिश्चानुमान- मेव-‘सर्वे भावा विनाशिनः उत्पत्तिमत्त्वात्’ । न च चातुर्मासफलस्याक्षय्यत्वश्रुतेर सिद्धो हेतुरिति वाच्यम् , तस्याः श्रुतेरर्थवादपरत्वे नित्यत्वासाधकत्वात् ॥ भूत्वेति० अम्बुज भवः ब्रह्मा, सेन्द्राः इन्द्रेणसहिताः देवासुराः देवा दानवाश्च , मन्वाद्याः मनुप्रभृतयः मुनयः ऋषयः, कोटयः तावत्सङ्ख्यका जलधयः समुद्रादयः, मही एषा पृथ्वी च एते सर्वे कल्पशतायुषः ( कल्पो युगचतुष्टयम् शतपदमसङ्ख्या- ततापरकम् ) अपरिमितियुगचतुष्टयपरिमितजीवनकालाः भूत्वाऽपि परम् अत्यर्थं नष्टाः विनाशं गताः, ( येषां कल्पशतमायुस्तथाभूता ब्रह्माणो दैत्या दानवाः महर्षयः ससागराचेय धरा यदि नष्टा ) तदा सिन्धोः सागरस्य फेनसमै फेनतुल्ये क्षिप्रविना- शिनि पञ्चात्मके क्षित्यादिपञ्चकनिर्मिते वपुषि काये पञ्चताम् मृत्युम् गते, अहो आश्चर्यम् , लोकस्य संसारस्य शोकावहः खेदप्रदः कोऽयं महान् मोहः चित्तवैकलव्य- दुःखित मनको प्रबोधित करो। जिससे उसे वैराग्य उत्पन्न हो वैसा प्रयत्नकरौ। अतः उसीके पास चलें। (समीप जाकर) बेटा, इस तरह उदास क्यों हो ? तुमतो पदार्थोंकी अनित्यताको पहलेसेही जानते हो। तुमने ऐतिहासिक उपाख्यान भी पढ़ा है। देखो — सौ कल्पोंकी आयु प्राप्त करके भी कड़ोरो-ब्रह्मा, इन्द्र आदि देवगण, मनु आदि मुनि गण, यह पृथ्वी और समुद्र नष्ट हो गये, फिर लोगोंको सिन्धुके फेनके सदृश पञ्चतत्त्वा -

पञ्चमोऽङ्कः १८५ सिन्धोः फेनसमे गते वपुषि यत्पञ्चात्मके पञ्चताम् ॥ १४ ॥ तद्भावय भावानामनित्यताम् । नित्यमनित्यवस्तुदर्शिनो न पश्यति शोकावेगम् । यतः— एकमेव सदा ब्रह्म सत्यमन्यद्विकल्पितम् । को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ १५ ॥ मुदयते प्रादुरास्ते । कल्पशतायुषां तेषां तेषां पदार्थानामपि जाते नाशे यदि लोकः क्षित्यादिपञ्चकसमुदायात्मनो वपुषो विघटनरूपपञ्चताप्राप्त्या दारुणं शोकमनुभवति महदाश्चर्यमिदमिति तात्पर्यम् । पृथिवीजलतेजोव्योमवायवः पञ्चतत्त्वानि, तेषामेव पञ्चीकारेणास्य सचराचरस्य जगतो जन्म, तद्विघटनेन चापाय इति सिद्धान्तमनु- रुध्यायं श्लोकः । पञ्चीकरणप्रकारो यथा 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते' । इति पञ्चात्मकस्य पञ्चताप्राप्तिस्तु क्लृप्तैव न तत्र कोऽपि हेतुराश्चर्यस्याथापि लोकानां व्यवहार आश्चर्यमुद्भावयतीति पर- मार्थः। ‘कल्पो युगचतुष्टयम्’ ‘धानाब्जयोनिर्द्रुहिणः' इत्युभयत्राभिधानप्रकाशः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ तत्-संसारस्य विनाशित्वात् । भावानाम्-सर्वेषां पदार्थानाम् । अनित्यताम्- विनाशिभावम् । भावय-विचारेण निर्धारय । नित्यम्-अहरहः । अनित्यवस्तुदर्शनः संसारस्थितानित्यवस्तुद्रष्टा । शोका- वेगम्-दुःखातिशयम् । अहरहर्जगतोऽनित्यस्य क्षयं वीक्षमाणो जातस्य ध्रुवमृत्यु- कताप्रत्ययेन स्ववन्धावपि व्यसनग्रस्ते नानुभवति विषादमिति भावः । एकमेवेति० सदा सर्वदा त्रिकालाबाध्यभावेन एकमेव सजातीयद्वितीयशून्यम् ब्रह्म सत्यम् परमार्थसत् , अन्यत् ततो भिन्नम् कल्पितम् शुक्तिकायां रजतमिव अध्यस्तम् । हि तस्मात् एकत्वमनुपश्यतः जगतो ब्रह्माभेदं भावयतः को मोहः कीदृशं मूढबुद्धित्वम् , तत्र तस्यां स्थितौ कः शोकः कीदृशः खेदः ? ब्रह्मैवैकं परमार्थ- सत्यं तदन्यत्सर्वं कल्पितमिति वस्तुतत्त्वं विभावयतो जनस्य मोहशोकौ नोदेतुमर्हत- स्तद्भावयन् भुवनत्रय नाशस्वभावकतां जहिहीदं स्वीयधैर्यमिति भावः ॥ १५ ॥ त्मक शरीरके पञ्चत्व प्राप्त कर लेने पर शोकावह मोह क्यों हुआ करता है ॥ १४ ॥ इसलिये पदार्थों की अनित्यताकी भावना किया करो । जिसे वस्तुओंकी अनित्यता दीखने लगती है उसे शोकका आवेग नहीं सताता है । एक ब्रह्म ही सत्य है और सभी कल्पित अतः अनित्य हैं, तो फिर जिसे ब्रह्मात्मैक्य ज्ञान हो जायगा वह क्यो शोक या मोह करेगा ! ॥ १५ ॥

१८६ प्रबोधचन्द्रोदयम् मनः— भगवति, शोकावेगदूषिते मनसि विवेक एवमनवकाशं लभते । सरस्वती— वत्स, स्नेहदोष एषः । प्रसिद्ध एवायमर्थः स्नेहः सर्वा- नर्थप्रभव इति । तथाहि— उष्यन्ते विषवल्लिवीजविषमाः क्लेशाः प्रियाख्या नरै- स्तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः । येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनै- र्देहं दोप्तशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ १६ ॥ 'भगवति' इदं सरस्वतीसंबोधनम् । शोकावेगदूषिते–शोकसन्तप्ते । विवेकः– विचारः । अतिशयितशोकावेगयुते मम मनसि किं नित्यं किमनित्यमिति विचार एव नास्पदं लभतेऽतो न शक्नोमि विचारलभ्यं धैर्यं समालम्बितुमिति भावः । स्नेहदोषः–प्रेम्णोऽपराधः । त्वमात्मजनेषु बहुस्निह्यस्य त एवेदं तवाधैर्यमिति भावः । सर्वानर्थप्रभवः–सर्वेषां वधबन्धाद्यनर्थानां जन्मभूमिः । उष्यन्त इति० विषवल्लिवीजविषमाः विषलतावीजवन्मारकत्या भयङ्कराः क्लेशाः दुःखानि प्रियाख्याः पुत्रमित्रकलत्रादिनामभाजः प्रियाख्याः नरैः मनुष्यैः उष्यन्ते वपनकर्मा क्रियन्ते, नराणां यत्पुत्रादिषु प्रिय इति ज्ञानं तत्तेषां विषवल्लि- बीजवपनकल्पमिति, यतस्तेनैवास्य महतोऽनर्थप्ररोहस्य प्रभव इति । विषवल्लिबी- जत्वोक्त्या तीव्रदाहप्रदत्वं ध्वनितम् । तेभ्यः नरैरुप्तेभ्यः प्रियत्वाभिमानरूपविषवल्लि- बीजेभ्यः न चिरात् अतिशीघ्रम् स्नेहमयाः प्रेमरूपाः वज्राग्निगर्भाङ्कुराः वैद्युताग्निज्वा- लातुल्यसन्तापप्रदाः प्ररोहाः भवन्ति जायन्ते, किमपि बीजगुसमङ्कुरं जनयति, तदिदं प्रियत्वाभिमानबीजमुप्तं सदतिसन्तापकारणं ममत्वमुत्पादयति, कार्यकारणयोः । समानधर्मत्वस्वाभाव्याद् विषवल्लिबीजानां वज्राग्निगर्भाङ्कुरजनकत्वं न्यायप्राप्त- मित्यर्थः । तेभ्यः स्नेहमयाङ्कुरेभ्यः अमी त्वयाऽनुभूयमानाविलक्षणाः शनैः धीर- भावेन कुकूलहुतभुग्दाहम् तुषाग्निवत् देहम् स्वाश्रितजनशरीरम् दहन्तः सन्ताप- मन— भगवति, शोकावेगसे दूषित हृदयमें विवेकको जगह नही मिलती है । सरस्वती— बेटा यह तो स्नेहका दोष है, यह बात तो प्रसिद्ध ही है कि स्नेह सभी अनथोंका मूल है । क्योंकि— मनुष्य पुत्रदार आदि विषवल्लीकी तरह भयानक बीज बोते है उससे शीघ्र ही स्नेह रूप वज्राग्निगर्भ अङ्कुर पैदा होता है, जिन स्नेह अङ्कुरोंसे ज्वालायुक्त सहस्र शिखर वाले शोक रूप वृक्ष पैदा होते हैं जिनसे देह उस तरह कष्ट पाती है जैसे भूसेकी आगमे जल रही हो ॥ १६ ॥

पञ्चमोऽङ्कः १८७ मनः—देवि, यद्यप्येवं तथापि न शक्नोमि शोकानलदग्धः प्राणा- न्धारयितुम् । संपन्नं यदन्तकाले त्वं तावद्दृष्टासि । सरस्वती—इदं च परमकृत्यं यदात्महत्याव्यवसाय इति । अपि च, अमीषामपकारिणामर्थे कोऽयमत्य्यावेशो भवतः । पश्य तावत्— क्वचिदुपकृतिः कर्तामीभिः कृता क्रियतेऽथवा तव न च भवन्त्येते पुंसां सुखाय परिग्रहाः । यन्तः दीप्तशिखाससहस्रशिखिराः प्रज्वलितानकेशिखाभृताः शोकद्रुमाः शोकरूपाः पादपाः रोहन्ति प्रादुरासते । बीजादङ्कुरस्य ततश्च वृक्षस्योत्पत्तिस्तत्र प्रियत्वाभिमान बीजैः स्नेहाङ्कुरोत्पत्तौ ततः शोकाख्यवृक्षस्य जन्म भवति, यः शोकवृक्षस्तृषाग्निवद्देहं दहति, ज्वालाप्रदाः दुःखस्मृतिरूपाः शिखास्तासां सहस्रमेव शिखरदेशस्तैर्युक्तश्चा- सौ शोकतस्रुर्भवति, कुत्रापि वृक्षे शिखरदेशो वर्ण्यतेऽत्र दुःखान्तरस्मृतय एव तत्स्था- नीया इति बोध्यम् । तदेव प्रियत्वाभिमानस्य बीजभावः, स्नेहस्याङ्कुरत्व, तजस्य शोकस्य वृक्षत्वमित्यायातम् । 'कुकूलहुतभुग्दाहम्' इत्यत्र 'उपमाने कर्मणि च' इति णमुल् । 'कुकूलं शङ्कुभिः पूर्णे श्वभ्रे नातु तुषानले' इति कोषः । पूर्वोक्ताविप रीतं वृत्तम् ॥ १६ ॥ यद्यप्येवम्—यद्यपि त्वदुक्तं सत्य युक्तियुक्तञ्च । शोकानलदग्धः-खेदज्वालापरीततः प्राणान् धारयितुम्-जीवनं रक्षितुम् । सम्पन्नम्-कृतंकृत्यस् । इदं मम कृत्यानां पूर्णत्वं यदवसानसमये भवत्यादर्शनं जातमिति भावः । परम्-अतिमहत् । अकृत्यम्-अकर्त्तव्यम् । आत्महत्याव्यवसायः-आत्मवधचेष्टा । अमीषाम्-कामादीनाम् । अपकारिणाम्-अपकारकरणानाम् । अस्यावेशः अस्यौत्सुक्यम् । क्वचिदुपपतिरिति० अमीभिः क्वचित् कुत्रापि पुंसाम् उपकृतिः उपकारः कर्त्ता करिष्यते कृता विहिता, अथवा क्रियते, इमे कालत्रयेऽपि पुमांस नोपकुर्वन्तीत्यर्थः, (अतः) एते परिग्रहाः पुत्रकलत्रादयः तव सुखाय प्रीतये न भवन्ति, एषामसुख- जनकता स्वभाववत्ता नासीभिरुपकारं कामयेथा इति तात्पर्यम् । (किञ्चामी परि- ग्रहाः) विरहे वियोगे मर्मच्छेदं हृदयस्यात्यन्तिकीं व्यथां दधति उत्पादयन्ति, तदपि मन—यद्यपि बात ऐसी ही है फिर भी शोकानलदग्ध मै प्राण धारण नहीं कर सकता । यह ठीक रहा कि अन्त समयमें तुमसे भेंट हो गई । सरस्वती—आत्महत्या करना तो अत्यन्त घृणित कार्य है । और इन अपकारियोके सम्बन्धमे तुमको इतना आवेश ही क्यो हो रहा है ? देखो— तुम्हारा क्या इनसे कभी उपकार हुआ, हो रहा है, या होने वाला है, यह पुत्र दार