पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
१०४० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] जापत्तिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पित रोऽसुरा यत्किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृ तिर्वा समाऽसमा सैषा हि नित्या अजरा तद्वशा च ' इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ॥१३॥ (१०) सू- ॐ ॥ स्मर्यते ॥ ॐ ॥ १४ ॥ मत्स्यकूर्मवराहाद्याः समा विष्णोरभेदतः । ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समाऽसमा ॥ इ ति वाराहे ॥ १४ ॥ —::— नपुंसकत्वाभावः । ' आयतिः ' नियमनसाध्या प्रवृत्तिर्जगतो भवतीति शेषः । उक्तमेवोपपादयति—एकमिति । ' हि ' यतः ' एतत् ' अव तारजातं रूपैः ' एकं ' अभिन्नं भवतीत्यर्थः । ' असमाः ' चेतनाः । ' ब्र ह्मा ' हिरण्यगर्भः ' प्रजापतिः ' दक्षः ये केचिदन्ये देवाः ' असुराः ' ' सु रद्विषः इत्येतेऽसमा इत्यन्वयः । यत्किञ्चेदमिति विस्तरः । ' चरं ' चेत नम् । ' अचरं ' अचेतनम् । समा च साऽसमा च समाऽसमा । पूर्वे बहुवचनोक्तिः रूपबाहुल्यात् । नित्याऽजरेति साम्योपपादकम् । ' तद्व शा ' ईश्वरवशेत्यसाम्योपपादकम् । ' हि ' यस्मात् । एकेषामित्यस्या र्थमाह—माध्यन्दिनायनानामिति । समादिवाद इति शेषोक्तिः । वादो वचनं, तथा च समवादोऽसमवादः समासमवादश्चेत्यर्थः । अस्य त स्मादिति शेषेण शारीराद्धि साम्यं प्रतिषिद्धयत इति पूर्वसाध्येना न्वयः ॥ (१०) न केवलं साम्यश्रुतेर्विशेषश्रुतिबलात्सङ्कोचः, किन्तु विशेष स्मृत्याऽपीत्याह सूत्रकृत्--स्मर्यते चेति ॥ अत्र साम्यादिरित्यस्या ध्याहारं चशब्दस्य स्मृतिसमुच्चायकत्वं पूर्वसाध्येनान्वयं चाभिप्रेत्य सूत्राभिमतस्मृत्युदाहरणेन सूत्रं व्याचष्टे—मत्स्येति । आद्यशब्देना न्येऽप्याविर्भावा गृह्यन्ते । विष्णोस्सर्वधर्मैः समा इत्यत्र हेतुः—अभे दत इति । तुर्विशेषार्थः । चस्त्वर्थः । वाराहे पुराणे स्मर्यते चेत्यन्व यः ॥ ६ ॥ ॥ इति समनाधिकरणम् ॥
[ अधि - ८. सू - १६. ] दीपिकासहितम. १०४१ ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तानि परे तथा ह्याह ॥ ॐ ॥ १५ ॥ प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते । ( २ ) ‘सर्वे देवाः प्राणमाविश्य देवे मुक्ता लयं परमे यान्त्य चिन्त्ये’ इति कौषारवश्रुतिः ॥ १५ ॥ -- ८. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अविभागो वचनात् ॥ ॐ ॥ १६ ॥ ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे चतुर्मुखेतरदेवानां परमात्मनि लयः समर्थ्य ते । न विरिञ्चेतरदेवानां परमात्मनि लयस्तत्प्रतिबिम्बत्वादिति पूर्व- पक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—तानीति ॥ अत्र तानीत्यनेन ‘भूते- षु’ इत्यत्र येषां देवानां भूतप्रवेशो निगदितस्तेषां सर्वेषां ग्रहणम् । प्राणद्वारेण लीयन्त इति शेष इत्यभिप्रेत्य सूत्रं व्याचष्टे—प्राणद्वारेणे- ति । श्रुत्यन्तरोदितद्वारान्तरप्रवेशपूर्वकं भूतवृत्त्या प्राणशब्दवाच्यवि- रिञ्चद्वारेणेत्यर्थः । सर्वाणि दैवतानीत्यनेन सम्यग्दर्शी देवभाग एव स- ङ्गृहीतो वेदितव्यः । तथैव तत्त्वप्रदीपोक्तेः । अनेन ऋष्यादीनामपि प्रा- णद्वारा हरिप्रवेश उक्तो भवति । पर इत्यस्यार्थः—परमात्मनीति । त- था चेत्थं योजना । सर्वाणि दैवतानि परमात्मनि ‘विलीयन्ते’ प्रवि- शन्त्येव । न च ‘प्रतिबिम्बो हरेः प्राणः प्राणस्यान्याः कलाः क्रमात्’ इति वचनसिद्धप्राणप्रतिबिम्बत्वविरोधः । यतः प्राणद्वारेण विलीय- न्ते इत्यङ्गीक्रियन्त इति । ( २ ) नन्वत्र प्रमाणाभाव इत्यतः प्रवृत्ते तथा ह्याहेति हेत्वंशं व्याचष्टे—सर्वे देवा इति । विरिञ्चेतरदेवा इत्यर्थः । ‘प्राणे’ विरिञ्च देवमित्यन्वयः । ‘मुक्ताः’ कर्मणः ‘लयं’ प्रवेशं, हिशब्दो हेतौ । श्रुतिरित्त्यनेनाहेत्यस्य कर्ता दर्शितः । सौत्रतथाशब्दस्तु प्राणप्रवेशद्वा- रा परमात्मप्रवेशपर इति सिद्धत्वान्न व्याख्यातः । श्रुतिरित्त्यनन्तरं यत इति शेषः । अस्यातो विलीयन्त इति साध्येनान्वयः ॥ ७ ॥ ॥ इति पराधिकरणम् ॥ —-::-*-— ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवादिमुक्तानां ईश्वराधीनत्वे समर्थ्यते । मु- १३१
१०४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] 'एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथा निकाममन्तर्बहिः परिचरन्ति' इ ति गौपवनश्रुतिः। तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम्। (२) 'कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः' (तै.आ.३-१५-४.) इति वचनात्। क्ताः स्वतन्त्रा एव नेशाधीनाः, मुक्तत्वादेव 'एते देवाः' इति श्रुतेश्चे ति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—अविभाग इति॥ अत्र मुक्ता नां परमात्माधीनत्वात् 'अविभागः' तदधीनत्वमेवेति साध्यवाक्यार्थ मभिप्रेत्य तत्र श्रुतिसिद्धसत्यकामत्वादियुक्तिविरोधमाशङ्क्य तत्परि हारायाप्यविभाग इत्यंशं व्याचष्टे—एते देवा इति। श्रुतिरित्यान्तरं यत्सत्यकामत्वं वक्तीति शेषः। आदिपदेन सङ्कल्पो गृह्यते। तथा चे त्थं योजना। 'एते' इति श्रुतिर्यन्मुक्तानां सत्यकामत्वं वक्ति, तत्तेषां सत्यकामत्वं, उपलक्षणमेतत्। आदिशब्दस्योत्तरत्रापि सम्बन्धो वा। तथा च सत्यसङ्कल्पत्वं च यतः परमेश्वरकामाद्यविभागेनैव तद्भेदे नैव तद्विषयविषयकत्वेनैव अङ्गीक्रियते, न स्वातन्त्र्येणातो न तद्वि रोध इत्यतः तेषामविभाग इति। अनेन अविभाग इत्यस्य भगवत्कामा दविभागस्तदविरुद्धार्थविषयकत्वं, तथा तत्कामितलाभस्येश्वरकाम निमित्तकत्वादविभाग इति द्वेधार्थ उक्तो भवति। 'एते' प्रकृताः सायुज्यं प्राप्ता देवाः 'एतं' हरिमनुप्रविश्य 'सत्याः' नित्याः 'सत्य कामाः' सत्याभीष्टाः 'सत्यसङ्कल्पाः' अबाधितमानसिकसङ्कल्पयुताः 'यथानिकामं' यथेच्छं ईश्वरदेहान्तर्बहिः सञ्चरन्तीत्यर्थः। (२) कुतः सत्यकामत्वश्रुतेरन्यानुसारिकामत्वरूपामुख्यार्थत्वक ल्पनमित्यतो वचनादित्यंशं व्याचष्टे—कामेनेति॥ कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः। यदमीषामदः प्रियं तदैतूप मामभि॥ इति ऋङ्मन्त्रस्यायमर्थः—'मृत्योः' संहर्तुः विष्णोः 'कामेन' इच्छ या मे 'कामः' कामितं 'आगात्' आगतम्। ईशेच्छानन्तरं प्राप्तत्वा त्तत्तस्तदागतमित्युच्यते। कथमीश्वरेच्छायाः कारणत्वमित्यतो--हृद याद्धृदयमित्याह। 'हृदयं' ममेच्छा 'हृदयात्' ईशेच्छया भवति।
[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४३ ( ३ ) मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु । कामानुकूलकामत्वं नान्यत्तेषां विधीयते ॥ इति ब्रा ह्मे ॥ १६ ॥ ——— * ——— ९. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृही तः शताधिकया ॥ ॐ ॥ १७ ॥ भगवदिच्छानुसारिणीति यावदिति टीकारीत्या परममुक्तवाक्यमे तत् । शेषवाक्यार्थस्तु 'अमीषां' सर्वसंहारकभगवत्प्रमुखदेवानां य त्प्रियं एतन्मां प्रति प्रियमभ्युपैत्विति तत्त्वप्रदीपेऽभिहितः । विष्णुतत्त्व निर्णयटीकायां तु मृत्योः 'कामेन' इच्छानुसारेणैव मे काम आगा त् । लुङ् लोडर्थे । मुक्तावागच्छतु । मृत्योः 'हृदयात्' हृदयं सङ्कल्पम नुसृत्यैव मे 'हृदयं' सङ्कल्पः आगच्छतु । 'अमीषां' मनुष्यमृत्यो र्यददः प्रियं तदेव मामभि आ सम्यगेतु ममापि प्रियं भवत्विति तत्त्वप्र दीपानुसारेण जीवन्मुक्तवचनतया व्याख्यातम् ॥ ( ३ ) सत्यकामत्वश्रुतेर्मुख्यार्थत्वे स्मृतिमप्याह—मुक्तानामिति । तुरवधारणे । मुक्तानां सत्यकामत्वं सामर्थ्यं चेश्वराधीनमिति शेषः । तत्र सत्यकामत्वं निर्वक्ति--परस्य त्विति । 'तुः' एव । 'परस्य' प रमात्मनः कामानुकूलकामत्वमेव तेषां सत्यकामत्वं नान्यदित्यर्थः । 'न विधीयते' नोच्यते । ब्राह्मे वचनादित्यनुवर्तते । अस्य तत्परमेश्व रेत्यनेनान्वयः ॥ ८ ॥ ॥ इति अविभागाधिकरणम् ॥ ——— * ——— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रतीकालम्बनाप्रतीकालम्बनतदितरमनुष्या णां मुक्त्यर्थं देहोत्क्रमणस्याज्ञानिमरणविलक्षणत्वं समर्थ्यते । ज्ञानिनां देहादुत्क्रमणं पामरमरणवदेव न विशेषोऽस्तीति पूर्वपक्षे सिद्धान्तयत्सू त्रमुपन्यस्यति--तदिति ॥ अत्र न ज्ञानिमरणस्याज्ञमरणाविशिष्टत्वे ति साध्याध्याहारमभिप्रेत्य तत्र हेतुतया तदोकोऽग्रज्वलनमिति सू त्रांशं व्याचष्टे-उत्क्रान्तिकाल इति । अर्थलब्धोक्तिरियम् । यद्वा-तन्त्र
उत्क्रान्तिक काले हृदयस्याग्रज्वलनं भवति । ' तस्य है तस्य हृदयस्याग्रं प्रद्योतते ' ( बृ. ६-४-२. ) इति श्रु तेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् । ( २ ) यंयं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तंतमेवैति कौन्तेय सदा तद्भावभावितः ॥ ( गी. ८-६. ) माश्रित्य तदित्यस्यार्थोक्तिः । तस्मिन्नुत्क्रान्तिकाल इति । अत एव त त्स्वप्रदीपे तदोत्क्रान्तिकाल इति तदर्थोक्तिः । विदुष इति शेषः । तेन तच्छब्दस्य विदुष इति चार्थः । तदोकस इत्यस्य भगवदोकसो हृद यस्येत्यपि तच्छब्दार्थ इत्याशयेन ओकशब्दितं स्थानं दर्शयति--हृ दयस्येति । अग्रे ज्वलनं प्रकाशो भवति । अग्रं प्रकाशत इति फलि तार्थः । हृदयस्याग्रज्वलनं भवतीति कुतो ज्ञायत इत्यतस्तच्छब्दसू चितश्रुतेरेवेत्याह--तस्येति । ' तस्य ' उत्क्रमिष्यतः ' एतस्य ' ज्ञा निनो हृदयस्याग्रं प्रकाशते । ' ह ' खलु इत्यर्थः । अत्र तस्येति मरण वैशिष्ट्यमात्रपरमिति प्रमेयदीपोक्तिः, अस्यान्यथा वैयर्थ्यापत्तेरिति भावः । 'श्रुतेः ' छन्दोगश्रुतेर्वाजसनेयश्रुतेश्चेत्यर्थः । हृदयाग्रप्रवेशनेऽपि ज्ञान्युत्क्रमणस्य को विशेष इत्यतो निष्क्रामतीति पदाध्याहारेण तत्प्र काशित इत्यंशं व्याचष्टे—तत्प्रकाशित इति । तेन प्रकाशेन प्रकाशित नाडीद्वारस्सन्नित्यर्थः । ' निष्क्रामति ' देहात् ज्ञानी, अतोऽस्ति विशेष इति वाक्यशेषः । ननु ज्ञानिनः प्रारब्धकर्मवतः कथमयं विशेष इत्य तः प्रवृत्तं विद्यासामर्थ्यादित्यंशं व्याचष्टे—विद्येति । भगवत्साक्षात्का रसामर्थ्यादित्यर्थः । तथा च प्रारब्धकर्मसद्भावेऽपि ज्ञानिनो ज्ञानसा मर्थ्याद्विशिष्टोत्क्रान्तिर्युज्यते । ज्ञानस्य स्वोदयमारभ्यैव फलप्रदत्वा दिति भावः ॥ ( २ ) यदि ज्ञानिनः ज्ञानसामर्थ्यादेवमुत्क्रमणं भवति, तर्हि ज्ञानिनः ज्ञा नजन्मदेहवियोगाख्यप्रथममरणमेवैवं किं न स्यादित्यतः—तच्छेषग त्यनुस्मृतियोगादित्यंशः प्रवृत्तः, तं व्याचष्टे—यं यमिति ॥ हे ' कौन्ते य ' अर्जुन ' अन्ते ' अन्त्यकाले यंयं वापि ' भावं ' आकृतिविशेषं पदा र्थं वा पूर्वकर्मानुवशात् स्मरन् ' कलेबरं ' देहं त्यजति पुरुषः सः तंतं तमेव भावं ' एति ' प्राप्नोति । अन्त्यकालस्मरणे उपायमाह—सदा त द्भावभावित इति । भावोऽन्तर्गतं मनः तस्मिन्नाकारे पदार्थे वा भाव स्तद्भावस्तद्विषयकं मनः तेन भावितोऽतिवासित इत्यर्थः । अत्र भावि
[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४५ इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च। ( ३ ) ‘आचार्यस्तु ते गतिं वक्ता’ (छा. ४-१४-१.) इति हि लिङ्गम्। ( ४ ) हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु। तच्च संस्कृतत्वं मनोधर्मस्तेन चात्मोपचर्यत इति ध्येयम् । ‘स्मृतेः’ गीतास्मृतेः । विद्याशेषेति हेतुगर्भं विशेषणम् । तथा च तस्या विद्या- याः ज्ञानस्य शेषः फलोपकार्यङ्गं शरीरत्यागकाले यत्स्वहृदयमारभ्य ब्रह्मपर्यन्तगम्यविषयानुस्मरणं तेन योगः साहित्यं तस्मादित्यर्थः । न केवलं विद्यासामर्थ्यादिति चशब्दार्थः । तथा च ज्ञानी न केवलं वि- द्यासामर्थ्याद्देहान्निष्क्रामति, येनातिप्रसङ्गः, किन्तु गत्यनुस्मृतियोगा- च्च । न चैवं सत्युत्क्रमणे ज्ञानस्याहेतुत्वं प्राप्नोति । न चोभयोः साम्य- म् । यतो गत्यनुस्मरणं विद्याशेषः । ननु भवेच्छेषः, यदि गत्यनुस्म- रणं गतिप्राप्तिकारणं स्यात् । तदेव कुतः ? ‘यंयं वापि’ इति स्मृते- रेवेति योजना ॥ ( ३ ) ननु तथाऽपि ‘यंयम्’ इति सामान्येनोक्तत्वात् गत्यनुस्म- रणं तत्प्राप्तिकारणमित्यर्थे न विशेषप्रमाणमस्तीत्यत आह—आचार्य- स्त्विति ॥ ‘आचार्यः’ सत्यकामः । छन्दोगे उपकोसलं प्रत्यग्नीनां वा- क्यमेतत् । ‘इति’ एवंरूपं स्मरणार्थं गतिश्रवणोत्तरभावीदं वाक्यमि- त्यर्थः । यद्वा—एतद्वाक्योक्तं गतिश्रवणमित्यर्थः । वक्तृत्वोक्त्या श्रोतृ- त्वस्याप्युक्तत्वादिति भावः । ‘हि’ यतः ‘लिङ्गं’ गतिस्मरणस्य त- त्प्राप्तिसाधनत्वे ज्ञापकमस्तीत्यर्थः । अन्यथा स्मरणार्थं गतिश्रवणं व्य- र्थं स्यादिति भावः । लिङ्गमित्यस्यात इति शेषेण गत्यनुस्मृतियोगाच्चे- ति पूर्वेणान्वयः ॥ ( ४ ) इदं चोत्क्रमणं न गत्यनुस्मरणयुक्तेन सामर्थ्येन स्वतन्त्रेण भवति, किं तर्हि ? ज्ञानादिना प्रसन्नस्य भगवतोऽनुग्रहेणैवेति वक्तुं- हार्देत्यंशः प्रवृत्तः । तं तत्पदसूचितस्मृत्युदाहरणेन व्याचष्टे हृदिस्थे- नेति ॥ सहयोगे तृतीया । तुरवधारणे । उपासत इति बहुष्वेकवच- नम् । तथा च हृदिस्थेन हरिणा सहैव तस्यानुग्रहेणैवान्त्यकाले तं हरिमेव ‘उपासत’ ध्यायतां प्रतीकालम्बनानां अप्रतीकालम्बनानां च पुं- सां ‘ब्रह्मरन्ध्रेण’ ब्रह्मनाड्योत्क्रान्तिर्भवेदित्यर्थः । यथोक्तं बृहद्भाष्ये— धिष्ण्योर्लोकं परं गच्छन् निष्क्रामन् मूर्ध्न एव तु ।
१०४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमेवोपासतां भवेत् ॥ इति चा ध्यात्मे । (५) शतं चैका च हृदयस्य नाड्यः तासां मूर्धानमभिनि सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भ वन्ति (कठ.२-६-१६.) ॥ इति च ॥ १७ ॥ (६) सू—ॐ ॥ रश्म्यनुसारी ॥ ॐ ॥ १८ ॥ निष्क्रामति । 'सहस्रं वा आदित्यस्य रश्मयः आसु तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः॥ इति ॥ अध्यात्म इतिवचनात् हार्दानुगृहीतः शताधिक एवेत्यर्थः । सिद्ध इति वाक्यशेषः । अनेन सूत्रे हृदयस्यायं हार्दस्तेनेति विग्रहः । तथा च हार्देन हृदिस्थेन हरिणा सहैव हार्देनानुगृहीतस्तस्यानुग्रहं प्राप्त एव ज्ञानीदेहान्निष्क्रामतीति सूत्रखण्डार्थ उक्तो भवति ॥ (५) प्रकाशितद्वारो निष्क्रामतीत्युक्तम् । तत्र नाड्यां विशेषो क्तिपरं—शताधिकयेत्यंशं तत्सूचितश्रुत्युदाहरणेन व्याचष्टे—शतमिति ॥ हृदयस्य नाड्यः तत्सम्बन्धिन्यः नाड्यः 'शतं चैका च' एकोत्त रशतसङ्ख्याका भवन्ति । तासां मध्ये 'एका' नाडी 'मूर्धानं अभि' प्र ति 'निस्सृता' मूर्धपर्यन्तं गता । 'तया' शतोत्तरया सुषुम्नाख्यनाड्यो र्ध्वं गच्छन् पुरुषोऽमृतत्वं 'एति' प्राप्नोति । तत्रायं विवेकः—ये प्रतीका लम्बनाः सुषुम्नाप्रभेदात् निष्क्रान्तास्ते 'अमृतत्वं' ब्रह्मलोकं, अन्ये अ प्रतीकालम्बनाः 'अमृतत्वं' वैकुण्ठलोकं यान्तीति । 'अन्याः' शतं ना ड्यो 'विष्वगुत्क्रमणे' तादर्थ्ये सप्तमी । लोकान्तरगमनार्थं भवन्तीति कठश्रुत्यर्थः । श्रुतिश्चेत्यनन्तरं शताधिकयेत्यर्थे प्रमाणमिति शेषः । न केवलं स्मृतिरितिचार्थः ॥ (६) ननु यदि प्रकाशितनाडीद्वारो निष्क्रामति तर्ह्यज्ञानिवन्नाड्य न्तस्तमसैव गमनं स्यात् । यद्यन्तरप्यस्ति प्रकाशः, तर्हि द्वारपदवै यर्थ्यमित्याशङ्कां परिहरत्सूत्रं पठित्वा तच्छेषमात्रं पूरयति—रश्मी ति ॥ ज्ञानी नाड्यन्तराराततादित्यरश्म्यनुसारी सन् ईश्वरमनुसृत्य दे हान्निष्क्रामतीत्यर्थः । अतो न नाड्यन्तस्तमसोत्क्रामति , न वा द्वार पदवैयर्थ्यमिति वाक्यशेषः । द्वारप्रकाशस्य वैष्णवत्वादस्य च सौ रत्वादिति भावः । नाड्यन्तराराततसौररश्म्यनुसारेणोत्क्रामतीत्येतत्कु
[ अधि - ९. सू - २०. ] दीपिकासहितम्. १०४७ नाडीष्वाततास्तत्र श्वेतस्सुषुम्नो ब्रह्मयानस्सुषुम्नाया माततस्तत्प्रकाशेनैष निर्गच्छति' इति पौत्रायणश्रु तिः ॥ १८ ॥ (७) सू— ॐ ॥ निशि नेति चेन्न सम्बन्धात् ॥ ॐ ॥ १९ ॥ रश्म्यभावान्निशि ज्ञानिन उत्क्रमणं न युक्तमिति चे न्न, सर्वदा सम्बन्धाद्रश्मीनाम् ॥ १९ ॥ (८) कियत्कालम् ? सू—ॐ ॥ यावद्देहभावित्वाद्दर्शयति च ॥ ॐ ॥ २० ॥ तो ज्ञायत इत्यत आह—सहस्रमिति । वैशब्दः प्रसिद्धौ । आसु द्वैरा श्येन पञ्चशतभेदभिन्नाः पुनः प्रत्येकं पञ्चशतभेदभिन्नाः सहस्रसङ्ख्या काः तासु नाडीषु 'आतताः' अन्तर्राश्रिताः सन्ति । 'तत्र' सहस्रस ङ्ख्याकेषु रश्मिषु पूर्वोत्तरवर्गेषु मध्ये वर्णतः श्वेतो, नामतः सुषुम्नः, कर्मतो 'ब्रह्मयानो' ब्रह्मप्रापको रश्मिविशेषः । शताधिकायां सुषुम्ना ख्यायां नाड्या मन्तरा ततोऽन्योऽस्ति । तत्प्रकाशेन 'एषः' ज्ञानी जी वो देहान्निष्क्रामतीत्यर्थः । श्रुतिरित्त्यनन्तरं उक्तार्थे प्रमाणमिति शेषः ॥ (७) उक्तमाक्षिप्य समाधत्सूत्रं पठति—निशीति ॥ अत्राद्यन आवृत्त्या 'निशि' रात्रौ यतस्सूर्यरश्मयो न सन्ति अतः तदा पर्यवसि तकर्मणां केषां चित् ज्ञानिनामपेक्षितमुत्क्रमणं न युक्तं, केषां चित् ज्ञानिनामेवं, केषां चिद्नेवमिति वैलक्षण्यमपि न युक्तमित्याक्षेपांशयो जना मभिप्रेत्य तमंशं व्याचष्टे—निशीति । ज्ञानिन इति । परिसमाप्त प्रतिबन्धककर्मणो ज्ञानिन इत्यर्थः । न विलक्षणमपि कस्य चिद्युक्त मित्यपि व्याख्येयमेतत् । परिहारांशं व्याचष्टे—नेति । निशि मृतानां ज्ञानिनां बाह्यादित्यरश्म्यभावात्सर्वेषां रश्म्यनुसारेण उत्क्रमणानु पपत्तिर्नेत्यर्थः । कुतो नेत्यतः—सम्बन्धादिति । तद्व्याचष्टे—सर्वदे ति । 'रश्मीनां' अन्तस्थादित्यरश्मीनां सर्वदा नाडीसम्बन्धसत्त्वा दित्यर्थः । तथा च निशि बाह्यादित्यरश्म्यभावोऽप्रयोजकः । आन्तरा दित्यरश्म्यभावस्त्वसिद्ध इति भावः ॥ (८) ननु नाडीरश्मिसम्बन्धः सर्वदाऽस्तीति कोऽर्थः । किं सदा तनः? किं वा देहपातपूर्वकालीनः? उत यावद्देहभावी ? । नाद्यः, सदा नाडीनामभावात् । न द्वितीयः, कदाचित ज्ञानिनोऽपि तमसोत्क्रान्ति प्रसङ्गात् । न तृतीयः, यावद्देहं तन्नियमे प्रमाणाभावादिति भावेन पृ
१०४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] यावद्देहो विद्यते तावद्रश्मिसम्बन्धोऽस्त्येव । (९) ‘संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो या वदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते’ इति माध्यन्दिनायनश्रुतिः ॥ २० ॥ (१०) सू— ॐ ॥ अतश्चायनेऽपि हि दक्षिणे ॥ ॐ ॥ २१ ॥ दक्षिणे मरणाद्याति स्वर्गं ब्रह्मोत्तरायणे । इत्युक्तेऽपि ज्ञानिनो दक्षिणायनोत्क्रान्तिर्युज्यते । च्छति—कियदिति । कियत्कालं रश्मीनां नाडीसम्बन्धोऽस्तीति विप रिणामेनान्वयः । एतत्परिहाराय सूत्रमुपन्यस्यति—यावदिति ॥ अत्र सम्बन्धादिति पदं षष्ठ्यन्ततया विपरिणम्य अनुवर्तते । चशब्दो न पू र्वपक्षयुक्तदोष इति साध्यसमुच्चायक इति भावेन यावद्देहभावित्वाद्वि ति हेतुवाक्यं व्याचष्टे—यावदिति । अस्त्येव यत इति शेषः । अस्य अ ध्याहृतातोनैत्यनेनान्वयः ॥ (९) नन्वत्रापि प्रमाणाभावो दोष उक्त इत्यतः प्रवृत्तं दर्शयति श्रुत्यंशं व्याचष्टे—संसृष्टा इति ॥ ‘एते’ आदित्यरश्मयः ‘संसृष्टाः’ सम्बद्धा इत्यर्थः । चावन्योन्यसमुच्चये । ‘वियोगो’ विभागः ‘इदं’ प्र मितं स्थूलशरीरं ‘एतैः’ रश्मिभिः ‘पश्यति’ नाड्यन्तर्मार्गमिति शे षः । ‘एतैः’ प्रकाशैः निमित्तभूतैरुत्क्रान्तौ ‘प्रवर्तते’ प्रयतते ततः ए तैरेवोत्क्रामत्युत्क्रान्तिकाल ज्ञानीत्यर्थः । श्रुतिरिति सूत्रशेषोक्तिः । यत इति शेषः । अस्यास्त्येवेति साध्येनान्वयः ॥ (१०) ननु व्यर्थोऽयं ज्ञानिनः रात्रौ उत्क्रमणसम्भवप्रतिपादनाया सः ‘दक्षिणे मरणात्’ इति वचनात् मोक्षार्थं ज्ञानिनो दक्षिणायनो त्क्रान्त्ययोगात् । तद्वद्रात्रावप्युत्क्रान्त्यभावोपपत्तेरित्याशङ्कां परिहर त्सूत्रं पठति—अतश्चेति ॥ अत्रापिशब्दः स्मृतिसत्त्वेऽपि दक्षिणायने ऽपीति समुच्चये । चशब्दः साध्यसमुच्चये । हिशब्दो हेताविति भावेन अयनेऽपि हि दक्षिणे इति साध्यांशं उत्क्रान्तिर्युज्यत इति पदद्वयाध्या हारेण व्याचष्टे—दक्षिणेति । उत्तरायणमरणात् ब्रह्म यातीत्यन्वयः । उक्तं वचनं, भावे क्तः । इति स्मृतिसद्भावेऽपि दक्षिणायने उत्क्रान्ति र्युज्यत इत्यर्थः । अस्यातो न स्मृतिबलेन ज्ञानिनो दक्षिणायनोत्क्रान्त्य योगदृष्टान्तेन रात्रावपि तद्भावो वाच्य इति चशब्दसूचितसाध्येना न्वयः ॥
[अधि - ९. सू - २१. ] दीपिकासहितम्. १०४९ (११) शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः । तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ॥ ते सर्वे देहसम्बद्धाः सर्वदा सर्वदेहिनाम् । महर्लोकादिगन्तार उत्तरायणरश्मिभिः ॥ निर्गच्छन्तीतरे तैश्चापि यैरेष्टव्येतरा गतिः । उत्तरं दक्षिणमिति त एव तु निगद्यते ॥ न तु कालविशेषोऽस्ति ज्ञानिनां नियमात्फलम् । (११) कुत इत्यतः प्रवृत्तमित इति हेत्वंशं प्रकृतसम्बन्धपरामर्शक तया स्पष्टत्वात् अव्याकृत्य समग्रसूत्रार्थं स्मृत्या विशदयति—शतमिति ॥ सूर्यस्य दक्षिणायनरश्मयः ‘शतं पञ्चैव’ पञ्च शतान्येवेत्यर्थः । ‘तावन्त एव’ पञ्च शतान्येव ते रश्मयः । उभयेषां प्रयोजनमाह—महर्लोकादीति । महर्लोक एव आदिर्येषां ते महर्लोकादयः तान् गन्तारः प्रतीकालम्बनाः । अतद्गुण
१०५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ददाति कालेऽनुगुणे फलं किञ्चिद्विशिष्यते ॥ अत्युत्तमानां केषां चिन्न विशेषोऽस्ति कालतः । इति नारायणाध्यात्मे ॥ २१ ॥ -*- १०. अधिकरणम् ॥ ( १ ) सू-ॐ॥ योगिनः प्रति स्मर्येते स्मार्ते चैते॥ ॐ॥ २२ ॥ इति स्मृतौ ' उत्तरं ' उत्तरायणमिति निगद्यते । दक्षिणायनरश्मिप श्चशतमेव दक्षिणायनमिति निगद्यत इत्यर्थः, अयं च तत्त्वप्रदीपोक्तः । अनेन ' ते ' इति नपुंसकद्विवचनं षष्ठीद्विवचनत्वेन विपरिणतव्यमि त्युक्तं भवति । ते रश्मयः निगद्यते निगद्यन्त इति वा । एवकारव्या वर्त्य आपातप्रतीतार्थं निषेधति-न त्विति । स्मृतौ दक्षिणमुत्तरमिति शब्दोक्तः कालविशेषो ' नास्ति ' न भवतीत्यर्थः । कुतोऽयमर्थो ' द क्षिणे मर
? Wait, look at line 13: "यत इत्याद्युपस्कार्यम्" - wait, there is only ONE द्या: य - त - इ - त्या - द्यु - प - स्का - र्य - म् Wait! Look at the image line 13: "यत इत्याद्याद्युपस्कार्यम्" Wait, is there "द्या" and then "द्यु"? Let's zoom in on line 13, first word: "यत इत्या" -> then there is "द्यु" or "द्या"? It is: "इत्यादावुपस्कार्यम्"?? Wait! Look at the letters: इ (i) त्या (tyā) दा (dā) वु (vu) प (pa) स्का (skā) र्य (rya) म् (m) Wait! Could it be "इत्यादावुपस्कार्यम्"? इति + आदौ + उपस्कार्यम् = इत्यादावुपस्कार्यम्! "यत इति आदौ उपस्कार्यम्" = The word 'यत' is to be supplied at the beginning (आदौ)! WOW, THAT MAKES TOTAL SENSE! "यत इति आदौ उपस्कार्यम्" -> "यत इत्यादावुपस्कार्यम्"! Because: Look at line 8: "तथा चेत्थं योजना—यतः 'अग्निर्ज्योतिः' इत्यादिना..." He supplied 'यतः' at the beginning! So here
१०५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ (गी. ८-२४,२५.) इत्यत्र योगीति विशेषणात्स्मरणनिमित्ते चैते गती ॥ (२) गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा गच्छति ध्रुवम् । देवेनाभिजिता शुक्लपक्षेन च सपूर्णमा । विषुवा चायनेनासौ पूजितः केशवं व्रजेत् ॥ इति ॥ एवं प्रतिज्ञातमार्गद्वये अपुनरावृत्तिमार्गमभिधाय पुनरावृत्तिसाधन माह—धूम इति । यत्रादौ धूमाभिमानिदेवस्य लोकः, तदनुरात्रिदेव स्य, ततः कृष्णपक्षदेवस्य, अथ षण्मासाभिमानिनां लोकाः, तदनु द क्षिणायनदेवलोको वर्तते । ‘तत्र’ तेन मार्गेण ‘योगी’ काम्यकर्मी ‘चान्द्रमसं’ चन्द्रसम्बन्धि ज्योतिः प्राप्य पुनः भूमौ जायत इत्यर्थः । न चैतावता दक्षिणायने मृत
[ अधि - १०. सू - २२. ] दीपिकासहितम्. १०५३ अननुस्मरतः काले स्मरणं प्राप्य वै गतिः ॥ इत्यध्या त्मे ॥ २२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः. ॥ ॐ ॥ इति वचनादेवेति तत्त्वप्रदीपोक्तिः । अध्यात्मे ग्रन्थे वचनादिति शे षः । अस्य स्मरणनिमित्ते चैते इति पूर्ववाक्येनान्वयः ॥ १० ॥ ॥ इति योग्यधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां चतुर्थाध्यायस्य द्वितीयः पादः. ॥ ॐ ॥
१०५४ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.]
१०. अधिकरणम् ॥ ( १ ) मार्गो गम्यं चास्मिन् पाद उच्यते । सू—ॐ ॥ अर्चिरादिना तत्प्रथितेः ॥ ॐ ॥ १ ॥ 'तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्ष म्' ( छा. ५-१०-१०. ) इत्यर्चिषः प्राथम्यं श्रूयते । 'य दा ह वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति' ( बृ. ७-१०-१. ) इति वायोः । ( २ ) तत्रार्चिषः प्राप्तिरेव प्रथमा । ( ३ ) द्वावेव मार्गौ प्रथितार्वचिरादिः विपश्चिताम् । १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—मार्गेति ॥ ब्रह्मप्राप्तौ मार्ग इत्यर्थः । उ त्क्रान्तानामिति शेषः, ब्रह्मनाड्या नाड्यन्तरेण चोत्क्रान्तानामिति तद् र्थः, न तु ब्रह्मनाड्येत्येव । नाड्यन्तरोत्क्रान्तानां स्वस्वलोकप्राप्तौ मार्गा न्तराभावात् । 'गम्यं' प्राप्यं कार्याकार्यब्रह्मरूपं, तेन मार्गेण गतानामि ति शेषः । चः समुच्चये । 'अस्मिन्
[ अधि - १. सू - १. ] दीपिका सहितम्. १०५५ धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥ अग्निर्ज्योतिरिति द्वैधैवार्चिपस्सम्प्रतिष्ठितिः। अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ॥ इति ॥ एकस्मिंस्तु पुरे संस्थो द्विरूपोऽग्नेः सुतो महान् ॥ इति ब्रह्मतर्के ॥ १ ॥ :—*—: तत्प्रथितेरित्यस्य तस्यां स्मृतौ तेषां तस्य मार्गैकत्वस्य अर्चिरादित्व स्य च प्रसिद्धत्वादित्यर्थमुपेत्य तां स्मृतिं दर्शयति—द्वावेवेति ॥ अ र्चिरादिरिति बहुव्रीहिः । तथा च ‘सर्ववेदविनिर्णयात्’ सर्ववेदानभि श्रित्य विचार्य ज्ञानिनामेकः कर्मिणां चापर इति द्वावेव मार्गौ ‘प्रथि तौ’ प्रसिद्धौ ज्ञानिभिर्निणींताविति यावत् । न त्वेकस्त्रयो वा । ‘विप श्चितां’ उत्क्रान्तज्ञानिनां यो मार्गः सोऽर्चिरादिरेव ज्ञेयः । काम्यकर्मि णां मार्गस्तु धूमादिरेवेति योजना । ननु ‘अग्निर्ज्योतिः’ इति गीता स्मृतावग्नेः प्राथम्यमुच्यते, तत्कथमत्रार्चिषो ज्योतिश्शब्दितस्य द्वि तीयप्राप्यत्वेनोक्तस्य प्राथम्यमुच्यत इत्यत आह—अग्निरिति । एक स्याग्निपुत्रस्यार्चिष एवाग्निर्ज्योतिरिति ‘द्वेधा’ द्विरूपेण ‘सम्प्रतिष्ठि तिः’ सम्यगवस्थानं भवति नार्चिषोऽन्योऽग्निः । तत्र ब्रह्म संव्रजन् ज्ञा नी प्रथममग्निमेत्याथ ज्योतिराप्नोति । तथाऽपि पृथक्तिं नोच्यते ‘तेऽ र्चिषम्’ इत्यादिश्रुतावित्यत आह—एकस्मिन्निति । ‘महान्’ पूज्यो अ र्चिर्नामकोऽग्निर्ज्योतिर्भेदेन ‘द्विरूपो’ द्विविधोऽपि यत एकस्मिन् पुरे संस्थः, अतः ‘तेऽर्चिषम’ इति श्रुतौ पृथक् नोच्यते । यतः प्रथमं द्विवि धोऽपि क्रमेण ज्ञानिप्राप्योऽतो नार्चिषः प्राथम्यविरोधः । नन्वग्नेः सो मादनन्तरं प्राप्तिः ‘सोमं वैश्वानरम्’ इति वचनात्, अतः कथमेतदि त्यत आह—अग्नेः सुत इति । तथा च यतोऽग्नेस्सुतोऽतः ‘सोमं वैश्वा नरम्’ इति वक्ष्यमाणविरोधोऽपि न, अस्य प्रधानाग्निपुत्रत्वादिति यो जना । ब्रह्मतर्क इत्यस्य प्रथितेरिति सौत्रपदेनान्वयः । सूत्रार्थस्तु—उ त्क्रान्तो ज्ञानी ब्रह्म गच्छंश्चैकेनैवार्चिरादिना मार्गेण गच्छति, न तु मा र्गभेदेन । मार्गस्यार्चिरादित्वं एकत्वं च कुतः सिद्धम् ? ‘तत्प्रथितेः’ तस्य ज्ञानिमार्गस्यार्चिरादित्वस्यैकत्वस्य च ‘सर्वे वा’ ( ) इति श्रुतौ ‘अग्निः’ इति स्मृतौ च प्रसिद्धत्वादिति ॥ १ ॥ ॥ इति अर्चिराद्यधिकरणम् ॥
१०५६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.] २. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ वायुशब्दादविशेषविशेषाभ्याम् ॥ ॐ ॥ २ ॥ अर्चिषो वायुं गच्छति ' स वायुमागच्छति ' ( बृ. ७-१०-१.) इति सामान्यवचनात् ॥ ( २ ) 'स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरह २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे वायोर्द्वितीयप्राप्यत्वं समर्थ्यते । तत्र ' द्वावेव मार्गौ' इति स्मृतेः समग्रमार्गस्यैकत्वेऽपि अर्चिःपूर्वपक्षयोर्मध्ये मार्गभे दसम्भवात् । ' स वायुमागच्छति , अर्चिषोऽहः ' इति श्रुतिद्वयप्रामा ण्याद्द्वाय्वह्लोरुभयोरधिकारिभेदेन द्वितीयप्राप्यत्वमिति पूर्वपक्षे सि द्धान्तयतसूत्रमुपन्यस्यति—वायुशब्दादिति ॥ सूत्रेऽध्याहार्यप्रतिज्ञां दर्शयति—अर्चिष इति । अनन्तरमिति शेषः । तथा चैकेनैव मार्गेण ब्रह्म गच्छन् ज्ञानी तस्मिन् मार्गेऽर्चिषोऽनन्तरं वायुमेव गच्छति न त्वहरित्यर्थः । कुत एतदित्यतोऽत्र हेतुतया प्रवृत्तं सूत्रं अविशेषवि शेषाभ्यां वायुशब्दात् वायुश्रुतेरित्यन्वयमुपेत्य व्याचष्टे—स इति । सामान्येत्यविशेषपदव्याख्यानम् । 'वचनात् ' बृहदारण्यकश्रुतेः । ' सः' उत्क्रान्तोऽपरोक्षज्ञानी अर्चिर्द्वारा 'वायुं ' प्रवाहाख्यमागच्छती ति सिद्धान्ते श्रुत्यर्थः । सामान्यश्रुतेः द्वितीयप्राप्यतानिर्णायकत्वं तु न्यायानुगृहीतत्वेन । न्यायस्तु टीकायामेव प्रदर्शितः ॥ ( २ ) ननु श्रुतेः सामान्यवचनत्वादेव प्रथमप्राप्यप्रतिपादकत्वं किं न स्यादित्याशङ्कायां न केवलमेवंन्यायानुगृहीतसामान्यश्रुत्या वा योर्द्वितीयप्राप्यतासिद्धिः, येनोक्तदोषस्स्यात् । अपि तु विशेषश्रुतित श्वेति भावेन प्रवृत्तं विशेषेत्यंशं व्याचष्टे--स इति ॥ 'सः' ज्ञानी ' इतः' शरीरात् 'गतः' उत्क्रान्त इत्यर्थः । यद्वा—' इतः' अर्चिषो 'गतः' तल्लोकान्निर्गत इत्यर्थः । द्वितीयां गतिमिति सामानाधिकर ण्यं, 'गतिं ' प्राप्य अहरागच्छतीत्यन्वयः । एवमुत्तरत्रापि । 'विशेष वचनात् ' विशेषश्रुतेः । चस्सामान्यश्रुतिसमुच्चये । स्पष्टस्सूत्रार्थः । अत्र टीकायां पूर्वाधिकरणगुणसूत्रत्वेनापीदं सूत्रं व्याख्यातं, तस्मिन् पक्षे ' वायुशब्दात् ' वायोः द्वितीयप्राप्यत्वश्रुतेः सकाशाद्वायुशब्द स्य वायोः प्राथम्येन प्राप्यत्वश्रुतेः 'अविशेषविशेषाभ्यां ' भावप्रधा नोऽयं सामान्यविशेषभावाभ्यां निमित्ताभ्यां बाधो द्वितीयप्राप्यत्वप्र
[ अधि - ३. सू - ३. ] दीपिकासहितम्. १०५७ रह आपूर्यमाणपक्षम्' ( ) इति विशेषवच नाच्च ॥ २ ॥ * ३. अधिकरणम् ॥ सू—ॐ ॥ तडितोऽधि वरुणस्सम्बन्धात् ॥ ॐ ॥ ३ ॥ ( १ ) 'मासेभ्यस्संवत्सरं संवत्सराद्वरुणलोकं वरुणलो कात्प्रजापतिलोकम् ' इति कौण्डिन्यश्रुतिः । ' संवत्स रात्तडितमागच्छति तडितः प्रजापतिलोकम् ' इति च गौपवनश्रुतिः । तिपादकत्वं सम्भवतीति नार्चिःप्राथम्यश्रुतेस्तद्विरोध इति सूत्रार्थः । तदनुसारेण सामान्यवचनत्वाद्विशेषवचनत्वादिति भाष्यार्थश्च द्रष्ट व्यः । एवमस्मिन् पक्षे प्रतिज्ञाभाष्यस्यापि सामान्यश्रुतेरर्चिषोऽन न्तरं वायुं गच्छतीत्यर्थ इत्युपस्कारेण व्याख्यानं द्रष्टव्यम् ॥ २ ॥ ॥ इति वायुशब्दाधिकरणम् ॥ —:※:— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे तडिदभिमानिलोकस्य संवत्सराभिमानिलोकान् न्तरप्राप्यत्वं समर्थ्यते । तत्र सन्देहबीजं श्रुतिविगानं दर्शयति-मासेभ्य इति ॥ यद्यपि छान्दोगे 'संवत्सरादादित्यम्' ( ) इति आदि त्यस्यापि संवत्सरानन्तर्यं श्रुतमस्ति । तथाऽपि अनुक्तित उक्तेर्बलवत्त्वा त्कौण्डिन्यगौपवनश्रुतिद्वयबलात्संवत्सरात्पश्चादादित्यात्पूर्वं प्रजापतेः प्राप्यत्वमविचारेणैव सिद्धमिति प्रजापतेः पूर्वं संवत्सरादनन्तरं वरु णतडितोरुभयोरपि अधिकारिभेदेन प्राप्यत्वम्, उत संवत्सरानन्तर्यं तडित एव, न वरुणस्य, तस्य तु तडिदानन्तर्यमिति विचार्यत इति भावः । श्रुत्योर्माससंवत्सरतडिच्छब्दास्तत्तद्देवतालोकपराः । प्रजाप तिशब्दः प्रजेश्वरपरो दक्षपरो वा बोध्यः । पूर्वश्रुतौ गच्छतीति शे षः । कौण्डिन्यश्रुतिरित्यनन्तरं वरुणस्य संवत्सरादानन्तर्यं वक्तीति, गौपवनश्रुतिरित्यनन्तरं तडितः संवत्सरादानन्तर्यं वक्तीति च शेषः । यत एवं श्रुतिद्वयविरोधः संशयबीजमस्ति अतः संशय इति भावः ॥ १३३
१०५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] ( २ ) 'तत्र तटितो वरुणं गच्छति । तटिता हूह्यते वरुण लोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो रा जा सत्यानृते विविञ्चति' ( ) इत्युपरिस म्बन्धश्रुतेः ॥ ३ ॥ —: ❖ :— ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आतिवाहिकस्तल्लिङ्गात् ॥ ॐ ॥ ४ ॥ पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ॥ ४ ॥ ( २ ) सिद्धान्तयत्सूत्रं व्याचष्टे—तत्रेति ॥ उपरीत्यत्रापि सम्ब ध्यते । तथा चोत्क्रान्तो ज्ञानी सर्वोऽपि 'तत्र' स्वगम्ये मार्गे संवत्सरा नन्तरं तटितमेव गच्छति । तटित उपरि तदनन्तरं वरुणं गच्छतीत्य र्थः । अनेन 'तटितोऽधि' तटित उपरि वरुणः प्राप्यो, न तु ततः प्रा [L14
[ अधि - ४. सू - ५. ] दीपिकासहितम्. १०५९ (२) कुतः? सू- ॐ ॥ उभयव्यामोहात्तत्सिद्धेः ॥ ॐ ॥ ५ ॥ 'स वायुमागच्छति' (बृ. ७-१०-१.) इति प्रथममु च्यते। 'उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युत्तमे वान्तत उपगच्छति द्योंर्वाव विद्युत्तत्पतिं वायुमुपग म्य तेनैव ब्रह्म गच्छति' ( ) इत्यन्तेऽपि वायुगमनश्रुतेः । क्तो वायुरसौ प्रवहाख्यः 'आतिवाहिकः' अतिशयितं विष्णुं वहतीत्य तिवहो मुख्यवायुस्तस्यायं तत्पुत्रः स एवेत्यर्थः । न मुख्य इत्येवकारा र्थः । प्रवहस्य प्राप्यत्वं वायुपुत्रत्वं च— प्रवहं वायुपुत्रं च सूर्यसोमौ च विद्युतम् । प्राप्य प्रधानवायुं च याति तत्परमं पदम् ॥ इति बृहद्भाष्योदाहृतप्रमाणसिद्धम् । अत एव सूत्रस्य वायुपुत्रत्वज्ञाप नार्थमेव प्रवह इत्यल्पाक्षरं पदं विहायातिवाहिक इत्यधिकाक्षरपदप्रयो गः । कुत इत्यतः प्रवृत्तं तल्लिङ्गादिति हेत्वंशं तच्च लिङ्गं चेति विग्रहा श्रयणेन व्याचष्टे— पूर्वेति । गमनं प्राप्तिः । तर्हिमुख्यस्यैव भवेन्न मु ख्यस्येति भावः ॥ (२) ननु तथाऽपि कथं पूर्वप्राप्यस्य वायोरतिवाहिकत्वसिद्धिः, तथा सति मुख्यप्राप्त्यभावापातात् । अथैतद्दोषपरिहाराय उत्तरत्रापि कश्चिद्वायुः प्राप्योऽस्तीत्युच्यते । तथाऽप्यनिवृत्तसंशयः । किं पूर्वो क्त आतिवाहिको मुख्यो वा? एवमुत्तरोक्त आतिवाहिको मुख्यो वेति। मुख्यस्यापि प्रथमप्राप्तेर्मुख्यस्याप्युत्तरप्राप्तेश्च सम्भवात् । न चात्र विशेषहेतुरस्ति, येन पूर्वप्राप्यस्यातिवाहिकत्वसिद्धिरुत्तरप्राप्यस्य च मुख्यत्वसिद्धिरिति भावेनाक्षिपति— कुत इति ॥ पूर्वोक्तस्यातिवाहि कत्वसिद्धिरुत्तरोक्तस्य मुख्यत्वसिद्धिश्च कुत इत्यर्थः । प्राप्यत्वलिङ्ग स्य सावकाशत्वसम्भवादिति भावः । एतत्परिहाराय सूत्रं पठित्वा-- तत्र पञ्चम्याः सप्तम्यर्थत्वं तदित्यस्य बुद्धिस्थपरामर्शित्वं तन्त्रावृत्तिं चाभिप्रेत्य व्याचष्टे—उभयेति । तुरवधारणेऽपिः समुच्चये । यथेत्यादौ तथेत्यन्ते चोपस्कर्तव्यम् । वायुगमनमिति बुद्ध्या विविच्य प्रथममित्य त्रापि सम्बध्यते । उत्तर इति पूर्वोत्तरयोरन्वेति । उक्तस्येत्युभयत्र शे षः । आतिवाहिकस्येति भावप्रधानम् । मुख्यस्याप्युपलक्षकमेतत् । धु