भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०७९ इति बृहत्तन्त्रोक्तयुक्तेश्च ॥ ५ ॥ (५) सू-ॐ॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ॐ॥६॥ चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते । 'सर्वे वा एतदचित्परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते' इ त्युद्दालकश्रुतेश्चिदात्मकत्वादित्यौडुलोमिर्मन्यते ॥ ६ ॥ मीत्यादिस्मरणरूपोपासनादित्यर्थः । अनेन पूर्वस्मिन् संसारे स्वदेह गतविष्णुपदाभ्यामहं गच्छामीत्युपास्तिसद्भावादिति युक्तिरुक्ता भव ति । पञ्चम्यन्तानां ब्राह्मेणेति प्रतिज्ञावाक्येनान्वयः ॥ (५) एवं देहाभावमभ्युपगम्य भोगं मुक्तस्य समर्थ्य देहसद्भा वमप्यभ्युपगम्य तत्समर्थयत्सूत्रमुपन्यस्यति — चितीति ॥ अत्र मुक्ता भुञ्जते पृथग्विद्यत इति च शेषः । तदिति व्यस्तं समस्तं च । तत्र व्यस्तमावर्तते । चितिमात्रेणेति हेतुगर्भम् । तथा च मुक्ताः भुञ्जते ए व तेषां भोगो युक्त एवेति यावत् । न च पृथग्देहाभावादयुक्तता । यत स्तेषां मुक्तानां तच्छरीरं तस्माद्ब्रह्मदेहात्पृथग्विद्यते । न चैवं पुनस्सं सारापत्त्या मुक्तत्वायोगः । यतस्ते 'चितिमात्रेण' शरीरेण भुञ्जते यत स्तच्छरीरं केवलं चैतन्यस्वरूपमिति यावत् । न चाप्रयोजकता 'त दात्मकत्वात्' तेषां मुक्तानां चिदात्मकत्वात् तस्य चितिमात्रशरीर स्य च मुक्तस्वरूपत्वात् स्वरूपस्य चाकृत्रिमत्वेन संसारानापादक त्वादिति भावः। मुक्तानां चिदात्मकत्वमेव कुतः ? 'तत्' तस्माच्छ्रु तिवाक्यादेवेत्यौडुलोमिराचार्यो मन्यत इति योजनामभिप्रेत्य सूत्रं व्याचष्टे—चितीति । 'पृथक्' ब्रह्मदेहात् । 'तेन' देहेन भुञ्जते मुक्ता इति विपरिणतमनुवर्तते । 'चिदात्मकत्वात्' चिन्मात्रत्वादिति । अ त्र मुक्तानामित्यनुषज्यते । तथा च मुक्तानां चितिमात्रत्वात्तेषां देह श्चितिमात्रः, यत एवं अतः सर्वदेहपरित्यागेन मुक्ता इति योजना । श्रुत्यर्थस्तु 'तत्' प्रत्यक्षसिद्धं सर्वं 'अचित्' जडात्मकं स्थूलसूक्ष्म शरीरं परित्यज्यैष जीवश्चिन्मात्र एव भवति तथा व्यज्यते । व्यक्तस्य चिन्मात्रत्वस्य पुनर्नापगम इत्याह—चिन्मात्र एवावतिष्ठत इति । एष इत्यनुषज्यते । 'तामेतां' दशां मुक्तिरित्याचक्षते विद्वांस इति ॥

१०८० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (६) सू—ॐ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरा यणः ॥ ॐ ॥ ७ ॥ ‘ स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रो भवत्यथ तेनैव रूपेणाभिपश्यत्यभिशृणोत्यभिमनुतेऽभिविजा नाति तामाहुर्मुक्तिरिति ’ सौपर्णश्रुतौ चिन्मात्रेणाप्युप न्यासाज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बा दरायणो मन्यते। (६) ननु न सूत्रद्वयोक्तपरिहारौ युक्तौ, देहभावाभावयोर्विरुद्ध त्वादित्याशङ्कापरिहारकं सूत्रमुपन्यस्यति—एवमपीति ॥ अत्रैवं शब्द औडुलोम्युक्तचिन्मात्रदेहसाध्यभोगपरामर्शक आवर्तते। अपिः मुनिद्वयोक्तप्रकारद्वयसमुच्चये श्रुतिसमुच्चये च। तथा च बादरायणा चार्य उभयोर्मतयोरविरोधं मन्यते। कुतः? ‘एवं’ औडुलोमिनोक्त स्य चिन्मात्रेण भोगस्य प्रमाणेषु भावात् प्रामाणिकत्वादिति यावत्, तथा ‘पूर्वभावात्’ पूर्वस्य ब्राह्मेणैव भोग इति जैमिन्युक्तस्यापि प्रमा णेषु भावात् प्रामाणिके च विरोधाभावादिति भावः। न चौडुलोमि मते प्रमाणाभावः। ‘सर्वं वा’ इति श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्ता वपि तस्य भोगकारणत्वानुक्तेरिति वाच्यम्। ‘एवमप्युपन्यासात्’ ‘स वा एषः’ इति सौपर्णश्रुतौ औडुलोम्युक्तचिच्छरीरभोगस्याप्युप न्यासात् प्रतिपादनात्। न केवलं माध्यंदिनायनश्रुतौ जैमिन्युक्तस्यो पन्यास इत्यपेरर्थ इति सूत्रार्थमुपन्यासपदसूचितश्रुत्युदाहरणपूर्वमा ह—स वा इति। भोगस्येत्युभयत्र शेषः। न केवलं ब्राह्मेण भोगस्येत्य पेरर्थः श्रुत्युपन्यस्तत्वमात्रे समुच्चयः। न त्वेकश्रुत्युपन्यस्तत्वे। चिन्मा त्रेण भोगस्येत्येतत् भावादित्यनेनाप्यन्वीयते। अत एव भावादिति हे तुरनन्तरमुपन्यस्तः आदौ योजनीयः। ‘उभयत्र’ उभयोः। न केवल मेकत्रेत्यपेरर्थः। तथा च नोभयोः पक्षयोर्विरोधोऽस्ति चिन्मात्रेण भो गस्य ब्राह्मेण भोग इति जैमिन्युक्तस्य च प्रमाणेषु भावात् प्रमिते च विरोधाभावात्। न चान्त्ये प्रमाणाभावः। न केवलं ‘सः’ इति श्रुतौ ब्राह्मेण भोगस्योपन्यासः। किं नाम ? ‘सः’ इति श्रुत्यन्तरे औडुलो म्युकस्याप्युपन्यासादिति उभयोः पक्षयोः ‘अविरोधं’ विरोधाभावं भगवान् बादरायणो मन्यत इति योजना। श्रुत्यर्थस्तु—‘सः’ मुक्तो ‘मर्त्यात्’ विनाश्यात् कर्मारब्धजडशरीराद्विमुक्तः ‘चिन्मात्रो’ चि

[ अधि - ५. सू - ७. ] दीपिकासहितम्. १०८१ (७) नारायणाध्यात्मे च— मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः । चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥ तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्त्तनम् । कुर्वन्ति भुञ्जते भोगान् तदन्तर्बहिरेव वा ॥ यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः ॥ इति ॥ ७ ॥ —— दात्मकदेहवान् व्यक्तो भवति । ‘अथ’ अनन्तरं ‘तेनैव रूपेण’ चि- त्स्वरूपेणैवेन्द्रियेण ‘अभिपश्यति’ रूपादिकं ‘शृणोति’ शब्दान् ‘म- नुते’ सामान्यतः स्वयोग्यं सर्वं ‘विजानाति’ विशेषतः । तां दशाम् ॥ (७) ननु देहभावाभावयोर्विरोधस्य कः परिहारो जात इत्यतो जैमिनिमतं जडदेहाभावविषयम्, औडुलोमिमतं तु चितिमात्रदेहवि- षयमितो न विरोध इत्याशयेन अविरोधप्रकारं अपिशब्दसूचितस्मृत्या दर्शयति—नारायणेति ॥ ‘मर्त्यं’ विनाशिनं ‘चितिमात्रात्मदेहिनः’ केवलचिदात्मकस्वरूपदेहयुक्ताः । चस्समुच्चये । न त्वदेहिनो चिद्दे- हिनोऽनिन्द्रियाश्चेत्येवार्थः । अव्ययं विष्णुं प्रविष्टा इति सायुज्यभाज उच्यन्ते । अत एव ‘तदङ्गानुगृहीतैः’ भगवदङ्गानुगृहीतैरित्याद्युक्तिः। ‘स्वाङ्गैः’ स्वरूपकरचरणादिभिः । न तु भिन्नैः विष्ण्वीयैर्वेत्येवार्थः । ‘प्रवर्त्तनं’ व्यापारं भुञ्जते चेति सम्बन्धः ‘भोगान्’ भोग्यान् ‘तद- न्तः’ विष्णुदेहस्यान्तः बहिश्चेति सम्बन्धः । यथेष्टमेवेत्यन्वयः । ‘प- रिवर्तन्ते’ सञ्चरन्ति ‘तस्य’ विष्णोः ‘अनुग्रहेरिताः’ प्रसादेन प्रेरि- ताः तदिच्छया विषयीकृता इत्यर्थः । अनुग्रहैधिता इति पाठे तदभि- वर्धिता इत्यर्थः । तस्यैवानुग्रहेरिता इत्यनेन ब्राह्मेणेति सूत्रखण्डस्य ब्र- ह्मणः प्रसादेनेत्यप्यर्थः सूचितः, अत एव प्रमेयदीपे अनुभवशक्ति- स्त्वीश्वरप्रसादादित्यत्र ब्राह्मेणेति सूत्रं प्रमाणीकृतम् । इति नारायणा- ध्यात्म इत्यन्वयः ॥ ५ ॥ ॥ इति ब्राह्माधिकरणम् ॥ —-:-*-— १३६

१०८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ६. अधिकरणम् ॥ (१) सू—ॐ ॥ सङ्कल्पादेव च तच्छ्रुतेः ॥ ॐ ॥ ८ ॥ न तेषां भोगादिषु प्रयत्नापेक्षा । 'स यदि पितृलोक- कामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति' ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुक्तस्य सङ्कल्पमात्रसाध्यभोगः समर्थ्यते । तत्र मुक्तानां भोगादिषु तत्तदुपायसाध्यसाधनापेक्षाऽवश्यकीति पूर्व- पक्षे सिद्धान्तयत्सूत्रं पठति—सङ्कल्पादेवेति ॥ अत्र चशब्दो निपा- तत्वेनानेकार्थत्वात् नञर्थः सन् पूर्वपक्षनिवृत्तिरूपार्थमाह । तत्त्वप्रदी- परीत्या एवशब्दो वा एतमर्थमाहेत्याशयेन तमर्थं दर्शयति—न तेषा- मिति । 'तेषां' मुक्तानां भोग इष्टानुभवः । आदिपदेन तत्त्वप्रदीपरी- त्या सौत्रचशब्दार्थभूता निष्ठा परमा गृह्यते । प्रयत्नापेक्षेति । तत्तदु- पायसाध्यसाधनापेक्षेत्यर्थः । प्रयत्नापेक्षेत्यनन्तरं किन्तु सङ्कल्पादेव तत्सिद्ध्यतीति वाक्यशेषः । एवं सूत्रेऽपि । कुत एतदित्यतः प्रवृत्तं तच्छ्रु- तेरिति हेतुपदं सा च सा श्रुतिश्चेति विग्रहं तच्छब्दस्य सङ्कल्पादेवे- त्येतद्रूपपरामर्शित्वं चाभिप्रेत्य श्रुत्युदाहरणपूर्वं व्याचष्टे—स यदी- ति । आदिपदेन 'तेन पितृलोकेन महीयते । अथ यदि मातृलोकका- मो भवति' इत्यारभ्याम्नातं 'यं यमन्तमभिकामो भवति यं कामं का- मयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते' इत्यन्तं समग्रवाक्यं गृह्यते । 'स यदि' इतिच्छान्दोग्यश्रुतेरयमर्थः—'सः' मुक्तो यदि पितॄणां विष्णुलोको भूयात् तदनन्तरं तदवलोकोऽपि म- म भूयादिति 'पितृलोककामः' तदपेक्षो भवति । तदा 'अस्य' मुक्तस्य 'सङ्कल्पात्' अपेक्षावशादेव अस्य पितरः 'समुत्तिष्ठन्ति' स्वयोग्य- साधनमापाद्य संसारान्मुक्ताः सन्तः पुरस्स्थिता भवन्ति । ततश्च 'तेन पितृलोकेन' तद्दर्शनेन 'सम्पन्नो' युक्तः सन् 'महीयते' स्वा- वरैः पूज्यत इति । एवमन्यान्यपि वाक्यानि व्याख्येयानि भवन्ति । अत्र पित्रादयः स्वरूपपित्रादयो विवक्षिताः ते च चरमशरीरपित्राद- य एव 'चरमे तु यथा निजम्' इति वचनात्ते च योग्या एवेति सं- प्रदायविदः । उपसंहरति—यं यमिति । 'अन्तं' देशमवसानं निर्णयं वा । 'कामं' काम्यम् । इति सूत्रे तदिति व्यस्तं समस्तं चावर्तते । त

[ अधि - ७. सू - ९. ] दीपिकासाहितम्. १०८३ ( छा. ८-२-१०.) इत्यादिश्रुतेः ॥ ८ ॥ — * — ७. अधिकरणम् ॥ ( १ ) सू—ॐ॥ अत एव चानन्याधिपतिः ॥ ॐ ॥ ९ ॥ सत्यसङ्कल्पत्वादेव । ( २ ) परमोऽधिपतिस्तेषां विष्णुरेव न संशयः । ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ॥ ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ॥ आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् । था च न तेषां मुक्तानां भोगादिषु प्रयत्नापेक्षा, किन्तु सङ्कल्पादेव तद्भोजनं सिध्यति । कुतः ? 'तच्छ्रुतेः' 'स यदि' इति श्रुतेरित्यर्थः । एवशब्दः श्रुतेः प्राबल्यसूचकः । सङ्कल्पानन्तरमेव, न तु विलम्बं कृ त्वेति वा ॥ ६ ॥ ॥ इति संकल्पाधिकरणम् ॥ — ः* — ७. अधिकरणम् ॥ ( १ ) अत्र ब्रह्मप्राप्तिमतां मुक्तानां स्वाधमनियाम्यत्वराहित्येन भोगस्साध्यते । तत्र मुक्तस्याधमा अप्यधिपतयः सन्तीति पूर्वपक्षे सि द्धान्तयत्सूत्रमुपन्यस्यति—अत एवेति । अत्र 'मुक्तः प्रतिज्ञानात्' इत्यतो मुक्त इत्यनुवर्तते । चशब्दो विपक्षव्यावृत्त्यर्थः । तथा च मुक्तो न संसारिसमधर्मभागिति प्रतिज्ञासिद्धौ कुत एतदित्यतो यतोऽनन्या धिपतिरित्याह । क्लृप्तपतिभ्योऽन्याधिपतियुक्तो नेति तदर्थः । अत्रापि हेत्वाकांक्षायां अत इत्युक्तमित्याशयेन तमंशं व्याचष्टे—सत्यसङ्कल्प त्वादेवेति । अयमस्माकमेव नियम्यस्स्यादित्यधिपतीनां सत्यसङ्कल्प त्वात्तदनुसारेण अहमेतेषामेव नियम्यस्स्यामिति नियम्यमुक्तस्यापि सत्यसङ्कल्पत्वादेवेति तत्त्वप्रदीपरीत्याऽस्यार्थो ज्ञातव्यः । टीकाकृ द्रीत्या एवकारः सिद्धान्तिहेतोः परग्रहगतत्वादिति पूर्वपक्षिहेत्वपेक्ष या प्राबल्यमाह । नात्र हेत्वन्तरं गवेषणीयमित्यर्थो वा ॥ ( २ ) अत्रार्थे स्मृतिं चाह—परम इति ॥ अनेन सौत्रचशब्दः स्मृ तिसमुच्चायकतयाऽपि व्याख्यातः । यथोक्तं तत्त्वप्रदीपे--चकारा

१०८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशयः ॥ इति वाराहे ॥ ९ ॥ —— ८. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ अभावं बादरिराह ह्येवम् ॥ ॐ ॥ १० ॥ चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बाद्- रिः । ' अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं दनन्याधिपतित्वे प्रमाणादिति । स्मृत्यर्थस्तु— ब्रह्मादिमानुषान्तानां सर्वेषां तेषां मुक्तानां 'परमो' मायाः परो विष्णुरेव मुख्याधिपतिर्नात्र सन्देहः । परम इत्यनेन लक्ष्मीरपि गृहीता । 'ततः' तदनन्तरं 'प्राणा- दिनामान्ताः' ब्रह्माद्युषःपर्यन्ताः सर्वेऽपि स्वावराणां क्रमेणाधिपतयः। यैरुक्तज्ञानं 'सुप्रतिष्ठितं' समुत्पन्नं त एते सर्वे आचार्या गुरवश्च पत- यः। एतेभ्यः क्लृप्ताधिपतिभ्यः अन्योऽधिपतिः मुक्तानां नास्त्येव, नात्रं संशय इति । वाराहे इत्यनन्तरं वचनाच्चेति शेषः । हेतुद्वयस्यापि सौ- त्रप्रतिज्ञायाऽन्वयः ॥ ७ ॥ ॥ इति अनन्याधिपत्यधिकरणम् ॥ — ॐ *— ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे परमेश्वरं प्राप्तानां भोगानुपपत्तिः परिह्रियते । न मुक्तानां भोगो युज्यत इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति— अभावमिति ॥ अत्र 'मुक्तः प्रतिज्ञानात्' इत्यतो मुक्त इति पदं षष्ठ्य- न्ततया विपरिणतं चितिमात्रेनेति पदं चेहानुवर्तते । विना अन्यस्ये- ति शेषः । देहस्येति श्रुतिरिति च लभ्यते । तथा च यतो मुक्तानां चि- तिमात्रेण विना तदन्यस्य प्राकृतदेहस्याभावोऽसत्त्वमतो न तेषां प्रा- कृतदेहसदसद्भावविकल्पमूलकभोगानुपपत्तिरिति शेषः । कुतः तेषां देहाभावः ? 'हि' यस्मादेवं मुक्तानां शरीराभावं 'अशरीरो वा' इत्यादिका श्रुतिराह, तस्मादिति बादरिः 'आह' मन्यते इति योजने- त्यभिप्रेत्य सूत्रं व्याचष्टे—चिन्मात्रं विनेति। प्रकृतत्वाच्चिन्मात्रस्यैव प्रतियोगित्वमिति भावः । बादरिराहेत्यन्वयः । देहाभावः कुत इत्यतः प्रवृत्तमाह ह्येवमित्यंशं व्याचष्टे—अशरीरो वेति। इति कौण्ठरव्यश्रुता

[ अधि - ८. सू - ११. ] दीपिकासहितम्. १०८५

न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यते' इत्येवं कौण्डरव्यश्रुतावाह हि ॥ १० ॥ (२) सू— ॐ ॥ भावं जैमिनिर्विकल्पाम्नानात् ॥ ॐ ॥ ११ ॥ 'स वा एष एवं वित्परमभिपश्यत्यभिशृणोति ज्यो- तिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथानन्दी ह्येवैष भवति नानानन्दं कंचिदुपस्पृश- न्नित्यन्वयः। 'एवं' मुक्तानां प्राकृतदेहाभावं, श्रुताविति सप्तमी प्रथमा- र्थे। 'हि' यस्मात् । अनेन आहेति सौत्रपदस्यावृत्तिस्सूचिता। श्रुत्य- र्थस्तु— 'तदा' मुक्तिकाले 'एषः' मुक्तः 'अशरीरो वाव' प्राकृतदेह- शून्य एव भवति यतोऽत एनं न 'प्रियाप्रिये' सुखदुःखे स्पृशतः। अशरीरं सन्तमित्यनुवादः । प्रियाप्रियस्पृष्ट्या भवदनिष्टमाह— याभ्यां प्रियाप्रियाभ्यामिति । अनेनात्र प्रियशब्देन 'परेयं प्रियनामकम्' इत्यु- क्तेः पराधीनसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्यमिति सूचितम् । तस्यैवानित्यत्वविकारित्वादिरूपोन्मादापादकत्वादिति तत्त्वप्रदीपो- क्तेः। यद्यपि 'न हवै शरीरस्य' (छा.८-१२-१.) इति छान्दोगेऽपि श्रुतिर- स्ति । तथाऽपि सा परमात्मपरेति नात्रोदाहृता ॥ (२) मुक्तानां देहसद्भावमभ्युपगच्छत्सूत्रमुपन्यस्यति— भावमि- ति ॥ पूर्ववद्विपरिणामानुवृत्त्यध्याहाराः कर्तव्याः । तथा च जैमिनिर्मु- क्तानां चितिमात्रेणविना तदन्यस्य प्राकृतदेहस्यापि 'भावं' सद्भावं मन्यते । कुतः ? 'विकल्पाम्नानात्' चिन्मात्रदेहेनैवावतिष्ठते इत्यनु- क्त्वा श्रुतौ 'चिता वाऽचिता वा' इति विकल्पोक्तेरिति सूत्रार्थमभिप्रे- त्य श्रुत्युदाहरणपूर्वकं तद्व्याचष्टे— स इति । 'परं' परमात्मानं 'एवं' उक्तप्रकारेण 'वित्' अपरोक्षज्ञानी 'स एषः' मुक्तः 'चिता' अप्राकृ- तचैतन्यात्मकेन वा 'अचिता' शुद्धसत्त्वात्मकप्राकृतकर्मानारब्धजडा- त्मकेन वा 'ज्योतिषा' प्रकाशमानेन 'रूपेण' शरीरेणैव 'अभिपश्य- त्यभिशृणोति' दर्शनश्रवणोपलक्षितसर्वविषयानुभववान्भवतीत्यर्थः। तेन च 'आनन्द्येव' व्यक्तसुखवानेवैष भवति न दुःखी। हीति प्रसि- द्धम् । कुतो ? 'हि' यतो 'नानानन्दं' आनन्दविरुद्धं दुःखं 'कञ्चि- त्' कमपि मुक्तं नोपस्पृशत्यत इत्यर्थः। अत्र नित्येनेत्येतत् चितेत्यस्य अनित्येनेत्येतत् अचितेत्यस्य विशेषणम्, न तु विकल्पद्वयमत्रोच्यते । उभयत्रवाशब्दोऽवधारणार्थः। तत्राचितोऽनित्यत्वं नाम स्वस्य स-

१०८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४, पा - ४. ] ति’ इत्यौद्दालकभ्रुतौ विकल्पाज्ञानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ॥ ११ ॥ ( ३) सू— ॐ ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ॐ ॥ १२॥ यथा द्वादशाहः ऋत्वात्मकः सत्रात्मकश्च भवति । दाऽविद्यमानत्वमेव न तु सर्वथाऽनित्यत्वम् । मौकसकलपदार्थानां मनादिनित्यत्वेन तद्योगादिति केचित् । अन्ये तु अनित्येन वेति । अने न मुक्तानां बाह्यदेहोऽनादिनित्य एव कंचुकवृत्त्या स्वीकारादित्येतत् निरस्तं भवति । प्राकृतशरीरादीनां मौक्तानां प्रलयात्पूर्वमुत्पत्तेः प्रल ये विनाशाच्चेत्याहुः । विकल्पाज्ञानादिति । प्रकारद्वयाभिधानादित्य र्थः । अन्यदेहस्येति । चिन्मात्रं विनैवेत्यनुषज्यते । तथा च चिन्मात्रं विना तदन्यदेहस्यापीत्यर्थः । न केवलं चिन्मात्रस्येत्यपेरर्थः । ‘भा वं’ सत्त्वम् ॥ ( ३) नन्वेसन्मतद्वयस्य परस्परविरुद्धत्वात्किं तत्स्वमतमित्याश ङ्कां परिहरत्सूत्रं पठति—द्वादशेति ॥ अत्र मुक्तानां देहभावाभावा ख्यमुभयविधमपि मतं स्वमतमेव । कुतः ? अतः उभयविधस्यापि म तद्वयोक्तप्रमाणवत्त्वात् इति सूत्रखण्डार्थमभिप्रेत्य कथमुभयं विरुद्धं स्वमतं भवेदित्याशङ्कापरिहाराय प्रवृत्तं द्वादशाहवदित्यंशं व्याचष्टे- यथेति । क्रतुरहीनः । यथोक्तं तत्त्वप्रदीपे—ऋतुरित्यहीनो विवक्ष्यते। अ हीनैकाहेष्वस्य श्रेष्ठत्वात्क्रतुशब्दः प्रयुक्तः । तथा च श्रुतिः—‘श्रेष्ठोयज्ञो वा एष यद्द्वादशाहः’( ) इति । अत्र द्विविधो द्वादशाहः सत्र महीनश्चेति । तत्रैकादशाहपर्यन्तमहर्गणा अहीना एव । त्रयोदशाहादि कं सत्रमेव । मध्यमं तु यजमानेच्छया एकयजमानकत्वेऽहीनसंज्ञकं, अ नेकयजमानत्वे सत्रसंज्ञकम् । सतित्तचैवं अहीनात्मकः सत्रात्मक इति व क्तव्ये ऋतुविशेषेऽहीने क्रतुपदप्रयोगः कुरुपाण्डवन्यायेनेति प्राचीनग्र न्थोक्तो विशेषो ज्ञातव्यः । द्वादशाहवदिति दृष्टान्तवाक्येन लब्धमर्थं दर्शयति—एवमिति । ‘भोगः’ इच्छया भोगः ‘बाह्यशरीरकृतः’ प्रा कृतदेहनिमित्तः ‘चिन्मात्रकृतः’ स्वरूपदेहकृतः । चस्समुच्चये । भव तीत्यनन्तरमतो मुक्तस्येच्छया भोगार्थं देहभावाभावयोरविरोधेनोपप त्तिरिति बादरायणो मन्यत इति वाक्यशेषः । एतत्सूत्राभिप्रायस्तु मु क्तानां स्वतः इच्छां विना प्राकृतदेहाभावमवरेषामिच्छयाऽप्यभावं बादरिराचार्यो मन्यते । न च द्वितीये मुक्तानां सत्यकामत्वविरोधः ।

[ अधि - ८. सू - १४. ] दीपिकासहितम्. १०८७ एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवती ति बादरायणो मन्यते ॥ १२ ॥ (४) उपपत्तिश्च - सू- ॐ ॥ तन्वभावे सन्ध्यवदुपपत्तेः ॥ ॐ ॥ १३ ॥ सन्ध्यं स्वप्नः 'सन्ध्यं तृतीयं स्वप्नस्थानम्' (बृ. ६- ३-९.) इति श्रुतेः ॥ १३ ॥ (५) सू- ॐ ॥ भावे जाग्रद्वत् ॥ ॐ ॥ १४ ॥ यतस्तेषामिच्छाऽपि नास्ति तद्भोगस्याल्पीयस्त्वेन तदर्थं शरीरान्त राक्षेपाभावात् । जैमिन्याचार्यस्तु कदाचिन्मुक्तस्यापि कस्य चिदुत्त मस्य भोगार्थमिच्छया प्राकृतदेहस्यापि भावं मन्यते । सर्वेषामपि चि दात्मकदेहेनैव भोगः, केषां चिदिच्छयैव बाह्यदेहेनापि । तत्रापि वि शेषः - चिन्मात्रदेहेन भोगे बाह्यदेहापेक्षा नास्ति, बाह्यदेहेन भोगे तु चिदात्मकदेहोऽधिष्ठानत्वेन अपेक्षित इति । यद्यपि चिद्देहेनैव समस्त भोगो युज्यते, चिद्देहानां बहुरूपत्वात् । तथाऽपि वश्यप्रकृतीनां वैचि त्र्यकौतुकवतां शरीरयोगेन च सुशक इति गुण एव । अतो मुनिमत द्वयं साध्विति मुनिद्वयगुरवो मन्यन्त इति तत्त्वप्रदीपेऽभिहितः ॥ (४) ननु भवतु देहभावाभावयोरविरोधः । तथाऽपि कथं भोगो पपत्तिः । देहसत्त्वे सदुःखादिः स्यात्, न चेद्भोगायोग इत्यनुपपत्तेरु क्तत्वादित्यत आह - उपपत्तिश्चेति ॥ चोऽवधारणे । तथा च पक्षद्व येऽपि भोगस्य युक्ततैवेत्यर्थः । कथमुपपत्तिरित्याशङ्कां परिहर्तुं देहा भावे भोगोपपत्तिप्रतिपादनाय सूत्रं पठित्वा दुर्गमांशं सप्रमाणकं व्या चष्टे - तन्विति । जाग्रत्सुषुप्तद्यपेक्षया तृतीयं स्वप्नावस्थाख्यं स्थानं 'सन्ध्यं' जाग्रत्सुषुप्तिसन्धौ भवमिति वाजसनेयश्रुत्यर्थः । अनेन सप्त म्यर्थे वतिः । तन्वभाव इत्यावर्तते । भोगेत्युपस्कार्यम् । अत एवेत्यत श्चोऽनुवर्तते, स च विपक्षव्यावृत्त्यर्थोऽप्यर्थश्च । तथा च न देहाभावे भोगानुपपत्तिः । कुतः ? 'सन्ध्यवत्' यथा स्वप्नावस्थायां 'तन्वभा वे' शरीराभावेऽपि तदभिमानाभावेऽपि भोगो दृष्टस्तथा 'तन्वभावे' तद्दशायां मुक्तौ 'तन्वभावे' देहाभावेऽपि भोगोपपत्तिरिति सूत्रार्थ उ क्तो भवति ॥ (५) देहसद्भावे तत्र तत्त्वप्रदीपरीत्या मिथ्याभिनिवेशरूपाभिमाना भावेऽपि लक्ष्म्यादिसाधारणस्य स्वकीयत्वज्ञानमात्ररूपाऽभिमानस्या

१०८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (६) ब्रह्मवैवर्ते च--- स्वप्नस्थानां यथा भोगो विना देहेन युज्यते । एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥ स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् । स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदा चन ॥ इति ॥ १४ ॥ पि भावात्सुतरां भोगोपपत्तिरिति भावेन सूत्रमुपन्यस्यति—भाव इति ॥ अत्र भाव इत्यतः पूर्वं तन्वा इति विपरिणत्यान्वेति । सप्तम्यन्ता द्वृतिः । तन्वभावेऽपि भोगोपपत्तेरिति हेतुरत्रापि सम्बध्यते । तथा च ‘जाग्रद्वत्’ यथा जाग्रद्दशायां तनोर्भावे देहसत्त्वेऽपि भोगोपपत्तिस्त था ‘तन्वभावे’ मुक्तावपि तनोर्भावेऽपि भोगोपपत्तेः न तदनुपपत्ति रिति सूत्रार्थस्य स्मृत्यैवोक्तत्वान्न पृथगुक्तः। ननु देह सद्भावे भोगानु पपत्तेरनापादितत्वान्न परिहारायेदं सूत्रं व्यर्थमिति चेन्न, अस्य सूत्र स्य प्रदीपवदावेश इत्यत्र वक्ष्यमाणं यदुःखादिप्राप्तिरूपदूषणस्य निरा करणं तत्प्रस्तावाय तत्प्रतियोगिप्रसञ्जकप्रतिपादनाय प्रवृत्तत्वेन सा र्थकत्वात् ॥ (६) ननु सन्ध्यवत् जाग्रद्वद्भोग इव सुषुप्तथादिवद्भोगाभावोऽपि किं न स्यादिति प्रतिदृष्टान्तस्यापि वक्तुं शक्यत्वात् । देहाभावे स्वप्न वद्देहसद्भावे जाग्रद्वद्भोग इत्येतत्कुत इत्यतः पूर्वसूत्रसहितैतत्सूत्रार्थे स्मृतिं चाह ब्रह्मवैवर्त चेति ॥ उक्तमिति शेषः । न केवलं सूत्रकृता इदमुक्तमिति चशब्दार्थः । ‘स्वप्नस्थानां’ स्वप्नावस्थापन्नानां ‘देहे न विना’ तदभिमानेन विनाऽपि । अनभिमानस्याऽपि भोगाभावापादक त्वेनाभावसाम्यादेवमुक्तिः । ‘देहेन’ प्राकृतेन ‘भोजनं’ भोगः । युज्य त इत्यनुषज्यते । ‘शरीराणि’ प्राकृतानि ‘कदा चन’ भोगानन्तर काले । इतिशब्दस्य ब्रह्मवैवर्त इत्यनेनान्वयः । बृहद्भाष्यरीत्या तु सू क्ष्मस्यैव स्वरूपदेहस्य मुक्तौ वृद्धयङ्गीकारेण भोगः । तदुक्तं बृहद्भाष्ये षष्ठाध्याये— अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथा च सुमहत्तेजः करोति भगवान् महत् ॥ अतो नवतरं चैतत् ब्रह्मादीनां करोत्यजः ॥ इति ॥ व्यासतीर्थैः अल्पं परिमाणवत भगवान् मुक्तौ रूपं सुमहत् तेजो मह

[ अधि - ८. सू - १५. ] दीपिकासहितम्. १०८९ (७) सू - ॐ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ ॐ ॥ १५ ॥ शरीरमनुविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगान नुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादि षु प्रविष्टः तत्स्थं तैलाद्येव भुङ्क्ते न तु काष्र्ण्यादि । ' तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति ' त्करोतीत्यर्थ इति । अत्र स्वरूपदेहस्य महत्त्वं च स्वस्वचरमशरीरसम त्वेन तूलपिण्डवत् प्रचय एव । न च प्रचयशब्दितविकाराङ्गीकारे ऽनित्यत्वापत्तिः । ईश्वरशक्त्या तद्भावोपपत्तेः । उक्तं हि गीताभा ष्ये 'शरीरं जायते तेषाम्' इति द्वितीयाध्यायव्याख्यानावसरे । प्रमे यदीपे तु विकारित्वाद्धिनाशः स्यादित्यत उक्तं-ईश्वरशक्त्येतीति ॥ (७) ननु देहसद्भावे भोगोपपत्तावपि दुःखमप्यापद्यते एवेत्युक्त मेवेत्याशङ्कां परिहरत्सूत्रं पठति—प्रदीपवदिति ॥ अत्र मुक्तानामिति प्रकरणाल्लभ्यते । प्रदीपवदिति षष्ठ्यन्ताद्वतिः । आवेशः प्रवेशः । स्व कीयत्वज्ञानरूपाभिमानः । तथा च 'अपि' यद्यपि मुक्तानां 'आवेशः' शुद्धप्रकृतिमयज्योतिरूपसुखैकायतनबाह्यदेहप्रवेशः तदभिमानोऽस्ति तथापि न ते दुःखादीननुभवन्ति किंतु साधूनेव प्रदीपवदिति सद्द ष्टान्तं प्रतिज्ञावाक्यस्य अर्थमभिप्रेत्याह—शरीरमिति । शुद्धप्रकृतिम यज्योतिरूपशरीरमित्यर्थः । समुदायेकवचनमेतत् । 'अनुप्रविश्य' इच्छानुसारेण प्रविश्य तदभिमानिनो भूत्वा । तत्कार्यमाह-तदिति । 'पुण्यान्' तत्साध्यान् साधून् 'भोगान्' भाग्यान् । पुण्यानित्यनेनाग्नि होत्रादित्यत्र ज्ञानोत्तरपुण्यभाजो यद्भोगबाहुल्यमुक्तं तत्सूचयतीत्यु क्तं तत्त्वप्रदीपे । मुक्ताः न तु दुःखादीननुभवन्ति, किन्तु पुण्यानेवेति यो जना । न पापसाध्यानसाधून् दुःखादीनित्येवार्थः । आदिशब्देनासह्मा विषया गृह्यन्ते । 'तत्स्थं' दीपिकास्यितं 'भुङ्क्ते' गृह्णाति । द्वितीया न्तप्रथमादिशब्देन घृताद्युच्यते द्वितीयेन धूल्यादिकम् । तुरप्यर्थः । 'काष्र्ण्यादीन्' मालिन्यादीनपीति । भुङ्क्ते इत्यनुषज्यते । तथेति शे षः । तथेत्यन्तं भाष्यं शरीरमित्यादेः प्राक् संयोज्यम् । 'तत्' शरीरं प्रकाशयन्तः चित्स्वरूपादिविवेचयन्तः आत्मज्योतिषा प्रकाशयन्तो वा इत्यनेन प्रदीपवदिति प्रदीपदृष्टान्ते वक्तुः सूत्रकारस्य यथा प्रदीपो दीपिकां प्रकाशयन् तत्स्थं तैलाद्येव भुङ्क्ते, न प्रकाशविरोधीन् का १३७

१०९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ( बृ. ६-३-२२. ) इति हि दर्शयति ॥ १५ ॥ (८) न च ' स्वर्गे लोके न भयं किञ्चनास्ति' ( कठ. १-१२. ) इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः— ख्यादीन् । तथा मुक्ताः जडशरीरं प्रकाशयन्तो देहविवेकज्ञानवत्त्वाद्गु- णानेव भोग्याननुभवन्ति, न तन्निमित्तकं दुःखादीति विवक्षोक्ता भवति। न च ' न ह वै सशरीरस्य' (छा. ८-१२-१.) इति श्रुतिविरोधः । तस्याः कर्मारब्धदेहविषयत्वादिति भावः । ननु देहसद्भावे कुतो मुक्तस्य दुः- खाभावः, कुतश्च श्रुतेरर्थान्तरपरत्वं दृष्टान्तमात्रस्यासाधकत्वादित्यतः प्रवृत्तं तथा हि दर्शयतीति हेत्वंशं व्याचष्टे—तीर्णो हीति । श्रुतिरिति शेषः । ' हि' यस्मात् तं

[ अधि - ८. सू - १६. ] दीपिकाসহিতम्. १०९१ सू - ॐ ॥ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ ॐ ॥ १६ ॥ सुप्तौ मोक्षे वा तदुच्यते । 'अत्र पिताऽपिता भवति .. ज्यम् । हेत्वर्थे चायं, अतो न वाच्यमित्यन्वयः । यद्वा-सुप्तौ मोक्ष इति विषयसप्तमी । 'तत्' तीर्णो हीति वाक्यं 'उच्यते' पठ्यत इत्य र्थः । यद्यपि सूत्रनिर्देशानुसारेण मोक्षे सुप्तौ चेति वक्तव्यम् । तथा पि 'तीर्णो हि' इति वाक्यस्योभयपरत्वेऽपि मुख्यत्वमेव, न त्वेकत्र मुख्यताऽन्यत्रामुख्येतेति ज्ञापनायैवं व्यत्यासेनोक्तिः । कुतोऽस्य वाक्य स्य सुप्त्यादिविषयतेत्यतः प्रवृत्तमाविष्कृतं हीत्यंशं व्याचष्टे-अत्रेति । इत्यादीति । आदिशब्दस्योभयत्र सम्बन्धः । 'अत्र पिताऽपिता भव ति' इत्यादिना वाजसनेयवाक्येनेति । अत्रत्यादिशब्देन 'माताऽमाता भवति' (बृ. ६-३-२२.) इत्यादिशिष्टवाक्यं गृह्यते । 'अनन्वागतं पुण्ये नानन्वागतं पापेन' (बृ. ६-३-२२. ) इत्यादिशब्देन लिङ्गान्तरबोधकं वाक्यान्तरं गृह्यते । आविष्कृतत्वादिति । व्यक्तीकृतत्वादित्यर्थः । ए तद्वाक्यस्य सुप्त्यादिविषयत्वस्येति शेषः । अनेन हिशब्दो हेत्वर्थतया व्याख्यातः । भगवत्सम्परिष्वक्तो जीवः पूर्वं स्वपुत्राणां पिता 'अत्र' सुप्तौ मुक्तौ चापिता भवति । दायादानात् तेषां दुःखाददुःखाच्चेति भावः । पूर्वं माता अमाता भवति । एवमनिष्टपुण्येन पापेन च 'अन न्वागतं' अन्वागमनं न भवतीति श्रुत्यर्थः । नन्वपितृत्वादिलिङ्गं पुण्य पापाद्यसङ्गत्वादिलिङ्गं च कथं सुप्ते सङ्गतमिति चेदुच्यते । सुप्तिसम ये स्वपुत्राणां दायादानेन पुत्रेष्वभिमानाभावेन च सुप्तस्यापितृत्व ममातृत्वं च युक्तम् । यथोक्तं बृहद्भाष्ये- तेनाश्लिष्टः स्वपुत्राणां दायादानात् न वै पिता । तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि ॥ इति ॥ एवं सुप्ते वृत्तिसुखदुःखयोरभावेन तत्साधनपुण्यपापयोरसम्बन्धो भा विदुःखशङ्काभावेन शोकतरणं च युक्तमिति द्रष्टव्यम् । सूत्रार्थस्तु- 'तीर्णो हि' इति वाक्यं 'स्वाप्ययसम्पत्त्योः' मुक्तिसुप्त्योर्मध्ये 'अन्य तरापेक्षं' उभयापेक्षमुभयविषयमेव, न स्वर्गविषयम् । कुतो ? 'हि' यस्मात् अस्योभयविषयत्वं 'अत्र पिता' इत्यादिना 'आविष्कृतं' प्र कटितं तस्मादिति । सूत्राक्षरस्वारस्यं तु कर्मनिर्णयटीकायां बृहद्भा ष्ये चोक्तम् । तथा हि-यदि स्वाप्ययसम्पत्त्यपेक्षमित्युच्यते, तदा

भङ्गलक्षणपरमुक्तियुक्तस्यैव तस्य पुत्रकृतश्राद्धादिभोक्तुरपितृLine 23:त्वायसम्भवात्, पुण्याद्यनन्वागमनाद्योगाच्च ॥Line 24:(९) अधिकरणार्थं स्मृत्तिमुदाहरति — ब्रह्मवैवर्ते चेति ॥ 'विश्वLine 25:मोक्षिणः' सर्वे मुक्ताः 'गुणमात्रस्वरूपिणः' ज्ञानानन्दादिगुणैकस्वरूLine 26:पिणः सर्वशोकान् तीर्णाश्च भवन्ति 'हि' यस्मात्ते गुणमात्रस्वरूपिLine 27:णः तस्मात्स्वेच्छागृहीतेषु 'ज्योतिर्मयेषु' शुद्धसत्त्वात्मकेषु देहेषु 'सुLine 28:सुखान्येव' दुःखासम्भिन्नसुखादीन्येव भुञ्जते यस्मात् ते सर्वशोकान्Line 29:तीर्णाः तस्मात् कदाचन दुःखादीन् नैव भुञ्जते इत्यन्वयः । ते मुक्ताःLine 30:अनिष्टकाम्यपुण्यपापादिवर्जिताः सर्वदोषनिवृत्ता इत्यनुवादः । गुणLine 31:मात्रस्वरूपिणः सर्वशोकान् तीर्णा इत्यनेन भुञ्ज

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०९३ तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः । निवृत्तसर्वदोषास्ते गुणमात्रस्वरूपिणः ॥ इति ॥ १६ ॥ ९. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ जगद्व्यापारवर्जम् ॥ ॐ ॥ १७ ॥ ‘सर्वान् कामानाप्त्वाऽमृतः समभवत्’ ( ऐ. आ. २- ५-४. ) इत्युच्यते। तत्र सृष्ट्यादिभ्योऽन्यान् व्यापा रानाप्नोति ॥ १७ ॥ ( २ ) कुतः ? खादीनित्यनेन वा, अस्यार्थस्य प्राप्तत्वात् । ननु सर्वेषां ज्योतिर्मयदेहाभा वात्कथं विश्वमोक्षिण इत्युक्तिरिति चेत्, अत्र केचित्—विश्वपदस्य सङ्कोच इति । अन्ये तु—एतद्वाक्यबलादस्तु विश्वेषां ज्योतिर्मयदेह इत्याहुः । एके तु—विश्वमोक्षिण इत्यस्य कर्मक्षयोत्क्रान्तिमार्गभोगाख्य चतुर्विधमोक्षवन्त इत्यर्थः । तेन नोत्क्रामन्तीति वक्ष्यमाणमुक्तव्यावृ त्तिरित्याहुः । इति ब्रह्मवैवर्ते इत्यन्वयः ॥ ८ ॥ ॥ इति अभावाधिकरणम् ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्ता समर्थ्यते । त त्र ‘सर्वान् कामान्’ इति श्रुतेर्मुक्ता जगत्सृष्ट्यादिसर्वकाम्यान्प्राप्नुव न्तीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—जगदिति ॥ आप्नो तीत्यनन्तरमेवशब्दशिरस्कमुच्यत इत्येतदनुषज्यते। अपीति शेषः। त था च अपि यद्यपि ‘सर्वान् कामानाप्त्वाऽमृतः समभवत्’ इत्यैतरेये ‘अ मृतो’ मुक्तः सर्वान् काम्यभोगानाप्नोतीत्युच्यते। तथाऽपि ‘तत्र’ स र्वपदोदितेषु मध्ये सृष्ट्यादिभ्योऽन्यानेव सर्वानाप्नोति । न च श्रुतिवि रोधः । यतस्तत्र श्रुतौ सृष्ट्यादिभ्योऽन्यान् कामानाप्नोतीत्येवोच्यते, न तु सृष्ट्याद्याप्नोतीति योजना । अनेन सूत्रे मुक्त इत्यनुवर्तते । सर्वा न् कामानाप्नोतीति श्रुत्यर्थ इति शेषः । जगद्व्यापारवर्जमिति सावधा रणम् । मुक्तो जगद्व्यापारवर्जं सर्वान् कामानाप्नोति । न च श्रुतिवि रोधः । यतो मुक्तो जगद्व्यापारवर्जमेव सर्वान् कामानाप्नोतीति श्रुत्य र्थो युज्यत इति सूत्रार्थ उक्तो भवति ॥

१०९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] सू—ॐ ॥ प्रकरणादसन्निहितत्वाच्च ॥ ॐ ॥ १८ ॥ जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । (३) वाराहे च— स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामस्स्यादन्यान् कामांस्तु भुञ्जते ॥ तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते । न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत् ॥ इ ति ॥ १८ ॥ (२) कुतः सर्वश्रुतेस्सङ्कोच इत्याक्षिपति—कुत इति ॥ तत्परि- हाराय सूत्रं पठित्वा प्रतिज्ञायाः पूर्वसूत्रेणैव प्राप्तत्वात्तामनुक्त्वा सौ- त्रहेतुं व्याचष्टे—प्रकरणादिति ॥ अस्य जीवप्रकरणत्वादित्यनेन सूत्रे जीवेत्यादौ ग्राह्यं भावप्रधानो निर्देश इत्युक्तं भवति । अयं हेतुसाध- को हेतुः । साक्षाद्धेतुस्तु अत्रोच्यमानस्य जीवत्वादिति जीवपदसूचि- तः । तादृगिति । जगद्व्यापारशक्तिरहितत्वादित्यर्थः । अयं च हेतुः । साक्षाद्धेतोरप्रयोजकत्वशङ्कापरिहारकः । अत्रापि जीवत्वादित्येव हेतु- स्सोऽपि द्वितीयजीवपदेन सूचितः, अत एव सूत्रे हेतूनां समुच्चये च- शब्दः प्रायोजि ॥ (३) ननु संसारिजीवानां तादृक्सामर्थ्यविदूरत्वेऽपि सत्यकामा- नां मुक्तजीवानां तत्सम्भवत्यतो जीवत्वहेतुरसत्यकामत्वोपाधियुक्तोऽ- प्रयोजक इयतश्चशब्दसूचितां स्मृतिमुदाहरति—वाराहे चेति ॥ न केवलं सूत्र इति चार्थः । अयमर्थ उक्त इति शेषः । स्वेति । स्वयोग्या- दधिकेत्यर्थः । अपिस्समुच्चये । तुश्चार्थे । प्राप्तिश्च न स्यादिति उक्ता- दन्यांस्तु कामयन्ते कामितांश्च भुञ्जत इत्यन्वयः । स्वाधिकेति उत्तरा- धिकरणोपयोगितयोक्तम् । कुतोऽकाम इत्यत आह—तदिति । ‘कदा- चित्क्वापि’ स्थाने अधिकानन्दे सृष्ट्यादिव्यापारे च ‘तेषां’ मुक्तानां ‘योग्यता’ सामर्थ्यं न विद्यत एव, यतोऽतो नैव कामः स्यादित्यन्वयः। नन्वयोग्यस्याप्यप्राप्त्यकामौ कुतो, व्याप्त्यभावादित्यत आह—न चे- ति । विशेषणान्तरसमुच्चयेऽपिः । तथा च सत्यकामोऽपीत्यर्थ इति के- चित् । न केवलं संसारीत्यपरे । वस्तुतस्तु यः कोऽपीत्यर्थेऽपिशब्दः । अनेन व्याप्तिरुक्ता भवति । आद्यश्चोऽवधारणे । द्वितीयस्समुच्चये । इ

[ अधि - ९. - सू - १९. ] दीपिका सहितम्. १०९५ ( ४ ) सू—ॐ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्ड लस्थोक्तेः ॥ ॐ ॥ १९ ॥ 'ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावह न्ति' (तै.उ.१-५.) इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्य ति वाराह इत्यन्वयः । असत्यकामत्वं तु 'नैव योग्यता' इति स्मृत्या निश्चितसाध्यवति पक्षे अभावेन साध्याव्यापकत्वान्नोपाधिरिति भावः॥ ( ४ ) मुक्तस्य जगदैश्वर्याभावमाक्षिप्य समादधत्सूत्रमुपन्यस्य पू र्वपक्षांशं व्याचष्टे—प्रत्यक्षेति ॥ इति वाक्ये प्रत्यक्षं स्फुटमेव मुक्तस्या खिलदेवतापूज्यत्वप्रथमोत्पन्नत्वाय्युपदेशाच्छ्रवणादित्यर्थः । सूत्रेऽध्या हार्यां पूर्वपक्षप्रतिज्ञां दर्शयति-जगदैश्वर्यमस्तीति । अशेषमुक्तानामि त्युपस्कार्यम् । 'ता वा एताश्चतस्रश्चतुर्धा, चतस्रश्चतस्रो व्याहृतयः, ता यो वेद' ( तै.उ.१-५० ) इत्यादि तैत्तिरीयश्रुतेरयमर्थः । भूर्भुवस्सु वर्मह इति चतस्रो व्याहृतयः तच्छब्दवाच्याः लोकज्योतिःप्राणवेदेषु स्थिता अनिरुद्धादिभगवद्रूपविशेषाः प्रत्येकमनिरुद्धादिभेदेन चतुर्धा भवन्ति । ते तु अनिरुद्धानिरुद्धः अनिरुद्धप्रद्युम्नोऽनिरुद्धसङ्कर्षणोऽनि रुद्धवासुदेव इत्यादिरूपाः । ता एव चतस्रः चतस्रः षोडशमूर्तयः । यथोक्तं तैत्तिरीयभाष्ये— लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः । प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ इति ॥ व्याहरणनिमित्ताद्व्याहृतिशब्दिताः । 'ताः' मूर्तीर्यो वेद स एव परं ब्रह्म वेद । 'अस्मै' षोडशात्मविदे सर्वे देवाः 'बलिं' करं 'आवह न्ति' प्रयच्छन्ति । सर्वदेवपूज्यो भवतीति यावदिति । परिहारांशं व्याचष्टे—नेति । नैतच्छ्रुतिबलेनाशेषमुक्तानां जगदैश्वर्यसिद्धिरित्य र्थः । कुतो नेत्यतः श्रुतावशेषमुक्तानुक्तेरित्याशयेन आधिकारिकेति हे त्वंशं सावधारणं भावप्रधानत्वं आवृत्तिं चाभिप्रेत्य व्याचष्टे—आधि कारिकेति । आधिकारिकमण्डलाधिपत्ये इत्यर्थः । प्रकारसमर्पकमि दं ब्रह्मेत्यनन्तरं योज्यम् । 'हि' यस्मात् । अत्राधिकारिकशब्दो यौ गिको न तु आधिकारिका इति पुरुषविशेषसंज्ञा 'प्रजापाश्च तथा देवाः' इति वचनादिति प्रमेयदीपिकोक्तरीत्या रूढः । तथा च तत्रो दाहृतवाक्ये ये आधिकारिकाः स्वावरप्रेरणाधिकारे विष्णुना नियु

१०९६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ४.] स्तीति चेन्न, आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते । ( ५ ) गारुडे च— आत्मैत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥ काश्चतुर्मुखेतरमुक्तदेवाः तेषां मण्डलं समूहः तत्र स्वामित्वेन तिष्ठ तीति तत्स्थः तदधिपतिः तस्यैव मुक्तविरिञ्चस्यैव आधिकारिकमण्ड लस्थत्वस्यैव मुक्ताधिकारिकदेवतापूज्यत्वस्यैव उक्तेरिति हेत्वर्थ उ क्तो भवति । 'ता यो वेद' इति श्रुतेः विरिञ्चपरत्वं 'माहाचमस्यः' ( तै. उ. १-५० ) इत्युपक्रमात्सिद्धम् । माहाचमस्यशब्दश्च महाचमसनामाऽसौ यस्मादतिचमत्कृतिः । माहाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥ इति तैत्तिरीयभाष्योदाहृतवचनाच्चतुर्मुखपरः । सूत्रे मुक्तदेवमण्डले ति वाच्ये अत्राधिकारिकेत्युक्तिर्मुक्तब्रह्माऽन्यदेवानापि मुक्तस्वाव रनियमनाधिकारिक

[ अधि - ९. सू - १९. ] दीपिका सहितम्. १०९७ अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन । केचित्स्वर्गे महर्लोके जने तपसि चापरे ॥ इति बृहद्भाष्यान्नैकगुणोपासकातिरिक्तविषयमिति न तद्विरोधः । स्मृ तौ केचिदत्यल्पा मानुषा अपरोक्षज्ञानिनो देहपाते प्रत्यासन्ने स्वी यारब्धकर्मजान् ' मरणोच्छूनतादीन् ' मरणदेहोपचयादीन् देहस्य दो षान् ' सर्वशः ' सर्वतो भुक्त्वैव स्थिताः, अथ देहे जीर्णे देहतो ब्रह्म नाड्या नाड्यन्तरेण वाऽनुत्क्रम्यैव देहनाशपर्यन्तं तत्रैव स्थिताः अथ प्रलये मुक्तिं लिङ्गभङ्गरूपां ' गच्छन्ति ' प्राप्नुवन्ति । तदनन्तरं सकृ च्छ्वेतद्वीपं गच्छन्ति । तत्र विष्णुं दृष्ट्वा तदनुज्ञया ' पुनरत्रैव ' भूलोक एव नित्यानन्दैकभोगिनः ' सन्ति ' तिष्ठन्तीति योजना । तत्त्वप्रदीपे तु नोत्क्रामन्तीत्यस्य सृष्टौ सकृच्छ्वेतद्वीपगमनात्परमस्माद्देहदेशान्नोत्क्रा मन्तीत्यर्थः । अन्यथा ' बहुनात्र ' इति वचनविरोधात् । 'तदोकोऽग्रज्व लनम् ' इत्यादिना ज्ञानिनो देहदेशान्निर्गमनस्योक्तत्वाच्चेत्युक्तम् । त स्य— ' परं ' अनन्तरमस्मान्नोर्ध्वं गच्छन्ति । ' अन्यथा ' कदापि श्वे तद्वीपगमनात्पूर्वमपि नोत्क्रामन्तीत्यर्थाभ्युपगमे । नोत्क्रामन्तीत्यस्य ब्र ह्मनाड्युत्क्रमणाभावार्थत्वं किं न स्यादित्यत आह-तदोक इत्यादीत्यर्थः। अस्मिन् पक्षे ' तदोकः ' इति सूत्रमेकानेकगुणोपासकज्ञानिसामान्य परम् । बृहद्भाष्यं तु श्वेतद्वीपगमनात्परमस्माद्देहदेशादनुत्क्रम्यैवेत्यर्थ कमिति ध्येयम् । केचित्तु — ' नोत्क्रामन्ति कदाचन ' इत्यस्य इतरमु क्तवदेकवारं ब्रह्मनाड्योत्क्रमणेन मुक्तौ सत्यां पुनः स्वयोग्यस्थाने स्थि त्यनन्तरं ' नोत्क्रामन्ति ' नोर्ध्वं गच्छन्तीत्यर्थमाश्रित्य अत एव ' अत्रै व च स्थितिस्तेषां अन्तरिक्षे च केचन ' इत्युक्तम् । अन्यथा लिङ्गश रीरभङ्गाभावान्मुक्तिरेव तेषां न स्यादिति तत्त्वप्रदीपरीत्यैवार्थमा हुः । ' आत्मेत्येवोपास्व ' इति वचनस्य ' आनन्दाद्यः प्रधानस्य ' इ त्युक्तिविरोधपरिहारस्तु तस्याश्चतुर्विधमोक्षार्थचतुर्गुणोपासकविषय त्वात् अस्याश्च कतिपयमोक्षयोग्यैकगुणोपासकविषयत्वाद्विन्नविषय त्वेन विरोधाभावादिति तत्रैव कृतः । केचित्तु — आत्मेत्युपलक्षणम् । आनन्दादयोऽपि ग्राह्याः । एकगुणोपासकविषयकल्पनया समाधान टीका तु ' अस्तु वा ज्ञातता ' इत्यादिप्रौढवादेनैव प्रवृत्ता नाभ्युपग मवादेनेत्याहुः । तन्न, आनन्दमालायां—अथ चतुर्गुणोपास्तेरशक्य १३८

१०९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । त्वे आनन्दादीनां आत्मत्वगुणैकीकारेणापि कथं चिदुपास्तिरस्ति, त था च सच्चिदानन्दो विष्णुरात्मेत्युपास्य इत्यन्वय इत्युक्तिविरोधात् । ‘तेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम्’ इति छान्दोग्यभाष्यो क्तेरेकगुणोपासनाख्यावशेषवतां मनुष्याणां भूर्भुवस्स्वराख्यलोक प्राप्तिस्सिद्धा । तत्र भूलोकस्था उक्ताः । भुवस्स्वर्गस्थमुक्तानाह— अन्तरिक्षे त्वित्यादिना । तुशब्दोऽप्यर्थः । ‘केचन’ पूर्वोक्ता उत्तमा मनुष्याः । मुच्यन्त इत्यन्तं उभयत्राप्यनुषज्यते । नोत्क्रामन्तीत्येतत्तु पू र्वेणैव योज्यम् । एवं किमुशब्दैरुक्तानां मनुष्याणां स्थितिमुक्त्वा ते भ्योऽधिकानां स्थितिमाह—महरिति । ‘जने’ जनलोके ‘तपसि’ त पोलोके । चस्समुच्चये । ‘सत्ये’ सत्यलोके । सर्वत्र मुच्यन्त इत्यनुष ज्यते । ‘महाज्ञानाः’ बहुकालं ब्रह्मदर्शिनः अप्रतीकालम्बनाख्याः बहु गुणोपासकास्तु ‘क्षीरसागरं’ तत्रत्यश्वेतद्वीपं गच्छन्तीत्यर्थः । उपल क्षणमेतत् । तिष्ठन्तीत्यपि द्रष्टव्यम् । न च अत्रैव मुच्यन्ते, अत्रैव च स्थितिस्तेषाम्, महाज्ञाना गच्छन्ति क्षीरसागरम्’ इत्युक्त्या महाज्ञा नातिरिक्तानां एकगुणोपासकादीनां श्वेतद्वीपागमनप्राप्तेः बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तस्स्यात्....॥ इत्यत्र च सर्वेषां श्वेतद्वीपगमनोक्तेर्विरोध इति वाच्यम् । सर्वेषामपि सकृच्छ्वेतद्वीपगमनाभ्युपगमात् । तथाचाण्डलयकाले स्वोत्तमप्रवेशे नोर्ध्वं गताः भग्नलिङ्गाः सकृच्छ्वेतद्वीपं गत्वा पुनर्धरादिकमागत्यानन्त रमत्रैव तिष्ठन्तीत्याशयेन ‘अत्रैव च स्थितिः’ इत्याद्युक्तिरित्युक्तं भ वति । उक्तं हि छान्दोग्यभाष्ये— श्वेतद्वीपं ततो गत्वा दृष्ट्वा विष्णुं च तेन ते । अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति ॥ ननु गीताभाष्ये—ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्र या न्ति योग्यत्वं चात्र विवक्षितमित्युक्तेः सर्वेषां श्वेतद्वीपगमने तद्विरोध स्स्यादिति चेन्न, तस्य क्षीराब्धाववस्थानाय योग्यत्वं विवक्षितमित्ये तदर्थकत्वात् । अत एव प्रमेयदीपिकायां अत्रेत्यनन्तरं निवास इति शेषः कृतः । तथा च महाज्ञानित्वलक्षणयोग्यत्वं चात्र क्षीराब्धिगत