पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा ॥ इति च पाद्मे ॥ २७ ॥ १४. अधिकरणम् ॥ ( १ ) ‘तत्त्वमसि’ (छा. ६-८-७.) ‘अहं ब्रह्मास्मि’ (बृ. ३- ४ - १०.) इत्यादिषु जीवस्य परेणाभेदः प्रतीयते । ‘नित्यो नित्यानां चेतनश्चेतनानां’ (श्वे. ६-१३.) ‘द्वा सुपर्णा’ (श्वे. ४-६.) इत्यादिषु भेदः । ( २ ) अत उच्यते— सू—ॐ ॥ पृथगुपदेशात् ॥ ॐ ॥ २८ ॥ ख्यसम्पत्त्या स्वात्मानं बहुधा कृत्वा क्रीडत इत्यर्थः । ‘एतेन योगः’ इत्यत्रेतरयोगशास्त्रस्यैव दृगर्थविषये अप्रामाण्यमुक्तं भगवता, न तु परमयोगस्येति तत्त्वप्रदीप एवोक्तम् । इति पाद्मे इत्यनन्तरं सूत्रकृदु- क्तमुक्तमिति शेषः ॥ १३ ॥ ॥ इति व्यतिरेकाधिकरणम् ॥ ─── * ॐ * ─── १४. अधिकरणम् ॥ ( १ ) अस्मिन्नधिकरणे जीवस्य परमात्माभिन्नत्वादिविषयश्रुति- विरोधः परिह्रियते । संशयबीजं श्रुतिद्विगानं दर्शयति-तत्त्वमसीति ॥ ‘इत्यादिषु’ एवमादिश्रुतिवाक्येषु । आदिशब्देन ‘स यो हवै तत्पर- मं ब्रह्म वेद ब्रह्मैव भवति’ (मु. ३-२-९.) इत्यादिकं गृह्यते । ‘परे- ण’ परमात्मना । ‘नित्यो नित्यानाम्’ इत्यत्र ‘चेतनश्चेतनानाम्’ इ- त्यत्र च निर्धारणषष्ठ्या जीवस्य भेदः प्रतीयते । ‘द्वा सुपर्णा’ इत्य- त्र तु अभेदविरोधिद्वित्वसङ्ख्यया भेदवाचकद्विशब्देनैव वा भेदोऽव- गम्यत इति ध्येयम् । ‘तत्त्वमसि’ इत्येतदानन्दमयाधिकरणे ‘नित्यो नित्यानाम्’ इत्येतत् ‘नात्मा’ इत्यत्र ‘द्वा सुपर्णा’ इत्येतत् द्युभ्वा- धिकरणे व्याख्यातम् ॥ ( २ ) ‘तत्त्वमसि’ इत्यादिश्रुतेः षड्विधतात्पर्यलिङ्गोपेतत्वेन प्रबल- त्वात् परमात्माभिन्न एव जीव इति पूर्वपक्षे सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ उपदेशादित्यस्यार्थः श्रुतेरिति । नन्वभेदश्रुतेर-
[ अधि - १४. सू - २९. ] दीपिकासहितम्. ५९३ 'भिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेत्' इति सोपपत्तिककौशिकश्रुते र्भिन्न एव जीवः ॥ २८ ॥ ( ३ ) सू—ॐ ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ ॐ ॥ २९ ॥ ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपम् भिन्नो जीव इत्यपि सुवचत्वादवधारणानुपपत्तिरित्यतः सोपपत्ति केति हेतुविशेषणमदायि । विरुद्धधर्माधिकरणत्वरूपयुक्तियुक्तेत्य र्थः । सावधारणस्य पृथगिति साध्यपदस्यार्थो भिन्न एवेति । स्वात्मने तिप्रकृतपरमात्मन इति शेषः । ज्ञ इत्यस्य अनुवृत्तपदस्यार्थो जीव इ ति । श्रुतिसूत्रयोः प्रतिज्ञावाक्यादित्वेऽपि हेतुगर्भा प्रतिज्ञाऽपि उपप त्तिज्ञापिकेति प्रमाणलक्षणोक्तेरनियमपक्षमाश्रित्य हेतुगर्भप्रतिज्ञैवेह प्रदर्शिता । एवमन्यत्रापि द्रष्टव्यम् । यतः 'परः' परमात्माऽचिन्त्यः साकल्येन 'जीवसङ्घात्' जीवसमुदायात् 'परमः' उत्तमः पूर्णः गु णैः । जीवसङ्घस्तु चिन्त्यः परमत्वावधिभूतोऽपूर्णश्च 'हि' प्रसि द्धः । किञ्च—यतोऽसौ हरिर्नित्यमुक्तः, अयं जीवश्च संसरति बन्धान्मो क्षं 'ततः' परमादेव स्वस्याभिवाञ्छति 'हिः' प्रसिद्धम् । अतो जी वविरुद्धधर्मत्वात् ततो भिन्न एवेति श्रुत्यर्थः । यद्यपि श्रुतावीश्वरध र्मिकाभेदस्यैव श्रवणात् 'जीवैक्यं परमात्मनः' इत्यनुव्याख्याने तथै वोक्तत्वाच्च ईश्वरो जीवाद्भिन्न इति प्रतिज्ञातव्यम् । तथाऽपि जीवपेटि कात्वादेकवित्तिवेद्यतया विरुद्धधर्मोक्तिद्वारा जीवधर्मिकभेदस्यापि श्रु त्युक्तत्वादेवमुक्तम् । अत एव सुधायां—यतो विष्णुः जीवात् जीवश्च विष्णोः पृथगिति साध्यनिर्देशः कृतः ॥ ( ३ ) नन्वेवं सति 'तत्त्वमसि' इत्याद्यद्वैतश्रुतेर्निर्विषयतयाऽप्रामा ण्यं स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—तदिति ॥ ज्ञाना नन्दादिब्रह्मगुणा एवेत्युक्त्या अभेदेत्युक्त्या च तदिति तच्छब्दद्वये न स्वात्मनेतिप्रकृतस्य परमात्मनः परामर्शः, तस्य गुणास्तद्गुणा इ ति विग्रहः, तद्गुणशब्दस्तद्गुणसदृशगुणपरः, द्वितीयतच्छब्दो भावप्र धान इति च सूचितम् । अस्येत्यनेन ज्ञस्येति विपरिणतपदस्य सूत्रेऽ नुवृत्तिस्सूचिता । न चायोग्यस्य जीवस्य ज्ञानानन्दादिगुणाभाव इति ७५
५९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] तोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात्सर्वात्मक त्वं ब्रह्मण उच्यते 'सर्वं खल्विदं ब्रह्म' ( छा. ३-१४- १०) इति । (४) भविष्यत्पुराणे च— वाच्यम् । अस्य शास्त्रस्य विशिष्टाधिकारित्वेन तं प्रत्येव 'तत्त्वम सि'इत्याद्युपदेशप्रवृत्तेः अस्य सज्जीवस्येत्यर्थाभ्युपगमात् । सारपदमनू द्य व्याचष्टे—सारः स्वरूपमिति । न च ज्ञानानन्दादिरूपब्रह्मगुणानां कथं जीवस्वरूपत्वमिति वाच्यम् । ब्रह्मगुणा इत्यस्य तद्गुणसदृशगु णा इत्यर्थाभ्युपगमात् । एवं सूत्रेऽपि गुणशब्दस्तद्गुणसदृशगुणपरः । अत इति सावधारणम् । अनेन सौत्र तुशब्दो व्याख्यातः । तद्व्यपदेशः इत्यस्य पर्यवसितार्थोऽभेदव्यपदेश इति । 'तत्त्वमसि' इत्यादिपरब्र ह्मैक्योक्तिरित्यर्थः। ज्ञानानन्दादीत्यादिवाक्यं च। यतो जीवस्य ब्रह्मगुण सदृशगुणस्वरूपत्वं, अतस्तद्विवक्षयैव गौण्या वृत्त्या जीवे ब्रह्माभेदो क्तिः अभेदप्रापकतदादिपदप्रयोगो, न त्वभेदाभिप्रायेण । यत एवमभेदव्यपदेशोऽन्यथोपपन्नः, अतो न तस्याप्रामाण्यमिति साध्या ध्याहारेणावृत्त्या योज्यम् । एवं यतस्तद्व्यपदेशो जीवस्य तद्गुणसार त्वमपेक्ष्योपपन्नोऽतो नाभेदश्रुतेरप्रामाण्यमिति प्रतिज्ञाध्याहारेण सूत्र योजना द्रष्टव्या । सर्वगुणात्मकत्वादिति । समस्तजद्गुणसदृशगुण स्वरूपत्वमपेक्ष्य यथा 'सर्वं खल्विदं ब्रह्म' इति छन्दोगश्रुतौ प्रकृ ष्टज्ञातृत्वनिमित्तात् प्राज्ञशब्दोक्तस्य ब्रह्मणः 'सर्वात्मकत्वं' जड जगदभेदः 'उच्यते' व्यपदिश्यते तथैवेत्यर्थः । यथेत्यादिना प्रज्ञ एव प्राज्ञः तद्वत् तस्य सर्वाभेदोक्तिवदिति दृष्टान्तांशो व्याख्यातः । यद्यपि छान्दोग्यभाष्ये 'इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः' इति व चनानुसारेणेदंसर्वपदयोः परमात्मनि मुख्यवृत्तिरभिहिता, न तु गौ णी वृत्तिः । तथाऽपि पदसमन्वयाभिप्रायेण तस्य प्रवृत्तत्वात् , वा क्यान्वयाभिप्रायेणात्र गौणिवृत्त्यभिधानात् न विरोधः ॥ (४) अत्रैव स्मृतिसम्मतिमाह—भविष्यदिति ॥ न केवलं सूत्र कृता सूत्र एवैतदुक्तम्, किन्तु स्पष्टोक्तिरूपे भविष्यत्पुराणे चोक्तमि त्यर्थः । किमुक्तमित्यतस्तत्पठति—भिन्ना इति । यद्यपि जीवाः परमा त्मनो भिन्नाः, परमात्माऽपि जीवेभ्यो भिन्नः । तथाऽपि सर्वेषु 'वेदवा
ृशगु-Line 13:णस्वरूपत्वादित्यर्थः । अनेन जीवब्रह्माभेदोक्तेः चित्त्वादिसाम्यं निमि-Line 14:त्तमित्युक्तं भवति । इति भविष्यत्पुराणे इतीतिशब्दान्वयः ॥ १४ ॥Line 15:॥ इति पृथगधिकरणम् ॥Line 16::*:-(decorative separator) Line 17:१५ अधिकरणम् ॥Line 18:( १ ) अत्राधिकरणे जीवनित्यत्वविषयश्रुतिविरोधः परिह्रियते ।Line 19:सफले पूर्वपक्षमाह—जीवस्येति ॥ ऽपीह इत्यत्रेति भावः । न केवलंLine 20:वियदादेः, किन्तु जीवस्यापीति वा, न केवलं जीवोपाधेः किन्तु जी-Line 21:वस्यापीति वाऽपेरर्थः । न केवलं पूर्वोक्तन्यायेनोत्पत्तिमात्रं जीवस्य,Line 22:किन्तु उत्पत्तिमतो भावस्य विनाशित्वरूपानित्यत्वनियमादनित्यत्वम-Line 23:पि प्राप्तमित्यपिशब्दाभिप्रायः । अनेन सयुक्तिकपूर्वपक्षः प्रदर्शितः ।`
५९६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ३. ] सू—ॐ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ॐ॥ ३० ॥ यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि । ( ३ ) ‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः । अत उत्पद्यते च म्रियते च विमुच्यते च’ इति च आग्नि- वेश्यश्रुतिः । ( ४ ) आत्मा नित्यस्सुखदुःखे त्वनित्ये, जीवो नित्यो धातुर नेन आत्मशब्दो व्याख्यातः । ‘तिष्ठति’ अस्तीत्यनेन भाविशब्दः , ‘अनाद्यनन्तत्वेन’ उत्पत्तिनाशशून्यत्वेनेति सत्त्वप्रकार उक्तः । ‘एवं’ तावत्कालं जीवोऽपि तिष्ठतीत्यनेन सूत्रे इहत्वनुवृत्तिस्सूचिता । न केवलं परमात्मा किन्तु जीवोऽपीति समुच्चये अपिशब्दः । अनेन बिम्ब- स्य परमात्मनोऽनाद्यनन्तत्वात् जीवस्वरूपोपाधेश्च यावदात्मभावि- त्वात् परमात्मनोऽनन्तत्वेन बिम्बोपाधिसन्निधेरनाद्यनन्तत्वात् नित्य- त्वादिति हेतुसमुच्चायकतया सौत्रचशब्दो व्याख्यातः । न दोष इति साध्यांशः अनादिकर्मसम्बन्धः आनन्त्यावाप्तिश्च न युज्यत इत्युक्तो दोषो नेति पूर्वपक्षफलकथनपरभाष्येणैव व्याख्यातप्रायत्वात् पुनर्न व्याख्यातः । अनेनैव ‘सोऽनादिना’ इति श्रुत्यप्रामाण्यदोषोऽपि नेत्यपि व्याख्यातः ॥ ( ३ ) कुत एतदखिलं सिद्धमित्यतः तत्र प्रमाणप्रदर्शकत्तया तद्- र्शनादिति सूत्रखण्डं योजयति—नित्य इति ॥ बिम्बभूतः ‘परः’ पर- मात्मा नित्यः । तथा ‘जीवः’ प्रतिबिम्बनोपाधिभूतः जीवस्वरूप- प्रकाशो ‘नित्यो’ यावत्परमात्मभावी । न चैवं ‘ब्रह्मन् लयमभ्युपै- ति’ इति जीवस्य ब्रह्मणि लयश्रुतिविरोध इत्याह—अनित्या इति । यतस्तस्य जीवस्य ‘धातवो’ बाह्यदेहाः अनित्याः अतो जीवा उत्पद्य- न्ते ‘म्रियन्ते’ नश्यन्ति इत्युच्यन्ते । तथा च श्रुतेरुपाधिविषयत्वात् न तद्विरोध इति भावः। स्वरूपतोऽविनाशित्वादेव जीवो देहबन्धात् ‘वि- मुच्यते’ आनन्त्यावाप्तिरूपमुक्तिभागी च भवतीति श्रुत्यर्थः । चशब्दः क्रियासमुच्चये ॥ ( ४ ) सूत्रे दर्शनाच्चेत्यपि चशब्दान्वयेन सूचिते स्मृती दर्शय- ति—आत्मेति ॥ सुखदुःखपदाभ्यां बाह्योपाधिरुपलक्ष्यते । अत एव टीकायाम्—धात्वादिपदोदितेत्युक्तम् । भारते आत्मेति पादः एक- स्थानस्थितः। आत्मेत्यस्य सुखदुःखेत्यस्य च व्याख्यानरूपो जीवधातु
[ अधि - १६. सू - ३१. ] दीपिकासहितम्. ५९७ स्य त्वनित्यः । इति च भारते ॥ ३० ॥ -: * :- १६. अधिकरणम् ॥ ( १ ) ‘विज्ञानात्मा सह देवैश्च सर्वैः ' ( प्र.४-११.) ‘स आ- नन्दः स परेणामुं लोकं नीयते स विमुच्यते' इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । ‘स दुःखाद्वि- मुक्त आनन्दीभवति । सोऽज्ञानाद्विमुक्तो ज्ञानीभवति । पदघटितोऽन्यः पादः स्थलान्तरंगतः । अत एव न पुनरुक्तिः । धातु- स्त्वित्यन्वयः । उभयत्रापि तुशब्दो वैलक्षण्यद्योतकः । भारत इत्यन- न्तरं वचनमिति शेषः । आग्निवेश्यश्रुतिर्वचनमित्युभयत्रापि यत इति शेषः । अस्यैवं जीवोऽपीति पूर्वेणान्वयः । चशब्दः श्रुतिस्मृतिसमुच्च- यार्थः ॥ १५ ॥ इति यावदधिकरणम् ॥ -: * :- १६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवस्य आनन्दादिरूपत्वतदभावश्रुत्योर्विरो- धः परिह्रियते । श्रुतिविरोधरूपं सन्देहबीजं दर्शयति-विज्ञानात्मेति ॥ विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र । तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेश ॥ इति षट्प्रश्नश्रुतिः । ‘स आनन्दः' इति श्रुत्यन्तरम् । इतीति । इत्या- दिश्रुतिभिरित्यर्थः । सोम्येति कस्य चित्सम्बोधनम् । तुशब्दोऽवधार- णे । तथा च ‘विज्ञानात्मा' विज्ञानस्वरूपो जीवः ‘प्राणाः' चक्षुरा- द्याः तद्विषयाश्च रूपादयः ‘भूतानि' पृथिव्यादीनि तन्मात्राश्च ‘सर्वै- र्देवैः' अभिमानिभिः सूर्यादिभिः सह ‘यत्र' यस्मिन् अक्षरे ब्रह्मणि सम्प्रतिष्ठन्ति । तदेतदक्षरं यः पुरुषो ‘वेदयते' विजानाति ‘सः' उ- क्तप्रकारेण सर्वज्ञः ‘सर्वं' पूर्णं परं ब्रह्म ‘आविवेशैव' ध्रुवमाविश- त्येवेति प्रथमश्रुत्यर्थः । ‘सः' जीवः ‘आनन्दः' आनन्दरूपः । एवं ब- लरूपः ओजोरूपः ‘परेण' परमात्मनाऽमुमामुष्मिकं लोकं प्रति नीय- ते । तत्पूर्वं तेनैव देहसम्बन्धाद्विमुच्यत इति द्वितीयश्रुत्यर्थः । आन- न्दादिगुणानां प्रत्येकमभेदे तात्पर्यज्ञापनार्थं स इत्यभ्यासः । स परेणे- त्यधिकांशोदाहरणं अस्य ईश्वरविषयतानिरासाय । एवं पूर्ववाक्य
६९८ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ३. ]
सोऽबलाद्विमुक्तो बलीभवति । स नित्यो निरातङ्कोऽ वतिष्ठते' इति पैङ्गिश्रुतावनानन्दादिरूपत्वं प्रतीयते । (२) अत आह— सू—ॐ ॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ॐ ॥ ३१ ॥ यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यते एवं
स्यापि 'प्राणा भूतानि' इत्युत्तरवाक्यबलात् ईश्वरविषयता निराकां र्या । 'सः' जीवः । आनन्दीभवतीत्येकं पदम् । पूर्वमनभिव्यक्तानन्द- रूपो मुक्तावभिव्यक्तानन्दरूपः सम्पद्यत इत्यर्थः । अज्ञानादबलादिति च्छेदः । ज्ञानीभवति बलीभवतीत्यस्यापि उक्त एवार्थः । केचित्तु— इतः परमानन्दवान् ज्ञानवान् भवतीति इनिप्रत्ययान्ततया भिन्नपदत्वा- श्रयेण व्याचक्षते । तत्तु 'आनन्दीभवति स्फुटम्' इत्यनुव्याख्याने आं- नन्दस्य स्वभावसिद्धत्वाद्भवतीति कथमित्यत—स्फुटमित्युक्तमिति सुधाविरुद्धम् । अनया आनन्दीभवतीत्येकपदप्रतीतेः। स जीवो 'नि- रातङ्को' निर्भयस्सन् नित्योऽवतिष्ठते मुक्ताविति श्रुत्यर्थः । 'अनान- न्दादिरूपत्वं' आनन्दादिरूपत्वाभावः श्रुतौ प्रतीयत इति । करणे अ- धिकरणत्वोपचारः । पूर्वं ज्ञानस्य प्रथमं ग्रहणात् तत्र तद्विरुद्धस्यैव ग्रहणे कर्तव्ये श्रुत्यनुसारादनानन्देत्युक्तम् । पूर्वत्राप्ययमेव हेतुः ॥ ( २ ) न जीवो ज्ञानादिरूपः, तथा श्रुतेरानन्दादिरूपत्वस्य अननु- भवाच्चेति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ बाल- स्येति । स्त्रीपुंसरूपचेतनस्येत्यर्थः । सामान्योक्त्या सौत्रादिशब्दः स्त्रीत्वार्थकतया व्याख्यातः । सदेवेति । बाल्ये विद्यमानमेवेत्यर्थः । न तु पूर्वं असदित्येवार्थः । 'पुंस्त्वं' अपत्योत्पादनशक्तिः । स्त्रीत्वस्या- प्युपलक्षणमेतत् । 'यौवने' यौवनावस्थायाम् । अनेन पुंस्त्वादिवदि- ति दृष्टान्तांशो व्याख्यातः । सूत्रे अवधारणार्थकतुशब्दस्य सतस्त्वि- ति सम्बन्धं, अस्येत्यस्य प्रकृततद्गुणसारत्वप्रविष्टगुणपरामर्शकत्व- मभिप्रेत्य स्वरूपतया मुक्तेः पूर्वमपि सतामेव आनन्दादीनामित्युक्तम्। यद्यपि सूत्रानुसारात्सत एव आनन्दादेरिति वक्तुमुचितम् । तथाऽपि ज्ञानानन्दादेरोजोबलादेर्बहुधर्मस्य सङ्ग्रहाय बहुवचनप्रयोगः । 'व्य- क्त्यपेक्षयैव' मुक्तौ सम्यगभिव्यक्तिनिमित्तेनैव, न तूत्पत्तिनिमित्तेनेत्ये- वकारार्थ
[ अधि - १६. सू - ३१. ] दीपिका सहितम्. ५९९
सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः । ( ३ ) बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ॥ इति गौपवनश्रुतिः ॥ ३१ ॥
दग्रहणादित्यत्रेव तुशब्दो विशेषार्थोऽपीत्युक्तं भवति । तदुक्तिरिति । आनन्दीभवतीत्यादिव्यपदेश इत्यर्थः । उपपद्यते यत इति शेषः । अने न सूत्रे तद्व्यपदेशस्येति विपरिणतपदस्य अनुषङ्गः, योगादित्यस्य आवृत्तिश्च सूचिता । अस्य हेतोः न ‘दोषः’ ‘न श्रुतिविरोधाख्यो दोष इ ति पूर्वसूत्रादनुषक्तसाध्येनान्वयः । अनेन—‘पुंस्त्वादिवत्’ यथा पु रुषयोषिदादीनामपत्योत्पादनशक्तेः स्वरूपत्वेऽपि यौवने अभिव्यक्तेः अन्यदा अनभिव्यक्तेश्च इदानीं पुमान् पूर्वं तु नेति व्यवहारविशेषोप योगिता, तथा ह्यस्य जीवस्य मुक्तेः पूर्वमपि सतोऽस्य ज्ञानानन्दादिगु णसमुदायस्य मुक्तौ ‘सतः’ प्रसन्नादीश्वरात्तत्प्रसादेन सम्यगभिव्य क्तिरूपयोगान्निमित्तादेव आनन्दीभवतीत्यादिव्यपदेशस्य पूर्वमानन्दा द्यननुभवस्य मुमुक्षुप्रयत्नस्य च योगादुपपत्तेर्न दोषो न श्रुत्यादिविरो धः । अतो मुक्त्येव जीव आनन्दादिरूप इति सूत्रार्थ उक्तो भवति ॥ ( ३ ) ननु प्रागसतामुत्पत्तिवादिनी श्रुतिः किं न स्यात्, किमभि व्यक्तिकल्पनयेत्यत आह—बलमिति ॥ ‘ओजः’ पराक्रमः । ‘सहः’ सहनशक्तिः । ‘अनाकुलं’ असंशयविपर्ययं ज्ञानम् । एतानि जीवस्य स्वरूपाण्येव मुक्तौ ‘परमाद्विभोः’ विष्णोः तत्प्रसादात् महत्तया व्य ज्यन्त एव, न तु प्रागसन्ति अपूर्णतया उत्पद्यन्त इत्यर्थः । अत एव बृहद्भाष्ये— अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथैव सुमहत्तेजः करोति भगवान् महत् ॥ इति ॥ स्वरूपस्यैव तेजसो मोक्षे भगवतः सम्यग्व्यक्तिरेवोक्ता न तूत्पत्तिः । ‘अल्पं तेजः सुमहत्करोति’ अल्परूपं परिमाणतो महत्करोति मुक्ता वित्यर्थः । एतच्च सज्जीवविषयम् । एवं तमोयोग्यानां दुःखादिरूपत्वं नित्यसंसारिणां मिश्रत्वं च ज्ञातव्यमिति । गौपवनश्रुतिरिति । यत इति शेषः । अस्यातः सतां व्यक्तिमेव आनन्दीभवतीत्यादिश्रुतिराह न तूत्पत्तिमित्यध्याहृतसाध्येनान्वयः ॥
६०० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ४ ) सू—ॐ ॥ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ ॐ ॥ ३२ ॥ व्यक्त्यनङ्गीकारे देवानां नित्योपलब्धिरानन्दादीना (४) यदुक्तं जीवस्वरूपभूतानामानन्दादीनां प्रागनभिव्यक्तानां मोक्षे अभिव्यक्तिरिति तदयुक्तम् । जीवस्वरूपस्य नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानामीश्वरप्रसादेन अभिव्यक्त्ययोगादिति चेत्—तत्र प्रष्टव्यम्, किं जीवस्यानन्दादिरूपत्वमङ्गीकृत्य तदावरणाभावान्निवृ- त्तिर्नाभ्युपगम्यते? किं वा आनन्दादिरूपत्वमेवानङ्गीकृत्येदमुच्यते ? प्र- थमपक्षदूषणाय (न च जीवस्वरूपस्याप्यानन्दादेः आवरणनिमित्ता- त्प्रागनभिव्यक्तिः, ईश्वरप्रसादेन आवरणनिवृत्तौ तदभिव्यक्तिर्भवती- ति तन्निवृत्त्यर्थात्यर्थप्रसादार्थं मुमुक्षुप्रयत्नो युक्त इति वाच्यम् । आव- रणाभावेन तन्निवृत्तेरनभ्युपगमादित्याशङ्कां परिहर्तुं) सूत्रमुपन्यस्य व्याचष्टे—नित्येति ॥ सौत्रान्यथाशब्दार्थमाह-व्यक्त्यनङ्गीकार इति । जीवस्य आनन्दादिरूपत्वमङ्गीकृत्य आवरणाभावान्मोक्षे आवरणनिवृ- त्तिरूपव्यक्तेरनङ्गीकारे आवरणस्यैवानङ्गीकार इति यावत् । तत्त्वप्र- [L
[ अधि - १६. - सू - ३२. ] दीपिकासहितम्. ६०१ मसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्य नुपलब्धी प्रसञ्ज्येते ॥ ( ५ ) 'नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसु आपादिता भवति । एवं च मध्यममनुष्याणां मिश्ररूपत्वात्स्वरूपभूत स्य सुखस्य दुःखस्य चोपलब्धिः समैव स्यात्, न तु कदाचिद्विषय सुखदुःखोपलब्धिः, आवरणाभावे अनुभवाभावायोगादिति भावः । अनेन असुरपक्षे अनुपलब्ध्यापादनमयुक्तम्, तेषां स्वरूपानन्दादेरभा वादेव अनुपलब्ध्युपपत्तेः । अनावरणस्य अविद्यमानानन्दानुपलब्धिं प्रत्यप्रयोजकत्वादिति शङ्का, एवं मध्यममनुष्यपक्षेऽप्यनुपलब्ध्यापा दनमयुक्तम् , आवरणाभावस्योपलब्ध्यभावं प्रत्यप्रयोजकत्वादिति शङ्का च निरस्ता । असुरपक्षे सूत्रे अनुपलब्धिपदेन आसुराविद्येत्या दाविव प्रकृतसुखाद्युपलब्धिविरुद्धदुःखोपलब्धेरेव विवक्षितत्वात् । मध्यममनुष्यपक्षेऽप्यनुपलब्धिपदेन निरवधारणाया दुःखानुपलब्धेरेव विवक्षितत्वात् । अत एव टीकायामेतच्च सर्व्वजीवविषयम्, केषां चिद्दुः खादिरूपत्वं मिश्रत्वं च ज्ञातव्यमित्युक्तम् । अत्र केचित्—'नित्यान न्दः' इत्यादिप्रमाणानुसारेण अन्यतरशब्दस्वारस्याच्च देवानामित्या दिभाष्यं सौत्रक्रममुल्लङ्घ्य 'अन्यतरनियमः' इत्यस्य व्याख्यानरूपं 'नित्योपलब्ध्यनुपलब्धी' इत्येतन्नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्य स्य व्याख्यानरूपं, सूत्रे उक्तिलाघवाय मध्यमजीवानां प्रथममापाद नम् । एवमसुरपक्षे अनुपलब्धिरुपलब्ध्यभाव एव, न तु दुःखोपल ब्धिः, सा तु साक्षादापाद्या, परम्परया तु सुखोपलब्धेरभाव इति व्या चक्षते । तन्न—'नित्यानन्दः' इति प्रमाणस्योक्तपक्ष एवानुगुणत्वात्, वक्ष्यमाणरीत्या अन्यतरशब्दस्योभयपरत्व एव स्वारस्याच्च, भाष्यटी कातत्त्वप्रदीपाननुगुणत्वाच्च । भाष्यटीकयोर्देवदानवमिश्रक्रमेणापाद नात् । तत्त्वप्रदीपेऽपि व्यक्तमङ्गीकारे मुक्तियोग्या विनैव साधनसम्प त्त्या नित्यव्यक्तानन्दा भवेयुः, तमोयोग्याः संसृतावपि सुखलेशहीनाः नित्यदुःखिनः स्युरित्यादिना देवादिक्रमेणैवासुरपक्षे दुःखोपलब्धेरेव च आपादनात् ॥ ( ५ ) द्वितीयपक्षं प्रमाणविरोधेन निराचष्टे— (ननु यदि जीवानां आनन्दादिरूपत्वं स्यात्तदा तस्य संसृतौ अनभिव्यक्त्यर्थे ज्ञानाभावा तिरिक्ताविद्यावरणं भगवत्प्रसादेन तन्निवृत्तिश्च अङ्गीकार्या स्यात्तदेव ७६
६०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] रा एवमनैवं च मनुष्याः' इति ह्यभिवेद्यश्रुतिः । (६) भविष्यत्पुराणे च— नित्यानन्दज्ञानबला देवा नैवं तु दानवाः । दुःखोपलब्धिमात्रास्ते मानुषास्तूभयात्मकाः ॥ (७) तेषां यदन्यथा दृश्यं तदुपाधिकृतं मतम् । विज्ञानेनात्मयोग्येन निजरूपे व्यवस्थितिः ॥ नास्ति। तदनङ्गीकारे दोषाभावादित्याशङ्कां प्रमाणविरोधेन निराचष्टे) नित्येति ॥ 'नित्यानन्दः' यथार्थज्ञानादिरूपः परमात्मेत्यर्थः । परमात्मेत्य नन्तरं एवं सुरा इत्यध्याहारोऽभिप्रेतः । अत एव स्मृतौ 'नित्यानन्दज्ञान बला देवाः' इत्युक्तम् । तत्त्वप्रदीपे तु परमात्मनो नित्यानन्दत्वोक्त्या दे वानां च नित्यानन्दत्वं विवक्षितम्, देवभागत्वातस्येत्युक्तम् । तस्याभि प्रायस्तुअत्र परमात्मशब्देन उत्तमजीवराशिर्र्विवक्षित इति सुधायामुक्तम्। चन्द्रिकायामपि तथैवोक्तम् । 'असुराः' तमोयोग्याः 'नैवं' मुक्तियोग्य वन्न, किन्तु तद्विरुद्धदुःखमिथ्याज्ञानस्वरूपा इत्यर्थः । 'मनुष्याः' म ध्यमास्तु 'एवं' आनन्दादिरूपाः 'अनैवं' दुःखस्वरूपाश्चेत्यर्थः । इति ही ति। हिशब्दः प्रसिद्धौ। श्रुतिरित्त्यनन्तरं जीवस्य आनन्दादिरूपत्वं वक्ती ति वाक्यशेषः । तथा च जीवस्यानन्दादिरूपत्वानङ्गीकारे श्रुतिविरो धापत्तेः तस्य तदङ्गीकार्यमिति भावः । यद्यप्यत्रार्थे 'विज्ञानात्मा' इ ति प्रागुदाहृतश्रुतिरतिदेष्टुं युक्ता । 'बलमानन्द ओजः' इति श्रुतिर्वो दाहर्तुं युक्ता । तथाऽपि त्रिविधस्यापि जीवस्वरूपस्यानुक्तैः श्रुत्यन्तरो दाहरणम् ॥ (६) अधिकरणार्थे स्मृतिं चाह—भविष्यदिति ॥ श्रुतिसमुच्चये चशब्दः । नित्यत्वमानन्दादेर्विशेषणम् । 'देवाः' मुक्तियोग्याः 'दान वाः' तमोयोग्याः 'एवं' देववन्न, किं तर्हीत्यत आह—दुःखोपलब्धी ति । 'ते' दानवाः 'दुःखोपलब्धिमात्राः' दुःखानुभवमात्रयोग्या इ त्यर्थः । योग्यत्वं तु संसृतावप्यस्ति । मात्रशब्देन सुखोपलब्धिर्व्याव र्त्यते । मध्यममानुषास्तु 'उभयात्मकाः' सुखदुःखमिश्रस्वरूपाः ॥ (७) ननु देवानां सुखज्ञानादिरूपत्वमनुपपन्नम्, संसारे दुःखस्याप्य नुभवात् विपरीतज्ञानस्यापि दर्शनाच्च । एवं दैत्यानां दुःखोपलब्धिमा त्रत्वमप्यनुपपन्नम्, संसारे सुखस्याप्यनुभवात्। एवं मनुष्याणां मिश्र त्वमप्ययुक्तम्, संसारे केवलसुखदुःखयोरप्यनुभवादित्यत आह—ते
[ अधि - १७. सू - ३३. ] दीपिकासहितम्. ६०३ ( ८ ) सम्यग्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् । विपरीतं तु दैत्यानां ज्ञानस्यैवं व्यवस्थितिः ॥ इति ॥ ३२ ॥ १७. अधिकरणम् ॥ ( १ ) ईश्वरस्यैव कर्तृत्वमुक्तं ' यत्कर्म कुरुते तदभिसम्पद्य ते ' (बृ.६-४-५.) इति जीवस्योपलभ्यते । षामिति ॥ उपाधिर्बाह्यः । तथा च ' तेषां ' देवानां यत्स्वरूपात् ' अन्य था' अन्यत् 'दृश्यं' दुःखादि 'तदुपाधिकृतम्' जीवस्वरूपोपाध्यतिरिक्त बाह्यदेहनिमित्तम् । उपाधिनिवृत्तिः कुत इत्यत आह-विज्ञानेति । यतः ' आत्मयोग्येन' स्वयोग्येन 'विज्ञानेन' विशेषज्ञानेन तृतीयार्थेसप्तमी । आविर्भूतस्वस्वरूपेण व्यवस्थितिर्भवतीत्यर्थः । विज्ञानेनात्मयोग्येने त्यादिना नित्यसंसारिणामप्यावरणाभावे अनिष्टप्रसङ्गोक्त्या च तेषाम पि आवरणनिवृत्त्या स्वरूपाविर्भावोऽस्तीति सूचितम् ॥ (८) किं तन्निजरूपमित्यत उक्तं विवृणोति—सम्यगिति । तुश ब्दोऽवधारणे । 'देवानां' मुक्तियोग्यानां सम्यग्ज्ञानमेवेति । ' विमिश्रि तं ' विपरीतमिति । अत्र ज्ञानमित्यनुषज्यते । दैत्यानां त्वित्यन्वितस्तु शब्दो विशेषार्थः । ' ज्ञानस्य ' स्वरूपज्ञानस्य 'एवं' उक्तप्रकारेण 'व्य वस्थितिः ' स्थितिरित्यर्थः । इतिशब्दस्य भविष्यत्पर्वणीति पूर्वेणान्व यः । अधिकरणार्थ उक्त इति शेषः ॥ १६ ॥ इति पुंस्त्वाधिकरणम् ॥ १७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवकर्तृत्वविषयश्रुतिविरोधः परिह्रियते । श्रु तिविरोधं संशयबीजं दर्शयति— ईश्वरस्येति ॥ ' नान्यः कर्ता' इत्या दिश्रुतावन्यनिषेधादीश्वरस्यैव कर्तृत्वमुक्तमित्यर्थः । इतीति । इति श्रु तावित्यर्थः। 'जीवस्य' जीवस्यापि 'उपलभ्यते' प्रतीयते। कर्तृत्वमित्यनु षङ्गः । यादृशं कर्म कुरुते जीवः तादृक्कर्मफलं 'अभिसम्पद्यते ' प्राप्नोती ति वाजसनेयश्रुत्यर्थः । श्रुतेः जीवैकनिष्ठत्वज्ञापनाय तदिति फलवा क्यशेषोदाहरणम् । ईश्वरस्यैवेति सावधारणा संशयबीजोक्त्या स्वातन्त्र्येण पारतन्त्र्येण वा केनापि रूपेण न जीवः कर्ता, किं त्वी श्वर एवेति पूर्वपक्षो जीवकर्तृत्वाभावस्य श्रुतत्वादिति युक्तिश्च सूचि
६०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( २ ) अत आह— सू—ॐ ॥ कर्ता शास्त्रार्थवत्त्वात् ॥ ॐ ॥ ३३ ॥ जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवो ऽपि कर्ता ॥ ३३ ॥ ( ३ ) सू—ॐ ॥ विहारोपदेशात् ॥ ॐ ॥ ३४ ॥ ‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ (छा. ८- १२-३.) इत्यादि मोक्षेऽपि ॥ ३४ ॥ ता। योजना तु न जीवः कर्ता यतः श्रुतावीश्वरस्यैव कर्तृत्वमुक्तं न चा न्यत्रापि ‘यत’ इति श्रुतिरस्तीति वाच्यम्। यत ईश्वरस्यैव कर्तृत्व मुक्तं इतरव्यपदेशादित्यादावनन्ययोगेन समर्थितम्। तथा च फलव च्छ्रुत्यपेक्षया सयुक्तिकश्रुतेः प्राबल्यात् अनया अन्यस्या बाध इति भाव इति ॥ ( २ ) एवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ क र्तृत्वाभाव इति। कर्तृत्वसामान्याभाव इत्यर्थः। शास्त्रस्येति। ‘यजेत स्वर्गकामः’ ‘ब्राह्मणो न हन्तव्यः’ इत्यादिविधिनिषेधरूपशास्त्रस्ये त्यर्थः। अप्रयोजकत्वेति। प्रयुज्यतेऽनेन पुरुषः शास्त्रे इति व्युत्पत्त्या प्रयोजकं प्रयोजनं ततो बहुव्रीहिः, तथा च वैयर्थ्यप्रसङ्गादित्यर्थः। न हि कर्तारमन्तरेणारण्योदनायमानशास्त्रस्य सार्थक्यं भवतीति भा वः। अनेन जीवस्य कर्तृत्वाङ्गीकार एव ‘शास्त्रार्थवत्त्वात्’ शास्त्र स्यार्थवत्त्वसिद्धेः अन्यथाऽसिद्धेरिति हेत्वंशो विपक्षे हेतूच्छित्तिरूप बाधकोक्तिमुखेन व्याख्यातः। अनुवृत्तस्य ज्ञ इत्यस्यार्थो जीवोऽपीति। ‘कर्ता’ कर्तैव न त्वकर्ताऽङ्गीकार्य इति शेषः। अपीत्यनेन सूत्रेऽप्यर्थ कचशब्दस्यानुवृत्तिः सूचिता ॥ ( ३ ) ननु जीवस्य स्वतः कर्तृत्वाभावेऽपि परगतकर्तृत्वे स्वीय त्वाग्रहोऽस्त्येव। अतः काल्पनिककर्तृत्ववन्तं जीवं प्रति विधिनिषेध शास्त्रं प्रवर्त्ततामित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—विहारेति॥ जीवः कर्तेत्यनुषज्यते। तत्त्वत इति शेषः। अनेन सूत्रेऽप्यनुवृत्तिशेषौ सूचितौ। अपिशब्दो विशेषणसमुच्चयार्थः। आदिशब्दात् ‘सोऽश्नुते सर्वान्’ (तै. २-१.) इत्यादिकं गृह्यते। तथा च ‘अपि’ विगलिता खिलकल्पनेऽपि मोक्षे ‘स्त्रीभिर्वा’ इत्यादिना विहारपदोक्तसञ्चरणक्री
[ अधि - १७. सू - ३६. ] दीपिकासहितम्. ३०५ ( ४ ) सू— ॐ ॥ उपादानात् ॥ ॐ ॥ ३५ ॥ साधनाद्युपादानप्रतीतेश्च ॥ ३५ ॥ ( ५ ) सू— ॐ ॥ व्यपदेशाच्चक्रियायां न चेन्निर्देशविप र्ययः ॥ ॐ ॥ ३६ ॥ डाकाम्यप्राप्त्यादिकर्तृत्वोक्तेः 'तत्त्वतः' परमार्थत एव जीवः कर्ता न कल्पनयेति योजना । अस्य मोक्षप्रकरणत्वं तु छान्दोग्ये तैत्तिरीये च 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छा.८-३-४.) 'ब्रह्म विदाप्नोति परम्' (तै. २-१०) इति च मोक्षं प्रस्तुत्याम्नातत्वात् ज्ञा यते । श्रुतिस्तु दहरनये व्याख्याता ॥ (४) नन्वस्तु मोक्षे जीवस्य स्वाभाविकं कर्तृत्वं प्रामाणिकत्वा त् । संसारे तु काल्पनिकमेव किं न स्यात् । तावता शास्त्रसार्थक्या दित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—उपादानादिति ॥ साधने ति । मोक्षस्वर्गाद्यर्थे वेदविचारयागादिरूपेत्यर्थः । आदिशब्देन तदिति कर्तव्यता गृह्यते । यद्वा—तत्त्वप्रदीपरीत्या छेद्याद्यर्थकुठारादिकं साध नपदोक्तं आदिपदेन काष्ठादिरूपविषय उक्त इति ध्येयम् । उपादा नं अनुष्ठानं सम्पादनमिति यावत् । तस्य प्रतीतेः प्रत्यक्षसिद्धत्वाज्जी वस्येत्यर्थः । ततश्च फलदर्शनादिति चशब्दार्थः । अस्यापि जीवोऽपि कर्तेति पूर्वसाध्येनान्वयः । यद्वा—तत्त्वप्रदीपे न केवलं शास्त्रार्थवत्त्वा जीवस्य कर्तृत्वं प्रतिपद्यामहे, अपि तु प्रत्यक्षत एव तत्सिद्धमित्याहेत्य वतार्य चशब्दान्न च तद्धार्थो दृश्यत इत्युक्तहेतुसमुच्चयार्थत्वस्योक्तत्वात् टीकाकारस्याप्ययमेव चशब्दार्थोऽभिप्रेतः । अत एवोत्तरटीकायामेव मुपपत्त्या प्रत्यक्षेण चेत्युक्तम् । चशब्दप्रयोगेन सूत्रेऽपि चशब्दोऽनुष ङ्कनीय इति सूचितम् । केचित्तु—अत्र सूत्रे पूर्वसूत्रे च क्रमेण शङ्का द्वयपरिहारात् न चशब्दः, मौक्ताकाल्पनिकत्वसांसारिकाकाल्पनिकत्व रूपविषयभेदात् । तथापि अवान्तरसाध्यभेदेऽपि अकाल्पनिकत्वसा मान्यस्य पूर्वसूत्रे युक्त्या अत्र तु प्रत्यक्षेण चोपादानात् भाष्ये चश ब्दः प्रयुक्त इत्याहुः । तत्तु उत्तरटीकातत्त्वप्रदीपविरुद्धम् । तत्र कर्तृ त्वस्यैवैक साध्यत्वेनोक्तेः ॥ (५) एवं संसारे शास्त्रार्थवत्त्वरूपयुक्त्या साधनाद्युपादानप्रत्यक्षे ण च साधितं जीवकर्तृत्वं श्रुत्याऽपि समर्थयत्सूत्रमुपन्यस्य व्याचष्टे— व्यपदेशाच्चेति ॥ इतीति । उपासनाख्यक्रियायां उपासीतेत्यात्मनः क
६०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] 'आत्मानमेव लोकमुपासीत' (बृ. ३-४-१५०) इति क्रियायां व्यपदेशाच्च। (६) अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥ ३६ ॥ (७) तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति- सू-ॐ ॥ उपलब्धिवदनियमः ॥ ॐ ॥ ३७ ॥ -र्तृत्वोक्तेरित्यर्थः । अस्य हेतोर्जीवोऽपि कर्तेति पूर्वसाध्येनान्वयः । न केवलं युक्तिप्रत्यक्षाभ्यां, किन्तु श्रुतेश्चेति चशब्दार्थः । तथा चोक्तं भा रततात्पर्यनिर्णये- प्रत्यक्षैषा कर्तृता जीवसंस्था । तथाऽऽगमादनुमानाच्च सर्वम् ॥ इत्यादि ॥ 'लोकं' सर्वाश्रयं प्रकाशमानं वा 'आत्मानं' विष्णुमुपासीत जीव इ ति बृहदारण्यकच्छन्दोगश्रुत्यर्थः ॥ (६) ननु अत्र जीव उपासीतेत्युक्त्यभावात् कथमयं जीवस्य कर्तृत्वव्यपदेशस्स्यादित्यतस्तदुपपादनाय विपक्षे बाधकोक्तिपरं न चे द्वित्यंशं व्याचष्टे-अन्यथेति ॥ जीवस्य उपासनाक्रियायां कर्तृत्वेन श्रुत्यनभिमतत्वे क्रियाया अकर्तृकत्वजडकर्तृकत्वयोरसम्भवाच्छ्रुति वैयर्थ्यापत्या तत्परिहाराय परमात्मन एव क्रियाकर्तृत्वेन तदभिमत त्वे चेत्यर्थः । आत्मैवेत्यनेन निर्देशविपर्ययपदं तद्विन्यासव्यत्यासपर मिति सूचितम् । अस्मिन् पक्षे आत्मा परमात्मैव स्वात्मानमन्यं वा लोकमुपासीतेति श्रुत्यर्थप्राप्तेरिति भावः । अत्रात्मानमिति पक्षे टीकायां कर्तृत्वेनेत्यस्य कर्तृत्वेनापीत्यर्थः । कर्मत्वेनेत्यस्य केवलकर्म त्वेनेत्यर्थोऽवगन्तव्यः। अन्यमिति पक्षे तु यथा श्रुतैव व्याख्या। अन्यथे त्यनेन न चेदित्यस्यार्थ उक्तः । स्यादिति शेषोक्तिः । तथाचास्य कर्तृ त्वाञ्जास्ति चासौ विपरीतनिर्देशः तस्मान्न जीवोऽकर्ता किं तु कत्र्तैवे ति विपर्ययपर्यवसाने जीवस्यापि कर्तृतासिद्धिरिति भावः । न च जीवपरयोरुभयोरपि कर्तृत्वे गौरवं दोषः, प्रामाणिकत्वात् ॥ (७) नन्वेवं जीवस्यापि कर्तृत्वे कथमितरव्यपदेशादित्यादौ ईश्वरस्यैव कर्तृत्वं समर्थितम् । कथं च 'नान्यः कर्ता' इति श्रुतिरु पपद्यते। अतस्तद्विरोधोऽस्त्येवेत्याशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे-तर्हीति॥ जीवस्यापि कर्तृत्व इत्यर्थः। उक्तमिति 'नान्यः कर्ता' इति श्रुताविति शेषः। यद्वा-इतरव्यपदेशादित्यादौ कथं समर्थितमित्य
[ अधि - १७. - सू - ३७. ] दीपिकासहितम्. ६०७ ज्ञाने इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ( ८ ) 'य आत्मानमन्तरोऽयमयति' ( माध्यन्दिनपाठः ) इति च श्रुतिः ॥ ३७ ॥ ( ९ ) कुतः— र्थः। यथा ज्ञाने इत्यनेन सूत्रे सप्तम्यन्ताद्वतिरिति सूचितम्। ज्ञास्यामीत्य नन्तरं इच्छत इति शेषः । कर्मणीत्यनेन क्रियायामित्यस्य जीवस्येत्य नेन ज्ञस्येति विपरिणतपदस्य च अनुवृत्तिस्सूचिता । जीवस्येत्यनन्त रं अनुषक्तानियमपदं नियमस्याप्युपलक्षकम् । दृष्टान्तसमुच्चये विशे षणसमुच्चये वाऽपिशब्दः । तथा चाहमिदं सुरूपं सुगन्धं सुस्वरं वा ज्ञास्यामि, विपरीतं न पश्यामि न जिघ्रामि न शृण्वानीत्येवं स्पृहय तो जीवस्य यथोपलब्धौ ज्ञाने 'अनियमः' स्वेच्छानुसारेण न ज्ञान लाभः प्रतीयते । एवं तथा क्रियायां 'कर्मण्यपि' करिष्यामीति सङ्क ल्पितेऽपि व्यापारे अनियमः प्रत्येत्तव्यः । तद्दृष्टान्तेनात्रानियमः साध्य इति यावत् । ईश्वरस्य तु ज्ञाने कर्मणि च नियम इति योजना । तथा च यत एवं जीवस्य कर्मणि नियमाभावः, ईश्वरस्य तु तद्भावस्सिद्धो ऽतोऽनन्याधीनकर्तृत्वविवक्षया ईश्वरस्यैव कर्तृत्वं न जीवस्येत्युक्तं प्राक् । न तु सर्वथा कर्तृत्वाभावेनेति न पूर्वोक्तविरोध इति भावः । ज्ञास्यामीति इच्छत इत्यनेन च दृष्टान्तः साध्यविकल इति शङ्का परि हृता । कथमिति चेत्—न हि जिज्ञासुर्ज्ञाने साक्षाद्व्याप्रियते, येन नि यमेन ज्ञानप्राप्तिः, किं तु ज्ञानक्रियासाधन एव, न तु फलेच्छया साध नानुष्ठाने फलाव्यभिचारोऽदृष्ट इति टीकोक्तरीत्येति गृहाण ॥ ( ८ ) ईश्वरस्यैव नियमनकर्तृत्वं, न जीवस्येत्यत्र प्रमाणमाह—य इति ॥ इति च श्रुतिरिति । इति श्रुतिरप्येवमेवाह, न केवलं सूत्रमि ति चार्थः । यः चतुर्मुखादिजीवं तत्तदन्तर्गतो नियमयति एष परमा त्मा त्वान्तर्यामीति वाजसनेयश्रुत्यर्थः । अत्रेश्वरस्य जीवनियामक त्वोक्त्या तत्प्रेरणां विना जीवानां नियमेन कर्तृत्वाभावः स्वेच्छानुसा रिकर्तृत्वाभावः, ईश्वरस्य तु नियामकत्वात् तद्भावोऽवगम्यते ॥ ( ९ ) ननूभयोः कर्तृत्वाविशेषेऽपि ईश्वरस्यैव नियमेन कर्तृत्वं, न जीवस्येत्येतद्वैलक्षण्यं किंनिमित्तमिति पृच्छति—कुत इति ॥ निय
६०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] सू—ॐ ॥ शक्तिविपर्ययात् ॥ ३८ ॥ अल्पशक्तित्वाज्जीवस्य ॥ ३८ ॥ (१०) सू—ॐ ॥ समाध्यभावाच्च ॥ ॐ ॥ ३९ ॥ समाधानाभावाच्च अस्वातन्त्र्यं प्रतीयते अतः ॥ ३९ ॥ (११) सू—ॐ ॥ यथा च तक्षोभयथा ॥ ॐ ॥ ४० ॥ मानियमौ ईशजीवयोः 'कुतः' किंनिमित्तकावित्यर्थः । अत्र स्वात- न्त्र्यपारतन्त्र्यनिमित्तौ नियमानियमाविति परिहारं वक्तुं ईशजीवयोः स्वातन्त्र्यपारतन्त्र्ये साधयत्सूत्रं पठित्वा व्याचष्टे—शक्तीति ॥ अ- ल्पशक्तित्वादित्यनेन मुख्यत्वाच्छक्तिशब्दः पूर्णशक्तिपरः विपर्ययशब्द- स्तु तद्विपरीताल्पशक्तिपर इति सूचितम् । ज्ञस्येत्यनुवृत्तपदस्यार्थो जीवस्येति । उपलक्षणमेतत् । ईश्वरस्य पूर्णशक्तित्वादित्यपि द्रष्टव्य- म् । अस्वातन्त्र्यं स्वातन्त्र्यमिति वक्ष्यमाणमत्रापि सम्बध्यते ॥ (१०) युक्त्यन्तरेणेशजीवयोः स्वातन्त्र्यपारतन्त्र्ये समर्थयत्सूत्र- मुपन्यस्य व्याचष्टे—समाध्यभावाच्चेति ॥ समाधानमलं बुद्धिरपूर्णका- मत्वमिति यावत् । न केवलमल्पशक्तित्वादिति चार्थः । जीवस्येति व- र्तते । सूत्रे तु ज्ञस्येति वर्तते । उपलक्षणमेतत् । समाधिभावाच्चेश्वर- स्य स्वातन्त्र्यमित्यपि द्रष्टव्यम् । चशब्द उक्तानुक्तहेतुसमुच्चायकः। अस्तूक्तहेतुभ्यः ईशजीवयोः स्वातन्त्र्यपारतन्त्र्यसिद्धिः । तावता नि- यमानियमयोः किंनिमित्तकत्वमुक्तं भवतीत्यत आह—अत इति । नियमानियमाविति शेषः । तथा च यत एवमीशजीवयोः स्वातन्त्र्य- पारतन्त्र्ये प्रतीयेते अतस्तयोस्ताभ्यां निमित्ताभ्यां कर्मणि नियमानि- यमौ प्रतिपत्तव्यावित्यर्थः । तत्त्वप्रदीपे तु अत इत्यस्य 'यथा च तक्षो- भयथा' इति सूत्रेणान्वयमभिप्रेत्य अतोऽस्वातन्त्र्यप्रमाणेभ्यः कर्तृत्व- मानेभ्यश्च यथा च तक्षोभयथा व्यपदिश्यते एवं जीवोऽस्वतन्त्रः क- र्ता चेति व्यपदिश्यत इत्युक्तम् ॥ (११) ननु यदि जीवस्य न स्वातन्त्र्येण कर्तृत्वम्, अपि तु ईश्वरे- च्छयैव, तर्हि कथं जीवः कर्तोच्यते, स्वतन्त्रः खलु कर्तेत्याशङ्कां परि- हरत्सूत्रमुपन्यस्य व्याचष्टे—यथेति ॥ यथा च 'तक्ष्णो' वर्धकेः प्रा- सादकारयितृराजादिप्रेरितत्वं तत्कर्तृत्वं च अस्ति, एवं जीवस्यापि ईश्वरनियतत्वं घटादिकर्तृत्वं चास्त्वित्यध्याहारेण योजना । कारयितृ- नियतत्वं कर्तृत्वमित्यनेनोभयथेत्युक्तप्रकारद्वयं दर्शितम् । एवं जीव
[ अधि - १७. सू - ४१. ] दीपिकासहितम्. ६०९ यथा तक्षणः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ॥ ४० ॥ ( १२ ) सू—ॐ ॥ परात्तु तच्छ्रुतेः ॥ ॐ ॥ ४१ ॥ सा च कर्तृत्वशक्तिः परादेव । ( १३ ) कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥ स्यापीत्यनेन चशब्दस्य दार्ष्टान्तिकसमुच्चयार्थत्वमभिप्रेति । केचित्तु- सूत्रे उभयथा चेति चशब्दसम्बन्धमभिप्रेत्य भाष्ये कर्तृत्वं चेत्युक्तमि त्याहुः । तन्न, तद्भाष्यस्योभयथेत्युक्तप्रकारद्वयसमुच्चयपरत्वेन चश ब्दार्थप्रदर्शकत्वाभावात् । तथा चेश्वराधीनेऽपि जीवे दृष्टान्तबलात्का रकाप्रयोज्यत्वरूपामुख्यस्वातन्त्र्यगर्भितकर्तृत्वव्यपदेशो युज्यत ए वेति भावः ॥ ( १२ ) ननु किं तक्षण इव जीवस्य कर्तृत्वशक्तिर्जीवाधीनैव, ईश्व राधीनत्वं तु वचनवेतनदानादिवत् । उत कर्तृत्वशक्तिरपीश्वराधी ना । यद्याद्यः तर्हीश्वरस्यैव कर्तृत्वमिति गतः पक्षः । द्वितीये न जीव स्य कर्तृत्वशक्तिरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—परादि ति ॥ सेति प्रकृतत्वोपपादकं, या शक्तिसूत्रे प्रकृता, या च तक्षकदृष्टा न्तेन उपपादिता सेत्यर्थः । चोऽप्यर्थः । कर्तृत्वेत्यतः प्राक् जीवस्येत्यु पस्कार्यम् । शक्तिरित्यनेन तदिति भिन्नपदस्यार्थ उक्तः । सामर्थ्यमि ति वक्तव्ये शक्तिरिति तच्छब्दपर्यायशब्देनार्थकथनम् । शक्तिसूत्र गतशक्तिशब्दविवक्षयेति ध्येयम् । केचित्तु—सूत्रे शक्तिरिति शेषः । तच्छ्रुतेरित्येकं पदं, तथा च ईशाधीनत्वेन श्रुतेरिति तदर्थ इत्याहुः । ‘परादेव’ परमात्मनः सकाशादागतैव तदधीनैव न जीवाधीनेत्यर्थः । अनेन सौत्रतुशब्दोऽवधारणार्थतया व्याख्यातः । तस्मान्नापसिद्धान्त इति वाक्यशेषः ॥ ( १३ ) कुत इत्यतस्तत्र हेतुत्वेन श्रुतेरित्येतद्योजयति—कर्तृत्वमि ति ॥ कर्तृत्वकरणत्वपदाभ्यां तच्छक्तिरुपलक्ष्यते । तत्राद्यं जीवस्य द्वितीयमिन्द्रियादेः । ‘स्वभावः’ प्रकृत्यादीनां परिणामादिः । अल्पज्ञ त्वाल्पशक्तित्वादिरूपो वा । ‘चेतना’ चेतसो व्याप्तिः ‘बहुस्मरणशक्ति स्तु चेतनेत्यभिधीयते’ इत्युक्तेश्चैतन्यं वा । ‘धृतिः’ देहादिधारण ७७
६१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] इति हि पैङ्गिश्रुतिः ॥ ४१ ॥ ( १४ ) सू—ॐ ॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्या दिभ्यः ॥ ॐ ॥ ४२ ॥ ततोऽप्रयोजकत्वं शास्त्रस्य नापद्यते कृतप्रयत्नापेक्ष सामर्थ्यम् । आहत्य ' इमे' भावाः 'यत्प्रसादात्' यस्य परमात्मनोऽ नुग्रहादिच्छया सन्ति 'यदुपेक्षया' यत्कटाक्षाभावे न सन्ति इत्यर्थः। अनेनेश्वरस्य कर्तुमकर्तुमन्यथा कर्तुं चास्ति सामर्थ्यम्, सङ्कल्पाभावा त् तथा न करोतीत्युक्तं भवति । अस्य यच्छब्दस्य तत्र प्रकृतेन त च्छब्देनान्वयः । 'हि' यतः श्रुतिरित्यस्य परादेवेति साध्येनान्वयः ॥ ( १४ ) नन्वस्मिन् पक्षेऽपि दोष उक्तः, यदि कर्तृत्वशक्तिरीश्वरा धीना तर्हि तस्यैव कर्तृत्वम्, न जीवस्य दारुप्रतिमावदन्याधीनस्येति पुनश्शास्त्रवैयर्थ्यमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—कृते ति ॥ 'ततः' कर्तृत्वशक्तेरीश्वराधीनत्वादपि 'शास्त्रस्य' विधिनि षेधात्मकस्य 'अप्रयोजकत्वं' न विद्यते प्रयोजकं प्रयोजनं यस्य तस्य भावो वैयर्थ्य 'नापद्यते' न प्रसज्यते । कुतः ? 'ततः' तद्वैयर्थ्या चैव 'तत्प्रेरकत्वस्य' तस्येश्वरस्य जीवप्रेरकत्वस्य 'कृतप्रयत्नापेक्ष त्वात्' पूर्वकर्मप्रयत्नयोग्यतासापेक्षत्वादिति योजना । तत इत्यनेन विहितेति चतुर्थ्यन्तं पदं व्याख्यातम् । कृतेत्यादिना कृतेति हेतुसमर्प कशब्दो व्याख्यातः । तत्प्रेरकत्वस्येत्यनेन सूत्रे पूर्वसूत्रात्पर इति वि परिणतपदस्य द्वितीयान्तज्ञशब्दस्य चानुवृत्तिः प्रेरयतीत्यध्याहारः सू चितः । सूत्रे तुशब्दोऽवधारणेऽप्यर्थे चेत्यभिप्रेत्यादिशब्दार्थमाह—आ दिशब्देनेति । 'अवैषम्यादि' सङ्गृहीतमिति शेषः । अत्रादिशब्देनानैर्घृ ण्यं गृह्यते । अनेन—न ततोऽपि जीवशक्तेरीश्वराधीनत्वादपि शास्त्र स्य वैयर्थ्यमापद्यते । कुतो ? यतोऽयं परमात्मा 'विहितप्रतिषेधावैय र्थ्यादिभ्यस्तु' विधिनिषेधशास्त्रावैयर्थ्यायैव, न तु स्वस्य सहायार्थं, त था स्वस्य वैषम्यनैर्घृण्यपरिहाराय च 'कृतप्रयत्नापेक्षस्तु' जीवस्या नादिकर्मप्रयत्नसापेक्ष एव जीवं भोगे प्रेरयति, तद्योग्यतामपेक्ष्य तु क र्मणि, न तु तदनपेक्ष इति सूत्रार्थ उक्तो भवति । अत एवोक्तं भार ततात्पर्यनिर्णये— एतानपेक्ष्यैव फलं ददामि.
[ अधि - १७. सू - ४२. ] दीपिकासहितम्. ६११ त्वात्तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि । ( १५ ) पूर्वकर्मप्रयत्नं च संस्कारं चाप्यपेक्ष्य तु । ईश्वरः कारयेत्सर्वं तच्चेश्वरकृतं मतम् ॥ अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः । इति भविष्यत्पर्वणि । तस्यैव सङ्कल्प इति स्वतन्त्रता ॥ इति ॥ अत्रायं चन्द्रिकोक्तो भावः—जीवस्य विधिवाक्यतदर्थज्ञाने तज्जन्य- साधनफलेच्छयोः साधनविषयककृतौ च भगवत्प्रेर्यत्वेऽपि न विधि- विषयत्वकर्मफलभाक्त्वयोरनुपपत्तिरिति न शास्त्रप्रवृत्तिवैयर्थ्यम् । राजभटायुत्पादितेच्छादिमतोऽपि त्रिवर्णादेर्विष्टिगृहीतस्य च सन्ध्यो- पासनादौ भारवहनादौ च विद्यादिदर्शनेन तद्वदेवास्वतन्त्रकर्तृता- मात्रेण तयोरुपपत्तेरिति । उक्तं हि गीताभाष्ये—अकर्तृकत्वेऽपि विधि- द्वारा ईशप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा मोक्षो भवतीति न प्रवृत्तिविधिवैयर्थ्यमिति । विवृतं चैतत्प्रमेयदीपे—जीवस्यापराधीनकर्- तृत्वाभावेऽपि स्वसम्बन्धितया विधिज्ञानस्येश्वरप्रसादायत्तोः कर्मै फलं चोद्दिश्येच्छाप्रयत्नयोरधिष्ठानादिकर्मकारणसन्निधानस्य कर्मसं- बन्धस्य तत्फलभाक्त्वस्य च विधिविषयताप्रयोजकस्य सत्त्वात्तस्य विधिविषयत्वोपपत्तिरिति । एतच्च प्रयोजकं नेश्वरमुक्तजीवजडेष्वस्ती- ति न तेषां विधिविषयत्वं किन्तु संसारिजीवस्येति चोक्तम् । यद्यपि वैषम्यादिपरिहारः पूर्वमेव वैषम्यसूत्रे कृतः । तथाऽपि स एव कर्तृत्व- शक्तेरीश्वराधीनत्वप्रयुक्तवैषम्यादिशङ्कापरिहारायेहादिशब्देन स्मार- यितुं पुनरुक्त इति न पौनरुक्त्यम् ॥ ( १५ ) सूत्रार्थे स्मृतिमाह—पूर्वेति ॥ ‘संस्कारो’ योग्यता । चश- ब्दौ परस्परसमुच्चये । तुशब्दोऽवधारणे । ‘सर्वं’ पुण्यपापादि कर्म जीवेन कारयति तत्करणाय तं प्रेरयतीत्यर्थः । यद्वा—कारयति भो- जयतीत्यर्थद्वयमपि विहितकारिणं पुण्यं भोजयति कारयति च पुण्यं, निषिद्धकारिणं दुःखं भोजयति पुनः पापं कारयति चेति तत्त्वप्रदीपो- क्तम् । नन्वीश्वरस्य जीवकर्मापेक्षया प्रेरकत्वे तस्य तत्कर्माकर्तृत्वं स्यादित्यत आह—तच्चेति । अपेक्ष्यं च कर्मेत्यर्थः । स्वयं साक्षात्तर्हि तत्प्रेरणे ईश्वरस्यापेक्ष्यकर्माभाव इत्यत आह—अनादित्वादिति । कर्म- णः कार्यकारणीभूतकर्मपरम्परायास्त्वनादित्वान्नापेक्ष्याभावकृतवैष-