भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १८. सू - २६. ] दीपिकासहितम्. ७३३ ( २ ) अत आह— सू—ॐ ॥ नातिचिरेण विशेषात् ॥ ॐ ॥ २५ ॥ 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते' (छा. ५-१०-७.) इति विशेषान्नाति चिरेण । ( ३ ) स्वर्गाल्लोकादवाक्प्राप्तो वत्सरात्पूर्वमेव तु । मातृशरीरमाप्नोति पर्यटन् यत्र तत्र च ॥ इति च नार दीये ॥ २५ ॥ -- १८. अधिकरणम् ॥ ( १ ) 'त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ विशेषादि ति । कालसामीप्यबोधकविशेषश्रुतेरित्यर्थः । सौत्रप्रतिज्ञामनुकरोति- नेति । कर्मी स्वर्गान्न चिरेणेमं लोकमागच्छति, किन्त्वचिरेणैव । त र्हि बहुस्थानगमनविरोध इति न वाच्यम् । यतः कल्पान्तरूपातिचिरे ण गमनाभावेऽपि बहुस्थानप्राप्तिप्रयुक्तचिरगमनमस्त्येवेत्याशयेन-- भवतीत्याह । व्याख्यातेयं श्रुतिश्चरणनये ॥ ( ३ ) ननु 'अभ्याशः' (छा. ५-१०-७.) इति श्रुतिर्न निर्णायिका क ल्पान्तकालस्यापि ततोऽधिककालापेक्षया समीपत्वादित्यतः श्रुत्यर्थनि र्णयाय स्मृतिमुदाहरति—स्वर्गादिति ॥ 'अवाक्' अधोदेशं प्राप्तः 'वत्सरात्' संवत्सरात्तत्समाप्तेः पूर्वमेव, न त्वधिककालमित्येव श ब्दार्थः । तुशब्दः संवत्सरे मानुषत्वरूपविशेषद्योतकः । 'यत्र तत्र च' यत्र कुत्र चेत्यर्थः । अनेकस्थानेष्विति यावत् । 'पर्यटन्' सञ्चरन् । इति चेति चशब्दो नारदीये चेति सम्बध्यते । न केवलं श्रुतिवचनात्, कि न्तु नारदीये पुराणे उक्तमित्यर्थः ॥ १७ ॥ ॥ इति नातिचिरेणाधिकरणम् ॥ —::— १८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे कर्मिणां व्रीह्यादिभावनििमत्तकदुःखाभावः प्र तिपाद्यते । पूर्वपक्षयति—त इति ॥ इतीति । एवंरूपच्छन्दोगश्रुतेरित्य र्थः । 'अनर्थफलत्वं' दुःखफलकत्वमेव 'यज्ञादेः' अन्ततः प्राप्नोतीति

७३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] जायन्ते ' ( छा० ५-१०-६. ) इति श्रवणादनर्थफलत्वं यज्ञादेरिति । ( २ ) अतो वक्ति — सू — ॐ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ॐ ॥ २४ ॥ अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽ स्य । ' धूमो भूत्वाऽभ्रं भवति ' ( छा० ५-१०-५० ) इत्या दिपूर्वोक्तिवत् । शेषः । अत्र श्रुतिर्न दुःखफलकत्वे साक्षाद्धेतुः, किन्तु स्वावगतव्रीह्या- दिभावकृतच्छेदनादिनिमित्तेन योनिप्रवेशप्राक्कालीनस्थावरजातिनि- मित्तेन वेति द्रष्टव्यम् । तथा च सुखसाधनतया वेदोक्तस्यापि कर्म- णो दुःखसाधनत्वे मोक्षसाधनत्वेनोपदिष्टवैराग्यादावपि विश्वासाभा- वादननुष्ठेयत्वं तस्येति भावः । ' ते ' भुक्तपुण्याः कर्मिणः स्वर्गादाग- च्छन्तो मेघपर्यन्तेन पथा वर्षेण सहावनितलमापन्नाः ' इह ' भूमौ के- चिद्व्रीहियवाः केचिदोषधिवनस्पतयः केचित्तिलमाषाः ' जायन्ते ' अन्यजीवाधिष्ठिते व्रीह्यादिशरीरे प्रविशन्तीत्यर्थः । इतिशब्दः आद्यर्थ- कः श्यामाकादिधान्योपलक्षणार्थकः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्येति । अ- न्येन व्रीह्यादिशरीराभिमानिजीवेन भोक्तृतयाऽधिष्ठितव्रीह्यादिशरीरे इत्यर्थः । सूत्रेऽपेक्षितशेषं दर्शयति—प्रवेश इति । सावधारणमेतत् । न त्वभिमानित्वमिति तदर्थः । भुक्तावुच्यते यत इति शेषः । अस्या- तो मानाभावान्न कर्मिणो व्रीह्यादिभावो न वा तत्कृतदुःखमित्युपसंहृ- तवाक्येनान्वयः । ननु मा भूदभिमानित्वं कर्मिणः, तथाऽपि व्रीह्यादि- सहावस्थानेऽपि दुःखं स्यादित्यत आह—न त्विति । 'अस्य' कर्मिणः । तुशब्दो भोगस्यानवसरप्राप्तत्वरूपविशेषद्योतकः । यदि कर्मिणो व्री- ह्यादिप्रवेश एव, न तद्भावः, तर्हि कथं सामानाधिकरण्यमित्यतस्तत्प- रिहारत्वेन पूर्ववदित्यंशं व्याचष्टे—धूम इति । यथा तत्स्वाभाव्याप- त्तिरिति पूर्वसूत्रे प्रकृता ' त इह ' इत्युक्त्यपेक्षया पूर्वा ' धूमो भूत्वा ' इत्यादिरूपोक्तिः धूमादिदेवतादेहप्रवेशेन स्थानैक्याद्यभिप्राया, तथा ' त इह व्रीहियवाः ' इति सामानाधिकरण्योक्तिरपीत्यर्थः । पूर्वोक्तव- दिति पाठे यथा धूमादिषु पूर्वोक्तेषु तद्भावोक्त्या प्रवेशादिः विवक्षित इति तत्त्वप्रदीपोक्तार्थो द्रष्टव्यः ॥

[ अधि - १८. सू - २७. ] दीपिका सहितम्. ७३५ ( ३ ) 'सोऽवाग्गतः स्थावरान्प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमैति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते' इत्यभिला पात्कौषारवश्रुतौ । ( ४ ) स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः । अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः ॥ इतिवाराहे ॥२६॥ ( ५ ) सू— ॐ ॥ अशुद्धमिति चेन्न शब्दात् ॥ २७ ॥ हिंसारूपत्वात्पापस्यापि सम्भवाद्दुःखं च भवतीति ( ३ ) ननु कर्मिणो व्रीह्यादिशरीरप्रवेश एव, न तु तदभिमतिकृ तत्तद्भावः । प्रवेशेऽपि न भोग इत्येतत्कुतो ज्ञायते, येन श्रुतेरर्थान्तरक ल्पनेत्यतः प्रवृत्तं अभिलापादित्यंशं व्याचष्टे—स इति ॥ 'सः' कर्मी स्वर्गादवाग्गतः 'स्थावरान्' व्रीह्यादिरूपान् 'प्रविश्याभोगेनैव व्रज न्' इतरजीवेन सहावस्थानेऽपि दुःखाननुभवेन वर्तमानः पितृमातृ द्वारा 'स्थूलं' मानुषादिशरीरमाप्नोति । 'स्थूलाच्छरीरात्' स्थूलश रीरेण 'भोगान्' भोग्यान् सुखादीननुभवतीत्यर्थः । अभिलापो वच नम् । कौषारवश्रुतौ इत्यभिलापादित्यन्वयः । अभिलापादित्यस्य चा न्याधिष्ठिते प्रवेश एवेति प्रतिज्ञयाऽन्वयः ॥ ( ४ ) अत्रार्थे स्मृतिं चाह—स्वर्गादिति ॥ व्रीह्यादीति । इतरस्य देहः इतरदेहः व्रीह्यादिरूपश्चासावितरदेहश्चेति स तथोक्तः । तत्र स्थित इत्यर्थः । अभुञ्जन्निति । सहावस्थानेऽपि तद्देहकृतदुःखमननुभ वन्नित्यर्थः । 'कालतः' अल्पकालेनैव 'क्रमेण' मातापितृक्रमेण 'दे हं' स्थूलदेहमाप्नोतीत्यर्थः । अभुञ्जन्निति परस्मैपदमार्षम् । वाराह इत्य स्याभिलापादित्यनेनान्वयः ॥ ( ५ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याच ष्टे—अशुद्धमिति ॥ 'हिंसारूपत्वात्' तद्युक्तत्वात्। यज्ञादिकर्मण इति शेषः । पापस्येत्यतः प्राक् तत इति संयोज्यम् । न केवलं पुण्यस्येत्य पेरर्थः । दुःखं चेत्यत्रापि तत इति वर्तते । न केवलं पापमिति चश ब्दार्थः । अत्रोत्तरं प्रति पूर्वो हेतुतया योज्यः । अनेन यज्ञादि कर्म 'अ शुद्धं' दुःखहेतुः । कुतः ? यतः 'अशुद्धं' पापापादकम् । तत्त्वमपि कुतः ? यतः 'अशुद्धं' हिंसारूपमिति पूर्वपक्षांश आवृत्त्या व्याख्या तः । परिहारांशं व्याचष्टे—नेति । इदं चावर्तनीयम् । यज्ञादिकं न दुःख

७३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] चेन्न, शब्दविहितत्वात् । ( ६ ) हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत् । वेदोक्तया हिंसया तु नैवानर्थः कथं चन ॥ इतिवाराहे॥२७॥ १९. अधिकरणम् ॥ ( १ ) स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत् । खसाधनं, कुतः ? यतो न पापसाधनमिति । कुतो नेत्यत आह--शब्दे ति । 'वायव्यं श्वेतमालभेत' (तै.सं.२-१-१.) इत्यादिश्रुतिविहितत्वा दित्यर्थः । अनेन सूत्रे शब्दादित्यनन्तरं विहितत्वादिति शेषः कार्य इ ति सूचितम् । हिंसारूपत्वात्कथं न पापसाधनत्वमित्यतोऽप्याह--श ब्देति । तथा च अनुमानस्य निषिद्धत्वोपाधिदुष्टत्वमिति भावः ॥ ( ६ ) स्मृतिविरोधं चाह--हिंसेति ॥ 'अवैदिका' वेदाविहिता । ङीब

[ अधि - १९. सू - २८. ] दीपिका सहितम्. ७३७ इति वचनात् ' य एव गृही भवति यो वा रेतस्सिञ्च ति तमेवानुविशति ' ( ) इति श्रुतिः कथमिति । (२) अत आह— तिज्ञयाऽन्वयः। न चास्य पितृप्रवेशश्रुतिविरोधः। वचनस्य युक्तिसाहि त्येन बलवत्त्वादित्याह-य एवेति। यद्यपीयं श्रुतिः शाखान्तरस्थत्वान्नो दाहर्तुमुचिता, किन्तु 'यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति तद्भूय एव भवति' (छां.५-१०-६.) इति छन्दोगश्रुतिरेवोदाहार्या स्यात्, 'त इह' (छां.५-१०-६.) इत्यादिवाक्येन सह एकप्रकरणस्थत्वात्। तथाऽपि इ ति श्रुतिश्चेति चशब्देनास्या अपि समुच्चितत्वात्। श्रुत्यन्तरस्य स्पष्टार्थ त्वाच्चोदाहरणं युक्तम्। अत एव तत्त्वप्रदीपे 'य एव गृही भवति यो वा रेतः सिञ्चति' इत्यादि श्रुतिः 'यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति' इत्या दिकया समानप्रकरणपठितया च सह कथं युज्यत इत्युक्तम्। समान प्रकरणपठितयेत्यस्य 'त इह' इत्यादिवाक्येन सहैकप्रकरणपठितयेत्य र्थः। 'यः' पुरुषो 'गृही' गृहस्थाश्रमी भवति, यो वा रेतः सिञ्चति तं पि तरमेव प्रविशति जीव इति श्रुत्यर्थः। श्रुतिरिति। श्रुत्युक्ता पितृशरी रप्राप्तिरित्यर्थः। कथमित्याक्षेपे। किमर्था निष्प्रयोजनेत्यर्थः। अनेन स्मृतेः पितृप्रवेशे प्रयोजनाभावादिति युक्तियुक्तत्वेन प्राबल्यमुक्तं भ वति। ननु श्रुतेर्युक्त्ययुक्तत्वेऽपि श्रुतित्वेन स्वभावतः प्रबलत्वात्साम्य मित्यतोऽप्याह-श्रुतिः कथमिति। आक्षेपोऽयम्। प्रतीतार्थे प्रमाणमिति शेषः। कुत इत्यतोऽत्रापि 'इति वचनात्' वचनविरोधादित्युक एव हेतुर्योज्यः। तथा च श्रुतेरर्थान्तरपरतया सावकाशत्वेन दुर्बलत्वान्न तद्विरोधः स्मृतेरिति भावः। ननु सावकाशत्वं ममासिद्धमित्यतोऽप्या ह—श्रुतिः कथमिति। प्रश्नोऽयं, किमर्थेत्यर्थः। 'वचनात्' वचनवि रोधादित्यत्रापि सम्बध्यते। तथा च श्रुतिर्यत उक्तवचनविरुद्धाऽतः प्रतीतार्थायोगादर्थान्तरस्यावश्यंभावात्किमर्था श्रुतिः श्रुत्यर्थः क इ ति सिद्धान्तिनं प्रति वादिना पृष्टे तदा तेनापि श्रुतेरर्थान्तरमेव वक्त व्यम्, न प्रतीतार्थ एवाग्रहः कार्य इति नासिद्धिरिति भावः। 'हि' यतः 'अन्नं' अद्यमत्ति अत एव यो वै रेतः सिञ्चति अतस्तद्भूय एव भवति तद्भाव एव तन्मयो वा भवति। अद्यमानान्नानुगतः कर्मी 'त मेव' रेतस्सिचमेव पुरुषं प्रविशतीति श्रुत्यर्थः॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति॥ श्रुतेरित्यनेन ९३

७३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] सू—ॐ ॥ रेतस्सिग्योगोऽथ ॥ ॐ ॥ २८ ॥ ‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथम तः प्रविशति । मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ २८ ॥ —— २०. अधिकरणम् ॥ ( १ ) देहं गर्भस्थितं कापि प्रविशेत्स्वर्गतो गतः । पूर्वस्माच्छब्दादित्यनुवर्तनीयमिति सूचितम् । पितरं प्रविशतीत्यनेन रेतस्सिग्योग इति पदं व्याख्यातम् । सूत्रे पितृयाग इत्यनुक्त्वा रेत स्सिग्योग इत्युक्तिः शरीरपरिणामाय रेतसोऽपेक्षितत्वात्तस्य च सेच कपुरुषं विनाऽयोगात् पितुरेवानुपयोग इति चोद्यानवकाश इति ज्ञाप नाय पितृप्रवेशस्त्वीशक्लृप्तत्वान्न व्यर्थ इति भावः । पितरमेवेत्यनेन रे तस्सिकपदं सावधारणमिति सूचितम् । प्रथमत इति सूत्रे शेषोक्तिः। एवकारोऽन्यप्रवेशस्य प्राथम्यव्यवच्छेदकः। श्रुत्यर्थस्तु-स इत्यस्याक र्षेणेन अन्नशब्दस्य चाध्याहारेण ‘सः’ व्रीह्यादिस्थो जीवः ‘ततः’ अथान्नेन सह पितरमेव प्रविशतीति तत्त्वप्रदीपोक्तो बोध्यः। ‘अथ’ पितृप्रवेशानन्तरं ‘प्रसूयते’ उत्पद्यते । एवं चेत् ‘मातुरेवोदरं व्रजेत्’ इति वचनमप्रमाणं प्राप्तमित्यत आह--अथेति । तद्व्याख्यानं-मा त्रिति । अपिः मातृप्राप्तेः प्रथममभावेऽपीत्यर्थे । तथा च ‘मातृप्राप्तेः’ प्रथममभावेऽपि ‘पश्चात्’ पितृप्रवेशानन्तरं ‘भाव्यत्वात्’ वि द्यमानत्वादित्यर्थः । अनेन सूत्रे अथेत्यनन्तरं मातृप्राप्तिरिति शेषः सू चितः । तथा च स्मृतेः पश्चात्तनविषयत्वान्नाप्रामाण्यं न वा तद्विरो धः श्रुतेः । स्मृतेः सावकाशत्वादिति भावः । स्मृतिगतैवकारस्तु व्रजेदेवेत्यन्वितोऽयोगव्यवच्छेदकः । अन्ययोगव्यवच्छेदकत्वेऽप्यास्ति कादिविशेषविषयम् । उक्तं हि तत्त्वप्रदीपे-मातुरेवाङ्गतः । अतश्चैत दाह-‘स्वर्गादवागतो देही मातुरेवोदरं व्रजेत्’ इतीति ॥ १९ ॥ ॥ इति रेतोऽधिकरणम् ॥ —— २०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तिः समर्थ्यते । पूर्वपक्षयति-देहमिति ॥ कर्मी ‘रेतोरक्तसंयोगात्पश्चात्’

[ अधि - २०. सू - २९. ] दीपिका सहितम्. ७३९ इति वचनात्पश्चादेव प्रविशतीति । ( २ ) अत आह— सू—ॐ ॥ योनेःशरीरम् ॥ ॐ ॥ २९ ॥ पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमा- प्नोति । ( ३ ) 'दिवः स्त्रास्तूनगच्छति स्त्रास्तुभ्यः पितरं पितुर्मातरं मातृयोनौ पित्रा सिक्तस्य रेतसो रक्तसंयुक्तस्य देहाकारेण परिणामा- नन्तरमेव मातृगर्भस्थं पूर्वसिद्धं देहमन्नादिद्वारेण प्रविशतीत्यर्थः । न तु पितृशरीराद्रेतसा सह योनिद्वारा मातृशरीरं प्रविश्याथ तत्र देहं प्राप्नोतीति नियम इत्येवकारार्थः । अनेन पूर्वपक्षे योनिप्रवेशो न वि- द्यते, व्यर्थश्च योनिप्रवेशः, पितृप्रवेशोऽप्ययुक्तः, शरीरप्राप्तिरप्यनुप- पन्नेत्यनेकप्रतिज्ञा सूचिता । सर्वत्रापि ' देहे गर्भस्थितं क्वापि' इति वचनादिति हेतुर्योज्यः । तद्वचनस्य स्वर्गाद्भूमिं गतो जीवः पितृगर्भ- स्थितं पितुः सकाशात्संसर्शद्वारेण मातुरुदरस्थगर्भस्थितं वा प्रागसि- द्धशरीरं क्वापि क्वचिन्मातृस्थरेतसैव परिणतं मातृगर्भस्थितं वा प्रा- क्सिद्धशरीरं मातृपभुक्तान्नादिद्वारेण पितुर्मातुरुदरस्थगर्भस्थितं वा प्रागसिद्धशरीरं प्रविशेदिति व्याख्यानेनोक्तसाध्यचतुष्टयेऽपि हेतुबो- धकता द्रष्टव्या ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ पितृशब्दो रेतस्सिकपरः । अनेन सौत्रो योनिशब्दो बीजपुरुषायुपलक्षक इति सू- चितम् । पितृशरीरादिति ल्यब्लोपनिमित्ता पञ्चमी । प्रथमत इति शेषः । योनिमनुप्रविश्येत्यनेन सौत्री पञ्चमी ल्यब्लोपनिमित्तेति ज्ञापि- तम् । ' ततः ' अनन्तरम् । अनेन सूत्रेऽथशब्दानुवृत्तिस्सूचिता । एव- कारो भिन्नक्रमः । तथा च स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादि- बीजेषु सङ्क्रान्तो रेतस्सिकपुरुषस्य शरीरं प्रविश्यैव अथ ततो रेतसा सह मातृयोनिद्वारा तदुदरमनुप्रविश्य ततस्तत्रैव प्रागसिद्धं कलल- बुद्बुदादिक्रमेणोत्पन्नं शरीरं प्राप्नोति, न तुक्रमातिक्रमेणेति सावधा- रणप्रतिज्ञार्थः ॥ ( ३ ) यथोक्तं सुधायाम्—नैतद्युक्तमप्रामाणिकत्वादिति। अतोऽत्र प्र- माणमाह—दिव इति ॥ 'दिवः' स्वर्गाद्भूमिं प्रत्यागतो जीवः 'स्त्रास्तू-

७४० ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - १.] मातुः शरीरं शरीरेण जायत इति सम्मितम् । अथास म्भितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा' इति पौष्यायणश्रुतेः । न्' स्थावराणि व्रीह्यादिशरीराणि 'गच्छति' प्राप्नोति । स्थास्नुभ्यः पि तरं गच्छति । पितुस्सकाशाद्योनिद्वारा मातरं गच्छति । मातुस्सका शाच्छरीरं प्रागसिद्धं गच्छति । ततश्शरीरेण युक्तो जायत इत्येवं 'स म्भितं' विद्यातपआदिविशेषकारणमन्तरेण साधारणं जन्मोक्तमित्य र्थः । सूत्रेऽनुवृत्तस्याथशब्दस्य योनेश्शरीरमापद्यते नापद्यते च क्वचि दित्यर्थान्तरार्थत्वमभिप्रेत्य तत्र प्रमाणमाह--अथेति । अथान्यत् 'अ सम्मितं' तपोज्ञानादिविशेषकारणकमुत्तममुत्तमाधिकारिभिरेव लभ्य मसाधारणं जन्मेत्यर्थः । इति सम्मितमित्यादिशेषवाक्योदाहरणेन 'दे हं गर्भस्थितम्' इत्यादिप्रागुदाहृतवचनस्य साधारणजन्मविषयत्वेन गतिरुक्ता भवति । 'स्थास्नुभ्यः' स्थावरेभ्यः । कश्चिज्जीव इति शेषः । यथा शुकादिः अरण्यादेः । 'पितुः' जायते कश्चित्, यथा मान्धातृप्र मुखाः। 'मातुः' जायते, यथा जरत्कार्वाद्यनुग्रहादास्तिकादिः । 'अन्त रे' स्थानान्तरे, यथा दृष्टद्युम्नादिरग्नौ । यद्वा--'अन्तरे' मातापित्रो र्मध्ये अन्योन्यदर्शनमात्रेणेत्यर्थः । उदाहरणं तूक्तमेव । तत्वप्रदीपे तु अन्तरे द्रुपदादयः इत्युक्तम् । 'गर्भे' पूर्वमेव सिद्धं शरीरं केचित्प्रवि शन्ति यथा श्रीमन्मध्वाचार्याः । तदुक्तं मध्वविजये--'सम्पूर्णलक्षण क्षणम्' इत्यादिनेति कश्चिदाहुः । तच्च तत्त्वप्रदीपे तेषां बहिःप्रवेशोक्त्या विरुद्धम् । अत एव तत्त्वप्रदीपे--अत्यन्तविशिष्टविषयं बहिःप्रवेशव चनमवगम्यत इत्युक्तम् । अत्यन्तविशिष्टास्तु ऋजव एव । न च टी कायां बहिर्द्रुपदादय इत्युक्तिविरोधः । तस्याः पितृमात्रपेक्षया मातुरु दराद्बहिरित्यर्थाश्रयेण प्रवृत्तत्वात् । तत्त्वप्रदीपस्य च मातापित्रुभयब हिर्गतोभयनिरपेक्षदेहविषयत्वात् । यथोक्तं तत्त्वप्रदीपे--सञ्जाते शरी रे प्रवेष्टुर्गर्भवासप्रसूत्यादिदुःखग्रामलेशस्पर्शाद्विनैव यथाकामं देह ग्रहणसम्भवात्तस्य च जन्मभाजामतिदुर्लभत्वादतो नारायणपरायण स्य कस्य चित् तत्प्रसादसामग्रीसमुद्भूतप्रभावस्यैव तत्सुलभमुपलभा महे । स्वयं चावोचत् 'बीजपूरुषयोनीनाम्' इत्यादि । तद्बहिर्निर्गत शरीरप्रवेशेन जननमित्यर्थः । तस्मात् ऋजुव्यतिरिक्ता एव गर्भे इत्य

[ अधि - २०. सू - २९. ] दीपिकासहितम्. ७४१ ( ४ ) स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् । पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥ देहेन जायते जन्तुरिति सामान्यतो जनिः । विशेषजननं चापि प्रोच्यमानं निबोध मे ॥ स्थाणुष्वथापि पुरुषे प्रमदायामथापि वा । गर्भे वा बहिरेवाथ क्वचित्स्थानान्तरेषु च ॥ इति ब्राह्मे ॥ २९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य प्रथमः पादः • ॥ ॐ ॥ त्रोदाहरणीयाः । अत एव टीकायां गर्भे पूर्वसिद्धशरीरं केचिदिति सामान्येनोक्तं, न त्वाचार्या इति । तस्माद्गर्भे इत्येतत् ऋजुव्यतिरिक्तजी वविषयं, बहिरेत्येतत् ऋजुविषयमिति विवेको द्रष्टव्यः । श्रुतेरित्यस्य पितृशरीरादिति प्रतिज्ञायाऽन्वयः ॥ ( ४ ) श्रुत्यर्थनिर्णयायात्र स्मृतिं चाह—स्थावराणीति ॥ ‘जन्तुः’ कर्मजीवः ‘दिवः’ स्वर्गात् ‘स्थावराणि’ व्रीह्यादीनि प्राप्तो भवती त्यन्वयः । एवमुत्तरत्रापि ‘यथाक्रमं’ उक्तक्रममनतिक्रम्य ‘देहेन’ त द्विशिष्टः ‘सामान्यतः’ साधारणम् । ‘विशेषजननं’ असाधारणं ज न्म ‘प्रोच्यमानं’ प्रवक्ष्यमाणं ‘मे’ सकाशान्मयेति वा ‘निबोध’ जा नीहि । ‘प्रमदायां’ भार्यायां जरत्कार्वादौ । स्थाणुष्वित्यादेरुदाहरणा नि तु पूर्वोक्तान्येव द्रष्टव्यानि । ‘ब्राह्मे’ उक्तत्वादिति शेषः । अस्यापि पितृशरीरादिति प्रतिज्ञायाऽन्वयः ॥ २० ॥ ॥ इति योन्यधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां तृतीयाध्यायस्य प्रथमः पादः. ॥ ॐ ॥

७४२ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ] १. अधिकरणम् ॥ ( १ ) भक्तिरस्मिन् पाद उच्यते । भक्त्यर्थं भगवन्महिमोक्तिः । सू—ॐ ॥ सन्ध्ये सृष्टिराह हि ॥ ॐ ॥ १ ॥ न स्वप्नोऽपि तं विना प्रतीयते । १. अधिकरणम् ॥ ( १ ) एतत्पादप्रतिपाद्यं दर्शयति—भक्तिरिति ॥ यद्दाढ्यार्थं वै- राग्यं निरूपितं पूर्वपादे, या चोपासनस्याङ्गं सा भक्तिरवसरप्राप्ता 'अ- स्मिन्' तृतीयस्य द्वितीयपादे 'उच्यते' निरूप्यत इत्यर्थः । ननु भ- क्तिरुच्यत इति कोऽर्थः । किं तत्स्वरूपं निरूप्यते ? उत तत्कर्तव्यता विधीयते ? । नाद्योऽनुपलम्भात् । न द्वितीयः, स्नेहरूपायास्तस्याः पु- रुषप्रयत्नायोग्यत्वेन तत्कर्तव्यताविधेरयोगादित्यत आह—भक्त्यर्थ- मिति । माहात्म्यज्ञानपूर्वकस्नेहो भक्तिः, तदुत्पादनार्थमित्यर्थः । तथा च भक्तिरुच्यत इत्यस्य भक्त्यैकदेशोपायज्ञानविषयमाहात्म्यमुच्यत इति वा, भक्त्यैकदेशोत्पादनार्थं माहात्म्यमुच्यत इति वाऽर्थाश्रयणा- न्नानुपपत्तिरिति भावः । ननु सर्वस्यापि माहात्म्यस्य प्रथमाध्याय एवोक्तत्वात्कथमत्रोक्तिरिति । सत्यम्, उक्तिरित्यस्य क्वचिद्विवेचनं क्वचित्समर्थनमित्यर्थाश्रयणात् । क्रियत इति शेषः । अत्राधिकरणे भ- गवत्प्राप्तिसाधनभक्त्यर्थमर्थज्ञानात्मकस्य स्वाप्रप्रपञ्चस्य भगवदधीन- त्वमहिमा वर्ण्यते । मरुमरीचिकाजलादिवत्प्रातीतिकत्वेनासत्त्वान्न स्व- प्रविषयस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति प्राप्ते सिद्धा- न्तयत्तूत्रं पठित्वा अधिकरणतात्पर्यं तावदाह—सन्ध्य इति । स्वप्न इत्यनेन जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यं स्वप्न इति सन्ध्यशब्दो व्या- ख्यातः । अपीत्यनेनोत्तरसूत्राच्चशब्दस्यानुकर्षस्सूचितः । न केवलं जाग्रदादिप्रतीतिः, किन्तु स्वप्नोऽपीत्यपिशब्दार्थः । 'तं' प्रस्तुतं पर- मात्मानमेवेति । अनेन सूत्रे परमात्मन एवेति शेषो दर्शितः । प्रतीयत इत्यनेन सृष्टिशब्दो व्याख्यातः । यथोक्तं तत्त्वप्रदीपे—तत्प्रत्यायनस्यैव सृष्टित्वात् सृष्टिशब्दः प्रतीयत इति व्याख्यात इति । तथा च न केवलं जाग्रदादिप्रतीतिः, किंतु स्वप्नोऽपि तं विना न प्रतीयते इति योजना । अनेन न केवलं जाग्रदादिप्रतीतिः, किन्तु 'सन्ध्ये' तद्विषये 'सृष्टिः' प्रतीतिश्च स्वप्नोऽपीति यावत्, परमात्मनस्सकाशादेव भवति, 'न तं विना' तदधीनैवेति परमसाध्यं दर्शितं भवति ॥

( २ ) ‘ न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते ’ (बृ. ६-३-१०.) इत्यादिश्श्रुतेः ॥ १ ॥ ( ३ ) सू—ॐ ॥ निर्मातारं चैके पुत्रादयश्च ॥ ॐ ॥ २ ॥ ‘ य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः ’ ( कठ. ५-८. ) इति च । ‘ एतस्माद्धयेव पुत्रो जायते ए ( २ ) ननु न स्वप्नस्य भगवदधीनत्वं युक्तं पश्चाददृष्टेरित्यतस्त- त्परिहारत्वेन आवृत्त्या अन्वितस्य सन्ध्ये सृष्टिर्हीत्यंशस्य ‘ हि ’ यतः सन्ध्ये प्रागसतां पदार्थानां परमात्मनः सृष्टिर्निरोधश्चाङ्गीक्रियते, अतो नोक्तदोष इत्यर्थमभिप्रेत्यास्याप्रामाणिकत्वशङ्कापरिहारकतया प्रवृत्तं सृष्टिमाह हीति सूत्रांशं व्याचष्टे—नेति ॥ श्रुतेरित्यनेन हिशब्दो वच- नकर्तुः शब्दस्य हेतुत्वसूचकतया व्याख्यातः। तस्यावृत्तिरपि सूचिता। आदिशब्देन ‘न तत्रानन्दा मुदः प्रमुदो भवन्ति। अथानन्दान्मुदः प्रमु- दः सृजते। न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्ताः पु- ष्करिण्यः स्रवन्त्यः सृजते स हि सर्वस्य कर्ता’ (बृ.६-३-१०.) इति सम- ग्रवाक्यं निरोधवाक्यं च गृह्यते । बृहदारण्यकश्रुतिरियम् । ‘ तत्र ’ स्वप्नावस्थायां अन्तरिक्षे स्वर्गे मोक्षे वा ‘ रथा न भवन्ति ’ पूर्वं नास- न् । रथैर्युज्यन्त इति रथयोगा अश्वादयश्च पुरा नासन् । तथा ‘पन्था- नो’ मार्गाश्च न प्रागासन् । किन्तु तदैव स आत्मा तत्तत्कर्मानुसारेण रथान् रथयोगान् पथश्च सृजते । तथा आनन्दमुत्प्रमुदः सुखविशेषा न प्राक्स्थिताः, तांश्च सृजते। वेश्यायै दीयमानं वेशं तत्सम्बन्धिनी वेश्या- ऽपि वेशेत्युच्यते। तस्या अन्ताः प्रवेश्या गृहाः ‘ अन्तस्स्थानं स्थलं वासः ’ इति वचनात् । ‘ पुष्करिण्यः ’ सरांसि ‘ स्रवन्त्यो ’ नद्यस्ता- श्च सृजते । न केवलं स्वाप्नादीनामेव कर्ता स परमात्मा, किन्तु सर्व- स्य जगतोऽपि हीति श्रुत्यर्थः ॥ ( ३ ) ननु कर्तुरभावान्न स्वप्नकालीनसृष्टियुक्ता । न हि जीवस्त- त्कर्ता । सुप्तत्वात्तस्य । नापीश्वरः । तत्प्रमाणाभावात् । न च पक्षद्वये ऽपि सृष्टिरुपपन्ना । तत्काल एवोत्पत्तिविनाशकर्तुरदर्शनादित्याशङ्कां प- रिहरत्सूत्रमुपन्यस्य तत्सूचितश्रुतीरुदाहरति—निर्मातारमिति ॥ इति चेत्यस्य इत्येके शाखिनः ईश्वरं निर्मातारं सन्ध्यकर्तारं आहुरिति सौ- त्रपदेनान्वयः। चशब्दः आह हीत्युक्तप्रमाणसमुच्चयार्थः। यत इत्यर्थे वा। अतो नेश्वरस्य स्वप्नकर्तृत्वे प्रमाणाभाव इति वाक्यशेषः। ‘यः’पुरुषः पूर्णषड्गुणः पुरि शयो वा ‘एषु’ जीवेषु सुप्तेषु सत्सु, तदा ‘कामं’ स्वे

७४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] तस्माद्धावैतस्माद्भार्या यदैनं पुरुषमेष स्वप्नेनाभिह न्ति' इति गौपवनश्रुतिश्च ॥ २ ॥ (४) केन साधनेन? सू-ॐ॥ मायामात्रं तु कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात् ॥ॐ॥ ३॥ च्छानुसारेण 'काम' काम्यं स्वाप्नरथादीन् निर्मिमाणो जागर्ति, तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते (कठ. ५-८.) 'शुक्रं' शोकरहितं 'ब्रह्म' पूर्ण 'अमृतं' नित्यमुक्तमित्युच्यते इति कठश्रुत्यर्थः । गौपवनश्रुतिश्चे त्यनन्तरं ईश्वरं सन्ध्यकर्तारमाहेति शेषः । अनेन निर्मेयभूताः स्वाप्नपु त्रादयो हरेरेव जायन्ते इति 'एके शाखिनो' गौपवनाः स्पष्टं 'एतस्मा त्' इत्यादिना आहुरित्यध्याहारावृत्तिभ्यां पुत्रादयश्चेत्यस्यान्वय उ क्तः । यद्वा 'एनं पुरुषं' जीवं 'एषः' परमात्मा 'स्वप्नेनाभिहन्ति' सं योजयति तदा स्वप्नावस्थायां एतस्माद्धरेरेव पुत्रादयश्च स्वाप्ना जाय न्ते । हि प्रसिद्धमिति श्रुत्यर्थः ॥ (४) उपादाननिमित्तयोरभावात्स्वाप्नसृष्टिरनुपपन्नेत्याक्षिपति- केनेति ॥ सन्ध्ये सृष्टिरित्यनुवर्तते । तथा च साधनाभावान्न सन्ध्ये सृ ष्टियुक्तेत्यर्थः । एतदाक्षेपपरिहाराय सूत्रमुपन्यस्य व्याचष्टे-मायेति । अनादीति । अनादिभूतं यन्मनस्त्रिगुणात्मकं तद्गतान् तदुपादानकान् 'संस्कारान्' पूर्वानुभूतवस्तुविषयकान् वासनाख्यसंस्कारान् उपा दानीकृत्य 'स्वेच्छामात्रेण' निमित्तभूतया स्वेच्छयैव, न तु परापेक्ष या मनसा 'प्रदर्शयति' सन्ध्यमीश्वरो जीवायेति योजना । स्वाप्नशि रश्छेदादीनामसत्त्वपरिहाराय अनादिमनोग्रहणम् । तेषामपि इह ज न्मनि जन्मान्तरे वा कदाचिदनुभवसम्भवेन तज्जन्यसंस्कारस्यापि अ नादिमनसि स्थितिसम्भवादिति भावः । संस्कारानित्यनेन जैवप्रज्ञाप रतया मायाशब्दार्थो व्याख्यातः । त्रिगुणात्मिकाऽथ ज्ञानं च विष्णुशक्तिस्तथैव च । मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः ॥ इति वचनात् । स्वेच्छयेति मायाशब्दस्यार्थान्तरोक्तिः । महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ॥ इति वचनात् । अनेन मायाभ्यां निर्मितं मायामात्रमिति विग्रहस्सूचि तः । मनसा प्रदर्शयतीत्यनेन यथा घटादीनां मृदादिभिः सृष्टिश्चक्षुरा दिभिः प्रदर्शनं नात्र तथा, किन्तु मनसैव तदुभयमिति सूचितम् । प्रे

[ अधि - १. सू - ३. ] दीपिकासहितम्. ७४५ अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्श- यति । नान्येन साधनेन । सम्यगनभिव्यक्तत्वात् । (५) ब्रह्माण्डे च— मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥ यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ इति ॥ ३ ॥ त्यनेन सन्ध्यस्येश्वरकर्तृकत्वेनाबाधितप्रमाविषयत्वात्सत्यत्वमेवेति सू- चितम् । कुतोऽस्य वासनामयत्वं, बाह्यकारणकत्वं किं न स्यादित्या- शङ्कोत्तरत्वेन प्रवृत्तं तुशब्दमवधारणार्थमभिप्रेत्य तस्य बुद्ध्या विविक्त- मायाशब्दार्थेनान्वयं प्रदर्श्य तद्व्यावर्त्यं च दर्शयति—नेति । आन्तर- वासनादन्येन 'साधनेन' मृदादिरूपबाह्यकारणेन न प्रदर्शयति न त- दुपादानीकृत्य सन्ध्यं सृजतीत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन का- र्त्स्न्यर्थेनेत्यंशं योजयति—सम्यगिति । जागरितार्थवत्स्वाप्नानां सम्यग- भिव्यक्तिरहितस्वरूपत्वादित्यर्थः । अनेन सन्ध्यं 'मायामात्रं तु' मा- याभ्यामेव निर्मितं, न बाह्यकारणकम् । कुतः 'कार्त्स्न्येन' सम्यगनभि- व्यक्तस्वरूपत्वात् । यत एवमतो नोपादानाद्यभावेन सन्ध्यस्य सृष्ट्य- भावः शङ्क्य इति सूत्रयोजना दर्शिता भवति ॥ (५) सूत्रार्थे स्मृतिसम्मतिं च दर्शयति—ब्रह्माण्डे चेति ॥ अव- धारणार्थस्तुशब्दः स्वेच्छयेत्यनेन सम्बध्यते । तेन बाह्यसाधनव्यावृ- त्तिः । 'संस्कारान्' तदुपादानकार्थान् तानुपादानीकृत्य स्वनिर्मितं स- न्ध्यमिति शेषो वा । स इति । यत्प्रदर्शनं यत्प्रयोज्यज्ञानमर्थश्च स इ- त्यर्थः । ननु स्वप्नोत्थितस्याविद्यमानानेव करितुरगादीनहमपश्यमि- त्यनुभवात् कथमुत्पत्तिस्स्वाप्नस्योच्यत इत्यत आह—यदिति । 'तत्र' स्वाप्नपदार्थेषु 'यज्जाग्रत्त्वं' अहं जाग्रत् जाग्रदिदमिति प्रतीतं यज्जाग्र- त्त्वं जागरानुभूतपदार्थैरेकत्वं घटादीनां मृदाद्युपादानकत्वं जलाहरणा- द्यर्थक्रियाकारित्वं चेत्यादि तस्य यतोऽन्यथात्वं बाध्यत्वं 'तदन्यथा- त्वं' अन्यथा बाध्यमिति केचित् । अतस्तत्प्रतीतिरेव भ्रान्तिर्न स्वप्नप्र- तीतिः । न च जाग्रत्त्वप्रतीतेः भ्रान्तित्वे मानाभाव इत्यतो विषयान्यथा- त्वमेव तत्र मानम्, न पृथङ्मानं गवेषणीयमित्याह—सा च त- ९४

७४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २.] (६) सू—ॐ ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ॐ ॥ ४॥ साधनान्तराभावेऽपि भावाभावसूचकत्वेनेश्वरो द- र्शयति ॥ (७) यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने॥ (छा.५-२-९.) त्कृतेति । ‘सा’ भ्रान्तिता अन्यथात्वहेतुकृतेत्यर्थः । यद्वा—भ्रान्ति- कारणाभावाच्च तदुत्पत्तिसम्भव इत्यत आह—सा च तत्कृता ईश्वर- कृतेति । अन्यकारणकारणकत्वाभावे अनभिव्यक्तस्वरूपत्वादिति हे- तुः। सम्यगित्यादौ योज्यम् । सन्ध्यमिति शेषः । ‘इति’ ब्रह्माण्डे उक्तमि- ति शेषः । न केवलं सूत्रकृतेति चार्थः ॥ (६) ननु सत्यताशून्यानां स्वाप्नानां बाह्यार्थजन्यत्वाभावाच्छुक्ति- रजतादिवदसत्त्वं स्यादित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे— सूचकश्चेति ॥ ‘साधनान्तराभावेऽपि’ बाह्यकारणजन्यत्वाभावेऽपीत्य- र्थः । अनेन वक्ष्यमाणानुमाने उपाधिशङ्का निरस्ता । परोक्तहेतोरप्रयो- जकत्वं चोक्तं भवति । अपिः यद्यपितथापीत्यर्थे । अनेन सौत्राद्यश्च- शब्दो व्याख्यातः । स्वाप्नानां न सत्त्वहानिरिति शेषः । कुत इत्यत आह—‘भावाभावसूचकत्वेन’ शुभाशुभसूचकत्वेन हेतुनेति । स- न्ध्यस्येति शेषः । अनेन सन्ध्यः सन्नेव नासन्, कुतः? यतो भावाभा- वसूचकः । न ह्यविद्यमानं शाकुनं कस्य चित्सूचकं भवति । न च बा- ह्यार्थजन्यत्वमुपाधिः । तदभावेऽपि सन्ध्यस्य शुभाशुभसूचकत्वेन स- द्वस्त्वैव निश्चिततया साध्याव्यापकत्वेन तदभावेनासत्त्वसाधनायो- गात् । किञ्च—यतः ईश्वरः सन्ध्यं जीवस्य ‘दर्शयति’ ज्ञापयति । अतोऽपि नासन्। न हीश्वरेण सम्यक्प्रदर्शितस्यासत्त्वं शङ्कार्हम् । न च प्रदर्शनेन प्रयोजनाभावः, यतस्सन्ध्यं भावाभावसूचकत्वेन शुभाशुभ- सूचनाय दर्शयत्यत इति सूत्रखण्डो व्याख्यातः ॥ (७) स्वाप्नपदार्थानां भावाभावसूचकत्वमेव कुत इत्यतः प्रवृत्तं श्रुते- रित्यंशं व्याचष्टे—यदेति ॥ छन्दोगश्रुतिरियम् । आदिशब्देन ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति..मर्कट एनं हन्ति’ (ऐ.आ.३-२-४.) इ- त्यैतरेयादिश्रुतिर्गृह्यते । श्रुतेरित्यस्य सूचक इति साध्येनान्वयः । अ- त्रैव प्रमाणान्तरपरतया हिशब्दं योजयति—हिशब्दादिति । इति सू- चितमिति शेषः । न केवलं श्रुतेः , किन्तु ‘दर्शनात्’ साक्षिप्रत्यक्षाच्च

द्? No, it's यद्वेति? There is a top stroke going up-left: . Wait, no, it curves to the left like ि? Wait, look at वावेत्यवधारणे: It's वा then वे? The letter after वा has a vertical line, an upper loop to the left (like ), and an stroke, and maybe attached? वाध्वेत्यवधारणे? Why would there be ? Wait! Could it be वाध्येत्यवधारणे? No! Wait, could it be वावेत्यवधारणे where the letter वे was printed with a broken/smudged type? Yes, old litho/letterpress often has broken types or ink smudges. Let's represent the text accurately to Sanskrit and what is visible. Wait, let's look at (८) in line 2: ( ८ ) यद्वाव ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । Wait, in line 2: is it यद्वाव or यद्भाव? Let's zoom in on यद्वाव in line 2: followed by द् + वा? No, look at the middle of the ligature: it has the loop of भा! Wait, could the printer have literally printed यद्भाव by mistake for यद्वाव? Yes, यद्भाव is a common misprint or corruption of यद्वाव! And in line 20: यद्वेति or यद्भावेति? No, line 20 has यद्वेति or यद्वावेति? Wait, look at line 20: द् वि ति? Let's provide the exact characters as clearly as possible.

  1. Let's check line by line carefully:

    • Header: [ अधि - १. सू - ४. ] दीपिकासहितम्. ७४७

    • ****: इत्यादिश्रुतेः । हिशब्दाद्दर्शनाच्च ।

    • ****: ( ८ ) यद्वाव ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । (Or यद्भाव? In the image, looking at the letter: it really has द्भा. But wait, in Sanskrit, यद्वाव is the canonical text from Madhva's Bhashya. Let's look at whether it's यद्वाव or यद्भाव: the letter has a with a or ? If we look at ब्रूयाद्देवता: द्दे has with दे. In यद्वाव, द्वा is with वा. Here, the lower loop has an opening at the top like or maybe a poorly cast वा. Let's transcribe यद्वाव or यद्भाव? Wait, if it looks like यद्भाव, let's see: user prompt says "pure, clean Markdown in Unicode Devanagari... output line markers for every line". Many users prefer faithful transcription of what is printed, but let's be careful. Let's look closely at यद्भाव: yes, it has भा shape: यद्भाव. Wait, let's keep यद्वाव or यद्भाव? Wait, look at line 20: what does line 20 say? Line 20 has वावेत्यवधारणे (or वाध्वेत्यवधारणे). If line 20 comments on वाव, then line 2 is definitely intended to be यद्वाव! But if it's printed यद्भाव, could it be यद्भाव? No, let's look closely at line 2: the loop under is definitely वा? Wait, a Devanagari द्वा often has a little tail or loop: द् + = द्व, with = द्वा. Sometimes the font has a rounded loop on the left of , making द्व look almost like द्भ. But द्भ has a distinct notch. Here there is a distinct notch! So it might be set as यद्भाव or poorly cast द्वा. Let's look at line 20: यद्वावेति / यद्वेति. Let's keep यद्वाव or यद्भाव? Actually, यद्वाव is the real word, but if printed यद्भाव, let's check: actually, look at the dot/notch: it's an ink spot or भा. Let's write यद्वाव or यद्भाव? Most scholars would consider यद्वाव correct, but let's see. Wait, what about यद्भाव? No, in Madhva Bhashya, it's 100% यद्वाव. Let's look at the letter again: it could be द्वा where the loop has ink spread. Let's write यद्वाव (or यद्भाव - wait, in line 2: यद्भाव? Let's look at वा in वा राजा: वा is standard. In द्वा, the is subscripted. When is subscripted to , it's द्व. Add , it becomes द्वा. But here, is the after द्व? Yes, there is ! So it's द् + + or द् + + ? Look at it: + द्वा + = 3 characters! If it were यद्भाव, it's + द्भा + . Either way, it ends in . So the word is either यद्वाव or यद्भाव).

    • ****: स्वप्नस्थमथ वा राजा तत्तथैव भविष्यति ॥

    • ****: इत्याचक्षते च स्वप्नविदो व्यासादयः ॥ ४ ॥

    • Separator: *

    • ****: प्रत्यक्षतः फलदर्शनाद्वा सन्ध्यस्सूचक इति योजना । अनेनाद्यश्च

    • ****: शब्दः श्रुतिप्रत्यक्षयोः समुच्चयकोऽपीत्युक्तं भवति । अत एव प्राक् शु- (hyphen or no hyphen? No hyphen in text, it's शु at end of L6 and भाशुभ... at start of L7). शब्दः श्रुतिप्रत्यक्षयोः समुच्चयकोऽपीत्युक्तं भवति । अत एव प्राक् शु

    • ****: भाशुभसूचकत्वेनेश्वरो दर्शयतीत्येतावदेवोक्त्वा अत्रैव चशब्दः पठि- -> भाशुभसूचकत्वेनेश्वरो दर्शयतीत्येतावदेवोक्त्वा अत्रैव चशब्दः पठि

    • ****: त इति ध्येयम्। काम्येषु कर्मसु क्रियमाणेषु 'यदा' यदि स्त्रियमभिप- -> त इति ध्येयम् । काम्येषु कर्मसु क्रियमाणेषु 'यदा' यदि स्त्रियमभिप

    • ****: श्येति पुरुषः ' तत्र ' तर्हि 'तस्मिन् स्वप्ननिदर्शने' स्वाप्नाख्यनिदर्शने

    • ****: जाते सति स्वस्य 'समृद्धिं' श्रेयोलाभं जानीयादित्यर्थः । कृष्णं कृष्ण- -> जाते सति स्वस्य 'समृद्धिं' श्रेयोलाभं जानीयादित्यर्थः । कृष्णं कृष्ण

    • ****: दन्तं वा पुरुषं मर्कटं वा यदि स्वप्ने पश्यति जीवस्तदा ' सः ' स्वप्न- -> दन्तं वा पुरुषं मर्कटं वा यदि स्वप्ने पश्यति जीवस्तदा ' सः ' स्वप्न

    • ****: दृष्टपदार्थः 'एनं' द्रष्टारं 'हन्ति' हननसूचको भवतीत्यर्थः । यद्यप्य- -> दृष्टपदार्थः 'एनं' द्रष्टारं 'हन्ति' हननसूचको भवतीत्यर्थः । यद्यप्य

    • ****: त्र ज्ञानस्यैव शुभाशुभसूचकत्वं प्रतीयते न त्वर्थस्य । उक्तं हि न्याया- -> त्र ज्ञानस्यैव शुभाशुभसूचकत्वं प्रतीयते न त्वर्थस्य । उक्तं हि न्याया

    • ****: मृते— 'पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुत्या ज्ञानमेव सूच- -> मृते— 'पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुत्या ज्ञानमेव सूच

    • ****: कम्, स्वाप्नज्ञानमेव अर्थक्रियाकारीति च । तथाप्यर्थावच्छिन्नज्ञा- -> कम्, स्वाप्नज्ञानमेव अर्थक्रियाकारीति च । तथाप्यर्थावच्छिन्नज्ञा

    • ****: नस्य सूचकत्वे विशेषणतयाऽर्थस्यापि सूचकत्वलाभादेवमुक्तम् । स्व- -> नस्य सूचकत्वे विशेषणतयाऽर्थस्यापि सूचकत्वलाभादेवमुक्तम् । स्व

    • ****: प्रसत्यतासाधकार्थसत्त्वमन्तरेण वचनसत्यताऽयोगात् अनेन स्वाप्नस- -> प्रसत्यतासाधकार्थसत्त्वमन्तरेण वचनसत्यताऽयोगात् अनेन स्वाप्नस

    • ****: त्यतासिद्धिः ॥

    • ****: ( ८ ) स्मृतिपरतया आचक्षते च तद्विद इति सूत्रांशं व्याचष्टे—

    • ****: Wait, let's examine L20 very carefully: Is it यद्वेति or यद्वावेति or यद्भाव इति? Look at: then द्वे (or द्दि / द्भा) ति वाध्वेत्यवधारणे (or वावेत्यवधारणे) वाऽपीत्यपि पाठः । ' यत् ' यदि ब्राह्मणो In the font: Look at followed by a character: It's यद्वावेति or यद्वेति? Wait, could it be यद्वेति? No, look at वावेत्यवधारणे or वाध्वेत्यवधारणे. If the text in L2 was read as यद्वाव, then explaining वाव: वावेत्यवधारणे (or वाध्वेत्यवधारणे). Wait, is the word यद्वावेति? Look at the width: it has only 3 glyph spaces! , द्वे (or द्वि), ति. Wait, why would it be यद्वेति? Wait, look at the letter between and ति: It is द्वे! Yes, द् with वे! यद्वेति! Wait, why यद्वेति? Because in some editions/manuscripts, the verse begins "यद्वा ब्राह्मणो ब्रूयात्" or "यद्वै ब्राह्मणो ब्रूयात्"! Wait, if the verse begins "यद्वा", then "यद्वा + इति = यद्वेति"! Wait, what about the next word: वाध्वेत्यवधारणे or वावेत्यवधारणे? Wait, if it's यद्वावेति, let's count: (1), द्वा (2), वे (3), ति (4)? Look at the spacing: then a ligature with on top: द्वावेति? No, there is no द्वा before it. Wait, look at line 2: ( ८ ) यद्भाव ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । Wait! In line 2, is that यद्भाव or यद्वाव? Look at द्भा: it definitely has the left loop of ! Why would it say यद्भाव? Wait, could it be यद्वा व? No! Wait, what if in line 20 it says: यद्वेति ॥ वाध्वेत्यवधारणे । Wait, why would it say वाध्वेत्यवधारणे? Is there any word "वाध्व"? No! "वाव" is an avadharana particle ("वावेत्यवधारणे"). Why would वाव look like वाध्व? Because and in old fonts: व्व might look like ध्व! If + was typed as व्व, in some Devanagari fonts व्व has a double loop that looks like ध्व or ध्वे! Wait, वावेति is वाव + इति = वावेति! Wait, is it वावेत्यवधारणे? वा + वे + त्य + + धा + + णे = वावेत्यवधारणे! Wait, let's look at वे: does it have an extra loop? Look at the image: वा then a glyph with on top, then त्य. Could it be वावेत्यवधारणे? Wait, why is there a loop on the left? Could it be वाध्वेत्यवधारणे? Let's transcribe what is printed. If it's a typesetter error for वावेत्यवधारणे, what letters are actually there? It looks like वाध्वेत्यवधारणे or वावेत्यवधारणे. Let's look really closely at that glyph: It has a circle on the top left, like ! Wait, what about the first word: then द्वे or द्भा? Wait, look at line 20: ( ८ ) स्मृतिपरतया आचक्षते च तद्विद इति सूत्रांशं व्याचष्टे— Next line: यद्वेति ॥ वाध्वेत्यवधारणे । वाऽपीत्यपि पाठः । ' यत् ' यदि ब्राह्मणो Wait, look at the first word of line 20: Could it be यद्वावेति? Wait, look at the letter: Is it द्भा वे ति? No. Is it द्वे ति? Wait, let's look at द्दि: द् + + ि? No, it's यद्वावेति or यद्वेति? Let's check: It could simply be यद्वावेति where द्वावे is a complex ligature, OR it is यद्वेति. Wait, if we transcribe: यद्वावेति ॥ वावेत्यवधारणे । वाऽपीत्यपि पाठः । Wait, what if someone reading the print sees यद्वेति ॥ वाध्वेत्यवधारणे ।? Let's look at the character again: Between and ति: There is द्वे? Wait, look at the top: There is a horizontal top line (shirorekha). Above it, there is a stroke. Is the stroke going left? Yes, it's an or ि. Below the line: there is द् and under it something. To the right of it: is there another letter? Wait, between and ति: there are TWO letters or ONE? [glyph] ति It looks like ONE conjunct glyph! If it's one glyph, it is द्वे. Wait, why would it be यद्वेति? Could the text be: "यद्वा" -> "यद्वेति"? "यद्वा इति यद्वेति" - in Sanskrit grammatical commentary, when citing "यद्वा", it is cited as "यद्वेति" (यद्वा + इति = यद्वेति)! Wait, can यद्वा + इति become यद्वेति? Rule: आ + इ = ए (Guna Sandhi). Yes! यद्वा + इति = यद्वेति! Just like यथा + इति = यथेति! तथा + इति = तथेति! यद्वा + इति = यद्वेति!! WOW! THAT'S IT! यद्वा + इति = यद्वेति! Because in Sanskrit, यथा + इति is ALWAYS यथेति, and यद्वा + इति is ALWAYS यद्वेति! What about the verse in line 2? यद्वा व ब्राह्मणो ब्रूयात् -> "यद्वा वा ब्राह्मणो..." or "यद्वा व ब्राह्मणो..."! Wait! Look at line 2: ( ८ ) यद्वा व ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । Wait, is there a space? यद्वा ! Wait, is it यद्वा व or यद्वाव? And then what is the next word in line 20? वावेत्यवधारणे! Wait, if the verse has यद्वा व, then what is being explained? Wait, if the first word is यद्वेति, it explains यद्वा! Then the next word explains the next word! What is the next word after यद्वा? It is or वा or वाव! Wait, why does line 20 say: वाध्वेत्यवधारणे? Wait! Is it वाऽवेत्यवधारणे? No. Wait, could it be वावेत्यवधारणे? Wait, let's look at वाध्वेत्यवधारणे: Could it be वा इत्यवधारणे? Wait! वा + इति = वेति! Wait, could it be वेत्यवधारणे? Let's look at the letters: Letter 1: वा Letter 2: ध्ये or ध्वे? Wait, could it be वाप्येत्यवधारणे? No. Could it be वावेत्यवधारणे? Wait! If वाव + इति = वावेति, then वावेत्यवधारणे! Why would वावेति have a ? Wait, let's look at ध्वे: Is it ध्वे? Let's look closely at that word in line 20: Wait! Could the verse be: यद्वाव? Wait, why would it be वाध्वेत्यवधारणे? Could it be वाध्वे? No, "वाध्व" is not a Sanskrit word. Wait, what about वाध्येत्यवधारणे? Not a word. What about वावेत्यवधारणे? Yes, "वाव" is an authentic Vedic particle meaning avadharana (एव): "वावेत्यवधारणे" (निपात एषोऽवधारणार्थः). Why does it look like वाध्वेत्यवधारणे? Look at the letter: is that really ? Look at in वा: it is round. Look at the second letter: it has a top loop that goes left, like a Devanagari or an inverted loop. Wait, is it वावेत्यवधारणे where the typesetter mistakenly picked the type for ध्वे instead of वे? YES! In handset movable type printing, typesetters frequently pick adjacent types from the type case (like ध्वे instead of वे, or द्भाव instead of द्वाव). Notice that in line 2, we ALSO had that confusion between द्भा and द्वा! In line 2: यद्वाव (typeset as यद्भाव or यद्वाव). In line 20: यद्वेति or यद्वावेति? If line 2 was typeset as यद्भाव, line 20 might be यद्भावेति? No, it's यद्वेति or यद्विति. Let's transcribe exactly what is visible, or the clear reading. Wait, let's look at line 20 again: Is it यद्वेति? Yes, यद्वेति is very clear: , द्वे, ति. And then . Then वाध्वेत्यवधारणे or वावेत्यवधारणे? It looks like वाध्वेत्यवधारणे (or वाध्येत्यवधारणे). Let's look at: वाध्वेत्यवधारणे । वाऽपीत्यपि पाठः । Wait, if line 2 has वृषभोऽपि वा, where does वाऽपि come from? "वाऽपीत्यपि पाठः" refers to: instead of वाव (or वाध्व?), some read वाऽपि! E.g., "यद्वाऽपि ब्राह्मणो ब्रूयात्"! That proves beyond any shadow of doubt that the word being discussed is वाव! Because: Reading 1: यद्वाव ब्राह्मणो ब्रूयात् (with वाव meaning avadharana). Reading 2: यद्वाऽपि ब्राह्मणो ब्रूयात् ("वाऽपीत्यपि पाठः"). This is 100% conclusive!

  2. Let's check the remaining lines:

    • ****: वा देवता वा ' वृषभो ' देवश्रेष्ठो वा वृषं बिभर्तीति वृषभो रुद्रो वा
    • ****: अथ राजा वा ' स्वप्नस्थं ' स्वप्नावस्थापन्नं जनं प्रति ' यत् ' यदेव का- -> अथ राजा वा ' स्वप्नस्थं ' स्वप्नावस्थापन्नं जनं प्रति ' यत् ' यदेव का
    • ****: र्यं ब्रूयात् ' तत् ' तद्वचनं ' तथैव ' तथ्यमेव ' भविष्यति ' भवेदित्य- -> र्यं ब्रूयात् ' तत् ' तद्वचनं ' तथैव ' तथ्यमेव ' भविष्यति ' भवेदित्य
    • ****: र्थः । ' इत्याचक्षते ' वदन्ति चेति । चो हेतुसमुच्चये । स्वप्नविद् इत्यने- -> र्थः। ' इत्याचक्षते ' वदन्ति चेति। चो हेतुसमुच्चये । स्वप्नविद् इत्यने
    • ****: न तद्विद इति व्याख्यातम् । व्यासादय इत्यादि शब्दात् मन्वादयो गृ- -> न तद्विद इति व्याख्यातम् । व्यासादय इत्यादि शब्दात् मन्वादयो गृ
    • ****: ह्यन्ते । अनेन यतो व्यासादय इत्याचक्षते अतोऽपि सन्ध्यः सूचकः । न
    • ****: चाप्रयोजकता । यतस्ते तद्विदः अत इति सूत्रखण्डो व्याख्यातः ॥ १ ॥ Wait, look at the end of L27: ॥ १ ॥ or ॥ ४ ॥? It says: व्याख्यातः ॥ १ ॥! Wait, why ? Ah, adhikarana 1, or sutra 4? In Dvaita, Sandhyadhikarana is Adhikarana 1 of 3.2, ending with sutra 4, or this sub-section is 1. Wait, look at the next line: ॥ इति संध्याधिकरणम् ॥ Wait, under चाप्रयोजकता, look at the : there is an underline under ! Wait, is that an underline? Yes, under चा there is a line _. But that's just a mark or pen mark. And at the end: व्याख्यातः ॥ १ ॥ (or ॥ ४ ॥? It is ॥ १ ॥). Wait, let's look at ॥ १ ॥: there is a single danda with a vertical line or ॥ १ ॥.
    • ****: ॥ इति संध्याधिकरणम् ॥
  3. Final Polish of the lines: Header: [ अधि - १. सू - ४. ] दीपिकासहितम्. ७४७ Let's check if the user wants the header line-marked too: "Prefix each line with line marker like , . Output line markers for every line." Let's check how many lines total. Top header is usually or top line. Let's make: [ अधि - १. सू - ४. ] दीपिकासहितम्. ७४७ Wait, usually headers are included or lines from text. Let's include everything from top to bottom with , ...

    Let's check each line: [ अधि - १. सू - ४. ] दीपिकासहितम्. ७४७ इत्यादिश्रुतेः । हिशब्दाद्दर्शनाच्च । ( ८ ) यद्वाव ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । स्वप्नस्थमथ वा राजा तत्तथैव भविष्यति ॥ इत्याचक्षते च स्वप्नविदो व्यासादयः ॥ ४ ॥ प्रत्यक्षतः फलदर्शनाद्वा सन्ध्यस्सूचक इति योजना । अनेनाद्यश्च शब्दः श्रुतिप्रत्यक्षयोः समुच्चयकोऽपीत्युक्तं भवति । अत एव प्राक् शु भाशुभसूचकत्वेनेश्वरो दर्शयतीत्येतावदेवोक्त्वा अत्रैव चशब्दः पठि त इति ध्येयम्। काम्येषु कर्मसु क्रियमाणेषु 'यदा' यदि स्त्रियमभिप श्येति पुरुषः ' तत्र ' तर्हि 'तस्मिन् स्वप्ननिदर्शने' स्वाप्नाख्यनिदर्शने जाते सति स्वस्य 'समृद्धिं' श्रेयोलाभं जानीयादित्यर्थः । कृष्णं कृष्ण दन्तं वा पुरुषं मर्कटं वा यदि स्वप्ने पश्यति जीवस्तदा ' सः ' स्वप्न दृष्टपदार्थः 'एनं' द्रष्टारं 'हन्ति' हननसूचको भवतीत्यर्थः । यद्यप्य त्र ज्ञानस्यैव शुभाशुभसूचकत्वं प्रतीयते न त्वर्थस्य । उक्तं हि न्याया मृते— 'पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुत्या ज्ञानमेव सूच कम्, स्वाप्नज्ञानमेव अर्थक्रियाकारीति च । तथाप्यर्थावच्छिन्नज्ञा नस्य सूचकत्वे विशेषणतयाऽर्थस्यापि सूचकत्वलाभादेवमुक्तम् । स्व प्रसत्यतासाधकार्थसत्त्वमन्तरेण वचनसत्यताऽयोगात् अनेन स्वाप्नस त्यतासिद्धिः ॥ ( ८ ) स्मृतिपरतया आचक्षते च तद्विद इति सूत्रांशं व्याचष्टे— यद्वेति ॥ वाध्वेत्यवधारणे । वाऽपीत्यपि पाठः । ' यत् ' यदि ब्राह्मणो वा देवता वा ' वृषभो ' देवश्रेष्ठो वा वृषं बिभर्तीति वृषभो रुद्रो वा अथ राजा वा ' स्वप्नस्थं ' स्वप्नावस्थापन्नं जनं प्रति ' यत् ' यदेव का र्यं ब्रूयात् ' तत् ' तद्वचनं ' तथैव ' तथ्यमेव ' भविष्यति ' भवेदित्य र्थः । ' इत्याचक्षते ' वदन्ति चेति । चो हेतुसमुच्चये । स्वप्नविद् इत्यने न तद्विद इति व्याख्यातम् । व्यासादय इत्यादि शब्दात् मन्वादयो गृ ह्यन्ते । अनेन यतो व्यासादय इत्याचक्षते अतोऽपि सन्ध्यः सूचकः । न चाप्रयोजकता । यतस्ते तद्विदः अत इति सूत्रखण्डो व्याख्यातः ॥ १ ॥ ॥ इति संध्याधिकरणम् ॥

    Wait, let's verify line 21 (our L21): In the print, does it say यद्वेति or यद्वावेति or यदििति? Look at the print: द् वे ति or दि ति? It has , then a character with a loop below, and on top, then ति. That's यद्वेति. Then Then वाध्वेत्यवधारणे (or वावेत्यवधारणे? The print shows वाध्वेत्यवधारणे, let's preserve the text as printed or give वाध्वेत्यवधारणे / वावेत्यवधारणे). Giving वाध्वेत्यवधारणे faithfully reflects the printed letters while still completely legible.

    Looks solid, accurate, and completely aligned with the image.[ अधि - १. सू - ४. ] दीपिकासहितम्. ७४७ इत्यादिश्रुतेः । हिशब्दाद्दर्शनाच्च । ( ८ ) यद्वाव ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । स्वप्नस्थमथ वा राजा तत्तथैव भविष्यति ॥ इत्याचक्षते च स्वप्नविदो व्यासादयः ॥ ४ ॥ प्रत्यक्षतः फलदर्शनाद्वा सन्ध्यस्सूचक इति योजना । अनेनाद्यश्च शब्दः श्रुतिप्रत्यक्षयोः समुच्चयकोऽपीत्युक्तं भवति । अत एव प्राक् शु भाशुभसूचकत्वेनेश्वरो दर्शयतीत्येतावदेवोक्त्वा अत्रैव चशब्दः पठि त इति ध्येयम् । काम्येषु कर्मसु क्रियमाणेषु 'यदा' यदि स्त्रियमभिप श्येति पुरुषः ' तत्र ' तर्हि 'तस्मिन् स्वप्ननिदर्शने' स्वाप्नाख्यनिदर्शने जाते सति स्वस्य 'समृद्धिं' श्रेयोलाभं जानीयादित्यर्थः । कृष्णं कृष्ण दन्तं वा पुरुषं मर्कटं वा यदि स्वप्ने पश्यति जीवस्तदा ' सः ' स्वप्न दृष्टपदार्थः 'एनं' द्रष्टारं 'हन्ति' हननसूचको भवतीत्यर्थः । यद्यप्य त्र ज्ञानस्यैव शुभाशुभसूचकत्वं प्रतीयते न त्वर्थस्य । उक्तं हि न्याया मृते— 'पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुत्या ज्ञानमेव सूच कम्, स्वाप्नज्ञानमेव अर्थक्रियाकारीति च । तथाप्यर्थावच्छिन्नज्ञा नस्य सूचकत्वे विशेषणतयाऽर्थस्यापि सूचकत्वलाभादेवमुक्तम् । स्व प्रसत्यतासाधकार्थसत्त्वमन्तरेण वचनसत्यताऽयोगात् अनेन स्वाप्नस त्यतासिद्धिः ॥ ( ८ ) स्मृतिपरतया आचक्षते च तद्विद इति सूत्रांशं व्याचष्टे— यद्वेति ॥ वाध्वेत्यवधारणे । वाऽपीत्यपि पाठः । ' यत् ' यदि ब्राह्मणो वा देवता वा ' वृषभो ' देवश्रेष्ठो वा वृषं बिभर्तीति वृषभो रुद्रो वा अथ राजा वा ' स्वप्नस्थं ' स्वप्नावस्थापन्नं जनं प्रति ' यत् ' यदेव का र्यं ब्रूयात् ' तत् ' तद्वचनं ' तथैव ' तथ्यमेव ' भविष्यति ' भवेदित्य र्थः । ' इत्याचक्षते ' वदन्ति चेति । चो हेतुसमुच्चये । स्वप्नविद् इत्यने न तद्विद इति व्याख्यातम् । व्यासादय इत्यादि शब्दात् मन्वादयो गृ ह्यन्ते । अनेन यतो व्यासादय इत्याचक्षते

७४८ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ] २. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्ध विपर्ययौ ॥ ॐ ॥ ५ ॥ बन्धमोक्षप्रदत्वात्स एव स्वप्नतिरस्कर्ता । ( २ ) स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च । २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवतः स्वप्नतिरोधायकत्वमहिमा वर्ण्यते । सौत्रतुशब्देनैव बाह्यार्थज्ञानादेव स्वप्नतिरोधानं नाशः, तस्य तदज्ञान कृतत्वादिति सयुक्तिकपूर्वपक्षस्य सूचनात् सिद्धान्तयत्सूत्रमेवोपन्य स्य व्याचष्टे—परेति ॥ बन्धमोक्षप्रदातृत्वादित्यनेन हिशब्दो हेत्वर्थतया व्याख्यातः । मोक्षेति विपर्ययपदार्थकथनम् । सूत्रे पराभिध्यानादिति च्छाग्रहणेऽपि इच्छेश्वरयोरैक्यात्स पर ईश्वर एवेत्युक्तम् । न ज्ञान मित्येवशब्दार्थः । अनेन तुशब्दो व्याख्यातः । स्वप्नतिरस्कर्तेति । जी वस्य स्वाप्नपदार्थज्ञानकर्ता तत्तिरस्कर्ता चेत्यर्थः । अनेन सूत्रे तिरो हितमित्युपलक्षणम् । आविर्भूतमिति च द्रष्टव्यम् । सन्ध्यमिति च सं योज्यम् । कर्मणि क्तः । स्वप्नस्य तिरस्कर्ता इति विग्रहे भावेक्तः अ स्येति स्वप्नजीवयोरित्युक्तं भवति । न च बन्धमोक्षप्रदातृत्वेन कथं स्वप्नतिरोधायकत्वसिद्धिः व्याप्त्यभावादिति वाच्यम् । यदभिध्यान निबन्धनोऽनादिबन्धः तद्विमोक्षश्चातिदुरापोऽनन्तकालीनः, स्वप्नप्रति रोधानादिशक्तिः किं तस्य वर्णनीयेति तत्त्वप्रदीपोक्तरीत्याऽस्य कैमु त्यपरत्वेन व्याप्त्यनभ्युपगमात् । टीकायां तु यथा 'अस्य' जीवस्य ब न्धमोक्षावज्ञानज्ञानकृतत्वेन सुप्रसिद्धावपि हि 'बन्धको भवपाशेन भवपाशाच्च मोचकः' इति वचनात् 'पराभिध्यानात्तु' परमेश्वरेच्छा या एव तदधीनावेव । नाज्ञानज्ञानकृतौ तयोरचेतनत्वेनास्वातन्त्र्या त् । तथा 'अस्य' स्वप्नस्य तिरोधानम् । उपलक्षणमेतत् आविर्भाव श्च 'पराभिध्यानात्' इच्छाऽभिन्नपरमेश्वरादेव जायते, न ज्ञानाज्ञाना भ्याम् । ते तु निमित्तमात्रमिति दृष्टान्तदार्ष्टान्तिकभावपरतया सूत्रं व्याख्यातम् । अनेन ज्ञानाज्ञाने न स्वातन्त्र्येण तिरोभावादिहेतू अ चेतनत्वात्तन्निमित्तमात्रत्वेन प्रसिद्धत्वादित्यनुमानं सूचितम् ॥ ( २ ) नेदं दृष्टान्तमूलकानुमानमात्रमिति भावेन सूत्रार्थे स्मृतिं चोदाहरति—स्वप्नादीति ॥ स्वप्नः अर्थात्मा, तद्बुद्धेः पृथगुक्तत्वात्

[ अधि - ३. सू - ६. ] दीपिकासहितम्. ७४९ तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ ॥ इति कौर्मे ॥ ५ ॥ ———::-——— ३. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ देहयोगाद्वासोऽपि ॥ ॐ ॥ ६ ॥ देहयोगेन वासो जाग्रदपि तत एव ( २ ) 'स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुरीयाद् आदिपदाज्जाग्रत् । तिरस्कर्ता स्वप्रदिबुद्धेः । चौ परस्परसमुच्चये । ‘सः' ईश्वरः । 'तदिच्छया' ईश्वरेच्छया । 'हिः' प्रसिद्धौ । ‘अस्य' जी- वस्य । अत्र दृष्टान्तदार्ष्टान्तिकभावः कैमुत्यं वा, आंगभाद्वयामेरेव नि- श्चयोपपत्तेः साऽप्यभिप्रेयते । इति कौर्मे चोक्तमित्यन्वयः । न केवलं सूत्रकृतेति चार्थः ॥ २ ॥ ॥ इति पराभिध्यानाधिकरणम् ॥ ——*—— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोर्जाग्रत्प्रवर्तकत्वमहिमा निरूप्यते । जा- गरणस्य कालाधीनतायाः प्रत्यक्षसिद्धत्वात् । तस्य च बाधकाभावेन भ्रान्तित्वायोगात् नेश्वराधीनत्वमितिपूर्वपक्षे सिद्धान्तयत्सूत्रं पठि- त्वा व्याचष्टे—देहेति ॥ 'देहयोगेन' स्वदेहाभिमानेन तद्विशिष्टतया यां सहस्थितिरित्यर्थः । अनेन पञ्चमी तृतीयार्थतया व्याख्याता । फलि- तार्थमाह—' जाग्रत्' जाग्रत्त्वं जाग्रदवस्थेति यावदिति । तत एवे- ति । पराभिध्यानादेवेत्यर्थः । भवतीति शेषः । न कालजीवादेरित्येवा- र्थः । तत एवेत्यनेनापेः पराभिध्यानादिति पदानुकर्षकत्वं सूचितम् । यद्वा—अनुक्तसमुच्चायकोऽपिः । तथा च न केवलं जाग्रदेव, किन्तु स्वप्नसुषुप्ती अपीति । अतएव ' स स्वप्ने ' इति श्रुतिशेषोदाहरणम् । पदद्वयानुवादेन सूत्रे जाग्रदपीति वाच्ये देहयोगाद्वास इत्युक्तिः जा- ग्रत्त्वेन देहाभिमानेन अवस्थितिः जाग्रदवस्थेति जाग्रत्स्वरूपनिर्वचना- येति सूचितम् ॥ ( २ ) ननु जाग्रदवस्थायाः प्रत्यक्षत एवाह्नादिकालाधीनत्वप्रती- तेः कथमीश्वराधीनत्वमुच्यत इत्यतः पूर्वस्माद्विशब्दमनुवर्त्य तेन अ- पिना च सूचितां स्मृतिमुदाहरति—स इति ॥ 'सः' ईश्वर एव, न

७५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] स एको बहुधा भवति' इति कौण्डरव्यश्रुतेः ॥ ६ ॥ * ४. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॥ ॐ ॥ ७ ॥ कालजीवादिरित्यर्थः । 'जागरिते' जाग्रदवस्थायां, जीवमिति शेषः । असामर्थ्यमाशङ्क्याह—प्रभुरिति । तदुपपादनं—तुराषाडिति । वैरि वेगसह इत्यर्थः । 'तुरं भंगस्य धीमहि' (ऋ.५-८२-१.) इति तुरशब्द स्य वायौ प्रयोगात् वायुसह इति वा । नन्वेकस्यानेकावस्थाप्रेरकत्वं कथमित्यत आह—स इति । 'बहुधा' विश्वतैजसादिरूपेण । श्रुतेरि त्यस्य देहयोगेनेत्यादिनाऽन्वयः । तथाच कालस्यैव तत्प्रवर्तकत्वे श्रुति विरोधान्निमित्तमात्रविषयं प्रत्यक्षमिति भावः ॥ ३ ॥ ॥ इति देहयोगाधिकरणम् ॥ -*- ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सुप्तप्राप्यत्वमहिमा वर्ण्यते । नाडीष्विति पदेन परमात्मन्येव सुप्तिः, न तु नाडीष्वपीति पूर्वपक्षस्य सूचितत्वात् तम नुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याचष्टे—तदिति ॥ न च के वलपरमात्मनि सुप्तिरिति पूर्वपक्षे भगवतो माहात्म्याक्षेपाभावेन भ क्त्यनाक्षेपात्कथमयं विरोधीति वाच्यम् । तथासति नाडीसुप्तिप्रतिपा दकश्रुतेरप्रामाण्यापातेन तन्न्यायेन भक्तेः मोक्षसाधनत्वश्रुतेरीश्वरमा हात्म्यप्रतिपादकश्रुतेश्चाप्रामाण्यापातादित्येवं विरोधिस्वात् । जाग्रदि ति भावप्रधानः । अनेन तयोः जाग्रत्स्वप्नयोरभावः तद्भाव इति तद्भावपदं व्याख्यातम् । फलितार्थमाह—सुप्तिरिति । अस्य जीवस्ये ति वर्तते । अनेन सूत्रे सुप्तिरिति वक्तव्ये तदभाव इत्युक्तिः सर्वेन्द्रिय व्यापारोपरतिः सुप्तिरिति सुप्तिस्वरूपनिर्वचनार्थेति सूचितम् । एवं त दभाव इति पक्षवचनं व्याख्याय नाडीष्वात्मनीति साध्यांशं व्याचष्टे —नाडीस्थ इति । अत्र सूत्रे न श्रुतपदार्थयोरेवाभेदेनान्वयः, नापि प्र त्येकमन्वयः, किन्तु स्थित इति पदाध्याहारेण सामानाधिकरण्येनान्व यः, मन्दिरे मञ्जूषायां मणिमालेत्यत्रेवाधाराधेयभावो वाऽभिप्रेत इति सूचितम् । ' परमात्मनि ' भवतीति शेषः । ननु परमात्मन्येव सुप्तिर-

ष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि' इति काठकभा-L28:प्योक्तेः देहाङ्गुष्ठमितस्य कथमतिसूक्ष्मनाडीस्थकर्णिकाग्रस्थत्वमि-L29:ति वाच्यम् । अचिन्त्यत्वाद्दीश्वरशक्तेः ॥ ४ ॥Wait, look atअचिन्त्यत्वाद्दीश्वरशक्तेःorअचिन्त्यत्वादीशश्वरशक्तेः? Look at L29: अचिन्त्यत्वाद्दीश्वरशक्तेः-त्वाthenद्दी(द with dirgha ई, soअचिन्त्यत्वाद्दीश्वरशक्तेः, sandhi of अचिन्त्यत्वात् + ईश्वरशक्तेः = त् -> द् + ई = दी -> द्री? No, द्दी= द् + दी? Yes, double d:द्दी, अचिन्त्यत्वाद् + ईश्वर = अचिन्त्यत्वाद्दीश्वरशक्तेः! Wait, त् + ई is usually दि, single d. But sometimes spelled द्दीby duplication before vowel or sandhiत्वाद्दीश्वर. In the image: look at द्दी: it has द्attached toदीor justदी? Look at द्दी: the head has a loop of द, and under it another curve: yes, द्दी`!)

L30: `॥ इति तदभा

७५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अतः प्रबोधोऽस्मात् ॥ ॐ ॥ ८ ॥ यतस्तस्मित् सुप्तिः । ( २ ) ‘एष एव सुप्तं प्रबोधयेदेतस्माज्जीव उत्तिष्ठत्येष ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे हरेः सुप्तप्रबोधकत्वमाहात्म्यं वर्ण्यते । भेरी ताडनादेरेव सुप्तस्य प्रबोधो नेश्वरादिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्य व्याचष्टे—अत इति ॥ तस्मिन्निति सावधारणम् । तथा च ना डीस्थे परमात्मन्येवेत्यर्थः । उपलक्षणं चैतत् । तदभिध्यानादेवेति तत्त्व प्रदीपोक्तं द्रष्टव्यम् । सुप्तिरित्यनन्तरं उक्तेति शेषः । अस्येत्यनुवृत्ति श्च कार्या । अनेन यतोऽस्य जीवस्य तस्मिन्नेव तदिच्छयैव सुप्तिरुक्ता, अतोऽस्यास्मात्परमात्मन एव तदिच्छयैव सुप्तेः प्रबोधोऽपि नान्यस्मा दिति सूत्रयोजनोक्ता भवति । न चात्राप्रयोजकता । अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । विशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥ इति वचनविरोधात् । देहाद्देहान्तरगते प्रविशेत्प्राणमेव तु । जीवः प्राणः परात्मानमेवं सुप्तौ . . ॥ इति वचनाच्च । मुख्यप्राणद्वारेण स्वान्तर्निवेशितस्य जीवस्य तत्प्रे रणामन्तरेण स्वत एव सुप्त्युद्बोधनशक्त्यभावाच्च ॥ ( २ ) ननु भेरीताडनाद्यनन्तरं प्रबोधदर्शनात्तेषामपि सुप्तप्रबोधहे तुत्वं सिद्धमिति कथं प्रबोधस्य भगवदेकाधीनत्वं प्रत्यक्षविरोधादि त्याशङ्कापरिहारायातशब्दं श्रुतिपरतयाऽपि व्याचष्टे—एष इति ॥ श्रुतिरित्यनन्तरं यत इत्यनुवर्तते । तथा च ‘यतः’ एवं कौण्डिन्यश्रु तिरतोऽस्मादेव प्रबोधो भवतीत्यन्वयः । अनेनातश्शब्दस्य तद्भावो नाडीष्वात्मनीत्युक्तपरामर्शकत्वं तच्छ्रुतेरिति प्रकृतश्रुतिपरामर्शकत्वं चोक्तं भवति । प्रत्यक्षं तु निमित्तमात्रविषयं, अन्यथा सावधारणश्रुति विरोधादिति भावः । ‘एषः’ परमात्मैव ‘सुप्तं’ जीवं सुप्तेः प्रबोधयति नान्यः । एतस्मादीशादेव जीव उत्तिष्ठति सुप्तेः । एष एव ‘प्रमाता’