भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

८८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३.] न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चे त्पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । प्राप्त एव गुरुर्ग्राह्यो नान्य इति प्राप्ते सिद्धान्तयत्सूत्रं पठति—पूर्वेति ॥ अत्र पूर्वविकल्पः स्यादिति साध्यांशं व्याचष्टे—न चेति । किन्तु प श्चात्तनोऽपि स्वीकार्यो भवतीत्येवकारार्थः। अनेन पूर्वविकल्पस्स्यादि त्यस्य पूर्वप्राप्ते गुरौ विकल्पो ‘नियमः’ स एवानुवर्तनीय इति निय मो नास्ति, किन्तु पश्चात्तनोऽपि स्वीकार्यो भवेदित्यर्थ उक्तो भवति । ननु पश्चात्तनस्वीकार वैय्यर्थ्यमित्यतः प्रवृत्तं प्रकरणादित्यंशं व्याच ष्टे—समग्रेति । समग्रानुग्रहमिति प्र इत्यस्यार्थकथनम् । शिष्याज्ञा नादिपरिहरणसमर्थं तदपेक्षितार्थोपदेशार्थानुग्रहमित्यर्थः । अनुग्रह मित्यनेन सूत्रे प्रकृष्टानुग्रहकरणमपेक्ष्येति ल्यब्लोपे पञ्चमीत्युक्तं भव ति । ‘चेत्’ यतः पश्चात्तनो गुरुरिति शेषः । प्रकरोतीत्यनेनोपसर्ग स्य न केवलं कर्मसमर्पकत्वं, किन्तु क्रियातिशयद्योतकत्वमपीत्युक्तं भवति । तथा च पूर्वगृहीतात्पश्चात्तनो गुरुः यतः समग्रानुग्रहं करो ति अतो न हत्स्वीकारवैयर्थ्यमिति सोऽपि स्वीकार्यः, न तु पूर्वप्राप्त ए व गुरुरिति नियम इति योजना । इदानीं प्रकरणात्पूर्वविकल्प इत्यंशं पूर्वत्यागे पश्चात्तनस्वीकारे विशेषाभिधानपरतयाऽपि व्याचष्टे—स मग्रेति । अस्मिन् पक्षे प्रकरोतीत्यन्तस्य न पूर्वेणान्वयः, किन्तु उत्तर वाक्येनान्वयः। ‘चेत्’ यदि। पश्चात्तन इत्यनन्तरं समोऽधिकः अध म इति शेषः । ‘स्वयमेव’ यदृच्छयैव । तदेत्यस्य तत्र त्यागे स्वीका रे चेत्यप्यर्थः । सूत्रे पूर्वविकल्प इत्यस्य पररूपभावाभावयोः अविक ल्पो विकल्प इति द्वेधा विच्छिन्नत्वात् भाष्येऽपि विकल्पोऽविकल्प इ ति द्वेधा विच्छेदः कार्यः । पूर्वानुज्ञयेति शेषः । नेति चानुपज्यते । त था च पश्चात्तनो यदि पूर्वगृहीतेन समः तदा पूर्वत्यागे पश्चात्तनः समग्रानुग्रहं करोति चेत् पूर्वतनस्त्याज्यः, न चेत् न त्याज्य इति वि कल्पः व्यवस्थितप्रकारभेदः स्यात् । एवं समः समग्रानुग्रहं करोति चेत्तदा पूर्वसमस्वीकारे विकल्पः स्यात् पूर्वानुज्ञया स्वीकार्यः । तद भावे ‘न वा’ न स्वीकार्य एवेति विधिरिति । स्वयमेवेत्यनेन विकल्पश्च यदृच्छया प्राप्तौ, न तु तदर्थं प्रयतितव्यमित्युक्तं भवति । एवं पश्चा त्तनोऽधिक उत्तमश्चेत् स च यदि समग्रानुग्रहं न करोति, तदा पूर्वे स्मादधिकस्वीकारे ‘अविकल्पो’ विकल्पो न स्यात् । न स्वीकार्ये

[ अधि - २८. सू - ४६. ] दीपिकासहितम्. ८८५ ( २ ) मानसक्रियावत् । यथोभयोर्ध्यानयोः समयोः । ( ३ ) पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण विकल्पः समयो र्भवेत् ॥ समग्रानुग्रहाभावात्सत्यकामस्स्वकं गुरुम् । ऋषभाद्यनुज्ञया चैव प्राप तस्माद्धि युज्यते ॥ इति बृहत्तन्त्रे ॥ इति यावत् । एवं पश्चात्तनः पूर्वस्मादधिकः समग्रानुग्रहं करोति चेत् तदा स्वयमेव पूर्वानुज्ञां विना ‘अविकल्पः’ असंशयः, पूर्वं परित्य ज्योत्तमो गुरुस्वीकार्यस्स्यात् । एवं पश्चात्तनः पूर्वस्मादधमश्चेत्तदात्या गे ‘अविकल्पो’ नियमत्याग एव न स्यात् । ‘गुणाधिकं गुरुं प्राप्य तर्द्धा नं नाप्नुयात्क्वचित्’ इति वचनात् । पूर्वस्मादधमः समग्रानुग्रहं क रोति चेत् स्वीकारे विकल्पः स्यात् पूर्वानुज्ञया ग्राह्य एव स्यात् । य थोक्तं तत्त्वप्रदीपे, अतः सिद्धं समग्रानुग्रहे तूत्तमस्य तदनुज्ञया वरः प्राप्य इतीति योजना ॥ ( २ ) साम्ये विकल्प इत्यत्र सूत्रोक्तं दृष्टान्तमर्थक्रमेण व्याचष्टे— मानसेति ॥ अनेन सूत्रे षष्ठीद्विवचनान्ताद्धतिः । क्रिया धात्वर्थः ध्या यत्यर्थो ध्यानम् । मानसी मनोवृत्तिरूपा च सा क्रिया च कडारादि त्वात्परनिपातः इत्युक्तं भवति । मानसक्रियावदिति स्वपदं वर्णय ति—यथेति । विकल्पः स्यादिति सम्बन्धः । ‘उभयोः’ रामकृष्णा दिरूपद्वयविषययोः नीलपीतादिरूपद्वयविषययोर्वेत्यर्थः । ‘समयोः’ फलतः समयोरेव विकल्पः नोत्तमाधमयोरिति ॥ ( ३ ) अत्र स्मृतिमाह—पूर्वस्मादिति ॥ यदि ‘पूर्वस्मात्’ पूर्व गृहीतात् उत्तमो गुरुर्लब्धस्तदा असौ अविचारेणासंशयं स्वयमेव पूर्वानुज्ञां विना गृह्णीयादित्यर्थः । ‘समयोः’ ज्ञानादितः । पूर्वोत्तरयो रिति च त्यागस्वीकारयोरिति च शेषः । यदि पूर्वस्मादुत्तमोऽविचा रेण स्वीकार्यः, तर्हि कथमृषभादयः सत्यकामेन न गृहीताः, प्रत्युत पूर्वतन एव प्राप्तोऽतो नैतद्युक्तमित्यत आह—समग्रेति । ‘हि’ यस्मा त्सत्यकामः ऋषभादीनां एकैकस्मादेव ‘समग्रानुग्रहाभावात्’ तैस्त दकरणात् ऋषभाद्यनुज्ञयैव ‘स्वकं’ स्वयोग्यावदुपदेशकत्वेन स्व योग्यमेव गुरुं गौतमं ‘प्राप’ जग्राह, न तूत्तमान्, तस्मात्पूर्वपरित्यागे न समग्रानुग्रहकर्ता उत्तमः समो वा स्वीकार्य इत्येतद्युज्यत इत्यर्थः ॥

८८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ४ ) समग्रानुग्रहं कश्चित्स्वयमेव समो यदि । कुर्यात्पुनश्च गृह्णीयादविरोधेन कामतः ॥ ( ५ ) ध्यानयोस्समयोर्यद्वद्विकल्पः कामतो भवेत् । एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च । इति महासंहितायाम् ॥ ४६ ॥ ( ६ ) सू- ॐ ॥ अतिदेशाच्च ॥ ॐ ॥ ४७ ॥ ‘ ब्रह्मोपास्व ब्रह्मोपचरस्व तच्छृणु हि तत्त्वामवतु । यथा ब्रह्मोपचरेर्यथा मामुपचरेर्य चाऽन्येऽस्मद्विधाः श्रे ( ४ ) साम्ये पूर्वानुज्ञापेक्षितेति भावेन तत्र स्मृतिमाह — समग्रे- ति ॥ यदि पुनः पूर्वस्य ज्ञानादिगुणैः समः कश्चिन्मध्ये प्राप्तो गुरुः स्वयमेव शिष्यप्रयत्नं विनैव प्रसन्नः समग्रानुग्रहं कुर्यात् ‘तदाऽविरो- धेन’ पूर्वानुज्ञया ‘कामतो’ यथेच्छं गृह्णीयात्तन्मिति शेषः ।

[ अधि - २९. - सू - ४८. ] दीपिकासहितम्. ८८७ यसश्च तानूपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वा मवन्तु' इति पौष्यायणश्रुतावतिदेशाच्च ॥ ४७ ॥ * २९. अधिकरणम् ॥ ( १ ) न च 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' ( गी.३-२०. ) इत्यादिनाऽन्यन्मोक्षसाधनम् । सू--ॐ ॥ विद्यैव तु निर्धारणात् ॥ ॐ ॥ ४८ ॥ 'तमेवं विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽ यनाय' ( श्वे. ३-८. ) इति निर्धारणाद्विद्ययैव मोक्षः ॥४८॥ प्रसिद्धं ब्रह्म शृणु । शृणुहीति छान्दसमेकं वा पदम् । तत् त्वां रक्ष तु । यथा ब्रह्मोपासीथाः तथा मामुपास्व, यथा ब्रह्मोपचरेः तथा मा मुपचरस्वेति शेषः । यथा मामुपचरेस्तथा येऽन्ये च 'अस्मद्विधाः' अस्मत्समानाः 'श्रेयसो' विभक्तिविपरिणामेन श्रेयांसः तान् श्रेय सोऽस्मदुत्तमांश्च उपास्वोपचरस्वेति शिष्यं प्रति गुरुवाक्यमेतत् । आचार्योपासनं नाम सविनयमन्ते स्थितिः आचार्योपचारोऽभीष्टकर णादिः । 'तेभ्यः' समोत्तमेभ्यः ब्रह्म शृणु 'ते' समोत्तमाः त्वां 'अ वन्तु' रक्षन्त्विति तत्त्वप्रदीपदिशा श्रुत्यर्थः ॥ २८ ॥ इति विकल्पाधिकरणम् ॥ :*:- २९. अधिकरणम् ॥ ( १ ) अत्र नये उपासनस्य कर्तव्यता समर्थनाय ज्ञानमेव मुक्तिहे तुरिति समर्थ्यते । सूत्रगतैवकारसूचितपूर्वपक्षं प्रतिषेधति—न चेति ॥ चोऽवधारणे अप्यर्थे च । ज्ञातमिति शेषः । तथा च इत्यादिना वाक्येन मोक्षसाधनत्वेन ज्ञातं ज्ञानात् 'अन्यत्' कर्माद्येव मोक्षसाधनं नेत्यर्थः । यद्वा-'अन्यत्' कर्माद्यपि मोक्षसाधनं नेत्यर्थः । आदिशब्देन 'त्यागेनैके अमृतत्त्वमानशुः' ( महाना.१०. ) 'प्रयागमरणेन वा' इत्यादिकं गृह्य ते । 'संसिद्धिं' मोक्षं 'आस्थिताः' प्राप्ताः 'जनकादयो' विदेहाद यः । इदं गीतावाक्यम् । 'त्यागेन' देवतामुद्दिश्य द्रव्यत्यागेन 'अमृ तत्वं' मोक्षं 'आनशुः' प्रापुरिति श्रुत्यर्थः । न चेत्युक्तार्थे हेतुतया सू त्रमुपन्यस्य व्याचष्टे—विद्येति । 'अयनाय' मोक्षार्थे अपरोक्षज्ञानाद् न्यः 'पन्थाः' उपायो न विद्यते इत्यर्थः । इति निर्धारणादिति । इति

९८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( २) सू—ॐ ॥ दर्शनाच्च ॥ ॐ ॥ ४९ ॥ न केवलं विद्यया, किं तु अपरोक्षज्ञानेन च । 'सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण' इति कौशिकश्रुतेः ॥ ४९ ॥ :—*—: ३०. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ श्रुत्यादिवलीयस्त्वाच्च न बाधः ॥ ॐ ॥ ५० ॥ श्रुतौ अन्यस्य मोक्षसाधनत्वनिवारणादित्यर्थः । यद्वा—निर्णायकव चनादित्यर्थः । सूत्रे मोक्षसाधनमिति शेषः कार्य इति भावेन विद्यैवे त्येतत्तात्पर्यतो व्याचष्टे—विद्ययैवेति । 'मोक्षः' संसारनिवृत्तिरूपः । भवतीति शेषः। भवति यतोऽतो नेत्यन्वयः। सूत्रे 'नान्यःपन्थाः' इत्येवा र्थश्रुत्यनुसारेण प्रथमाप्रयोगेऽपि विद्ययैवेति तृतीयाप्रयोगेन 'कर्मणैव' इत्यादिवचनात्सावधारणविद्यावचनस्य प्राबल्यमुक्तं भवति । अनेन सौत्रतुशब्दः प्राबल्यार्थतया व्याख्यातः । कर्मवचनानां गतिस्तु भाक्त नये एव प्रतिपादिता । प्रतिपादयिष्यते चोत्तरत्र ॥ ( २ ) ननु यदि विद्या मोक्षसाधनं तर्हि ध्यानवैयर्थ्यं, ज्ञानरूपा याः विद्यायाः श्रवणादेव सम्भवादित्याशङ्कां परिहरत्सूत्रं पठति—द र्शनाच्चेति ॥ अत्र चशब्दः समुच्चये अप्यर्थेः । मोक्ष इति शेष इति भा वेन सूत्रं व्याचष्टे—नेति । 'विद्यया' परोक्षज्ञप्त्या । सौत्रदर्शनपदा र्थमाह—अपरोक्षज्ञानेनेति । मोक्ष इति वर्तते । तथा च दर्शनार्थं ध्या नमावश्यकमिति भावः । नन्वेवं 'विद्वान्' इति परोक्षविद्यया मोक्ष श्रवणात्कथमुच्यते दर्शनान्मोक्ष इति, तत्राह—सर्वानिति । विशेषश्रु तिबलात्साऽपि दर्शनार्थेति भावः । अयं 'परः' सर्वोत्तमः हरिः 'स र्वान्' जीवान् 'मायया' स्वेच्छया प्रकृत्या च यतः 'सिनीते' बध्ना ति अतः 'तं' यथायोग्यं दृष्ट्वैव मुच्यते बन्धात, नान्येन परोक्षज्ञानमा त्रेण नान्यपुरुषदर्शनेन, अन्यस्य बन्धमोचनशक्तस्याभावादिति वा श्रु त्यर्थः । श्रुतेरित्यनेन न केवलं ब्रह्मदर्शनादित्यर्थः, किन्तु श्रुतेरित्यप्य र्थ इत्युक्तं भवति ॥ २९ ॥ ॥ इति विद्याधिकरणम् ॥ — * — ३०. अधिकरणम् ॥ ( १ ) अस्मिन्नधिकरणे यत्साधनं भगवदुपास्तिः तस्य ज्ञानस्य

[ अधि - ३०. सू - ५०. ] दीपिकासहितम्. ८८९ सावधारणा बलवती श्रुतिः । इन्द्रोऽश्वमेधांश्छतमिट्ष्ट्वाऽपि राजा ब्रह्माणमीड्यं समुवाचांपसन्नः । न कर्मभिर्न धनेनैव चान्यैः पश्येत् सुखं तेन तत्त्वं ब्रवीहि ॥ इति बलवल्लिङ्गम् । 'नास्त्यकृतः कृतेन' (मु. १-२.) इत्युपपत्तिश्च ॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । मोक्षसाधनत्वं समर्थ्यते । 'कर्मणैव' इति वचनात् कर्मसाध्य एव मोक्ष इति प्राप्ते सिद्धान्ताभिधानाय सूत्रं पठति—श्रुत्यादीति ॥ अत्र मत्वर्थे ईयसुन् । श्रुत्यादिवलीयस्त्वादित्यस्य श्रुतिलिङ्गोपपत्तिस्मृती नामतिबलवत्त्वात् । बलवच्छ्रुत्यादेरिति यावत् । इत्यर्थमभिप्रेत्य बलीय स्त्वे हेतुप्रदर्शनपूर्वकं सूत्राभिप्रेतां श्रुतिं, आदिपदसूचितप्रमाणानि च दर्शयति—सावधारणेति । 'तमेवम्' इति 'दृष्ट्वैव' (कौशिक. ) इति श्रुतिः 'कर्मणैव' इति स्मृतेर्बलवती यतः 'सावधारणा' निरव काशेतरव्यवच्छेदरूपाऽवधारणेन युक्ता अत इत्यर्थः । यद्यपि 'तमेव म्' (श्वे. ३-८. ) इति श्रुताववधारणं न श्रूयते, तथाऽपि 'नान्यः प न्थाः' (श्वे. ३-८. ) इत्यवधारणार्थप्रतीतेः, 'दृष्ट्वैव' इत्यत्र च साक्षा दवधारणश्रुतेः सावधारणेत्युक्तम् । राजा इन्द्रः शतसङ्ख्याकानश्वमे धाख्यक्रतून् कृत्वा ईड्यं ब्रह्माणं उपसन्नस्समुवाच । किमिति ? हे ब्रह्म न् अहं 'कर्मभिः' अश्वमेधाद्यैः धनैः 'अन्यैः' तपआदिभिः सुखं 'न पश्येत्' पश्येयं न पश्यामि । पश्य इति पाठोऽप्यस्ति । तदा पदिव्यत्य यः । आद्यपाठे पुरुषव्यत्ययः । (यद्वा-इन्द्रःपश्येदिति परोक्षनिर्देशः। द्रोणं प्रति भीमवचनमेतत्)। यत एवं 'तेन' कारणेन तदर्थं दुःखासंभि न्नसुखरूपमोक्षार्थं 'तत्त्वं' मोक्षसाधनज्ञानविषयं ब्रवीहीति श्रुत्यर्थः । इति बलवदिति । इत्युक्तं मोक्षस्य ज्ञानसाध्यत्वे अव्यवहितं लिङ्गं बहु कर्मकृतोऽपीन्द्रस्य दुःखासम्भिन्नसुखरूपमोक्षार्थं तत्त्वज्ञानस्य प्रार्थन रूपज्ञापकं स्मृतेर्बलवत् निरवकाशत्वरूपप्राबल्योपेतमित्यर्थः । इत्युप पत्तिरिति । इति श्रुतिबोध्या कार्यत्वे सत्यन्यासाध्यत्वादित्येवंरूपा मो क्षस्य ज्ञानैकसाध्यत्वे साक्षादुपपत्तिश्च स्मृतेर्बलवतीति सम्बन्धः । व्यभिचारादिदूषणशून्यत्वात् श्रौतत्वाच्चेति भावः । लिङ्गोपपत्त्योरुभ ११२

८९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ इति युक्तिमद्भगवद्वचनम् । अतो न प्रमाणान्तरबाधः॥ ( २ ) 'कर्मणैव' ( गी. ३-२०. ) इत्ययोगव्यवच्छेदः ॥ ५० ॥ —*— ३१. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अनुबन्धादिभ्यश्च ॥ ॐ ॥ ५१ ॥ योः श्रौतत्वेऽपि मोक्षस्य ज्ञानैकसाध्यत्वे साध्ये व्यवहितत्वाव्यवहि- तत्त्वाभ्यां भेदः । श्रुतिस्तु जिज्ञासानये व्याख्याता । यस्मात् 'जन्तुः' शरीरी काम्येन कर्मणा बध्यते 'विद्यया च' अपरोक्षज्ञानेनैव विमु- च्यते, तस्मात्कर्म न कुर्वन्ति 'यतयो' निगृहीतेन्द्रियाः 'पारदर्शिनः' संसृतेः पारभूतस्य ब्रह्मणो दर्शिन इति गीतास्मृत्यथः । इतीति। इति वचनं स्मृतेर्बलवत् कर्मणो बन्धकत्वमुमुक्ष्वक्रियमाणत्वरूपयुक्तियुक्त- त्वादित्यर्थः । भगवद्वचनमित्यनेन पूर्वपक्षिणा भगवद्वाक्यत्वादित्युक्त- हेतोस्साम्यम् । ततश्च तस्य सावकाशत्वमुक्तं भवति । प्रथमान्तानां अस्तीत्यध्याहृतेनान्वयः । ततः किमित्यतः साध्यसम्बन्धं दर्शयति— अत इति । बलवच्छ्रुत्यादेः सत्त्वादित्यर्थः । नेति । प्रमाणान्तरेण स्मृ- तिवचनेन बाधो नत्यर्थः । विद्यैव मोक्षसाधनमित्युक्तस्येति शेषः । ( २ ) नन्वेवं चेत् 'कर्मणैव' इति स्मृतिरप्रमाणमेवेति प्राप्तमि- त्यतः चशब्दसूचितार्थमाह—कर्मणेति । क्रियत इति शेषः । 'कर्मणैव' इति वाक्यगतैवकारेण कर्मायोगस्य तदसम्बन्धस्य व्यवच्छेदो निरा- सः क्रियते बोध्यत इत्यर्थः । तथा च जनकादयः 'कर्मणा सह' कर्म कुर्वन्त एव 'संसिद्धिं' मुक्तिं 'आस्थिताः 'प्राप्ता इति न तस्याप्रामा- ण्यमिति भावः । उपलक्षणमेतत् । कर्मणा संसिद्धिमास्थिता एवेत्य- पि योजनासम्भवेन नासौ निरवकाश इत्यपि द्रष्टव्यम् । अनेन परकी- यस्मृतेः सावकाशत्वाच्चेति सौत्रचशब्दार्थ उक्तो भवति ॥ ३० ॥ ॥ इति श्रुत्यधिकरणम् ॥ ———— ३१. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञानसाधनस्योपासनस्य भक्तिपूर्वकत्वं समर्थ्यते । प्रबलगुरुप्रसादेनैव ब्रह्मदर्शनसम्भवान्न तदर्थं भक्त्यादि कमपेक्षितमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अनुब

[ अधि - ३१. सू - ५१. ] दीपिकासहितम्. ८९१ न केवलं श्रवणादिभिः गुरुप्रसादेन च ब्रह्मदर्शनम् । किन्तु भक्त्यादिभिश्च । ( २ ) सर्वलक्षणसम्पन्नस्सर्वज्ञो विष्णुतत्परः । यद्गुरुस्सुप्रसन्नस्सन् दद्यात्तन्नान्यथा भवेत् ॥ तथाप्यनादिसंसिद्धभक्त्यादिगुणपूगतः । लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत् ॥ इति ॥ न्धेति ॥ सूत्रे पूर्वस्मादनुवृत्तस्य चशब्दस्यार्थमाह—न केवलमिति । श्रवणमननादिभिः दर्शनासम्भवेऽपि प्रबलगुरुप्रसादादिना तत्सम्भव तीत्याशङ्कावारणाय गुरुप्रसादस्य पृथङ्निर्देशः। प्रसादेनापीत्यर्थः । ‘ब्रह्मदर्शनं’ भवतीति शेषः । अनेन सूत्रे दर्शनाच्चेत्यतो विपरिणामे न दर्शनमित्यनुवर्तनीयमित्युक्तं भवति । अनुबन्धादिभ्य इत्यत्र अनुब न्धशब्दार्थमाह—भक्तीति । ‘अनुबन्धस्तु भक्तिस्स्याद्बन्धस्नेह उदा हृतः’ इत्यभिधानात् । ‘अनुबन्धो’ माहात्म्यज्ञानानुसारिस्नेहरूपभ क्तिरित्यर्थः । अनुबन्धशब्देन हरिगुरुभक्तयोरुभयोर्ग्रहणमिति सूच नाय भक्तीति सामान्यनिर्देशः । आदिपदेन शमदमादयो गृह्यन्ते । तृ तीयापञ्चम्योरेकार्थत्वान्न सूत्रभाष्ययोर्विसंवादः शङ्क्यः । सूत्रे भाष्ये च तैर्विना तदसिद्धेरिति हेतोः सिद्धत्वान्नोक्तिः ॥ ( २ ) ननु नियामकाभाव इत्यतोऽत्रार्थेऽनुवृत्तचशब्दसूचितस्मृ तिमाह—सर्वेति । स्वयोग्यषण्णवत्यङ्गुलत्वादिलक्षणसम्पन्नः स्वयो ग्यसार्वज्ञ्योपेतः ‘विष्णुतत्परो’ विष्णुभक्तिमान् गुरुः सुप्रसन्नस्सन् शिष्याय ‘यद्दद्यात्’ उपदिशेत् ‘तदन्यथा’ फलविसंवादि न भवे दित्यर्थः । यद्यपि बलवद्गुरुप्रसादादेव दर्शनं भवति । तथाऽपि भक्त्या द्यपेक्षितमिति शेषः । कुत इत्यत आह—अनादीति । यदनादिकाला त्संसिद्धं स्वतः सिद्धमव्यक्तं भक्त्यादि स एव गुणपूगः गुणसमुदा यः तस्माद्गुरुप्रसादं लभेदित्यर्थः । चशब्दाद्धरिप्रसादं चेति सूचयति । यत इति शेषः । तर्हि भक्त्यादिकं हरिगुरुप्रसादार्थमेव, न ज्ञानार्थं स्यादित्यत आह—तस्मादेवेति । ‘तस्मात्’ अभिव्यक्तभक्त्यादेरेव ‘तत्’ अपरोक्षज्ञानं भवेदित्यर्थः । तर्हि भक्त्यादि ज्ञानसाधनमेव न गुरुप्रसादस्येत्यतोऽप्याह—तस्मादिति । ‘तस्मात्’ भक्त्यादेरेव त द्गुरुप्रसादादि भवेदित्यर्थः । न च भक्त्यादेरुभयसाधनत्वमयुक्तमिति

८९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ३ ) भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् । दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः ॥ तैस्सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत् ॥ इति च नारायणतन्त्रे ॥ ५१ ॥ ३२. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ ॐ ॥ ५२ ॥ उपासनाभेदवत्तद्दर्शनभेदः । वाच्यम् । यतोऽनादिसिद्धाव्यक्तभक्त्यादिना गुरुप्रसादः तेन भक्त्या- द्यभिव्यक्तिः अभिव्यक्त्यादिना च ज्ञानमित्यभ्युपगम्यते ॥ ( ३ ) भक्त्यादिगुणपूगत इत्यत्रादिशब्दोक्तं तस्मादिति सामान्ये- नोक्तं च स्पष्टयति—भक्तिरिति ॥ विष्णौ गुरौ च स्वरूपभूतानादि- सिद्धा या भक्तिः यश्च शमदमादिस्तत्सर्वं गुरोर्नित्यप्रसन्नतां दद्यात्। तेन गुरुप्रसादेन च पुनरेते भक्त्यादिगुणाः व्यक्ता भवन्ति । व्यक्तै- स्सर्वैस्तैर्भक्त्यादिभिः विष्णोर्दर्शनं भवेत् । न चैतावता श्रवणादिवै- यर्थ्यमित्याह—श्रवणादिकृतमिति । दर्शनं श्रवणादिभिः साधनैश्च कृ- तं भवति । 'तस्मादेव च तद्भवेदिति' इति प्रथमेतिशब्दस्य 'श्रव- णादिकृतं भवेदिति' इति द्वितीयेतिशब्दस्य च इति नारायणतन्त्र इ- त्यनेनान्वयः । सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३१ ॥ ॥ इति अनुबन्धाधिकरणम् ॥ * ३२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनासाध्यज्ञाने विशेषतारतम्यं समर्थ्यते । 'दृष्ट्वैव तम्' ( कौशिक. ) इति श्रुतावविशेषितज्ञानेनैव मोक्षोक्तेः सर्वेषां ज्ञानमेकप्रकारमेवेति पूर्वपक्षे सिद्धान्तयितुं सूत्रं प्रवृत्तं-प्रज्ञान्तरेति ॥ अत्र प्रज्ञान्तरपृथक्त्ववदित्यनेन दृष्टान्तोक्तिमुखेन हेतुरुच्यत इत्याशये- न तत्पदं व्याचष्टे—उपासनेति। चशब्दोऽवधारणे, पृथगित्यस्यानुकर्ष- णार्थश्चेति भावेन दृष्टिश्चेति साध्यांशं व्याचष्टे—दर्शनभेद इति। अने- न प्रज्ञान्तरं प्रज्ञाविशेषः लिङ्गशब्दजन्याविच्छिन्नपरोक्षज्ञानसन्ततिरू- पध्यानं तस्य पृथक्त्ववत् भेदवदनेकप्रकारवत्त्ववत् तदनुसारेण 'दृ- ष्टिः' ब्रह्मदर्शनं च पृथक् भिन्नमनेकप्रकारमेव, फलस्य साधनानुसा

[ अधि - ३२. सू - ५२. ] दीपिकासहितम्. ८९३ (२) तथोक्तं कमठश्रुतौ । 'अन्तर्दृष्टयो बहिर्दृष्टयोऽवतार- दृष्टयस्सर्वदृष्टय इति । देवा वाव सर्वदृष्टयस्तेषु चो- त्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते' इति । रित्वादिति सूत्रखण्डार्थ उक्तो भवति । न च ध्यानस्य परोक्षज्ञानस- न्ततिरूपत्वं ' मानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानम् ' इति सुधाविरोधः, ' क्रियामानसत्वात् ' इति क्रियात्वविरोधश्चेति श- ङ्क्यम् । परमात्मविषये परोक्षत्वेऽपि तदधिष्ठानभूतवासनामयरूपवि- षये अपरोक्षत्वसम्भवात् । न च परमात्मांऽशे उपनीतभानरूपत्वान्न प- रोक्षत्वमिति वाच्यम् । उपनीतांशेऽपि लौकिकापरोक्षप्रत्यासत्त्यज- न्यत्वेन श्रवणादिरूपपरोक्षज्ञानोपनीतविषयत्वेन वा परोक्षत्वाभ्युपग- मात् । केचित्तु — गुणादिध्यानमप्यत्र विवक्षितमिति तदंशे परोक्षत्वं युक्तमित्याहुः । तन्न, तस्यापि स्मृतिरूपस्य मनोजन्यत्वेन परोक्षत्वानु- पपत्तेः । ध्यायत्यर्थत्वेन क्रियार्थत्वसम्भवाच्च तद्विरोधः ॥ (२) ननु साधनपृथक्त्वेऽपि साध्यपृथक्त्वं मा स्तु, साध्यसाम्य- मेव किं न स्यादित्यतस्तदुक्तमित्युक्तं सूत्रे, तद्व्याचष्टे ॥ तथोक्तमि- ति ॥ चो भिन्नक्रमः । अनेन सूत्रे चशब्दः उक्तं चेत्यपि संयोज्यः । त- था च न केवलं तद्दर्शनपृथक्त्वं साधनपृथक्त्वयुक्तिसिद्धम्, किन्तु श्रुत्युक्तं चेति सूत्रखण्डार्थ उक्तो भवति । केचित् शरीरान्तर्ब्रह्मोपास- काः, अत एव तत्र ब्रह्मदर्शिनः । केचित् बहिरप्रथाद्यधिष्ठाने ब्रह्मोपा- सकाः, तत्रैव तद्दर्शिनश्च । केचित् अवतारोपासकाः, अत एव दिव्य- दृष्ट्या रामकृष्णाद्यवतारदर्शिनः । केचित् व्याप्तोपासकाः, तत एव 'सर्वदृष्टयो' व्याप्तदर्शिनः । यद्यपि सर्वेषामन्तर्बिम्बदर्शनमपेक्षितमे- व, तस्य मोक्षार्थत्वादिति सुधोक्तेः । तथाऽपि प्राचुर्यापेक्षया एवमु- क्तिः । उपासात्रैविध्योक्तिरपि प्राचुर्यापेक्षयैव । अन्यथा एषां बहिरु- पासनेन मोक्षः तेषां हृद्युपासनं किञ्चित्कार्यमेवेति बृहद्भाष्यविरोधापा- तात् । भावबोधे तु केचिदधिकारिणोऽवताराणां दिव्यदृष्ट्या दर्शनेनै- व मुच्यन्ते, न तेषामन्तरुपास्तिरावश्यकी, बृहद्भाष्यं तु अवतारदृष्टि- विशेषार्थमेवान्तरोपास्यावश्यकतापरं, अत एव ' अञ्जसा दृष्ट्यैव ह्यवताराणाम् ' इत्युक्तम् । इतीति । श्रुतिः व्याख्यातपदानि स्वयमेव

८९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ३ ) अध्यात्मे च — दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा । दर्शनेनान्तरेणान्ये देवास्सर्वत्र दर्शनात् ॥ प्रतीकत्वेन गृह्णाति । तत्र प्राधान्यक्रमानुसारेण व्याप्तदृष्टीन् प्रथमतः निर्दिशति—देवा इति । 'तेषु' देवेष्वपि 'आब्रह्मणः' चतुर्मुखपर्य न्तं 'उत्तरोत्तरं' अधिकं व्याप्तदर्शित्वं ज्ञेयमित्यर्थः । तत्प्रकारश्च 'ब्र ह्मा तु सर्वगं पश्येत्' इत्यादिनोक्तः । अवतारादिदर्शिनः के ? तेषां च कथं स्थितिरित्याशङ्कायामाह—अन्येष्विति । अवतारादिदर्शिष्वि त्यर्थः । 'यथायोगं' योग्यतानुसारेण व्यक्तिविशेषो निर्णेतव्य इति शे षः । यद्वा—अन्येष्वपि यथायोगं उत्तरोत्तरमाधिक्यं ज्ञातव्यमित्यर्थः । ननु योग्यतैव कथं ज्ञायत इत्यत आह—यथेति । 'आचार्याः' गुरवो यथा 'आचक्षते' उपदिशन्ति त्वमेतद्रूपदर्शनयोग्यस्त्वमेतद्रूपदर्श नयोग्य इति तथेत्यर्थः ॥ ( ३ ) ननु यद्यस्ति दर्शनभेदः, तर्हि न सर्वेषां मोक्षस्स्यात्, स म्पूर्णज्ञानेनैव मोक्षस्य 'तमेवं, दृष्ट्वा' इत्यादौ प्रमितत्वादित्यतस्तदु त्तरत्वेनापि तदुक्तमित्येतद्व्याचष्टे—अध्यात्मे चेति । अध्यात्माख्यग्र न्थेपि तद्दर्शनपृथक्त्वमुक्तमित्यर्थः । तद्वाक्यं पठति—दृष्ट्वेति । दि व्यदृष्ट्येत्यर्थः । प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति । तदैव मुच्यते योगी ॥ इति काठकभाष्योक्तेः । तथा च केचिन्मनुष्याः 'अवताराणां' रामकृष्णदिरूपाणां 'अञ्जसा दृ ष्ट्वा' दिव्यदृष्ट्यादर्शनेनैव मुच्यन्ते इत्यर्थः । एवकारस्त्वयोग्यव्यवच्छे दकः । भावबोधपक्षेऽधिकारिविशेषापेक्षयाऽन्ययोग्यव्यवच्छेदकः । के चित् ऋषयः 'आन्तरेण' हृदयान्तर्जातेन दर्शनेन मुच्यन्ते । सर्वत्र स्थि तस्य ब्रह्मणो दर्शनाद्देवा मुच्यन्त इत्यर्थः । 'तेषां' अधिकारिणाम् । य द्वा-'तेषां' देवानां 'विशेषं' तारतम्यं योग्यताविशेषं वा सर्वज्ञतां 'ग तः' प्राप्त आचार्यो 'वेत्ति' जानातीत्यर्थः। अनेन 'विद्वान्, दृष्ट्वैव' इत्यादेः न सम्पूर्णतो जानन् दृष्ट्वैवेत्यर्थः, किन्तुदाहृतविशेषवाक्यब लाद्यथायोग्यमित्यभ्युपगमात् न तद्विरोध इत्युक्तं भवति । 'यावान्' इति वाक्यं चतुर्मुखविषयं सामान्यतः सार्वज्ञद्यविवक्षया सर्वधिपर्य

[ अधि - ३३. सू - ५३. ] दीपिकासहितम्. ८९५ तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः ॥ इति ॥ ५२ ॥ —::— ३३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ न सामान्यादप्युपलब्धेर्मृत्यवन्न हि लोका पत्तिः ॥ ॐ ॥ ५३ ॥ येति ध्येयम् । इतीत्यस्याध्यात्म इत्यनेनान्वयः ॥ ३२ ॥ ॥ इति प्रज्ञान्तराधिकरणम् ॥ —— ३३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनस्य बिम्बशब्दितयोग्यात्मरूपविषय कस्यैव मुक्तिसाधनत्वं समर्थ्यते । भगवतस्सर्वरूपेष्वपि मोक्षदातृ त्वगुणसाम्यात् यत्किञ्चिद्रूपदर्शनमेव मोक्षसाधनं न बिम्बविषयमेवे ति नियम इति प्राप्ते सिद्धान्तयितुं प्रवृत्तं सूत्रं—न सामान्यादिति ॥ अत्र ' सामान्यात् ' साधारणात् उपलब्धेरिति सामानाधिकरण्यम् । लिङ्गव्यत्ययः शब्दस्वभावकृतः । यद्यपितथाऽपीत्यर्थे मात्रार्थे चापिश ब्दः । उपलब्धेरपीत्यन्वीयते । मुक्तिरिति प्रकृतत्वात्सम्बध्यते । तथा च यद्यपि भगवद्रूपाणां सामान्यं साम्यं, अत एव तद्विषयकदर्शनाना मपि समानत्वम् । तथाऽपि ' सामान्यायाः ' समानब्रह्मरूपविषयत्वेन स्वयोग्यरूपदर्शनेन समानतया वर्तमानायाः उपलब्धेरपि यत्किञ्चि द्रूपदर्शनमात्रात् तस्मादेव सर्वेषां न मुक्तिरित्यर्थः । यद्वा—उपल ब्धेः दर्शनस्य साम्यात् साधारणविषयत्वात् न तस्या मुक्तिरित्यर्थः। अथवा-ल्यब्लोपनिमित्ता पञ्चमीयम् । तथा च सामान्यमपेक्ष्य रूपसा मान्यं विषयीकृत्य सत्या उपलब्धेः दर्शनान्न मुक्तिरित्यर्थः । एतत्क ल्पद्वये सामान्यादुपलब्धेरिति वैयधिकरण्यमिति भावेन सामान्याद प्युपलब्धेरिति प्रतिज्ञांशं व्याचष्टे-नेति । अपि तु स्वयोग्यात्मदर्शनादे वेति शेषः । तेनापीत्यस्यापि त्वित्यर्थाश्रयणेन उपलब्धेरित्यस्यावृत्त्या च अपि तु उप समीपे योग्यतया वर्तमानस्य बिम्बरूपस्य लब्धेर्दर्श नादेवेति सूत्रे प्रतिज्ञाशेषः प्रदर्शितो भवति । कुतो नेत्यतः तत्रोपल ब्धेः सामान्यात् साधारणत्वादिति हेतुं उपलब्धेरित्यनेनोक्तं मुक्त्यर्थमात्मयोग्यं तु विज्ञानं तदुदाहृतम् । समोऽपि भगवान् बिम्बदर्शनेनैवैनं मोचयति ॥ ( )

८९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । ( २ ) न हि लोकापत्तिमात्रं मुक्तिः । ( ३ ) सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात् । इत्यादिश्रुतेरिति हेतुं मनसि निधाय सामान्यमात्रान्न मुक्तिरित्यत्र दृ- ष्टान्तप्रतिपादनायोक्तं मृत्युवदित्यंशं व्याख्याति—यथेति । मृत्युमात्रा- दिति । मृतिमात्रादित्यर्थः । न मुक्तिरित्यनुषज्यते । तथा च यथा ब्रह्म- ज्ञानिनां सर्वमृत्यौ मृतित्वसाम्येऽपि न ‘मृत्युमात्रात्’ साधारणमृतेर- नन्तरं मुक्तिः, किन्तु प्रारब्धकर्मक्षये चरममृत्यनन्तरमेव, तथा प्रकृते ऽपि रूपविशेषज्ञानादेव मुक्तिः, न साधारणादित्यर्थः । यद्वा—मृत्यु- शब्देन मारक उच्यते । संसृतेरिति शेषः । तथा च यथा ब्रह्मज्ञानिनां ज्ञाने संसारमृत्युत्वे समानेऽपि ज्ञानरूपमृत्युमात्रादनन्तरं न मुक्तिः, किन्तु प्रारब्धकर्मावसानकालीनत्वविशेषितान्मृत्योरवतरणानन्तरमे- व, एवं भगवद्रूपाणां साम्येऽपि रूपविशेषज्ञानमेव मोक्षसाधनं, न सा- मान्यदर्शनमित्यर्थः । ‘समोऽपि’ इति श्रुतौ बिम्बशब्दो योग्यात्मप- रः । न तु हृदिस्था या हरेर्मूर्तिः जीवो यत्प्रतिबिम्बकः । यद्वशे वर्तते जीवः सा तु जीवकला स्मृता ॥ इत्युक्तहृद्गतरूपविशेषपरः । ‘दृष्ट्वैव’ इति वाक्यविरोधात् । जीवः कलांशो यस्यासौ जीवकला ॥ ( २ ) ननु यदि सामान्यदर्शनान्न मुक्तिः, तर्हि तद्वैफल्यं स्यात् । न च ब्रह्मदर्शनस्य तद्युक्तं, अतः सफलत्वेऽवश्यंभाविनि यत्तस्य फलं स एव मोक्ष इति सामान्यदर्शनमपि मुक्तिसाधनं भवतीत्यतः प्रवृत्तं- न हि लोकापत्तिरित्यंशं व्याचष्टे—न हीति ॥ ‘लोकापत्तिमात्रं’ मह- रादिलोकप्राप्तिरेवेत्यर्थः । अनेन लोकापत्तिरित्यनन्तरमप्यपिशब्दोऽनु- षञ्जनीयः । स चावधारणार्थमात्रार्थः । तथा च न सामान्यदर्शनस्य वैफल्यं शङ्क्यम् । यतः सामान्यादप्युपलब्धेर्लोकापत्तिः भवति अतः। न चैवं तस्य मोक्षसाधनत्वापत्तिः । ‘हि’ यतो न लोकापत्तिरेव मो- क्ष इति ‘हि’ प्रसिद्धमत इति सूत्रांशयोजनोक्ता भवति ॥ ( ३ ) ननु सामान्यदर्शनेन लोकापत्तिरेव न मुक्तिरिति कुत इत्य- तो हिशब्दसूचितप्रमाणमाह—सामान्येति ॥ योग्यात्मदर्शनातिरिक्त। वतारादिदर्शनादित्यर्थः । ‘लोकाः’ महरादयः । योग्येति । स्वयोग्य

[ अधि - ३४. सू - ५४. ] दीपिकासहितम्. ८९७ इति नारायणतन्त्रे ॥ (४) मुच्यते नात्र सन्देहो दृष्ट्या तु स्वात्मयोग्यया । इति च । (५) दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केन चित् ॥ इति चाध्यात्मे ॥ ५३ ॥ ३४. अधिकरणम् ॥ (१) ‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः परमात्मरूपदर्शनादित्यर्थः । भवन्तीति शेषः । नारायणतन्त्रे उक्तत्वा दिति शेषः । अस्य न हीत्यनेनान्वयः । न च ‘दृष्ट्वैव’ इत्युक्तिविरो धः । तस्याधिकारिविशेषविषयत्वात् अधिकारिविशेषाणां च अवता रदर्शनस्य सामान्यदर्शनत्वाभावात् , एवकारस्यायोगव्यवच्छेदार्था भ्युपगमाच्च ॥ (४) ननु यथा भगवद्दृष्टीनां मध्ये योग्यात्मदृष्टिरेव मुक्तिहेतुः, न तु रूपान्तरदृष्टिरिति विकल्पः, तथा योग्यात्मदर्शनेऽपि किञ्चिन्मुक्तिहे तुः किञ्चिन्नेति विकल्पः स्यादित्यत आह—मुच्यत इति । तुरेवार्थे । स्वात्मयोग्यया दृष्ट्या मुच्यत एव नात्र संशय इत्यर्थः । इति नाराय णतन्त्र इत्यन्वयः । भिन्नप्रकरणस्थत्वात् पुनरितिशब्दः ॥ (५) ननु सामान्यदर्शनेन यथा लोकापत्तिः तथा क्वचिन्मुक्तिश्च किं न स्यादित्यत आह—दर्शनेनेति ॥ ‘आत्मयोग्येन’ स्वयोग्यरूपवि षयकेन दर्शनेनैव मुक्तिः ‘नान्येन केन चित्’ सामान्यदर्शनादिनेत्य र्थः । अवतारदर्शनमपि केषांचित् स्वयोग्यमिति न तदत्र व्यावर्यमि ति न ‘दृष्ट्वैव’ इत्यनेन विरोधः । यद्वा—मुक्तिर्नान्येनेत्यनेन अवतारा दिदर्शनस्याव्यवधानेन मुक्तिसाधनत्वं निषिध्यते । ‘दृष्ट्वैव’ इत्यत्र तु व्यवधानेन तदुच्यते । अतो न विरोधः । यथोक्तं गीतातत्पर्ये । दृशिः-नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि । अयोग्या भक्तिजाता चेत् क्रमान्मुक्तिर्भवेत्तया ॥ इति ॥ इत्यध्यात्मे च सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३३ ॥ ॥ इति न सामान्याधिकरणम् ॥ —*— ३४. अधिकरणम् ॥ (१) अत्राधिकरणे ‘अनुबन्धादिभ्यः’ इत्यत्र दर्शनसाधनतयो ११३

८९८ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.] पुरुषो भक्तिरेव भूयसी' इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेत्— (२) न, 'तस्यैष आत्मा विशते ब्रह्मधाम' (मु. ३-२-४.) इति श्रुतेः। (३) कथं तर्ह्येषा श्रुतिः। सू—ॐ ॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ॐ ॥५४॥ पासनसाहित्येनोक्तभक्तेः स्वातन्त्र्यं निरस्यते। पूर्वपक्षयति—भक्ति रिति ॥ भक्तिरेव 'एनं' परमात्मानमधिकारिणं नयति, न त्वन्यदित्य र्थः। यद्वा—'तस्यैवेनं वशं न येत्' इति स्मृत्यनुसारेण भक्तिरेवैनं प रमात्मानं वशं नयतीत्यर्थः। 'एनं' विष्णुं भक्ताय दर्शयति। पुरुषो हरिर्भक्तिवशो भक्त्यधीनः 'भूयसी' साधनेषु श्रेष्ठा। इति श्रुतेः 'प रमात्मना' तत्प्रसादेन 'दर्शनं' दर्शनादि ब्रह्मसाक्षात्कारादि न भव तीति ज्ञायत इत्यर्थः ॥ (२) सिद्धान्तयति—नेति ॥ परमात्मना दर्शनादि नेति न, किन्तु तेनैव दर्शनादि भवतीत्यर्थः। कुत इत्यतस्तत्र हेतुत्वेन चशब्दसूचि तां श्रुतिमाह—तस्येति। आथर्वणे— नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वा म् ॥ एतैरुपायैर्यतते यस्तु विद्वान् ॥ (मु. ३ - २ - ३.) इति पूर्ववाक्ये अयं परमात्मा भक्तिरहितैः प्रवचनमेधाश्रवणादिभिः न लभ्यते भक्तिपूर्वकैरपि स्वातन्त्र्यान्न लभ्यः, किन्तु 'एतैः' भक्ति प्रधानकैः प्रवचनाद्युपायैः 'यो' ब्रह्मदर्शनार्थं यतते इत्युक्तः, तस्या धिकारिणः एतैः प्रसन्नः परमात्मा 'ब्रह्मधाम' परब्रह्माधिष्ठानभूतं वा युं 'विशते' तत्र तस्याविर्भवतीत्यर्थः। 'प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः' इत्याथर्वणभाष्योक्तेः। तत्त्वप्रदीपे तु ब्रह्मपुरं हृदयं 'ए षः' परमात्मा 'विशते' तत्र दृश्यते इत्युक्तम् ॥ (३) यदि परमात्मनैव दर्शनादि कथं तर्हि भक्तेरेव तत्साधन त्वाभिधायकश्रुतिरुपपद्यत इति शङ्कते—कथमिति ॥ 'एषा' भक्तेः कर्तृत्वाभिधात्री 'भक्तिरेवैनम्' इति श्रुतिः कथमुपपद्यत इत्यर्थः। तत्परिहाराय सूत्रं पठित्वा व्याचष्टे—परेण चेति। एवकारो भिन्नक्र

[ अधि - ३४. सू - ५४. ] दीपिकासहितम्. ८९९ परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधा- नसाधनत्वाद्भक्तिः करणत्वेनोच्यते । ( ४ ) मायावैभवे च— भक्तिस्थः परमो विष्णुस्तयैवैतं वशं नयेत् । तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥ मः । अत्रेति शेषः । परमात्मा भक्त्यैव 'दर्शनं प्राप्य' दर्शनविषयो भूत्वा मुक्तिं ददातीति हेतोः अत्र 'एतैरुपायैः' इति श्रुतौ भक्तिः कर- णत्वेनोच्यते यतोऽत एषा श्रुतिरूपपद्यत इति योजना । करणे कर्तृ- त्वोपचार इति भावः । ननु साधनान्तराण्यनुक्त्वा किं विशिष्याभि- धीयते 'भक्तिरेवैनम्' इतीत्यत आह—प्रधानसाधनत्वादिति । साध- नेषु प्रधानत्वादित्यर्थः । भक्तिः करणत्वेनोच्यत इत्यत्र भक्त्यैव मुक्तिं ददातीत्ययं हेतुः । इतिशब्दस्य भक्तिरित्यप्यन्वयेन ज्ञापितायां विशि- ष्योच्यते इति प्रतिज्ञायां प्रधानसाधनत्वादित्ययं हेतुः । अनेन भूय- स्त्वादित्यस्यार्थ उक्तो भवति । सूत्रे चोऽप्यर्थोऽवधारणार्थश्रुतिसूच- कश्च । प्रधानसूत्रात्तदुक्तमित्यनुवर्तते । तथा च 'अपि' यद्यपि 'ए- तैरुपायैः' इति श्रुतेः 'परेण च' परमात्मनैव तद्दर्शनादिकं, न तु भ- क्त्या । तथाऽपि 'भक्तिरेवैनम्' इति श्रुतेः 'ताद्विध्यं' ईश्वरकर्तृत्वश्रु- तिवत्कर्तृत्वप्रतिपादकत्वमुपपद्यते । कथम् ? यतः 'अनुबन्धस्य' भक्तेः 'एतैः' इति श्रुतौ तत्करणत्वमुक्तमतः । तथा च करणे कर्तृ- त्वोपचार इति भावः । मुख्यकर्तृत्वाङ्गीकारे तु 'एतैरुपायैः' इति निरवकाशविशेषश्रुतिविरोध इति तुशब्दाभिप्रायः । न च साधनान्त- राणि विहाय किं विशिष्याभिधीयते 'भक्तिरेवैनम्' इति श्रुतावनुब- न्धो भक्तिरिति वाच्यम् । तस्याः 'भूयस्त्वात्' साधनेषु प्रधानत्वा- दिति सूत्रार्थः ॥ ( ४ ) अत्रैव स्मृतिमाह—मायेति ॥ मायावैभवाख्यग्रन्थ इत्यर्थः । भक्तौ तिष्ठतीति भक्तिरत्र तिष्ठतीति वा भक्तिस्थः। भक्तयामधिकारि- णो भक्तेः नियामकश्चेति तत्त्वप्रदीपोक्तेः । 'तया' अनादिसिद्धया भक्त्यैव 'एनं' स्वात्मानं 'वशं नयेत्' जीववशोऽहमिति ज्ञापयेत् । यद्वा—'एनं' जीवं 'वशं नयेत्' तस्य भगवदीयोऽहमिति स्मृतिं जनयेदित्यर्थः । 'तयैव' गुरुप्रसादेनाभिव्यक्तभक्त्यैव करणेन दर्शने 'यातः' प्राप्तस्तद्विषयो भूत्वा 'एतया' अतिपरिपक्वया भक्त्या घ. दीपा

९०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः । भक्तिरित्युच्यते सैव करणं परमेशितुः ॥ इति । ( ५ ) सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ ५४ ॥ * ३५. अधिकरणम् ॥ ( १ ) जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न म य मुक्तिं प्रदद्यादित्यर्थः । भक्तिरित्यनेनानुबन्धशब्दार्थ उक्तः । तत्र प्रमाणमाह—स्नेहेति । भनु स्वानुकूलं यथा तथा बध्नाति बद्धमिव व- शयति स्वप्रभुमित्यनुबन्धः । ‘यस्तस्मिन्’ विष्णौ ‘बहुमानपुरस्सरः’ बहुः पूर्णता मानं ज्ञानं देशकालगुणैः पूर्णत्वज्ञानपूर्वकः स्नेहः स एवा- नुबन्धः सैव भक्तिरित्युच्यते इत्यर्थः । ननु दर्शनादौ हरेरेव कर्तृत्वे क- थं ‘भक्तिरेवैनम्’ इति श्रुतिरुपपद्यत इत्यत आह—सैवेति । ‘परमेशि- तुः’ परमेश्वरस्य दर्शनादिदाने सा भक्तिरेव करणमित्यर्थः । करणे कर्तृत्वोपचार इति भावः । करणं साधनेषु प्रधानमित्यनेन साधनान्त- राण्यनुक्त्वा भक्तेरेवाभिधाने कारणमुक्तं भवति । इतीत्यस्य मायावै- भव इत्यनेनान्वयः ॥ ( ५ ) एवं ‘हन्ता रामशरः’ इतिवत्करणेऽपि कर्तृत्वव्यपदेशदर्श- नात्करणार्थत्वेन ‘भक्तिरेवैनम्’ इति श्रुतिमुपपाद्य प्रकारान्तरेणाप्यु- पपादयति—सर्वेति ॥ भक्तिरित्यादिसर्वपदानामित्यर्थः । ‘ब्रह्मणि’ प- रब्रह्मणि ‘प्रवृत्तेः’ समन्वयात् परममुख्यवृत्तेः सत्त्वात् । ब्रह्मैवैनं नय- तीत्याद्यर्थोपपत्तेश्चोपपन्ना श्रुतिरित्यर्थः । अनेन ‘च’ यतः ‘परेण’ वा- च्येन निमित्तेन भक्त्यादिशब्दस्य ‘ताद्विध्यं’ तस्य ‘एतैरुपायैः’ इ- त्यादिवाक्यस्य विधा प्रकार इव प्रकारो यस्य स तद्विधस्तस्य भाव- स्ताद्विध्यं तद्ब्रह्मन्नारायणस्य कर्तृत्ववादित्वं युक्तम्, अतो नेश्वरस्य द- र्शनादिकर्तृत्वे श्रुत्यनुपपत्तिरिति सूत्रखण्डस्य अर्थान्तरमुक्तं भव- ति ॥ ३४ ॥ ॥ इति परेणाधिकरणम् ॥ * ३५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनस्यानादियोग्यतासापेक्षत्वं समर्थ्य

[ अधि - ३५. सू - ५६. ] दीपिकासहितम्. ९०१ न्तव्यम्, कुतः ? सू—ॐ ॥ एक आत्मनश्शरीरे भावात् ॥ ॐ ॥ ५५ ॥ अंशांशिनोरेकत्वमेव । अंशिकर्मविनिर्मितशरीर ए वांशस्य भावात् ॥ ५५ ॥ ( २ ) सू—ॐ ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ५६ ॥ ते । तत्र ‘उपलब्धिवत्, व्यतिरेकः' इत्याभ्यां सूचितहेतूक्तिपूर्वकं पू- र्वपक्षयति—जीवेति ॥ उपासनादाविति शेषः । पृथगिति भिन्नं पदं पृ- थक्त्वादित्यर्थः। तथा च नोपासनाद्यर्थं योग्यताऽपेक्षाऽस्ति । कुतः? यो- ग्यतायाः सादित्वे तद्दुपासनस्याप्यागन्तुकत्वप्रसङ्गात् अनादित्वं वाच्यम् । तच्च न युक्तं यत इन्द्रादिजीवांशानामर्जुनादीनां योग्यता नानादिः । न चासिद्धिः । इन्द्रादिजीवांशानामुत्पत्तेः सादित्वात् । ध- र्मिण एव सादित्वे तद्धर्मभूतयोग्यताया अनादित्वायोगादिति भावः । न चांशिनोऽनादित्वात् कथमंशानामुत्पत्तिः तयोरैक्यादिति वाच्यम् । इन्द्राद्यंशिजीवेभ्यस्तदंशानां पृथक्तवात् भिन्नत्वात् । न चासिद्धिः। अं- शानामिन्द्रादिजीवेभ्यः पृथक्तवात् ज्ञानसुखादौ अनुसन्धानाननुस- न्धानाख्यवैलक्षण्यवत्त्वादिति योजना । एवं प्राप्तं पूर्वपक्षं प्रतिषेधति- नेति । कुतो न मन्तव्यमित्याक्षिपति—कुत इति । तत्परिहाराय सूत्र- मुपन्यस्य व्याचष्टे—एक इति । अत्र अंशोंशी चैक एवेति योजनाम- भिप्रेत्य एक इति प्रतिज्ञावाक्यतातपर्यमाह—अंशेति । कुत इत्यतः ष- ष्ठ्यर्थोक्तिपूर्वकं आत्मनश्शरीरे भावादिति हेत्वंशं व्याचष्टे—अंशीति । ‘भावात्' अभिमानितया सत्त्वादित्यर्थः । अनेनात्मांश आत्मना अंशि- ना एक एव, न भिन्नः कर्मनिर्मितशरीरे आत्मनोंशस्य भावात्सत्त्वादि- ति सूत्रार्थ उक्तो भवति ॥ ( २ ) ननु ज्ञानादिभेदादंशांशिनोर्भेद एव युक्तो नाभेद इत्याश- ङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—व्यतिरेक इति ॥ ज्ञानं वृत्तिरूपम् । आदिशब्देन तादृशसुखादिर्गृह्यते । व्यतिरेकशब्दार्थो भेद इति सप्त- म्यन्ताद्व्यतिरिक्त इति भावेन भेद इति सप्तमीप्रयोगः । आत्मनोरिति विपरि- णतपदस्यार्थः—अंशांशिनोरिति । पृथग्भाव इत्यनेन व्यतिरेकशब्द- स्योपमानोपमेययोरन्वयो दर्शितः। एवेति तुशब्दस्यार्थः । अनेनात्म- नोनोपलब्धिवद्व्यतिरेक इति प्रतिज्ञांशो व्याख्यातः । कुत इत्यतस्त- दुत्तरत्वेन तद्भावभावित्वादिति हेत्वंशं व्याचष्टे—तदुपासनादीति ।

९०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ज्ञानादिभेदे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादर्शस्य । ( ३ ) परमसंहितायां च— अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा । पुनरैक्यं प्रपद्यन्ते नात्र कार्या विचारणा ॥ इति ॥ ५६ ॥ —::— अंशिकर्तृकोपासनादिजातमहाफलभावादित्यर्थः । उपासनाजनितम- हाफलानुसन्धानमेवाभेदे प्रयोजकं तद्भावस्त्वसिद्ध इत्युक्तं भवति । अनेन ‘उपलब्धिवत्’ उपलब्ध्यादौ धर्मे व्यतिरेक इव भेद इव अनु- सन्धानाननुसन्धानात्मकवैलक्षण्यमिव आत्मनोरंशांशिनोः धर्मिणोर- पि परस्परं ‘व्यतिरेक एव’ अन्योन्याभावरूपपृथग्भाव एव, न त्व- भेद इति न वाच्यम् । कुतः ? ‘तद्भावभावित्वात्’ भावशब्द आवर्त- ते । तत्रैकस्यानुभवोऽर्थः । भवतेरनुभवार्थकत्वात् । अन्यस्य मानसक्रि- यारूपध्यानाख्यमुपासनमर्थः । अपरस्योपासनफलमानन्दवृद्धिरर्थः । ‘भावो वृद्धिः समुद्दिष्टा क्वचिद्भावो मनः स्मृतम्’ इति वचनात् । तु- शब्दस्यात्रान्वयः । स चाप्यर्थः । तथा च आत्मन उपलब्ध्यादौ ज्ञा- नादावनुसन्धानाननुसन्धानरूपे अल्पत्वमहत्त्वरूपं वा व्यतिरेके वि- द्यमानेऽप्यात्मनोंशस्याल्पे वृत्तिज्ञानसुखादौ मानुषोपभोगादिनाऽनु- सन्धानाभावेऽपीति यावत् । ‘तद्भावभावित्वात्’ तस्यांशिनो भाव- स्य तत्कर्तृकप्रधानसाधनोपासनादिसम्बन्ध्यानन्दवृद्धिरूपमहाफल- स्य भावित्वात् अनुसन्धातृत्वात् अंशत्वेऽपीति सूत्रार्थ उक्तो भवति ॥ ( ३ ) आद्यसूत्रार्थे स्मृतिं प्रमाणयति—परमेति ॥ न केवलं सूत्र- इति चार्थः । ‘अंशाः’ अर्जुनादयः । ‘तस्यैव’ अंशिन एव ‘कर्मणा’ तत्कर्मनिमित्तेनैव शरीरेण सह ‘अंशिनः’ इन्द्रादेः ‘पृथक्’ विभक्त- तया भूम्यादौ जाताः सन्तः ‘पुनः’ कर्मपर्यवसानान्तरं स्वस्थानं ग- ताः अंशिनैक्यं ‘प्रतिपद्यन्ते’ प्राप्स्यन्तीत्यर्थः । न त्वन्यकर्मणेत्येवश- ब्दार्थः । अत्रार्थे ‘विचारणा’ चर्चा न कार्येत्यर्थः । इति परमसंहिता- यां सूत्रकृदुक्तमुक्तमित्यन्वयः ॥ ३५ ॥ ॥ इति एकाधिकरणम् ॥ —

[ अधि - ३६. सू - ५७. ] दीपिकासहितम्. ९०३ ३६. अधिकरणम् ॥ ( १ ) सु — ॐ ॥ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ॐ ॥ ५७ ॥ ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते । ३६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवदुपासनस्य यथायोग्यं ब्रह्माद्यङ्गदेवतोपा- सनस्य युक्तत्वेन कर्तव्यता प्रतिपाद्यते । 'अन्या वाचो विमुञ्चथ' (मु. २-२-५.) 'पूजयेन्नान्यदेवताः' इत्यादेर्नाङ्गाश्रितान्यदेवतोपासनं कार्यं, किन्तु केवलं ब्रह्मोपासनमेव, कार्यत्वे वा एकस्य प्रतीतगुणाः सर्वेषूप- संहर्तव्या इति प्राप्ते सिद्धान्तयत्सूत्रं पठति—अङ्गेति॥ अत्राङ्गशब्देन 'वि- ष्णोरङ्गात्समुद्भूते, विष्णोरङ्गानि देवताः' इति वचनादीशाङ्गजत्वाद्वाभि- मानित्वाद्ब्रह्मादिदेवाः अङ्गानीत्युच्यन्ते । भावप्रधानोऽयमावर्तनीय इति भावेन अङ्गावबद्धा इति प्रतिज्ञांशं व्याचष्टे—ब्रह्मादीति । ब्रह्मादयश्च ताः देवताश्च तदवबद्धं तत्सम्बद्धं च तदङ्गतयावबद्धं च तत् उपासनादि चेति विग्रहः । प्रथमादिशब्देन रुद्रादयो गृह्यन्ते । द्वितीयेन परिचर्या- नमस्काराद्युच्यते । कार्यमेव अधिकारिभिरिति शेषः । एवेत्यनेन सौ- त्रतुशब्दोऽवधारणार्थतयाऽपि व्याख्यातः । अङ्गावबद्धा इति वचनेनो- दाहृतश्रुत्यादिविरोधः परिहृतः । श्रुत्यादौ प्राधान्येनोपासनस्यैव नि- षिद्धत्वात् अङ्गत्वेनोपासनस्य चाभ्युपगतत्वात् । अत एव— सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा । रमाब्रह्मादयस्तस्य परिवारतयैव तु ॥ इति वचनम् । अनेन अङ्गावबद्धाः ब्रह्मादिदेवविषयाः अङ्गत्वसम्बद्धाः तत्प्रकारकाः उपासनाद्याः कार्या एव सर्वैर्मुमुक्षुभिः । कुत एतत्? हि- शब्दसूचितायाः ' समत्वात् ' इति स्मृतेरेवेति सूत्रांशस्यार्थ उक्तो भ- वति । तर्हि सर्वगुणाः सर्वत्रोपसंहृत्योपास्याः स्युरिति शङ्कते—त्वि- ति । तदुत्तरत्वेन—न शाखासु प्रतिवेदमित्येतद्व्याचष्टे—प्रतिशाखमि- ति । 'प्रतिवेदं' सर्ववेदानां 'प्रतिशाखं' सर्वशाखास्वित्यन्वयः । उ- क्तमुत्तमानां गुणजातमधमेष्विति शेषः । चस्समुच्चये । शाखास्वित्ये- व पूर्तौ प्रतिवेदमित्युक्तिः अविभक्तमूलवेदापेक्षयेत्युक्तं तत्त्वप्रदीपे । ' नोपसंह्रियते ' अधमेषु नोपसंहार्यमिति । अनेन प्रतिवेदं प्रतिशाखा-