सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

एकोनविंशः सर्गः ६२५

उन्हें मना लेता था । पर जब रात को थकावट के कारण वह उनसे भरपूर प्रेम नहीं करता था तो वे फिर व्याकुल हो उठती थीं ॥ २१ ॥

स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥ २२ ॥

**अन्वयः—**स्वप्नकीर्तितविपक्षं तं अवदन्त्यः एव अङ्गनाः प्रच्छदान्तगलिताश्रुविन्दुभिः क्रोधभिन्नवलयैः विवर्तनैः प्रत्यभैत्सुः ।

स्वप्नेति । स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तमग्निवर्णम् अवदन्त्य एव त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव अङ्गनाः स्त्रियः प्रच्छदस्यास्तरणपटस्यान्ते मध्ये गलिता अश्रुबिन्दवो येषु तैः, क्रोधेन भिन्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलग्नैः प्रत्यभैत्सुः प्रतिचक्रुः । तिरश्चक्रुरित्यर्थः ।

**भाषार्थ—**जब स्त्रियां देखती थीं कि राजा अग्निवर्ण स्वप्न में बड़बड़ाते हुए दूसरी स्त्री की बड़ाई कर रहा है तब वे स्त्रियां बिना बोले ही विस्तर के कोने पर आंसू गिराती हुई क्रोध से कंगन तोड़ कर उनसे पीठ फेर कर सो जाती थीं, इस प्रकार उससे रूठ उनका तिरस्कार करती थीं ॥ २२ ॥

कॢप्तपुष्पशयनाल्लतागृहानेत्य दूतिकृतमार्गदर्शनः ।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३ ॥

**अन्वयः—**सः दूतिकृतमार्गदर्शनः कॢप्तपुष्पशयनात् लतागृहान् एत्य अवरोधभयवेपथूत्तरम् परिजनाङ्गनारतं अन्वभूत् ।

कॢप्तेति । सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन् कॢप्तपुष्पशयनाल्लतागृहानेत्यावरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तत्प्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत् । परिजनश्चासावङ्गना चेति विग्रहः । अत्र ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्गभयाद् ह्रस्वत्वं कृतम् । 'अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद् गिराम्' इत्युपदेशात् ।

**भाषार्थ—**कभी-कभी दासियां राजा को मार्ग दिखलाती हुई उस स्थान पर ले जाती थीं जहां लताओं के बीच में सम्भोग के लिए फूलों की सेज बिछी रहती थी । तब उसे यह डर होता था कि कहीं ये दासियां जाकर रानियों से न कह दें । अतः उन्हें फुसलाने के लिए वे उनसे सम्भोग करके प्रसन्न करते थे ॥ २३ ॥

नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ २४ ॥

४० र० सम्पू०

१२६ रघुवंशमहाकाव्ये

अन्वयः—मया ते वल्लभजनस्य नाम प्राप्य तस्य भाग्यं काङ्क्ष्यते। ननु लोलुपं मम मन इति अङ्गनाः गोत्रविस्खलितं तं ऊचुः।

नामेति। मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम्। तत्परिहासकारणमिति शेषः। तदपि काङ्क्ष्यते ननु तव मम मनो लोलुपं गृध्नु इत्यनेन प्रकारेण अङ्गनाः गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः। 'गोत्रे नाम्नि कुलेऽचले' इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्षिणो मनः अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः।

भाषार्थ—कभी राजा भूल से किसी बाहरी प्रेमिका का नाम ले लेता था तो वे स्त्रियां कहने लगती थीं कि अच्छा हुआ आपने अपनी प्रेमिका का नाम बता दिया। धन्य है उसका भाग्य ! तो भी हमारा लोभी मन नहीं मानता, आपको कैसे छोड़ें ॥ २४ ॥

चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम्।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥ २५ ॥

अन्वयः—चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितम् शयनं उत्थितस्य विलासिनः तस्य विभ्रमरतानि अपावृणोत्।

चूर्णेति। चूर्णबभ्रु चूर्णैर्व्यानतकरणेरधोमुखावस्थितायाः स्त्रियाश्चिकुरगलितैः कुंकुमादिभिर्बभ्रु पिङ्गलम्। 'बभ्रु स्यात्पिङ्गले त्रिषु' इत्यमरः। लुलितस्रगाकुलम् करिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकत्या पतिताभिर्लुलितस्रग्भिराकुलम् छिन्नमेखलं हरिविक्रमकरणेः स्त्रिया उच्छ्रितैकचरणत्वादगलितमेखलम् अलक्तकाङ्कितं धेनुकबन्धे भूतलनिश्चितकान्ताचरणत्वाल्लाक्षारागरुषितं शयनं कर्तृ। उत्थितस्य शयनादिति भावः। विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि सुरतबन्धविशेषानित्यर्थः। अपावृणोत्स्फुटीचकार। व्यानतादीनां लक्षणं रतिरहस्ये—'व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः॥ भूतस्तम्भभुजास्यमस्तकामुन्नतस्फिचमधोमुखीं स्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे करिपदं तदुच्यते। योषिदेकचरणे समुत्थिते जायते हि हरिविक्रमाह्वयः। न्यस्तहस्तयुगला निजे दे योषिदेति कटिरूढवल्लभा॥ अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये॥' इति।

भाषार्थ—जब वह सोकर उठता था तब उसका पलंग फैले हुए केशर, कुंकुमादि के चूर्ण से सुनहरा दिखाई देता था। उस पर फूलों की मसली हुई मालायें

एकोनविंशः सर्गः [६२७]


और टूटी हुई करधनियाँ पड़ी रहती थीं, उसे देखकर मालूम होता था कि वह विलासी है ॥ २५ ॥

स स्वयं चरणरागमपादधे योषितां न च तथा समाहितः ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ २६ ॥

अन्वयः— स स्वयं योषितां चरणरागं आदधे श्लथांशुकैः नितम्बिभिः मेखलागुणपदैः लोभ्यमाननयनः तथा समाहितः च न ।

स इति । सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽपं-यामास । किंच श्लथांशुकैः प्रियाङ्गस्पर्शादिति भावः । नितम्बिभिर्नितम्बवद्भि-र्मेखलागुणपदैर्जघनैः । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । लोभ्यमाननयन आकृष्यमाणदृष्टिः सन् तथा समाहितोऽवहितो नादधे । यथा सम्यग्रागरचना स्यादिति भावः ।

भाषार्थ— कभी-कभी वह अग्निवर्ण स्त्रियों के पैर में स्वयं महावर लगाने बैठ जाता था, उसी समय उसकी दृष्टि स्त्रियों के उन नितम्बों पर पड़ जाती थी जिन पर से वस्त्र सरका हुआ रहता था। उन्हें देखकर वह ऐसा मुग्ध हो जाता था कि भलीभांति महावर भी नहीं लगा पाता था ॥ २६ ॥


चुम्बने विपरिवर्तिताधरं हस्तरौधि रशनाविघट्टने ।
विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ २७ ॥

अन्वयः— चुम्बने विपरिवर्तिताधरं रशनाविघट्टने हस्तरौधि सर्वतः विघ्नितेच्छं अपि वधूरतं तस्य मन्मथेन्धनम् अभूत् ।

चुम्बन इति । चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम् । रशनाविघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धि वारयतीति हस्तरौधि । इत्थं सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ।

भाषार्थ— सम्भोग के समय जब वह स्त्रियों के ओठों को चूमने लगता था, तब वे मुँह फेर लेती थीं । जब कमर की करधनी खोलने लगता था तब हाथ थाम लेती थीं । इस प्रकार वह और कुछ करना चाहता था तो स्त्रियाँ कुछ भी नहीं करने देती थीं फिर भी उसका मन बढ़ता ही गया ॥ २७ ॥


दर्पणेसु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः ।
छायया स्थितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः ॥ २८ ॥

६२८रघुवंशमहाकाव्ये

अन्वयः—सः दर्पणेषु परिभोगदर्शिनीः वधूः नर्मपूर्वं अनुपृष्ठसंस्थितः स्मितमनोज्ञया ह्रीनिमीलितमुखीः चकार।

दर्पणेष्विति । सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः सम्भोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्वं परिहासपूर्वमनुपृष्ठं तासां पृष्ठभागे संस्थितः सन् स्मितमनोज्ञया दर्पणगतेन स्वप्रतिबिम्बेन ह्रीनिमीलितमुखीर्लज्जावनतमुखीश्चकार । तमागतं दृष्ट्वा लज्जिता इत्यर्थः ।

भाषार्थ—जब कभी स्त्रियाँ दर्पण के सामने खड़ी होकर दांत काटने और संभोग के चिह्नों को देखने लगती थीं तब राजा उनके पीछे चुपके से जाकर खड़ा हो जाता था और मुस्करा देता था । जब दर्पण में उसकी छाया स्त्रियाँ देख लेती थीं तब वे झेंपकर मुंह नीचे कर लेती थीं ॥ २८ ॥


कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः ।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥ २९ ॥

अन्वयः—प्रियाः शयनोत्थितं तं कण्ठसक्तमृदुबाहुबन्धनं अग्रपादयोः न्यस्तपादतलं निशात्ययविसर्गं चुम्बनं प्रार्थयन्ते ।

कण्ठेति । प्रिया शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुबन्धनं यस्मिंस्तत् । अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तम् । निशात्यये विसर्गो विसृज्य गमनं तत्र यच्चुम्बनं तत्प्रार्थयन्त । 'दुह्याच्' इत्यादिना द्विकर्मकत्वम् । अत्र गोनर्दीयः—'रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः' इति ।

भाषार्थ—जब वह सुबह पलंग से उठकर जाने लगता था तब स्त्रियों की इच्छा होती थी कि बिछुड़ने के पहले राजा एक बार गले में बाहुओं को लगाकर हमें चूम तो लेता ॥ २९ ॥


प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।
पिप्रीये न स तथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥ ३० ॥

अन्वयः—युवा सः अतिशक्रशोभिनं दर्पणतलस्थं आत्मनः राजवेशं प्रेक्ष्य तथा न पिप्रिये यथा व्यक्तलक्ष्म परिभोगमण्डनं ( प्रेक्ष्य पिप्रिये ) ।

प्रेक्ष्येति । युवा सोऽग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं दर्पणतलस्थं दर्पणसंक्रान्तमात्मनो राजवेषं प्रेक्ष्य तथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ।

भाषार्थ—वह इन्द्रके वस्त्रों से भी सुन्दर अपने राजसी वस्त्र को देखकर उतना प्रसन्न नहीं होता था जितना कि सम्भोग के चिह्नों को देखकर होता था ॥ ३० ॥

एकोनविंशः सर्गः ६२९

मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः ।
विद्म हे शठ ! पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥ ३१ ॥

अन्वयः—मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं अनवस्थितं तं प्रियाः हे शठ ! पलायनच्छलानि अञ्जसा विद्म इति ( उक्त्वा ) कचग्रहैः रुरुधुः ।

मित्रेति । मित्रकृत्यं सुहृत्कार्यमपदिश्य व्याजीकृत्य पार्श्वतः प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रिया हे शठ हे गूढविप्रियकारिन् । “गूढविप्रियकृच्छठः” इति दशरूपके । तव पलायनस्य छलान्यञ्जसा तत्त्वतः । ‘तत्त्वे त्वद्धाऽञ्जसा द्वयम्’ इत्यमरः । विद्म जानीम । “विदो लटो वा” इति वैकल्पिको मादेशः । इति उक्त्वेति शेषः । कचग्रहैः केशाकर्षणै रुरुधुः । अत्र गोनर्दीयः—‘ऋतुस्नाताभिगमने मित्रकार्ये तथापदि । त्रिष्वेतेषु प्रियतमः क्षन्तव्यो वारगम्यया’ ।। इति । विरक्तलक्षणप्रस्तावे वात्स्यायनः–‘मित्रकृत्यं चापदिश्यान्यत्र शेते’ इति ।

भाषार्थ—कभी-कभी अपनी रानियों के पास बैठे-बैठे उसके मन में किसी प्रियतमा के पास जाने की इच्छा होती थी तो वह यह कहकर उठने लगता था कि अरे ! मुझे एक मित्र से मिलने जाना है। यह सुनकर रानियां ताड़ जाती थीं और कहती थीं कि हम भलीभाँति जानती हैं कि तुम किस मित्र के यहाँ जा रहे हो फिर बाल पकड़कर रोक देती थीं ॥ ३१ ॥

तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः ।
अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ ३२ ॥

अन्वयः—निर्दयरतिश्रमालसा योषितः कण्ठसूत्रं अपदिश्य पीवरस्तनविलुप्त-चन्दनम् तस्य बृहद्भुजान्तरं अध्यशेरत ।

तस्येति । निर्दयरतिश्रमणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङ्गनविशेष-मपदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म । कण्ठसूत्रलक्षणं तु—‘यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूहात् । परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ॥’ इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम् । तथा च—‘उरसि कमितुरुच्चैरादिशन्ती वराङ्गीस्तनयुगमुपधत्ते यत्स्तनालिङ्गनं तत्’ इति ।

भाषार्थ—जब कभी उसके साथ बहुत देर तक निर्दयपूर्वक सम्भोग करने के कारण स्त्रियां अलसा जाती थीं तब वे अपने बड़े-बड़े स्तनों से राजा की छाती के चन्दन को पोंछती हुई उसके वक्षःस्थल पर इस प्रकार सो जाती थीं मानो वे सम्भोग का वह कण्ठसूत्र नामक आसन साध रही हों ॥ ३२ ॥

६३० रघुवंशमहाकाव्ये

संगमाय निशि गूढचारिणं चारदूतिकाकथितं पुरोगताः।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चक्रुषुस्तमङ्गनाः ॥ ३३ ॥

अन्वयः—संगमाय निशि गूढचारिणं चारदूतिकाकथितं तं अंगनाः पुरोगताः हे कामुक ! तमोवृतः कुतः वञ्चयिष्यसि इति चक्रुषुः ।

संगमायेति । संगमाय सुरताय निशि गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी तं चारदूतिकाकथितं चरन्तीति गूढचारिण्यः । "ज्वलितिकसन्तेभ्यो णः" इति णप्रत्ययः । चाराश्च ता दूतयश्च चारदूतयः ताभिः कथितं निवेदितं तमग्निवर्णमङ्गनाः पुरोऽग्रे गताः । अवरुद्धमार्गाः सत्य इत्यर्थः । हे कामुक ! तमसा वृतो गूढः सन्कुतो वञ्चयिष्यसीति उपालभ्येति शेषः । चक्रुषुः स्ववासं निन्युरित्यर्थः ।

भाषार्थ—रात को वह संभोग की इच्छा से छिपकर जब बाहर जाने को होता था तो दूतियों से समाचार पाकर उसकी स्त्रियां उसके आगे पहुँच जाती थीं और यह कहते हुए खींच लाती थीं कि चकमा देकर रात को किधर चल पड़े ॥ ३३ ॥

योषितामुडुपतेरिवाचिषां स्पर्शनिवृत्तिमसाववाप्नुवन् ।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ ३४ ॥

अन्वयः—उडुपतेः अर्चिषां इव योषितां स्पर्शनिवृत्तिम् अवाप्नुवन् रात्रि-जागरपरः दिवाशयः असौ कुमुदाकरोपमां आरुरोह ।

योषितामिति । उडुपतेरिन्दोरर्चिषां भासामिव । 'ज्वाला भासो नपुंस्यर्चिः' इत्यमरः । योषितां स्पर्शनिवृत्तिं स्पर्शसुखमवाप्नुवन् किञ्च रात्रिषुजागरपरः । दिवा दिवसेषु शेते स्वपितीति दिवाशयः । "अधिकरणे शेते" इत्यच्प्रत्ययः । असावग्निवर्णः कुमुदाकरस्योपमां साम्यमारुरोह प्राप ।

भाषार्थ—स्त्रियों के स्पर्श से उसे वैसा ही आनन्द मिलता था जैसा चन्द्रमा की किरणों से । अतः वह चन्द्रमा के समान रात भर जागता रहता और दिनभर सोता रहता था ॥ ३४ ॥

वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्यं उभयेन वेजितास्तं विजिह्रानयना व्यलोभयन् ॥ ३५ ॥

अन्वयः—दशनपीडिताधराः नखपदाङ्कितोरवः वेणुना वीणया च उभौ वेजिताः शिल्पकार्यं तं विजिह्रानयनाः (सत्यः) व्यलोभयन् ।

वेणुनेति । दशनैः पीडिताधरा दष्टोष्ठाः नखपदैनंखक्षतैरङ्कितोरवश्चिह्नि-

एकोनविंशः सर्गः ६३१

तोत्सङ्गाः । व्रणिताधरोक्तत्वादक्षमा इत्यर्थः । तथापि वेणुना वीणया चेत्युभयेन अधरोरुपीड़ाकरिणेत्यर्थः । वीजिताः पीड़िताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः । "कर्मण्यण्" इत्यण् । "टिड्ढाणञ्-द्वयसज्दघ्नञ्०" इत्यनेन ङीप् । तं विजिह्मनयनाः कुटिलदृष्टयः सत्यः स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन् । तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ।

**भाषार्थ—**उसने स्त्रियों के ओठों पर अपने दाँतों से और उनकी जाँघों पर चूँट-चूँटकर ऐसे घाव कर दिये थे कि अधरों पर बाँसुरी और जाँघ पर वीणा रखने पर उन्हें बड़ा कष्ट होता था और वे टेढ़ी भौहों से राजा की ओर देखने लगती थीं । उनकी यह भावभङ्गी देखकर राजा और भी मोहित हो जाता था ॥ ३५ ॥

अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् ।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ ३६ ॥

**अन्वयः—**अङ्गसत्ववचनाश्रयं नृत्यं मिथः स्त्रीषु उपधाय दर्शयन् स मित्रसंनिधौ प्रयोक्तृभिः सह संजघर्ष ।

अङ्गेति । अङ्गं हस्तादि सत्त्वमन्तःकरणम् वचनं गेयं चाश्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम् । आङ्गिकसात्त्विकवाचिकरूपेण विविधामित्यर्थः । यथाह भरतः—'सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः' इति । नृत्यमभिनयं मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन् स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाट्याचार्यैः सह संजघर्ष संघर्षं कृतवान् । संघर्षः पराभिवेच्छा ।

**भाषार्थ—**जब वह एकान्त में स्त्रियों के आंगिक, सात्त्विक और वाचिक अभिनय का अपने मित्रों के आगे प्रदर्शन करता था तब वह बड़े-बड़े नाट्य-शास्त्रियों के भी कान काटता था ॥ ३६ ॥

इतः प्रभृति तस्य कृत्रिमादिषु विरचितविहारप्रकारमाह—

अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः ।
प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रमः ॥ ३७ ॥

**अन्वयः—**प्रावृषि अंसलम्बिकुटजार्जुनस्रजः नीपरजसा अङ्गरागिणः प्रमदबर्हिणेषु कृत्रिमाद्रिषु विहारविभ्रमः अभूत् ।

अंसेति । प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य

१३२रघुवंशमहाकाव्ये

तस्य नीपानां कदम्बकुसुमानां रजसाऽङ्गरागिणोऽङ्गरागवतस्तस्याग्निवर्णस्य प्रमद- बर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूद्भवत् ।

भाषार्थ—वर्षा में वह कुटज और अर्जुन की माला पहनकर, शरीर में कदम्ब का अङ्गराग लगाकर मतवाले हाथी के समान पर्वतों पर विहार करता था। ३७ ॥

विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
आचकांक्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८ ॥

अन्वयः—सः विग्रहात् शयने पराङ्मुखीः अबलाः अनुनेतुं न तत्वरे (किन्तु) घनशब्दविक्लवाः विवृत्य भुजान्तरं विशतीः ता आचकाङ्क्ष ।

विग्रहादिति । प्रावृषीत्यनुषज्जते । सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयने शय्यायां पराङ्मुखीरबला अनुनेतुं न तत्वरे त्वरितवान् । किंतु घनशब्देन घनगर्जितेन विक्लवाश्चकिता अत एव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः विशन्तीः । "आच्छीनद्योर्नुम्" इति नुम्विकल्पः । ता अबला आचकाङ्क्ष स्वयंग्राहादेव सांमुख्यमैच्छदित्यर्थः ।

भाषार्थ—जब पलंग पर सोई स्त्रियां रूठकर पीठ फेरकर सो जातीं थीं तब राजा अग्निवर्ण उन्हें मनाना नहीं चाहता था किन्तु वह यह चाहता था कि किसी प्रकार बादल गरज उठे जिससे डरकर वे मेरी छाती से आ लिपटें ॥ ३८ ॥

कार्तिकीषु सवितानहर्म्यभाग्द्यामिनीषु ललिताङ्गनासखः ।
अन्वमङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ ३९ ॥

अन्वयः—कार्तिकीषु यामिनीषु सवितानहर्म्यभाग् ललिताङ्गनासखः स सुरतश्रमापहां मेघमुक्तविशदाम् चन्द्रिकां अन्वभुङ्क्त ।

कार्तिकीष्विति । कार्तिकस्येमाः कार्त्तिक्यः । "तस्येदम्" इत्यण् । तासु यामिनीषु निशासु शरद्रात्रिष्वित्यर्थः । सवितानान्युपरिवस्त्रावृतानि हर्म्याणि भजतीति सवितानहर्म्यभाक् । भजेर्णिन्प्रत्ययः । हिमवारणार्थं सवितानमुक्तम् । ललिताङ्गनासखः सोऽग्निवर्णं सुरतश्रमापहां मेघमुक्ता चासौ विशदा च ताम् । बहुलग्रहणात्सविशेषणसमासः चन्द्रिकामन्वभुङ्क्त ।

भाषार्थ—कार्तिक की रातों में वह राजभवन के ऊपर चँदोवा तनवा देता था और सुन्दरियों के साथ उस चाँदनी का आनन्द लेता था, जो सम्भोग का श्रम दूर करती हैं और बादलों के न रहने पर बराबर फैली रहती हैं ॥ ३९ ॥

एकोनविंशः सर्गः

६३३

सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥ ४० ॥

अन्वयः—हंसमेखलं सैकतं श्रोणिबिम्बं इव विवृण्वतीं स्वप्रियाविलसितानुकारिणीं सरयूं सौधजालविवरैः व्यलोकयत् ।

सैकतमिति । किञ्च हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव विवृण्वतीम् । अतएव स्वप्रियाविलसितान्यनुकरोतीति तद्विधां सरयूम् । सौधस्थं जालानि गवाक्षाः त एव विवराणि तैर्व्यलोकयत् ।

भाषार्थ—वह राजभवन के झरोखे से सरयू नदी को देखता था और उसके तटपर हंसों की पांतें बैठी रहती थीं, वह दृश्य ऐसा दिखाई पड़ता है मानो सरयू उन सुन्दरियों का अनुकरण कर रही हों जिनके नितम्बों पर करधनी पड़ी हो ॥ ४० ॥


मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः ।
जह्रुरागन्थनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥ ४१ ॥

अन्वयः—मर्मरैः अगुरुधूपगन्धिभिः व्यक्तहेमरशनैः हैमनैः निवसनैः सुमध्यमाः एकतः आग्रन्थनमोक्षलोलुपं तं जह्रुः ।

मर्मरैरिति । मर्मरैः संस्कारविशेषाच्छब्दयमानैः । 'अय मर्मरः । स्वनिते वस्त्रपर्णानाम्' इत्यमरः । अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लौल्याल्लक्ष्यमाणकनकमेखलागुणैः हैमनैर्हेमन्ते भवैः । “सर्वत्राण् तलोपश्च” इति हेमन्तशब्दादण, प्रत्ययस्तलोपश्च । निवसनैरंशुकैः सुमध्यमाः स्त्रियः एकतो नितम्बैकदेश आग्रथनमोक्षयोर्नीवीबन्धविस्रंसनयोर्लोलुपमासक्तं तं जह्रूराचकृषुः ।

भाषार्थ—पतली कमरवाली स्त्रियां जिनके सुगन्धित वस्त्रों को देखकर जो मांड़ी के कारण करकराते और जिनके नीचे झलकती हुई करधनी बांधने और खोलने के लिए उत्सुक वह राजा अग्निवर्ण मोहित हो जाता था ॥ ४१ ॥


अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ ४२ ॥

अन्वयः—निवातकुक्षिषु गर्भवेश्मसु अर्पितस्तिमितदीपदृष्टयः सर्वसुरतान्तरक्षमाः शिशिररात्रयः तस्य साक्षितां ययुः ।

अर्पितेति । निवाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्तिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभि-

६३४ रघुवंशमहाकाव्ये

स्ताः । अत्रानिमिषदृष्टित्वं च गम्यते । सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्वा- द्दीर्घकालत्वाच्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्र- यस्तस्याग्निवर्णस्य साक्षितां ययुः । विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः । भाषार्थ—सब प्रकार की सम्भोगक्रीड़ायोग्य हेमन्त ऋतु की बड़ी-बड़ी रातों में वह राजभवनों की उन कोठरियों में विहार करता था, जहाँ उसके साक्षी केवल वे दीप थे जो वायु के न आने से एक टक होकर सबको देख रहे थे ॥ ४२ ॥

दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् । अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥ ४३ ॥

अन्वयः—अङ्गनाः दक्षिणेन पवनेन सम्भृतं सपल्लवं चूतकुसुमं प्रेक्ष्य अवधूतविग्रहाः ( सत्यः ) दुरुत्सहवियोगं तं अन्वनैषुः ।

दक्षिणेनेति । अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्यावधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः । तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः । भाषार्थ—वसन्त में मलयपर्वत से आये हुए दक्षिणी पवन से आम्र वृक्षों में पल्लव और बौर देखकर प्रेमिकाओं ने कामोन्मत्त होकर राजा से रूठना छोड़ दिया और उनके विरह में व्याकुल होकर स्वयं उन्हें ढूँढने लगीं ॥ ४३ ॥

ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया । मुक्तरज्जु निविडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥ ४४ ॥

अन्वयः—ताः स्वं अङ्कं अधिरोप्य परिजनापविद्धया दोलया मुक्तरज्जु भयच्छलात् बाहुभिः निविडं कण्ठबन्धनं अवाप ।

ता इति । ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया संप्रेशितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन्भयच्छलात्पतन- भयमिषाद्वाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप । स्वयंग्रहाश्लेषसुख- मन्वभूदित्यर्थः । भाषार्थ—उन स्त्रियों को गोद में बैठाकर वह राजा अग्निवर्ण उन झूलों में झूलने लगा । राजा ने एक बार झूले को झटका दिया तो उन स्त्रियों ने भय का बहाना करके रस्सी को छोड़ दिया और राजा में लिपट गईं ॥ ४४ ॥

तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ॥ ४५ ॥

एकोनविंशः सर्गः ६३५

अन्वयः— प्रियाः पयोधरनिषिक्तचन्दनः मौक्तिकग्रथितचारुभूषणैः श्रोणि-लम्बिमणिमेखलः ग्रीष्मवेशविधिभिः तं सिषेविरे।

तमिति। प्रियाः पयोधरेषु स्तनेषु निषिक्तमुक्षितं चन्दने येषु तैर्मौक्तिकैर्ग्रन्थि-तानि प्रोतानि चारुभूषणानि येषु तैः मुक्ताप्रायाभरणैरित्यर्थः। श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविधिभिरुष्णकालोचितनेपथ्यविधानैः शीतलोपायैरित्यर्थः। तमग्निवर्णं सिषेविरे।

भाषार्थ— ग्रीष्म ऋतु में स्तनों पर चन्दन लगाकर मोतियों का आभूषण पहनकर और नितम्बों पर मणि की करधनी लटकाकर वे स्त्रियाँ उस राजा अग्निवर्ण के साथ सम्भोग करके उसे प्रसन्न करती थीं ॥ ४५ ॥

यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधु निर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ ४६ ॥

अन्वयः— सः लग्नसहकारं रक्तपाटलसमागमं आसवं पपौ यत तेन मधुनिर्गमात् कृशः तस्य चित्तयोनिः पुनर्भवः अभवत्।

यदिति। सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो यस्मिंस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपौ इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तागमात्कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्भवः प्रबलोऽभवत्।

भाषार्थ— उस समय वह आम्रपल्लव लगे हुए गुलाब के लाल-लाल फूल के पात्र में रखकर मद्य का पान करता था जिससे वसन्त बीतने से मन्द पड़ा हुआ उसका काम फिर जग उठता था ॥ ४६ ॥

एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ ४७ ॥

अन्वयः— एवं अनङ्गवाहितः अन्यकार्यविमुखः सः पार्थिवः इन्द्रियसुखानि निर्विशन् आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयत्।

एवमिति। एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान् अयमृतुरिदानीं वर्तत इति ज्ञापितान् ऋतून्वर्षादीनत्यवाहयदगमयत्।

भाषार्थ— इस प्रकार वह कामी राजा अग्निवर्ण राजकार्य को छोड़कर इन्द्रिय सुखों का आनन्द लेता हुआ ऋतुयें बिताने लगा। वह काम-क्रीड़ा के

६३६रघुवंशमहाकाव्ये

लिए भिन्न-भिन्न ऋतुओं में भिन्न-भिन्न प्रकार का वेश बनाया करता था। इसलिए उसके वेश को देखकर मालूम पड़ता था कि इस समय कौन सी ऋतु है ॥ ४७ ॥

तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ ४८ ॥

अन्वयः—प्रमत्तम् अपि तं प्रभावतः अन्यपार्थिवाः आक्रमितुं न शेकुः, रतिरागसम्भवः आमयः तु दक्षशापः चन्द्रम् इव अक्षिणोत् ।

तमिति। प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवतुं न शेकुर्न शक्ताः। रतिरागसम्भव आमयो व्याधिस्तु। क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शापश्चन्द्रमिव अक्षिणोदकर्षयत् । शापोऽपि रतिरागसम्भव इति। अत्र दक्षः किलान्यः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप । स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते।

भाषार्थ—इस प्रकार व्यसन में होने पर भी उसके शत्रु उसपर आक्रमण नहीं करते थे फिर भी जैसे दक्ष के शाप से चन्द्रमा को क्षय रोग हो गया था वैसे ही अधिक भोग-विलास करने से उसे भी क्षय रोग हो गया था ॥ ४८ ॥

दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ ४९ ॥

अन्वयः—भिषजाम् अनाश्रवः सः दृष्टदोषम् अपि तत् सङ्गवस्तु न अत्यजत्, इन्द्रियगणः स्वादुभिः विषयैः हृतः तु ततः दुःखं निवार्यते ।

दृष्टेति। भिषजां वैद्यानामनाश्रवो वचसि न स्थितः। 'वचनं स्थित आश्रवः' इत्यमरः। अविधेय इत्यर्थः। स दृष्टदोषमपि रोगजननादिति शेषः। तत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत् । तथा हि इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते । यदि वार्यतेति शेषः। दुस्त्यजाः खलु विषया इत्यर्थः।

भाषार्थ—चिकित्सकों के बार-बार मना करने पर भी उसने काम को जगाने वाली वे वस्तुयें नहीं छोड़ीं क्योंकि जब इन्द्रियाँ एक बार विषयों में फँस जाती हैं तब उन्हें रोकना कठिन हो जाता है ॥ ४९ ॥

तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना।
राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥ ५० ॥

एकोनविंशः सर्गः ६३७

अन्वयः—तस्य पाण्डुवदना अल्पभूषणा सावलम्बगमना मृदुस्वना राजयक्ष्मपरिहानिः कामयानसमवस्थया तुलां आययौ।

तस्येति। तस्य राज्ञः पाण्डुवदना अल्पभूषणा परिमिताभरणा सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना मृदुस्वना हीनस्वरा राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः तेन या परिहानिः क्षीणावस्था सा कामयते विषयानिच्छति कामयानाः। कमेर्णिङन्ताच्चानच्। “अनित्यमागमशासनम्” इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि—“कामयानशब्दः सिद्धोऽनादिश्च” इति। तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययौ प्राप। कालकृतो विशेषोऽवस्था। ‘विशेषः कालिकोऽवस्था’ इत्यमरः।

भाषार्थ—धीरे-धीरे उसका शरीर पीला पड़ गया, दुर्बलता के कारण उसने आभूषण पहनना भी छोड़ दिया। वह नौकरों का सहारा लेकर चलने लगा, उसकी बोली धीमी पड़ गई और सूखकर विरहियों के समान दीखने लगा ॥५०॥

व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम्।
राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ ५१ ॥

अन्वयः—राज्ञि क्षयातुरे तत्कुलं पश्चिमकलास्थितेन्दु व्योम वा पङ्कशेषम् इव घर्मपल्वलं वामनार्चिः दीपभाजनं इव अभूत्।

व्योमेति। राज्ञि क्षयातुरे सति तत्कुलं पश्चिमकलायां स्थित इन्दुर्यस्मिंस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव वाशब्द इवार्थे। यथाह दण्डी—‘इववद्वाययाशब्दाे’ इति। पङ्कशेषं घर्मपल्वलमिव वामनार्चिरल्पशिखं दीपभाजनं दीपपात्रमिवाभूत्।

भाषार्थ—राजा के क्षय रोग होने पर सूर्य कुल ऐसा रह गया जैसे कृष्ण पक्ष की चतुर्दशी का चन्द्रमा हो या गर्मी के दिनों का ताल हो या थोड़ी सी बची हुई दीपक की लौ हो ॥ ५१ ॥

बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥ ५२ ॥

अन्वयः—बाढं एष पार्थिवः दिवसेषु पुत्रजन्मने कर्म साधयति इति प्रदर्शितरुजः अस्य मन्त्रिणः अघशङ्किनीः प्रजाः शश्वत् ऊचुः।

बाढमिति। बाढं सत्यमेष पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थं कर्म जपादिकं साधयति इत्येवमदर्शितरुजो निगूहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽघशङ्किनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः।

६३८ रघुवंशमहाकाव्ये

भाषार्थ—राजा को कोई भयानक रोग तो नहीं हुआ है ? ऐसी आशंका करने वाली प्रजा को यह कहकर समझाते थे कि राजा इस समय पुत्र के लिए जप, व्रत आदि का अनुष्ठान कर रहे हैं इसलिए दुबले होते जा रहे हैं ॥५२॥

स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य सन्ततिम् ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ ५३ ॥

अन्वयः—स तु अनेकवनितासखोऽपि सन् पावनीं सन्ततिं अनवलोक्य वैद्य-रत्नपरिभाविनं गदं प्रदीपः वायुः इव न अत्यगात् ।

स इति । स त्वग्निवर्णोऽनेकवनितासखः सन्नपि पावनीं पित्रृणमोचनीं सन्ततिमनवलोक्य पुत्रमनवाप्येत्यर्थः । वैद्ययत्नपरिभाविनं गदं रोगं प्रदीपो वायुमिव नात्यगान्नातिचक्राम । ममारेत्यर्थः ।

भाषार्थ—अनेक रानियों के रहते हुए भी वे राजा अग्निवर्ण पुत्र का मुख नहीं देख सके और वैद्य लोग राजा को नीरोग नहीं कर सके, जिस प्रकार हवा के सामने दीपक का कुछ भी वश नहीं चलता है, उसी प्रकार राजा भी रोग से नहीं बचाया जा सका अर्थात् राजा अग्निवर्ण मर गये ॥ ५३ ॥

तं गृहोपवन एव सङ्गताः पश्चिमक्रतुविदा पुरोधसा ।
रोगशान्तिमपदिश्य मन्त्रिणः सम्भृते शिखिनि गूढमादधुः ॥ ५४ ॥

अन्वयः—पश्चिमऋतुविदा पुरोधसा सङ्गताः मन्त्रिणः गृहोपवने एव रोग-शान्तिम् अपदिश्य तं सम्भृते शिखिनि गूढम् आदधुः ।

तमिति । पश्चिमक्रतुविदान्त्येष्टिविधिज्ञेन पुरोधसा सङ्गता मन्त्रिणो गृहोपवन एव गृहाराम एव । 'आरामः स्यादुपवनम्' इत्यमरः । रोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्णं सम्भृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुनिदधुः । अग्निसंस्कारं चक्रुरित्यर्थः ।

भाषार्थ—अन्त्येष्टि क्रिया को जानने वाले पुरोहितों से मिलकर मन्त्रियों ने रोग शांति के बहाने राजा के शव को भवन के उपवन में गुप्त रूप से जला दिया ॥ ५४ ॥

तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी ।
साधु दृष्टशुभगर्भरक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ ५५ ॥

अन्वयः—आशु कृतप्रकृतिमुख्यसंग्रहैः तैः साधु दृष्टशुभगर्भरक्षणा तस्य सह धर्मचारिणी नराधिपाश्रयं प्रत्यपद्यत ।

एकोनविंशः सर्गः ६३९

तैरेति। आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः सन्निपातनं यैस्तादृशैस्तैर्मन्त्रिभिः साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्ना तस्याग्निवर्णस्य सहधर्मचारिणी नराधिपश्रियं प्रत्यपद्यत राजलक्ष्मीं प्राप।

**भाषार्थ—**मन्त्रियों ने प्रधान नागरिकों को इकट्ठा किया और उनकी राय से राजा की पटरानी को सिंहासन पर बैठा दिया जिसमें गर्भ लक्षण दिखाई देते थे ॥ ५५ ॥

तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
दुष्णैर्विलोचनजलैः प्रथमाभितप्तः।
निर्वापितः कनककुम्भमुखोज्झितेन
वंशाभिषेकविधिना शिशिरेण गर्भः ॥ ५६ ॥

**अन्वयः—**तथाविधनरेन्द्रविपत्तिशोकात् उष्णैः विलोचनजलैः प्रथमाभितप्तः तस्याः गर्भः कनककुम्भमुखोज्झितेन शिशिरेण वंशाभिषेकविधिना निर्वापितः।

तस्या इति। तथाविधा नरेन्द्रविपत्त्या यः शोकस्तस्मादुष्णैर्विलोचनजलैः प्रथमांभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैर्रुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाभिषेकजलेन निर्वापित आप्यायितः।

**भाषार्थ--**राजा की गर्भवती रानी पर जब होनेवाले अभिषेक के समय सुवर्ण के कलशों से शीतल जल पड़ा तब गर्भ शीतल हो गया ॥ ५६ ॥

तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना-
मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था
राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥ ५७ ॥

अन्वयः— -प्रसवसमयाकांक्षिणीनां प्रजानां भावार्थं क्षितिः अन्तर्गूढं नभो-बीजमुष्टि इव (अन्तर्गूढमिव) तं (गर्भं) दधाना अव्याहताज्ञा मौलैः स्थविरसचिवैः सार्द्धं भर्तुः राज्यं विधिवत् अशिषत्।

तमिति। प्रसवो गर्भमोचनम् फलं च विवक्षितम्। 'स्यादुत्पाते फले पुष्पे प्रसवो गर्भमोचने' इत्यमरः। तस्य यः समयस्तदाकांक्षिणीनां प्रजानां भावार्थं भावाय भूतये इत्यर्थः। 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति यादवः। क्षितिरन्त-र्गूढं नभोबीजमुष्टिमिव श्रावणमास्युप्तं बीजमुष्टिं यथा धत्ते तद्वदित्यर्थः। मुष्टिशब्दो

६३० रघुवंशमहाकाव्ये

द्विलिङ्गः । 'अक्लीबो मुष्टिमुस्तको' इति यादवः । अन्तर्गूढमन्तर्गतं गर्भं दधाना हेमसिंहासनस्थाऽव्याहताज्ञा राज्ञी मौलेर्मूले भवंमूलादागतंर्वा आप्तैरित्यर्थः । सार्धं भर्तू राज्यं विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः । अर्हार्थे वतिप्रत्ययः । अशिषच्छास्तिस्म । 'सर्तिशास्त्यर्तिभ्यश्च' इति च्लेरङ् । 'शास इदङ्हलोः' इतीकारः ।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः ॥ १९ ॥

भाषार्थ—जिस प्रकार श्रावण मास में बोये हुए मुट्ठी भर अन्न को पृथ्वी छिपाये रहती है, उसी प्रकार महारानी गर्भ धारण किये हुए थी। अस्खलित शासन वाली उस गर्भवती रानी ने विश्वासपात्र एवं मन्त्रियों की सम्मति के अनुसार विधिपूर्वक अपने पति के राज्य का काम किया ॥ ५७ ॥

श्रीकृष्णमणित्रिपाठीकृत 'चन्द्रकला' नामक हिन्दी टीका में रघुवंश का १९ वाँ सर्ग समाप्त ।

समाप्तोऽयं ग्रन्थः ।

श्लोकानुक्रमणिका

अ

श्लोक-प्रतीकसर्गःश्लोकःश्लोक-प्रतीकसर्गःश्लोकः
अकरोत्स तदोर्ध्वदैहि८२६अथ जातु रोरोगृहीत९७२
अकरोदचिरे श्वरः क्षितौ८२०अथ जानपदो विप्रः१५४२
अकार्यचिन्तासमकाल६३९अथ तं सवनाय दीक्षि८७५
अकाले बोधितो भ्रात्रा१२८१अथ तस्य कथंचिदङ्क८७१
अक्षबीजवलयेन नि११६६अथ तस्य विवाहकौतु८१
अगस्त्यचिह्नादयनात्स१६४४अथ तस्य विशांपत्यु१०५०
अग्निवर्णमभिषिच्य१९१अथ तेन दशाहतः८७३
अग्रजेन प्रयुक्ताशीस्त१५८अथ धूमाभिताम्राक्षं१५४९
अङ्गमङ्गपरिवर्तनोचिते१९१३अथ नभस्य इव त्रिद९५४
अङ्गदं चन्द्रकेतुं च१५९०अथ नयनसमुत्थं२७५
अङ्गसत्त्ववचनाश्रयं१९३६अथ पथि गमयित्वा११९३
अङ्गुलीकिसलयाग्रतर्ज१९१७अथ प्रजानामधिपः२१
अचिराद्यज्वभिर्भागं१०४५अथ प्रदोषे दोषज्ञः१९३
अजयदेकरथेन स९१०अथ प्रभावोपनतः५५२
अजस्य गृह्णतो जन्म१०२४अथ प्राचेतसोपज्ञं१५६३
अजिताधिगमाय मन्त्रि८१७अथ मदगुरूपक्षंलोक१२१०२
अजिनदण्डभृतं कुश९२१अथ मधुवनितानां१९५२
अतिथिं नाम काकुत्स्थान्१७१अथ यथासुखमार्तवं९४८
अतिप्रबन्धप्रहितास्त्र३५८अथ यन्तारमादिश्य१५४
अतिष्ठत्प्रत्ययापेक्ष१०३अथ रामशिरश्छेद१२७४
अतोऽयमश्वः कपिलातु३५०अथ रोधसि दक्षिणोदधेः८३३
अत्रानुगोदं मृगयानि१३३५अथवा कृतवाग्द्वारे१४
अत्राभिषेकाय तपोध१३५१अथवा मम भाग्यविप्लवा८४७
अत्रावियुक्तानि रथाङ्ग१३३१अथवा मृदु वस्तु हिंसि८४५
अथ काश्चिदजव्यपेक्ष८२४अथ वाल्मीकि शिष्येण१५८०
अथ विधिमवसाय्य५७६

४१ र० सम्पू०

६४२रघुवंशमहाकाव्ये
सर्गेश्लोकःसर्गेश्लोकः
अथ दीक्ष्य रघुः प्रतिष्ठि८१०अयोपरिष्टाद्भमरै५४३
अथ वेलसमासन्न१०३५अयोपशल्ये रिपुभग्नशल्य१६३७
अथ व्यवस्थापितवाक्क१४५३अथोरगाख्यस्य पुरस्य६५९
अथ समाववृते कुसु९२४अथोर्मिलोलोन्मदराज१६५४
अथ स विषयव्यावृत्ता३७०अथोष्ट्रवामीशतवां५३२
अथ सावरजो रामः प्रा१५७०अदः शरण्यं शरभङ्गना१३४५
अथ स्तुते बन्दिभिरन्व६८अदूरवर्तिनीं सिद्धि१८७
अथाग्रमहिषी राज्ञः१०६६अद्धा श्रियं पालितसंग१३६५
अथाङ्गदाश्लिष्टभुजं६५३अधिकं शुशुभे शुभंयु८६
अथाङ्गराजादवतार्यं६३०अधिगतं विधिवद्यद९२
अथात्मनः शब्दगुणं१३१अध्यास्य चाम्भःपृषतो६५१
अथाथर्वनिधेस्तस्य१५९अनङ्गाणां समुद्धर्तुं४३५
अथाधिकस्निग्धविलोचने१४२६अनयत्प्रभुशक्तिसंप८१९
अथाधिशिश्ये प्रयतः५२८अनवाप्तमवाप्तव्यं१०३१
अथानपोढार्गलमप्यगा१६६अनश्नुवानेन युगोपमा१८४८
अथानाथाः प्रकृतयो१२१२अनसूयातिसृष्टेन पुण्य१२२७
अथानुकूलश्रवणप्र१४४७अनाकृष्टस्य विषयै१२३
अथान्धकारं गिरि२४६अनिग्रहत्रासविनीत१३५०
अथाभिषेकं रघुवंश१४७अनित्याः शत्रवो वाह्या१७४९
अथाभ्यर्च्य विधातारं१३५अनीकिनीनां समरेऽग्र१८१०
अथार्धरात्रे स्तिमितप्र१६४अनुग्रहप्रत्यभिनन्दि१४७९
अथास्य गोदानविधेर३३३अनुभवन्नवदोलम्९४६
अथास्य रत्नग्रथितांत्त१६४३अनुभूय वसिष्ठसंभृतैः८३
अथेतरे सप्त रघुप्रवी१६१अनेन कथिता राज्ञो१०५३
अथेप्सितं भर्तुरुर३१अनेन चेदिच्छसि गृह६२४
अथैप्रवरेण क्रथकैशि५३९अनेन पर्यासयताश्रु६२८
अथैकधेनोरपरा२४९अनेन पाणी विधिवद्गृ६६३
अथोपनीतं विधिवद्वि३२९अनेन यूना सह पार्थिव६३५
अथोपयन्त्रा सदृशेन७१अनेन सार्धं विहराम्बु६५७

श्लोकानुक्रमणिका

सर्गेश्लोकःसर्गेश्लोकः
अन्यदा जगति राम११७३अमेयो मितलोकस्त्व१०१८
अन्येद्युरथ काकुत्स्थः१५७५अमोघं संदधे चास्मै१२९७
अन्येद्युरात्मानुचर२२५अमोच्यमश्वं यदि मन्य३६५
अन्योन्यदर्शनप्राप्तवि१२८७अयं सुजातोऽनुगिरं१३४९
अन्योन्यसूतोन्मथनाद७५२अयःसङ्कुचितां रक्षः१२९५
अन्वियेष सदृशीं स च११५०अयोध्यादेवताश्चैनं प्रश१७३६
अपतुषारतया विश९३९अरिष्टशय्यां परितो३१५
अपथेन प्रववृते न जातुप१७५४अरुणरागनिषेधिभि९४३
अपनीतशिरस्त्राणाः४६४अर्घ्यमर्घ्यमिति वादिनं११६९
अपशूलं तमासाद्य१५१७अचिंता तस्य कौसल्या१०५५
अपशोकमनाः कुटुम्बि८८६अर्धाचिता सत्वरमुत्थि७१०
अपि तुरगसमीपादु९६७अर्पितस्तिमितदीपदृ१९४२
अपि प्रभुः सानुशयोऽनु१४८३अलं महीपाल तव२३४
अपि प्रसन्नेन मह५१०अलं ह्रिया मां प्रति५५८
अप्यग्रणीर्मन्त्रकृता५४अलिभिरञ्जनबिन्दुम९४१
अप्यर्थमार्गे परबाण७४५अवकाशं किलोदन्वा४५८
अब्रवीच्च भगवन्मतंग११३९अवगच्छति मूढचेत८८८
अभिनवान्परिचेतु९३३अवजानासि मा यस्मा१७७
अभिभूय विभूतिमार्तं८३६अवनिमेकरथेन व९११
अभ्यभूयत वाहनां४५६अवन्तिनाथोऽयमुदग्र६६२
अभ्यासनिगृहीतेन१०२३अवभृथप्रयतो निय९२२
अभ्युत्थिताग्निपिशुनै१५३अवाकिरन्वयोवृद्धा४२७
अमदयन्मधुगन्धस९४२अवेक्ष्य रामं ते तस्मि१५३
अमंस्त चानेन पराक्ष्यं३२७अवैमि कार्यन्तरमानु१६८२
अमी जनस्थानमपोढ१३२२अवैमि चैनामनघेति१४४०
अमी शिरीषप्रसवायतंस१६६१अणून्यतीरां मुनिसंनि१४७६
अमु पुरः पश्यसि देव-२३६अंशे हिरण्याक्षरिपोः स१८२५
अमुं सहासप्रहितेक्ष१३४२अंसलम्बिकुटजार्जुन१९३७
अमूर्विमानान्तरलम्बि१३३३असकृदेकरथेन त९२३

६३४ रघुवंशमहाकाव्ये

श्लोक-प्रतीकसर्गश्लोकश्लोक-प्रतीकसर्गश्लोक
असङ्गमद्रिष्वपि सार३६३आपादपद्मप्रणताः४३७
असज्जनेन काकुत्स्थः प्र१२४६आपिञ्जरा बद्धरजः१६५१
असमाप्तविधेर्यन्तो८७६आपीनभारोद्वहन२१८
असह्यपीडं भगवन्न१७१आमुक्ताभरणः स्रग्वी१७२५
असह्यविक्रमः सह्यं४५२आयोगने कृष्णगते सं६४२
असौ कुमारस्तमजोऽनु६७८आराध्य विश्वेश्वरमीश्व१८२४
असौ पुरस्कृत्य गुरुं१६६६आरूढमद्रीनूदधीन्वि६७७
असौ महाकालनिकेत६३४आलोकमार्गं सहसा७६
असौ महेन्द्रद्विपदान१३२०आवर्ज्य शाखाः सदयं१६१९
असौ महेन्द्राद्रिसमान६५४आवर्तशोभा नतनाभि१५६३
असौ शरण्यः शरणोन्मु६२१आवृण्वतो लोचनमार्गं७४२
अस्त्रं हरादाप्तवता६६२आशास्यमन्यत्पुनरु५३४
अस्य प्रमाणेषु समग्र६३३'आश्वास्य रामावरजः स१४५०
अस्याङ्कलक्ष्मीर्भव दीर्घ६४३आससाद मिथिलां स११५२
अहमेव मतो महीप८८आससाद मुनिरात्मन११२३
अहीनगुर्नाम स गां सम१८१४आसां जलस्फालनतत्प१६६२
आआसारसिक्तक्षितिबाष्प१३२९
आकारसदृशज्ञः११५आसीद्वरः कण्टकितप्र७२२
आकीर्णमृषिपत्नीना२५०आस्फालितं यत्प्रमदाक१६१३
आकुञ्चिताग्राङ्गुलिना ततो६१५आस्वादवद्भिः कवलैः२५
आततज्यमकरोत्स११४५इ
आतपात्ययसंक्षिप्त१५२इक्षुच्छायनिषादिन्यः४२०
आत्तशस्त्रस्तदध्यास्य१५४६इक्ष्वाकुवंशगुरवे१३७०
आदिदेशाथ शत्रुघ्नं१५६इक्ष्वाकुवंशप्रभवः१४५५
आदिष्टवर्त्मा मुनिभिः१५१०इक्ष्वाकुवंशप्रभवो५५५
आधारबन्धप्रमुखैः५६इक्ष्वाकुवंश्यः ककुदं६७१
आधूय शाखाः कुसुम१६३६इतः परानर्भकहार्यं७६७
आधोरणानां गजसं७४६इतराण्यपि रक्षांसि१२८२
आनन्दजः शोकजमश्रु१४३इतरेऽपि रघोर्वंश्यास्त्र१५३५