भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

द्वितीयः सर्गः ५७

अलं महीपाल ! तब श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूच्छति मारुतस्य ॥ ३४ ॥

अन्वयः—हे महीपाल !, तव श्रमेण अलम् । इतः प्रयुक्तम् अपि अस्त्रम् वृथा स्यात् पादपोन्मूलनशक्तिः मारुतस्य रंहः शिलोच्चये न मूच्छति ।

अलमिति । हे महीपाल ! तव श्रमेणालम् ! साध्याभावाच्छ्रमो न कर्तव्यः इत्यर्थः । अत्र गम्यमानसाधनक्रियाऽपेक्षया श्रमस्य करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते "न केवलं श्रूयमाणैव क्रियानिमित्तं करणभावस्य । अपि तर्हि गम्यमानाऽपि" इति । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । इतोऽस्मिन्मयि । सार्वविभक्तिकस्तसिः । प्रयुक्तमप्यस्त्रं वृथा स्यात्—पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं, मारुतस्य रंहो वेगः शिलोच्चये पर्वते न मूच्छति न प्रसरति ।

भाषार्थ—हे राजन् ! परिश्रम करना बेकार है, मेरे ऊपर चलाया हुआ आपका बाण विफल हो जायेगा, क्योंकि वृक्ष को उखाड़ने की शक्ति रखने वाला वायु का वेग पहाड़ के सामने निष्फल हो जाता है ॥ ३४ ॥

कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ ३५ ॥

अन्वयः—कैलासगौरं वृषम्, आरुरुक्षोः अष्टमूर्तेः पादार्पणानुग्रहपूतपृष्ठं निकुम्भमित्रं कुम्भोदरं नाम किङ्करं माम् अवेहि ।

कैलासेति । कैलास इव गौरः शुभ्रस्तम् । 'चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः' इति शाश्वतः । वृषं वृषभमारुरुक्षोरारोढुमिच्छोः स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः । अष्टौ मूर्त्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तम् । निकुम्भमित्रं कुम्भोदरं नाम किङ्करं मामवेहि विद्धि । 'पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः' । इति यादवः ।

भाषार्थ—कैलास पर्वत के समान सफेद बैल पर चढ़ने वाले शंकर जी के चरण रखने से पवित्र पीठ वाला निकुम्भ का मित्र कुम्भोदर नाम से प्रसिद्ध मुझे शंकर जी का अनुचर समझो ॥ ३५ ॥

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ ३६ ॥

अन्वयः—पुरः अमुं देवदारुं पश्यसि ( कम् ? ) असौ वृषभध्वजेन पुत्रीकृतः यः स्कन्दस्य मातुः, हेमकुम्भस्तननिःसृतानां, पयसां रसज्ञः ( अस्ति ) ।

५८ रघुवंशमहाकाव्ये

अमुमिति। पुरोऽग्रतोऽमुं देवदारुं पश्यसि इति काकुः। असौ देवदारुः। वृषभो ध्वजो यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनस्तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः स्कन्दपक्षे-हेमकुम्भ इव स्तन इति विग्रहः। क्षीरा- णाम्। 'पयः क्षीरं पयोऽम्बु च' इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः।

भावार्थ—सामने उस देवदारु वृक्ष को देख रहे हो न ? उसे शंकर जी ने पुत्र के समान माना है जो कात्तिकेय की माता पार्वती के सोने के घटरूपी स्तनों से निकले हुए दूधरूपी जल के स्वाद को जानने वाला है ॥ ३६ ॥

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य। अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ ३७ ॥

अन्वयः—कदाचित् कटं कण्डूयमानेन वन्यद्विपेन अस्य त्वक् उन्मथिता। अथ अद्रेः तनया असुरास्त्रैः आलीढं सेनान्यम् इव एनं शुशोच।

कण्डूयेति। कदाचित्कटं कपोलं कण्डूयमानेन घर्षयता। 'कण्ड्वादिभ्यो यक्' इति यक् ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता। अथाद्रेस्तनया गौरी असुरास्त्रैरालीढं क्षतम्। सेनां नयतीति सेनानीः स्कन्दः। 'पार्वतीन्दनः स्कन्दः सेनानीः' इत्यमरः। 'सत्सूद्विष-' इत्यादिना क्विप्। तमिव, एनं देवदारुं शुशोच।

भावार्थ—किसी समय कनपटी खुजलाते २ एक जंगली हाथी ने इस देवदारु वृक्ष की छाल को छुड़ा दिया था। तब हिमालय की पुत्री पार्वती ने दैत्यों के अस्त्रों से घायल कात्तिकेय के समान इस देवदारु के प्रति शोक किया था।

तदाप्रभृत्येव वनद्विपानां त्रासाथंमस्मिन्नहमद्रिकुक्षौ। व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्तिः ॥ ३८ ॥

अन्वयः—तदाप्रभृति- एव, वनद्विपानां, त्रासार्थं, शूलभृता, अङ्कागतसत्त्ववृत्तिः, सिंहत्वं, विधाय, अस्मिन् अद्रिकुक्षौ अहं व्यापारितः।

तदेति। तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वन- द्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन, अङ्कं समीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यंस्मिंस्तत् 'अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराघयः' इति केशवः। सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितः नियुक्तः।

भावार्थ—उसी समय से ही जंगली हाथियों को डराने के लिए शिवजी ने समीप में आए हुए प्राणियों से जीवन निर्वाह करने वाली सिंहवृत्ति देकर मुझे इस पर्वत की गुफा में नियुक्त कर दिया है ॥ ३८ ॥

द्वितीयः सर्गः ५६

तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषाश्चान्द्रमसी सुधेव ॥ ३९ ॥

अन्वयः—परमेश्वरेण प्रदिष्टकाला उपस्थिता एषा शोणितपारणा सुरद्विषः चान्द्रमसी सुधा इव क्षुधितस्य तस्य मे तृप्त्यै, अलम् ।

तस्येति । परमेश्वरेण प्रदिष्टो निर्दिष्टकालो भोजनवेला यस्याः सोपस्थिता प्राप्तेषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनं, सुरद्विषो राहोः, चन्द्रमस इयं चान्द्रमसी सुधेव, क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे मम सिंहस्य तृप्त्या अलं पर्याप्ता । 'नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च' इत्यनेन चतुर्थी ।

भाषार्थ—उस मुझ भूखे के भरपेट भोजन के लिए, शंकर जी के बताये हुए भोजन के समय पर उपस्थित, यह रुधिर की पारणा (गोरक्त) राहु के लिए चांद सम्बन्धी अमृत के समान काफी है ॥ ३९ ॥

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ ४० ॥

अन्वयः—सः त्वं लज्जां विहाय निवर्तस्व भवान् गुरोः दर्शितशिष्यभक्तिः (अस्ति) । यत् रक्ष्यं शस्त्रेण अशक्यरक्षं तत् (नष्टम् अपि) शस्त्रभृतां यशः न क्षिणोति ।

स त्वमिति । स एवमुपायशून्यत्वं लज्जां विहाय निवर्तस्व । भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति । ननु गुरुधनं विना कथं तत्समीपं गच्छेयमत आह—शस्त्रेणेति । यद्रक्ष्यं धनं शस्त्रेणायुधेन । 'शस्त्रमायुधलोहयोः' इत्यमरः । अशक्या रक्षा यस्य तदशक्यरक्षम् । रक्षितुमशक्यमित्यर्थः तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति । अशक्यार्थेष्वप्रविधानं न दोषायेति भावः ।

भाषार्थ—इस प्रकार उपायराहत तुम लज्जा को छोड़कर जाओ । तुमने गुरु-भक्ति दिखला दी । जो रक्षा करने के योग्य वस्तु शस्त्र से नहीं बचायी जा सकती वह नष्ट होती हुई भी शस्त्रधारियों की कीर्ति को दूषित नहीं कर सकती ॥ ४०॥

इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥४१ ॥

अन्वयः—मृगाधिराजस्य इति प्रगल्भं वचः निशम्य गिरिशप्रभावात् प्रत्याहतास्त्रः पुरुषाधिराजः आत्मनि अवज्ञां शिथिलीचकार ।

६० रघुवंशमहाकाव्ये

इतीति । पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्रः कुण्ठितास्त्रः सन्नात्मनि विषयेऽवज्ञामपमानं शिथिलीचकार । तत्याजेत्यर्थः । अवशातोऽहमिति निर्वेदं न प्रापेत्यर्थः । समानेषु हि क्षत्रियाणामभिमानो न सर्वेश्वरं प्रतीति भावः ।

**भाषार्थ—**इस प्रकार सिंह के धृष्टतायुक्त वचन को सुनकर शंकर के प्रभाव से रुके हुए अस्त्रवाले राजा ने अपने से अपमान का भाव शिथिल कर दिया ॥४१॥

प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥ ४२ ॥

**अन्वयः—**तत्पूर्वभङ्गे इषुप्रयोगे वितथप्रयत्नः वज्रं मुमुक्षन् त्र्यम्बकवीक्षणेन जडीकृतः वज्रपाणिः इव एनं प्रत्यब्रवीत् ।

प्रतीति । स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिंस्तत्पूर्वभङ्गे इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः अत एव वज्रं कुलिशं मुमुक्षन्मोक्तुमिच्छन् । अम्बकं लोचनम् । 'दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि' इति हलायुधः त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः यस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः । वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्' इति पाणेः सप्तम्यन्तरयोत्तरनिपातः । स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीच्च 'बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः' इति महाभारते ।

**भाषार्थ—**पहले रुकावट पड़ने पर बाण चलाने में असफल प्रयत्न वाले राजा दिलीप ने वज्र प्रहार करने की इच्छा करने वाले शिव जी के देखने से निश्चेष्ट हुए इन्द्र के समान सिंह से कहा ॥ ४२ ॥

संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृता हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥ ४३ ॥

**अन्वयः—**हे मृगेन्द्र !, संरुद्धचेष्टस्य ( मम ) तत् वचः कामं हास्यम् । यत्, अहं विवक्षुः हि भवान् प्राणभृताम् अन्तर्गतं सर्वं भावं वेद । अतः अभिधास्ये ।

संरुद्धचेष्टस्येति । मृगेन्द्र ! संरुद्धचेष्टस्य प्रतिबद्वव्यापारस्य मम तद्वचो वाक्यं कामं हास्यं परिहसनीयम् । यद्वचः 'स त्वं मदीयेन' (१।४५) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि । तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिङ्करत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह—अन्तरिति । हि यतो भवान्प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति । 'विदो लटो वा' इतिणलादेशः । अतोऽहमभि

द्वितीयः सर्गः

६१

धास्ये वक्ष्यामि । वच इति प्रकृतं कर्म सम्बद्ध्यते । अन्ये त्वीदृग्वचनमाकर्ण्या- सम्भावितार्थमेतदित्यपहसन्ति, अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयो- रेकविध एवायमिति जानासि । अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः ।

भाषार्थ—मृगेन्द्रराज ! असफलप्रवास होने से मेरी यह बात अत्यन्त हास्या- स्पद है, जिसे मैं कहने जा रहा हूँ, तथापि आप प्राणियों के मनोगत सभी भावों को जानते हैं इसलिए मैं कहूँगा ॥ ४३ ॥

मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥

अन्वयः—स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः, सः मे मान्यः पुरस्तात् नश्यत् इदम् आहिताग्नेः गुरोः धनम् अपि अनुपेक्षणीयम् ।

मान्य इति । प्रत्यवहारः प्रलयः । स्थावराणां तरुशैलादीनां जङ्गमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलङ्घ्यशासन इत्यर्थः । शासनं च 'सिंहत्वमङ्कागतसत्त्ववृत्तिः (२।३८) इत्युक्त- रूपम् । तर्हि विसृज्य गम्यताम् । नेत्याह—गुरोरपीति । पुरस्तादग्रे नश्यदिद- माहिताग्नेर्गुरोधनमपि गोरूपमनुपेक्षणीयम् ! आहिताग्नेरिति विशेषणेनानुपेक्षा- कारणं हविः साधनत्वं सूचयति ।

भाषार्थ—वृक्ष पर्वत आदि स्थावर और मनुष्यादि जङ्गम के उत्पत्ति पालन और नाश करने वाले वे शिवजी मेरे पूजनीय हैं (किन्तु) अग्निहोत्री गुरु का सम्मुख नष्ट होता हुआ यह गौरूपी धन भी तो उपेक्षा न करने के लायक है ॥ ४४ ॥

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्त्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सां विसृज्यतां धेनुरियं महर्षेः ॥ ४५ ॥

अन्वयः—सः त्वं मदीयेन देहेन शरीरवृत्तिं जीवनं निर्वर्त्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सां महर्षेः इयं धेनुः विसृज्यताम् ।

स इति । सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्त्तयितुं सम्पादयितुं प्रसीद । दिनावसाने उत्सुको माता समागमिष्यतीत्यु- त्कण्ठितो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ।

भाषार्थ—वह तू मेरे शरीर से अपने शरीर के जीवन को सम्पादन करने लिए प्रसन्न हो । सन्ध्याके समय उत्कण्ठित छोटे बछड़े वाली महर्षि की इस नन्दिनी गौ को छोड़ दो ॥ ४५ ॥

अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥ ४६ ॥

६२रघुवंशमहाकाव्ये

अन्वयः—अथ गिरिर्गह्वराणाम् अन्धकारं दंष्ट्रामयूखैः शकलानि कुर्वन्(सन्) भूतेश्वरपार्श्ववर्ती सः किञ्चित् विहस्य, अर्थपति भूयः बभाषे ।

अथेति । अथ भूतेश्वरस्य पार्श्ववर्त्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम् । 'देवखातबिले गुहा गह्वरम्' इत्यमरः । अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन् । निरस्यन्नित्यर्थः । किञ्चिद्विहस्यार्थपतिं नृपं भूयो बभाषे । हास्यकारणम् 'अल्पस्य हेतोर्बहुहातुमिच्छन्' इति वक्ष्यमाणं द्रष्टव्यम् ।

भाषार्थ—इसके बाद दांतों की कान्ति से पर्वत की गुफाओं के अन्धकार को छिन्न करते हुए शिवजी के समीप रहनेवाले सिंह ने कुछ हँसकर राजा से फिर कहा ॥ ४६ ॥

एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचार मूढः प्रतिभासि मे त्वम् ॥ ४७ ॥

अन्वयः—एकातपत्रं जगतः प्रभुत्वं नवं वयः इदं कान्तं वपुः च इति एवं अल्पस्य हेतोः बहु हातुम् इच्छन् त्वं विचारमूढः मे प्रतिभासि ।

एकातपत्रमिति । एकातपत्रमेकच्छत्रं जगतः प्रभुत्वं स्वामित्वम् । नवं वयो यौवनम् । इदं कान्तं रम्यं वपुश्च । इत्येवं बहु अल्पस्य हेतोरल्पेन कारणेन, अल्पफलायेत्यर्थः । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकार्यविमर्शो मूढो मूर्खो मे मम प्रतिभासि ।

भाषार्थ—संसार का एक-छत्र आधिपत्य, नया यौवन और इस सुन्दर शरीर को थोड़े के लिए अधिक छोड़ने की इच्छा करनेवाले आप मुझे कर्त्तव्याकर्तव्य विचार में मूर्ख मालूम पड़ते हैं ॥ ४७ ॥

भूतानुकम्पाः तव चेदियं गौरैका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि ॥ ४८ ॥

अन्वयः—तव भूतानुकम्पा चेत् त्वदन्ते इयम् एका गौः स्वस्तिमती भवेत् । हे प्रजानाथ ? जीवन् पुनः पिता इव प्रजा उपप्लवेभ्यः शश्वत् पासि ।

भूतानुकम्पेति । तव भूतेष्वनुकम्पा कृपा चेत् । 'कृपा दयाऽनुकम्पा स्यात्' इत्यमरः । कृपैव वर्त्तते चेदित्यर्थः । तर्हि त्वदन्ते तव नाशे सतीयमेका गौः । स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती भवेत् । जीवेदित्यर्थः । 'स्वस्त्याशीः क्षेमपुण्यादौ' इत्यमरः । हे प्रजानाथ ! जीवन्पुनः पितेव प्रजा उपप्लवेभ्यः शश्वत्सदा । 'पुनः सदार्थयो. शश्वत्' इत्यमरः । पासि रक्षसि । स्वप्राणव्ययेनैकधेनुरक्षणोद्धारं जीवितेनैव शश्वदखिलजगतत्राणमित्यर्थः ।

भाषार्थ—यदि तुम्हारी प्राणियों पर दया है तो विचार करो कि तुम्हारे मरने

द्वितीयः सर्गः ६३

द्वितीयः सर्गः ६३

पर यह एक ही नन्दिनी गौ कुशलपूर्वक रहेगी । हे राजन् ! यदि तुम जीते रहोगे तो पिता के समान प्रजा की विघ्नों से सदा रक्षा करोगे ॥ ४८ ॥

अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥४९॥

**अन्वयः—**अथ एकधेनोः अपराधचण्डात् कृशानुप्रतिमात् गुरोः बिभेषि (किम्) ? अस्य मन्युः घटोध्नीः कोटिशः गाः स्पर्शयता विनेतुं शक्यः ।

अथेति । अथेति पक्षान्तरे । अथवा । एकैव धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम् । अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनाव् । 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः । अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद् गुरोर्बिभेषि । इति काकुः । 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । अल्पवित्तस्य धनहानिरतिदुःसहेति भावः । अस्य गुरोर्मन्युः क्रोधः 'मन्युर्दन्ये क्रतौ क्रुधि' इत्यमरः । घटा इवोधंसि यासां त घटोध्नीः । 'ऊधसोऽनङ्' इत्यनङादेशः । 'बहुव्रीहेरूहसो ङीष्' इति ङीष् । कोटिशो गाः स्पर्शयता प्रतिपादयता । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः । भवता विनेतुमपनतुं शक्यः ।

**भाषार्थ—**एक नन्दिनी गौ रखनेवाले, अपराध के कारण कुपित अग्नि के समान तेजस्वी गुरु से डरते हो तो करोड़ों कलशस्तनी गायों को देकर आप उनके क्रोध को शान्त कर सकते हैं ॥ ४९ ॥

तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ ५० ॥

**अन्वयः—**तत् कल्याणपरम्पराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहं रक्ष । हि ऋद्धं राज्यं महीतलस्पर्शनमात्रभिन्नम् ऐन्द्रं पदम् आहुः ।

तद्रक्षेति । तत्तस्मात्कारणात्कल्याणपरम्पराणां भोक्तारम् । कर्मणि षष्ठी । ऊर्जो बलमस्यास्तीत्यूर्जस्वलम् । 'ज्योत्स्नातमिस्रा' इत्यादिना वलच्प्रत्ययान्तो निपातः । आत्मदेहं रक्ष । ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याह—महीतलेति । ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसम्बन्धमात्रेण भिन्नमैन्द्रमिन्द्रसम्बन्धिपदं स्थानमाहुः स्वर्गान्नि भिद्यत इत्यर्थः ।

**भाषार्थ—**इसलिए उत्तरोत्तर सुखों के उपभोग करने वाले, बलिष्ठ अपने शरीर की रक्षा कीजिए; क्योंकि समृद्धिशाली राज्य को भूतल से सम्बन्ध होने के कारण ही दूसरा स्वर्ग कहते हैं ॥ ५० ॥

६४

रघुवंशमहाकाव्ये

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोञ्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तनेवार्थमभाषतेव ॥ ५१ ॥

अन्वयः—मृगेन्द्रे एतावत् उक्त्वा विरते ( सति ) गुहागतेन अस्य प्रतिस्वनेन शिलोच्चयः अपि प्रीत्या तम् एव अर्थं क्षितिपालम् उच्चैः अभाषत इव ।

एतावदिति । मृगेन्द्र एतावदुक्त्वा विरते सति गुहागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शैलोऽपि प्रीत्या तदेवार्थं क्षितिपालमुच्चैरभाषतेव इत्युत्प्रेक्षा । भाषिरयं ब्रूविसमानार्थकत्वाद द्विकर्मकः। ब्रूविस्तु द्विकर्मकेषु पठितः। तदुक्तम्—
"दुहियाचिरुधिप्रच्छिभिक्षिचिञ्प्रुपयोगनिमित्तमपूर्वविधौ । ब्रूविशासिगुणेन च यत्सचते तदकीर्त्तितमाचरितं कविना" इति ।

भाषार्थः—इतना कह कर सिंह के चुप हो जानेपर कन्दरा में उठी हुई प्रतिध्वनि से पर्वत ने भी प्यार से मानो उसी बात का जोर से समर्थन किया ।


निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ ५२ ॥

अन्वयः—देवानुचरस्य वाचं निशम्य तदध्यासितकातराक्ष्या धेन्वा निरीक्ष्यमाणः सुतरां दयालुः मनुष्यदेवः पुनः अपि उवाच ।

निशम्येति । देवानुचरस्येश्वरकिङ्करस्य सिंहस्य वाचं निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किम्भूतः सन् । तेन सिंहेन यदध्यासितं व्याकरणम् । नपुंसके भावे क्तः । तेन कातरे अक्षिणी तस्यास्तया । 'बहुव्रीहौ 'सक्थ्य०' इति षच् । 'षिद्गौरादिभ्यश्च' इति ङीष् । किंवा वक्ष्यतीति भीत्यैवं स्थितयेत्यर्थः । धेन्वा निरीक्ष्यमाणः । अत एव सुतरां दयालुः सन् । सुतरामित्यत्र 'द्विवचनविभज्योपपदे इत्यादिना सुशब्दात्तरप् । 'किमेत्तिङव्यय०' इत्यनेनाम्प्रत्यय । 'तद्धितश्चासर्व०' इत्यव्ययसंज्ञा ।

भाषार्थ—शिवजी के सेवक सिंह की बात सुनकर उसके द्वारा आक्रान्त होने से भयभीत आँखों वाली नन्दिनी गौ से देखे जाते हुए अतएव दयावान् राजा दिलीप ने फिर कहा ॥ ५२ ॥


किमुवाचेत्याह—

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ५३ ॥

अन्वयः—उदग्रः क्षत्रस्य शब्द 'क्षतात् त्रायते' इति भुवनेषु रूढः किल । तद्विपरीतवृत्तेः राज्येन किम् ? उपक्रोशमलीमसैः प्राणैः वा किम् ? ।

द्वितीयः सर्गः

द्वितीयः सर्गः ६५

क्षतादिति । 'क्षणु हिंसायाम्' इति धातोः सम्पदादित्वात्क्विप् । 'गमादीनाम्' इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम् । क्षतात् नाशात् त्रायत इति क्षत्रः । सुपीति योगविभागात्कः । तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति—क्षतादित्यादिना । उदग्र उन्नतः क्षत्रस्यवर्णस्य शब्दो वाचकः क्षत्रशब्द इत्यर्थः । क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः खलु । नाश्वकर्णादिवत्केवलरूढः, किन्तु पङ्कजादिवद्योगरूढ इत्यर्थः । ततः किमित्यत आह—तस्य क्षत्रशब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतत्राणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैर्निन्दामलिनैः । 'उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे' इत्यमरः । 'ज्योत्स्नातमिस्रा—' इत्यादिना मलीमसशब्दो निपातितः । 'मलीमसन् तु मलिनं कच्छरं मलदूषितम्' इत्यमरः । तैः प्राणैर्वा किम् । निन्दितस्य सर्वं व्यर्थमित्यर्थः । एतेन 'एकातपत्रम्' । इत्यादिना श्लोकद्वयेनोक्तं प्रयुक्तमिति वेदितव्यम् ।

**भाषार्थ—**उन्नत क्षत्रियवर्ण का वाचक शब्द 'नाश से जो बचावे वह क्षत्रिय है' इस व्युत्पत्ति से संसार में प्रसिद्ध है । उससे विपरीत आचरण वाले क्षत्रिय का राज्य से क्या प्रयोजन है ? अथवा लोकनिन्दा से मलिन हुए प्राणों से क्या लाभ है ? ॥ ५३ ॥

'अथैकधेनोः' (२-४९) इत्यत्रोत्तरमाह—

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् ।
इमामलूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ ५४ ॥

**अन्वयः—**महर्षेः अनुनयः च अन्यपयस्विनीनां विश्राणनात् कथं न शक्यः ? इमां सुरभेः अनूनाम् अवेहि । त्वयां तु अस्या रुद्रौजसा प्रहृतम् ।

कथमिति । अनुनयः क्रोधापनयः । चकारो वाकारार्थः । महर्षेरनुनयो वाऽन्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात् । 'त्यागो वितरणं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणम्' इत्यमरः । कथं नु शक्यः । न शक्य इत्यर्थः । अत्र हेतुमाह—इमां गां सुरभेः कामधेनोः । "पञ्चमी विभक्ते" इति पञ्चमी । अनूनामन्यूनामवेहि जानीहि । तर्हि कथमस्याः परिभवो भूयादित्याह—रुद्रौजसेति । त्वया कर्त्रा प्रहृतं तु प्रहारस्तु । नपुंसके भावे क्तः । रुद्रौजसेश्वरसामर्थ्येन न तु स्वयमित्यर्थः । 'सप्तम्यधिकरणे च' इति सप्तमी ।

**भाषार्थ—**और दूसरी दुधारू गायों के देने से महर्षि वसिष्ठ के क्रोध को किस प्रकार शान्त किया जा सकता है ? इस नन्दिनी को कामधेनु से कम न समझो ! तुमने तो इस पर शिवजी की सामर्थ्य से प्रहार किया है ॥ ५४ ॥

६६ रघुवंशमहाकाव्ये

तर्हि किं चिकीर्षितमित्याह—

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवतः ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियाऽर्थः ॥ ५५ ॥

अन्वयः—सा इयं मया स्वदेहार्पणनिष्क्रयेण भवतः मोचयितुं न्याय्या । एवं ( सति ) तव पारणा विहता न स्यात्, मुनेः क्रियार्थः अलुप्तः च भवेत् ।

सेयमिति । सेयं गौर्मया निष्क्रीयते प्रत्याह्रीयतेऽनेन परिगृहीतमिति निष्क्रयः प्रतिशीर्षकम् । एरच् इत्यच्प्रत्ययः । स्वदेहार्पणमेव निष्क्रयः तेन । भवतस्त्वत्तः । पञ्चम्यास्तसिल् । मोचयितु न्याय्या न्यायादनपेता । युक्तेत्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' इत्यनेन यत्प्रत्ययः । एवं सति तव पारणा भोजनं विहता न स्यात् । मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् । स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः ।

भाषार्थ—इस नन्दिनी गौ को अपना शरीर देकर भी आप से छुड़ाना उचित है । ऐसा करने पर न तो आपका व्रतान्त भोजन नष्ट होगा, न महर्षि वसिष्ठ की यज्ञादि क्रिया का साधन लुप्त होगा ॥ ५५ ॥

अत्र भवानेव प्रमाणमित्याह—

भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ ५६ ॥

अन्वयः—परवान् भवान् अपि इदम् अवैति । हि तव देवदारौ महान् यत्नः । रक्ष्यं विनाश्य स्वम् अक्षतेन नियोक्तुः अग्रे स्थातुं शक्यं न हि ।

भवानिति । परवान्स्वामिपरतन्त्रो भवानपि । 'परतन्त्रः पराधीनः परवाञ्छाथवानपि' इत्यमरः । इदं वक्ष्यमाणमवैति । भवताऽनुभूयत एवेत्यर्थः । 'शेषे प्रथमः' इति प्रथमपुरुषः । किमित्यत आह—हि यस्माद्धेतोः । 'हि हेतावधारणे' इत्यमरः । तव देवदारौ विषये महान् यत्नः महता यत्नेन रक्ष्यत इत्यर्थः । इदंशब्दोक्तमर्थं दर्शयति—स्थातुमिति । रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन । नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोऽग्रे स्थातुं शक्यं न हि ।

भाषार्थ—पराधीन होते हुए आप भी यह जानते हैं, क्योंकि आपका देवदारु के विषय में बहुत बड़ा प्रयत्न है । रक्षा करने के योग्य वस्तु को नष्ट करके स्वयं बिना घायल हुए शरीर से मालिक के आगे खड़ा होना नौकर को उचित नहीं ॥ ५६ ॥

द्वितीयः सर्गः ६७

सर्वथा चैतदप्रतिहार्यमित्याह— किमप्यहिंस्यस्तव चेन्मतोऽहं यशः शरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ ५७ ॥

अन्वयः— किम् अपि अहं तव अर्हिस्यः मतः चेत् ( तर्हि ) मे यशः शरीरे दयालुः भव । मद्विधानाम् एकान्तविध्वंसिषु भौतिकेषु पिण्डेषु अनास्था खलु ।

किमपीति । किमपि किं वाऽहं तवार्हिस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन्दयालुः कारुणिको भव । 'स्याद्दयालुः कारुणिकः' इत्यमरः । ननु मुख्यमुपे- क्ष्यामुख्यशरीरे कोऽभिनिवेशोऽत आह-एकान्तेति । मद्विधानां मादृशानां विवेकिना- मेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरे- ष्वनास्था खल्वनपेक्षैव । 'आस्था त्वाल्मम्बनास्थानयत्नपेक्षासु कथ्यते' इति विश्वः ।

भाषार्थ— यदि मैं तुम्हारे विचार से अवध्य हूँ तो मेरे यशोरूप शरीर पर दया करो । हमारे जैसे लोगों की अवश्य विनाश होने वाले पांच महाभूतों से बने भौतिक शरीर में अपेक्षा नहीं होती ॥ ५७ ॥

सौहार्दादहमनुसरणीयोऽस्मीत्याह— सम्बन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ सङ्गतयोर्वनान्ते । तद्भूतनाथानुग ! नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥

अन्वयः— संबन्धम् आभाषणपूर्वम् आहुः, सः वनान्ते सङ्गतयोः नौ वृत्त: । तद् हे भूतनाथानुग ! त्वं सम्बन्धिनः मे प्रणयं विहन्तुं न अर्हसि ।

सम्बन्धमिति । सम्बन्धं सख्यम् । आभाषणमालापः पूर्वं कारणं यस्य तमाहुः । 'स्यादाभाषणमालापः' इत्यमरः । स तादृक्सम्बन्धो वनान्ते सङ्गतयोर्नावावयोर्टत्तो जातः । तत्तयो हेतोर्हे भूतनाथानुग ! शिवानुचर ! एतेन तस्य महत्त्वं सूचयति । अत एव सम्बन्धिनो मित्रस्य मे प्रणयं याच्ञाम् । 'प्रणयास्त्वमी । विश्रम्भयाच्ना- प्रेमाणः' इत्यमरः । विहन्तुं नार्हसि ॥ ५८ ॥

भाषार्थ— मित्रता को बातचीत के द्वारा उत्पन्न कहते हैं । वह वनके बीच में मिले हुए हम दोनों की हो चुकी है । इसलिए हे शिवसेवक । तुम मेरे जैसे मित्र की प्रार्थना को उल्लंघन करने के योग्य नहीं हो ॥ ५८ ॥

तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । स न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ ५६ ॥

६८रघुवंशमहाकाव्ये

अन्वयः—'तथा' इति गां उक्तवते हरये सद्यः प्रतिस्तम्भविवुक्तबाहुः सः दिलीपः न्यस्तशस्त्रः स्वदेहम् आमिषस्य पिण्डम् इव उपानयत् ।

तथेतीति । तथेति गामुक्तवते हरये सिंहाय । 'कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः' इति शाश्वतः । सद्यस्तत्क्षणे प्रतिस्तम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य स दिलीपः । न्यस्तशस्त्रस्त्यक्तायुधः सन् । स्वदेहम् । आमिषस्य मांसस्य । 'पललं क्रव्यमामिषम्' इत्यमरः । पिण्डं कवलमिव । उपानयत्समर्पितवान् । एतेन निर्गतमत्वमुक्तम् ।

भाषार्थ—'अच्छा' इस वाणी को कहने वाले सिंह के लिए तत्काल मुक्त हाथ वाला अस्त्र छोड़कर उस दिलीप ने अपने शरीर को मांस के लोथ के समान अर्पण कर दिया ॥ ५९ ॥

तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६० ॥

**अन्वयः—**तस्मिन् क्षणे उग्रं सिंहनिपातं उत्पश्यतः अवाङ्मुखस्य प्रजानां पालयितुः उपरि विद्याधरहस्तमुक्ता पुष्पवृष्टिः पपात ।

तस्मिन्निति । तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत : उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्य 'स्यादवाङप्यधोमुखः' इत्यमरः । प्रजानां पालयितु राज्ञ उपर्युपरिष्टात् । 'उपर्युपरिष्टात्' इति निपातः । विद्याधराणां देवयोनिविशेषाणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ।

**भाषार्थ—**उसी समय क्रूर सिंह के झपटने की राह देखने वाले, नीचे मुँह किये प्रजाओं का पालन करने वाले राजा दिलीप के ऊपर विद्याधरों के हाथ से छूटी हुई पुष्प-वर्षा हुई ॥ ६० ॥

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्स्रविणीं न सिंहम् ॥ ६१ ॥

**अन्वयः—**राजा अमृतायमानम् उत्थितं 'हे वत्स ! उत्तिष्ठ' इति वचः निशम्य उत्थित, सन् अग्रतः प्रस्स्रविणीं गां स्वां जननीम् इव ददर्श सिंहं न ( ददर्श ) ।

उत्तिष्ठेति । राजा अमृतमिवाचरतीत्यमृतायमानं तत् 'उपमानादाचारे' इति क्यङ् । ततः शानच् । उत्थितमुत्पन्नं 'हे वत्स ! उत्तिष्ठ' इति वचो निशम्य श्रुत्वा । उत्थितः सन् । अस्तेः शतृप्रत्ययः । अग्रतोऽग्रे प्रस्स्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्स्रविणीं गां स्वां जननीमिव ददर्श सिंहं न ददर्श ।

द्वितीयः सर्गः ६१

भावार्थ— 'हे पुत्र ! उठो' ऐसा नन्दिनी के मुँह से निकले हुए अमृतमय वचन को सुनकर उठते ही राजा ने सामने टपकते हुए दूध वाली नन्दिनी गौ को अपनी माता के समान देखा, शेर को नहीं ॥ ६१ ॥

तं विस्मितं धेनुरुवाच साधो ! मायां मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ ६२ ॥

अन्वयः— विस्मितं तं धेनुः उवाच । हे साधो ! मया मायां उद्भाव्य परीक्षितः असि ऋषिप्रभावात् मयि अन्तकः अपि प्रहर्तुं न प्रभुः किमुत अन्यहिंस्रा ।

तमिति । विस्मितमाश्चर्यं गतम् । कर्त्तरि क्तः । तं दिलीपं धेनुरुवाच । किमित्यत्राह हे साधो ! मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि । ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुनं समर्थः अन्ये हिंस्रा घातुकाः । 'शरारुर्घातुको हिंस्रः' इत्यमरः । 'नमिकम्पि०' इत्यादिना रप्रत्ययः । किमुत सुष्ठु न प्रभव इति योज्यम् । 'वलवत्सुष्ठु किमुत स्वत्यतीव च निर्भर' इत्यमरः ।

भावार्थ— आश्चर्य में पड़े हुए राजा से नन्दिनी ने कहा हे—राजन् ! मैंने माया रचकर तेरी परीक्षा ली है । महर्षि वसिष्ठ के प्रताप से यमराज भी मुझ पर प्रहार करने में समर्थ नहीं है, फिर दूसरे हिंसकों की तो क्या ताकत ? ।

भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्रं ! वरं वृणीष्व ।
न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥ ६३ ॥

अन्वयः— हे पुत्र ! गुरौ भक्त्या मयि अनुकम्पया च ते प्रीता अस्मि, वरं वृणीष्व । मां केवलानां पयसां प्रसूतिं न अवेहि । किंतु प्रसन्नां कामदुघाम् (अवेहि)

भक्त्येति । हे पुत्र ! गुरौ भक्त्या मय्यनुकम्पया च ते तुभ्यं प्रीताऽस्मि । 'क्रियाग्रहणमपि कर्त्तव्यम्' इति चतुर्थी । वरं देवेभ्यो वरणीयमर्थम् । 'देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक् प्रिये' इत्यमरः । वृणीष्व स्वीकुरु । तथाहि—मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धि । किन्तु प्रसन्नां माम् । कामान्दोग्धीति कामदुधा तामवेहि । 'दुहः कप्घश्च' इति कप्प्रत्यः ।

भावार्थ— महर्षि वसिष्ठ में भक्ति और मेरे ऊपर दया करने से मैं तुम्हारे ऊपर प्रसन्न हूँ । पुत्र ! वर मांगो । मुझे निरी दूध देनेवाली गौ न समझो अपितु प्रसन्न हुई मुझे इच्छित फल देने वाली जानो ॥ ६३ ।

ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारमनन्तकीर्ति सुदक्षिणायां तनयं ययाचे ॥ ६४ ॥

७० | रघुवंशमहाकाव्ये

अन्वयः—ततः मानितार्थी स्वहस्तस्तार्जितवीरशब्दः सः हस्तौ समानीय वंशस्य कर्तारम् अनन्तकीर्ति सुदक्षिणायां तनयं ययाचे ।

तत इति । ततो मानितार्थी । स्वहस्तार्जितो वीर इति शब्दो येन एतेनास्य दातृत्वं दैन्यरहित्यं चोक्तम् । स राजा हस्तौ समानीय संघाय । अञ्जलि बद्ध्वेत्यर्थः । वंशस्य कर्तारं प्रवर्त्तयितारम् । अत एव रघुकुलमिति प्रसिद्धिः । अनन्तकीर्ति स्थिरयशसं तनयं सुदक्षिणायां ययाचे ।

भाषार्थ—तब अतिथियों को सम्मानित करने वाले अपने बाहुबल से अर्जित किये हुए 'वीर' शब्द वाले राजा दिलीप ने सुदक्षिणा में वंश को चलानेवाले, स्थिर यशस्वी पुत्र होने की याचना की ॥ ६४ ॥


सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥ ६५ ॥

अन्वयः—सा पयस्विनी सन्तानकामाय राज्ञे तथा इति कामं प्रतिश्रुत्य 'हे पुत्र ! मदीयं पयः पत्रपुटे दुग्ध्वा उपभुङ्क्ष्व' इति तम् आदिदेश ।

सन्तानेति । पयस्विनी गोः । सन्तानं कामयत इति सन्तानकामः । 'कर्मण्यण्' । तस्मै राज्ञे तथेति काम्यत इति कामो वरः । कर्मार्थे घञ्प्रत्ययः । तं प्रतिश्रुत्य प्रतिज्ञाय 'हे पुत्र ! मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व' । 'उपयुङ्क्ष्व' इति वा पाठः । 'पिब' इति तमादिदेश ज्ञापितवती ।

भाषार्थ—उस नन्दिनी गौ ने पुत्र चाहने वाले राजा दिलीप से 'वैसा ही होगा' इस वरदान की प्रतिज्ञा करके 'हे पुत्र ! मेरे दूध को पत्ते के दोने में दुहकर पी जाओ' ऐसी उनको आज्ञा दी ॥ ६५ ॥


वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मात: ! ।
औधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥ ६६ ॥

अन्वयः—हे मात: वत्सस्य च होमार्थविधेः शेषम् तव औधस्यं रक्षितायाः षष्ठांशभागम् इव ऋषेः अनुज्ञाम् अधिगम्य उपभोक्तुम् इच्छामि ।

वत्सस्येति । हे मात: ! वत्सस्य वत्सपीतस्य शेषम्, वत्सपीतावशिष्टमित्यर्थः। होम एवार्थः, तस्य विधिरनुष्ठानम्, तस्य च शेषम् । होमावशिष्टमित्यर्थः । तव ऊधसि भवमौधस्यं क्षीरम् । 'शरीरावयवाच्च' इति यत्प्रत्ययः । रक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव । ऋषेरनुज्ञामधिगम्य उपभोक्तुमिच्छामि ।

भाषार्थ—हे माता ! बछड़े के पीने से और होम करने से बचे हुए तुम्हारे

द्वितीयः सर्गः

द्वितीयः सर्गः ७१

तुम्हारे दूध को ऋषि वसिष्ठ की आज्ञा पाकर पालन की गई पृथ्वी के छठे हिस्से के समान पीना चाहता हूँ ॥ ६६ ॥

इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६७ ॥

अन्वयः—क्षितीशेन इत्थं विज्ञापिता वसिष्ठधेनुः प्रीततरा बभूव । तदन्विता वसिष्ठधेनुः हैमवतात् कुक्षेः सकाशात् अश्रमेण आश्रमं प्रत्याययौ च ।

इत्थमिति । इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुः प्रीततरा पूर्वं शुश्रूषया प्रीता सम्प्रत्यनया विज्ञापना प्रीतिराजतिसन्तुष्टा बभूव । तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्सम्बन्धिनः कुक्षेर्गुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ।

भाषार्थ—इस तरह राजा दिलीप की प्रार्थना से महर्षि वसिष्ठ की गौ नन्दिनी बहुत प्रसन्न हुई । और राजा के साथ हिमालय की गुफा से विना परिश्रम के आश्रम के प्रति लोटी ॥ ६७ ॥

तस्या प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥ ६८ ॥

अन्वयः—प्रसन्नेन्दुमुखः नृपाणां गुरुः प्रहर्षचिह्नानुमितं तस्याः प्रसादं पुनरुक्तया वाचा इव गुरवे निवेद्य प्रियायै शशंस ।

तस्या इति । प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमूर्हितं तस्या धेनोः प्रसादम नुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तमेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति । किन्तु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेत्युत्प्रेक्षा ।

भाषार्थ—निर्मल चन्द्रमा के समान मुख वाले, राजाओं में श्रेष्ठ दिलीप ने हर्ष के चिह्नों से अनुमित होने वाले नन्दिनी के वरदानरूपी अनुग्रह की दुबारा कही हुई के समान वाणी द्वारा गुरु से निवेदन कर रानी से कहा ॥ ६८ ॥

स नन्दिनीस्तन्यमनिन्दितात्मा सद्द्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातिसृष्णः ॥ ६६ ॥

अन्वयः—अनिन्दितात्मा सद्दत्सलः वसिष्ठेन कृताभ्यनुज्ञः सः (सन्) वत्सहुतावशेषं नन्दिनीस्तन्यं शुभ्रं मूर्तं इव अतितृष्णः पपौ ॥ ६९ ॥

स इति । अनिन्दितात्माऽगर्हितस्वभावः । सत्सु वत्सलः प्रेमवान्सद्वत्सलः ।

७२ रघुवंशमहाकाव्ये

'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजावतंस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरं शुभ्रं परिच्छिन्नं यश इव, अतितृष्णः सन् पपौ ।

**भावार्थ—**प्रशंसनीय स्वभाव वाले, सज्जनों पर दयालु, महर्षि वसिष्ठ की आज्ञा पालन कर राजा दिलीप ने अतितृषित हो बछड़े के पीने और हवन से बचे हुए नन्दिनी के दूध को उज्ज्वल मूर्तिमान् यश के समान पिया ॥ ६९ ॥

प्रातर्यथोक्तव्रतपारणाऽन्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥ ७० ॥

**अन्वयः—**वशी वसिष्ठः यथोक्तव्रतपारणाम्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य तौ दम्पती स्वां राजधानीं प्रति प्रस्थापयामास ।

प्रातरिति । वशी वसिष्ठः प्रातः यथोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवं तत्कालोचितमित्यर्थः । 'कालाट्ठञ्' इति ठञ्प्रत्ययः । 'यथा कथञ्चिद् गुणवृत्त्याऽपि काले वर्त्तमानत्वात् प्रत्यय इष्यते' इति वृत्तिकारः । ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशी- र्वादं प्रयुज्य तौ दम्पती स्वां राजधानीं प्रस्थापयामास ।

**भावार्थ—**प्रातः काल जितेन्द्रिय महर्षि वसिष्ठ ने विधिपूर्वक गोसेवा रूपी व्रत की पारणा करने के बाद यात्रा के समय समुचित स्वस्तिवाचन कर, उन दोनों राजा-रानी को उनकी राजधानी की ओर भेजा ॥ ७० ॥

प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे स मङ्गलोदग्रतरप्रभावः ॥ ७१ ॥

**अन्वयः—**नृपः हुतं हुताशं च भर्तुः अनन्तरम् अरुन्धतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य सन्मङ्गलोदग्रतरप्रभावः (सन्) प्रतस्थे ।

प्रदक्षिणीकृत्येति । नृपो हुतं तर्पितं, हुतमश्नातीति हुताशोऽग्निः । 'कर्मण्यण्' । तं भर्त्तुमुनेरनन्तरम् प्रदक्षिणामन्तरमित्यर्थः । अरुन्धतीं च सवत्सां धेनुं च प्रदक्षि- णीकृत्य प्रागतो दक्षिणम् । 'तिष्ठद्गुप्रभृतीनि च' इत्यव्ययीभावः । ततश्च्चिः । अप्रदक्षिणं प्रदक्षिणं सम्पद्यमानं कृत्वा प्रदक्षिणीकृत्य सद्भिर्मङ्गलाचारैरुदग्रतर- प्रभावः सन् प्रतस्थे ।

**भावार्थ—**राजा दिलीप ने प्रज्वलित अग्नि और मुनि की प्रदक्षिणा के बाद अरुन्धती और बछड़े के साथ नन्दिनी की प्रदक्षिणा करके अच्छे मङ्गलाचारों से प्रवर्धित प्रताप वाला होते हुए प्रस्थान किया ॥ ७१ ॥

द्वितीयः सर्गः ७३

श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥

अन्वयः—धर्मपत्नीसहितः सहिष्णुः सः श्रोत्राभिरामध्वनिना अनुद्घातसुखेन रथेन स्वेन पूर्णेन मनोरथेन इव मार्गं ययौ ।

श्रोत्रेति । धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामं ध्वनिना कर्णाल्हादकरस्वनेनानुद्घातः । पाषाणादिप्रतिघातरहितः । अत एव सुखयतीति सुखः, तेन रथेन स्वेन पूर्णेन सफलेन मनोरथेनैव मार्गमध्वानं ययौ । मनोरथपक्षे-ध्वनिः श्रुतिः ! अनुद्घातः प्रतिबन्धकनिवृत्तिः ।

भावार्थ—रानी सुदक्षिणा के साथ-साथ व्रतादि दुःखों को सहन करने वाले उस राजा ने कर्णसुखद-ध्वनि-युक्त, मार्ग के झटकों से रहित रथ से प्रतिबन्धरहित अतएव सुखप्रद सफल मनोरथ के समान मार्ग को तय किया ॥ ७२ ॥

तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजाऽर्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवोषधीनाम् ॥ ७३ ॥

अन्वयः—अदर्शनेन आहितौत्सुक्यं प्रजार्थव्रतकर्शिताङ्गं प्रजाः तृप्तिम् अनाप्नुवद्भिः नेत्रैः नवोदयम् ओषधीनां नाथम् इव पपुः ।

तमिति । अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्य जनितदर्शनोत्कण्ठयम् । प्रजार्थेन सन्तानार्थेन व्रतेन नियमेन कशितं कृशीकृतमङ्गं यस्य तम् । नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः । ओषधीनां नाथं सोममिव तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः । चन्द्रपक्षे—अदर्शनं कलाक्षयनिमित्तं प्रजाऽर्थं लोकहितार्थं व्रतं देवताभ्यः कलादाननियमः “तं च सोमं पपुर्देवा पर्ययेणानुपूूर्वंशः” इति व्यासः । उदय आविर्भावः । अन्यत्समानम् ।

भावार्थ—(वसिष्ठाश्रम में रहने के कारण) न दिखाई पड़ने के कारण उत्कण्ठा उत्पन्न कर देने वाले, पुत्रार्थव्रत करने से कृश शरीर वाले, उस राजा को प्रजा ने दूज के चाँद की तरह अतृप्त नेत्रों से देखा ॥ ७३ ॥

पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ ७४ ॥

अन्वयः—पुरन्दरश्री सः पौरैः अभिनन्द्यमानः उत्पताकं पुरं प्रविश्य भुजगेन्द्र समानसारे भुजे भूयः भूमेः धुरम् आससञ्ज ।

पुरन्दरेति । पुरः पुरीरसुराणां दारयतीति पुरन्दरः शक्रः । 'पूःसर्वयोर्दारिसहोः' इति खप्रप्रत्ययः । 'वाचंयमपुरन्दरौ च' मुमागमो निपातितः । तस्त श्रीरिव श्री-

७४ रघुवंशमहाकाव्ये

र्यस्य स नृपः पौरैरभिनन्द्यमानः । उत्पताकमुच्छ्रितध्वजम् । ‘पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम्' इत्यमरः । पुर प्रविश्य भुजङ्गेन्द्रेण समानसारे तुल्य बले । 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । भुजे भूयो भूमेर्धुरमासमञ्ज स्यङ्कितवान् ।

**भाषार्थ—**इन्द्रतुल्यकान्तिवाले उस राजा ने नागरिकों द्वारा अभिनन्दित होकर शेषनाग तुल्य बलवाली भुजाओं पर पुनः पृथ्वी का भार उठा लिया ॥ ७४ ॥

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निborderनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ७५ ॥

**अन्वयः—**अथ द्यौः अत्रेः नयनसमुत्थं ज्योतिः इव सुरसरित् वह्निनिष्ठ्यूतम् ऐशं तेज इव, राज्ञी नरपतिकुलभूत्यै गुरुभिः लोकपालानुभावैः अभिनिविष्टं गर्भम् आधत्त ।

अथेति । अथ द्यौः सुरवर्त्म । ‘द्योः स्वर्गमुरवर्त्मनोः' इति विश्वः । अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । ज्योतिरिव चन्द्रमिवेत्यर्थः । ‘ऋक्षेशः स्यादत्रिनेत्रप्रसूतः' इति हलायुधः । चन्द्रस्यात्रि नेत्रोद्भूतत्वमुक्तं हरिवंशे—“नेत्राभ्यां वारि सुस्राव दशधा द्योतयदिदशः । तद्गर्भविधिना दृष्ट्वा दिशो देव्यो दधुस्तदा ॥ समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभावितः । पपात भासयंल्लोकञ्छिह्नितांशुः सर्वभावनः” । इति सुरसरिद् गङ्गा वह्निना निष्ठ्यूतं निक्षिप्तं ‘च्छ्वोः शूडनुनासिके च’ इत्यनेन निपूर्वात् ष्ठीवतेर्वकारस्य ऊठ् । ‘नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः’ इत्यमरः । ऐशं तेजः स्कन्दमिव । अत्र रामायणम्—“ते गत्वा पर्वतं राम ! कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः । देवकार्यमिदं देव ! समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ! देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि ! देवतानामिदं प्रियम् । इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । सा तस्या महिमां दृष्ट्वा समन्तादवकीर्य च । समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन !” इति । राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टं गर्भमाधत्त दधावित्यर्थः । अत्र मनुः—“अष्टानां लोकपालानां वपुर्धारयते नृपः” इति । आधत्त इत्यनेन स्वीकर्तुंक-

तृतीयः सर्गः

तृतीयः सर्गः ७५

धारणमात्रमुच्यते । तथा मन्त्रे च दृश्यते "यथेयं पृथिवी मह्युत्ताना गर्भमादधे । एवं त्वं गर्भमाधेहि दशमे मासि सूतवे" । इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्या- पारधारण आधानशब्दप्रयोगदर्शनादिति । मालिनीवृत्तमेतत् । तदुक्तम् - 'ननमय- ययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् । इति संजीवनीव्याख्यायां नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः । भाषार्थ - इसके बाद आकाश के द्वारा चन्द्रमा की तरह, गङ्गा के द्वारा शिव के फेंके हुए तेज (वीर्य) की तरह, रानी सुदक्षिणा ने रघुवंश की वृद्धि के लिये लोकपालों के तेज से गर्भ को धारण किया ॥ ७५ ॥ त्रिपाठयुपाह्व पं० श्रीकृष्णमणिकृत चन्द्रकला टीका में द्वितीय सर्ग समाप्त ।

⁂ ⁂ ⁂

तृतीयः सर्गः

'राज्ञी सुदक्षिणा गर्भमाधत्त' (२-७५) इत्युक्तम् । सम्प्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति—

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हदलक्षणं दधौ ॥ १ ॥

अन्वयः — अथ सुदक्षिणा उपस्थितोदयं भर्तुः ईप्सितं सखीजनोद्वीक्षणकौमुदीमुखं इक्ष्वाकुकुलस्य सन्ततेः निदानं दोर्हदलक्षणं दधौ ।

उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
भावोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादरिनः स पायात् ॥

अथेति । अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम् । भावे क्तः । पुनः सखीजनस्योद्वीक्षणानां दृष्टानां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् । यद्वा कौमुदी नाम दीपोत्सवतिथिः । तदुक्तं भविष्योत्तरे — "कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति । तस्या मुखं प्रारम्भम् । 'सखीजनोद्वीक्षणकौमुदी' इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम् । 'निदानं त्वादिकारणम्' इत्यमरः । एवंविधं दोर्हदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ । स्वहृदयेन गर्भहृदयेन द्विहृदया गर्भिणी । यथाऽह वाग्भटः — "मातृजमस्य हृदयं मातुश्च हृदयेन तत् । सम्बद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्" । इति । तत्सम्बन्धित्वाद् गर्भो दोर्हदमित्युच्यते । सा च तद्योगाद्दोर्हदिनीति । तदुक्तं संग्रहे — 'द्विहृदयां नारीं दोर्हदिनी

७६ रघुवंशमहाकाव्ये

माचक्षते' इति। अत्र दोहद लक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन 'च निरूपणाद् रूपकालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्—"जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात्।

भावार्थ—इसके बाद सुदक्षिणाने प्रकटित लक्षणों वाले, स्वामी के अभीष्ट, सखियों के नेत्रों के आह्लादक, इक्ष्वाकुवंश की सन्तति के कारण भूत गर्भ के चिह्नों को धारण किया ॥ १ ॥

सम्प्रति क्षामताऽख्यं गर्भलक्षणं वर्णयति—

शरीरसादादसमग्रभूषणं मुखेन साऽलक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ २ ॥

अन्वयः—शरीरसादात् असमग्रभूषणा लोध्रपाण्डुना मुखेन ( उपलक्षिता ) सा, तनुप्रकाशेन शशिना ( उपलक्षता ) प्रभातकल्पा शर्वरी इव अलक्ष्यत् ।

शरीरेति । शरीरस्य सादात्कार्श्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पेणैव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। 'तसिलादिष्वाकृत्वसुचः' इति प्रभातशब्दस्य पुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः—"क्षमता गरिमा कुक्षेर्मूर्च्छा छदिररोचकम्। जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" ॥ इति ॥

भावार्थ—शरीर की कृशता के कारण अल्प भूषणोंवाली, लोध के फूल की तरह पीले मुख वाली वह (सुदक्षिणा) विरल नक्षत्रों वाली तथा अल्प कान्ति युक्त चन्द्रमा से उपलक्षित, प्रातःकाल के समीप वाली रात्रि के समान दिखाई पड़ने लगी ॥ २ ॥

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ ३ ॥

अन्वयः—क्षितीश्वरः रहसि मृत्सुरभि तदाननम् उपघ्राय, शुचिव्यपाये पयोमुचां पृषतैः सिक्तं वनराजिपल्वलम्(उपाघ्राय) करी इव तृप्ति न आययौ ।

तदिति । क्षितीश्वरो रहसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्ति नांययौ। कः कमिव। शुचिव्यपाये ग्रीष्मावसाने। शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि' इति विश्वः। पयोमुचां मेघानां पृषतैर्बिन्दुभिः। 'पृषन्ति बिन्दुपृषताः'