भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पञ्चदशः सर्गः ५२५

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः ॥ ८९ ॥

अन्वयः—स अभिषेकार्हौ तक्षपुष्कलौ पुत्रौ तदाख्ययोः राजधान्योः अभिषिच्य पुनः रामान्तिकम् अगात् ।

स इति । स भरतः अभिषेकार्हौ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः तक्षपुष्कलाख्ययोरित्यर्थः । पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ।

भाषार्थ—भरत ने तक्षक और पुष्कल नामक अपने पुत्रों को उनके नाम से प्रसिद्ध तक्षशिला और पुष्कलावती नाम की दो राजधानियों को बनाया उनमें क्रमसे अभिषिक्त करके पुनः राम के पास लौट आये ॥ ८९ ॥


अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसम्भवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥ ९० ॥

अन्वयः—लक्ष्मणः अपि रघुनाथस्य शासनात् अङ्गदं चित्रकेतुं च आत्मसम्भवौ कारापथेश्वरौ चक्रे ।

अङ्गदमिति । लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसम्भवौ पुत्रौ कारापथो नाम देशः तस्येश्वरौ चक्रे ।

भाषार्थ—रामकी आज्ञा से लक्ष्मण ने अंगद और चित्रकेतु नाम के अपने पुत्रों को कारापथ का राजा बना दिया ॥ ९० ॥


इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥ ९१ ॥

अन्वयः—इति आरोपितपुत्राः ते जनेश्वरा भर्तृलोकप्रपन्नानां जननीनां क्रमात् निवापान् विदधुः ।

इतीति । इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्गतानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः । 'पितृदानं निवापः स्यात्' इत्यमरः ।

भाषार्थ—इस प्रकार पुत्रों को राज्य देकर उन चारों ने अपनी स्वर्गीया माताओं के श्राद्ध आदि संस्कार किए ॥ ९१ ॥


उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहः संवादिनौ पश्येदावां यस्तं त्यजेरिति ॥ ९२ ॥

५२६ रघुवंशमहाकाव्ये

अन्वयः—अथ कालः मुनिवेषः (सन्) उपेत्य राघवं प्रोवाच रहःसंवादिनौ आवां यः पश्येत् तं (त्वं) त्यजेः इति।

उपेत्येति। अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह—रहस्येकान्ते संवादिनौ संभाषिणावावां यः पश्येत्। रहस्यभङ्गं कुर्यादित्यर्थः। तं त्यजेरिति।

भाषार्थ—यह सब हो जाने पर एक दिन राम के पास मुनि का वेश बना-कर काल आया और बोला—मैं आपसे एकान्त में कुछ बातें करना चाहता हूँ हम लोगोंकी बातके बीच में जो भी कोई आ जाय उसे आप त्याग दीजिएगा ॥९२॥

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः।
आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥ ९३ ॥

अन्वयः—सः तथा इति प्रतिपन्नाय नृपाय विवृतात्मा (सन्) परमेष्ठिनः शासनात् दिवम् अध्यास्व (इति) आचख्यौ।

तथेति। स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन् परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ।

भाषार्थ—राम ने कहा 'अच्छी बात है' तब उसने अपना सच्चा रूप दिखाया और कहा कि ब्रह्मा जी की आज्ञा है कि अब आप चलकर वैकुण्ठ में रहें ॥९३॥

विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत्।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः ॥ ९४ ॥

अन्वयः—द्वाःस्थः लक्ष्मणः विद्वान् अपि रामसन्दर्शनार्थिनः दुर्वाससः शापात् भीतः (सन्) तयोः समयं अभिनत्।

विद्वानिति। द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसन्दर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन् तयोः कालरामयोः समयं संवादमभिनत् बिभेद।

भाषार्थ—यह बात हो ही रही थी कि दुर्वासा ऋषि आ धमके उन्होंने द्वार-पर बैठे हुए लक्ष्मण से कहा कि अभी जाकर राम से कहो 'मैं आया हूँ' नहीं तो तुम्हारे कुल को अभी शाप दे भस्म कर दूँगा। लक्ष्मण ने जानते हुए भी ऋषि के शाप से डरकर जाकर सूचना दे दी ॥९४॥

स गत्वा सरयूतीरं देहत्यागेन योगवित्।
चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ ९५ ॥

पञ्चदशः सर्गः ५२७

पञ्चदशः सर्गः ५२७

**अन्वयः—**योगवित् स सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनः भ्रातुः प्रतिज्ञां वितथां चकार ।

स इति । योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ।

**भाषार्थ—**वहाँ से लौटकर योगमार्ग के जानने वाले लक्ष्मण ने सरयू के किनारे जाकर योग बल से अपने शरीर को छोड़कर अपने बड़े भाई राम की प्रतिज्ञा की रक्षा कर ली ॥ ९५ ॥

तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥ ९६ ॥

**अन्वयः—**आत्मचतुर्भागे तस्मिन् प्राङ्नाकमधितस्थुषि राघवः भुवि त्रिपाद् धर्म इव शिथिलं तस्थौ ।

तस्मिन्निति । चतुर्थो भागश्चतुर्भागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत् । आत्मचतुर्भागे तस्मिल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः भुवि त्रिपाद्धर्म इव शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः । त्रेतायां धर्मस्त्रिपादित्याहुः । पादश्चतुर्थांशः अंघ्रिश्च ध्वन्यते । ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः । त्रयः पादा यस्यासौ त्रिपात् । “संख्यासुपूर्वस्य” इत्यकारलोपः । समासान्तः ।

**भाषार्थ—**अपने चतुर्थांश लक्ष्मण के स्वर्ग चले जाने पर राम उसी प्रकार शिथिल पड़ गये जिस प्रकार पृथ्वी पर त्रेतायुग में तीन पैर वाला धर्म शिथिल पड़ जाता है ॥ ९६ ॥

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ ९७ ॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद् गृहवर्जमयोध्यया ॥ ९८ ॥

अन्वयः—( स्थिरधीः ) सः रिपुनागाङ्कुशं कुशं कुशावत्यां निवेश्य सूक्तैः सतां जनिताश्रुलवं लवं शरावत्यां निवेश्य ।

**अन्वयः—**स्थिरधीः सानुजः अग्निपुरःसरः ( सन् ) पतिवात्सल्यात् गृहवर्जम् अयोध्शया अन्वित उदक् प्रतस्थे ।

स इति । उदगिति च । युग्मम् । स्थिरधीः स रामः रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा सूक्तैः

५२८ रघु वंशमहाकाव्ये

समीचीनवचनैः सतां जनिता अश्रुलवाः अश्रुलेशा । येन तं लवं लवाख्यं पुत्रम् । ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः । शरावत्यां पुर्याम् । “शरादीनां च” इति शरकुशशब्दयोदीर्घः । निवेश्य सानुजोऽग्निपुरःसरः सन् पत्यौ भर्तरि वात्सल्यादनुरागात् गृहान्वर्जयित्वा गृहवर्जम् । “द्वितीयायां च” इति णमुल् । अयं क्वचिदपरीप्सायामपीष्यते । “अनुदात्तं पदमेकवर्जम्” इत्येकाचः शेषतया व्याख्यातत्वात् । परीप्सा त्वरा । अयोध्यायाऽन्वितोनुगत उदक्प्रतस्थे ।

भाषार्थ— स्थिर बुद्धि वाले राम ने शत्रुरूपी हाथियों के लिए अंकुश के समान भय कारक कुश को कुशावती का राज्य दे दिया और अपने मधुर वचनों से सज्जनों के नेत्रों में आंसू बहाने वाले लव को शरावती का राजा बनाया ॥९७॥

भाषार्थ— फिर अग्निहोत्र की आग को आगे करके भाइयों के साथ राम उत्तरायण की ओर चले, जब अयोध्यावासियों ने सुना तब वे भी सब राम के प्रेम के वश अपने-अपने घरों को छोड़कर उनके साथ हो लिए ॥ ९८ ॥

जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥ ९९ ॥

अन्वयः— चित्तज्ञाः हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिः अभिवृष्टां तस्य पदवीं जगृहुः ।

व्याख्या— जगृहुरिति । चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिष्टां तस्य रामस्य पदवीं मार्गं जगृहुः । तेऽप्यनुजग्मुरित्यर्थः ।

भाषार्थ— राम के मनकी बात जानने वाले बानर और राक्षस भी उनके पीछे चले । जिस मार्ग से राम चले जा रहे थे वह मार्ग राम के पीछे चलने वाली प्रजाओं के आंसुओं से गीला हो गया था ॥ ९९ ॥

उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिश्श्रेणिः सरयूरनुयायिनाम् ॥ १०० ॥

अन्वयः— उपस्थितविमानेन भक्तानुकम्पिना तेन अनुयायिनां सरयूः त्रिदिवनिश्श्रेणिः चक्रे ।

व्याख्या— उपस्थितेति । उपस्थितं प्राप्तं विमानं यस्य तेन । भक्ताननुकम्पत इति भक्तानुकम्पिना तेन रामेणानुयायिनां सरयूस्त्रिदिवनिश्श्रेणिः स्वर्गाधिरोहिणी चक्रे । ‘निश्श्रेणिस्त्वधिरोहिणी’ इत्यमरः ।

भाषार्थ— भक्तवत्सल राम विमान पर चढ़कर स्वर्ग चले गये और सरयू को

पञ्चदशः सर्गः ५२९

उन्होंने अपने पीछे चलने वाले के लिए स्वर्ग की सीढ़ी बना दिया । अर्थात् जो सरयू में स्नान करता था वह तत्काल स्वर्ग चला जाता था ॥ १०० ॥

यद्गोप्रतरकल्पोऽभूत्सम्मर्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ १०१ ॥

अन्वयः—यत् तत्र मज्जतां सम्मर्दः गोप्रतरकल्पः अभूत् अतः तदाख्यया पावनं तीर्थं भुवि पप्रथे ।

यदिति । यद्यस्मात्तत्र सरय्वां मज्जतां सम्मर्दः गोप्रतरो गोप्रतरणं तत्कल्पोऽभूत् । अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ।

भाषार्थ—वहाँ स्नान कराने वालों की वैसी ही भीड़ हुई जैसी गौवों को पार कराते समय होती है । इसलिए उस पवित्र तीर्थ का नाम ही संसार में गोप्रतर प्रसिद्ध हो गया ॥ १०१ ॥

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् ॥ १०२ ॥

अन्वयः—विभुः स विबुधांशेषु प्रतिपन्नात्ममूर्तिषु त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ।

स इति । विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूता देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ।

भाषार्थ—देवताओं के अंशधारी भालू और वानरों ने भी अपना देवरूप धारण कर लिया । इसलिए उतने लोग स्वर्ग में पहुँच गये कि सामर्थ्यशाली राम को देवपद प्राप्त करनेवाले अयोध्यावासियों के रहने के लिए एक दूसरा स्वर्ग बनाना पड़ा ॥ १०२ ॥

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां
विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा
कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥ १०३ ॥

अन्वयः—विष्वक्सेनः एवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य लङ्कानाथं पवनतनयं च उभयं कीर्तिस्तम्भद्वयम् इव दक्षिणे उत्तरे च गिरौ स्थापयित्वा सर्वलोकप्रतिष्ठां स्वतनूम् अविशत् ।

निर्वर्त्येति । विष्वदसेनो विष्णुरेवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य

३४ र० सम्पूं०

५३० रघुवंशमहाकाव्ये

निष्पाद्य लङ्कानाथं विभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ।

भाषार्थ— इस प्रकार भगवान् विष्णु ने रावण का वध करके देवताओं का कार्य पूरा किया और उत्तर गिरि हिमालय पर हनुमान् जी को और दक्षिण पर्वत त्रिकूट पर्वत पर विभीषण को अपने दो कीर्ति स्तम्भों के रूप में स्थापित करके समस्त संसार के आश्रयभूत अपने विराट् शरीर में लीन हो गये ॥१०३॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ॥ १५ ॥


षोडशः सर्गः

वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दविन्दुः ।
तवारविन्दाक्ष ! पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥

अथेतेरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १ ॥

अन्वयः— अथ इतरे सप्त रघुप्रवीराः पुरोजन्मतया गुणैः च ज्येष्ठं कुशं रत्नविशेषभाजं चक्रुः, हि सौभ्रात्रम् एषां कुलानुसारि ( आसीत् ) ।

अथेति । अथ रामनिर्वाणानन्तरमितरे लवादयः सप्त रघुप्रवीराः पुरः पूर्वं जन्म यस्य तस्य भावस्तत्ता तया गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः । तदुक्तम्—'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । तथा हि सुभ्रातॄणां भावः सौभ्रात्रम् । "हायनान्तयुवादिभ्योऽण्" इत्यनेन युवादि-त्वाद्णप्रत्ययः । एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ।

भाषार्थ— इसके बाद रघुवंशियों में श्रेष्ठ दूसरे लव, तक्ष, पुष्कल, सुवाहु, सुकृत, अङ्गद और चित्रकेतु इन सात वीरों ने अपने सर्वश्रेष्ठ भाई कुश को अपना प्रधान मानकर उत्तमोत्तम रत्न दिये, क्योंकि भ्रातृप्रेम तो उनके कुल का क्रमागत धर्म ही था ॥ १ ॥

षोडशः सर्गः ५३१

ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ २ ॥

अन्वयः—सेतुवार्तागजबन्धमुख्यैः अवन्ध्यैः कर्मभिः अभ्युच्छ्रिताः ते अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ।

त इति । सेतुर्जलबन्धः वार्ता कृषिगोरक्षणादिः । ‘वार्ता कृष्याद्युदन्तयोः’ इति विश्वः । गजबन्ध आकरभ्यो गजग्रहणं ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः अतिसमर्था अपीत्यर्थः । ते कुशादयः प्रविभज्यन्त इति प्रविभागाः अन्योन्यदेशप्रविभागानां या सीमा तां वेलां समुद्रा इव न व्यतीयुर्नातिचक्रमुः । अत्र कामन्दकः-“कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरधनादानं शून्यानां च निवेशनम् । अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत् ।” इति ।

भाषार्थ—वे सभी नदी आदि में पुल बँधवाना कृषि गोरक्षा आदि करना और हाथियों को ग्रहण करना आदि कार्यों में बड़े कुशल थे, फिर भी जिस प्रकार समुद्र अपने तट का उल्लंघन नहीं करता उसी प्रकार उनमें से किसी ने अपने राज्य का सीमा लाँघकर दूसरे भाई के राज्य की सीमा में प्रवेश करने का यत्न नहीं किया ॥ २ ॥

चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् ।
सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ॥ ३ ॥

अन्वयः—चतुर्भुजांशप्रभवः दानप्रवृत्तेः अनुपारतानां तेषां स सामयोनिः सुरद्विपानाम् इव अष्टधा भिन्नः विप्रससार ।

चतुर्भुजेति । चतुर्भुजो विष्णुः तस्यांशा रामादयः ते प्रभवाः कारणानि यस्य स तथोक्तः । दानं त्यागो मदश्च । ‘दानं गजमदे त्यागे’ इति विश्वः । प्रवृत्तिर्व्यापारः प्रवाहश्च दानप्रवृत्तेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव अष्टधा भिन्नः सन् विप्रससार विस्तृतोऽभूत् । सामयं निरित्यत्र पालकाप्य—“सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः । हस्ताभ्यां परिगृह्याथ सप्त सामान्‍यगायत । गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः' इति ।

भाषार्थ—जिस प्रकार सामवेद के वंश में उत्पन्न मदोन्मत्त दिग्गजों का कुल आठ भागों में विभक्त हो गया था । उसी प्रकार विष्णु अंश से उत्पन्न राम का दानी कुल भी आठ भागों में बँट गया था ॥ ३ ॥

अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥ ४ ॥

५३२रघुवंशमहाकाव्ये

अन्वयः—अथ अर्धरात्रे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः कुशः प्रवासस्थकलत्रवेशं अदृष्टपूर्वां वनिताम् अपश्यत् ।

अथेति । अथ अर्धरात्रेऽर्धरात्रः “अर्धं नपुंसकम्” इत्येकदेशसमासः । “अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रेः” इति समासान्तोऽच्प्रत्ययः । “रात्राह्नाहाः पुंसि” इति नियमात्पुंस्त्वम् । अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः न तु सुप्तः कुशः प्रवासस्थकलत्रवेषां प्रोषितभर्तृकावेषाम् अदृष्टा पूर्वमित्यदृष्टपूर्वा ताम् । सुप्सुपेति समासः । वनितामपश्यत् ।

भाषार्थ—एक दिन आधी रात के समय जब शयन गृह का दीपक टिमटिमा रहा था और सब लोग सोए हुए थे, तब कुश को एक स्त्री दिखाई दी, उसे उन्होंने कभी नहीं देखा था पर उसका वेश देखने से मालूम पड़ता था कि उसका पति परदेश चला गया है ॥ ४ ॥

सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं वन्धुमतो बबन्ध ॥ ५ ॥

अन्वयः—साधुसाधारणपार्थिवर्द्धेः पुरुहूतभासः परेषां जेतुः बन्धुमतः तस्य पुरस्तात् स्थित्वा जयशब्दपूर्वं अञ्जलिं बबन्ध ।

सेति । सा वनिता साधुसाधारणपार्थिवर्द्धेः सज्जनसाधारणराज्यश्रियः पुरुहूतभासः इन्द्रतेजसः परेषां शत्रूणां जेतुर्बन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दपूर्वं यथा तथाञ्जलिं बबन्ध ।

भाषार्थ—अपनी सम्पत्ति से सज्जन और साधारण व्यक्तियों का उपकार करने वाले इन्द्र के समान तेजस्वी और शत्रुओं को जीतने वाले कुश के आगे वह स्त्री जयशब्द का उच्चारण करती हुईं हाथ जोड़कर खड़ी हो गई ॥ ५ ॥

अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥ ६ ॥

अन्वयः—अथ सविस्मयः पूर्वार्धविसृष्टतल्पः दाशरथेः तनूजः अनपोढार्गलं आदर्शतलं छायाम् इव प्रविष्टां तां प्रोवाच ।

अथेति । अथ सविस्मयः पूर्वार्धेन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः अनपोढार्गलमनुद्घाटितविष्कम्भमपि । ‘तद्विष्कम्भोऽर्गलं न ना’ इत्यमरः । आगारम् आदर्शतलं छायामिव प्रविष्टां तां वनितां प्रोवाचावदत् ।

भाषार्थ—जिस प्रकार दर्पण में मुख का प्रतिबिम्ब बैठ जाता है। उसी प्रकार

षोडशः सर्गः ५३३

द्वार बन्द रहने पर भी वह स्त्री घर के अन्दर आ गई थी उसे देखकर राम के पुत्र कुश को बड़ा आश्चर्य हुआ और वे शय्या से आधे उठकर बोले ॥ ६ ॥

लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।
विभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ ७ ॥
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ?
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ॥ ८ ॥

अन्वयः—सावरणे अपि लब्धान्तरा ( त्वम् ) योगप्रभावः च ते न लक्ष्यते मृणालिनी हैमम् उपरागम् इव अनिर्वृतानाम् आकारं बिभर्षि ।

अन्वयः—हे शुभे ! त्वं का ? कस्य वा परिग्रहः ? ते मदभ्यागमकारणं वा किम् ? वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः मत्वा आचक्ष्व ।

लब्धेति । का त्वमिति च । युग्मम् । सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा त्वमिति शेषः । योगप्रभावश्च ते न लक्ष्यते । मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव अनिर्वृतानां दुःखितानामाकारं बिभर्षि च । नहि योगिनां दुःखमस्तीति भावः । किंच हे शुभे ! त्वं का कस्य वा परिग्रहः पत्नी ते तव मदभ्यागमे कारणं वा किम् ? वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाऽऽचक्ष्व ।

भाषार्थ—तुम हमारे इस बन्द कमरे में घुस तो आई हो किन्तु तुम्हारे मुख से यह नहीं प्रगट हो रहा है कि तुम योगिनी हो क्योंकि तुम पाले से मारी हुई कमलिनी के समान उदास दिखाई दे रही हो अर्थात् योगियों को कभी दुःख नहीं होता है ॥ ७ ॥

भाषार्थ—हे शुभे ! तुम कौन हो तुम्हारे पति का क्या नाम है, और मेरे पास किस लिए आई हो ? तुम यह समझकर मुंह खोलना कि रघुवंशियों का चित्त पराई स्त्री की ओर नहीं जाता ॥ ८ ॥

तमब्रवीत्सा गुरुणाऽनवद्या या नीतपौरा स्वपदोन्मुखेन ।
तस्याः पुरः सम्प्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ ९ ॥

अन्वयः—सा तम् अब्रवीत्—अनवद्या या स्वपदोन्मुखेन गुरुणा नीतपौरा, हे राजन् मां सम्प्रति वीतनाथां तस्याः पुरः अधिदेवतां जानीहि ।

तमिति । सा वनिता तं कुशमब्रवीत् । अनवद्याऽदोषा या पूः स्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन् ! मां सम्प्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ।

५३४रघुवंशमहाकाव्ये

भाषार्थ—उस स्त्री ने उत्तर दिया—हे राजन् ! जब भगवान् राम वैकुण्ठ जाने लगे तब जिन निर्दोष अयोध्यावासियों को वे साथ-साथ लेते गये। उसी अयोध्या पुरी की मैं इस समय अनाथ अधिष्ठात्री देवी हूँ ॥ ९ ॥

वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्यवंशये सति प्रपन्ना करुणामवस्थाम् ॥ १० ॥

अन्वयः—सा अहं सौराज्यबद्धोत्सवया विभूत्या वस्वौकसाराम् अभिभूय समग्रशक्तौ त्वयि सूर्यवंशये सति करुणाम् अवस्थां प्रपन्ना ।

वस्वौकसारामिति । साऽहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या वस्वौकसाराऽलकापुरी । ‘अलकापुरी वस्वौकसारा स्यात्’ इति कोशः । अथवा मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी । ‘वस्वौकसारा शक्रस्य’ इति विष्णुपुराणात् । तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंशे सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ।

भाषार्थ—पहले अच्छे राजा होने के कारण मैं इतनी ऐश्वर्यशालिनी हो गई थी कि मेरे सामने कुबेर की अलकापुरी भी फीकी लगती थी । आजकल आप जैसे प्रतापी राजा के रहते हुए भी मेरी बहुत बुरी दशा हो गई है ॥ १० ॥

विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥ ११ ॥

अन्वयः—विशीर्णतल्पाट्टशतः पर्यस्तशालः प्रभुणा बिना मे निवेशः अस्तनिमग्नसूर्यम् उग्रानिलभिन्नमेघं दिनान्तं विडम्बयति ।

विशीर्णेति । तल्पान्यट्टालिकाः । ‘तल्पं शय्याट्टदारेषु’ इत्यमरः । अट्टानि गृहभेदाः । ‘अट्टं भक्ते च शुष्के च क्षौमेत्यर्थे गृहान्तरे’ इति विश्वः । विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः । ‘विशीर्णकल्पाट्टशतो निवेशः’ इति च पाठः । अट्टाः क्षौमा ‘स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः । ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतान्यस्य स तथोक्तः । पर्यस्तशालः स्रस्तप्राकारः । ‘प्राकारो वरणः शालः’ इत्यमरः । प्रभुणा स्वामिना विनैवंभूतो मे निवेशो निवेशनम् । अस्तनिमग्नसूर्यम्अस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं बिडम्बयत्यनुकरोति ।

भाषार्थ—स्वामी राम के न रहने के कारण सैकड़ों अट्टालिकाओंके भग्न हो जाने से मेरी निवासभूमि अयोध्या नगरी ऐसी उदास लगती है जैसे सूर्यास्त के समय की वह सन्ध्या जिसमें वायु के वेग से बादल इधर उधर छितराये हुए दिखाई देते हों ॥ ११ ॥

षोडशः सर्गः ५३५

निशासु भास्वत्कलनूपुराणां यः सञ्चरोऽभूदमिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ १२ ॥

**अन्वयः—**निशासु भास्वत्कलनूपुराणां अभिसारिकाणां यः सञ्चरः अभूत् नदन्मुखोल्काविचितामिषाभिः स शिवाभिः राजपथः वाह्यते ।

निशास्विति । निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम् । ‘कान्तार्थिनी तु या याति संकेतं साभिसारिका’ इत्यमरः । यो राजपथः सञ्चरत्यनेनेति सञ्चरः सञ्चारसाधनमभूत् । “गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च” इत्यनेन घप्रत्ययान्तो निपातः । नदत्सु मुखेषु या उल्कास्ताभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो वाह्यते गम्यते । वहरन्यो वहिधातुरस्तीत्युपदेशः ।

**भाषार्थ—**पहले रात के समय जिन सड़कों पर चमकते और मधुर ध्वनि करते हुए नूपुरवाली अभिसारिकाएँ चलती थीं पर आजकल वहाँ सियारिनें घूमती है जिनके मुख से चिल्लाते समय चिनगारियाँ निकलती हैं ॥ १२ ॥

आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् ।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ १३ ॥

**अन्वयः—**यत् अम्भः प्रमदाकरैः आस्फालितं मृदङ्गधीरध्वनिम् अन्वगच्छत् तत् दीर्घिकाणां अम्भः इदानीं वन्यैः माहिषैः शृङ्गाहतं ( सत् ) क्रोशति ।

आस्फालितमिति । यदम्भः प्रमदाकराग्रैरास्फालितं ताडितं सत् जलक्रीडास्विति शेषः । मृदङ्गानां यो धीरध्वनिस्तमन्वगच्छदन्वकरोत् । तद्दीर्घिकाणामम्भ इदानीं वन्यैर्महिषैः कर्तृभिः शृङ्गैर्विषाणैराहतं सत्क्रोशति । न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः ।

**भाषार्थ—**नगर की जिन बावलियों का जल पहले जल-क्रीडा करने वाली सुन्दरियों के हस्ताहत मृदङ्ग की ध्वनि का अनुकरण करता था वह आज कल जङ्गली भैंसों की सींगों के चोटों से कान फोड़े डालता है ॥ १३ ॥

वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः ।
प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबर्हिणत्वम् ॥ १४ ॥

**अन्वयः—**यष्टिनिवासभङ्गात् वृक्षेशया मृदंगशब्दापगमात् अलास्याः दवोल्काहत शेषबर्हाः क्रीडामयूरा वनबर्हिणत्वं भेजे ।

वृक्षेशया इति । यष्टिरेव निवासः स्थानं तस्य भङ्गात् वृक्षेशया । ‘अधि-

५३६ रघुवंशमहाकाव्ये

करणे शेतेः" इत्यच्प्रत्ययः । "शयवासवासिष्वकालात्" इत्यलुक्सप्तम्याः । मृदङ्ग- शब्दानांमपगमादभावादलास्या नृत्यशून्याः । दवोऽरण्यवह्निः । 'दवदावौ वनार- ण्यवह्नी' इत्यमरः । तस्योल्काभिः स्फुलिङ्गैर्हतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ता ।

भाषार्थ—पहले मोरों के बैठने के लिए स्थान-स्थान पर छोटे-छोटे लकड़ियों के टुकड़े टंगे रहते थे किन्तु इस समय उनके टूट जाने से यहाँ के मोर अब वृक्षों पर जाकर बैठते हैं और मृदंग न बजने के कारण उन्होंने नाचना भी बन्द कर दिया है । अब वे मोर उन जङ्गली मोरों के समान लगते हैं जिनकी पूंछें वन की आग से जल गई हैं ॥ १४ ॥

सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् । सद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ॥ १५ ॥

अन्वयः—येषु सोपानमार्गेषु रामाः सरागाने चरणान् निक्षिप्तवत्यः तेषु मे ( मार्गेषु ) सद्यो हतन्यङ्कुभिः व्याघ्रैः अस्रदिग्धं पदं निधीयते ।

सोपानेति । किच येषु सोपानमार्गेषु रामा रमण्यः सरागांल्लाक्षारसादीं श्चरणान्निक्षिप्तवत्यः तेषु मम मार्गेषु सद्यो हतन्यङ्कुभिर्मारितमृगैर्व्याघ्रैरस्रदिग्धं रुधिरलिप्तं पदं निधीयते ।

भाषार्थ—और क्या कहूँ; पहले जिन सीढ़ियों पर सुन्दरियाँ अपने महावर लगे लाल-लाल पैर रखती चलती थीं उन्हीं पर अब तत्काल मृग मारने वाले बाघ अपने रक्तरञ्जित पैरों को रखकर चलते हैं ॥ १५ ॥

चित्रद्विपाः पद्मवनावतीर्णाः करेणुमिर्दत्तमृणालभङ्गाः । नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६ ॥

अन्वयः—पद्मवनावतीर्णाः करेणुभिः दत्तमृणालभङ्गाः चित्रद्विपाः नखांकुशा- घातविभिन्नकुम्भाः ( सन्तः ) संरब्धसिंहप्रहृतं वहन्ति ।

चित्रेति । पद्मवनमवतीर्णाः प्रविष्टाः तथालिखिता इत्यर्थः । करेणुभिः करि- णीभिः चित्रगताभिरेव । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । दत्तमृणालभङ्गा- श्चित्रद्विपा आलेख्यमातङ्गा नखा एवाङ्कुशाः तेषामाघातैर्विभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं । कुपितसिंहप्रहारं वहन्ति ।

भाषार्थ—जिन चित्रों में ऐसा दिखाया गया था कि हाथी कमल के ताल में उतर रहे हैं और हथिनियां उन्हें सूंड से मृणालखण्ड तोड़कर दे रही हैं उन

षोडशः सर्गः | ५३७

चित्रित हाथियों के मस्तकों को सिंहों ने हाथी का मस्तक समझ कर उनपर पञ्जा मारकर फाड़ दिया है ॥ १६ ॥

स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १७ ॥

अन्वयः—उत्क्रान्तवर्णक्रमधूसराणां स्तम्भेषु योषित्प्रतियातनानां फणिभिर्विमुक्ता निर्मोकपट्टाः सङ्गात् स्तनोत्तरीयाणि भवन्ति ।

स्तम्भेष्विति । उत्क्रान्तवर्णक्रमा वशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोका कंचुका एव पट्टाः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । सङ्गात्सक्तत्वात्स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ।

भाषार्थ—जिन बहुत से खम्भों में स्त्रियों की मूर्तियाँ बनी हुई थीं आजकल जगह-जगह रङ्ग उड़ गये हैं उन खम्भों को चन्दन का वृक्ष समझकर जो सांप उनसे लिपटे हैं उनकी केचुले छूटकर उन मूर्तियों से सट गई हैं और वे ऐसी लगती हैं मानों उन चित्रित स्त्रियों ने स्तन ढकने के लिए कोई कपड़ा डाल लिया हो ॥ १७ ॥

कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १८ ॥

अन्वयः—कालान्तरश्यामसुधेषु इतस्ततः रूढतृणाङ्कुरेषु हर्म्येषु नक्तं मुक्तागुणशुद्धयः अपि ( ततः पूर्वं ये मूर्च्छन्ति स्म ) त एव चन्द्रपादा न मूर्च्छन्ति ।

कालेति । कालान्तरेण कालभेदवशेन श्यामसुधेषु । मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं येषां तादृशा अपि ततः पूर्वं ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न मूर्छन्ति न प्रतिफलन्तीत्यर्थः ।

भाषार्थ—जिन भवनों पर कभी मोती की माला के समान शुभ्र चाँदनी चमका करती थी उनपर अब चाँदनी भी नहीं चमकती क्योंकि बहुत दिनों से मरम्मत न होने के कारण कोठे के चूने का रंग काला पड़ गया है और उनपर जहाँ तहाँ घास जम आई है ॥ १८ ॥

आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९ ॥

५३८रघुवंशमहाकाव्ये

अन्वयः—विलासिनीभिः सदयं शाखा आवर्ज्य यासां पुष्पाणि उपात्तानि ता एव मदीयाः उद्यानलताः वन्यैः पुलिन्दैः इव वानरैः क्लिश्यन्ते ।

आवर्ज्येति । किंच विलासिनीभिः सदयं शाखा लतावयवानावर्ज्यनमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि ता मदीया उद्यानलताः वन्यैः पुलिन्दैम्लेंच्छविशेषैरिव वानरैः उभयैरपीत्यर्थः । क्लिश्यन्ते पीड्यन्ते । क्लिश्नातेः कर्मणि लट् । 'भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः ।

भाषार्थ—पहले उद्यान को जिन लताओं को टूटने के भय से धीरे से झुकाकर सुन्दरी स्त्रियां फूल उतारा करती थीं उन मेरी प्यारी लताओं को जङ्गली कोलभीलों के समान उत्पाती बन्दर झकझोर डालते हैं ॥ १९ ॥


रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ॥ २० ॥

अन्वयः—रात्रौ अनाविष्कृतदीपभासः दिवा अपि कान्तामुखश्रीवियुताः विच्छिन्नधूमप्रसराः गवाक्षाः कृमितन्तुजालैः तिरस्क्रियन्ते ।

रात्राविति । रात्रावनाविष्कृतदीपभासः अप्रकटीकृतदीपदीप्तयः दीपप्रभाशून्या इत्यर्थः । दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैलूतातन्तुवितानैस्तिरस्क्रियन्ते छाद्यन्ते ।

भाषार्थ—आजकल अटारियों के झरोखों से न तो रातको दीपकों की किरणें निकलती हैं न दिन में सुन्दरियों का मुख दिखाई देता है और न कहीं से अगरु का धूंआं ही निकलता है । अब वे झरोखे मकड़ियों के जालों से ढँक गये हैं ॥२०॥


बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१ ॥

अन्वयः—बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अवाप्नुवन्ति सरयूजलानि शून्यानि उपान्तवानीरगृहाणि दृष्ट्वा दूये ।

बलिक्रियेति । 'बलिः पूजोपहारः स्यात्' इति शाश्वतः । बलिक्रियावर्जितानि सैकतानि येषां तानि स्नानीयानि स्नानसाधनानि चूर्णादीनि । "कृत्यल्युटो बहुलम्" इति करणेऽनीयर्प्रत्ययः । स्नानीयसंसर्गमनाप्नुवन्ति सरयूजलानि शून्यानि रिक्तान्युपान्तेषु वानीरगृहाणि येषां तानि च दृष्ट्वा दूये परितप्ये ।

भाषार्थ—मुझे वह देखकर बड़ा दुःख होता है कि अब न तो सरयू के घाटोंपर देवताओं की बलि दी जाती है और न स्त्रियों के स्नान करने से उसमें से अङ्ग-

षोडशः सर्गः ५३९

राग आदि की गन्ध ही निकलती है। सरयू के तट पर बनी हुई बेंत की झोप- ड़ियाँ भी सूनी पड़ी रहती हैं ॥ २१ ॥

तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम्।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२ ॥

**अन्वयः—**तत् इमां वसतिं विसृज्य कुलराजधानीं तां माम् अभ्युपैतुम् अर्हसि ते गुरुः तां कारणमानुषीं तनुं हित्वा परमात्ममूर्तिं यथा।

तदिति। तत्तस्मादिमां वसतिं कुशावतीं विसृज्य कुलराजधानीं राज्ञा धीयते-ऽस्यामिति राजधानी तामयोध्यां मामभ्युपैतुमर्हसि। कथमिव ? ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं विष्णुमूर्तिमिव।

**भाषार्थ—**इसलिए जिस प्रकार आपके पिता राम ने राक्षसों को मारने के लिए मनुष्य का शरीर धारण किया था, उसे छोड़कर परमात्मा की मूर्ति को प्राप्त कर लिया; उसी प्रकार आप भी इस नई राजधानी कुशावती को छोड़कर अपनी कुल परम्परा की राजधानी में चलकर रहो ॥ २२ ॥

तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम्।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३ ॥

**अन्वयः—**रघूणां प्राग्रहरः तस्याः प्रणयं प्रतीतः तथा इति प्रत्यग्रहीत्, पूः अपि अभिव्यक्तमुखप्रसादा (सती) शरीरबन्धेन तिरोबभूव।

तथेति। रघूणां प्राग्रहरः श्रेष्ठः कुशस्तस्या पुरः प्रणयं याच्ञां प्रतीतो हृष्टः संस्तथेति प्रत्यग्रहीत्स्वीकृतवान्। पूः पुराधिदेवताऽप्यभिव्यक्तमुखप्रसादा सती इष्टलाभादिति भावः। शरीरयोगेन करणेन तिरोबभूवान्तर्दधे। मानदं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः।

**भाषार्थ—**कुश ने प्रसन्न होकर उसकी प्रार्थना स्वीकार कर ली और कहा कि ऐसा ही करेंगे, यह सुनकर अयोध्या की अधिष्ठात्री देवता परम प्रसन्न होकर अन्तर्धान हो गई ॥ २३ ॥

तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ २४ ॥

**अन्वयः—**नृपतिः तदद्भुतं रात्रिवृत्तं प्रातः संसदि द्विजेभ्यः शशंस। ते श्रुत्वा एवं कुलराजधान्याः साक्षात्पतित्वे वृतम् अभ्यनन्दन्।

तदिति। नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेभ्यः

५४० रघुवंशमहाकाव्ये

शशंस। ते द्विजाः श्रुत्वैनं कुशं कुलराजधान्याः साक्षात्स्वयमेव पतित्वे विषये वृत- मभ्यनन्दन् पतित्वेन वृतोऽसीत्यपूजयन्। आशीर्भिरिति शेषः। अत्र गार्ग्यः—'दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाददृष्टो यः स पाकं विधत्ते। शंसेदिष्टं तत्र साधुर्द्वि- जेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेंद्रम्' । इदमपि स्वप्नतुल्यमिति भावः।

भाषार्थ—राजा कुश ने रात की वह आश्चर्यमयी घटना प्रातःकाल सभा में ब्राह्मणों से कही। उन्होंने यह सुनकर उनकी प्रशंसा करते हुए कहा कि आप धन्य हैं जिन्हें कुल राजधानी ने अपनी इच्छा से अपना पति चुना है ॥ २४ ॥

कुशावतीं श्रोत्रियसात् कृत्वा यात्रानुकूलेऽहनि सावरोधः।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५ ॥

अन्वयः—स कुशावतीं श्रोत्रियसात् कृत्वा यात्रानुकूले अहनि सावरोधः ( सन् ) वायुः अभ्रवृन्दैः इव सैन्यैः अनुद्रुतः अयोध्याभिमुखः प्रतस्थे।

कुशावतीमिति। स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रियसात्। "तदधीनवचने" इति सातिप्रत्ययः। "श्रोत्रियश्छन्दोऽधीते" इति निपातः। 'श्रोत्रिय- श्छान्दसौ समौ' इत्यमरः। कृत्वा यात्रानुकूलेऽहनि सावरोधः सान्तःपुरः सन् वायु- रभ्रवृन्दैरिव सैन्यैरनुद्रुतोऽनुगतः सन्नयोध्याभिमुखः प्रतस्थे।

भाषार्थ—कुश ने कुशावती वेदपाठी ब्राह्मणों को सौंप दी और जैसे वायु के पीछे-पीछे बादल चलते हैं वैसे ही पीछे चलने वाली सेना के साथ शुभ मुहूर्त में वे अयोध्या के लिए चल दिये ॥ २५ ॥

सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी ॥ २६ ॥

अन्वयः—केतुमालोपवना बृहद्भिः नागैः विहारशैलानुगता इव रथोदारगृहा सा सेना तस्य प्रयाणे जङ्गमराजधानी इव अभवत्।

सेति। केतुमाला एवोपवनानि यस्याः स बृहद्भिर्नगैर्गजैर्विहारशैलैः क्रीडा- शैलैरनुगतेव स्थिता रथा एवोदारगृहा यस्याः सा सेना तस्य कुशस्य प्रयाणे जङ्गमराजधानी सञ्चारिणी नगरीवाभवद् बभूव।

भाषार्थ—यात्रा के समय चलती हुई कुशकी सेना चलती फिरती राजधानी के समान लगती थी क्योंकि उसका ध्वजाओं वाला भाग लतावाले उपवनों के समान लग रहा था बड़े-बड़े हाथी बनावटी क्रीड़ापर्वतों जैसे जान पड़ते थे और रथ ऊँची-ऊँची अटारियों के समान लग रहे थे ॥ २६ ॥

षोडशः सर्गः ५४१

तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
बभौ बलौघः शशिनोदितेन वेलामुदन्वन्निव नीयमानः ॥ २७ ॥
**अन्वयः—**आतपत्रामलमण्डलेन तेन पूर्वनिवासभूमिं अयोध्यां प्रस्थापितः बलौघः उदितेन शशिना वेलां नीयमानः उदन्वान् इव बभौ ।
तेनेति । आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन कुशेन पूर्वनिवासभूमिमयोध्यां प्रति प्रस्थापितो बलौघः आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः उदकमस्यास्तीत्युदन्वान् उदधिरिव बभौ । “उदन्वानुदधौ च” इति निपातनात्साधुः ।
**भाषार्थ—**जिस प्रकार चन्द्रमा उदित होकर समुद्र को तट तक खींच लेता है उसी प्रकार श्वेत छत्रधारी कुश अपनी सेना को रघुकुल की पुरानी राजधानी अयोध्या की ओर ले चले ॥ २७ ॥

तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।
वसुन्धरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥ २८ ॥
**अन्वयः—**प्रयातस्य तस्य वरूथिनीनां पीडां सोढुम् अपर्याप्तवती इव वसुन्धरा रजश्छलेन द्वितीयं विष्णुपदम् अध्यारुरोह ।
तस्येति । प्रयातस्य प्रस्थितस्य तस्य कुशस्य वरूथिनीनां सेनानां कर्त्रीणाम् । “कर्तृकर्मणोः कृति” इति कर्तरि षष्ठी । पीडां सोढुमपर्याप्तवतीवाशक्तेव वसुन्धरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहेव इत्युत्प्रेक्षा ।
**भाषार्थ—**चलते समय कुश की सेना का भार पृथ्वी नहीं सँभाल सकी 'इस लिए उड़ती हुई धूल ऐसी जान पड़ती थी मानों पृथ्वी विष्णु के दूसरे पद (आकाश) में पहुँच गई है ॥ २८ ॥

उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ २९ ॥
**अन्वयः—**पश्चात् गमनाय पुरः निवेशे उद्यच्छमाना पथि च व्रजन्ती नृपस्य सा सेना यत्र ददृशे तत्रैव सामग्र्यमतिं चकार ।
उद्यच्छमानेति । पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽग्रे निवेशे निमित्ते निवेष्टुं चेत्यर्थः । उद्यच्छमानोद्योगं कुर्वती । 'समुदाङ्भ्यो यमोऽग्रन्थे” इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम् । पथि च व्रजन्ती नृपस्य कुशस्य सा सेना यत्र पश्चात्पुरो मध्ये या ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार । अपरिमिता तस्य सेनेत्यर्थः ।

५४२ रघुवंशमहाकाव्ये

भाषार्थ—कुशावती से चलती हुई या आगे के पड़ाव पर पहुँची हुई या मार्ग में चलनेवाली जितनी भी कुशकी सेनाकी टुकड़ियाँ थीं वे सब पूरी सेना ही प्रतीत होती थीं ॥ २९ ॥

तस्य द्विपानां मदवारिसेकात्सुराभिघाताच्च तुरङ्गमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३० ॥

अन्वयः—नेतुः तस्य द्विपानां मदवारिसेकात् तुरङ्गमाणां खुराभिघातात् च पथि रेणुः पङ्कभावं प्रपेदे पङ्कोऽपि रेणुत्वं इयाय ।

तस्येति । नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरङ्गमाणां खुराभि- घाताच्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे पङ्कोऽपि रेणुत्वमियाय तस्य तावदस्तीत्यर्थः ।

भाषार्थ—नायक कुशके हाथियों के मदजलसे मार्ग की धूल कीचड़ बन गई और कीचड़ भी घोड़ों की टापसे धूल बन गई ॥ ३० ॥

मार्गैषिणी सा कटकान्तरेषु वैन्ध्येपु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१ ॥

अन्वयः—वैन्ध्येपु कटकान्तरेषु मार्गैषिणी ( अत एव ) बहुधा विभिन्ना महाविरावा सा सेना रेवा इव गुहामुखानि बद्धप्रतिश्रुन्ति चकार ।

मार्गैति । वैन्ध्येपु विन्ध्यसम्बन्धि कटकान्तरेषु नितम्बावकाशेषु । ‘कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । मार्गावलोकिनी अत एव बहुधा विभिन्ना महाविरावा दीर्घशब्दा सा सेना रेवेव नर्मदेव । 'रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका' इत्यमरः । गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ।

भाषार्थ—मार्ग भूल जाने के कारण वह सेना विन्ध्याचल के आस-पास मार्ग ढूंढने लगी और कई भागों में विभक्त हो गई । उस सेना ने नर्मदा के समान जो गम्भीर गर्जन किया उससे पर्वत की गुफायें गूंज उठीं ॥ ३१ ॥

स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥ ३२ ॥

अन्वयः—धातुभेदारुणयाननेमिः प्रयाणध्वनिमिश्रतूर्यः स प्रभुः पुलिन्दैः उपपादितानि उपायनानि पश्यन् विन्ध्यं अलङ्घयत् ।

स इति । धातूनां गैरिकादीनां भेदेनाऽरुणा आरक्ता याननेमीरथचक्रधारा प्रयाणे ये ध्वनयः श्वेण्डेहेषादयः तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन् विन्ध्यं व्यलङ्घयत् ।

षोडशः सर्गः ५४३

**भाषार्थ—**पर्वत की गैरिकादि धातुओं से जिसके रथ के पहिये लाल हो गये हैं और जिसकी चलती हुई सेना के शब्द से तुरही के शब्द भी दब गये हैं वे कुश विन्ध्याचल निवासी जनों के हाथ से पाई हुई भेंट की सामग्रियों को देखते हुए विन्ध्यपर्वत को लांघ गये ॥ ३२ ॥

तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।
अयत्नवालव्यजनीबभूवुर्हंसा नभोल्लङ्घनलोलपक्षाः ॥ ३३ ॥

**अन्वयः—**तदीये तीर्थे गजसेतुबन्धात् प्रतीपगां गङ्गाम् उत्तरतः अस्य नभोल्लङ्घनलोलपक्षाः हंसा अयत्नवालव्यजनीबभूवुः ।

तीर्थे इति । तदीये विन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गंगामुत्तरतोऽस्य कूलस्य नभोल्लङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन् । अभूततद्भावे च्विः ।

**भाषार्थ—**विन्ध्य के तट पर उलटी पश्चिम की ओर बहने वाली गङ्गा के उत्तर भाग में हाथियों का पुल बनाकर वे पार उतरने लगे उस समय आकाश में जो चंचल पङ्ख वाले हंस उड़ते थे वे कुशपर डुलते हुए चंवर के समान लग रहे थे ॥ ३३ ॥

स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥ ३४ ॥

**अन्वयः—**स कपिलेन रोषात् भस्मावशेषीकृतविग्रहाणां पूर्वजानां सुरालयप्राप्तिनिमित्तं नौलुलितं त्रैस्रोतसं अम्भो ववन्दे ।

स इति । स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सगराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितं तिस्रोतस इदं त्रैस्रोतसं गाङ्गमम्भो ववन्दे ।

**भाषार्थ—**कुश ने नावों के चलने से चंचल जलवाली गंगाजी को प्रणाम किया क्योंकि कपिल के कोप से जले हुए उनके पूर्वज सगर के पुत्र उसी जल की कृपा से स्वर्ग पहुंचे थे ॥ ३४ ॥

इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥ ३५ ॥

**अन्वयः—**कैश्चित् अहोभिः अध्वनः अन्ते कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां रघूणां वेदिप्रतिष्ठान् शतशः यूपान् अपश्यत् ।

५४४रघुवंशमहाकाव्ये

इतीति। इति कैश्चिदहोभिरध्वनोऽन्तेऽवसाने कुशः सरय्वाः कूलं समासाद्यवितताध्वराणां विस्तृतमखानां रघूणां वेदिः प्रतिष्ठास्पदं येषां तान् यूपाञ्छतशोऽपश्यत्।

**भाषार्थ—**इस प्रकार कुछ दिन में मार्ग बिताकर कुश सरयू के किनारे पहुँचे वहाँ उन्हें बड़े-बड़े यज्ञ करने वाले रघुवंशी राजाओं के गाड़े हुए सैकड़ों यज्ञ के खंभे दिखाई दिये ॥ ३५ ॥

आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतराङ्गान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ ३६ ॥

**अन्वयः—**कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखाः आधूय शीतान् सरयूतरांगान् स्पृष्ट्वा क्लान्तसैन्यं तं प्रत्युज्जगाम ।

आधूयेति । कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतराङ्गांश्च स्पृष्ट्वा अनेन शैत्योक्तिः । क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ।

**भाषार्थ—**वंशपरम्परागत राजधानी अयोध्या के उपवन की वायु ने फूले हुए वृक्षों की डालियों को थोड़ा हिलाकर और सरयू के शीतल तरंगों का स्पर्श करके सेना के साथ थके हुए कुश का स्वागत किया अर्थात् शीतल मन्द सुगन्ध वायु ने क्लान्त कुश के श्रम को दूर किया ॥ ३६ ॥

अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७ ॥

**अन्वयः—**अथ रिपुमग्नशल्यः पौरसखः कुलध्वजः बली स राजा चलध्वजानि तानि बलानि तस्याः पुरः उपशल्ये निवेशयामास ।

अथेति । अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः । 'शल्यं शङ्कौ शरे वशे' इति विश्वः । पौराणां सखा पौरसखः । “राजाहः सखिभ्यष्टच्” इत्यनेन टच्प्रत्ययः । कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये 'ग्रामान्तं उपशल्यं स्यात्' इत्यमरः । निवेशयामास ।

**भाषार्थ—**शत्रुसंहारक प्रजाहितैषी कुलको उन्नतिशील बनानेवाले और बलिष्ठ राजा कुश ने फहराती हुई ध्वजावाली अपनी सेना को नगर के आस-पास के स्थानों में ठहरा दिया ॥ ३७ ॥

तां शिल्पिसङ्घाः प्रभुणा नियुक्तास्तथागतां सम्भृतसाधनत्वात् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८ ॥