रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
२५२ रघुवंशमहाकाव्ये
अन्वयः—सुजातयोः स्तनयोः क्षणमात्रसखीं ताम् अवलोक्य विह्वला नरोत्तमप्रिया तमसा हृतचन्द्रा कौमुदी इव निमिमील ।
क्षणमिति । सुजातयोः सुजन्मनोः । सुन्दरयोरित्यर्थः । स्तनयोः क्षणमात्रं सखीं सखीमिव स्थितां सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः । तां स्रजमवलोक्येषद्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती तमसा राहुणा । ‘तमस्तुः राहुः स्वर्भानुः’ इत्यमरः । हृतचन्द्रा कौमुदी चन्द्रिकेव निमिमील मुमोह । ‘निमीलो दीर्घनिद्रा च’ इति हलायुधः । कौमुद्या निमीलनं प्रतिसंहार ।
भाषार्थ—अज की प्रिया इन्दुमती ने अपने सुन्दर स्तनों पर क्षण मात्र पड़ी हुई उस माला को देखा और व्याकुल होकर आँखें बन्द कर ली मानो राहु ने चन्द्रमा को ग्रस कर उसकी चांदनी नष्ट कर दिया अर्थात् जैसे राहु से ग्रस्त होने पर चन्द्रमा की चांदनी नष्ट हो जाती है वैसे ही उस माला के आघात से इन्दुमती मर गई ॥ ३७ ॥
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८ ॥
अन्वयः—करणोज्झितेन वपुषा निपतन्ती सा पतिम् अपि अपातयत् दीपार्चिः तैलनिषेकबिन्दुना सह मेदिनीम् उपैति ननु ।
वपुषेति । करणैरिन्द्रियैरूज्झितेन मुक्तेन । ‘करणं साधकतमं लेशगात्रेन्द्रि-येष्वपि’ इत्यमरः । वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत्पातयति स्म । तथाहि निषिच्यते इति निषेकः तैलस्य निषेकस्तैलनिषेकः । क्षरतैलमित्यर्थः । तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवंमुपैत्येव । नन्वत्रावधारणे । ‘प्रश्नावधारणा नुज्ञानु नयामन्त्रणे ननु’ इत्यमरः । इन्दुमत्या दीपार्चिरुपमानम् । अजस्य तैलविन्दुः तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ।
भाषार्थ—प्राणहीन होकर शरीर से गिरती हुई उस इन्दुमती ने अपने पति अज को भी गिरा दिया अर्थात् इन्दुमती के गिरते ही अज भी वेहोश होकर गिर गये । क्योंकि गिरते हुए तेल की बूंदों के साथ क्या दीपक की लो पृथ्वी पर नहीं गिर पड़ती है ॥ ३८ ॥
उभयोरपि पार्श्ववर्तिनां तुमुलैनातंरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ ३६ ॥
अन्वयः—उभयोः पार्श्ववर्त्तिनाम् तुमुलेन आतंरवेण वेजिता । कमलाकरालयाः विहगाः अपि तत्र समदुःखा इव चुक्रुशुः ।
अष्टमः सर्गः २५३
अष्टमः सर्गः २५३
उभयोरिति। उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनातर्तर- वेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः। सरःस्थिता विहगा हंसाद- योऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव। चुक्रुशुः क्रोशन्ति स्म।
भावार्थ—अज और इन्दुमती के पास में वर्तमान सेवकों के रोने और चिल्लाने से उस उपवन के पक्षी भी उद्विग्न होकर चिल्लाने लगे, मानों उनके समान दुखी होकर वे समवेदना प्रकट कर रहे थे ॥ ३९ ॥
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४० ॥
अन्वयः—सेवकैः नृपतेः तमः व्यजनादिभिः नुनुदे। सा तु तथा एव संस्थिता हि प्रतिकारविधानम् आयुषः शेषे सति फलाय कल्पते।
नृपतेरिति। नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। आदिशब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथाहि प्रतिकारविधानं चिकित्साकरणं आयुषो जीवितकालस्य शेषे सति विद्यमाने। 'आयुर्जीवितकालो ना' इत्यमरः। फलाय सिद्धये कल्पत आरोग्याय भवति। "क्लृपि संपद्यमाने च" इति चतुर्थी। नान्यथा। नृपतेरायुः शेषसद्भावात्प्रतीकारस्य साफल्यं तस्यास्तु तदभावाद्वैफल्यमित्यर्थः।
भावार्थ—पंखा डुलवाना चन्दनमिश्रित जलसेक आदि ठण्डे उपचारों से किसी प्रकार अज की मूर्च्छा तो दूर हो गई, किन्तु इन्दुमती ज्यों की त्यों पड़ी रही क्योंकि दवा आयुशेष रहने पर ही काम करती है ॥ ४० ॥
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ४१ ॥
अन्वयः—अथ नितान्तवत्सलः सः सत्त्वविप्लवात् प्रतियोजयितव्यवल्लकीसमवस्थाम् अङ्गनां परिगृह्य अङ्कं निनाय।
प्रतीति। अथ सत्त्वस्य चैतन्यस्य विप्लवाद्दिनाशाद्धेतोः। 'द्रव्यासुव्यवसायेषु सत्त्वम्' इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा तस्याः समावस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान्सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचित परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः।
भावार्थ—तब प्रिया के अत्यन्त प्रेमी उस अज ने चेतनाशून्य अपनी प्रियपत्नी
२५४ रघुवंशमहाकाव्ये
इन्दुमती को उठाकर उसी प्रकार अपनी गोद में रख लिया जिस प्रकार गायक तार मिलाने के लिए वीणा को अपनी गोद में रख लेते हैं ॥ ४१ ॥
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ४२ ॥
अन्वयः—पतिः अङ्कनिषण्णया करणापायविभिन्नवर्णया तया उषसि आविलां मृगलेखां बिभ्रत् इव समलक्षत ।
पतिरिति । पतिरजोऽङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणां तदुपलक्षितस्य चैतन्यस्य वो अपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया "इत्थंभूतलक्षणे" इत्यनेन तृतीया । उषसि प्रातःकाले आविलां मलिनां मृगलेखां लाञ्छनं मृगरेखामुपं बिभ्रद्धारयंश्चन्द्रमा इव समलक्ष्यतादृश्यत । इत्युपमा ।
भाषार्थ—प्राण निकल जाने से शोभाहीन इन्दुमती को अपनी गोद में लिए हुए राजा अज उस प्रातःकालीन चन्द्रमा के समान दिखाई दे रहे थे जिनकी गोद में मलिन मृग की छाया हो ॥ ४२ ॥
- विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३ ॥
अन्वयः—सः सहजां अपि धीरताम् अपहाय बाष्पगद्गदं विललाप अभितप्तम् अयः अपि मार्दवं भजते शरीरिषु कथैव का अस्ति ।
विलापेति । सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्ये बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप परिदेवितवान् । 'विलापः परिदेवनम्' इत्यमरः । धीरस्य कुतः शोक इति चेदत् आह—अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु अभिसन्तप्तेष्विति शेषः । विषये कैव कथा वार्ता अनुक्तसिद्धमित्यर्थः ।
भाषार्थ—वे अज अपने स्वाभाविक धैर्य को छोड़कर आंसू से गद्गद होकर विलाप करने लगे, जब अचेतन लोहा भी अग्नि में तपाये जाने पर पिघल जाता है तब शोक से सन्तप्तप्राणियों का क्या कहना है ? ॥ ४३ ॥
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितं यदि ।
न भविष्यति हन्त ! साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ ४४ ॥
अन्वयः—कुसुमानि अपि गात्रसङ्गमात् आयुः अपोहितुं प्रभवन्ति यदि हन्त, प्रहरिष्यतः विधेः अन्यत् किं इव साधनं न भविष्यति ।
अष्टमः सर्ग २५५
अष्टमः सर्ग २५५
कुसुमानीति । कुसुमानि पुष्पाण्यपि । अपिशब्दो नितान्तमार्दवद्योतनार्थः । गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि । हन्त विषादे । ‘हन्त हर्षे-ऽनुकम्पायां वाक्यारम्भविषादयोः’ इत्यमरः । प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत्कुसुमातिरिक्तं किमिव वस्तु । इवशब्दा वाक्यालंकारे कीदृशमित्यर्थः । साधनं प्रहरणं न भविष्यति न भवेत् सर्वमपि साधनं भविष्यत्येवेत्यर्थः ।
**भाषार्थ—**अज विलाप करते हुए कहते जा रहे हैं कि यदि फूल भी शरीर-पर गिरने से प्राण लेने में समर्थ हो सकते हैं तो, हाय ! मारने की इच्छा करने वाले दैव का साधन दूसरी कौन वस्तु नहीं हो सकती है ? अर्थात् सभी वस्तुयें प्राण-घातक हो सकती हैं ॥ ४४ ॥
अथवा मृदु वस्तु हिंसितुं मृदुनेवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ४५ ॥
**अन्वयः—**अथवा प्रजान्तकः मृदु वस्तु मृदुना एव हिंसितुम् आरभते अत्र हिमसेकविपत्तिः नलिनी मे पूर्वनिदर्शनं मता आस्त ।
अथवेति । अथवा पक्षान्तरे प्रजान्तकः कालो मृदु कोमलं वस्तु मृदुनैव हिंसितुं हन्तुमारभत उपक्रमते । अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मृत्यु-र्यस्याः सा तथा । नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता । द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ।
**भाषार्थ—**अथवा काल कोमल वस्तुओं को मारने के लिये कोमल पदार्थों का प्रयोग करता है। इस विषय में तुषार के गिरने से नष्ट होने वाली नलिनी ही प्रत्यक्ष प्रमाण है ॥ ४५ ॥
स्रगियं यदि जीविता पहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेद मृतं वा विषमीश्वरेच्छया ॥ ४६ ॥
**अन्वयः—**इयं स्रक् यदि जीविता पहा अस्ति हृदये निहिता सती मां किं न हन्ति, ईश्वरेच्छया क्वचित् विषम् अपि अमृतं भवेत् क्वचित् अमृतं वा विषं भवेत् ।
स्रगिति । इयं स्रग्जीवितमपहन्तीति जीविता पहा यदि हृदये वक्षसि । 'हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । निहिता सती मां किं न हन्ति । ईश्वरेच्छया क्वचित्प्रदेशे विषमप्यमृतं भवेत्क्वचिदमृतं वा विषं भवेत् । दैवमेवात्र कारण-मित्यर्थः ।
**भाषार्थ—**यदि यह माला मारनेवाली है तो हृदय पर रखी हुई मुझको क्यों नहीं मारती ? ठीक ही है, ईश्वर की इच्छा से ही विष भी अमृत हो जाता है और कहीं अमृत भी विष हो जाता है ॥ ४६ ॥
२५६ रघुवंशमहाकाव्ये
अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ ४७ ॥
अन्वयः—अथवा मम भाग्यविप्लवात् वेधसा एषः अशनिः कल्पितः यत् अनेन तरुः न पातितः किन्तु तद्विटपाश्रिता लता क्षपिता ।
अथवेति । अथवा मम भाग्यस्य विप्लवाद्दिपर्ययादेषः स्रगित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गनिर्देशः । वेधात्राऽशनिर्वैद्युतोऽग्निः कल्पितः । 'दम्भोलि- रशनिर्द्वयोः' इत्यमरः । यद्यस्मादनेनाप्यशनिना प्रसिद्धाशनिनेव तरुस्तरुस्थानीयः स्वयमेव न पतितः । किन्तु तरोर्विटपाश्रिता लता वल्ली क्षपिता नाशिता ।
भाषार्थ—अथवा मेरे दुर्भाग्य से विधाता ने इस पुष्पमाला को बज्र बना दिया है जिसने वृक्षरूपी मुझ अजको तो नहीं गिराया किन्तु मेरे सहारे रहनेवाली लता रूपी इन्दुमती को नष्ट कर डाला ॥ ४७ ॥
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ४८ ॥
अन्वयः—मयि चिरम् अपराद्धे अपि यदा त्वम् अवधीरणां न कृतवती असि, तत् कथम् एकपदे निरागसम् इमं जनं आभाष्यं न मन्यसे ।
कृतवतीति । मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि । राधेः कर्तरि क्तः । यदा यस्माद्धेतो यदेति हेत्वर्थः । 'स्वरादौ पठ्यते यदेति हेतो' इति गण- व्याख्यानात् । अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे । स्यात्तत्क्षण एकपदम्' इति विश्वः । निरागसं नितरामनपराधमिमं जनम् । इम- मिति स्वात्मनिर्देशः । मामित्यर्थः । आभाष्यं सम्भाष्यं न मन्यसे न चिन्तयसि ।
भाषार्थ—(अब इन्दुमती के प्रति अज कहते हैं) हे प्रिये ! जब कई बार अपराध करने पर भी तुमने कभी मेरा अपमान नहीं किया, तब आज एकाएक अपराधी के समान मुझसे बोलना तुमने क्यों बन्द कर दिया ॥ ४८ ॥
ध्रुवमस्मि शठः शुचिस्मिते ! विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यदनापृच्छ्य गताऽसि मामितः ॥ ४६ ॥
अन्वयः—हे शुचिस्मिते ! शठः कैतववत्सलः इति ध्रुवं तव विदितः अस्मि यत् मां अनापृच्छ्य असंनिवृत्तये इतः परलोकं गता असि ।
ध्रुवमिति । हे शुचिस्मिते धवलहसिते ! गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि । "मतिबुद्धि पूजार्थेभ्यश्च" इत्यनेन कर्तरि क्तः । "तस्य च वर्तमाने" इति कर्तरि षष्ठी । कुतः यद्यस्मान्मानामपृच्छ्ययानामन्त्र्येतोऽस्माल्लोकात्परलोकमसंनिवृत्तये गताऽसि ।
अष्टमः सर्गः २१७
भावार्थ— हे मधुर हँसी हँसने वाली प्रिये ! तुमने मुझे सचमुच झूठा प्रेम करने वाला कपटी समझ लिया है तभी तो मुझसे बिना पूछे सदा के लिए परलोक चल बसी हो ॥ ४९ ॥
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥ ५० ॥
अन्वयः— इदं मम हतजीवितं तावत् दयिताम् अन्वगात् यदि, तर्हि तया विना किं विनिवृत्तम् अत एव आत्मकृतेन प्रबलां वेदनां सहताम् ।
दयितामिति । इदं मम हतजीवितं कुत्सितं जीवितं तावदादाै दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि अन्वगादेव । यद्यत्रावधारणे, पूर्वं मूर्च्छितत्वादिति भावः। तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रत्यभ्यतम् । प्रत्यागमनं न युक्तमित्यर्थः । अत एवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम् । स्वयंकृतापराधेषु सहिष्णुतेव शरणमिति भावः ।
भावार्थ— यदि ये मेरे अभागे प्राण प्यारी इन्दुमती के पीछे चले गये थे तब उसके बिना लौट क्यों आये ? जब इनकी करनी ही ऐसी है तो अपने किये हुए का फल भोगें और अधिक दुःख सहन करें मैं क्या कर सकता हूँ ॥ ५० ॥
सुरतश्रमसम्भृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ५१ ॥
अन्वयः— सुरतश्रमसम्भृतः स्वेदलवोद्गमः अपि ते मुखे ध्रियते, अथ च त्वम् आत्मना अस्तम् इता ( असि ) अतः देहभृतां असारताम् धिक् ।
सुरतेति । सुरतश्रमेण सम्भृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते । अथ च त्वमात्मना स्वरूपेणास्तं नाशमिता प्राप्ता । अतः कारणाद्देह भृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ।
भावार्थ— सुरत के परिश्रम से उत्पन्न पसीने की बूँदें तुम्हारे मुख पर अभी मौजूद हैं पर तुम चल बसी, देहधारियों की इस निःसारता को धिक्कार है ॥ ५१ ॥
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ५२ ॥
अन्वयः— मया मनसा अपि तव विप्रियं न कृतपूर्वं, त्वम् मां किं जहासि । ननु अहं क्षितेः शब्दपतिः अस्मि भावनिबन्धना मे रतिः त्वयि एव अस्ति ।
१७ र० सम्प्र०
| २५८ | रघुवंशमहाकाव्ये |
|---|
मनसेति । मया मनसापि तव विप्रियं न कृतपूर्वम् पूर्वं न कृतमित्यर्थः । सुप्सु पेति समासः । किं केन निमित्तेन मां जहासि त्यजसि । नन्वहं क्षितेः शब्दपतिः शब्दत एव पतिः । न त्वर्थत इत्यर्थः । भावनिबन्धनासाभिप्रायनिबन्धना स्वभाव-हेतुका मे रतिः प्रेम तु त्वय्येव अस्तीति शेषः ।
भाषार्थ—मैंने पहले कभी मन से भी तुम्हारा अप्रिय नहीं किया है तो मुझे क्यों छोड़ रही हो ? सत्य पूछो तो मैं नाम मात्र से पृथ्वी का पति हूँ, मेरा स्वाभाविक प्रेम तो तुम्हारे में ही है ॥ ५२ ॥
कुसुमोत्खचितान्वलीभृतश्चलयन् भृङ्गरुचस्तवालकान् ।
करभोरु ! करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३ ॥
अन्वयः—कुसुमोत्खचितान् वलीभृतः भृङ्गरुचः तव अलकान् चलयन् मारुतः हे करभोरु मे मनः त्वदुपावर्तनशङ्कि करोति ।
कुसुमेति । कुसुमैरुत्खचितानुत्कर्षेण रचितान्वलीभृतोभङ्गीयुक्तान् । कुटिला-नित्यर्थः । भृङ्गरुचो नीलांस्तवालकाञ्चलयन्कम्पयन्मारुतः हे करभोरु करभसह-शोरु ! ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः । मे मनस्त्वदुपावर्त-नशङ्कि तव पुनरागमने शङ्कावत्करोति । त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ।
भाषार्थ—हे करभोरु ! वायु से हिलती हुई, फूलों से गूँथी, भौरों के समान-काली और घुँघराली तुम्हारी लटों को देखकर मेरे मन में यह आशा होने लगती है कि अब तुम अवश्य जी उठोगी ॥ ५३ ॥
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥ ५४ ॥
अन्वयः—हे प्रिये ! त्वम् तत् आशु मे विषादं नक्तम् ओषधिः ज्वलितेन तुहिनाद्रेः गुहागतं तमः इव प्रतिबोधेन अपोहितुम् अर्हसि ।
तदिति । हे प्रिये ! तत्तस्मात्कारणदाशु मे विषादं दुःखं नक्तं रात्रावोषधि-स्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्ध-कारमिव प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ।
भाषार्थ—इसलिए हे प्रिये ! जिस प्रकार रात में चमकने वाली जड़ी बूटियाँ अपने प्रकाश से हिमालय की कन्दराओं का अन्धकार दूर कर देती हैं उसी प्रकार तुम भी जीवन धारण करके मेरे हृदय के विषाद को दूर करो ॥ ५४ ॥
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५ ॥
अष्टमः सर्गः २५१
अष्टमः सर्गः २५१
अन्वयः— इदम् उच्छ्वसितालकं विश्रान्तकथं तव मुखं निशि सुप्तं विरताभ्यन्तरषट्पदस्वनम् एकपङ्कजम् इव मां दुनोति ।
इदमिति । इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं विवृत्तसंलापं तव मुखं निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत् । नि.शब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव मां दुनोति परितापयति ।
भाषार्थ— वायु में हिलते हुए घुँघुराले केशों वाला यह तुम्हारा मुख रात्रि के समय मुकुलित अन्दर भौरों के गुञ्जार से रहित एक कमल के समान मुझे पीड़ित कर रहा है ॥ ५५ ॥
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्त्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ५६ ॥
अन्वयः— शर्वरी शशिनं पुनः एति द्वन्द्वचरं पतत्त्रिणं दयिता पुनः एति इति तौ विरहान्तराक्षमौ स्तः, अत्यन्तगता त्वं तु मां कथं न दहेः ।
शशिनमिति । शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति द्वन्द्वचरः तं पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ । ‘अन्तरमवकाशावधिनान्तर्द्धिभेदतादर्थ्ये’ इत्यमरः । अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न मां दहेः । दहेरेवेत्यर्थः ।
भाषार्थ— हे प्रिये ! रात्रि चन्द्रमा को पुनः प्राप्त हो जाती है और चकवा चकवी का संयोग प्रातः काल में पुनः हो जाता है इसलिए ये दोनों अपनी प्रिया का वियोग सहन कर सकते हैं परन्तु तुम तो सदा के लिए सो गई हो फिर बताओ मैं विरह की आग में जलकर भस्म क्यों न हो जाऊँ ॥ ५६ ॥
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु ! चिताधिरोहणम् ॥ ५७ ॥
अन्वयः— हे वामोरु ! नवपल्लवसंस्तरे अपि मृदु ते यत् अङ्गं दूयेत तत् इदं चिताऽधिरोहणं कथ विषहिष्यते वद ।
नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु ! ‘वामं स्यात्सुन्दरे सव्ये’ इति केशवः । “सहितशफलक्षणवामादेश्च” इत्यादिनोङ्प्रत्ययः । तदिदमङ्गं चितायाः काष्ठसञ्चयस्याधिरोहणं कथं विषहिष्यते वद ।
२६० रघुवंशमहाकाव्ये
भावार्थ— हे सुन्दर जंघेवाली प्रिये ! जो तेरा अत्यन्त सुकुमार शरीर नये कोमल पल्लवों की शय्या पर भी कष्ट पाता था, भला वही शरीर अब कठोर चिता के स्पर्श को कैसे सहन कर सकेगा ॥ ५७ ॥
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसादनोरवा न शुचा नानु मृतेव लक्ष्यते ॥ ५८ ॥
अन्वयः— इयम् प्रथमा रहःसखी गतिविभ्रमसादनीरवा रशना अप्रतिबोधशायिनीं त्वां अनु शुचा मृता इव मया न लक्ष्यते इति न।
इयमिति । इयं प्रथमाऽऽद्या रहःसखी सुरतसमयेऽप्यनुयानादिति भावः । गतिभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखला अप्रतिबोधम-पुनरुद्बोधं यथा तथा शायिनीं । मृतामित्यर्थः । त्वामनु त्वया सह । “तृतीयार्थे” इत्यनुशब्दस्य कर्मप्रवचनीयत्वात् “कर्मप्रवचनीययुक्ते द्वितीया” इत्यनेन द्वितीया। शुचा शोकेन मृतेव न लक्ष्यत इति न । लक्ष्यत एवेत्यर्थः । संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ।
भावार्थ— तुम्हारी हावभावभरी चाल के बन्द हो जाने से शब्दरहित तुम्हारी एकान्तसखी यह करधनी भी तुम्हें सदा के लिए सोती देखकर तुम्हारे शोक में मरी हुई सी दिखाई दे रही है ॥ ५८ ॥
कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् ।
पृषतीषु विलोलमोक्षितं पवनाधूतलतासु विभ्रमाः । ५६ ॥
त्रिदिवोत्सुकयाऽप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमा ॥ ६० ॥
अन्वयः— अन्यभृतासु कलं भाषितं कलहंसीषु मदालसं गतं पृषतीषु विलोलम् ईक्षितं पवनाधूतलतासु विभ्रमाः इति ‘अमी गुणाः त्रिदिवोत्सुकया अपि त्वया माम् अवेक्ष्य सत्यं निहिता तव विरहे गुरुव्यथं मे हृदयम् अवलम्बितुं न क्षमाः सन्ति’।
कलमिति । त्रिदिवेति । युग्मम् । उभयोरेकान्वयः । अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणं कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम् । पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः । पवनेन वायुनाधूतलतास्वी-त्कम्भिलतासु विभ्रमा विलासाः । इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः एषु कोकिलादिस्थानेष्विति शेषः । त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितपापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः मत्प्राणधारणोपायतया
अष्टमः सर्गः
अष्टमः सर्गः २६१
स्थापिता इत्यर्थः । तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं न क्षमा न शक्ताः । ते तु तत्संगम एव सुखकारिणः । नान्यथा प्रत्युत प्राणानपहरन्तीति भावः ।
**भाषार्थ—**हे प्रिये ! स्वर्ग में जाते समय तुम मुझे आश्वासन देने के लिए कोकिलाओं में मधुर भाषण, राजहंसियों में अपनी धीमी चाल, हरिणियों में चञ्चल चितवन, वायु में धीरे-धीरे हिलनेवाली लताओं में विलास आदि गुण तुम छोड़ गई हो परन्तु वे तुम्हारे विरह में अत्यन्त दुःखी मेरे हृदय को किसी प्रकार शान्ति देने में समर्थ नहीं हैं ॥ ५९-६० ॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम् ॥ ६१ ॥
**अन्वयः—**ननु हे प्रिये ! सहकारः फलिनी च इमौ त्वया मिथुनं परिकल्पितम् अनयोः विवाहसत्क्रियाम् अविधाय गम्यते इति असाम्प्रतम् ( अस्ति ) ।
मिथुनमिति । ननु हे प्रिये ! सहकारश्चूतविशेषः फलिनी प्रियङ्गुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यधायि । अनयोः फलिनीसहकारयोर्विवाह- सत्क्रियां विवाहमङ्गलमविधाय अकृत्वा गम्यत इत्यसांप्रतमयुक्तम् । मातृहीनानां न किञ्चित्सुखमस्तीति भावः ।
**भाषार्थ—**हे प्रिये ! तुमने इस आम्रवृक्ष ओर प्रियंगुलता की जोड़ी माना था इन दोनों का विवाह संस्कार किये बिना जा रही हो, यह अत्यन्त अनुचित है ॥ ६१ ॥
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२ ॥
**अन्वयः—**त्वया कृतदोहदः अयम् अशोकः यत् कुसुमम् उदीरयिष्यति तव अलकाभरणं तत् ( अहम् ) कथं नु निवापमाल्यतां नेष्यामि ।
कुसुममिति । वृक्षादिपोषकं दोहदम् त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसाविष्यते तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्घ्यतां नेष्यामि । 'पितृदानं निवापः स्यात्' इत्यमरः ।
**भाषार्थ—**हे प्रिये ! जिस अशोक वृक्ष को तुमने अपने चरणों से स्पर्श किया है जब वह आगे चलकर फूलेगा, तब तुम्हारे केशों को सजाने के योग्य उन फूलों को मैं किस प्रकार दाह संस्कार के बाद दी जाने वाली तिलाञ्जलि में उपयोग करूँगा ॥ ६२ ॥
२६२ रघुवंशमहाकाव्ये
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्द्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि ! शोच्यसे ॥ ६३ ॥
**अन्वयः—**हे सुगात्रि ! अन्यदुर्लभं सशब्दनूपुरं चरणानुग्रहं स्मरता इव कुसुमाश्रुवर्षिणा अमुना अशोकेन त्वम् शोच्यसे ।
स्मरतेति । अन्यदुर्लभम् किन्तु स्मर्तव्यमेवेत्यर्थः । सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन हे सुगात्रि ! “अङ्गगात्रकण्ठेभ्यो वक्तव्यम्” इति ङीप् । त्वं शोच्यसे ।
**भावार्थ—**हे शोभनाङ्गी प्रिये ! तुम्हारे झंकार करते हुए नूपुर वाले चरणों की ठोकर किसी को नहीं मिलती किन्तु तुमने बड़ी कृपा करके इस अशोक को ठोकर लगा दी थी । अब उन तुम्हारे चरणों की कृपा का स्मरण करके यह अशोक वृक्ष पुष्प रूपी आंसू बरसाते हुए तुम्हारे लिए रो रहा है ॥ ६३ ॥
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥ ६४ ॥
**अन्वयः—**हे किन्नरकण्ठि ! तव निःश्वासंतानुकारिभिः बकुलैः मया समं अर्धचितां विलासमेखलाम् असमाप्य ( त्वया ) किमिदं सुप्यते ।
तवेति । तव निश्वसितानुकारिभिर्बकुलकुसुमैर्मया समं सार्धमर्धचितामर्धं यया तथा रचितां विलासमेखलामसमाप्यापूरयित्वा किन्नरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि ! “अङ्गगात्रकण्ठेभ्यो वक्तव्यम्” इति ङीप् । किमिदं सुप्यते निद्रा क्रियते । “वचिख्वपियजादीनां किति” इत्यनेन सम्प्रसारणम् । अनुचितमिदं स्वपनमित्यर्थः ।
**भावार्थ—**हे किन्नरों के समान मधुर कण्ठवाली प्रिये ! अपने श्वास के समान सुगन्धित मौलेसरी के पुष्पों की जो सुन्दर करधनी तुम मेरे साथ गूँथ रही थीं उसे पूरा किये बिना क्यों सो रही हो ॥ ६४ ॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ६५ ॥
**अन्वयः—**सखीजनः समदुःखसुखः अयम् आत्मजः प्रतिपच्चन्द्रनिभः अहम् एकरसः तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः अस्ति ।
समेति । सखीजनः समदुःखसुखः त्वद्दुःखेन दुःखी । त्वत्सुखेन सुखीत्यर्थः ।
अष्टमः सर्गः २६५
अष्टमः सर्गः २६५
अयमात्मजो बालः । प्रतिपच्चन्द्रनिभः दर्शनीयो वर्धिष्णुश्चेत्यर्थः । प्रतिपच्छब्देन द्वितीया लक्ष्यते । प्रतिपदि चन्द्रस्यादर्शनात् । अहमेकरसोऽभिन्नरागः । 'शृङ्गा-रादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । तथापि जीवितसामग्रीसत्त्वे-ऽपीत्यर्थः । ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुर क्रूरः । 'प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च । प्रागल्भ्ये च प्रबोधे च' इति विश्वः । स्मर्तुं न शक्यः किमुताधिकर्तुमिति भावः ।
भाषार्थ—हे प्रिये ! सुख-दुःख में समान रहनेवाली सखियां खड़ी हैं, प्रतिपद के चन्द्रमाके समान सुन्दर और माता द्वारा पालन की अपेक्षा रखनेवाला छोटा-सा अबोध बालक भी यहीं है और तुम्हारा अनन्य प्रेमी मैं भी तुम्हारे साथ हूँ । तथापि हम लोगों को छोड़ कर स्वर्ग चले जाने का यह तुम्हारा व्यवहार अत्यन्त निष्ठुर मालूम पड़ता है ॥ ६५ ॥
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६ ॥
अन्वयः—अद्य मे धृतिः अस्तम् इता रतिः च्युता गेयं विरतम् ऋतुः निरुत्सवः आभरणप्रयोजनं गतं शयनीयं परिशून्यम् अभूत् ।
धृतिरिति । अद्य मे धृतिर्धैर्यं प्रतीतिर्वास्तं नाशमिता । रतिः क्रीडा च्युता गता । गेयं गानं विरतम् । ऋतुर्वसन्तादिर्निरुत्सवः । आभरणानां प्रयोजनं गतमपगतम् । शेतेऽस्मिन्निति शयनीयं तल्पम् । "कृत्यल्युटो बहुलम्" इत्यधिकर-णेऽनीयर् प्रत्ययः । परिशून्यं त्वां विना सर्वमपि निष्फलमिति भावः ।
भाषार्थ—हे प्रिये ! आज तेरे बिना मैं अधीर हो रहा हूँ, मेरा आनन्द जाता रहा, गाना बजाना बन्द हो गया भूषण पहनने का प्रयोजन समाप्त हो गया और मेरी सेज सूनी हो गई; अधिक क्या कहूँ तेरे बिना सभी व्यर्थ हैं ।
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हतम् ॥ ६७ ॥
अन्वयः—त्वं एव गृहिणी सचिवः मिथः सखी ललिते कलाविधौ प्रियशिष्या असि । अतः त्वां हरता करुणाविमुखेन मृत्युना मे किं न हृतं त्वं वद ।
गृहिणीति । त्वमेव गृहिणी दाराः । अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः । सचिवो बुद्धिसहायो मन्त्री हितोपदेशस्त्वदायत्त इत्यनेनोच्यते । मिथो रहसि सखी नर्मसचिवः । सर्वोपभोगस्त्वदाश्रय इत्यमुना प्रकटितम् । ललिते मनोहर कलविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या प्रियत्वं प्राज्ञत्वादि-
२६४ रघुवंशमहाकाव्ये
त्यभिसन्धिः सर्वानन्दोजेनेन त्वन्निबन्धन इत्युद्घाटितम् । अंतस्त्वां समष्टिरूपां हरता अत एव अकरणाविमुखेन कृपाशून्येन मृत्युना मे मत्त्सम्बन्धि किं वस्तु न हृतं वद । सर्वमपि हृतमित्यर्थः ।
भाषार्थ—हे प्रिये ! तुम्हीं मेरी धर्मपत्नी सम्मति देने वाला मंत्री एकान्त की सखी और गान आदि ललित कलाओं के प्रयोग में प्रिय शिष्या थी । तुम्हीं कहो तुमको हरण करते हुए निर्दय मृत्यु ने मेरा क्या नहीं छीन लिया ? अर्थात् मृत्यु ने आज मेरा सर्वस्व हरण कर लिया ॥ ६७ ॥
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ६८ ॥
अन्वयः—हे मदिराक्षि ! मदाननार्पितं रसवत् मधु पीत्वा त्वं परलोकोपनतं मे बाष्पदूषितं जलाञ्जलि कथं नु अनुपास्यसि ।
मदिरेति । माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि नार्यो मदिरलोचनाः इत्यादिप्रयोगदर्शनान्माद्यत्यामिति मदिरे अक्षिणी अस्यास्तत्संबुद्धौहे मदिराक्षि मत्तलोचने ! मदाननेनार्पितं रसवत्स्वादुतरं मधु मद्यं पीत्वा बाष्पदूषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलि तिलोदकाञ्जलि कथं त्वननन्तरं पास्यसि। तदनन्तरमिदमयुक्तमित्यर्थः । तथाह भट्टमल्लः—'अनुपसानं हिमजलं यवगो- धूमनिर्मिते । दध्नि मद्ये द्राक्षे पिष्टे पिष्टमयेऽपि च ।' इति तच्चेहैव इदं लोकान्तरोपयोगि चेत्यायुर्वेदविरोध तत्कथमनुपास्यसीति भावः ।
भाषार्थ—हे मदिराक्षि प्रिये ! पहले मेरे मुख से प्रेम पूर्वक दिये हुए स्वादिष्टमद्यको पीकर बाद में अब तुम मेरी आंसुओं से दूषित परलोक में प्राप्त तिलाञ्जलि को कैसे पीओगी ॥ ६८ ॥
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९ ॥
अन्वयः—विभवे सति अपि त्वया विना अजस्य एतावत् एव सुखं जनैः गण्यतां विलोभनान्तरैः अहृतस्य मम सर्वे विषया त्वदाश्रयाः सन्ति ।
विभव इति । विभवे ऐश्वर्ये सत्यपि त्वया विनाऽजस्यैतावदेव सुखं गण्यताम् यावत्त्वया सह भुक्तं ततोऽन्यत्र किंचिद्भवष्यतीत्यर्थः । कुतः विलोभनान्तरैर्विषया न्तरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयस्त्वदाश्रयास्त्वदधीनाः । त्वां विना मे न किंचिद्रोचत इत्यर्थः ।
भाषार्थ—हे प्रिये ! इतना ऐश्वर्य होने पर भी तुम्हारे बिना अज का सारा
अष्टमः सर्गः २६५
सुख मिट्टी में मिल गया, क्योंकि मुझे और किसी वस्तु से तो प्रेम है नहीं। मेरे सभी सुखों का केन्द्र तो तुम्हीं थी ॥ ६९ ॥
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरूहानपि स्रुतशाखारसवाष्पदूषितान् ॥ ७० ॥
अन्वयः—कोसलाधिपः प्रियां प्रति इति करुणार्थग्रथितं विलपन् पृथिवीरूहान् अपि स्रुतशाखारसवाष्पदोषितान् अकरोत् ।
विलपन्निति । कोसलाधिपोऽज इति करुणाः शोकरसः स एवार्थस्तेन ग्रथितं सम्बद्धं यथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्पृथिवीरुहान्वृक्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैर्दुषितानकरोत् । अचेतनानप्यरोदयदित्यर्थः ।
भाषार्थ—इस प्रकार प्रिया इन्दुमती के लिए सकरुण विलाप करते हुए कोशलनरेश अज ने वृक्षों को भी गिरते हुए गोंद रूपी आँसुओं से दूषित कर दिया । अर्थात् अज के रोते हुए देखकर वृक्षों को भी रस रूपी आंसू वहा कर रोने लगे ॥ ७० ॥
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् ।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥ ७१ ॥
अन्वयः—अथ स्वजनः तस्य अङ्कतः कथंचित् अपनीय तदन्त्यमण्डनां तां सुन्दरीम् अगुरुचन्दनैधसे अनलाय विससर्ज ।
अथेति । अथ स्वजनो बन्धुवर्गस्तस्याऽजस्याङ्कत उत्सङ्गात्कथंचिदपनीय तद्दिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्तां तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मै अनलायाग्नये विससर्ज विसृष्टवान् । ॐ क्रियाग्रहणमपि कर्तव्यम् * इति क्रियामात्रप्रयोगे संप्रदानत्वाच्चतुर्थी ।
भाषार्थ—इसके बाद आत्मीय जनों ने किसी प्रकार अज की गोद से उस सुन्दरी इन्दुमती को अलग करके उसी पुष्पमाला से उसका अन्तिम शृङ्गार करके और चन्दन की लकड़ियों से उसका दाह संस्कार कर दिया ॥ ७१ ॥
प्रमदामनुसंस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ७२ ॥
अन्वयः—नृपतिः सन् अपि शुचा प्रमदाम् अनुसंस्थितः इति वाक्यदर्शनात् देव्या सह शरीरम् अग्निसात् न चकार जीविताशया तु न ।
प्रमदामिति—नृपतिरजः सन्नपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितो मृत इति वाच्यदर्शनान्निन्दादर्शनाद् देव्येन्दुमत्या सह शरीरमग्निसा-
२६६ रघुवंशमहाकाव्ये
दग्न्यधीनं न चकार । "तदधीनवचने" इति सातिप्रत्ययः । जीविताशया प्राणे- च्छया तु नेति ।
भाषार्थ—'राजा अज विद्वान् होते हुए भी शोक से प्रिया के पीछे मर गये' इस लोकनिन्दा के भय से ही इन्दुमती के साथ अपने शरीर को अग्नि में नहीं जलाया किन्तु जीने की आशा से नहीं । ७२ ॥
अथ तेन दशाहतः परे गुणशेषामुपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ७३ ॥
अन्वयः—अथ विदुषा तेन गुणशेषां भामिनीम् उपदिश्य, दशाहतः परे महर्द्धयः विधयः पुरः उपवने एव समापिताः ।
अथेति । अथ विदुषा शास्त्रज्ञेन तेनाजेन गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमुपदिश्योद्दिश्य दशानामह्नां समाहारो दशाहः । "तद्धितार्थोत्तरपदसमाहारे च" इत्यनेन समासः । समाहारस्यैकत्वादेकवचनम् । "राजाहःसखिभ्यष्टच्" इति टच् । "रात्राह्नाहाः पुंसि" इति पुंवत् ततस्तसिल् । तस्माद्दशाहतः परं ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्याने एवं समापिताः सम्पूर्णमनुष्ठिताः । 'दशाहतः' इत्यत्र "विप्रः शुध्ये- द्दशाहेन द्वादशाहेन भूमिपः" इति मनुवचनविरोधो नाशङ्कनीयः । तस्य निर्गुण- क्षत्रियविषयत्वात् । गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः—"क्षत्र्रि- यस्तु दशाहेन स्वकर्मनिरतः शुचिः ।" इति सूच्यतेऽस्यापि गुणवत्त्वं विदुषेत्यनेन ।
भाषार्थ—इसके बाद शास्त्रज्ञ उस राजा ने गुणमात्र शेष से (मरी हुई) इन्दुमती के उद्देश्य से दशाह के बाद की सारी उत्तर क्रियाओं को विस्तार के साथ उसी उपवन में पूरा किया ॥ ७३ ॥
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन्त्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४ ॥
अन्वयः—तया विना क्षणदापायशशाङ्कदर्शनः सः पौरवधूमुखाश्रुषु स्वशुचः परिवाहम् इव अवलोकयन् पुरीं विवेश ।
स इति । तयेन्दुमत्य। विना क्षणदाया रात्रेरेपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः । प्रातःकालिकचन्द्र एव दृश्यमान इत्यर्थः । दृश्यत इति कर्मार्थे ल्युट् । सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं जलोच्छ्वासमिवावलोकयन् । 'जलोच्छ्वासाः परिवाहाः' इत्यमरः । स्वदुःख-
अष्टमः सर्गः
अष्टमः सर्गः २६७
पूरातिशयमिव पश्यन् पुरीं विवेश । वधूग्रहणात्तस्यामिन्दुमत्यं सह्याभिमानादज- समानदुःखसूचकपरीवाहोक्तिनिर्वहति ।
भाषार्थ — उस इन्दुमती के बिना रात बीतने पर चन्द्रमा के समान प्रभाहीन वे अज, नागरिक स्त्रियों के मुखपर आसुओं में अपने शोक के प्रवाह को देखते हुए राजधानी में प्रवेश किये (अर्थात् इन्दुमती के बिना अज को निष्प्रभ देख कर नगर की स्त्रियाँ रोने लगीं ) ॥ ७४ ॥
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ ७५ ॥
अन्वयः — अथ सवनाय दीक्षितः गुरुः आश्रमस्थितः 'सन्' यम् अभिषङ्ग-जडं प्रणिधानात् विजज्ञिवान् इति शिष्येण अन्वबोधयत् किल ।
अथेति । अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन् तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाच्चित्तैकाग्र्याद्विजज्ञिवाञ्ज्ञातवान् । "क्वसुश्च" इति क्वसुप्रत्ययः । इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोधयत्किल । बुधेर्ण्यन्ताण्णिचि लङ् ।
भाषार्थ — उन दिनो वसिष्ठजी यज्ञ कर रहे थे इस लिये अज के यहाँ स्वयं नहीं आ सकते थे । उन्होंने आश्रम में ही योगबल के प्रभाव से राजा अज के शोक का कारण जान लिया और एक शिष्य से अज के पास सन्देश भेजा ॥ ७५ ॥
वसिष्ठशिष्य आह —
असमाप्तविधेर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥ ७६ ॥
अन्वयः — यतः मुनिः असमाप्तविधिः सन् तव तापकारणं विद्वान् अपि पथः च्युतम् भवन्तं प्रकृतौ स्थापयितुं स्वयम् न उपस्थितः ।
असमाप्तेति । यतो हेतोर्मुनेरसप्तविधिःसमाप्तक्रतुस्ततस्तवं तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्नपि । "विदेः शतृर्वसुः" इति वस्वादेशः । "न लोकाव्ययनिष्ठाखलर्थतृनाम्" इत्यनेन षष्ठीप्रतिषेधः । पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुं समाश्वासयितुमित्यर्थः । नोपस्थितः स्वयंः नागत ।
भाषार्थ — ( शिष्य ने आकर कहा ) वसिष्ठ मुनि का यज्ञ अभी समाप्त नहीं हुआ है इसलिए आपके दुःख को जानते हुए भी न तो वे आ ही सके हैं और न
| २६८ | रघुवंशमहाकाव्ये |
|---|
आपको इस शोक में धीरज ही बंधा सके हैं अतः मेरे द्वारा आपके पास यह सन्देश भेजा है ॥ ७६ ॥
मयि तस्य सुवृत्त ! वर्तते लघुसन्देशपदा सरस्वती ।
शृणु विश्रुतसत्त्वसार ! तां हृदि चैनामुपधातुमर्हसि ॥ ७७ ॥
अन्वयः— हे सुवृत्त ! लघुसन्देशपदा तस्य सरस्वती मयि वर्तते विश्रुत सत्त्वसार ! तां शृणु एनां च त्वम् हृदि उपधातुम् अर्हसि ।
मयीति । हे सुवृत्त सदाचार ! सदिश्यत इति संदेशः संदेष्टव्यार्थः तस्य पदानि वाचकानि लघूनि संक्षिप्तानि यस्यां सा लघुसन्देशपदा । तस्य मुने सरस्वती वाङ्मयि वर्तते । हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय ! तां सरस्वतीं शृणु एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ।
भाषार्थ— हे सदाचारसम्पन्न प्रसिद्ध पराक्रमशाली महाराज अज ! उन्होंने मेरे द्वारा थोड़े शब्दों में जो सन्देश भेजा है उसे आप सुनें और हृदय में धारण करें ॥ ७७ ॥
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ ७८ ॥
अन्वयः— हि अजन्मनः पुरुषस्य पदेषु समतीतं च भवत च भावि च इति त्रितयं सः निष्प्रतिघेन चक्षुषा पश्यति ।
पुरुषस्येति । अजन्मनः पुरुषस्य पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु विक्रमेषु त्रिभुवनेष्वपीत्यर्थः । समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यच्चेति त्रितयं स मुनिर्निष्प्रतिघेनाप्रतिबन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्ट्या पश्चात् हि अतस्तदुक्तिषु न संशयितव्यमित्यर्थः । ( लोकत्रये कालत्रयस्य वार्ता गुरुर्वसिष्ठो जानातीति भावः ) ।
भाषार्थ— अजन्मा पुराणपुरुष वामन भगवान् के तीन पैरों से नपे त्रिलोक में स्थित भूत, भविष्य और वर्तमान की सभी बातों को वे प्रतिबन्धरहित ज्ञान के नेत्रों से देखते हैं । इसलिए विश्वास करके उनके सन्देश को आप सुनें ॥७८॥
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥ ७९ ॥
अन्वयः— पुरा किल दुश्चरं तपः चरत तृणबिन्दोः परिशंकितः हरिः समाधिभेदिनीं हरि सुराङ्गनाम् अस्मै प्रजिघाय ।
चरत इति । पुरा किल दुश्चरं तीव्रम् तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामका-
अष्टमः सर्गः | २६९
| अष्टमः सर्गः | २६९ |
|---|
त्कस्माच्चिवदृषेः परिशङ्कितो भीतः। कर्तरि क्तः “भीत्रार्थानां भयहेतुः” इत्य- पादानात्पञ्चमी। हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरणीं नाम सुरांग- नामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान्।
**भाषार्थ—**एक बार तृणविन्दु नामक ऋषि अतिकठोर तपस्या कर रहे थे, उनकी उग्र तपस्या से डरकर इन्द्र ने उनकी तपस्या भंग करने के लिए हरिणी नाम की अप्सरा को भेजा॥ ७९॥
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम्।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि॥ ८०॥
**अन्वयः—**सः शमवेलाप्रलयोर्मिणा तपः प्रतिबन्धमन्युना प्रमुखाविष्कृत-चारुविभ्रमां तां भुवि मानुषी भव इति अशपत्।
स इति। स मुनिः शमः शान्तिरेव वेला मर्यादा तस्या प्रलयोर्मिणा प्रलय-कालतरङ्गेण शमविघातकेनेत्यर्थः। ‘अब्ध्यम्बुधिकृतौ वेला कालमर्यादयोरपि इत्यमरः। तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना प्रमुखेऽग्रे आवि-ष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप।
**भाषार्थ—**जिस प्रकार प्रलय काल की लहर समुद्र के तट को गिरा देती है उसी प्रकार ऋषि को तपस्या से डिगाने के लिए वह अप्सरा वहां जा पहुँची और अनेक प्रकार का शृङ्गारमय हाथ भाव दिखाने लगी। उसे देखते ही मुनि ने तपस्या में बाधा उपस्थित होने के कारण क्रोध से उसको शाप दे दिया कि तू मनुष्य की स्त्री हो जा॥ ८०॥
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे।
इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात्॥ ८१॥
**अन्वयः—**हे भगवन्! अयं जनः परवान् (अस्ति) मे प्रतिकूलाचरितं क्षमस्व इति उपनतां ऋषिः आसुरपुष्पदर्शनात् क्षितिस्पृशम् कृतवान्।
भगवन्निति। हे भगवन्महर्षे! अयं जनः परोऽस्यास्तीति स्वामित्वेन परवा-न्पराधीनः। इन्द्राधीन इत्यर्थः। अयमित्यात्मनिर्देशः अहं पराधीनेत्यर्थः। मे मम प्रतिकूलाचरितमपराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमासुर-पुष्पदर्शनात्सुरपुष्पदर्शनपर्यन्तं क्षिति स्पृशतीति क्षितिस्पृक् तां क्षितिस्पृशां मानपीं कृतवानकरोत्। दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः।
भाषार्थ—(शाप सुनते ही वह अप्सरा घबड़ा उठी और हाथ जोड़कर
२७० रघुवंशमहाकाव्ये
कहने लगी—) हे भगवन् ! मैंने इन्द्र के कहने से यह काम किया है, इसमें मेरा कुछ भी दोष नहीं है, इस विपरीत व्यवहार को आप क्षमा कीजिए। इस प्रकार उस अप्सरा की प्रार्थना सुनकर ऋषि ने जब तक तुम्हें स्वर्गीय पुष्प नहीं दिखाई पड़ेगा, तब तक तुम्हें पृथ्वी पर रहना ही पड़ेगा ऐसा कह कर उस अप्सरा पर अनुग्रह किया ॥ ८१ ॥
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥ ८२ ॥
अन्वयः—क्रथकैशिकवंशसंभवा सा तव महिषी भूत्वा चिराय दिवः च्युतं शापनिवृत्तिकारणम् उपलब्धवती सा विवशा अभूत् ।
क्रयेति । क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव महिष्यभिषिक्ता स्त्री । 'कृताभिषेका महिषी' इत्यमरः। भूत्वा चिराय दिवः स्वर्गच्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपमुपलब्धवती । विवशा अभूदिति शेषः । मृतेत्यर्थः ।
भाषार्थ—वही अप्सरा विदर्भवंश में उत्पन्न होकर बहुत दिनों तक तुम्हारी पटरानी बनी रही। अब स्वर्ग से गिरे हुए शाप की निवृत्ति के कारण स्वर्गीय पुष्पमाला को देख कर वह शाप से मुक्त होकर स्वर्ग चली गई ॥ ८२ ॥
तदलं तदपायचिन्तया विपदुत्पत्तिमंतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ ८३ ॥
अन्वयः—तत् तदपायचिन्तया अलम् उत्पत्तिमन्तां विपद् उपस्थिता (अतः) त्वया इयं वसुधा अवेक्ष्यतां । हि नृपाः वसुमत्या कलत्रिणः भवन्ति ।
तदिति । ततस्मात्तस्या अपायचिन्तयालं तस्या मरणं न चिन्त्यमित्यर्थः । निषेधक्रियां प्रति करणत्वाच्चिन्तयेति तृतीया । कुतो न चिन्त्यमत आह—उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा । 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च' इत्यर्थः । तथापि कलत्ररहितस्य किं जीवितेन तत्राह—त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम् । हि यस्मान्नृपा वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः अतो न शोचितव्यमित्यर्थः ।
भाषार्थ—इस कारण उसकी मृत्यु की चिन्ता करना व्यर्थ है क्योंकि जो जन्म लेता है वह एक न एक दिन मरता ही है । अतः आप शोक छोड़ कर सावधान हो पृथ्वी का पालन कीजिए, क्योंकि राजाओं की सच्ची सहधर्मिणी तो पृथ्वी ही है ॥ ८३ ॥
अष्टमः सर्गः २७१
अष्टमः सर्गः २७१
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८४ ॥
अन्वयः—उदये सति मदवाच्यम् उज्झता त्वया यत् आत्मवत् श्रुतम् आविष्कृतं, तत् मनसः ज्वरे उपस्थिते सति अक्लीबतया पुनः प्रकाश्यताम् ।
उदय इति । उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रं तज्जनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितं तच्छ्रुतं मनसो ज्वरे सन्ताप उपस्थिते प्राप्तेऽक्लमतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्रवस्थास्वपि धीरेण भवितव्यमित्यर्थः ।
भाषार्थ—ऐश्वर्य पाकर राजा लोग मतवाले हो जाते हैं किन्तु आप सुख के दिनों में भी इस अपयश से बचे रहे और अभिमान छोड़कर आपने अपने जिस प्रकार अध्यात्म ज्ञान का परिचय दिया है उसी प्रकार इस दुःख के समय में भी धीरज धर कर आप मन को शान्त करने के लिए पुनः उसी अध्यात्मज्ञान का प्रकाश कीजिए ॥ ८४ ॥
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८५ ॥
अन्वयः—रुदता भवता सा कुतः एव लभ्यते, अनुमृता अपि पुनः न लभ्यते । हि परलोकजुषां देहिनां गतयः सुकर्मभिः भिन्नपथा भवन्ति ।
रुदतेति । रुदता भवता सा कुत एव लभ्यते न लभ्यत एव । अनुम्रियत इत्यनुमृत् । क्विप् । तेनानुमृताऽनुभवतापि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह—परलोकजुषां लोकान्तरभाजां देहिनां इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैभिन्नपथाः पृथक्कृतमार्गा हि । परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ।
भाषार्थ—रोने को तो बात ही क्या ! यदि आप रोते रोते मर भी जाय तो अब उस इन्दुमती को नहीं पा सकते हैं क्योंकि मरने पर सब प्राणी अपने-अपने कर्मों के अनुसार भिन्न भिन्न मार्ग से जाते हैं ॥ ८५ ॥
अपशोकमनाः कुटुम्बिनोमनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥
अन्वयः—अपशोकमनः सन् कुटुम्बिनीं, निवापदत्तिभिः त्वम् अनुगृह्णीष्व अतिसन्ततं स्वजनाश्रु प्रेतं दहति इति प्रचक्षते किल ।
अपेति । किंत्वपशोकमना निर्दुःखचित्तः सन्कुटुम्बिनीं पत्नीं निवापदत्तिभिः