भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

३८८ रघुवंशमहाकाव्ये

येषां संजातानि कुवलयिताः । "तदस्य सञ्जातं तारकादिभ्य इतच्" इती- तच्प्रत्ययः। कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यार्मावशत्प्रविष्टवान् । इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये सीताविवाहवर्णनं नामैकादशः सर्गः ॥ ११ ॥ भाषार्थ—इसके बाद शिव के समान राजा दशरथ ने कुछ रातें उस मार्ग में बिताईं, जहाँ उनके लिए सुन्दर खेमे तने हुए थे । फिर वे उस अयोध्या नगरी में पहुँचे, जहाँ सीताजी को देखने के लिए उत्सुक नगर की सुन्दर स्त्रियों की आँखें झरोखों में कमल के समान दिखाई पड़ रही थीं ॥ ९३ ॥

यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित अन्वय और चन्द्रकला नाम की हिन्दी टीका में रघुवंश महाकाव्य का सीताविवाह नामक दशम सर्ग समाप्त हुआ ॥ ११ ॥


द्वादशः सर्गः

वन्दामहे महोद्दण्डदोर्दण्डौ रघुनन्दनौ । तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ ॥

निर्वृष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥ १ ॥

अन्वयः—निर्वृष्टविषयस्नेहः दशान्तम् उपेयिवान् स उषसि प्रदीपार्चिः इव आसन्ननिर्वाणः आसीत् ।

निर्वृष्टेति । स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः । पचाद्यच् । स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः । अधिकरणार्थे घञ् । विषयाः शब्दादयस्त एव स्नेहा निर्वृष्टा भुक्ता विषयस्नेह। येन स तथोक्तः । 'निर्वेशो भृतिभोगयोः' इति विश्वः । दशा जीवनावस्था तस्य अन्तः वार्धकमृपेयिवान्स दशरथः । उषसि प्रदीपार्चिरिव दीपज्वालेव आसन्न निर्वाणः मोक्षः यस्य स तथोक्त आसीत् । अर्चिः पक्षे तु विषयो देश आश्रयः भाजनमिति यावत् । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति

द्वादशः सर्गः ३८९

विश्वः। स्नेहस्तैलादिः । 'स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च' इति विश्वः ।
दशा वर्तिका । 'दशा वर्ताववस्थायाम्' इति विश्वः । निर्वाणं विनाशः ।
निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने' इति यादवः ।
भाषार्थ—राजा दशरथ ने सांसारिक विषय सुखों को भोग लिया और वे बूढ़े हो चले, अब उनकी दशा प्रातःकाल के उस दीपक के समान हो गई, जिसका तेल समाप्त हो गया है और वह बुतने वाला ही हो ॥ १ ॥

तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ २ ॥

अन्वयः—जरा कैकेयीशङ्कया पलितच्छद्मना कर्णमूलम् आगत्य रामे श्रीः न्यस्यताम् इति आह ।

तमिति । जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यस्य छद्मना मिषेण । 'पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा' इत्यमरः । कर्णमूल कर्णोपकण्ठ-मागत्य रामे श्री राज्यलक्ष्मीर्न्यस्यतां विधीयतामिति तमाह। दशरथो वृद्धोऽह-मिति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्क्षेत्यर्थः ।
भाषार्थ—उनकी कनपटी के पास के बाल सफेद हो गये थे मानो बुढ़ापा कैकेयी से शङ्कित होकर राजा दशरथ के कान में आकर यह कह रहा थी कि अब राम को राज्यलक्ष्मी दे देना चाहिए ॥ २ ॥

सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्लादयाञ्चक्रे कुल्येवोद्यानपादपान् ॥ ३ ॥

अन्वयः—सा पौरकान्तस्य रामस्य अभ्युदयश्रुतिः कुल्या उद्यानपादपान् इव पौरान् प्रत्येकं ह्लादयाञ्चक्रे ।

सेति । सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता कुल्या कृत्रिमा सरित् । 'कुल्याल्पा कृत्रिमा सरित्' इत्यमरः । उद्यानपादपानिव पौरान्प्रत्येकं ह्लादयाञ्चक्रे ।
भाषार्थ—जिस प्रकार नाली पानी से सींचकर उपवन के वृक्षों को हरा भरा बना देती है उसी प्रकार नागरिकों के प्रिय राम के राज्याभिषेक की चर्चा ने प्रत्येक नागरिक को आह्लादित कर दिया ॥ ३ ॥

तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ ४ ॥

अन्वयः—क्रूरनिश्चया कैकेयी तस्य कल्पितं अभिषेकसम्भारं शोकोष्णैः पार्थिवाश्रुभिः दूषयामास ।

३९० | रघुवंशमहाकाव्ये

तस्येति । क्रूरनिश्चया कैकेयी तस्य रामस्य कल्पितं सम्भृतमभिषेकस्य सम्भारमुपकरणं शोकोष्णैः पार्थिवाश्रुभिर्दूषयामास । स्वदुःखमूलेन राजशोकेन प्रतिबबन्धेत्यर्थः ।

**भाषार्थ—**निष्ठुर कैकेयी ने ऐसा कुचक्र चलाया कि रामको राज्याभिषेक की सारी तैयारी शोक से सन्तप्त राजा दशरथ की आसुओं से दूषित हो गयी । अर्थात् क्रूरकर्मा कैकेयी के कारण रोते हुए दशरथ ने राम के राज्याभिषेक को रोक दिया ॥ ४ ॥

सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूबिलमग्नाविवोरगौ ॥ ५ ॥

**अन्वयः—**चण्डी सा किल भर्त्रा आश्वासिता ( सती ) तत्संश्रुतौ वरौ इन्द्रसिक्ता भूः विलमग्नो उरगो इव उद्ववाम ।

सेति । चण्ड्यतिकोपना । 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः । सा किल भर्त्राऽऽश्वासिताऽनुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ इन्द्रेण मेघेेन सिक्ताभिवृष्टा । 'इन्द्रः फणिज्जके सान्द्रे घनकामनयोर्मदो' इति विश्वः । भूबिले वल्मीकादौ मग्नावुरगाविव उद्ववामोज्जगार ।

**भाषार्थ—**अत्यन्त क्रोधशीला उस कैकेयी ने राजा दशरथ द्वारा आश्वासन दिए जाने पर दो वर मांगे जिनके लिए वे पहले ही वचन दे चुके थे, वे दोनों वर कैकेयी के मुख से इस प्रकार निकले जिस प्रकार वर्षा से भीगी हुई पृथ्वो से बिल में घुसे दो सांप निकलते हों ॥ ५ ॥

तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ ६ ॥

**अन्वयः—**सा तयोः एकेन रामं चतुर्दशसमाः प्राव्राजयत् । द्वितीयेन वरेण सुतस्य वैधव्यैकफलां श्रियम् ऐच्छत् ।

तयोरिति । सा तयोर्वरयोर्मध्ये एकेन वरेण रामं चतुर्दशसमाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । प्राव्राजयत्प्रावासयत् । द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलां न तूपभोगफलामिति भावः । श्रियमैच्छदियेष ।

**भाषार्थ—**उन दोनों वरों में से कैकेयी ने एक वर तो यह मांगा कि चौदह वर्ष के लिए राम वन में चले जाय और दूसरा यह कि मेरे पुत्र भरत को राज्यलक्ष्मी मिले; किन्तु इसका एक मात्र फल यह हुआ कि कैकेयी विधवा हो गई किन्तु सुख नहीं पा सकी ॥ ६ ॥

द्वादशः सर्गः३९१

पित्रा दत्तां रुदन्द्रामः प्राङ्महीं प्रत्यपद्यत।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ ७ ॥

**अन्वयः—**रामः प्राक् पित्रा दत्तां महीं रुदन् प्रत्यपद्यत पश्चात्, 'वनाय गच्छ' इति तदाज्ञां मुदितः अग्रहीत्।

पित्रोति । रामः प्राक्पित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार। स्वत्यागदुःखदिति भावः। पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत्। पित्राज्ञाकरणलाभादिति भावः।

**भाषार्थ—**जिस समय राजा दशरथ रामको राज्यगद्दी दे रहे थे उस समय उन्होंने रोते हुए उसे स्वीकार किया था, पर जब उनसे कहा गया कि वन चले जाओ, तब इस आज्ञा को हँसते-हँसते सिर चढ़ा लिया था ॥ ७ ॥

दधतो मङ्गलक्षौमे वसानस्य च वल्कले।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ ८ ॥

**अन्वयः--**मंगलक्षौमे दधतः वल्कले वसानस्य च तस्य समं मुखरागं जनाः विस्मिता ददृशुः।

दधत इति । मङ्गलक्षौमे मङ्गले च ते क्षौमे दुकूले च दधतो वल्कले वसानास्याच्छादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृत इति भावः।

**भाषार्थ—**यह देखकर लोगों को बड़ा आश्चर्य हुआ कि राम के मुंह का भाव जैसा राज्याभिषेक के रेशमी वस्त्र पहनते समय था, ठीक वैसा ही वन जाने के लिए वल्कल वस्त्र पहनते समय भी था अर्थात् राम के मुख पर हर्ष या शोक का चिह्न न देखकर लोग आश्चर्यचकित हो गये ॥ ८ ॥

स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन्।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ ९ ॥

**अन्वयः—**सः गुरुं सत्यात् अलोपयन् सीतालक्ष्मणसखः दण्डकारण्यं विवेश सतां मनश्च प्रत्येकं विवेश।

स इति । स रामो गुरुं पितरं सत्याद्वरदानरूपादलोपयन्नभ्रंशयन् सीता-लक्ष्मणयो सखेति विग्रहः। ताभ्यां सहितः सन्दण्डकारण्यं दण्डकानामभार्गवकन्यया युतं वनं विवेश सतां मनश्च प्रत्येकं विवेश। पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः।

**भाषार्थ—**अपने पिता के वचन का सत्य करने के लिए राम सीता एवं

३१२रघुवंशमहाकाव्ये

लक्ष्मण के साथ केवल दण्डक में ही नहीं, किन्तु सज्जनों के मन में भी प्रवेश कर गये ॥ ९ ॥

राजाऽपि तद्वियोगातं: स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥

**अन्वयः—**तद्वियोगातं: राजापि स्वकर्मजं शापं स्मृत्वा शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत ।

राजेति । तद्वियोगातं: पुत्रवियोगदुःखितः तस्य रामस्य वियोगेन आर्तः पीडितः राजाऽपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तममन्यत मृत इत्यर्थः ।

**भाषार्थ—**राम के वियोग से राजा दशरथ को बहुत बड़ा दुःख हुआ, उन्हें अपने कर्म से प्राप्त मुनि ( श्रवणकुमार के पिता ) का शाप स्मरण हो आया और उन्होंने समझ लिया कि अब एकमात्र शरीर त्याग से ही मेरी शुद्धि हो सकती है ॥ १० ॥

विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥

**अन्वयः—**विप्रोषितकुमारं अस्तमितेश्वरं तत् राज्यं रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ ।

विप्रोषितेति । विप्रोषिता गताः कुमारा यस्मिस्तत्तथोक्तम् । अस्तमितो मृत ईश्वरो राजा यस्य तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषां शत्रूणामामिषतां भोग्यवस्तुतां ययौ । 'आमिषं भोग्यस्तुनि' इति केशवः ।

**भाषार्थ—**जिस राज्य से राजकुमार बाहर चले गये हैं और राजा का स्वर्गवास हो गया है, ऐसा वह राज्य छिन्द्रान्वेषी शत्रुओं का भोग साधन बन गया । अर्थात् अवसर पाकर शत्रुओं के आक्रमण का विषय बन गया ॥ ११ ॥

अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ १२ ॥

**अन्वयः—**अथानाथाः प्रकृतयः मातृबन्धुनिवासिनम् भरतं स्तम्भिताश्रुभिः मौलैः आनयामासुः ।

अथेति । अथानाथाः प्रकृतयोऽमात्याः । 'प्रकृतिः सहजे यौनावमात्ये परमात्मनि' इति विश्वः । मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः । पितृमरणगुप्त्यर्थमिति भावः । मौलैराप्तैः सचिवैरानाययानामासुरागमयाञ्चक्रुः ।

द्वादशः सर्गः ३९३

**भाषार्थ—**इसके बाद अयोध्या को अनाथ मन्त्रियों ने ननिहाल गये हुए भरत को उन विश्वासपात्र व्यक्तियों से बुलवाया जिन्होंने भेद खुल जाने के भय से अपनी आसुओं को रोक रखा था ॥ १२ ॥

श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥ १३ ॥

**अन्वयः—**कैकेयीतनयः पितुः तथाविधं मृत्युं श्रुत्वा स्वस्याः मातुः एव परा-ङ्मुखः न ( किन्तु ) श्रियः अपि पराङ्मुखः आसीत् ।

श्रुत्वेति । कैकेयीतनयो भरतः पितुस्तथाविधं रामवियोगादित्यर्थः । स्व-मातृमूलं मृत्युं मरणं श्रुत्वा स्वस्याः मातुः केवलं मातुरेव पराङ्मुखो न । किन्तु श्रियोऽपि पराङ्मुख आसीत् ।

**भाषार्थ—**कैकेयी के पुत्र भरत पिता की उस प्रकार हुई मृत्यु को सुनकर केवल अपनी माता कैकेयी से ही विमुख नहीं हुए किन्तु राजलक्ष्मी से भी पराङ्मुख हो गये ॥ १३ ॥

ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः ।
तस्य पश्यन्नसौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ १४ ॥

**अन्वयः—**ससैन्यः आश्रमालयैः दर्शितान् ससौमित्रेः तस्य वसतिद्रुमान् पश्यन् उदश्रुः ( सन् ) रामं अन्वगात् ।

ससैन्य इति । ससैन्यो भरतो राममन्वगाच्च । किं कुर्वन् आश्रमालयैर्वनवा-सिभिर्मुनिभिर्दर्शितानेते रामनिवासा इति कथितान्ससौमित्रेर्लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान्पश्यन्नुदश्रुरुद्गतबाष्पो रुदन् ।

**भाषार्थ—**भरतजी सेना लेकर रामको ढूंढने निकल पड़े । जब मार्ग में आश्रमवासियों ने उन्हें वे वृक्ष दिखलाये जिनके नीचे राम और लक्ष्मण जाते समय ठहरे थे, तो भरत की आंखों में आंसू उछल आये ॥ १४ ॥

चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा ॥ १५ ॥

**अन्वयः—**चित्रकूटवनस्थं तं च गुरोः कथितस्वर्गतिः अनुच्छिष्टसम्पदा लक्ष्म्या निमन्त्रयाञ्चक्रे ।

चित्रेति । चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः कथितपितृ-मरणः सन्नित्यर्थः । अनुच्छिष्टाननुभूतशिष्टा सम्पत् गुणोत्कर्षो यस्य सा । ‘सम्प-

३९४ रघुवंशमहाकाव्ये

ङ्हूतो गुणोत्कर्षे' इति केशवः । तया लक्ष्म्या करणेन निमन्त्रयाञ्चक्रे आहूतवान् । राज्यमनुभवैत्याजुहावेत्यर्थः । भाषार्थ—चित्रकूटके वन में निवास करते हुए राम के पास जाकर भरत ने उन्हें दशरथ जी की मृत्यु का समाचार सुनाया और कहा कि अयोध्या का राज्य लक्ष्मी को मैंने छुआ भी नहीं है उसे मैं स्वीकार नहीं करूँगा । आप चलकर उसे संभालिये ॥ १५ ॥

स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥ १६ ॥

अन्वयः—स हि प्रथमजे अकृतश्रीपरिग्रहे ( सति ) भुवः स्वीकरणात् आत्मानं परिवेत्तारं मेने ।

स हीति । स हि भरतः प्रथमजेऽग्रजे तस्मिन्दरामेऽकृतश्रीपरिग्रहे सति स्वयं-भुवः स्वीकरणादात्मानं परिवेत्तारं मेने । 'परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिग्रहात्' इत्यमरः । भूपरिग्रहोऽपि दारपीरग्रहसम इति भावः ।

भाषार्थ—धर्मशास्त्रों में बड़े भाई के अविवाहित रहते विवाह करनेवाले छोटे भाई को परिवेत्ता कहा गया है और इस प्रकार का विवाह निन्दित माना गया है। शास्त्रों में स्त्री परिग्रह के समान ही राजलक्ष्मी का परिग्रह भी माना गया है। भरतजी ने अपने बड़े भाई राम की राज्यलक्ष्मी स्वीकार न करने पर पहले स्वयं राज्यलक्ष्मी को स्वीकार करने वाले अपने को परिवेत्ता संज्ञक दोषी माना ॥ १६ ॥

तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥ १७ ॥

अन्वयः—स्वर्गिणः पितुः निदेशात् अपाक्रष्टुं अशक्यं तं पश्चात् राज्याधिदेवते कर्तुं पादुके ययाचे ।

तमिति । स्वर्गिणः स्वर्गंतस्य पितुर्निदेशाच्छासनादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे ।

भाषार्थ—रामजी अपने स्वर्गीय पिता की आज्ञा से टस से मस नहीं हुए। तब भरतजी ने उनसे प्रार्थना की कि आप अपनी चरण पादुका मुझे दे दीजिए जिन्हें मैं आपके स्थान पर रखकर राज्य का काम चलाऊँ ॥ १७ ॥

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैव विशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ १८ ॥

द्वादशः सर्गः ३९५

अन्वयः— सः भ्रात्रा तथा इति उक्त्वा विसृष्टः पुरीं न अविशत् ( किन्तु ) नन्दिग्रामगतः तस्य राज्यं न्यासं इव अभुनक् ।

स इति । स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन्पुरीमयोध्यां नाविशदेव । किन्तु नन्दिग्रामगतः संस्तस्य राज्यं न्यासमिव निक्षेपमिवाभुनगपालयत् । न तूपभुक्तवानित्यर्थः । अन्यथा “भुजोऽनवने” इत्यात्मनेपदप्रसङ्गात् । भुजेर्लङ् ।

भावार्थ— 'अच्छा, ऐसा ही होगा' इस प्रकार कहकर अपनी खड़ाऊं देकर रामने भरत को लौटा दिया, पर भरतजी अयोध्यापुरी में प्रवेश नहीं किये किन्तु नन्दीग्राम में रहते हुए धरोहर के समान राम के राज्य का पालन किये ॥ १८ ॥

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ १९ ॥

अन्वयः— ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखः भरत इति मातुः पापस्य प्रायश्चित्तम् इव अकरोत् ।

दृढेति । ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्माकरोदिव इत्युत्प्रेक्षा । दृढभक्तिरित्यत्र दृढशब्दस्य ‘स्त्रियाः पुंवत् ०’ इत्यादिना पुंवद्भावो दुर्घटः 'अप्रियादिषु' इति निषेधात् भक्तिशब्दस्यस्य प्रियादिषु पाठात् । अतो दृढा भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम् । वृत्तिकारश्च—दीर्घनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारत्वात्क्लीत्वमविवक्षितमेव । तस्मादक्लीलिङ्गत्वार्द्दढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः । न्यासकारोऽप्येवम् । भोजराजस्तु—कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात्पुवद्भावसिद्धिः पूर्वपदस्येत्याह ।

भावार्थ— इस प्रकार अपने बड़े भाई राम में दृढ भक्ति करके और राज्य की इच्छा से विमुख होकर भरतजी मानो अपनी माता के पाप का प्रायश्चित्त करने लगे ॥ १९ ॥

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ २० ॥

अन्वयः— सानुजः शान्तः रामः अपि वैदेह्या सह वने वन्येन वर्तयन् वृद्धेक्ष्वाकुव्रतं युवा एव चचार ।

राम इति । सानुजः सलक्ष्मणः शान्तो रामोऽपि वैदेह्या सह वने वन्येन

३९६रघुवंशमहाकाव्ये

कन्दमूलादिना वर्तञ्जीवन्वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार।

**भावार्थ—**इधर राम भी सीता और लक्ष्मण के साथ जंगली कन्द-मूल-फल से जीवन निर्वाह करते हुए युवावस्था में ही वह व्रत करने लगे जो इक्ष्वाकु-वंशी राजा लोग वृद्धावस्था में करते हैं ॥ २० ॥

प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किञ्चिदिव श्रमात् ॥ २१ ॥

**अन्वयः—**सः कदाचित् प्रभावस्तम्भितच्छायं वनस्पतिं आश्रितः ( सन् ) किञ्चित् श्रमात् इव सीताया अङ्के शिश्ये ।

प्रभावति । स रामः कदाचित्प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया तं वनस्पतिमाश्रितः सन् किञ्चिदीवच्छ्रमादिव सीताया अङ्के उत्सङ्गे शिश्ये सुषुवाप ।

**भावार्थ—**एक समय थकावट से राम सीता की गोद में सिर रखकर एक ऐसे वृक्ष के नीचे लेटे हुए थे जिसकी छाया उन्होंने अपनी अलौकिक शक्ति में स्थिर कर दी थी ॥ २१ ॥

ऐन्द्रिः किल नखस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ २२ ॥

**अन्वयः—**ऐन्द्रिः द्विजः तस्याः स्तनौ प्रियोपभोगचिह्नेषु पौरोभाग्यं आचरन् इव नखैः विददार ।

ऐन्द्रिरिति । ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकः । ‘ऐन्द्रिः काकजयन्तयोः’ तस्याः सीतायाः स्तनौ प्रियस्य रामस्योपभोगचिह्नेषु । तत्कृतनखक्षतेष्वित्यर्थः । पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम् ‘दोषैकदृक्पुरोभागी’ इत्यमरः । दुःश्लिष्टदोषवातामाचरन्कुर्वन्निव नखैर्विददार विलिलेख । किलेत्यैतिह्ये ।

**भावार्थ—**इसी बीच इन्द्र का पुत्र जयन्त कौआ का रूप धारण करके आया और राम के उपभोग से जन्य नखक्षतों में दोष दिखलाते हुए के समान सीता के स्तनों को अपने नखों से विदीर्ण कर दिया ॥ २२ ॥

तस्मिन्नास्यदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ २३ ॥

**अन्वयः—**रामावबोधितः रामः तस्मिन् इषीकास्त्रं आस्थत्, स एकनेत्रव्ययेन तस्मात् आत्मानं मुमुचे ।

तस्मिन्निति । रामया सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम् । ‘इषीका काशमुच्यते’ इति हलायुधः । आस्थदस्यति स्म । ‘असु क्षपणे’

द्वादशः सर्गः ३९७.

द्वादशः सर्गः ३९७.

इति धातोर्लङ् । "अस्यतिवक्तिख्यातिभ्योऽङ्" इत्यप्रत्ययः । "अस्यतेस्थुक्" इति थुगागमः । स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान् । मुचे कर्तरि लिट् । 'धेनुं मुमोच' इतिवत्प्रयोगः ।

भाषार्थ—झट सीता ने रामको जगाया और राम ने तत्काल उसपर सींक का बाण छोड़ दिया, जिससे बचने के लिए वह कौआ इधर-उधर बहुत चक्कर लगाया, किन्तु जब तक उसने अपनी एक आंख नहीं दे दी, तब तक उसका छुटकारा नहीं हुआ अर्थात् राम ने बाण से उसकी एक आँख नष्ट कर दी ॥२३॥

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ ॥ २४ ॥

अन्वयः--रामः तु आसन्नदेशत्वात् पुनः भरतागमनं आशङ्क्य उत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ।

राम इति। रामस्त्वासन्नदेशत्वाद्वैतोः पुनर्भंरतागमनमाशङ्क्योत्सुकसारङ्गा- मुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज । आसन्नश्चासौ देशश्चेति विग्रहः ।

भाषार्थ--कुछ दिनों में ही राम ने इस डर से चित्रकूट का वह आश्रम जहाँ के लोग उनसे इतने हिल मिल गये थे कि सदा उन्हें देखते ही रहते थे छोड़ दिया, कि अयोध्या पास में ही है, ऐसा न हो कि भरत पुनः यहाँ पहुँच जाय ॥ २४ ॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षकेष्विव भास्करः ॥ २५ ॥

अन्वयः--आतिथेयेषु ऋषिकुलेषु वार्षकेषु ऋक्षेषु भास्करः इव दक्षिणां दिशं प्रययौ ।

प्रययाविति । स रामः अतिथिषु साधून्यातिथेयानि । “पथ्यतिथिवसति- स्वपतेर्ढञ्” इति ढञ्प्रत्ययः । तेष्वृषिकुलेष्वृष्याश्रमेषु । ‘कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये’ इति हेमः । वर्षासु भवानि वार्षिकाणि । “वर्षाभ्यष्ठक्” इति ठक्प्रत्ययः । तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन्दक्षिणां दिशं प्रययौ ।

भाषार्थ--जिस प्रकार वर्षाकाल के आर्द्रा आदि दश नक्षत्रों में ठहरते हुए सूर्य दक्षिणायन हो जाते हैं उसी प्रकार अतिथि सत्कार करनेवाले ऋषियों के आश्रमों में ठहरते हुए राम दक्षिण दिशा की ओर बढ़ गये ॥ २५ ॥

बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ २६ ॥

३९८ रघुवंशमहाकाव्ये

अन्वयः—तं अनुगच्छन्ती विदेहाधिपतेः सुता कैकेय्या प्रतिषिद्धा अपि गुणोन्मुखी लक्ष्मीः इव बभौ।

बभाविति। तं राममनुगच्छन्ती अनुयान्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीखिव बभौ ।

भाषार्थ—यद्यपि कैकेयी ने रामको राज्यलक्ष्मी से दूर कर दिया था फिर भी उनके पीछे-पीछे चलनेवाली जनकनन्दिनी सीता ऐसी जान पड़ती थी मानों राम के गुणों से उत्कण्ठित होकर राम के पीछे-पीछे राजलक्ष्मी चल रही है॥ २६ ॥

अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥ २७ ॥

अन्वयः—सा अनुसूयातिसृष्टेन पुण्यगन्धेन अङ्गरागेण काननं पुष्पोच्चलितषट्पदं चकार ।

अनुसूयेति। सा सीताऽनुसूययाऽत्रिभार्ययाऽतिसृष्टेन दत्तेन पुण्यगन्धेनाङ्गरागेण काननं वनं पुष्पेभ्यः उच्चलिता निर्गताः षट्पदाः भ्रमरा यस्मिंस्तत्तथाभूतं चकार ।

भाषार्थ—जब राम अत्रि ऋषि के आश्रम पर पहुँचे तब उनकी धर्मपत्नी सती अनुसूयाजी ने सीता के शरीर में ऐसा सुगन्धित अंगराग लगा दिया कि उसकी पवित्र गन्ध पाकर भौंरे जंगली पुष्पों को छोड़कर उधर ही आने लगे ॥ २७ ॥

सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ २८ ॥

अन्वयः—सन्ध्याभ्रकपिशः विराधः नाम राक्षसः ग्रहः इन्दोः इव तस्य मार्गम् आवृत्य अतिष्ठत् ।

सन्ध्येति। सन्ध्याभ्रकपिशो सन्ध्याभ्रवत्कपिशः पिङ्गो विराधो नाम राक्षसः ग्रहो राहुरिन्दोरिव तस्य रामस्य मार्गमध्वानमावृत्यावरुद्ध्यातिष्ठत् ।

भाषार्थ—जिस प्रकार चन्द्रमा का मार्ग राहु रोक लेता है उसी प्रकार सन्ध्याकाल के बादल के समान लाल वर्णवाला विराध नाम का राक्षस राम के मार्ग को रोक कर खड़ा हो गया ॥ २८ ॥

स जहार तयोर्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ २९ ॥

अन्वयः—लोकशोषणः सः तयोः मैथिलीं नभो नभस्ययोः अन्तरे वृष्टिः इव जहार ।

स इति । लोकस्य शोषणः शोषकः जनसन्तापकारीत्यर्थः। स राक्षसतयो राम-

द्वादशः सर्गः ३९९

लक्ष्मणयोर्मध्ये मैथिलीं नभोनभस्ययोः श्रावणभाद्रपदयोरन्तरे मध्ये वृष्टिमवग्रहो वर्षप्रतिबन्ध इव जहार। 'वृष्टिवर्षं तन्निघातेऽवग्राहावग्रहो समौ' इत्यमरः।

**भाषार्थ—**जिस प्रकार कोई खोटा ग्रह श्रावण तथा भादों मास के बीच से वर्षा को गायब कर देता है उसी प्रकार संसार को सन्तप्त करनेवाले उस विराध राक्षस ने राम और लक्ष्मण के बीच से सीता को हर लिया॥ २९॥

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥ ३०॥

**अन्वयः—**काकुत्स्थौ तं निष्पिष्य अशुचिना गन्धेन स्थलीं पुरा दूषयति इति वसुधायां निचख्नतुः।

तमिति। ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। "यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् वसुधायां निचख्नतुर्भूमो खनित्वा निक्षिप्तवन्तौ च।

**भाषार्थ—**राम और लक्ष्मण उसे तत्काल मारकर पृथ्वी में इसलिए गाड़ दिये कि कहीं इसके शरीर से दुर्गन्ध निकल कर इस प्रदेश को दूषित न कर दे॥ ३०॥

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ ३१॥

**अन्वयः—**ततः रामः कुम्भजन्मनः शासनात् पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ इव अनपोढस्थितिः तस्थौ।

पञ्चवट्यामिति। ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात् पञ्चानां वटानां समाहारः पञ्चवटी। "तद्धितार्थोत्तरपदसमाहारे च" इति तत्पुरुषः। "संख्यापूर्वो द्विगुः" इति द्विगुसंज्ञायाम्। "द्विगोः" इति ङीप्। "द्विगुरेकवचनम्" इत्येकवचनम्। तस्यां पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ।

**भाषार्थ—**इसके बाद जिस प्रकार विन्ध्यपर्वत अगस्त्यजी की आज्ञा से अपनी प्रकृति में ही स्थित रहता है उसी प्रकार राम भी अगस्त्यजी के कहने से मर्यादा पूर्वक पञ्चवटी में रहने लगा॥ ३१॥

रावणावरजा तत्र राघवं मदनातुरा।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ ३२॥

४०० रघुवंशमहाकाव्ये

अन्वयः—तत्र मदनातुरा रावणावरजा राघवं निदाघार्ता व्याली मलयद्रुमम् इव अभिपेदे ।

रावणावरजेति। तत्र पञ्चवट्यां मदनातुरा रावणावरजा रावणानुजा शूर्पणखा । “पूर्वपदात्संज्ञायामगः” इति णत्वम् । राघवं निदाघार्ता व्याकुला व्याली भुजङ्गी मलयद्रुमं चन्दनद्रुममिव अभिपेदे प्राप ।

भाषार्थ—वहाँ जिस प्रकार धूप से व्याकुल होकर कोई सर्पिणी चन्दन के वृक्ष के पास पहुँच गई हो, उसी प्रकार काम से पीड़ित होकर रावण की छोटी बहन शूर्पणखा राम के पास जा पहुँची ॥ ३२ ॥

सा सीतासन्निधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥ ३३ ॥

अन्वयः—सा सीता सन्निधौ एव कथितान्वया ( सती ) तं वव्रे । हि अत्यारूढः नारीणां मनोभवः अकालज्ञः ( भवति ) ।

सेति। सा शूर्पणखा सीतासन्निधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती । तथाहि अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो अनवसरज्ञो हि ।

भाषार्थ—पहले तो उस शूर्पणखा ने अपने कुल का परिचय दिया । बाद सीता के सामने ही कहने लगी कि मैं आपको अपना पति बनाने आई हूँ । ठीक ही है जब स्त्रियाँ अधिक कामातुर हो जाती हैं तब उन्हें समय और असमय का ज्ञान नहीं रहता ॥ ३३ ॥

कलत्रवानहं बाले कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ३४ ॥

अन्वयः—वृषस्कन्धः रामः वृषस्यन्तीं तां 'हे बोले ! अहं कलत्रवान्, मे कनीयांसं भजस्व' इति शशास ।

कलत्रवानिति । वृष पुमान् । ‘वृषः स्याद्वासवे धर्म सौरभेये च शुक्ले । पुंराशिभेदयोः शृङ्गयां मूषकश्रेष्ठयोरपि ॥’ इति विश्वः । वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी । ‘वृषस्यन्ती तु कामुकी' इत्यमरः । 'सुप आत्मनः क्यच्' इति क्यच्प्रत्ययः । "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि" इत्यसुगागमः । ततो लटः शत्रादेशः । “उगितश्च” इति ङीप् । श्लोकार्थस्तु—वृषस्कन्धो रामो वृषस्यन्तीं तां राक्षसीं—हे बाले ! अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व—इति शशासाज्ञापितवान् ।

भाषार्थ—शूर्पणखा की बात सुनकर वृष के समान विशाल कन्धेवाले राम

द्वादशः सर्गः ४०१

द्वादशः सर्गः ४०१

मैथुन की इच्छावाली उस शूर्पणखा से बोले—हे वाले ! मेरा तो विवाह हो चुका है तुम मेरे छोटे भाई के पास जाओ ॥ ३४ ॥

ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् । साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ ३५ ॥

अन्वयः—पूर्वं ज्येष्ठाभिगमनात् तेन अपि अनभिनन्दिता भूयः रामाश्रया सा उभयकूलभाक् नदी इव अभूत् ।

ज्येष्ठेति । ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाप्यनभिनन्दिता नाङ्गीकृता भूयो रामाश्रया रामसमीपं पुनरागच्छन्ती सा राक्षसी उभे कुले भजतीत्युभयकूलभाक् नदीवाभूत् । सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ।

भाषार्थ—वह झट लक्ष्मण के पास पहुँची लक्ष्मण ने उससे कहा तू मेरे बड़े भाई के पास विवाह की इच्छा से जा चुकी है इसलिए तू मेरी माता के समान है, मैं तुमसे विवाह नहीं कर सकता । यह सुनकर वह फिर राम के पास पहुँची । उस समय उसकी दशा उस नदी के समान हो गई, जो बारी-बारी अपने दोनों तटों का स्पर्श करती हुई बह रही हो ॥ ३५ ॥

संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् । निवातस्तिमितं वेलां चन्द्रोदय इवोदधेः ॥ ३६ ॥

अन्वयः—मैथिलीहासः क्षणसौम्यां तां निवातस्तिमितं उदधेः वेलां चन्द्रोदय इव संरम्भं निनाय ।

संरम्भमिति । मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीं । निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम् । अम्बुपूरमित्यर्थः । ‘अब्ध्याम्बुविकृतौ वेला’ इत्यमरः । चन्द्रोदय इव संरम्भं संक्षोभं निनाय ।

भाषार्थ—जिस प्रकार वायु के अभाव में शान्त समुद्र के तरङ्ग को चन्द्रमा संक्षुब्ध कर देता है, उसी प्रकार सीताजी को हँसते हुए देखकर क्षणभर के लिए सुन्दर बनी हुई वह शूर्पणखा बिगड़कर खड़ी हो गई और बोली ॥ ३६ ॥

फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्याः परिभवो व्याघ्रचामित्यवेहि त्वया कृतम् ॥ ३७ ॥

अन्वयः—अस्य उपहासस्य फलं सद्यः पाप्स्यसि, मां पश्य, त्वया कृतं व्याघ्रचां मृग्याः परिभव ( इति ) अवेहि ।

फलमिति । श्लोकद्वयेनान्वयः । अस्योपहासस्य फलं सद्यः सम्प्रत्येक

२६ र० सम्पू०

४०२रघुवंशमहाकाव्ये

आप्स्यसि । मां पश्य । त्वया कर्त्र्या कृतमुपहासरूपं करणं व्याघ्र्यां विषये मृग्याः कर्त्र्या परिभव इत्यवेहि ।

भाषार्थ— इस उपहास का फल तुम शीघ्र पाओगी, मुझे देखो तुमने मेरा वैसे ही अपमान किया है जैसे कि कोई हरिणी किसी व्याघ्री का अपमान करे । अर्थात् जिस प्रकार व्याघ्री का अपमान करने वाली मृगी का कुशल नहीं होता, उसी प्रकार तेरे द्वारा किये गये उपहास परिणाम अच्छा नहीं होगा ॥ ३७ ॥

इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ ३८ ॥

अन्वयः— भयात् भर्तुः अङ्के निविशतीं मैथिलीं इति उक्त्वा शूर्पणखा नाम्नः सदृशं रूपं प्रत्यपद्यत ।

इतीति । भयाद्भर्तुरङ्के निविशतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा नाम्नः सदृशम् । शूर्पाकारं नखयुक्तमित्यर्थः । रूपमाकारं प्रत्यपद्यत स्वीचकार । अदर्शयदित्यर्थः ।

भाषार्थ— सीताजी यह सुनते ही भय से राम की गोद में छिप गईं और शूर्पणखा ने अपने नाम के अनुसार सूप के समान बड़े-बड़े नखवाला अपना रूप धारण कर लिया ॥ ३८ ॥

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम् ॥ ३९ ॥

अन्वयः— लक्ष्मणः प्रथमं कोकिलामञ्जुवादिनीं पश्चात् शिवाघोरस्वनां तां श्रुत्वा विकृता इति विबुधे ।

लक्ष्मण इति । लक्ष्मणः प्रथमं कोकिलावन्मञ्जुवादिनीं पश्चाच्छिवावद्-घोरस्वनां जम्बुकीभीषणरवां तां शूर्पणखां श्रुत्वा। तस्या स्वनं श्रुत्वेत्यर्थः। सुस्वनः शङ्खः श्रूयत, इतिवत्प्रयोगः। विकृता मायाविनीति बुबुधे बुद्धवान् । कर्तरि लिट् ।

भाषार्थ— जब लक्ष्मण ने देखा कि अभी तो यह कोयल के समान मधुर बोल रही थी और अब सियारिन के समान भयंकर स्वर से बोल रही है । तब तब उन्होने समझ लिया कि यह मायाविनी राक्षसी है ॥ ३९ ॥

पर्णशालामिथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत् ॥४०॥

अन्वयः— अथ स विकृष्टासिः क्षिप्रं पर्णशालां प्रविश्य भीषणां तां वैरूप्यपौन-रुक्त्येन अयोजयत् ।

पर्णशालामिति । अथ स लक्ष्मणो विकृष्टासिः कोशोद्धृतखड्गः सञ्क्षिप्तं

द्वादशः सर्गः ४०३

पर्णशालां प्रविश्य भीषयतीति भीषणाम्। नन्द्यादित्वाल्ल्युट् कर्तरि। तां राक्षसीं कर्णनासादिच्छेदाद्यावैरूप्यं तस्य वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया तेनायोजय-द्योजितवान्। स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः।

भाषार्थ—इसके बाद लक्ष्मणजी झट से तलवार लेकर पर्णकुटी में गये और वहाँ शूर्पणखा के नाक-कान काट लिये। नाक कान कट जाने से वह और भी अधिक कुरूप दिखाई देने लगो। अर्थात् राक्षसी होने के कारण वह तो पहले से ही कुरूप बन गई थी फिर नाक कान कट जाने पर और अधिक कुरूप हो गई ॥ ४० ॥

सा वक्रनखधारिण्या वेणुकर्कशपर्वया।
अङ्कुशाकारयाऽङ्गुल्या तावतर्जयदम्बरे ॥ ४१ ॥

अन्वयः—सा वक्रनखधारिण्या वेणुकर्कशपर्वया अंकुशाकारया अङ्गुल्या तौ अम्बरे अतर्जयत्।

सेति। सा वक्रनखं धारयतीति वक्रनखधारिणी तया वेणुवत्कर्कशपर्वया अत एवाङ्कुशस्याकार इवाकारो यस्याः सातया अङ्गुल्या तौ राघवावम्बरे व्योम्नि स्थिता। 'अम्बरं व्योम्नि वाससिः' इत्यमरः। अतर्जयद्भर्त्सयत्। 'तर्ज भर्त्सने' इति धातोश्चौरादिकादनुदात्तत्त्वादात्मनेपदेन भाव्यम्। तथापि चक्षिङो ङित्कर-णाज्ज्ञापकादनुदात्तेत्वनिमित्तस्यानित्यत्वात्परस्मैपदमूह्यमित्युक्तमाख्यातचन्द्रिका-याम्। 'तर्जयते भर्त्सयते तर्जयतीत्यपि च दृश्यते कविषु' इति।

भाषार्थ—नकटी होकर वह आकाश में उड़ी अङ्कुश के समान टेढ़े-मेढ़े नखों वाली और बाँस के समान कड़े पोरोंवाली अपनी अङ्गुलियां चमका-चमकाकर राम और लक्ष्मण को धमकाने लगी ॥ ४१ ॥

प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम्।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥ ४२ ॥

अन्वयः--( सा ) आशु जनस्थानं प्राप्य खरादिभ्यः तथाविधं रामोपक्रमं नवं रक्षः परिभवं आचख्यौ।

प्राप्येति। साऽऽशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङ्ग-च्छेदात्मकं नसिकाच्छेदरूपम् उपक्रम्यत इत्युपक्रमः। कर्मणि घञ्प्रत्ययः। रामस्य कर्तुरुपक्रमः रामोपक्रम रामेणादावुपक्रान्तमित्यर्थः। “उपज्ञोपक्रमं तदाद्याचि-ख्यासायाम्" इति क्लीबत्वम्। तं नवं राक्षसां कर्मभूतानां परिभवमाचख्यौ च।

भाषार्थ—वहां से चलकर वह तत्काल जनस्थान में पहुँची तथा खर आदि

४०४ रघुवंशमहाकाव्ये

राक्षसों से राम के उस व्यवहार को बतलाकर उभाड़ा और कहा कि आज प्रथमबार राम ने इस प्रकार राक्षसों का अपमान किया है ॥ ४२ ॥

मुखावयवलूनां तां नैऋता युत्पुरो दधुः । रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥ ४३ ॥

अन्वयः—नैऋता मुखावयवलूनां तां पुरः दधुः यत् तत् एव रामाभियायिनां तेषां अमंगलम् अभूत् ।

मुखेति । नैऋता राक्षसाः । 'नैऋती यातुराक्षसी' इत्यमरः । मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति । यत्तदेव रामाभियायिनां राममभिद्रवतां तेषाममङ्गलमभूत् ।

भावार्थ—आगे-आगे नकटी और कनकटी शूर्पणखा और उसके पीछे वे राक्षस राम से लड़ने को निकल पड़े। इस नकटी को आगे करके उन लोगों ने पहले ही अपना सगुन बिगाड़ दिया, क्योंकि ज्योतिष शास्त्र में यात्रा के समय सामने अङ्ग-भङ्ग व्यक्ति को देखना अमंगल बतलाया है ॥ ४३ ॥

उदायुधानापततस्तान्दृप्तानप्रेक्ष्य राघवः । निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ ४४ ॥

अन्वयः—उदायुधान् आपततः तान् तृप्तान् प्रेक्ष्य राघवः चापे विजयाशंसां लक्ष्मणे सीतां च निदधे ।

उदिति । उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तान्सगर्वांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे धनुषि विजयस्याशंसामाशां लक्ष्मणे सीतां च निदधे । सीतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय सन्नद्ध इति भावः ।

भावार्थ—राम ने दूर से ही देखा कि हाथ में शस्त्र उठाए अहङ्कारी राक्षस आगे बढ़े चले आ रहे हैं। उन्हें यह विश्वास हो गया कि इन्हें तो मैं अकेले ही जीत लूंगा इसलिए उन्होंने सीता की रक्षा का भार लक्ष्मण को सौंप दिया। अर्थात् सीता की रक्षा के लिए लक्ष्मण को नियुक्त कर स्वयं युद्ध के लिए तैयार हो गये ॥ ४४ ॥

एको दाशरथिः कामं यातुधानाः सहस्रशः । ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ ४५ ॥

अन्वयः—दाशरथिः एकः यातुधानाः सहस्रशः तैः तु सः आजौ ते यावन्त एव तावान् ददृशे ।

एक इति । दाशरथी राम एकोऽद्वितीयः या तुधानाः कामं सहस्रशः सन्तीति

द्वादशः सर्गः४०५

शेषः । तैर्यातुधानैस्तु स राम आजौ युद्धे, ते यातुधाना यावन्तो यावत्संख्याका एव तावांस्तावत्संख्याकश्च ददृशे ।

भावार्थ— यद्यपि राम अकेले थे और राक्षस हजारों थे पर राम इस प्रकार लड़ रहे थे कि वहाँ जितने राक्षस थे उन्हें उतने ही राम दिखाई पड़ रहे थे ॥ ४५ ॥

असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥ ४६ ॥

अन्वयः— अथ शुभाचारः सः काकुत्स्थः असज्जनेन प्रयुक्तं दूषणं आत्मनः दूषणम् इव न चक्षमे ।

असीदिति । अथ शुभाचारो रणे साधुचारि सद्वृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुच्चारितं च दूषणं । दूषयतीति दूषणस्तं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे । प्रतिकर्तुं प्रवृत्त इत्यर्थः ।

भावार्थ— जिस प्रकार सदाचारी व्यक्ति नीच पुरुषों द्वारा अपने ऊपर लगाये गए दोष को नहीं सहन करता है उसी प्रकार राम युद्ध में दूषण राक्षस का जाना भी नहीं सह सके ॥ ४६ ॥

तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिबोद्ययुः ॥ ४७ ॥

अन्वयः— सः तं खरत्रिशिरसौ च शरैः प्रतिजग्राह । क्रमशः ( प्रयुक्ताः ) तस्य ते पुनः चापात् समं इव उद्ययुः ।

तमिति । स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह प्रतिजहारेत्यर्थः । क्रमशो यथाक्रमं प्रयुक्ता अपीति शेषः । तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः । अतिलघुहस्त इति भावः ।

भावार्थ— राम ने उस दूषण खर और त्रिशिरा पर एक-एक करके अपने बाण चलाये । अत्यन्त शीघ्रता से चलाये हुए वे बाण ऐसे जान पड़ते थे मानों वे एक ही साथ धनुष से छूटे हों ॥ ४७ ॥

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वंविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥ ४८ ॥

अन्वयः— देहातिगैः यथापूर्वंविशुद्धिभिः शीतैः तैः बाणैः त्रयोणां आयुः पीतं, रुधिरं तु पतत्रिभिः पीतम् ।

तैरिति । देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः । तैर्यथास्थिता पूर्वंविशुद्धि-

४०६रघुवंशमहाकाव्ये

येषां तैः । अतिवेगत्वेन देहभेदात्प्रागिव रुधिरलेपरहितैरित्यर्थः । 'शितैस्तीक्ष्णै-
स्तैर्बाणैस्त्रयाणां खरादीनामायुर्जीवितं पीतं। रुधिरं तु पतत्रिभिः पक्षिभिः पीतम्।
भाषार्थ—वे बाण उनके शरीर को छेदकर इतने वेग से बाहर निकल गये कि उनमें रक्त भी नहीं लग सका; क्योंकि बाण तो उनकी आयु पीने के लिये गये थे उनका रक्त तो पक्षियों ने पीया ॥ ४८ ॥

तस्मिन्न्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन ॥ ४९ ॥

अन्वयः—तस्मिन् रामशरोत्कृत्ते महति रक्षसां बले उत्थितं कबन्धेभ्यः अन्यत् च किञ्चित् न ददृशे ।

तस्मिन्निति । तस्मिन्न्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः । 'कबन्घोऽस्त्री क्रियायुक्तमपमूर्धंकलेवरम्' इत्यमरः । अन्यच्चान्यत्किञ्चन न ददृशे । कबन्धेभ्य इत्यत्र 'अन्यारात्*' इति पञ्चमी । निःशेषं हतमित्यर्थः ।
भाषार्थ — राम ने राक्षसों की उस बड़ी सेना को अपने बाणों से इस प्रकार काट डाला कि युद्ध भूमि में राक्षसों के धड़ो छोड़कर और कुछ भी नहीं दिखाई दे रहा था ॥ ४९ ॥

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ ५० ॥

अन्वयः—सा सुरद्विषां वरूथिनी वाणवर्षिणं रामं योधयित्वा गृध्रच्छाये अप्रबोधाय सुष्वाप ।

सेति । सा सुरद्विषां रक्षसां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम् । "छायां बाहुल्ये" इति क्लीबत्वम् । तस्मिन्नप्रबोधायापुनर्बोधाय सुष्वाप । ममारत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिर्ध्वन्यते ।
भाषार्थ—बाण बरसाने वाले राम से लड़कर उन राक्षसों की सेना गिद्धों के पंखों की छाया में सदा के लिए सो गई अर्थात् मर गई ॥ ५० ॥

राघवास्त्राविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ५१॥

अन्वयः—एका शूर्पणखा एव रावणं प्रति राघवास्त्रविदीर्णानां तेषां रक्षसां दुष्प्रवृत्तिहरा अभवत् ।

द्वादशः सर्गः ४०७

राघवेति। एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। "पूर्वपदात्संज्ञायामगः" इति णत्वम्। "नखमुखात्संज्ञायाम्" इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्प्रवृत्तिं वार्त्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः। "हरतेरनुद्यमनेऽच्" इत्यच्प्रत्ययः।

भाषार्थ—राम के अस्त्रों से मारे गये उन राक्षसों की मृत्यु का समाचार रावण के पास पहुँचाने के लिए केवल शूर्पणखा ही बच पाई ॥ ५१ ॥

निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥ ५२ ॥

अन्वयः—स्वसुः निग्रहात् आप्तानाम् वधात् च धनदानुजः रामेण दशसु मूर्धसु पदं निहितं मेने।

निग्रहादिति। स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने।

भाषार्थ—बहन शूर्पणखा का अपमान और खर, दूषण, त्रिशिरा आदि अपने आप्त बन्धुओं का वध रावण को इतना अपमानजनक जान पड़ा कि मानों राम ने उसके दशों सिरों पर पैर रख दिया हो ॥ ५२ ॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५३ ॥

अन्वयः—सः मृगरूपेण रक्षसा तौ वञ्चयित्वा पक्षीन्द्रप्रयासक्षणविघ्नितः ( सन् ) सीतां जहार।

रक्षसेति। स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य। पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः, सन्सीतां जहार।

भाषार्थ—उस रावण ने मारीच को माया से सुवर्ण का मृग बना कर और राम और लक्ष्मण को धोखा देकर सीता का हरण कर लिया। मार्ग में गृद्धराज जटायु कुछ देर लड़ा भी, पर वह सफल न हो सका ॥ ५३ ॥

तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ ५४ ॥

अन्वयः—सीतान्वेषिणौ तौ लूनपक्षं गृध्रं कण्ठवर्तिभिः प्राणैः दशरथप्रीतेः अनृणं अपश्यताम्।

ताविति। सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः