रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
यहाँ प्रस्तुत पृष्ठ का देवनागरी में सटीक लिप्यन्तरण है:
११२ रसार्णवे तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ ७८ ॥ ॥ इति शिलाशुद्धिः ॥¹ सिता कृष्णा च सौराष्ट्री चूर्णखण्डाम्विका च सा² ॥७६॥ गोपित्तेन³ शतं वारान् सौराष्ट्रीं भावयेत्ततः । धमिला पातयेत् सत्त्वं क्रामणं चातिशुद्धकम् ॥ ८० ॥ ॥ इति सौराष्ट्रीशुद्धिः ॥⁴ काशीसं त्रिविधं शुक्लं⁵ कृष्णं पीतमिति प्रिये ॥ ८१ ॥ काशीसं चूर्णयित्वा तु कासमद्दरसेन च । राजकोशातकीतोयैः⁶ पित्तेश्च⁷ परिभावयेत् ॥ ८२ ॥ ॥ इति काशीसशुद्धिः ॥⁸ गैरिकां त्रिविधं रक्तहेमकेवलभेदतः⁹ । रक्तवर्ग रसक्काथपित्तै¹⁰स्तद्भावयेत् पृथक् ॥ ८३ ॥ अनेन क्रमयोगेन गैरिकां विमलं धमेत्¹¹ । क्रमात् सितञ्च¹² रक्तञ्च सत्त्वं पतति शोभनम् ॥ ८४ ॥ ॥ इति गैरिकशुद्धिः ॥¹³ (1) This is wanting in B and M. K has इति मनःशिलाशुद्धिः ॥ (2) M reads चुणिते सात्त्विकाचसा, which is unintelligible. (3) M has गोवित्तैन, which is inc. (4) This is wanting in B and M. (5) K has काशसं त्रिव धश. M has काशीसन्त्री……मुक्त. Both are incomplete. (6) K reads कोशतकी, M reads तोयै. (7) M reads पचेन्न. (8) This is wanting in B and M. (9) हेमाधं सितभेदतः, a variant in M. (10) M reads वित्तैः, which is inc. (11) K reads भवेत्. (12) M reads पीतञ्च. (13) This is wanting in B and M.
सप्तमः पटलः । ११३ राजावर्त्तो द्विधा देवि गुलिका¹चूर्णभेदतः ॥ ८५ ॥ तच्चूर्णं देवदेवेशि महिषीक्षीरसंयुक्तम्² । विपचेदायसे पात्रे गोघृतेन विमिश्रितम्³ ॥ ८६ ॥ तच्चूर्णितं सुरेशानि⁴ कुनटीघृतमिश्रितम्⁵ । सौभाग्यपञ्चगव्येन पिण्डीबन्धं तु⁶ कारयेत् । धमितं खादिराङ्गारैः⁷ सत्त्वं मुञ्चति शोभनम् ॥ ८७ ॥ ॥ इति राजावर्त्तशुद्धिः ॥⁸ कङ्कुष्ठं विद्रुमच्छायं⁹ तच्च सत्त्वमयं प्रिये¹⁰ ॥ ८८ ॥ ॥ इति कङ्कुष्ठम् ॥ सूर्यावर्त्तोदककणा-वङ्गिशिग्रुशिफारसैः¹¹ । कदली¹²कन्दसारेण 'वन्ध्याकोशातकीरसैः¹³ ॥ ८६ ॥ (1) K reads गुटिका. (2) K reads मिश्रित. (3) M reads संमिश्रितम्. (4) M has महेशानि. (5) B reads कुनटि. K reads संयुतम्. M reads कूनटी, which appears to be the error of the scribe. (6) B reads पिण्डीबंधं तु. K reads पिंडिबडं तु. M reads पिच्छबद्धन्तु. (7) धमितः खदिराङ्गारैः, a variant in B. K reads धामितं. M reads धमितः. (8) This is wanting in B and M. We find the 84th śloka in all the MSS. after इति राजावर्त्तशुद्धिः; but looking at the context, we placed the same after the 83rd śloka. (9) M reads विद्रुमच्छायां, which is gram. inc. (10) B reads यद्य. K reads सत्वं तु यन्प्रिये. (11) B has वनशिग्रु. K has नवशीगु. M has त्रिवारसैः. (12) K reads कहली. (13) K reads कोशतकी, which seems to be incorrect. 15
११४ रसार्णवे काकमाची¹देवदाली²-वन्ध्यकन्दरसैस्तथा³ । एभिर्व्यस्तैः⁴ समस्तैर्वा क्षाराम्लस्नेहसंभवैः । महारसाश्चोपरसाः शुद्धिमायान्ति भाविताः ॥ ९० ॥ लाक्षालवणसौभाग्य-धूमसार⁵कटुत्रयम् । शिग्रुमूल⁶-मधूच्छिष्टं पथ्यागुग्गुलुधातवः⁷ ॥ ९१ ॥ सर्जिकासर्जनिर्यास⁸-पिण्याकोर्णसमन्वितम्⁹ । पारावतमलञ्चुद्रमत्स्यद्रावकपञ्चकम्¹⁰ ॥ ९२ ॥ तिलसर्षपगोधूम-माषनिष्पावचिक्रसम्¹¹ । छागक्षीरेण¹² संयुक्तं वज्रपिण्डो तु कीर्त्तिता¹³ ॥ ९३ ॥ अनया वज्रपिण्ड्या तु पञ्च¹⁴माहिषयुक्तया । महारसा मोदितासु पञ्चगव्येनं भाविताः ॥ ९४ ॥ कोष्ठे¹⁵ खराग्निना आताः¹⁶ सत्त्वं मुञ्चन्ति¹⁷ सुव्रते । (1) K has काचूमाचि, which appears to be incorrect. (2) M reads देवताली. (3) B and M have रसेन च. (4) M reads एभिस्तैय. (5) M reads द्रुमसार. (6) K reads शियूमूल. M reads शियमूलं. (7) पथ्यां गुग्गुलधातवः, a variant in B, wherein the first term is incorrect. M reads सर्जिकम् instead of धातवः. (8) B has सर्जिनिर्यास. M has सर्जनिर्यासपिण्याको. (9) पिण्याकोर्णासमन्विता, a variant in K. M has an incomplete charaṇa—नागसमन्वितम्. (10) B reads पंचमं. (11) M has निष्पापचिक्सः. (12) K reads छागौ- क्षीरेण. (13) वज्रपोंडो तु कीर्त्तिताः, an incorrect variant in K. वज्र- पिण्डीति कीर्त्तित., a variant in M, wherein the last term is gram. inc. (14) M reads फल. (15) K reads काश. M reads कांष्ठं. (16) B and M read स्नात. (17) K and M read मुञ्चति.
सप्तमः पटलः। ११५ एवं शिलाभ्यो जीवेभ्यो मृद्भ्यः सत्त्वं प्रजायते¹ ॥ ८५ ॥ ॥ इत्युपरसा अष्टौ ॥² एवं चोपरसाः प्रोक्ताः शृणु³ लोहान्यतः परम् ॥ ८६ ॥ सुवर्णं रजतं ताम्रं तीक्ष्णं वङ्गं भुजङ्गमम्⁴ । लोहन्तु⁵ षड्विधं तच्च यथा पूर्व्वं तदक्षयम् ॥ ८७ ॥ तत्रादितः सुरेणानि सारं लोहद्वयं स्मृतम्⁶ । साधारणे तीक्ष्णशुल्वे⁷ वङ्गनागौ⁸ तु पूतिकौ⁹ ॥ ८८ ॥ रसजं¹⁰ क्षेत्रजं चैव लोहसंकरजं¹¹ तथा । त्रिविधं¹² जायते हेम चतुर्थं नोपलभ्यते ॥ ८९ ॥ रक्ताभं पीतवर्णं च द्विविधं¹³ देवि काञ्चनम् । दाहे¹⁴ रक्तं सितं छेदे निकषे¹⁵ कुङ्कुमप्रभम् ॥ १०० ॥ सगौरवं मृदु¹⁶ स्निग्धं तारं¹⁷शुल्बविवर्जितम् । (१) B reads प्रदापयेत्. M reads प्रतापयेत्. (२) This is wanting in B and M. (३) M reads त्वा, which is incorrect. (४) तास्ता वङ्गभुजङ्गमाः, a variant in K. तीक्ष्णवर्णं तु जङ्गमा, an incorrect variant in M. [The term नाग= भुजङ्गम = शीष.] (५) तु is wanting in K. (६) K reads मतं. (७) B reads तित्त्वागुल्मं. K reads साधारणौ, which is gram. inc. (८) M reads नागवङ्गौ. (९) B has पूनिकौ. K has पूनिकौ. M has पौतिकौ. We have adopted the above reading after collating all the texts. (१०) M reads रजस्क. (११) M has लोहसङ्करजौ, which is gram. inc. (१२) M reads त्रिविधो, which is not gram. correct. (१३) M has विविधं. (१४) M reads साधे. (१५) K reads निकशे. (१६) B has गुरु, which seems to be a tautology. (१७) B reads शश्वि.
११६ हेम षोडशवर्णाक्यं शस्यते देहलोहयोः ॥ १०१ ॥ मृत्तिका¹ मातुलुङ्गाम्लैः² पञ्चवासरभाविता³ । सभस्मैललवणा⁴ हेम शोधयेत् पुटपाकत्तः ॥ १०२ ॥ शुक्लं तारञ्च तारष्णञ्च⁵ द्विविधं रजतं प्रिये । गुरु स्निग्धं मृदु श्वेतं तारमुत्तममिष्यते ॥ १०३ ॥ नागेन क्षारराजेन द्रावितं शुद्धिमृच्छति । तारं त्रिवारं निक्षिप्तं पिशाची⁶तैलमध्यतः ॥ १०४ ॥ ताम्रं च द्विविधं प्रोक्तं रक्तं⁷ कृष्णं सुरेखरि⁸ । घनघातसहं स्निग्धं⁹ रक्तपत्रं¹⁰ मृदूत्तमम्¹¹ ॥ १०५ ॥ सुह्यर्केचौरलवण¹²-क्षाराम्लपरिलेपितम्¹³ । ताम्रपत्रं च निर्गुण्डी-रसमध्ये तु ढालयेत्¹⁴ ॥ १०६ ॥ (1) M reads मृत्तिकां, which is gram inc. (2) B has मातु- लुङ्गाम्लो, which is incorrect. (3) K reads पञ्चशार सुभावित. M reads पञ्चवासरभाविताम्, which is gram. incorrect. (4) M has सभस्म लवणैः, which is not correct. (5) B reads तापरूष्णञ्च. K reads तायरूष्णञ्च. (6) B has पिशाचौञ्च, which is unintelligible. (7) रक्तं is wanting in B, thus destroying the metre. (8) K reads सुरेश्वरि, which is a palpable error of the scribe. (9) घनघातसहास्निग्ध, a variant in K. घनवातसहस्निग्ध, a variant in M, wherein वात seems to be inc. (10) K reads रक्तपीतं. M reads रक्तपात्रं. (11) Both B and K read मृदुत्समम्, which is inc. (12) B reads चारलवण. The letter कं after सुह्य is wanting in M. (13) K reads परिपेबितं. M reads विरलेपितम्. (14) निर्गण्डीरसमध्येन डालयेत्, a variant in M.
सप्तमः पटलः । ११७ रोहणं वाजरं चैव¹ तृतीयं च पडालकम्² । इति तीक्ष्णं त्रिधा तच्च कान्त³लोहमिति स्मृतम् ॥ १०७ ॥ नीलं कृष्णमिति स्निग्धं⁴ सूक्ष्मधारमयः⁵ शुभम् । गुडूची⁶ हंसपादी च नक्तमालः⁷ फलत्रयम्⁸ ॥ १०८ ॥ गोपालकी⁹ गोरसानं¹⁰ तुम्बुरुर्लोहनिघ्नकः¹¹ । एषां रसे ढालयेत्तत्¹² गिरिदोषनिवृत्तये ॥ १०६ ॥ त्रपु च¹³ द्विविधं ज्ञेयं श्वेतं¹⁴कृष्णविभेदतः । श्वेतं¹⁵ लघु मृदु स्निग्ध-मुत्तमं वङ्गमुच्यते ॥ ११० ॥ नागस्त्वेकविधो¹⁶ देवि शीघ्रद्रावी¹⁷ मृदुर्गुरुः ॥ १११ ॥ महिषस्यास्थिचूर्णेन वापात्तन्मूत्रसेचनात् । वङ्गं शुद्धं भवेत्तद्वत्¹⁸ नागो नागास्थिमूत्रतः¹⁹ ॥ ११२ ॥
(1) M reads राजकं चैव. (2) M reads पटोलकम्. (3) B reads कांतौ. M reads कान्तौ. (4) नीलं कृष्णं त्वतिस्निग्ध, a variant in K. (5) K has सूक्ष्मधारमय. M has सूक्ष्मधारमषण. The terms मय and मषण are not correct. (6) B reads गुडची. M reads गनूची. (7) B and K read नक्तमाला. M reads नक्तमाल. (8) M has पलत्रयम्, which seems to be the error of the scribe. (9) B reads गोपालिकौ. K reads सेफालिका. (10) All the texts read गोरसानां, wherein the sixth case-ending cannot be accounted for. (11) K has तुम्बुरुर्लोहविघ्नकः. M has तुम्बुलीहश्च निष्ककम्. (12) M reads डालयेत्तत्. (13) K reads त्रपुष. (14) B and M read सित. (15) K reads सितं. (16) M has नागमेकविध. (17) K reads शीघ्रद्रावि. (18) K reads भवेदग्रौ. M reads भवेच्चतत्. (19) The term नागो is wanting in B. K has वापास्थिमूत्रतः, which is incomplete as well as incorrect.
११८ रसार्णवे गौरीफलानि¹ क्षुरको रजनी तुम्बुरूणि च² । कुवेराक्षस्य वीजानि मल्लिकायाश्च सुन्दरि ॥ ११३ ॥ पलाशशुष्कापामार्ग³-क्षारस्नुक्क्षीरयोगतः⁴ । सप्तधा परिवापेन शोधयन्ति भुजङ्गमम्⁵ ॥ ११४ ॥ सुही⁶क्षीरसमायोगात् वङ्गं⁷ चावापयेत्ततः ॥ ११५ ॥ स्नुह्यर्कक्षारहलिनी-कञ्चुकी⁸कन्दचित्रकैः । गुञ्जाकरञ्जधुत्तूर⁹-हयगन्धाङ्घितालकैः¹⁰ ॥ ११६ ॥ नक्तमालेङ्गुदोशक्र¹¹-वारुणीमूलसंयुतैः । पिष्टैर्माहिषतक्रे तु¹² सप्तरात्रोषितैस्ततः । निषेकः सर्व्वलोहानां मलं हन्ति न संशयः¹³ ॥ ११७ ॥ देवदालोफलरजः-स्वरसैर्भावितं मुहुः ।
(1) B has गौरिफलातौत्. M has गौरोखल्कन्दौ. Both the readings seem to be incorrect. (2) रजनी तु करूणि च, an incorrect variant in K. M reads रञ्जनी instead of रजनी. (3) पलाश शुष्कयामार्गा, a variant in B, which seems to be erroneous. (4) क्षारस्नुह्यर्कक्षीर- योगतः, a variant in K, which destroys the metre. (5) M reads भुज- ङ्गमाः, which is gram. incorrect. (6) B reads जं कू. M reads धुङ्गी. Both are unintelligible. (7) M reads पाक. (8) K has- कंचुकी, which appears to be the error of the scribe. (9) B reads धत्तूर. K reads धत्तूर. M reads धुधूर. (10) B has तालजैः. K has धि instead of द्वि., which is not correct. (11) K reads नक्तमालां- गुदोशक, which is gram. inc. M reads वज instead of शक्र. (12) M reads तकेस्तु. (13) M reads निषेकतः, which is a tautology.
सप्तमः पटलः । ११९ द्रावयेत् कनकं वापात्¹ भूयो न² कठिनं भवेत् ॥ ११८ ॥ अखिलानि च सत्त्वानि³ द्रावयेत्तत्प्रभावतः⁴ ॥ ११९ ॥ समांशं सुरगोपस्य सुरदाख्याथ⁵ यद्रजः । आवापात् कुरुते देवि कनकं जलसन्निभम् ॥ १२० ॥ मण्डूकास्थिवसाटङ्क-हयलालेन्द्रगोपकैः⁶ । प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम्⁷ ॥ १२१ ॥ त्रिःसप्तकृत्वो⁸ गोमूत्रे ज्वालिनोभस्म⁹गालितम् । शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं¹⁰ द्रवेत् ॥ १२२ ॥ त्रिःसप्तकृत्वो¹¹ निचुल-भस्मना भावितेन तु¹² । केतक्यास्तु रसैस्तीक्ष्णम्¹³ आवापाद्द्रवतां व्रजेत् ॥ १२३ ॥ पक्वधात्रीफलरसैः शङ्खे¹⁴ सप्ताहभावितम् । (1) K reads वापि. (2) M reads भूयेन, which is gram. inc. (3) अखिलानि च सत्वानि, an incomplete variant in B. K reads सत्वानि. अखिलांच च सत्वानि, an incorrect variant in M. (4) B has an in- complete charaṇa—द्रावयेत् प्रयत्नतः. K has द्रावयेत्तत्प्रयत्नतः. (5) M reads सुरदाराथ यद्रजः, which is incorrect. (6) K reads गोपकैः. M reads हङ्गाललिजगोपकैः, which is unintelligible. (7) B has an incomplete charaṇa—सुचिरं···ति द्रुत. (8) B reads त्रिःसप्तकृत्वा. K and M read त्रिसप्तकृत्वो. Both are gram inc. (9) K reads ज्वालिनि. M reads ज्वालिनोपच. (10) K has मूखागतं, which is inc. [Vide p. 39, note (11)]. (11) All the MSS. read त्रिसप्तकृत्वो, which is grammatically erroneous. (12) K reads विन्दुतेन तु. (13) B reads रसैस्तीक्ष्णम. K reads केतक्या सुरसैस्तीक्ष्णा. Both are gram. inc. (14) B reads संख्ये.
१२० रसार्णवे पुनः कञ्चुकितोयेन¹ भावितं सप्त²वासरम् ॥ १२४ ॥ शरावयुगलान्तःस्थं³ सुदृढं परिधामितम्⁴ । तत्तीक्ष्णचूर्णं⁵ देवेशि रसरूपं प्रजायते ॥ १२५ ॥ तालकं गन्धपाषाण⁶-शिलामाक्षिकगैरिकम् । काशीसं खण्डसौराष्ट्रो⁷-तुल्यमभ्रकमेव च ॥ १२६ ॥ श्वशृगालतरक्षूणां⁸ कुक्कुटस्य मलं⁹ तथा । मयूरष्ट्रभमार्जार-विष्ठा च समभागकम्¹⁰ ॥ १२७ ॥ भावयेत्त्रिः¹¹ स्नुहीक्षीरै¹²र्देवदालो¹³रसेन च । तत्कल्क¹⁴मष्टमांशेन लांहपत्राणि¹⁵ लेपयेत् ॥ १२८ ॥ धमे द्रुतं भवेल्लोहमेतैरेव निषेचयेत्¹⁶ । (1) K reads कञ्चुकी. M reads पान in place of पुन:, which is inc. (2) M reads भावितस्सप्त. (3) शरावयुगलस्थं च, a variant in B. शराव- युगलेस्थं च, a variant in K. Both the readings seem to be incorrect. (4) B reads erroneously—परिधावापित. M reads परिधामितः. (5) K has तीक्ष्णचूर्णानि, which is not gram. correct. (6) B and K read गन्धपाषाणं, which is not correct, as the term is in masculine gender. M reads तालगन्धकपाषाण, which is not accurate. (7) M has कासीसं खण्डसौराष्ट्र. (8) M reads श्वशृगालखरीष्ट्राणां. (9) B and K have मलन्तथा. (10) B and K read समभागिकम्. (11) B reads भावय त्रि. K reads भावयं त्रि;. M reads भावयंस्तु. The first two readings are incorrect, and the last is incomplete. (12) M reads क्षुहिच्छीरैः. (13) M reads देवताली. (14) M has तत्कल, which seems to be inc. (15) B and M read लोहपात्राणि. (16) एतै- रेतन्निषिचयेत, an incorrect variant in K.
Here is the line-by-line transcription of the page into clean Devanagari and English Markdown:
सप्तमः पटलः । १२१ अङ्कोलस्य तु मूलानि काञ्जिकेन प्रपेषयेत् ।¹ लोहलेपं ततो दद्याद् अग्नि-सहं धारयेत्² प्रिये ॥ १२६ ॥ पुनर्लेपं ततो दद्यात् परिच्छिन्ना³रसेन तु । मत्स्यपित्तेन⁴ देवेशि वह्निस्यं धारयेत् प्रिये ॥ १३० ॥ पुनर्लेपं प्रकुर्वीत लाङ्गलीकन्दसम्भवम् । त्रिभिर्लेपैर्दुतं⁵ लोहं निश्चलं स्वच्छवारिवत्⁶ ॥ १३१ ॥ चूर्णितं देवि कूर्म्मास्थि मेषशृङ्गं शिलाजतु⁷ । कुरुते प्रतिवापेन बह्लुकज्जलवत् स्थिरम्⁸ ॥ १३२ ॥ अर्कापामार्गमुसली⁹ निचुलो चित्रकं तथा । कदली पोतकी दाली¹⁰ क्षारमेषां तु साधयेत् ॥ १३३ ॥ गालयेन्माहिषे मूत्रे षड्वारान्¹¹ सुरवन्दित । आवापाद्
१२२ रसार्णवे रसेनोत्तरवारुण्याः¹ युतं वैक्रान्तजं रजः² । प्रतिवापेन³ लोहानि द्रावयेत् सलिलोपमम् ॥ १३६ ॥ ॥ इति लोहद्रावविधिः ॥ रत्नानां द्रावणं वक्ष्ये गगनस्य द्रुतिं तथा ॥ १३७ ॥ त्रिफला च⁴ त्रिकटुकं त्रिक्षारं कटुपञ्चकम्⁵ । बला चातिबला चैव तृतीया च महाबला⁶ ॥ १३८ ॥ अश्वगन्धा चवो नारी⁷ भूलता मातृवाहकः । गोपेन्द्रमण्डलो चैव षड्बिन्दुद्विमुखी⁸ तथा ॥ १३९ ॥ वोरा सूरणकन्दश्च⁹ कञ्चुको च पुनर्नवा¹⁰ । क्षुद्रार्कोक्तत्तहलिनी पाठा चोत्तरवारुणी ॥ १४० ॥ अयस्कान्तो गोक्षुरश्च¹¹ मृदुदूर्वाम्लवेतसम्¹² । शिलाजतु च¹³ सौवोरं विषगन्धकटङ्कणम्¹⁴ ॥ १४१ ॥ (1) रसेनोत्तमशरुख्याः
सप्तमः पटलः । १२३ पृथग्दशपलं¹ सर्व्वं सूक्ष्मचूर्णं तु कारयेत् । कुभद्वयं कुलत्थानां काष्ठेन तिनिशस्य च² ॥ १४२ ॥ क्वाथयेन्मृदुतापेन यावत् कुम्भावशेषितम् । तेन क्वाथेन तच्चूर्णं भावयेदेकविंशतिम्³ ॥ १४३ ॥ रत्नानि तेन लिप्तानि तत्क्वाथस्थं धमेत्⁴ पुनः । अहोरात्रेण तान्याशु द्रवन्ति सलिलं यथा ॥ १४४ ॥ ॥ इति रत्नद्रावविधिः ॥⁵ अभ्रकादीनि लोहानि द्रवन्ति ह्यविचारतः । निर्मलानि च⁶ जायन्ते हरवीजोपमानि च⁷ ॥ १४५ ॥ मिलन्ति च रसेनाशु वह्निस्थान्यन्ययाणि च⁸ । तैर्दुतः स्पर्शमात्रेण⁹ क्षणाद्बध्येत सूतकः¹⁰ ॥ १४६ ॥ लोहानां मारणं¹¹ वक्ष्ये समाहितमनाः¹² शृणु । *(1) B reads दशफलं, which is incorrect. (2) B has तिमिरस्य च. K has तिमरस्य च. M has काष्ठेन तिमिशस्य च. We have adopted the above reading after collating all the texts. (3) B and M read एकविंशति. K reads एकविंशतिः. All the readings are inc. (4) तत क्वाथे तड़मत्, a reading in M, which has no sense. (5) This portion is not found in B and M. (6) B and M read निर्लेपानि च. (7) K has हरवोजोपयोनि च, which has no clear sense. (8) K reads वह्निस्थान्यन्चिणानि च, which seems to be inc. (9) तैर्दतै सर्षप- मात्रेण, an incorrect variant in K. (10) B reads चणाद्बुध्येत. K reads चणादवेध्येत. M reads चणादबध्येव सूतकम्. (11) B has मारणै, which is gram. inc. (12) K has समाहितमना (without विसर्ग), which is gram. inc.
१२४ रसार्णवे स्नुहो¹क्षीरेण सिन्दूरं² कनकं रजतं पुनः³ ॥ १४७ ॥ तेनैव⁴ माक्षिकं ताम्रमजाक्षीरेण गन्धकः⁵ । स्तन्येन हिङ्गुलं⁶ तोत्थं वज्रतालपलाशकम् ॥ १४८ ॥ नागं शिलार्कक्षीरेण स्वच्छपत्रीकृतं⁷ प्रिय । मारयेत् पुटपाकेन⁸ निरुत्थं⁹ भस्म जायते ॥ १४९ ॥ न सोऽस्ति¹⁰ लोहमातङ्गो यं न गन्धककेसरी । निहन्याद्ब्रह्ममात्रेण¹¹ यद्वा माक्षिककेसरी ॥ १५० ॥ रसीभवन्ति¹² लोहानि मृतानि सुरवन्दिते । हरन्ति रोगान् सकलान्¹³ रसयुक्तानि¹⁴ किं पुनः¹⁵ । शीलनान्नाशयन्त्येव¹⁶ वलीपलितरुग्जराः¹⁷ ॥ १५१ ॥ (1) B and M read स्नुह्य. K reads स्नूहो, which seems to be inc. (2) K has सिन्दूर, which is erroneous. M has स्माह. (3) K reads तु वा. (4) B has मर्नैव, which is evidently an error. (5) .K and M read गन्धकम्. (6) M has an incorrect reading—हिङ्गुदं. (7) B reads स्वच्छ पत्रीकृत M reads स्वच्छपवन्नूत. (8) B and M read पुटयोगेन. (9) B has निरुच्छ. M has निरुद्ध. Both of these readings appear to be inc. (10) B and M read रसास्ति, whereof the sense is not clear. (11) निहन्याकधमात्रेण, a variant in B, which seems to be inc. (12) B has रसभवान्. K has रसौभवतो. M has रस भवन्ति. We have adopted the above reading after collating all the texts. (13) M reads सकलान् रोगान्. (14) B reads समयुक्तानि. (15) K reads वै पुनः. (16) B has शीलनान्नांशयन्त्येव. M reads शिलानां नाशयन्त्येव. None of these texts is correct. (17) K reads रुग्ज्वरान्. M reads रुक्पराम्.
सप्तमः पटलः । १२५ वज्र¹माक्षिकतीक्ष्णाभ्रं शस्यते देहकर्मणि² । नागं वङ्गं सुवीरञ्च³ द्वयकर्मणि योजयेत् ॥ १५२ ॥ परिबालन्तु⁴ यल्लोहं तथाच मलयोद्भवम् । एतल्लोहद्वयं देवि विशेषाद्देहरक्षणम् ॥ १५३ ॥ रागं⁵ महारसादीनां ज्ञात्वा वीजानि साधयेत् । तन्ममाचक्ष्व देवेशि⁶ किमन्यच्छ्रोतुमर्हसि ॥ १५४ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁷ रसार्णवे रससंहितायां महारसोपरसलोहलक्षणसंस्कार⁸- रत्नद्रावणमारणनिर्णयो नाम⁹ सप्तमः पटलः ॥७॥ (1) B reads वज्रं. (2) M reads मेहकर्मणि, which appears to be incorrect. (3) वङ्गमागसुवीरञ्च, a variant in M. (4) B has पड़िबालन्तु. K has विट्टोबाल. (5) K reads नागं, which is incorrect ; because the next Paṭala opens with the description of रागसंख्या. (6) तन्मयाचक्षि देवेशि, a variant in B. This charaṇa is wanting in M. (7) This portion is wanting in B and M. *(8) K reads रस between महारसोपरस and लोह. The word महा is not found in M ; it reads रसोपरससंस्कारलोहलक्षणमारणनिर्णयो नाम. (9) K reads only निर्णयो नाम, omitting रत्नद्रावणमारण.
षष्ठमः पटलः। —§§§— श्रीदेव्युवाच ।$^1$ महारसानां लोहानां रत्नानाञ्च सुरेश्वर$^2$ । रागसंख्यां$^3$ तथा बीजसाधनञ्च$^4$ वद प्रभो ॥ १ ॥ श्रीभैरव उवाच । महारसेषु द्विगुण$^5$स्ताम्ररागः$^6$ सुरेश्वरि । गिरिदोषे क्षयं नीते$^7$ सूतकं रञ्जयन्ति ते$^8$ ॥ २ ॥ सस्यकश्चपलश्चैव राजावर्त्तश्च माक्षिकः$^9$ । विमलो$^{10}$ गैरिकश्चैषा$^{11}$मेकैकं द्विगुणं भवेत् ॥ ३ ॥ भ्रामकादिषु कान्तेष्वप्येकद्वित्रिगुणो$^{12}$ हि सः । एकैकमभ्रके चैव$^{13}$ श्वेतपोतारुणः$^{14}$ सिते ॥ ४ ॥
(1) K reads देव्युवाच. This is wanting in M. (2) M has रत्नानां च सुरेश्वर, which is erroneous. (3) B has not this word. K has रागसंख्या. M has रागसङ्गा. (4) M reads here सारणञ्च, but it reads साधनञ्च in its colophon. (5) B reads द्विगुणा. (6) M reads ताम्रे रागः. (7) गिरिदोषक्षयकरं, a variant in M. (8) स्याद्बीजं रञ्जयन्ति ये, a variant in M. (9) M reads राजावर्त्तञ्च माक्षिकम्, which is incorrect. (10) K and M read विमला. (11) K has गैरिकश्चैषा. M has गैरिकश्चैव. (12) K reads कान्तेषु चाप्येक द्विगुणो. (13) एकैकमभ्रकञ्चैव, a variant in K. (14) श्वेतपीतारुणो, an incorrect reading in M.
अष्टमः पटलः। अष्टादशसहस्राणि स्थिता रागाश्च¹ गन्धके । अयुतं दरदे देवि² शिलायां द्विसहस्रकम्³ ॥ ५ ॥ रसके⁴ सप्तसाहस्रं कङ्गुष्ठे तु⁵ चतुष्टयम् । रसगर्भे प्रकाशन्ते जारणं तु⁶ भवेद्यदि ॥ ६ ॥ द्वादशाग्रं शतं⁷ पञ्च नागे रागा⁸ व्यवस्थिताः⁹ । शतहीनं सहस्रं तु वङ्गे रागा¹⁰ व्यवस्थिताः ॥ ७ ॥ रागाणां शतपञ्चाशत् शुल्बमध्ये व्यवस्थिताः । रक्तपीताश्च शुक्लाश्च¹¹ हेम्नि रागाय षोडश ॥ ८ ॥ रागाः षष्टि¹²सहस्राणि शक्रनीले व्यवस्थिताः । महानीले च¹³ देवेशि ते रागा द्विगुणाः¹⁴ स्थिताः ॥ ९ ॥ माणिक्ये तु सुरेशानेि रागा¹⁵ लक्षत्रयोदश । गजवारिसमुत्पन्नं रत्नं¹⁶ मुक्ताफलं विदुः ॥ १० ॥
(1) M reads नागाश्च, which seems to be incorrect. (2) अयुतं दरदे दीवि, a reading in M, which appears to be inc. (3) M reads शिलायाञ्च द्विपञ्चकम्. (4) K reads रक्तके. (5) M reads कुष्ठे चैवं, which seems to be inc. (6) M has जारणात्, which is gram. inc. (7) द्वादशाभ्रशतं, a variant in M, which is inc. (8) M reads नागो राग, which is gram. inc. (9) K reads व्यवस्थिता:. which is an error of the scribe. (10) M reads वङ्गे राग, which is not correct. (11) K has शुक्लाश्च. M reads रक्तपीता च शुक्ला च. (12) K reads षष्टी. M reads erroneously रागाषाष्टि. (13) M has महानीलञ्च, which is gram. inc. (14) M reads द्विगुणे, which is not grammatically correct. (15) K reads राग, which is not gram. correct. (16) M reads रक्त, which is inc.
यहाँ पृष्ठ का स्पष्ट और सटीक पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:
१२८ रसार्णवे गजे¹ त्रीणि सहस्राणि षट्सहस्राणि वारिजे² । नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥ ११ ॥ भेदयेत् सर्व्वलोहानि यश्च³ केन न भिद्यते⁴ । तद्वज्रं तस्य देवेशि रागं लक्षद्वयं⁵ विदुः ॥ १२ ॥ षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः । पादानलक्षरागास्तु⁶ प्रोक्ता मरकत⁷ प्रिये ॥ १३ ॥ रागसंख्यां न जानाति⁸ संक्रान्तस्य⁹ रसस्य तु । अधिकं मारयेल्लोहं क्षीभं चैव प्रकाशयेत्¹⁰ ॥ १४ ॥ मानवेन्द्रः¹¹ प्रकुर्व्वीत यो हि जानाति पार्वति । शतकोटिप्रमाणेन¹² रागसंख्यां प्रकल्पयेत् । स्पर्शनं चैवमालोक्य¹³ शतकोटिषु विध्यते¹⁴ ॥ १५ ॥ अतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये । हेमतारवशाद्बीजं¹⁵ द्विविधं तावदोखरि ॥ १६ ॥ (1) गन्ते is the reading in M, which is incorrect. [गजे= गजजे.] (2) M reads वारिते, which is not correct. (3) K and M read यन. (4) M reads येन केनापि विध्यते, which conveys the reverse sense. (5) M has लक्षत्रय. (6) K has पादोन्न. M has पादेन लक्ष रागास्तु, which has no clear sense. (7) प्रोक्त मरतके, an incorrect reading in M. (8) K reads जानंति, which is not accurate. (9) M reads साक्रान्तस्य, which has no clear sense. (10) M has प्रकारये त्. (11) मारवेन्द्रि: is the reading in M. (12) शतकोटीप्रमाणेन, a variant in K. (13) चैवमालांक, a reading in M. (14) K reads विष्यति. M reads बिद्यते. We have adopted the above text, after collating the MSS. (15) K reads यशावौजं, which is a palpable error.
अष्टमः पटलः । १२८ पीतारुणै¹र्हेमबीजं² तारबीजं सितैर्भवेत् । कल्पितं रञ्जितं पक्कमिति भूयस्त्रिधा भवेत् ॥ १७ ॥ कल्पितं द्विविधं तच्च³ शुद्धमिश्रविभेदतः ॥ १८ ॥ रसोपरसलोहानां⁴ बीजानां कल्पनं पृथक्⁵ । शुद्धं मिश्रं तु⁶ संयोगात्⁷ यथालाभं⁸ सुरेश्वरि ॥ १८ ॥ सत्त्वमावर्त्तितं व्योम्नि शोषितं काचटङ्गणैः । चिञ्चाफलाम्लनिर्गुण्डी⁹-पत्रकल्काभिषेचनैः¹⁰ । पक्वं निविड़ितं देवि¹¹ रसपिष्टिसमं भवेत् ॥ २० ॥ स्नेहक्षाराम्लवर्गैश्च¹² शिलायाश्च पुटत्रयात्¹³ । मृताहे धूपनायन्त्रे¹⁴ धूपगन्धानुलेपनात् । वङ्गस्यापि¹⁵ विधानेन तालकस्य हतस्य¹⁶ वा ॥ २१ ॥ ताप्यहिङ्गुलयोर्वापि हतं च¹⁷ रसकस्य वा ।
(1) M has पीतारुणौ. (2) K has हेमबीजै, which is gram. inc. (3) K reads तच्च. (4) रसोपरससत्त्वानि, a variant in K. (5) बीजा- नाञ्च पृथकस्थिते, a variant in M. (6) M has शुद्धमिश्रश्च. [रञ्जितं is described in the 41st śloka; and पक्वं in the 50th.] (7) K reads योगाय. (8) पाल्लभं is the absurd reading in K. (9) K reads फलाम्लसेहुण्ड. (10) K reads निक्षेचनैः. M reads पतिकल्क. Both are inc. (11) K has पकनिविडं सदेवि. (12) M has स्नेह- क्षाराम्ललवणैः. (13) M reads शिलया च पुटत्रयात्. K reads पुटत्रय. (14) धूपनायन्त्रे is wanting in K. (15) K reads वङ्गस्याभि, which seems to be inc. (16) K has हृतेन M has तालकं न. (17) M reads वास्तिनो, which is unintelligible. 17
१३० रसार्णवे रसगर्भे द्रवेत् कृष्णं¹ पत्त्रं कनकतारयोः ॥ २२ ॥ सङ्कराख्यन्तु² दुर्मेल्यं प्रिये मृदुखराह्वयम्³ । ततः संमृदितं⁴ देवि द्वन्द्वमेलापनं द्रुतम्⁵ । भवेत् समरसं गर्भे⁶ रसराजस्य च द्रवेत्⁷ ॥ २३ ॥ अतः परं⁸ प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु ॥ २४ ॥ वर्षाभूकदलीकन्द-काकमाचीपुनर्नवाः । खर्णं नरकपालं च⁹ गुञ्जाटङ्कणसंयुतम्¹⁰ । चोरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥ २५ ॥¹¹ अनेनैव विधानेन ताराभ्रमपि मेलयेत्¹² ॥ २६ ॥ वङ्गभावर्त्त्य¹³ देवेशि पुनः सूतकयोजितम्¹⁴ । कदलीकन्दतोयेन मर्दयेट्टङ्गणान्वितम् । अन्धमूषागतं¹⁵ ध्मातं वङ्गाभ्रं¹⁶ मिलति क्षणात् ॥ २७ ॥ चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् । (1) K reads कृष्णात्. M reads भवेत् कृष्ण. (2) K reads संगराख्यं तु. (3) K has an incomplete charana--दुखराह्वयोः. M reads खरा- ह्वयात्. (4) K reads सम्मिश्रितं. (5) K reads ततः. (6) सवेत् सरससंसर्गो, a variant in K, which is partially incorrect. M reads वरेत्, which is senseless. (7) K reads चन्द्रवत्. (8) K reads अतएव. (9) M reads तु. (10) M has संस्थितम्. (11) This hemistich is not found in K. (12) तालकाभ्र विमेलयेत्, a variant in M. (13) K reads भंग, which is incorrect. M reads erroneously वङ्गमावत्य. (14) K has योजितः. (15) K reads अधमूखागत. M reads अन्धमूषा- गत Both are inc. (16) M reads वङ्गाभ.
letter 3: ग letter 4: . or comma? letter 5: स with dot (सं)? letter 6: श? Wait, could it be "[ना.गा.सं. is correct.]"? Look at the text: Line 7: "वङ्गाभ्रं हरितालञ्च नागभ्रे तु मनःशिलाः" Line 18: "(9) K has नागाभ्रं तु. M has नाकाभ्रेण, which is inc. [ ... is correct.]" Wait, the main text has "नागभ्रे तु"! Wait, is the main text's reading "नागभ्रे तु"? In line 7: "नागभ्रे तु⁹" What does the bracket say? "[ना.गा.सं. is correct]"? Wait, look at the letters: It has: [ न with aa matra? No, न then dot, then ग, then aa matra? No, ग with dot? Wait, look at the letters: [ न . ग . सं . is correct. ] ? No, look at: [ न , ग , सं , is correct. ]? Wait, in Sanskrit grammar / manuscript abbreviations: Could it be manuscript sigla? No, sigla here are K and M. Could it be grammatical case? "न.ग.सं."? Wait, look at the letters: [ न . ग . ] -> no, look at the