भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

अष्टमः पटलः। अष्टादशसहस्राणि स्थिता रागाश्च¹ गन्धके । अयुतं दरदे देवि² शिलायां द्विसहस्रकम्³ ॥ ५ ॥ रसके⁴ सप्तसाहस्रं कङ्गुष्ठे तु⁵ चतुष्टयम् । रसगर्भे प्रकाशन्ते जारणं तु⁶ भवेद्यदि ॥ ६ ॥ द्वादशाग्रं शतं⁷ पञ्च नागे रागा⁸ व्यवस्थिताः⁹ । शतहीनं सहस्रं तु वङ्गे रागा¹⁰ व्यवस्थिताः ॥ ७ ॥ रागाणां शतपञ्चाशत् शुल्बमध्ये व्यवस्थिताः । रक्तपीताश्च शुक्लाश्च¹¹ हेम्नि रागाय षोडश ॥ ८ ॥ रागाः षष्टि¹²सहस्राणि शक्रनीले व्यवस्थिताः । महानीले च¹³ देवेशि ते रागा द्विगुणाः¹⁴ स्थिताः ॥ ९ ॥ माणिक्ये तु सुरेशानेि रागा¹⁵ लक्षत्रयोदश । गजवारिसमुत्पन्नं रत्नं¹⁶ मुक्ताफलं विदुः ॥ १० ॥

(1) M reads नागाश्च, which seems to be incorrect. (2) अयुतं दरदे दीवि, a reading in M, which appears to be inc. (3) M reads शिलायाञ्च द्विपञ्चकम्. (4) K reads रक्तके. (5) M reads कुष्ठे चैवं, which seems to be inc. (6) M has जारणात्, which is gram. inc. (7) द्वादशाभ्रशतं, a variant in M, which is inc. (8) M reads नागो राग, which is gram. inc. (9) K reads व्यवस्थिता:. which is an error of the scribe. (10) M reads वङ्गे राग, which is not correct. (11) K has शुक्लाश्च. M reads रक्तपीता च शुक्ला च. (12) K reads षष्टी. M reads erroneously रागाषाष्टि. (13) M has महानीलञ्च, which is gram. inc. (14) M reads द्विगुणे, which is not grammatically correct. (15) K reads राग, which is not gram. correct. (16) M reads रक्त, which is inc.

यहाँ पृष्ठ का स्पष्ट और सटीक पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:

१२८ रसार्णवे गजे¹ त्रीणि सहस्राणि षट्सहस्राणि वारिजे² । नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥ ११ ॥ भेदयेत् सर्व्वलोहानि यश्च³ केन न भिद्यते⁴ । तद्वज्रं तस्य देवेशि रागं लक्षद्वयं⁵ विदुः ॥ १२ ॥ षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः । पादानलक्षरागास्तु⁶ प्रोक्ता मरकत⁷ प्रिये ॥ १३ ॥ रागसंख्यां न जानाति⁸ संक्रान्तस्य⁹ रसस्य तु । अधिकं मारयेल्लोहं क्षीभं चैव प्रकाशयेत्¹⁰ ॥ १४ ॥ मानवेन्द्रः¹¹ प्रकुर्व्वीत यो हि जानाति पार्वति । शतकोटिप्रमाणेन¹² रागसंख्यां प्रकल्पयेत् । स्पर्शनं चैवमालोक्य¹³ शतकोटिषु विध्यते¹⁴ ॥ १५ ॥ अतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये । हेमतारवशाद्बीजं¹⁵ द्विविधं तावदोखरि ॥ १६ ॥ (1) गन्ते is the reading in M, which is incorrect. [गजे= गजजे.] (2) M reads वारिते, which is not correct. (3) K and M read यन. (4) M reads येन केनापि विध्यते, which conveys the reverse sense. (5) M has लक्षत्रय. (6) K has पादोन्न. M has पादेन लक्ष रागास्तु, which has no clear sense. (7) प्रोक्त मरतके, an incorrect reading in M. (8) K reads जानंति, which is not accurate. (9) M reads साक्रान्तस्य, which has no clear sense. (10) M has प्रकारये त्. (11) मारवेन्द्रि: is the reading in M. (12) शतकोटीप्रमाणेन, a variant in K. (13) चैवमालांक, a reading in M. (14) K reads विष्यति. M reads बिद्यते. We have adopted the above text, after collating the MSS. (15) K reads यशावौजं, which is a palpable error.

अष्टमः पटलः । १२८ पीतारुणै¹र्हेमबीजं² तारबीजं सितैर्भवेत् । कल्पितं रञ्जितं पक्कमिति भूयस्त्रिधा भवेत् ॥ १७ ॥ कल्पितं द्विविधं तच्च³ शुद्धमिश्रविभेदतः ॥ १८ ॥ रसोपरसलोहानां⁴ बीजानां कल्पनं पृथक्⁵ । शुद्धं मिश्रं तु⁶ संयोगात्⁷ यथालाभं⁸ सुरेश्वरि ॥ १८ ॥ सत्त्वमावर्त्तितं व्योम्नि शोषितं काचटङ्गणैः । चिञ्चाफलाम्लनिर्गुण्डी⁹-पत्रकल्काभिषेचनैः¹⁰ । पक्वं निविड़ितं देवि¹¹ रसपिष्टिसमं भवेत् ॥ २० ॥ स्नेहक्षाराम्लवर्गैश्च¹² शिलायाश्च पुटत्रयात्¹³ । मृताहे धूपनायन्त्रे¹⁴ धूपगन्धानुलेपनात् । वङ्गस्यापि¹⁵ विधानेन तालकस्य हतस्य¹⁶ वा ॥ २१ ॥ ताप्यहिङ्गुलयोर्वापि हतं च¹⁷ रसकस्य वा ।

(1) M has पीतारुणौ. (2) K has हेमबीजै, which is gram. inc. (3) K reads तच्च. (4) रसोपरससत्त्वानि, a variant in K. (5) बीजा- नाञ्च पृथकस्थिते, a variant in M. (6) M has शुद्धमिश्रश्च. [रञ्जितं is described in the 41st śloka; and पक्वं in the 50th.] (7) K reads योगाय. (8) पाल्लभं is the absurd reading in K. (9) K reads फलाम्लसेहुण्ड. (10) K reads निक्षेचनैः. M reads पतिकल्क. Both are inc. (11) K has पकनिविडं सदेवि. (12) M has स्नेह- क्षाराम्ललवणैः. (13) M reads शिलया च पुटत्रयात्. K reads पुटत्रय. (14) धूपनायन्त्रे is wanting in K. (15) K reads वङ्गस्याभि, which seems to be inc. (16) K has हृतेन M has तालकं न. (17) M reads वास्तिनो, which is unintelligible. 17

१३० रसार्णवे रसगर्भे द्रवेत् कृष्णं¹ पत्त्रं कनकतारयोः ॥ २२ ॥ सङ्कराख्यन्तु² दुर्मेल्यं प्रिये मृदुखराह्वयम्³ । ततः संमृदितं⁴ देवि द्वन्द्वमेलापनं द्रुतम्⁵ । भवेत् समरसं गर्भे⁶ रसराजस्य च द्रवेत्⁷ ॥ २३ ॥ अतः परं⁸ प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु ॥ २४ ॥ वर्षाभूकदलीकन्द-काकमाचीपुनर्नवाः । खर्णं नरकपालं च⁹ गुञ्जाटङ्कणसंयुतम्¹⁰ । चोरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥ २५ ॥¹¹ अनेनैव विधानेन ताराभ्रमपि मेलयेत्¹² ॥ २६ ॥ वङ्गभावर्त्त्य¹³ देवेशि पुनः सूतकयोजितम्¹⁴ । कदलीकन्दतोयेन मर्दयेट्टङ्गणान्वितम् । अन्धमूषागतं¹⁵ ध्मातं वङ्गाभ्रं¹⁶ मिलति क्षणात् ॥ २७ ॥ चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् । (1) K reads कृष्णात्. M reads भवेत् कृष्ण. (2) K reads संगराख्यं तु. (3) K has an incomplete charana--दुखराह्वयोः. M reads खरा- ह्वयात्. (4) K reads सम्मिश्रितं. (5) K reads ततः. (6) सवेत् सरससंसर्गो, a variant in K, which is partially incorrect. M reads वरेत्, which is senseless. (7) K reads चन्द्रवत्. (8) K reads अतएव. (9) M reads तु. (10) M has संस्थितम्. (11) This hemistich is not found in K. (12) तालकाभ्र विमेलयेत्, a variant in M. (13) K reads भंग, which is incorrect. M reads erroneously वङ्गमावत्य. (14) K has योजितः. (15) K reads अधमूखागत. M reads अन्धमूषा- गत Both are inc. (16) M reads वङ्गाभ.

letter 3: ग letter 4: . or comma? letter 5: स with dot (सं)? letter 6: श? Wait, could it be "[ना.गा.सं. is correct.]"? Look at the text: Line 7: "वङ्गाभ्रं हरितालञ्च नागभ्रे तु मनःशिलाः" Line 18: "(9) K has नागाभ्रं तु. M has नाकाभ्रेण, which is inc. [ ... is correct.]" Wait, the main text has "नागभ्रे तु"! Wait, is the main text's reading "नागभ्रे तु"? In line 7: "नागभ्रे तु⁹" What does the bracket say? "[ना.गा.सं. is correct]"? Wait, look at the letters: It has: [ न with aa matra? No, न then dot, then ग, then aa matra? No, ग with dot? Wait, look at the letters: [ न . ग . सं . is correct. ] ? No, look at: [ न , ग , सं , is correct. ]? Wait, in Sanskrit grammar / manuscript abbreviations: Could it be manuscript sigla? No, sigla here are K and M. Could it be grammatical case? "न.ग.सं."? Wait, look at the letters: [ न . ग . ] -> no, look at the

१३२ रसार्णवे कान्ताभ्रशैलविमला मिलन्ति सकलान्¹ क्षणात् ॥ ३३ ॥ लताछुछुन्दरीमांसं² विषटङ्कणयोजितम् । मूषालेपेन³ कुरुते सर्व्वद्वन्द्वेषु⁴ मेलनम् ॥ ३४ ॥ अभ्रकं सुरसा शृङ्गं⁵ मण्डूकस्य वसा विषम् । गुञ्जाटङ्कणयोगेन⁶ सर्व्वसत्त्वेषु⁷ मेलनम् ॥ ३५ ॥ टङ्कणोर्णागिरिजतु-कर्णाख्यामलकर्कटैः⁸ । मिलन्ति सर्व्वद्वन्द्वानि स्त्रोतोन्यपरिपेषितैः ॥ ३६ ॥ धातकीगुग्गुलुगुड़⁹-सर्जयावकटङ्कणैः¹⁰ । स्त्रोतोन्यपेषितैः सर्व्वं¹¹ द्वन्द्वजं तु रसायने ॥ ३७ ॥ खसत्त्वं सूक्ष्मचूर्णं तु¹² पूर्व्वकल्केन संयुतम् । अन्धमूषागतं¹³ ध्मातं शङ्करं मिलति क्षणात् ॥ ३८ ॥ वापितं¹⁴ ताप्यरसक¹⁵-सस्यकैर्दरदेन च । खसत्त्वं स्यान्निवहं च¹⁶ दृढं ध्मातं मिलेत्ततः ॥ ३९ ॥ . रसोपरसलोहानि सर्व्वाण्यकत्र धामयेत् ।


(1) K reads सकल. (2) M reads चुचुन्दरीमांस. (3) मूखालिपेम, an incorrect reading in K. (4) M reads सब द्वन्द्वेषु. (5) क्षाराभ्रं सुरशृङ्गञ्च, a variant in M. (6) M reads लेपेन. (7) M reads सर्व सर्वेषु. (8) कर्णाक्षौमौनकर्कटौ, a variant in K. (9) धातु- गुग्गुलुगुड़, a variant in K. (10) सर्जायवकटङ्गणैः, a variant in M. (11) M reads श्लक्ष्णो. (12) सूक्ष्मचूर्णेन यत्किञ्चित्, a variant in K, (13) K reads अन्धमूखागत, which is inc. (14) M reads पावितं, which is not technical. (15) K reads ताप्यरसकं. (16) खसत्वं चाग्निवसञ्च, a variant in M.

अष्टमः पटलः । १२१ अन्योन्यं द्वन्द्वतां यान्ति¹ द्रवन्ति² सलिलं यथा ॥ ४० ॥ बीजानि कल्पितान्येवं³ रञ्जितानि परं⁴ शृणु ॥ ४१ ॥ घनं⁵ माक्षिकचूर्णेन शुल्बचूर्णेन रञ्जितम् । द्वन्द्वितं ताप्यसत्त्वेन⁶ रसराजस्य रञ्जनम् ॥ ४२ ॥ आरक्तवल्लीगोमूत्रैः⁷ बहुधा परिभावितैः⁸ । कुनटीगन्धपाषाणै⁹हेममाक्षिकहिङ्गुलैः¹⁰ ॥ ४३ ॥ वापितं सेवितं रक्त¹¹गणैः स्नेहैरमृतं¹² ततः । रञ्जनं रसराजस्य तीक्ष्णताम्रौ¹³ विशेषतः ॥ ४४ ॥ केवलं विमलं ताम्रं वापितं¹⁴ दरदेन च¹⁵ । कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम्¹⁶ ॥ ४५ ॥ रसकं द्विगुणं¹⁷ दत्त्वा ताम्रं सुध्मातमोखरि । कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर्मुहुः¹⁸ पुटैः ॥ ४६ ॥


(1) अन्योन्यद्वन्द्वतामेति, a variant in M. (2) M reads द्रवन्तौ, which is gram. incorrect. (3) M has कल्पितान्येव. (4) M reads वर, which is not correct. (5) M reads वन, which has no clear sense. (6) द्वन्द्वजं वाप्यसत्वेन, a reading in K, which seems to be erroneous. (7) आरक्तवल्लीभिर्मूत्रै', a variant in K. आरक्तवर्गगणित, a variant in M. (8) गोमूत्रं बहुभावितैः, a variant in M. (9) M reads पाषाण. (10) M reads हिङ्गुलम्. (11) M reads रक्तै. (12) M reads गणस्नेहमृतं. (13) M reads तीक्ष्णताम्रं. (14) K reads वापीतं, which is inc. (15) M reads वा. (16) K reads रसः, which is grammatically inc. (17) द्विगुणं रसकं, a reading in K. (18) M reads रक्तवर्गै मुहुः.

१३४ रसार्णवे ताप्येन वा मृतं हेम त्रिगुणेन निवापितम्¹ । भाण्डिकायां² तु रसकं ताप्य³सैन्धवसंयुतम् ॥ ४७ ॥ इन्द्रगोपनिभं यावत् सत्त्वं द्विगुणजारणात् । द्रुतं⁴ हेमनिभं सूतं कुरुते नात्र संशयः ॥ ४८ ॥ अभ्रकं हेम ताम्रं च शिलया⁵ माक्षिकेण च । गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ ४६ ॥ बीजानि रञ्जितान्येवं⁶ पक्वबीजान्यतः⁷ शृणु ॥ ५० ॥ महारसानुपरसान्⁸ तीक्ष्णलोहानि च चयेत्⁹ । समांशं सममाक्षिकं गन्धकावापयोगतः ॥ ५१ ॥ शतशो वापयेदेतत्¹⁰ अच्छौषं सावशेषितम्¹¹ । समांशं रसराजस्य गते द्रवति निक्षिप्तम्¹² ॥ ५२ ॥ तदेतद्द्विष्टिकास्तम्भे जारणायां सुरेश्वरि । रञ्जने रसराजस्य सारणायां च शस्यते ॥ ५३ ॥ तदेवं¹³ शतशो रक्तगणैः स्नेहन्निषेचितम्¹⁴ । (1) M reads विपाचितम्. (2) हुण्डिकायां, a reading in K. (3) K reads रसकताप्य. M reads रसकान्तगव्य, which is unintelligible. (4) M reads मृत. (5) M reads शिलायां. (6) बाजानां रञ्जना- म्ब्येव, a variant in M. (7) M reads पक्वबीजमतः. (8) M has महारसानूपरसा. (9) K reads वच्चाते, which is gram. inc. M reads कीष्णलोहानि, which is unintelligible. (10) शतशो वा भवेदेतत्, a variant in M. (11) K has an incomplete charaṇa—अच्छौ सावशेषितं. (12) This charana and the next three charanas are not found in K. (13) M reads तदैव. (14) K has निषेचित. M has रक्तगणस्नेहा—षञ्चितम्.

अधिकं¹ शस्यते तेषु सहस्रांशिन वेधकृत्² ॥ ५४ ॥ निर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः । खसत्त्वं रविणा योज्यं हन्दितं स्याद्रसायनं ॥ ५५ ॥ सस्नेहक्षारपञ्चाम्बैः³ रसैस्तैस्तालकादिभिः⁴ । समद्विच्रिगुणान् ताम्रे⁵ वाहयेद्वङ्गपन्नगान् ॥ ५६ ॥ रक्तस्नेहनिषिक्तं तद्ग्रासकृतिरिति⁶ स्मृतम् ॥ ५७ ॥ माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम्⁷ । वैक्रान्तकं कान्तमुख्यं⁸ सस्यकं विमलाञ्जनम् । रसकं वापि तं शश्वत्⁹ चूर्णितं हेम्नि वाहयेत् ॥ ५८ ॥ लोहपर्पटिकाताम्य¹⁰-कङ्कुष्ठविमलाभ्रकैः । मृतशुल्ब¹¹शिलात्तत-सुह्यर्कक्षारहिङ्गुलैः । नागो निर्जीवतां¹² याति पुटयोगैः पुनः पुनः ॥ ५६ ॥ रसतालकशङ्खाभ्र¹³-चिञ्चाक्षारैस्तथा त्रपुः¹⁴ । मृतं नागं मृतं वङ्गं शुल्बं तीक्ष्णञ्च वा मृतम् ।


पाद-टिप्पण्यः (Footnotes)

(1) K reads बंधक. (2) M reads वेधयत्. (3) सस्नेहजारक- दाम्नैः, a variant in K. (4) र्वारिभिस्तालकादिभिः, a variant in M. (5) समद्विच्रिगुणांस्ताम्रे, a variant in M. (6) M reads तद्ग्रासाभिरिति च, which seems to be gram. incorrect. (7) M reads erroneously मनशिला. (8) M has काकमुख. (9) K reads वापि शतशः (10) K reads लोहपर्पाटिकां ताव्य. (11) M reads शिल्य. (12) K reads नांग्ये निर्जीवतां, which is inc. (13) रसतालकगङ्गाभ्र, a variant in K. (14) K reads त्रपु.

१३६ रसार्णवे एकैकमुत्तमे हेम्नि¹ वाहयेत् सुरवन्दिते² ॥ ६० ॥ निरुत्थे³ पन्नगे हेम्नि निर्व्यूढे⁴ शतसद्गुणे⁵ । गोरोचनानिभं धाम⁶ भास्करे तारसन्निभम्⁷ ॥ ६१ ॥ तीक्ष्णाभ्रकं रविसमं⁸ माक्षिकं द्विगुणं तथा⁹ । भावत्तितं चूर्णितं, च मारितं¹⁰ सप्तभिः पुटैः ॥ ६२ ॥ व्यूढे शतगुणे¹¹ हेम्नि तद्बीजं जारयेत् समम् । चन्द्रार्क¹²पञ्चलेपेन शतभागेन वेधयेत् ॥ ६३ ॥ उर्द्धाधो माक्षिकं दत्त्वा शुल्बं हेमसमं भवेत्¹³ । एवं दशगुणं व्यूढं बोजं कारणसन्निभम्¹⁴ ॥ ६४ ॥ रसकाभ्रं कान्तताम्रे¹⁵ भागवृद्ध्या धमेत्ततः¹⁶ । माक्षिकेण हतं तच्च बीजे¹⁷ निर्वापयेत् प्रिये ॥ ६५ ॥ द्वात्रिंशद्गुणितं¹⁸ हेम्नि नागं ताप्यं हतं¹⁹ वहेत् ।


(1) एकैकमुत्तमेर्हेन्नि, a variant in M. (2) M reads सुरसुन्दरि. (3) K reads निरुत्थ. (4) K reads निर्व्यूहे, which appears to be inc. (5) शतसङ्गुणे is the reading in M, which is unintelligible. (6) K reads हेम. M reads गोरोचननिभ. (7) K has तारसन्निभ [तु + आरसन्निभ]. (8) तीक्ष्णाभ्रकरवीं हेम, a variant in K. M reads तीक्ष्णाभ्रके. (9) M reads यथा. (10) M reads मारिता, which is gram. inc. (11) M has व्यूढ शतगुणं. (12) M reads चर्याक, which is inc (13) M reads धमेत्. (14) M reads किरणसन्निभम्. (15) रसकाभ्रकतारोध्रं, a variant in M. (16) M reads समेत् ततः. (17) K reads विजी, which is an error of the scribe. (18) दात्रिंशतगुणं, a reading in K. (19) M reads गत.

Here is the line-by-line transcription of the page into clean Markdown in Unicode Devanagari and English:

अष्टमः पटलः । १३७ त्रिंशद्गुणशिलावाहं¹ नागवोजमुदाहृतम् ॥ ६६ ॥ ताप्यतालावापेन² सत्त्वं पीताभ्रकस्य तु । बीजे निर्वाहयेदेतत् षोषाकृष्टस्य³ वेधकम् ॥ ६७ ॥ नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम् । खादति⁴ पीततां तीक्ष्णं कान्तस्थां कालिकां विना ॥ ६८॥⁵ हेमवोजमिति प्रोक्तं—तारवोजमतः शृणु ॥ ६८ ॥ तीक्ष्णाभ्रताप्यविमल⁶-रसकं समभागिकम्⁷ । वङ्गभागास्तु चत्वारः⁸ सव्वं धातं विचूर्णितम् ॥ ७० ॥ पुटेन निहतं कार्यं व्यूढं तारन्तु वेधयेत् । द्वात्रिंशद्वद्गुणं¹⁰ तारे वङ्गे¹¹ ताप्यं हतं वहेत् । विंशद्गुणान्तालवापात्¹² वङ्गवोजमुदाह

१३८ रसार्णवे शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥ ७२ ॥ उक्तानि तारबीजानि—बीजानां रञ्जनं शृणु ॥ ७३ ॥ तीक्ष्णमाक्षिकशुल्बञ्च¹ नागञ्चपलमारितम्² । सिन्दूरसन्निभं यावत्³ तेन बीजानि रञ्जयेत् ॥ ७४ ॥ निधाय खर्परे नागं ब्रह्मबीजदलैः सह । दग्धमग्निमधो⁴ दत्त्वा वह्निवर्णं यदा⁵ भवेत् ॥ ७५ ॥ वासकेन विभौतेन⁶ काक⁷किंशुकशिग्रुभिः । कोरण्डकस्य⁸ पुष्पेण वकुलस्यार्जुनस्य⁹ च ॥ ७६ ॥ अद्दिमारेण¹⁰ नागिन्या¹¹ कुमार्य्या नागकन्यया । शिलया¹² च त्रिगुणया कथितेनाजवारिणा¹³ ॥ ७७ ॥ भावितं खर्परस्थञ्च वापयित्वा¹⁴ पुनः पुनः । सप्तभिर्दिवसैरेव मारितं सुरवन्दिते¹⁵ ॥ ७८ ॥ पुटयेद्द्रव्यकेनादा¹⁶वाख्येन तदनन्तरम् । (1) K has तीक्ष्ण माचीकशुल्बञ्च. (2) नागं चपलमारितं, a variant in K, which has no clear sense. (3) K reads सन्निभां याते. M reads सिन्दूर. (4) दग्धमग्निमथो, a variant in M. (5) M reads यथा. (6) वासकेन समूलेन, a variant in M. (7) K reads शाक. (8) M reads कोरङ्गस्य च. (9) M has वल्कलेनार्जुनस्य. (10) K reads अद्दिमात्रेण, which seems to be inc. (11) M reads नामिन्या, which is incorrect. (12) K reads सिलया. (13) K reads काथितेन. (14) M reads प्लावयित्वा. (15) M has सुरसुन्दरि. (16) पूरयेद्द्रव्यकेनाथ, a variant in M.

An exact, line-by-line transcription of the Sanskrit text and critical apparatus from the image:

अष्टमः पटलः । १३४ द्रवं दलानां¹ बीजानां रसराजस्य रञ्जने । उद्घाटे क्रामणे² योज्यं पिष्टोत्सङ्गे³ विशेषतः ॥ ७८ ॥ मञ्जिष्ठाकिंशुक⁴रसे खदिरं रक्तचन्दनम् । करवीरं देवदारुं⁵ सरलं रजनीद्वयम्⁶ ॥ ८० ॥ अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तैलं विपाचयेद्देवि⁷ तेन बीजानि रञ्जयेत्⁸ ॥ ८१ ॥ द्विगुणे रक्तपुष्पाणां⁹ रक्तपीतगणस्य च¹⁰ । क्वाथे चतुर्गुणे क्षीरे¹¹ तैलमेकं सुरेश्वरि ॥ ८२ ॥ ज्योतिष्मतीकरञ्जाख्य¹²-कटुतुम्बीसमुद्भवम् । पाटलीपिप्पलीकाम-काकतुण्डी¹³रसान्वितम् ॥ ८३ ॥ भेकशूकरमेषांहि¹⁴-मत्स्यकूर्मजलौ

१४० रसार्णवे पाचितं गालितं चैतत् सारणा¹तैलमुच्यते ॥ ८५ ॥ रसतुल्यं यथा बीजं² गतं गर्भद्रुतिं³ प्रिये । व्यापकत्वेन सर्व्वे⁴ च समभागास्तथेष्यते ॥ ८६ ॥ पक्वं श्रेष्ठं समं गर्भे यद्भवेद्द्रञ्जयेच्च तम्⁵ ॥ ८७ ॥ एवमुक्तानि बीजानि जारयेद्धिङ्ग⁶योगतः । तन्ममाचक्ष्व देवेशि⁷ किमन्यच्छ्रोतुमिच्छसि ॥ ८८ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁸ रसार्णवे रससंहितायां बीजसाधनो⁹ नाम अष्टमः पटलः ॥८॥

(1) M reads सारणं. (2) K reads यदा बीजं. (3) M reads गर्भद्रुति, which is incorrect. (4) व्येषतर्केण सर्वत्र, a variant in M, which is not intelligible. (5) यद्भवेद्द्रञ्जयेशे, a variant in M, wherein the first term is inc. (6) K reads जारयेद्वीज, which is incorrect. (7) This charaṇa is not found in M. (8) This portion is not found in M. (9) K and M read बीजसाधनं ; but as it qualifies पटलः, which is in masculine gender, it ought to be also in the same gender. The neuter gender may be supported by the rule of विधेय- विशेषण. But in order to keep up the uniformity we have adopted the masculine gender.

नवमः पटलः। ─•(●)•─ श्रीदेव्युवाच ।¹ बीजानां कल्पनं² प्रोक्तं विशेषेण च साधनम्³ । जार्यन्ते⁴ तानि यैः सूते⁵ तान् विडान् वक्तुमर्हसि ॥ १ ॥ श्रीभैरव उवाच ।⁶ काशोसं⁷ सैन्धवं काङ्क्षी⁸ सौवीरं व्योषगन्धकम् । सौवर्चलं सर्जिका च⁹ मालतीनीरसम्भवम्¹⁰ । शिग्रुमूलरसैः¹¹ सिक्तो विड़ोऽयं सर्व्वजारणः ॥ २ ॥ निर्दग्धं शङ्खचूर्णन्तु रविक्षीरशतप्लुतम् । पुटितं¹² बहुशो देवि प्रशस्तो जारणाविड़ः¹³ ॥ ३ ॥ शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलेः ॥ ४ ॥ निर्दग्धं शङ्खचूर्णं तु¹⁴ शिग्रुमूलाम्बुभावितम् । (1) M reads श्रीदेवी. (2) K reads प्रथमं. (3) K has विशेषरससाधन. (4) K reads जायन्ते. (5) M reads सूता, which is gram. incorrect. (6) M has श्रीभैरवः. (7) M reads कासीसं. (8) K reads साङ्क्षी. (9) K has व्योषका च, which creates a tauto- logy. (10) K reads मालतीरससम्भवः. We find also मालतीतोरसम्भवम् in the medical lexicons. (11) K reads शिग्रुमूलरसैः, which is inc. (12) . K reads erroneously पुटीत. (13) K has प्रशस्तो जारणे विदुः, wherein the first term is gram. inc. (14) M reads शङ्कचुर्ण तु.

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

१४२ रसार्णवे शतशो विषसिक्सूत्य¹-संयुतं² वडवामुखम् ॥ ५ ॥ टङ्गणं शतशो देवि भावयेत् किंशुकद्रवैः । विड़ो वह्निमुखाख्योऽयं³ लोहानां जारणे प्रिये ॥ ६ ॥ चूलिका गन्धपाषाणः⁴ कान्तस्य च मुखं प्रिये । एकैकमेव⁵ पर्याप्तं लोहचूर्णस्य जारणे⁶ ॥ ७ ॥ गन्धतालकसिस्यूतं⁷ चूली⁸टङ्कणभूखगम्⁹ । क्षारैर्मूत्रैश्च विपचेदयं¹⁰ ज्वालामुखो विड़ः¹¹ ॥ ८ ॥ एकविंशतिपर्यायं देवदालीदलद्रवैः¹² । भावितो निचुलक्षारः सर्व्वसत्त्वानि जारयेत् ॥ ६ ॥ वास्तुकैरण्डकदली¹³-देवदालीपुनर्नवम्¹⁴ । वासा¹⁵पलाशनिचुलं तिलकाञ्चन¹⁶माक्षिकम् ॥ १० ॥ (1) K reads विषसौधूतं. M reads विषसिख्यतं. (2) K reads सम्भूतं. M reads संयुतं. We have adopted the above reading, after collating the texts. (3) M has वह्नित्रिडाख्योऽयं. (4) K reads पाषाणं, which is gram. incorrect. M reads भवपाषाण. (5) तेष्वेवमेक is the reading in M, wherein the last term is inc. (6) K has an incomplete charaṇa लोहचूर्णजारणे. M has लोहचारणजारणे. (7) M reads सिस्मृत्य (8) K reads चूलि. (9) K has मुखणं or correctly भूषगं. (10) M reads विपचेदव, which is evidently an error. (11) K reads विदुः, which is inc. (12) देवदालिद्रवाद्भवैः, a variant in K. (13 M reads वास्तुकैरण्डकदली, which is not gram correct. (14) K reads पुनर्नवा. M reads देवतालीपुनर्गवम्. (15) M reads वाशा. (16) M reads तिलकाञ्जन.

नवमः पटलः । १४३ सर्व्वाङ्गं खण्डगस्विन्नं¹ नातिशुष्कं² शिलातले³ । दग्धकाण्डेस्तिलानां तु पञ्चाङ्गं मूलकस्य च ॥ ११ ॥ प्लावयेन्मूत्रवर्गेण जलं तस्मात् परिस्रुतम्⁴ । लोहपात्रे पचेद्यन्त्रे हंसपाकेऽग्निमानवित्⁵ ॥ १२ ॥ वाप्याणां⁶ बुद्बुदानाञ्च बहुनामुद्गमो यदा । तदा काशीससोराष्ट्रा-क्षारत्रयकटुत्रयम् ॥ १३ ॥ गन्धकञ्च⁷ सितं हिङ्गु लवणानि च षट् तथा । एषां चूर्णं क्षिपेदेष⁸ लोहसम्पुटमध्यगः⁹ । सप्ताहं भूगतः पश्चाद्धान्यस्थः प्रवरो विड़ः ॥ १४ ॥ जम्बीराम्लेन पचनं¹⁰ शिग्रुमूलद्रवेण च । चूलिकागन्धकासिक्तो¹¹ हो विड़ो शतशः क्रमात् ॥ १५ ॥ कोषातकी¹²दलरसैः क्षारैर्वा निचुलोग्निदैः¹³ । (1) खण्डर्गन्स्विन्नं is the incorrect variant in M. (2) M has नातिशुष्कां, which seems to be inc. (3) K reads शिलातल, which is gram. inc. (4) K reads परिस्रुत, which destroys the metre. M has जानिलस्नात् परिस्रुतम्, which has neither grammar nor sense. (5) हंस- पाकाग्निमानवित्, a variant in K. (6) K reads बाष्पाणां, which is incorrect. (7) K and M read गन्धकस्य, which is inc. (8) M reads क्षिपिदेतत्, which is not gram. correct. (9) M reads मध्यगम्, which is not gram. correct. (10) M reads च वन, which is inc. (11) K reads सिक्तो. M reads सिक्ता. Both the readings are not correct. (12) M reads कोषातकी (13) K has क्षारो वा M has क्षारा वा निचुलद्रवै

१४४ रसार्णवे देवदालीशिवावीजं¹ गुञ्जासैन्धवटङ्कणम्² । भावयेदम्लवर्गेण³ विड़ोऽयं हेमजारणः⁴ ॥ १६ ॥ मूलकार्ड्रक⁵चित्राणां क्षारैर्गोमूत्रगालितैः । गन्धकः शतशो भाव्यो विड़ोऽयं हेमजारणे ॥ १७ ॥ हरितालशिलाक्षारो⁶ लवणं शङ्खमृत्तिका⁸ । हंसपाकविपक्वोऽयं विड़ः स्याद्धेमजारणे ॥ १८ ॥ एवं संगृह्य सम्भारान् रसकर्म समाचरेत् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १९ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁹ रसार्णवे रससंहितायां विड़कथनो नाम¹⁰ नवमः पटलः ॥ ९ ॥ (1) K reads शिखाबीजं. M reads देवतालीशिवा, which is incomplete. (2) M reads गुञ्जाटङ्कणसैन्धवम्. (3) भावयेदाम्लवर्गेण, a variant in M. (4) विडायां हेमजारणे, a variant in M, wherein the first term is incorrect. (5) M reads erroneously मूलकाद्रुक. (6) K reads क्षारैः. (7) K reads भावन. (8) K has शरमृत्तिका, which destroys the metre. (9) This portion is not found in M. (10) M reads विड़कल्पो नाम.

दशमः पटलः । श्रीदेव्युवाच । रसस्य लक्षणं किंवा रसकर्म च कीदृशम् । तन्न जानामि देवेश वक्तुमर्हसि तत्त्वतः ॥ १ ॥ श्रीभैरव उवाच । प्रागेवोक्ता रसोत्पत्तिस्तल्लक्षणमतः¹ शृणु ॥ २ ॥ तस्य नामसहस्राणि अयुतान्यर्बुदानि च । शक्यते न मया वक्तुं संक्षेपात् कथ्यते शृणु ॥ ३ ॥² रसो रसेन्द्रः सूतश्च पारदश्चाथ मिश्रकः³ ॥ ४ ॥ रसं सिद्धरसं विद्यात् सिद्धक्षेत्रसमाश्रयम् । नाशयेत् सकलान् रोगान् बलीपलितमेव सः⁴ ॥ ५ ॥ देहलोहकरं शुद्धं⁵ रसेन्द्र⁶मधुना शृणु । शरीरे हेम्नि कर्त्ता च जारणे सारणासु च ॥ ६ ॥ (1) K reads रसोत्पत्तिस्तल्लक्षणर्मतः, which is grammatically incorrect. (2) This śloka is not found in M. (3) M reads मिश्रकम्. [Vide र.स.स. Chap. I. v. 68.] (4) K reads बलि. M reads फलितनाशनम्, which is inc. [Vide र.स.स. Chap. I. vs. 69 and 77.] (5) M reads स्थिरं. (6) But vide र.स.स. Chap. I. vs. 70—72 and 78, which state सूतं instead of रसेन्द्र. 10

१४६ रसार्णवे

ईषत्पीतश्च रुक्षाङ्गो दोषयुक्तश्च सूतकः ॥ ६ ॥ (क)¹ यो वाह्याभ्यन्तरे खेतो² बहुलं³ कञ्चुकावृतः । तं विद्यात्⁴ पारदं देवि तारकर्मणि योजयेत् । यथा काञ्जिकसंसर्गात् क्षीरभाण्डं⁵ विनश्यति । तथा हेम शरीरञ्च⁶ पारदेन विनश्यति ॥ ७ ॥ मयूरपत्रिकाभासं⁷ मिश्रकञ्च विदुर्बुधाः । धूम्रवर्णं रसं⁸ दृष्ट्वा विशेषेणोपलभ्यते । मिश्रकन्तु⁹ विजानीयाद्दाहकर्मकारकम्¹⁰ ॥ ८ ॥ एवं पञ्चविधा देवि रसभेदा निरूपिताः ॥ ६ ॥¹¹ स्वेदनं मर्दनं चैव चारणं¹² जारणं तथा ।


(1) After the 6th śloka we do not find in any of our MSS. a śloka, which defines सूत. Hence we have inserted the above hemistich from रस.स. [Chap. I. v. 72] in order to complete the list of 5 different [L