ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
५४ ऋतुसंहारे दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नमवकृष्य¹ निरीक्षते च ॥ १३ ॥ काचिदिति ॥ दर्पण आदर्शे सक्तः संसक्तो हस्तः करो यस्याः सा तथोक्ता । 'दर्पणे मुकुरादर्शौ' इत्यमरः । काचि- द्धनिता स्त्री बालातपेषु कोमलोष्णेषु । स्थित्वेति शेषः । वदनारविन्दं मुखकमलं विभूषयत्यलंकरोतीत्यर्थः । किंच । प्रियतमेन कान्तेन निपीतः सारो रसो यस्य तं तथोक्तं दन्ताग्रै रदनाग्रैर्भिन्नः खण्डितस्तथोक्तो दन्तच्छदमोष्ठमव- कृष्याकृष्य निरीक्षतेऽवलोकयतीत्यर्थः । वसन्ततिलकावृत्त- मतेत् । लक्षणं तु पूर्वमुक्तम् ॥ ²अन्या प्रकामसुरतश्रमखिन्नदेहा ³रात्रिप्रजागरविपाटलनेत्र⁴पद्मा । ⁵स्रस्तांसदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यक⁶राभितप्ता ॥ १४ ॥ अन्येति ॥ प्रकाममत्यन्तं सुरतश्रमेण संभोगक्लेशेन खिन्नः खेदान्वितो देहः शरीरं यस्याः सा तथोक्ता। रात्रौ निशायां यः प्रजागरो जागरणं तेन विपाटले विशेषेण पाटलवर्णे नेत्रपद्मे नयनारविन्दे यस्याः सा तथोक्ता । स्रस्तो विशक- लितोंऽसदेशो स्कन्धप्रदेशो लुलितोऽत्यन्तमाकुलो व्याकुलः केशपाशो कबरीबन्धो यस्याः सा तथोक्ता । मृदुभिः कोम- लैः सूर्यकरैस्तरणिकिरणैरभितप्तान्या काचित्स्त्री निद्रां प्रया- ति प्राप्नोति ॥ १ 'अपकृष्य'. २ 'अन्याः'. ३ 'नक्त;' 'नक्तम्'. ४ पद्माः. ५ 'शय्यान्त'. ६ 'अभितप्ताः'.
चतुर्थः सर्गः । ५५ निर्माल्यदाम परिमुक्तमनोज्ञगन्धं मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः । पीनोन्नतस्तनभरानतगात्रयष्ट्यः कुर्वन्ति केशरचनाम¹परास्तरुण्यः ॥ १५ ॥ निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः । पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरो गन्धो येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिर- सोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति । अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचा²रुशोभा । ³कूर्पासकं परिदधाति ⁴नखक्षताङ्गी ⁵व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ १६ ॥ अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरी- रमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधर ओष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथो- क्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथो- क्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कु- न्तलैः कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या १ 'अबलाः'. २ 'रागशोभा;' 'गण्डशोभा'. ३ 'रक्तांशुकम्'. ४ 'नवं नताङ्गी'. ५ 'व्यालम्बिताङ्गुलिलता'.
५६ ऋतुसंहारे स्त्रीकूर्पासकं चोलम् । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । परिदधाति धत्त इत्यर्थः ॥ अन्याश्चिरं सुरतकेलिपरिश्रमेण १खेदं गताः प्रशिथिलीकृतगात्रयष्टयः । सं²हृष्यमाणपुलै³कोरुपयो⁴धरान्ता ५अभ्यञ्जनं विदधति प्रमदाः ६सुशोभाः ॥१७॥ अन्या इति ॥ चिरं चिरकालं या सुरतकेलिः संभोग- क्रिया तया यः परिश्रमः क्लेशस्तेन खेदं गताः प्राप्ता अत एव प्रकर्षेण शिथिलीकृता गात्रयष्टयो यासां तास्तथोक्ताः । सं- हृष्यमाणः पुलको रोमाञ्चो यस्मिंस्तादृश ऊरुः पीनश्च पयो- धरान्तः पयोधरप्रान्तो यासां तास्तथोक्ताः । सुष्ठु समीचीना शोभा यासां तास्तथोक्ताः । अन्याः प्रमदाः स्त्रियोऽभ्यञ्ज- नमभ्यङ्गं सुगन्धतैलादिना विदधति कुर्वन्तीत्यर्थः ॥ बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा । ८सततमतिमनोज्ञः क्रौञ्चमालापरीतः प्रदिशतु हिमयुक्तः काल एषः ९सुखं १०वः॥१८॥ बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरो योषितां स्त्रीणां चित्तहारी मनोहारी परिणतैः परिपक्वैर्बहुभिः शालिभि- १ 'स्वेदम्'. २ 'संपीड्यमान'. ३ 'विपुलोरु'. ४ 'पयोधरार्ताः'. ५ 'प्रत्यञ्जनम्;' 'नेत्राञ्जनम्'. ६ 'सुशोभम्'. ७ 'सीमः'. ८ 'विनि- पतिततुषारः क्रौञ्चनादोपगीतः'. ९ 'त्वेष कालम्'. १० 'प्रियम्'.
पञ्चमः सर्गः । ५७ व्याकुला ग्रामसीमा ग्रामान्ताः प्रान्ता यस्मिन्स तथोक्तः । सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्च- पङ्क्तिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्तकालो वः सुखं प्रदिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविचरितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये हेमन्तवर्णनं नाम चतुर्थः सर्गः । पञ्चमः सर्गः । अथ क्रमप्राप्तं शिशिरं वर्णयति— १प्ररूढशाल्यंशुचयैर्मनोहरं २क्वचित्स्थितक्रौञ्चनिनाद३राजितम् । प्रकाम४कामं प्रमदाजनप्रियं वरोरु कालं शिशिराह्वयं शृणु ॥ १ ॥ प्ररूढेति ॥ वरावुत्कृष्टावूरू जङ्घे यस्यास्तस्याः संबोधने हे वरोरु, प्ररूढानां प्रवृद्धानां शालीनामंशुचयैर्मनोहरम् । क्वचित्पुस्तके ‘प्ररूढशालीक्षुचयावृतक्षितिम्’ इति पाठः । स तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्याना- मिक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्वी यस्मि- न्निति समासः । क्वचित्कुत्रचिद्वृक्षशाखायां स्थितानामुपवि- १ ‘प्ररूढशालीक्षुचयैर्मनोहरम्’. २ ‘क्वचित्स्थितम्;’ ‘सुस्थस्थि’. ३ ‘शोभितम्’. ४ ‘काम’. ६
५८ ऋतुसंहारे
ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैर्विरुतै राजितं शोभितं तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् । प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वया यस्य तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत् । तल्लक्षणं तु पूर्वमुक्तम् ॥ निरुद्धवातायनमन्दिरोदरं हुताशनो भानुमतो गभस्तयः । गुरूणि वासांस्यबलाः सयौवनाः प्रयान्ति कालेऽत्रे जनस्य सेव्यताम् ॥ २ ॥ निरुद्धेति ॥ अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः । ‘वातायनं गवाक्षः स्यात्’ इत्यमरः । हुताशनोऽग्निर्भानुमतः सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि । सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य से- व्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥ न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् । न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥ नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा
१ 'अथ'.
पञ्चमः सर्गः । ५९ शरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः ॥ तुषारसंघातनिपातशीतलाः शशाङ्कभाभिः शिशिरीकृताः पुनः । विपाण्डुतारागणजिह्मभूषिता जनस्य सेव्या न भवन्ति रात्रयः ॥ ४ ॥ तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शी- तलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशि- रीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डु- रवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ॥ गृहीतताम्बूलविलेपनस्रजः सुखासवामोदितवक्त्रपङ्कजाः । प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५ ॥ गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं १ 'शीतला'. २ 'शिशिरीकृताः'. ३ 'चारुभूषणाः'. ४ 'सुरासवा;' 'पुष्पासवा'. ५ 'वासिताम्'. ६ 'शय्याम्'. ७ 'उत्सुकस्त्रियः'.
६० ऋतुसंहारे मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥ कृतापराधान्बहुशोऽपि तर्जिता^१- न्सवेपथून्साध्वसलुप्त^२चेतसः । निरीक्ष्य भर्तॄन्सुरताभिलाषिणः स्त्रियोऽपराधान्समदा विसस्मरुः^३ ॥ ६ ॥ कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जि- तान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तानभर्तॄन्प्रियान्सुरताभि- लाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृता- न्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमे- तत् । तल्लक्षणं तूक्तम् ॥ प्रकामकामैर्युवभिः^४ सनिर्दयं^३ निशासुदीर्घास्वभिरामिताश्चिरम्^५ । भ्रमन्ति^६ मन्दं^७ श्रमखेदितोरसः^८ क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥ १ 'अभितर्जितान्'. २ 'मन्द'. ३ 'न सस्मरुः'. ३ 'सुरतेऽति- निर्दयम्'; 'युवभिः सुनिर्दयम्'. ५ 'दीर्घास्वभिभाविता भृशम्;' 'गाढं दयितैश्चिरं दृढम्'. ६ 'भवन्ति; धमन्ति'. ७ 'मन्द'. ८ 'खेदितो रवः'. 'मोदितोरसः'. 'खेदितोरवः'.
पञ्चमः सर्गः । ६१ प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु निशासु रात्रिषु चिरं चिरकालं निर्दयं निर्दयतया दयाभावेन सहितं यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथोक्ता नवयौ- वनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अवसानं समाप्तिस्तस्मि- न् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥ मनोज्ञकूर्पासकपीड़ितस्तनाः सरागकौशेयकभूषितोरसः । विवेशितान्तःकुसुमैः शिरोरुहै- र्विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥ मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पीडि- ताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं यत्कौशे- यमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभितमुरो हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निविष्टान्य- न्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरोरुहैः केशै- र्हिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥ पयोधरैः कुङ्कुमरागपिञ्जरैः सुखोपसेव्यैर्नवयौवनोष्मभिः । विलासिनीभिः परिपीडितोरसः स्वपन्ति शीतं परिभूय कामिनः ॥ ९ ॥ १ ‘कूर्पासनिपीडित’. २ ‘कौशेयविभूषितोरसः’. ३ ‘यौवनो- त्सवाः’; ‘यौवनोत्सवः’. ४ ‘विलासिनीनाम्’. ५ ‘भृशम्’.
पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः । नवो नूतनो यौवनस्य तारुण्यस्योष्मोष्ण्यं येषु तैस्तथोक्तैः पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः का- मिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां कुर्वन्तीत्यर्थः ॥ सुगन्धिनिश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधकम्¹ । निशासु हृष्टाः सह कामिभिः स्त्रियः पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥ सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवतयः सुगन्धिना सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिं- स्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबो- धकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥ अपगतमदरागा योषिदेका² प्रभाते ³कृतनिविडकुचाग्रा पत्युरालिङ्गनेन । प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं व्रजति शयनवासाद्वासमन्यद्धसन्ती⁴ ॥११॥ अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता । पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प- १ 'प्रबोधनम्'. २ 'एव'. ३ 'कृतविनतकुचाग्रा'; 'कुचनिविडकुचा ग्रा'. ४ 'अन्यं हसन्ती'; 'अन्यद्व्रजन्ती'.
पञ्चमः सर्गः । ६३ रिभुक्तं स्वं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मे- राननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं मन्दिरं व्रजतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥ अगुरुसुरभिधूपा¹मोदितं केश²पाशं गलितकुसुममा³लं तन्वती कुञ्चिताग्रम् । त्यजति गुरुनितम्बा निम्नमध्यावसौन्ना उषसि ⁵शयनमन्या कामिनी ⁷चारुशोभा ॥ अगुर्विति ॥ अगुरोः सुरभिणा सुगन्धिना धूपेनामोदि- तः संजातसौरभस्तं तथोक्तम् । गलिता स्रस्ता कुसुममाला यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती । गुरु- नितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सु- न्दरशोभान्या कामिनी र्युषसि प्रातःकाले शयनं पर्यङ्कम् । ‘शयनं मञ्चपर्यङ्कपत्यङ्काः’ इत्यमरः । त्यजति मुञ्चतीत्यर्थः । क्वचित्पुस्तके ‘निम्नमध्यावसन्ना’ इति पाठः । तदर्थस्तु निम्नेन मध्येनावसन्ना खिन्नेति निम्नमध्यावसन्ना । ‘उषसि’ इत्यत्र विवक्षाप्राप्तत्त्वान्न संहिता तदुक्तम्—‘संहितैकपदे नि- त्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा वि- वक्षामपेक्षते ॥’ इति ॥ कनककमलकान्तैः ⁸सद्य एवाम्बुधौतैः ⁹श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः । १ ‘आमोदितान्’. २ ‘केशपाशान्’. ३ ‘मालान्’. कुञ्चि- ताग्रं वहन्ती’, ‘धुन्वती कुञ्चिताग्रान्’. ५ ‘निम्ननाभिः सुमध्या. ६ ‘शयनवासम्;’ ‘शयनमध्या’. ७ ‘कामशोभा;’ ‘कामशोभाम्’. ८ ‘चारुविम्बाधरोष्ठैः’. ९ ‘श्रवणतटनिषिक्तैः;’ ‘स्मरदमृतनिषक्तैः.
६४ ऋतुसंहारे उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥ कनकेति ॥ सद्य एव तत्कालमेवाम्बुधौतैरम्बुना जलेन धौतानि प्रक्षालितानि तैरत एव कनककमलकान्तैः कनकस्य सुवर्णस्य कमलमम्बुजमिव कान्तैः सुन्दरैर्वदनबिम्बैः । 'चा- रुताम्राधरोष्ठैः' इति पाठे तु चारवः सुन्दराश्च ते ताम्रा आरक्ताश्च तेऽधरोष्ठाश्च तैः । श्रवणतटे कर्णप्रान्ते निष्पक्तै- र्निषण्णैः । पाटलः पाटलवर्ण उपान्तः प्रान्तो येषां तादृशा- नि च तानि नेत्राणि लोचनानि तैः । 'लोचनं नयनं नेत्र- म्' इत्यमरः । अंसे स्कंदे संसक्ताः संलग्ना ये केशाः कुन्त- लास्तैश्चोपलक्षिता योषितः स्त्रियोऽद्येदानीमुषसि प्रातःकाले गृहमध्ये श्रिय इव लक्ष्म्य इव संस्थिताः ॥ पृथुजघनभरार्ताः किंचिदानम्रमध्याः स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः । सुरतसमयवेषं नैशमांशु प्रहाय दधति दिवसयोग्यं वेषमन्यास्तरुण्यः ॥ १४॥ पृथ्विति ॥ पृथोः स्थूलस्य जघनस्य कट्यग्रभागस्य भरेणार्ताः पीडिताः । 'क्लीबे तु जघनं पुरः' इत्यमरः । किंचिदीषदानम्रं नतं मध्यं यासां तास्तथोक्ताः । स्तनानां कुचानां भरेण भारेण यः परिखेदः श्रमस्तस्मान्मन्दमन्दं मन्थरं व्रजन्त्यो गच्छन्त्योऽन्यास्तरुण्यः कामिन्यो निशि भवं १ 'संयुक्त'. २ 'संस्मिता'. ३ 'मध्या'. ४ 'स्तनयुग'. ५ 'व्रजन्त्याः' ६ 'सुरतसमयखेदम्' ? 'सुरतशयनवेषम्. ७ 'अङ्गे'; 'अन्यत्'. ८ 'एषाः'.
पञ्चमः सर्गः । ६५ नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति प्रहाय त्यक्त्वा दिवसयोग्यं वेषं दधतीत्यर्थः ॥ नखपदचितभागान्वीक्षमाणाः स्तनाग्रा- नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः । अभिमतरसमेतं नन्दयन्त्यस्तरुण्यः सवितुरुदयकाले भूषयन्त्याननानि ॥ १५ ॥ नखपदेति ॥ नखपदैर्नखक्षतैश्चिता व्याप्ता भागा येषां तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । द- न्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं स्पृशन्त्यः स्पर्शं कुर्वन्त्य एतमभितो मनोऽभिलषितो यो रसस्तं नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विलासवत्यः सवितुः सूर्य- स्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः प्रवलसुरतकेलिर्जातकंदर्पदर्पः । प्रियजनरहितानां चित्तसंतापहेतुः शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् १६ प्रचुरेति ॥ प्रचुरो बहुलो गुडविकारः खण्डशर्करादि- र्यसिंस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानीक्षव इक्षुदण्डाश्च तै रम्यो रमणीयः । प्रबला अत्याधिकाः सुरत- केलयो यत्र तथाविधः । जातः संजातः कंदर्पदर्पो मन्मथा- १ 'नखपदकृतभङ्गान्'. २ 'स्तनान्तान्'. ३ 'रतवेशम्'. ४ 'प्रसृत'. ५ 'शान्त.' ६ 'तेऽस्तु'.
५. पञ्चम सर्ग: शिशिर वर्णन (तुषार-पात व गृह-सौख्य)
६६ ऋतुसंहारे धिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहिता- नाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे कल्याणाय नित्यं सदास्त्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये शिशिरवर्णनं नाम पञ्चमः सर्गः । षष्ठः सर्गः । अथ क्रमप्राप्तं वसन्तकालं वर्णयति— प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः । मनांसि १वेद्धुं २सुरतप्रसङ्गिनां वसन्तयोद्धा३ समुपागतः प्रिये ॥ १ ॥ प्रफुल्लेति ॥ हे प्रिये, प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव तीक्ष्णा निशिताः सायका बाणा यस्य स तथोक्तः । द्विरेफाणां भ्रमराणां माला पङ्क्तिरेव विलसन्धनुर्गुणो यस्य स तथोक्तो वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेद्धुं विदारयितुं समुपागत आगत इत्यर्थः । वंशस्थवृत्तमेतत् । लक्षणं तूक्तम् ॥ द्रुमाः सपुष्पाः सलिलं ४सपद्मं स्त्रियः सकामाः ५पवनः ६सुगन्धिः । १ 'भत्तुम्'. २ 'सुरतोत्सुकानाम्'. ३ 'योधः' ४ 'सुपद्मम्'- ५ 'पवनाः' ६ 'सुगन्धयः'.
षष्ठः सर्गः । ६७ सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥ द्रुमा इति ॥ हे प्रिये, वसन्ते वसन्तकाले सर्वं चारुत- रमतिरमणीयमस्ति । सर्वं किं तदाह—द्रुमा इति । द्रुमा वृक्षाः सपुष्पाः कुसुमसहिताः । सलिलं जलं सपद्मं कमल- सहितम् । स्त्रियो वनिताः सकामाः समन्मथाः । पवनो वायुः सुगन्धिः कुसुमसंसर्गात्सुरभिः । प्रदोषाः संध्यासमयाः सुखाः सुखकराः । दिवसाश्च रम्या रमणीया इति । उप- जातिवृत्तमेतत् । लक्षणं तूक्तम् ॥ वापीजलानां मणिमेखलानां शशाङ्कभासां प्रमदाजनानाम् । चूतद्रुमाणां कुसुमान्वितानां ददाति सौभाग्यमयं वसन्तः ॥ ३ ॥ वापीति ॥ अयं वसन्तो वसन्तकालो वापीजलानां दीर्धि- काजलानाम् । तत्र जलक्रीडावशात् मणिमेखलानां मणिख- चितमेखलानाम् । स्त्रीभिः कटिप्रदेशे धारणात् । शशाङ्कभा- सां चन्द्रकान्तीनाम् । रात्रौ संसेव्यत्वात् । प्रमदाजनानां वनिताजनानाम् । सुखभोगात् । कुसुमैः पुष्पैैरन्विता युक्ता- स्तेषां तथोक्तानां चूतद्रुमाणामाम्रवृक्षाणाम् । स्त्रीकर्णावतंस- विषयपल्लवत्वात् । सौभाग्यं सुभगतां ददातीत्यर्थः ॥ कुसुम्भरागारुणितैर्दुकूलै- र्नितम्बबिम्बानि विलासिनीनाम् । १ 'कुसुमानतानाम्'. २ 'सौरभ्यम्'. ३ 'नितम्बिनीनाम्'. २-३ श्लोकयोर्मध्येऽयं श्लोको दृश्यते— ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः । कुर्वन्ति नार्योऽपि वसंतकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥
६८ ऋतुसंहारे ¹रक्तांशुकैः ²कुङ्कुमरागेगौरै- रलंकियन्ते स्तनमण्डलानि ॥ ४ ॥ कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तैस्त- थोक्तैर्दुकूलैर्वस्त्रैर्विलासिनोनां विलासवतीनां नितम्बबिम्बानि । कुङ्कुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्तथोक्तै रक्तांशुकै रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलंकियन्त इत्यर्थः ॥ कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्व⁴शोकम् । ⁵पुष्पं च फुल्लं ⁶नवमल्लिकायाः ⁷प्रयाति कान्तिं ⁸प्रमदाजनानाम् ॥ ५ ॥ कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्रव- णेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकारकुसु- मम् । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वञ्जुलकुसुम- म् । 'वञ्जुलोऽशोके' इत्यमरः । फुल्लं संफुल्लं नवमल्लिकायाः पुष्पं च । जात्यभिप्रायेणैकवचनम् । कान्तिं शोभां प्रयाति प्राप्नोतीत्यर्थः ॥ स्तनेषु हाराः सितचन्दनाद्र्रा भुजेषु संङ्गं वलयाङ्गदानि । १ 'तन्वंशुकैः' २ 'पिञ्जरैः. ३ 'स्तनेषु हाराः.' ४ 'अशोकः'. ५ 'शिखासु फुल्लाः', 'शिखासु मालाः'. ६ 'नवमालिकाश्च'. ७ 'प्र- यान्ति शोभाम्'. ८ 'प्रमदाजनस्य'. ९ 'कम्बूवलयाङ्गदानि'.
प्रयान्त्येन¹ङ्गातुरमानसानां नितम्बिनीनां जघनेषु काञ्च्यः ॥ ६ ॥ स्तनेष्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्तनेषु कुचेषु सितचन्दनेन धवलचन्दनद्रवेणार्द्रा हारा मुक्ताहाराः भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु का- ञ्च्यः सङ्गं संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥ सपत्रलेखेषु विलासिनीनां वक्त्रेषु हेमाम्बुरुहोपमेषु । र²त्नान्तरे मौक्तिकसङ्ग³रम्यः स्वेदा⁴गमो विस्तरतामुपैति ॥ ७ ॥ सपत्रेति ॥ रत्नान्तरे रत्नानां मध्ये मौक्तिकानां मुक्ताफलानां सङ्गेनैव रम्यो रमणीयः स्वेदागमो घर्मनिर्गमो विलासिनीनां विलासवतीनां स्त्रीणां सपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्या- दिरचितावली तया सहितेषु हेमाम्बुरुहेण काञ्चनपद्मेनोपमेषु वक्त्रेषु मुखेषु विस्तरतां विस्तारभावमुपैति प्राप्नोतीत्यर्थः ॥ उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कंदर्पसमाकुलानि । समीपवर्ति⁵ष्वधुना प्रियेपु समुत्सुका एव भवन्ति नार्यः ॥ ८ ॥ उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि १. 'निःशङ्कमनङ्गसौख्यम्'; 'निःसङ्गमनङ्गसौख्यम्'. २. 'स्तनान्तरे'. ३. 'सङ्गातः'. ४. 'स्वेदोद्गमः'. ५. 'अपि कार्मुकेषु'. ७
७० ऋतुसंहारे
कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पेणानङ्गेन समाकु- लानि व्याकुलानि । ‘कंदर्पो दर्पकोऽनङ्गः’ इत्यमरः । गात्रा- णि शरीराण्युच्छ्वासयन्त्यो नार्यः स्त्रियोऽधुना वसन्तकाले समीपवर्तिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्क- ण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥ तनूनि पाण्डूनि ²समन्थराणि मुहुर्मुहुर्जृम्भणतत्पराणि । अङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्य²संसंभ्रमाणि ॥ ९ ॥ तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्याङ्गानि गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसि- तानि । ‘तत्परे प्रसितासक्तौ’ इत्यमरः । लावण्येन सौन्द- र्येण ससंभ्रमाणि संवेगसहितानि । ‘समौ संवेगसंभ्रमौ’ इत्यमरः । करोतीत्यर्थः ॥ नेत्रेषु लो³लो ४मदिरालसेषु गण्डेषु पाण्डुः ५कठिनः स्तनेषु । मध्येषु नि६म्नो जघनेषु पीनः स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १० ॥ नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययु- क्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु । ‘लोचनं नयनं नेत्रम्’ इत्यमरः । लोलश्चञ्चलः। गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः। १. ‘मदालसानि’. २. ‘रसोत्सुकानि’. ३. ‘लोलम्’; ‘अलोलः’. ४. ‘मदिरारसेषु’. ५. ‘कठिनस्तनेषु’. ६. ‘नग्नः’.
स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेषु निम्नॊ गभीरः । जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा बहुप्रकारेण स्थित उपस्थित इत्यर्थः ॥ अङ्गानि निद्रालसवि१भ्रमाणि वाक्यानि किंचिन्मद२लालसानि । भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः ३प्रमदाजनानाम् ॥ ११ ॥ अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथो- क्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि । वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार कृतवानित्यर्थः ॥ प्रियङ्गुकालीयककुं४कुमाक्तं ५स्तनेषु गौरेषु विलासिनीभिः । आलिप्यते चन्दनमङ्गनाभि- र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥ प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गौरेषु गौरव- र्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जाय- कम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरी- युक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥ १. 'विह्वलानि'. २. 'मदिरालसानि;' 'मदसालसानि'. ३. 'प्रमदो- त्तमानाम्.' ४. 'कुङ्कुमानि' . ५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तना- ङ्गरागेषु विचर्चितानि'.
७२ ऋतुसंहारे गुरूणि वासांसि विहाय तूर्णं तनूनि लाक्षारसरञ्जितानि । सुगन्धिकालागुरुधूपितानि धत्ते जनः काममदालसाङ्गः ॥ १३ ॥ गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि धत्ते दधातीत्यर्थः ॥ पुंस्कोकिलश्चूतरसासवेन मत्तः प्रियां चुम्बति रागहृष्टः । कूजद्विरेफोऽप्ययमम्बुजस्थः प्रियं प्रियायाः प्रकरोति चाटु ॥ १४ ॥ पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अ- म्बुजे कमले तिष्ठति स तथोक्तः कूजन्गूञ्जन्नयं द्विरेफो भ्रम- रोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ॥ ताम्रप्रवालस्तवकावनम्रा- श्चूतद्रुमाः पुष्पितचारुशाखाः । १. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया- मुखं चुम्बति सादरोऽयम्'. ४. 'गुञ्जन्'. ५. 'अधिकः प्रमत्तः'. ६. 'क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तवकावतंसाः'.
षष्ठः सर्गः । ७३ कुर्वन्ति कामं¹ पवनावधूताः² पर्युत्सुकं³ मानसमङ्गनानाम् ॥ १५ ॥ ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तब- कैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तः- करणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ॥ आ मूलतो विद्रुमरागताम्रं⁴ सपल्लवाः⁵ पुष्पचयं दधानाः । कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥ आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवा- लस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारय- न्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां चं⁶ हृदयं सशोकं कुर्वन्तीत्यर्थः ॥ मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुप्रवालाः । कुर्वन्ति कामिमनसां सहसोत्सुकत्वं चूताभिरामकलिकाः⁷ समवेक्ष्यमाणाः ॥ १७॥ १. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'. ५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमु- क्तकलिकाः'.