रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
द्वितीयोऽध्यायः ५१ मूल एकादशोरू स्याद् जङ्घा प्रान्ते युगाङ्गुला । चतुर्दशाङ्गुलः पादस्ततोऽर्द्धे(स्तदूर्ध्वे) च युगाङ्गुलः ॥३१॥ कक्षः स्कन्धस्तदूर्द्धे तु कर्त्तव्यश्चाष्टमात्रकः । ग्रीवा चाष्टाङ्गुला व्यासे पादः प्रोक्तः षडङ्गुलः ॥३२॥ जानाति नानाविधरूपभावं श्रीविश्वकर्मा सुरसूत्रधारः । ऊर्द्धाण्डजस्वेदजरायुजाढ्यं स विश्वरूपं सुखहेतवेऽस्तु ॥३३॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे देवतामूर्त्तिप्रकरणे प्रतिमातालनिर्णयाधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥ ३० । पुनरपि करमानान्तरमाह—दीर्घ इति । पाणिदैर्घ्ये सूर्याङ्गुलः द्वादशाङ्गुलः, विस्तारे पञ्चमात्रकः पञ्चाङ्गुलः । व्यासे विस्तारे जिनाङ्गुला चतुर्विंशत्यङ्गुला । ३१-३२ । ऊरुप्रमाणमाह—मूल इति । ऊरुमूलमेकादशाङ्गुलं स्यादित्यर्थः । जङ्घा प्रान्ते युगाङ्गुला चतुरङ्गुला । पादश्चतुर्दशाङ्गुलः, तदूर्द्धे युगाङ्गुलः, कक्षश्च युगाङ्गुलः । तदूर्द्धं तु अष्टमात्रकः स्कन्धः कर्त्तव्यः । ३४ । अत्र य इत्यध्याहार्यम् , नानाविधरूपभावम् ऊर्द्धाण्डजस्वेदजरायुजाढ्यं विश्वस्य रूपं यो जानाति स सुखहेतवेऽस्त्वित्यन्वयः । ऊर्द्धं उपरिस्था उद्भिद् इत्यर्थः, ते च अण्डानि च तेभ्यो जायन्ते इत्यूर्द्धाण्डजाः ; 'द्वन्द्वात् पूर्वं परं वा यत् श्रूयते तल्लभते प्रत्येकमभिसम्बन्धमिति न्यायाद् उद्भिजा अण्डजाश्चेत्यर्थः ।
तृतीयोऽध्यायः ❦॥❧ [ अथ देवतापदस्थानम् ] त्रिःसप्तांशे कृते माने ब्रह्मांशे सूत्रमध्यमे । कृत्वा षडंशकं तच्च चामेध्वंशं (वामे द्वयं शं ?) व्यपोह्य च ॥१॥ तन्मानमग्रतो नीत्वा प्रागुद्गग्रात् (प्रागुद्ग्गत ?) सूत्रकम् । तद् ब्रह्मसूत्रमित्युक्तं तत् सूत्रं शिवमद्ध्यगम् ॥२॥ १-२। इदानीं देवतापदस्थानं वक्तुं लिङ्गस्थानोपयोगि ब्रह्मसूत्रमाह—त्रिःसप्तांश इति द्वाभ्याम् । सूत्रमध्यमे वास्तुमध्यभागे ब्रह्मांशे तदंशमाश्रित्येत्यर्थः, माने द्वारमाने त्रिःसप्तांशे कृते एकविंशत्या भागैर्विभक्ते भागफलं यन्मानं भवतीत्यर्थः, तत् षडंशकं कृत्वा वामे वामतो द्व्यंशं व्यपोह्य परित्यज्य, अग्रतो दक्षिणत इत्यर्थः तत् तादृशं मानं द्व्यंशमिति यावत्ः, नीत्वा अपनीय प्रागुद्ग्गतसूत्रकं पूर्वदिग्गतसूत्रम् उत्तरदिग्गतसूत्रं वा यद् वर्त्तते तद् ब्रह्मसूत्रमित्यर्थः । तथा च मयमते— त्रिःसप्तांशे कृते द्वारे ब्राह्मेऽंशे मध्यमे भवेत् । कृत्वा षडंशकं तच्च वामे द्व्यंशं व्यपोह्य च ॥ तदंशमग्रं नीत्वा तु प्रागुद्ग्गतसूत्रकम् । तद् ब्रह्मसूत्रमित्युक्तं तत् सूत्रं शिवमद्ध्यमम् ॥ (अ० ३३, ३८-४० श्लो०) इति । मत्स्यपुराणे तु—द्वारमानमेकविंशत्या विभज्य विभक्तानामेकविंशतिभागानामर्द्धं पुनस्त्रिधा विभजेत्; ततस्तस्य भागत्रयस्य वामदक्षिणयोर्भागद्वयं विहाय मध्यभागे ब्रह्मस्थानं कल्पये- दित्युक्तम् । तथा च— द्वारं विभज्य पूर्वन्तु एकविंशतिभागिकम् । ततो मध्यगतं ज्ञात्वा ब्रह्मसूत्रं प्रकल्पयेत् ॥ तस्यार्द्धन्तु त्रिधा कृत्वा भागञ्चोत्तरतस्त्यजेत् । एवं दक्षिणतस्त्यक्त्वा ब्रह्मस्थानं प्रकल्पयेत् ॥ ( अ० २६३, ५-६ श्लो० ) इति। ततश्च मयमतीयपाठदर्शनाद् यदस्माभि'र्वामे द्व्यंशम्' इति पाठः शुद्धत्वेन कल्पितस्तन्मता- न्तरमिति कृत्वेति ज्ञातव्यम् । 'वामे चांशम्' इति पाठस्त्वक्षरसंवादाभावात् स्वसमानतन्त्रान्तरा- सम्मतेश्च न गृहीतः । अन्यच्च—मत्स्यपुराणे ब्रह्मसूत्रस्य हेयांशयोश्च यन्मानमुक्तम् अत्र च तेषां तद्द्विगुणं मानमुक्तमिति दृश्यते । तच्च 'वामे द्व्यंशम्' इति पाठ एवोपपन्नं भवति, न तु
तृतीयोऽध्यायः ५३ मध्ये यद् ब्रह्मणः सूत्रं तस्य वामे शिवस्य च । तन्मध्ये वैष्णवं सूत्रं तत्सूत्रे(लं ?) सार्वदैवतम् ॥३॥ मध्ये वि(वै ?)पुरुषे रुद्र आदौ ब्रह्माऽन्तगो हरिः । क्रमेण सौख्यदा एत्र विपरीता भयावहाः ॥४॥ रुद्रः हरिरुद्धः............................. । तत्तुल्या च उमा देवी सुखदा सर्वकामदा ॥५॥ भाग एकोनपञ्चाशद् गर्भाद्धं मितितो भजेत् । गर्भाशो ब्रह्मसंस्थान(नं ?) दैवं भागाष्टकं ततः ॥६॥ 'वामे चांशम्' इति पाठे । तथा हि—मत्स्यपुराणोक्तक्रमेण एकविंशतिधा विभक्तस्य द्वारस्यार्द्धे त्रिधा कृते सार्द्धत्रयो भागा भवन्ति, एवं प्रकृतग्रन्थोक्तक्रमेण—एकविंशतिधाऽशितस्य द्वारस्य समग्रस्य षड्भिर्विभागेऽपि त एवांशा भवन्ति । ततश्चार्द्धात् सार्द्धत्रिभागं त्यजतः समग्रात् ससांश- त्यागो गणितागमानुगत्या नार्थान्तरकोटिमारोहतीति, मूले द्वंशत्यागो मात्स्ये चैकांशत्यागो वस्तुगत्या एक एवेति न काचिद् विप्रतिपत्तिः । एवं ब्रह्मस्थानेऽपि द्वैगुण्यादि ज्ञेयम् । तत् सूत्रमिति । तद् ब्रह्मसूत्रम् , शिवमध्यगम्—शिवो मध्यगो यस्य तादृशम्, तन्मध्ये लिङ्गं स्थापयेदित्यर्थः, वक्ष्यति च स्वयमेव 'ब्रह्मांशे लिङ्गमैश्वरम्' (५४ पृ० ८ श्लो०) इति । ३। मध्य इति । मध्ये यद् ब्रह्मणः सूत्रं पूर्वमुक्तम् , तस्य वामे वामभागे व्यपोहितद्व्यंशे इत्यर्थः, शिवस्य सूत्रं भवेत् , तन्मध्ये दक्षिणे इत्यर्थः, वैष्णवं सूत्रं भवेत् , तत् सूत्रञ्च सार्वदैवतं सर्वदेवतास्थानम् । वक्ष्यति च—'दैवांशे ब्रह्मविष्णुवंशाः सर्वे देवाश्च' (७ श्लो०) इति । ४। मध्य इति । त्रैपुरुषे ब्रह्मविष्णुरुद्राणामाश्रयभूते सूत्रे, यद्वा त्रिषु पुरुषेषु मध्ये, रुद्र- स्तत्सूत्रस्य मध्ये भवेत् , आदौ ब्रह्मा भवेत् , हरिश्चान्तगो भवेत् । क्रमेणेति । एवंक्रमेण वर्त्तमाना एते सौख्यदा भवन्ति, विपरीताश्च भयमावहन्तीत्यर्थः । तथा च समराङ्गणसूत्रधारे— स्थापयेत् ( पुरुषत्रया ? ) शि ( वा ? वं ) मध्ये निवेशयेत् । ब्रह्माणं दक्षिणेनास्य वामतः पुरुषोत्तमम् ॥ अन्यथा स्थापनादेषां प्रत्यवायो महान् भवेत् । ( अ० ७०, १४१-१४२ श्लो० ) इति । अस्फुटार्थाऽपीयमर्द्धत्रयी प्रकृतोपयोगिनीत्यत्र नास्ति नः स्तोकोऽपि संशयः । ५। रुद्र इत्यादि । खण्डितत्वाद् दुर्ज्ञेयोऽस्यार्थः । ६-८। गर्भमानेन देवानां स्थानमाह—भाग इति । अत्र च भागा इत्युचितोऽपि पाठो
भागेषु न कदाचन । ( अ० ६०, १-२ श्लो० )Wait, in line 21:( अ० ६०, १-२ श्लो० )or(अ० ६०, १-२ श्लो० )? There is a space: ( अ० ६०, १-२ श्लो० )`.
इत्यविशेषेण ब्रह्मभागे प्रतिमास्थापनं देवादिभागानाञ्च तत्कर्मणि निन्दनीयत्वमुक्तम् । अत्र च
देवादिषु कस्य कियन्तो भागा इति न विशिष्योक्तम् । यदि च 'सप्तधे'त्यस्य वीप्सार्थत्वमङ्गीकृत्य
एकोनपञ्चाशादित्यर्थलाभाय 'सप्तसप्तधे'ति व्याक्रियेत, तदा प्रकृतग्रन्थानुगृहीता विभागरीति-
स्तत्राप्यादरणीया स्यादिति विभावनीयम् । इति देवतापदस्थानव्याख्या ।
९ । देवानां दृष्टिस्थानं वक्तुं द्वारविभागमाह—द्वारादय इति । अत्राऽऽदिपदग्राह्यं किमिति
`जानाति तत्रभवान् सूत्रभृन्मण्डन एव । चतुःषष्टिविभागेषु मध्ये विषमेषु भागेषु दृशो दृष्टयः शु
तृतीयोऽध्यायः ५५ त्रयोविंशतिपर्यन्तमेकादि विषमांशके। स्थाप्या उ(न्यु ?)दुम्बरादूर्ध्वं शिवलिङ्गानि धीमता ॥१०॥ पञ्चविंशे मुखं लिङ्गं द्वेऽ(द्व्य ?)धिके जलशायिनः। धनदस्य द्वयाधिक्ये मातृणां तद्वयाधिके ॥११॥ वृ(य ?)क्षाणां दृक् त्रयस्त्रिंशे पञ्चत्रिंशे वराहदृक्। सप्तत्रिंश उमेशस्य बौद्धस्य तद्वयाधिके ॥१२॥ एकाधिकचत्वारिंशे तु स(ा ?)वित्र्या ब्रह्मणो दृशः। दुर्वाससो द्वयाधिक्ये नारदागस्त्ययोरपि ॥१३॥ पञ्चवेदपदांशे तु लक्ष्मीनारायणस्य च। द्वयाधिक्ये विधेर्धातुः सरस्वत्या द्वयाधिके ॥१४॥ सारदांशे गणेशस्य द्व्यधिकेऽब्जासनस्य च। हरसिद्धिस्त्रिपञ्चांशे कर्तव्या सर्वकामदः (दा ?) ॥१५॥ ऊर्द्ध्व
५६ देवतामूर्त्तिप्रकरणम् चण्ड्या एकोनषष्ट्यंशे भैरवी तद्व्यधिके । वेतालस्य विषष्ट्यंशे पदं शून्यं तदूर्द्ध(दूर्ध्वं ?)तः ॥ १७ ॥ लिङ्गाग्रे नैव कर्त्तव्या ह्यर्चारूपेण देवताः । प्रभानष्टा नभोगा य(श्र?) यथा तारा दिवाकरे ॥ १८ ॥ शिवस्याग्रे शिवं कुर्याद् ब्रह्माणं ब्रह्मणोऽग्रतः । विष्णौ विष्णुः(ष्णुं ?) जिने जैनं सूर्ये सूर्यमनुक्रमात् ॥ १६॥ मातरश्चण्डिकाग्रे स्युर्यक्षाः क्षेत्रादिभैरवः । स्वे स्वे स्थाने सुराः स्थाप्या ये यस्यापि हितावहाः ॥ २० ॥ ब्रह्मविष्णोरेकनाभिर्जि(जि?)ने दोषो न विद्यते । शिवाग्रे चान्यदेवस्य दृष्टिवेधे महद् भयम् ॥ २१ ॥ ब्रह्मा विष्णुः शशी सूर्य इन्द्रः स्कन्दो हुताशनः । दिक्पाला लोकपालाश्च ग्रहा मातृगण(णा?)स्तथा ॥२२॥ १७। भैरवीति भैरवस्य दृष्टिः । पदमिति । तदूर्द्धतः त्रिषष्ट्यंशान् परतः शून्यं पदं दृष्टि- स्थानं भवति, विषमद्वारांशस्य त्रिषष्ट्यंश एव निःशेषितत्वात् । १८। लिङ्गाग्र इति । लिङ्गाग्रे शिवलिङ्गाग्रे अर्चारूपेण प्रतिमारूपेण देवता न स्थाप्याः । एतच्च, 'शिवस्याग्रे शिवं कुर्यात्' इति वक्ष्यमाणविधेरपवादकम्, लिङ्गाग्रे शिवप्रतिमामपि न कुर्यादित्यर्थः । एवञ्च शिवस्याग्रे शिवं कुर्यादित्यस्यायमर्थः—शिवस्य लिङ्गस्याग्रे शिवं शिव- लिङ्गम्, शिवस्य प्रतिमाया अग्रे च शिवप्रतिमां कुर्यादिति । प्रभानष्टेति । लिङ्गाग्रे अर्चारूपेण देवताः कृताश्चेत् प्रभानष्टा नष्टप्रभा भवन्ति । अत्र दृष्टान्त- माह—नभोग इति । यथा दिवाकरे उदिते नभोगा नभःस्थास्तारा नष्टप्रभा भवन्ति तद्वदित्यर्थः । २०-२१। पूर्वं 'ब्रह्माणं ब्रह्मणोऽग्रतः' इति 'विष्णौ विष्णुं जिने जैनम्' इत्युक्तम्, इदानीं तदपवादमाह—ये यस्यापीति ब्रह्मविष्णोरिति च । यस्य देवस्य ये हितावहा हितकारका भवन्ति तेऽपि तदग्रतः स्थाप्या इत्यर्थः । ब्रह्मेत्यादि । एकनाभिः सनाभिः सपिण्डस्तुल्यो वा, तादृशे जिने सम्मुखवर्तिनीत्यर्थः, दोषो न विद्यते, ब्रह्मणो विष्णोश्चाग्रे स्थापितो जिनो दोषाय न भवतीत्यर्थः । एवञ्च जिनस्या- प्यग्रे ब्रह्मणि विष्णौ वा स्थापिते दोषो न भवतीति लभ्यते न्यायसाम्यात् ।
तृतीयोऽध्यायः ५७ एते शिवाश्रये स्थाप्या दृष्टिवेधविवर्जिताः । दृष्टियाताहितं यच्च पुराघं न प्ररोहति ॥२३॥ [ देवतास्थापने दिङ्निर्णयः ] पूर्वापरास्यं देवानां मुखं नो दक्षिणोत्तरम् । ब्रह्मा विष्णुः शिवार्केन्द्रा गुहः पूर्वपराङ्मुखः ॥२४॥ नगराभिमुखाः श्रेष्ठा मध्ये बाह्ये च देवताः । शिवब्रह्मजिना विष्णुः सर्वाशाभिमुखाः शुभाः ॥२५॥ गणेशो भैरवश्चण्डी नकुलीशो ग्रहास्तथा । भूताद्या धनदाश्चैव दक्षिणास्याः शुभाः स्मृताः ॥२६॥ मातृणां सदनं कार्यं दक्षिणोत्तरदिङ्मुखम् । हनुमान् वानरश्रेष्ठो नैर्ऋतास्यो विदिङ्मुखः ॥२७॥ २३ । एत इति । दृष्टिवेधविवर्जिता इति ब्रह्मविष्ण्वादीनां परस्परदृष्टिवेधेन हीनाः, शिव- दृष्टिवेधेन वा । 'दृष्टियाताहितं यच्च' इत्यत्र 'दृष्टिपातहिता यन्न' इति स्यात् । तथा सति यन्न देवा दृष्टिपातवशाद् हितास्तत्र स्थाने पुराघं नगरस्य पापम् अमङ्गलमित्यर्थः, न प्ररोहति न प्रोद्भवतीत्यर्थः । २४ । देवानां मुखं पूर्वापरास्यं पूर्वदिक्स्थं पश्चिमदिक्स्थं वा कुर्यादिति शेषः । दक्षिणो- त्तरं दक्षिणोत्तरदिक्स्थं न कुर्यात् । अत्र पूर्वादिशब्दो दिग्द्वये लाक्षणिकः । ब्रह्मेति । एतच्च विशेषाभिधानं मतान्तर इति ज्ञेयम् । मत्स्यपुराणे पूर्वोत्तरमुखत्वस्योक्तत्वात् । तथा च— वास्तुदेवादिप्रतिमालक्षणं प्रवदामि ते । प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम् ॥ इति ( अ० ५४, १ श्लो० ) यथा तथा वा भवतु सर्वथा विसंष्ठुलोऽयं श्लोकः । अस्य प्रकृतपाठोऽनुसन्धेयः । २५ । नगरेति । मध्ये वास्तुमध्ये, बाह्ये वास्तुबहिर्भागे च प्रतिष्ठाप्या देवता नगराभि- मुखाः प्रशस्यन्ते । पूर्वापरास्यमिति यदुक्तं तत्र मतान्तरं दर्शयति—शिवेत्यादि । सर्वाशाभि- मुखाः सर्वदिङ्मुखाः । अत्र पूर्वं पूर्वपराङ्मुखत्वकथनाद् ब्रह्मविष्णुशिवग्रहणं मतान्तरद्योत- नार्थम्, जिनग्रहणन्तु न तथा, पूर्वमनुल्लेखेन कस्मिन्नपि मते तस्य सर्वाशाभिमुखत्वस्याप्राप्ते- र्विधित्वाव्याघातात् । २७ । मातृणामिति । एतेन मातरो दक्षिणदिङ्मुखा उत्तरदिङ्मुखा वा कार्या इति [
५८ देवतामूर्तिप्रकरणम् ज्ञात्वा सर्वं स्थापि(ता?)येन रीत्या देवा दैत्या मानुषाद्याश्च सर्वे । दृष्ट्वात्मानं व्यापकं सृष्टिकारं स्थायी दृष्ट्वा विश्वकर्मांश(र्मा स?)वन्द्याः(वन्द्यः?) ॥२८॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्तिप्रकरणे प्रतिमापदस्थानदृष्टिस्थानाधिकारो नाम तृतीयोऽध्यायः ॥ ३ ॥ फलितम् । हनुमान् इति । नैर्ऋतास्य इति मतान्तरेणोक्तम् । स्वमतमाह—विदिक्मुख इति । न केवलं नैर्ऋतास्यः सर्वान्तरालदिगास्योऽपीत्यर्थः । २८ । दुष्करोऽस्य पाठोद्धारोऽर्थग्रहश्च ।
चतुर्थोऽध्यायः —:०:— अक्षसूत्रं पुस्तकञ्च कमण्डलुवरान्वितः । विश्वकर्मा चतुर्हस्तस्त्रिनेत्रश्चन्द्रशेखरः ॥ १ ॥ इति विश्वकर्मा । ऋग्वेदादिप्रभेदोक्ता( देन ? ) कृतादियुगभेदतः । विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ २ ॥ अक्षसूत्रं करे दत्ते शुचिस्तस्या ( स्यो ? )र्द्धतः स्थिता । स्याद् वामे पुस्तकं हस्ते तस्या(स्यो ?)र्द्धे च कमण्डलुः ॥३ कमलासननामानं (माद्यं ? ) सर्ववर्णे हितप्रदः । कर्तृकारापकैः(?) सार्द्धं लोहितः कमलासनः ॥ ४ ॥ इति कमलासनः । १ । अयमध्यायो ब्रह्मादीनां देवानामायुधवर्णवाहनादिनिर्णयार्थं प्रवृत्त इति ज्ञायते एतद्ग्रन्थकृत्कृत्यन्तराद्रूपमण्डनात् । तथा च— ब्रह्मादीनाञ्च देवानां देवीनाञ्च यथाक्रमम् । आयुधानि तथा वर्णं वाहनं कथयाम्यथ ॥ ( इति अ० २,९ श्लो०) अस्य ग्रन्थस्य शिल्पशास्त्रत्वात् तत्कर्त्तृत्वेनाभ्यर्हितस्याऽऽदौ विश्वकर्मणो रूपं निर्दिशति—अक्ष- सूत्रमिति । अस्मदुपलब्धेषु शिल्पशास्त्रेषु ऋते रूपमण्डनमृते च प्रकृतग्रन्थं न विश्वकर्मणो रूपमुपनिबद्धमुपलब्धम् । रूपमण्डने पुनः किञ्चिदु विलक्षणमेव लक्षणमस्माद् ग्रन्थात् । तथा च— विश्वकर्मा चतुर्बाहुरक्षमालाञ्च पुस्तकम् । कम्बां (कम्बुं ? ) कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥ इति । ( अ० २, १० श्लो० ) २-४ । एकस्यैव ब्रह्मणो नामभेदेन चत्वारि रूपाणि निरूपयिष्यन्नादौ कमलासनं वक्तुं
६० देवतामूर्त्तिप्रकरणम् तस्य चतुर्बाहुत्वे चतुर्मुखत्वे च हेतुप्रदर्शनपूर्वकं स्वरूपमाह—ऋग्वेदादीति। ऋगादयश्चत्वारो वेदाः कृतादयश्चत्वारि युगानि; ब्राह्मणादयश्चत्वारो वर्णाश्चेति यथासम्भवं तत्समष्टृत्वतत्- कत्र्त्तृत्वादिरूपेण ब्रह्मणोऽपि चत्वारि मुखानि चत्वारो बाहवश्चेत्यर्थः। तत्र कृतं सत्ययुगम्; करे दक्षे इति दक्षाधःकरे, ऊर्द्ध्वत इति दक्षोर्द्ध्वतः, एवं वामेऽपि। द्वितीयकमलासनपदं विशेषणपरम्। मत्स्यपुराणे— ब्रह्मा कमण्डलुधरः कर्त्तव्यः स चतुर्मुखः। हंसारूढः क्वचित् कार्यः क्वचिच्च कमलासनः॥ वर्णतः पद्मगर्भाभश्चतुर्बाहुः शुभेक्षणः। कमण्डलुं वामकरे स्रुवं हस्ते तु दक्षिणे॥ वामे दण्डधरं तद्वत् स्रुवञ्चापि प्रदर्शयेत्। मुनिभिर्देवगन्धर्वैः स्तूयमानं समन्ततः॥ कुर्वाणमिव लोकांस्त्रीन् शुक्लाम्बरधरं विभुम्। मृगचर्मधराञ्चापि दिव्ययज्ञोपवीतिनम्॥ आज्यस्थालीं न्यसेत् पार्श्वे वेदांश्च चतुरः पुनः। वामपार्श्वेऽस्य सावित्रीं दक्षिणे च सरस्वतीम्॥ अग्रे च ऋषयस्तद्वत् कार्याः पैतामहे पदे। इति। (अ० २६०, ४०-४५ श्लो०) समराङ्गणसूत्रधारे च— ब्रह्मानलार्चिप्रतिमः कर्त्तव्यः सुमहाद्युतिः॥ स्थूलाङ्गः श्वेतपुष्पश्च श्वेतवेष्टनवेष्टितः। कृष्णाजिनोत्तरीयश्च श्वेतवासाश्चतुर्मुखः॥ दण्डः कमण्डलुश्चास्य कर्त्तव्यो वामहस्तयोः। अक्षसूत्रधरस्त(द्वा ? द्वद्व) मौञ्ज्या मेखलया वृतः॥ इति। (अ० ७७, २-४ श्लो०) शिल्परत्नोत्तरभागेऽपि (अ० २९, १२३-१२७ श्लो०) प्रायेणैवमेव ब्रह्मणो लक्षण- मुल्लिखितम्। परं प्रकृतग्रन्थ इव कुत्रापि ब्रह्मणश्चतुर्भेदभिन्नत्वं न दृश्यते। कमलासनः कस्मिन् युगे सुखदायक इति नोपलभ्यते। विरिञ्चिब्रह्मणौ कृते सुखदायको, पितामहस्त्रेतायाम्। तत्र पारिशेष्याद् भवतु कमलासनः कलौ वा द्वापरे वा, न तेनैकेन युगद्वयवर्तिनां जनानां सुखं शक्यसम्पादनमिति सुधीभिश्चिन्तनीयम्।
चतुर्थोऽध्यायः ६१ अक्षसूत्रं पुस्तकञ्च श्रुतिश्चैव कमण्डलुः । विरिञ्चि(ञ्चे ?)श्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥५॥ इति विरिञ्चिः । कमण्डलुश्चाक्षसूत्रं शुचिर्वै पुस्तकं तथा । पितामहस्य स्यान्मूर्त्तिस्त्रेतायां सुखदायिनी ॥ ६ ॥ इति पितामहः । पुस्तकं चाक्षसूत्रञ्च शुचिश्चैव कमण्डलुः । ब्रह्मणश्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥ ७ ॥ इति ब्रह्मा । अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ ८ ॥ इति सावित्री । ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः । अक्षमालाम्बुपात्रे च पि ( श्रि ?) तश्चाध्ययने रतः ॥ ६ ॥ इति ऋग्वेदः । अजास्य(ः ?) पीतवर्णः स्याद् यजुर्वेदोऽक्षसूत्रधृक् । वामे चाङ्कुशपाणिस्तु भूतिदो मङ्गलप्रदः ॥ १० ॥ इति यजुर्वेदः । ५। विरिञ्चिमाह—अक्षसूत्रमिति। श्रुतिर्वेदः, इतरत्र लक्षणत्रये 'शुचि'रिति पाठो दृश्यते तत्रापि 'श्रुति'रिति भवेन्न वेति विचारणीयम् । शुचिरग्निः। कृते सत्ययुगे । इहान्यत्र च ब्रह्मणो लक्षणद्वये अक्षसूत्रादिप्रथमान्तपदानामान्वयो दुरुपपाद एव । दूषणञ्च—अक्षसूत्रादीना- मुद्देशपरतामात्रस्वीकारेण तत्तद्विशिष्टा मूर्त्तिरित्यध्याहारजन्यम् । ८। श्रोत्रियाणामिति— 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥' इत्युक्तलक्षणानां वेदविदाम् । ९। अक्षमालेत्यादि। अक्षमालाम् अम्बुपात्रञ्च श्रित इत्यर्थः ।
६२ देवतामूर्त्तिप्रकरणम् नीलोत्पलदलाभासः सामवेदो हयाननः । अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥ ११ ॥ इति सामवेदः । अथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्षसूत्रञ्च खट्वाङ्गं बिभ्राणो विजयश्रिये ॥ १२ ॥ इत्यथर्वणः । नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम् । अक्षसूत्रं त्रिशूलञ्च बिभ्राणं तं (तत् ?) त्रिलोचनम् ॥१३॥ इति नृत्यशास्त्रम् । [ अथ ब्रह्मायतनेऽन्यदेवतापदम् ] आग्नेय्यां तु गणं प्रोक्तं मातृस्थानञ्च दक्षिणे । नैर्ऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ १४ ॥ वायव्ये पार्वतीरुद्रौ गृहा ( ग्रहा ? ) श्चैवोत्तरे स्मृताः । ईशाने च श्रिया देवी प्राच्यान्तु धरणीधरः ॥ १५ ॥ [ अथ ब्रह्मणोऽष्टौ प्रतीहाराः ] ब्रह्मणो ( णोऽ ?) ष्टौ प्रतीहाराः कथयिष्याम्यनुक्रमात् । पुरुषाकारगम्भीराः सकूर्ची ( र्चा ?) मुकुटोज्ज्वलाः ॥ १६ ॥ १४-१५ । अत्र द्वितीयान्तानां पदानां कल्पयेदित्यध्याहृतक्रिययाऽन्वयः, गणं प्रोक्तमिति शास्त्रान्तरे कथितं गणदेवमित्यर्थः । श्रिया देवीत्यभेदे तृतीया श्रीदेवीत्यर्थः । १६ । पूर्वं ब्रह्मणश्चतुरो भेदान् दर्शयन्नपि साम्प्रतं ब्रह्मत्वेनैक्यं परिकल्पयन् अष्टौ प्रतीहारा- नाह—ब्रह्मण इति । तत्राऽऽदौ सर्वसाधारणं विशेषणत्रयमाह—पुरुषेत्यादि । सकूर्चा इति । कूर्च- शब्दो नानार्थः । तत्र श्मश्रु इत्येकोऽर्थः, नासङ्गतानि हि प्रवयसः पितामहस्य प्रतीहाराणाम् अतिलम्बीनि श्मश्रूणि । कुशमुष्टिरिति द्वितीयः, तत्स्वरूपञ्च— छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः । ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्चमिहोच्यते ॥
चतुर्थोऽध्यायः ६३ पद्मं सृ (स्रु ?) चाऽक्षरं दंश (दंशं ?) सप्तनामा तु वामतः । सव्यापसव्ययोगेन कमण्डलुश्च ( अ ? ) धर्मकः ॥ १७ ॥ अक्षपद्मवामदण्डकमलश्च ( अ ? ) महतोद्भवः (मतोद्भवः ?) । दण्डागमस्रवाक्कालं (स्रुचा कालं ?) जयश्च सर्वकामदः ॥१८॥ इत्युक्तलक्षणम् । नायुक्तञ्च वेदमूर्तेर्वैदिकधुरीणस्य द्रुहिणस्य प्रतीहाराणामपि वेदोक्तकर्म- निर्वाहसाहायकार्थं कुशमुष्टिधारणम् । तूलिकेति तृतीयोऽर्थः । सा च वृषश्रवणरोमभिर्वा खरकेशैर्वा तन्तुभिर्वा घटिता उडुम्बराङ्कुराकारा वटाङ्कुराकारा प्लक्षसूचीनिभा वेति शिल्प- शास्त्रादवगम्यते । तथा च समराङ्गणसूत्रधारे—अ० ७३ । १५-१६, १८-१९ श्लो० । ‘कूर्चकं धारयेद्धीमान् वृषश्रवणरोमभिः ॥’ ‘वल्कलैर्वा विधातव्यः खरकेशैस्तथापि वा ॥’ ‘तन्तुतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः ।’ ‘आद्यो वटाङ्कुराकारस्ततोऽश्वत्थाङ्कुराकृतिः ॥’ ( संशोधितः पाठः ) ‘प्लक्षसूचीनिभश्चान्यः * * * * * ।’ उडुम्बराङ्कुराकारः * * * * * ॥’ इति कूर्चविषयं वर्णनमुपलभ्यते । नानुचितञ्च विश्वसृजः प्रतीहाराणाम् अङ्कनोपयोगिन्या- स्तूलिकाया ग्रहणम्, प्रभोः प्रतीहाराद्यनुजीविनामपि प्रभुसम्मतवेषभूषादीनां लोकतः शास्त्रतश्चानु- शीलयितव्यत्वात् । एतेऽर्था दिग्दर्शनार्थमस्माभिरुपक्षिप्ताः, अन्यतरार्थग्रहणपरिहारयोस्तु सुधियः प्रमाणम् । इदमत्रावधेयम्—यदि नाम कूर्चं धार्यवस्तुविशेषः स्यात्तदा परतः प्रोक्तैः प्रहरणादिभि- र्व्यावृतबाहुभिरेतैः क्व नाम तद् धार्यमिति श्मश्र्वर्थक एव कूर्चशब्दोऽत्र श्लिष्टः स्यात् । १७। एवं तेषां साधारणीमाकृतिमभिधाय इदानीं तेषां प्रातिस्विकं लक्षणमाह— पद्ममित्यादि । त एते सर्व एव चतुर्हस्ता सव्यापसव्ययोरूर्ध्वाधःक्रमेण यथोक्तप्रहरणादिधारिणो ब्रह्मणः सव्येऽपसव्ये च चतुश्चतुःक्रमेणावस्थिताः । तत्र वामे प्रथमतः सप्तनामा वामदक्षिणयो- र्हस्तयोः पद्मम्, स्रुचाम्, अक्षरम्, वेदम्, दंशम् द
६४ देवतामूर्त्तिप्रकरणम् अक्षसूत्रं गदाखेटं दण्डञ्च विजयो भवेत् ( दधत् ? ) । अधोहस्तापसव्येन खड्गयुग् यज्ञभद्रकः ॥ १९ ॥ अक्षपाशाङ्कुशा(शान् ?)दण्डभयश्च (दण्डं भवश्च ?) सर्वकामदः । दण्डाङ्कुशपाशोत्पलनिभवः (पलं विभवः ?) सर्वशान्तिदः ॥२०॥ [ अथ द्वादश सूर्यमूर्त्तयः ] शृणु वत्स प्रवक्ष्यामि सूर्यभेदांश्च ते जय । यावत्प्रकाशकः सूर्यो यावन्मूर्त्तिभिरीरितः ॥ २१ ॥ वस्तुतो द्विरुल्लेखः समुपलभ्यते । 'वास' इति पदमप्यनन्वयि । अत्र 'प्रियोद्भव' इति पाठो रूपमण्डने ( रूप-अ० २,१९ श्लो० ) । २०। तदेवं वामतश्चत्वारः सप्त-धर्मक-मतोद्भव-जयनामानो ब्रह्मणः प्रतीहाराः, दक्षिणत- श्चत्वारो विजय-यज्ञभद्रक-भव-विभवनामानश्च निर्दिष्टाः । २१। इदानीं द्वादश सूर्यमूर्तीराह—शृण्विति । जय इति वत्सेत्यनेनोद्दिष्टस्य सम्बोध्यस्य नाम । यद्वा जय सर्वोत्कर्षेण वर्त्तस्वेत्यर्थः । ते प्रवक्ष्यामीत्यन्वयः । यावदिति समस्तवस्तुप्रकाशक इत्यर्थः । यावन्मूर्त्तिभिरीरितः कथितस्तावतीर्मूर्त्तीश्च प्रवक्ष्यामीत्यर्थः । सर्वा एवैता मूर्त्तयश्चतुर्बाहव इति ज्ञायते धार्यद्रव्याणामाधिक्यदर्शनात् ; तथा— 'पद्मद्वयाभयवरान् दधतं कराब्जैः' इत्यन्यत्र 'कराब्जैरि'त्यनेन दोष्णां द्व्यधिकत्वलाभाच्च । अत्र पूष्णो मूर्त्तिद्विभुजा केवलपद्मद्वयलाञ्छिता च, वैष्णवी मूर्त्तिरपि द्विकरा, परं तस्या दक्षिणकरे चक्रमितरत्र पद्ममिति विशेषः । तदितरत्र सर्वांसामेव मूर्तीनां करद्वये नीरजद्वयमन्ययोश्च यथोक्तद्रव्याणीति । अग्निपुराणेऽपि— 'वरदा द्वाब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ।' ( अ० ५१,३ श्लो० ) इति । ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् । मसीभाजनलेखन्यौ बिभ्रत् * * * ॥ ( अ० ५१,१ श्लो० ) । इत्यनेन च तन्मूर्तीनां चतुर्बाहुत्वस्य सूचितत्वात् । एतेन काश्यपशिल्पे— द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः । रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः ॥ ( अ० ४८,७९-८० श्लो० ) इति यद् द्विकरत्वं भास्करमूर्तीनामुक्तं तन्मतान्तरप्रदर्शनमिति कृत्वा सोढव्यम् ।
चतुर्थोऽध्यायः ६५ दक्षिणे पौष्करा(री ?) माला करे वामे कमण्डलुः । पद्माभ्यां शोभितकरौ(रा ?) सुधामा(ता ?) प्रथमा स्मृता ॥२२ शूली(लं ?) वामकरे यस्य(स्या ?) दक्षिणे सोम एव च । मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥ २३ ॥ प्रथमे तु करे चक्रं तथा वामे च कौमुदी । मूर्त्तिरार्यमणी ज्ञेया सपद्मौ पाणिवल्लभौ (पल्लवौ ?) ॥२४॥ अक्षमाला करे चास्य ( यस्या ? ) वज्रं वामे प्रतिष्ठितम् । सा मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥ चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः । सा वारुणी भवेन्मूर्त्तिः पद्मव्यग्रकरद्वया ॥ २६ ॥ कमण्डलुं द(लुर्द ?)क्षिणतोऽक्षमाला चैव वामतः । सा भवेत् सस्मिता सूर्यमूर्त्तिः पद्मविभूषिता ॥ २७ ॥ यस्यास्तु दक्षिणे शूलं वामहस्ते सुदर्शनम् । भर्ग (ग ?) मूर्त्तिः समाख्याता पद्महस्ता शुभाय वै ॥ २८ ॥ २२ । उपरिष्टाच्चतुस्त्रिंशश्लोके समुद्दिष्टानां भास्करमूर्तीनामनुक्रमेण लक्षणानि वक्तुं प्रथमा- माह—दक्षिण इति । यस्या इत्यध्याहारः । यस्या दक्षिणे करे पौष्करी कमलग्रथिता माला, वामे करे कमण्डलुर्वर्त्तत इत्यर्थः । इमौ च करावूर्ध्वाविति ज्ञेयम्, ऊर्ध्वक्रमेणैव धारणीयद्रव्याणां कथनौचित्यात् । पद्माभ्यां शोभितकराविति वामदक्षिणयोरधःकरावित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । 'पद्माभ्यां शोभितकरे'त्युचितः पाठः । सुधातेति । अत्र 'सुधाते'ति वा 'सुधामे'ति वा पाठो भवतु, उभयथाऽपि दोषानुषङ्गो दुष्परिहर एव, उद्देशश्लोके 'धाते'ति पाठस्योपलब्धेः । अत्र ब्रूमः—'सुधाते'त्येव पाठो ज्यायान्, परिगणनश्लोकस्थितधातृशब्दसाम्यात् ; छन्दोभङ्गदोषोत्सारणाय चोपपदं प्रक्षिप्तमिति ; तदेतत् सुलभमेव प्राचीनग्रन्थकृतां कृतिष्विति । : २३ । दक्षिणे सोम इति, सोमः सोमरसोऽमृतं वा । देवता—६
६६ देवतामूर्त्तिप्रकरणम् अथ वामकरे माला त्रिशूलं दक्षिणे करे । सा विश्वमूर्त्तिः सुखदा पद्मलाञ्छनलक्षिता ॥ २६ ॥ पूषाख्यस्य रवेर्मूर्त्तिर्द्विभुजा पद्मलाञ्छना । सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥ ३० ॥ दक्षिणे तु गदा यस्या वामहस्ते सुदर्शनम् । पद्मव्यग्रा तु सावित्रीमूर्त्तिः सर्वार्थसाधिनी ॥ ३१ ॥ स्रुवश्च दक्षिणे हस्ते वामे होमज (लील कम् ? कज्जलम्) । मूर्त्तिस्त्वाष्ट्री भवेद् वत्स पद्मरुद्धकरद्वया ॥ ३२ ॥ सुदर्शना(न ?) करा सव्ये पद्महस्ता तु वामतः । एषा सा द्वादशी मूर्त्तिर्विष्णोरमिततेजसः ॥ ३३ ॥ धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता त्वष्टृविष्णुकौ ॥ ३४ ॥ इति द्वादश सूर्यमूर्त्तयः ।
२९ । सा
चतुर्थोऽध्यायः ६७ [ अथ सूर्यायतनम् ] सूर्यो विनायको विष्णुश्चण्डी शम्भुस्तथैव च । अनुक्रमेण पूज्यन्ते फलदाः स्युः सदाऽर्चने ॥ ३५ ॥ आग्नेय(ये ?) तु कुजः स्थाप्यो गुरुर्याम्ये प्रतिष्ठितः । नैर्ऋत्ये राहुसंस्थानं शुक्रस्थानञ्च पश्चिमे ॥ ३६ ॥ वायव्ये केतुसंस्थानं सौम्यायां बुध एव च । ईशाने च शनिः स्थाप्यः × ×श्च चन्द्रमाः ॥ ३७ ॥ इति सूर्यायतनम्। इति धातृ-सवितृ-त्वष्टृ-वरुण-सूर्य-मित्र-विष्णूनां सप्तानां साम्येन, भग-तपन-गभस्तिक-रवि- पर्जन्यानां पञ्चानाञ्च भिन्नतया नामान्युपलभ्यन्ते । ३५ । सूर्यस्यायतने वक्तव्ये प्रसङ्गात्तदर्चनायाः सर्वदेवार्चनमुखत्वं वक्तुं समभिव्याहृताना- मन्येषामपि तथात्वमाह—सूर्य इति । अनुक्रमेण पूज्यन्ते चेद् एते अर्चने सर्वदेवपूजाविधौ फलदाः स्युः, सर्वदेवपूजास्वेवाऽऽदावेते पूजनीया इत्यर्थः । तथा च स्मृतिः— गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् । पूजयेद्देवषट्कञ्च ततः पूजां समाचरेत् ॥ इति । अत्र च वह्निं निहुवानेन ग्रन्थकृता अपक्रमन् क्रमोऽपि नारक्षीति विभावनीयम् । यच्च तन्त्रान्तरे— आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् । नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥ इति प्रकृतश्लोकवदेव पञ्चदेवार्चनं विहितम्, तत्राप्यस्ति क्रमविपर्यय इति नवीनोऽयं पूजापर्यायः । ३६-३७ । आयतने ग्रहसंस्थानमाह—आग्नेय इति । कुज-गुरु-राहु-शुक्र-केतु-बुध-शनि- चन्द्राः क्रमेणाऽऽग्नेयत ऐन्द्रीं यावत् स्थाप्या इत्यर्थः । तथा च रूपमण्डने— सूर्यस्याऽऽयतने स्थाप्या वह्निकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो ज्ञः शनिः शशी ॥ (अ० २,२५ श्लो०) इति । तमो राहुः, ज्ञो बुधः । एवञ्च—‘ईशाने च शनिः स्थाप्यः’ इत्यनन्तरं स्खलनस्थाने— ‘प्राच्यां स्थाप्य’ इत्यक्षरचतुष्टयं त्रुटितं स्यादित्यनुमीयते ।
६८ देवतामूर्तिप्रकरणम् [ अथ सूर्यप्रतीहाराः ] सूर्येकदन्ताच्युतशक्तिरुद्रा विघ्नेशशक्तीश्वरविष्णुसूर्याः । श्रीनाथविघ्नेशभगाम्बिकेश(रः?) चण्डीशहेरम्बपतङ्गकृष्णा(ः?) ॥ ३८ श्रीकण्ठसूर्या रुद्रस्थाम्बिकाज(?) तद्दक्षिणमध्यादिदिक्षु पूज्याः । स्वस्थानगाः सर्वमनोरथांस्ते यान्ति विघ्नातिपरसंस्थाः(?) ॥ ३९ ॥ दण्डी च पिङ्गलश्चैव आनन्दश्चान्तकस्तथा । चित्रो विचित्रो ज्ञातव्यः किरणाक्षः सुलोचनः ॥ ४० ॥ सर्वे च पुरुषाकाराः कर्त्तव्याः शान्तिमिच्छता । चतुर्द्वारेषु च स्थाप्या दिशाञ्चैव प्रदक्षिणे ॥ ४१ ॥ सुज्ञानार्थमथः सूर्यायतनं चित्रारूढमुपस्थाप्यते—
| ऐशान्यां<br>शनैश्चरः | पू० चन्द्रः<br>दण्डी, पिङ्गलः | आग्नेय्यां<br>कुजः |
|---|---|---|
| उ० बुधः<br>किरणाक्षः,<br>सुलोचनः | सूर्यः | द० गुरुः<br>आनन्दः,<br>चण्डकः |
| वायव्यां<br>केतुः | प० शुक्रः<br>चित्रः,<br>विचित्रः | नैर्ऋत्यां<br>राहुः |
३८-३९ । पञ्चपादीयं पञ्चानां सूर्येकदन्ताच्युतशक्तिरुद्राणां क्रमादेकैकप्राथम्येन निर्देशमनु- भवितुं प्रवृत्ता क्रमोत्क्रमाभ्यां सर्वत्रैकमेवार्थं प्रतिपादयतीति दृश्यते । किमत्र तात्पर्यमिति प्रश्ने—य इमे देवमुख्यास्तेषामायतनेषु त एव विभक्तविभागेनावस्थिताः फलदायकाः स्युः, तत्रापि यस्यायतनं तस्य प्राङ्निर्देशार्थमयमुद्यम इत्येवास्माकं प्रतिवचनविभवः । श्रीकण्ठेत्यादिश्लोकस्य तु दुष्करः पाठोद्धारः । प्रथमे पादे एवं ह्यर्थः सुस्थितः स्यात्— 'श्रीकण्ठसूर्येषमुखाम्बिकाजाः' इति । चतुर्थपादन्तु दुरुहमेव । ४०-४१ । दण्ड्यादयोऽष्टौ द्वारदेवताः पूर्वादिद्वारक्रमेण द्विशः संस्थाप्याः । एवञ्च 'दिशाञ्चैव प्रदक्षिणे' इत्यत्र 'द्विशश्चैव प्रदक्षिणात्' इति पाठः सकल्पः । तथा चैते प्राग्दक्षिण्येन द्वौ द्वौ कृत्वा
चतुर्थोऽध्यायः ६६ प्रतर्जन्यूर्ध्वकिरणं ताम्रचूडं दण्डायुधम् । दण्डी वामविभागे तु पिङ्गलः स्यादतः शृणु ॥ ४२ ॥ (किरणस्थाने ? किरणे तु) यदा शक्तिः किरणं ताम्रचूडके । तर्जनीदण्डपूर्वश्च पिङ्गलः पूर्वदक्षिणे ॥ ४३ ॥ तर्जनी द्वौ वक्त्रानां (?) दण्डेनानन्दकः स्मृतः । तर्जनीदण्डापसव्यं सव्यवेदान्तकाशुभाः ॥ ४४ ॥ तर्जना द्वौपमनी दण्डं दण्डान्ते चित्रका भवेत् । तर्जनीदण्डापसव्यं स भवेतद्विचित्रकः ॥ ४५ ॥ तर्जनी द्वौ किरणं (?) दण्डान्तकिरणोद्भवे । तर्जनीदण्डापसव्ये कर्त्तव्यः स सुलोचनः ॥ ४६ ॥ [ चन्द्रः ] चन्द्रश्चित्रे विधातव्यः श्वेतः श्वेताम्बरावृतः । दशश्वेताश्वसंयुक्त आरूढः स्यन्दने शुभः ॥ ४७ ॥ द्विभुजो दक्षिणे पाणौ गदां बिभ्रद् यथादरम् । वामस्तु वरदो हस्त इति चन्द्रो निरूप्यते ॥ ४८ ॥ [ भौमः ] धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि । चतुर्भुजो मेषगमश्चाङ्गारसदृशद्युतिः ॥ ४६ ॥ चतुर्द्वा रेषु संस्थाप्या इत्यर्थः । 'चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम्' इति रूपमण्डने ( अ० २, श्लो० ३०) पाठः । ४२-४६ । पञ्चश्लोक्या तेषां दण्ड्यादीनामायुधानि पूर्वोद्दिष्टायाः प्रादक्षिण्येन स्थितेः प्रकारञ्चाऽऽह—प्रतर्जन्यूर्द्ध्वकिरणमिति । पाठवैकल्यादकल्पेनाप्यस्य यथायथमर्थाविष्कारे नेदं दुष्परिष्कार्यं यत् प्रतर्जन्यादीनि अवयवस्वरूपेण वा आयुधस्वरूपेण वा दण्ड्यादीन् प्रतीहारान् विशिषन्तीति । तत्र पूर्वद्वारे दण्डिनो दक्षिणे पिङ्गलकः, दक्षिणद्वारे आनन्दस्य दक्षिणे चण्डकः, पश्चिमद्वारे चित्रस्य दक्षिणे विचित्रः, उत्तरे किरणाक्षस्य दक्षिणे सुलोचन इति पूर्वोक्तप्रदक्षिण- पदार्थः । रूपमण्डनीयपाठस्त्वेतस्माद्विशिष्यते (रूप० २ अ० २६-३० श्लो० ) । ४९-५० । अङ्गारसदृशद्युतिरिति ज्वलदङ्गारगौरवपुरित्यर्थः, तन्त्रान्तरेऽस्य लोहितवर्णत्व-
७० देवतामूर्तिप्रकरणम् दक्षिणं बुभ्रगं हस्तं वरदं परिकल्पयेत् । ऊर्ध्वं शक्तिसमायुक्तं वामौ शूलगदाधरौ ॥ ५० ॥ [ बुधः ] सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् । पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ॥ ५१ ॥ वरदं खड्गसंयुक्तं खेटकेन समन्वितम् । गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥ ५२ ॥ [ बृहस्पति-शुक्रौ ] पीतो देवगुरुर्लेख्यः शुभ्रश्च भृगुनन्दनः । चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ ५३ ॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा । दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ ५४ ॥ [ शनिः ] शौरितिलसम्यमासं (शौरिं तिलसमाभासं ?) गृध्रारूढं चतुर्भुजम् । वरदं बाणसंयुक्तं चापशूलधरं लिखेत् ॥ ५५ ॥ स्योक्तत्वात् । बुध्रगमिति, बुध्नो बुध्नमूलम् । हस्तमिति अधोहस्तम् । यद्वा बुध्रपदेनात्र लक्षणयाऽधोदेशो ग्राह्यः, दक्षिणाधोहस्तं वरदं परिकल्पयेदित्यर्थः । 'पुस्तकं हस्तम्' इति शिल्परत्ने, 'बुद्धकं' इति 'तद्वरं' इति तत्पादटिप्पण्यां पाठान्तराणि दृश्यन्ते । (शिल्प० उ० २८।१४५ श्लो०) । अयं शक्तिवराभयगदाधारीति शब्दकल्पद्रुमधृतग्रहयागतत्त्ववृजातकादयः । ५३-५४ । तुल्यबाहुत्वात्तुल्यप्रहरणत्वाच्च बृहस्पतिशुक्रौ तन्त्रेणाऽऽह—पीत इत्यादि । वरदावित्यादि द्विवचनन्तूभयापेक्षया, एवं 'बाहू' इत्यत्रापि । परमार्थतस्त्वनयोः प्रत्येकं चत्वारो बाहवश्चत्वारि चाऽऽयुधानीति ज्ञातव्यम् । एवञ्च वरोऽक्षसूत्रं कमण्डलुर्दण्डश्चेति बृहस्पतेस्तान्येव च दैत्यगुरोरप्यायुधानीति ।