रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
चतुर्थोऽध्यायः ६१ अक्षसूत्रं पुस्तकञ्च श्रुतिश्चैव कमण्डलुः । विरिञ्चि(ञ्चे ?)श्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥५॥ इति विरिञ्चिः । कमण्डलुश्चाक्षसूत्रं शुचिर्वै पुस्तकं तथा । पितामहस्य स्यान्मूर्त्तिस्त्रेतायां सुखदायिनी ॥ ६ ॥ इति पितामहः । पुस्तकं चाक्षसूत्रञ्च शुचिश्चैव कमण्डलुः । ब्रह्मणश्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥ ७ ॥ इति ब्रह्मा । अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ ८ ॥ इति सावित्री । ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः । अक्षमालाम्बुपात्रे च पि ( श्रि ?) तश्चाध्ययने रतः ॥ ६ ॥ इति ऋग्वेदः । अजास्य(ः ?) पीतवर्णः स्याद् यजुर्वेदोऽक्षसूत्रधृक् । वामे चाङ्कुशपाणिस्तु भूतिदो मङ्गलप्रदः ॥ १० ॥ इति यजुर्वेदः । ५। विरिञ्चिमाह—अक्षसूत्रमिति। श्रुतिर्वेदः, इतरत्र लक्षणत्रये 'शुचि'रिति पाठो दृश्यते तत्रापि 'श्रुति'रिति भवेन्न वेति विचारणीयम् । शुचिरग्निः। कृते सत्ययुगे । इहान्यत्र च ब्रह्मणो लक्षणद्वये अक्षसूत्रादिप्रथमान्तपदानामान्वयो दुरुपपाद एव । दूषणञ्च—अक्षसूत्रादीना- मुद्देशपरतामात्रस्वीकारेण तत्तद्विशिष्टा मूर्त्तिरित्यध्याहारजन्यम् । ८। श्रोत्रियाणामिति— 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥' इत्युक्तलक्षणानां वेदविदाम् । ९। अक्षमालेत्यादि। अक्षमालाम् अम्बुपात्रञ्च श्रित इत्यर्थः ।
६२ देवतामूर्त्तिप्रकरणम् नीलोत्पलदलाभासः सामवेदो हयाननः । अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥ ११ ॥ इति सामवेदः । अथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्षसूत्रञ्च खट्वाङ्गं बिभ्राणो विजयश्रिये ॥ १२ ॥ इत्यथर्वणः । नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम् । अक्षसूत्रं त्रिशूलञ्च बिभ्राणं तं (तत् ?) त्रिलोचनम् ॥१३॥ इति नृत्यशास्त्रम् । [ अथ ब्रह्मायतनेऽन्यदेवतापदम् ] आग्नेय्यां तु गणं प्रोक्तं मातृस्थानञ्च दक्षिणे । नैर्ऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ १४ ॥ वायव्ये पार्वतीरुद्रौ गृहा ( ग्रहा ? ) श्चैवोत्तरे स्मृताः । ईशाने च श्रिया देवी प्राच्यान्तु धरणीधरः ॥ १५ ॥ [ अथ ब्रह्मणोऽष्टौ प्रतीहाराः ] ब्रह्मणो ( णोऽ ?) ष्टौ प्रतीहाराः कथयिष्याम्यनुक्रमात् । पुरुषाकारगम्भीराः सकूर्ची ( र्चा ?) मुकुटोज्ज्वलाः ॥ १६ ॥ १४-१५ । अत्र द्वितीयान्तानां पदानां कल्पयेदित्यध्याहृतक्रिययाऽन्वयः, गणं प्रोक्तमिति शास्त्रान्तरे कथितं गणदेवमित्यर्थः । श्रिया देवीत्यभेदे तृतीया श्रीदेवीत्यर्थः । १६ । पूर्वं ब्रह्मणश्चतुरो भेदान् दर्शयन्नपि साम्प्रतं ब्रह्मत्वेनैक्यं परिकल्पयन् अष्टौ प्रतीहारा- नाह—ब्रह्मण इति । तत्राऽऽदौ सर्वसाधारणं विशेषणत्रयमाह—पुरुषेत्यादि । सकूर्चा इति । कूर्च- शब्दो नानार्थः । तत्र श्मश्रु इत्येकोऽर्थः, नासङ्गतानि हि प्रवयसः पितामहस्य प्रतीहाराणाम् अतिलम्बीनि श्मश्रूणि । कुशमुष्टिरिति द्वितीयः, तत्स्वरूपञ्च— छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः । ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्चमिहोच्यते ॥
चतुर्थोऽध्यायः ६३ पद्मं सृ (स्रु ?) चाऽक्षरं दंश (दंशं ?) सप्तनामा तु वामतः । सव्यापसव्ययोगेन कमण्डलुश्च ( अ ? ) धर्मकः ॥ १७ ॥ अक्षपद्मवामदण्डकमलश्च ( अ ? ) महतोद्भवः (मतोद्भवः ?) । दण्डागमस्रवाक्कालं (स्रुचा कालं ?) जयश्च सर्वकामदः ॥१८॥ इत्युक्तलक्षणम् । नायुक्तञ्च वेदमूर्तेर्वैदिकधुरीणस्य द्रुहिणस्य प्रतीहाराणामपि वेदोक्तकर्म- निर्वाहसाहायकार्थं कुशमुष्टिधारणम् । तूलिकेति तृतीयोऽर्थः । सा च वृषश्रवणरोमभिर्वा खरकेशैर्वा तन्तुभिर्वा घटिता उडुम्बराङ्कुराकारा वटाङ्कुराकारा प्लक्षसूचीनिभा वेति शिल्प- शास्त्रादवगम्यते । तथा च समराङ्गणसूत्रधारे—अ० ७३ । १५-१६, १८-१९ श्लो० । ‘कूर्चकं धारयेद्धीमान् वृषश्रवणरोमभिः ॥’ ‘वल्कलैर्वा विधातव्यः खरकेशैस्तथापि वा ॥’ ‘तन्तुतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः ।’ ‘आद्यो वटाङ्कुराकारस्ततोऽश्वत्थाङ्कुराकृतिः ॥’ ( संशोधितः पाठः ) ‘प्लक्षसूचीनिभश्चान्यः * * * * * ।’ उडुम्बराङ्कुराकारः * * * * * ॥’ इति कूर्चविषयं वर्णनमुपलभ्यते । नानुचितञ्च विश्वसृजः प्रतीहाराणाम् अङ्कनोपयोगिन्या- स्तूलिकाया ग्रहणम्, प्रभोः प्रतीहाराद्यनुजीविनामपि प्रभुसम्मतवेषभूषादीनां लोकतः शास्त्रतश्चानु- शीलयितव्यत्वात् । एतेऽर्था दिग्दर्शनार्थमस्माभिरुपक्षिप्ताः, अन्यतरार्थग्रहणपरिहारयोस्तु सुधियः प्रमाणम् । इदमत्रावधेयम्—यदि नाम कूर्चं धार्यवस्तुविशेषः स्यात्तदा परतः प्रोक्तैः प्रहरणादिभि- र्व्यावृतबाहुभिरेतैः क्व नाम तद् धार्यमिति श्मश्र्वर्थक एव कूर्चशब्दोऽत्र श्लिष्टः स्यात् । १७। एवं तेषां साधारणीमाकृतिमभिधाय इदानीं तेषां प्रातिस्विकं लक्षणमाह— पद्ममित्यादि । त एते सर्व एव चतुर्हस्ता सव्यापसव्ययोरूर्ध्वाधःक्रमेण यथोक्तप्रहरणादिधारिणो ब्रह्मणः सव्येऽपसव्ये च चतुश्चतुःक्रमेणावस्थिताः । तत्र वामे प्रथमतः सप्तनामा वामदक्षिणयो- र्हस्तयोः पद्मम्, स्रुचाम्, अक्षरम्, वेदम्, दंशम् द
६४ देवतामूर्त्तिप्रकरणम् अक्षसूत्रं गदाखेटं दण्डञ्च विजयो भवेत् ( दधत् ? ) । अधोहस्तापसव्येन खड्गयुग् यज्ञभद्रकः ॥ १९ ॥ अक्षपाशाङ्कुशा(शान् ?)दण्डभयश्च (दण्डं भवश्च ?) सर्वकामदः । दण्डाङ्कुशपाशोत्पलनिभवः (पलं विभवः ?) सर्वशान्तिदः ॥२०॥ [ अथ द्वादश सूर्यमूर्त्तयः ] शृणु वत्स प्रवक्ष्यामि सूर्यभेदांश्च ते जय । यावत्प्रकाशकः सूर्यो यावन्मूर्त्तिभिरीरितः ॥ २१ ॥ वस्तुतो द्विरुल्लेखः समुपलभ्यते । 'वास' इति पदमप्यनन्वयि । अत्र 'प्रियोद्भव' इति पाठो रूपमण्डने ( रूप-अ० २,१९ श्लो० ) । २०। तदेवं वामतश्चत्वारः सप्त-धर्मक-मतोद्भव-जयनामानो ब्रह्मणः प्रतीहाराः, दक्षिणत- श्चत्वारो विजय-यज्ञभद्रक-भव-विभवनामानश्च निर्दिष्टाः । २१। इदानीं द्वादश सूर्यमूर्तीराह—शृण्विति । जय इति वत्सेत्यनेनोद्दिष्टस्य सम्बोध्यस्य नाम । यद्वा जय सर्वोत्कर्षेण वर्त्तस्वेत्यर्थः । ते प्रवक्ष्यामीत्यन्वयः । यावदिति समस्तवस्तुप्रकाशक इत्यर्थः । यावन्मूर्त्तिभिरीरितः कथितस्तावतीर्मूर्त्तीश्च प्रवक्ष्यामीत्यर्थः । सर्वा एवैता मूर्त्तयश्चतुर्बाहव इति ज्ञायते धार्यद्रव्याणामाधिक्यदर्शनात् ; तथा— 'पद्मद्वयाभयवरान् दधतं कराब्जैः' इत्यन्यत्र 'कराब्जैरि'त्यनेन दोष्णां द्व्यधिकत्वलाभाच्च । अत्र पूष्णो मूर्त्तिद्विभुजा केवलपद्मद्वयलाञ्छिता च, वैष्णवी मूर्त्तिरपि द्विकरा, परं तस्या दक्षिणकरे चक्रमितरत्र पद्ममिति विशेषः । तदितरत्र सर्वांसामेव मूर्तीनां करद्वये नीरजद्वयमन्ययोश्च यथोक्तद्रव्याणीति । अग्निपुराणेऽपि— 'वरदा द्वाब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ।' ( अ० ५१,३ श्लो० ) इति । ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् । मसीभाजनलेखन्यौ बिभ्रत् * * * ॥ ( अ० ५१,१ श्लो० ) । इत्यनेन च तन्मूर्तीनां चतुर्बाहुत्वस्य सूचितत्वात् । एतेन काश्यपशिल्पे— द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः । रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः ॥ ( अ० ४८,७९-८० श्लो० ) इति यद् द्विकरत्वं भास्करमूर्तीनामुक्तं तन्मतान्तरप्रदर्शनमिति कृत्वा सोढव्यम् ।
चतुर्थोऽध्यायः ६५ दक्षिणे पौष्करा(री ?) माला करे वामे कमण्डलुः । पद्माभ्यां शोभितकरौ(रा ?) सुधामा(ता ?) प्रथमा स्मृता ॥२२ शूली(लं ?) वामकरे यस्य(स्या ?) दक्षिणे सोम एव च । मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥ २३ ॥ प्रथमे तु करे चक्रं तथा वामे च कौमुदी । मूर्त्तिरार्यमणी ज्ञेया सपद्मौ पाणिवल्लभौ (पल्लवौ ?) ॥२४॥ अक्षमाला करे चास्य ( यस्या ? ) वज्रं वामे प्रतिष्ठितम् । सा मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥ चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः । सा वारुणी भवेन्मूर्त्तिः पद्मव्यग्रकरद्वया ॥ २६ ॥ कमण्डलुं द(लुर्द ?)क्षिणतोऽक्षमाला चैव वामतः । सा भवेत् सस्मिता सूर्यमूर्त्तिः पद्मविभूषिता ॥ २७ ॥ यस्यास्तु दक्षिणे शूलं वामहस्ते सुदर्शनम् । भर्ग (ग ?) मूर्त्तिः समाख्याता पद्महस्ता शुभाय वै ॥ २८ ॥ २२ । उपरिष्टाच्चतुस्त्रिंशश्लोके समुद्दिष्टानां भास्करमूर्तीनामनुक्रमेण लक्षणानि वक्तुं प्रथमा- माह—दक्षिण इति । यस्या इत्यध्याहारः । यस्या दक्षिणे करे पौष्करी कमलग्रथिता माला, वामे करे कमण्डलुर्वर्त्तत इत्यर्थः । इमौ च करावूर्ध्वाविति ज्ञेयम्, ऊर्ध्वक्रमेणैव धारणीयद्रव्याणां कथनौचित्यात् । पद्माभ्यां शोभितकराविति वामदक्षिणयोरधःकरावित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । 'पद्माभ्यां शोभितकरे'त्युचितः पाठः । सुधातेति । अत्र 'सुधाते'ति वा 'सुधामे'ति वा पाठो भवतु, उभयथाऽपि दोषानुषङ्गो दुष्परिहर एव, उद्देशश्लोके 'धाते'ति पाठस्योपलब्धेः । अत्र ब्रूमः—'सुधाते'त्येव पाठो ज्यायान्, परिगणनश्लोकस्थितधातृशब्दसाम्यात् ; छन्दोभङ्गदोषोत्सारणाय चोपपदं प्रक्षिप्तमिति ; तदेतत् सुलभमेव प्राचीनग्रन्थकृतां कृतिष्विति । : २३ । दक्षिणे सोम इति, सोमः सोमरसोऽमृतं वा । देवता—६
६६ देवतामूर्त्तिप्रकरणम् अथ वामकरे माला त्रिशूलं दक्षिणे करे । सा विश्वमूर्त्तिः सुखदा पद्मलाञ्छनलक्षिता ॥ २६ ॥ पूषाख्यस्य रवेर्मूर्त्तिर्द्विभुजा पद्मलाञ्छना । सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥ ३० ॥ दक्षिणे तु गदा यस्या वामहस्ते सुदर्शनम् । पद्मव्यग्रा तु सावित्रीमूर्त्तिः सर्वार्थसाधिनी ॥ ३१ ॥ स्रुवश्च दक्षिणे हस्ते वामे होमज (लील कम् ? कज्जलम्) । मूर्त्तिस्त्वाष्ट्री भवेद् वत्स पद्मरुद्धकरद्वया ॥ ३२ ॥ सुदर्शना(न ?) करा सव्ये पद्महस्ता तु वामतः । एषा सा द्वादशी मूर्त्तिर्विष्णोरमिततेजसः ॥ ३३ ॥ धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता त्वष्टृविष्णुकौ ॥ ३४ ॥ इति द्वादश सूर्यमूर्त्तयः ।
२९ । सा
चतुर्थोऽध्यायः ६७ [ अथ सूर्यायतनम् ] सूर्यो विनायको विष्णुश्चण्डी शम्भुस्तथैव च । अनुक्रमेण पूज्यन्ते फलदाः स्युः सदाऽर्चने ॥ ३५ ॥ आग्नेय(ये ?) तु कुजः स्थाप्यो गुरुर्याम्ये प्रतिष्ठितः । नैर्ऋत्ये राहुसंस्थानं शुक्रस्थानञ्च पश्चिमे ॥ ३६ ॥ वायव्ये केतुसंस्थानं सौम्यायां बुध एव च । ईशाने च शनिः स्थाप्यः × ×श्च चन्द्रमाः ॥ ३७ ॥ इति सूर्यायतनम्। इति धातृ-सवितृ-त्वष्टृ-वरुण-सूर्य-मित्र-विष्णूनां सप्तानां साम्येन, भग-तपन-गभस्तिक-रवि- पर्जन्यानां पञ्चानाञ्च भिन्नतया नामान्युपलभ्यन्ते । ३५ । सूर्यस्यायतने वक्तव्ये प्रसङ्गात्तदर्चनायाः सर्वदेवार्चनमुखत्वं वक्तुं समभिव्याहृताना- मन्येषामपि तथात्वमाह—सूर्य इति । अनुक्रमेण पूज्यन्ते चेद् एते अर्चने सर्वदेवपूजाविधौ फलदाः स्युः, सर्वदेवपूजास्वेवाऽऽदावेते पूजनीया इत्यर्थः । तथा च स्मृतिः— गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् । पूजयेद्देवषट्कञ्च ततः पूजां समाचरेत् ॥ इति । अत्र च वह्निं निहुवानेन ग्रन्थकृता अपक्रमन् क्रमोऽपि नारक्षीति विभावनीयम् । यच्च तन्त्रान्तरे— आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् । नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥ इति प्रकृतश्लोकवदेव पञ्चदेवार्चनं विहितम्, तत्राप्यस्ति क्रमविपर्यय इति नवीनोऽयं पूजापर्यायः । ३६-३७ । आयतने ग्रहसंस्थानमाह—आग्नेय इति । कुज-गुरु-राहु-शुक्र-केतु-बुध-शनि- चन्द्राः क्रमेणाऽऽग्नेयत ऐन्द्रीं यावत् स्थाप्या इत्यर्थः । तथा च रूपमण्डने— सूर्यस्याऽऽयतने स्थाप्या वह्निकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो ज्ञः शनिः शशी ॥ (अ० २,२५ श्लो०) इति । तमो राहुः, ज्ञो बुधः । एवञ्च—‘ईशाने च शनिः स्थाप्यः’ इत्यनन्तरं स्खलनस्थाने— ‘प्राच्यां स्थाप्य’ इत्यक्षरचतुष्टयं त्रुटितं स्यादित्यनुमीयते ।
६८ देवतामूर्तिप्रकरणम् [ अथ सूर्यप्रतीहाराः ] सूर्येकदन्ताच्युतशक्तिरुद्रा विघ्नेशशक्तीश्वरविष्णुसूर्याः । श्रीनाथविघ्नेशभगाम्बिकेश(रः?) चण्डीशहेरम्बपतङ्गकृष्णा(ः?) ॥ ३८ श्रीकण्ठसूर्या रुद्रस्थाम्बिकाज(?) तद्दक्षिणमध्यादिदिक्षु पूज्याः । स्वस्थानगाः सर्वमनोरथांस्ते यान्ति विघ्नातिपरसंस्थाः(?) ॥ ३९ ॥ दण्डी च पिङ्गलश्चैव आनन्दश्चान्तकस्तथा । चित्रो विचित्रो ज्ञातव्यः किरणाक्षः सुलोचनः ॥ ४० ॥ सर्वे च पुरुषाकाराः कर्त्तव्याः शान्तिमिच्छता । चतुर्द्वारेषु च स्थाप्या दिशाञ्चैव प्रदक्षिणे ॥ ४१ ॥ सुज्ञानार्थमथः सूर्यायतनं चित्रारूढमुपस्थाप्यते—
| ऐशान्यां
शनैश्चरः | पू० चन्द्रः
दण्डी, पिङ्गलः | आग्नेय्यां
कुजः |

| उ० बुधः
किरणाक्षः,
सुलोचनः | सूर्यः | द० गुरुः
आनन्दः,
चण्डकः |
| वायव्यां
केतुः | प० शुक्रः
चित्रः,
विचित्रः | नैर्ऋत्यां
राहुः |
३८-३९ । पञ्चपादीयं पञ्चानां सूर्येकदन्ताच्युतशक्तिरुद्राणां क्रमादेकैकप्राथम्येन निर्देशमनु- भवितुं प्रवृत्ता क्रमोत्क्रमाभ्यां सर्वत्रैकमेवार्थं प्रतिपादयतीति दृश्यते । किमत्र तात्पर्यमिति प्रश्ने—य इमे देवमुख्यास्तेषामायतनेषु त एव विभक्तविभागेनावस्थिताः फलदायकाः स्युः, तत्रापि यस्यायतनं तस्य प्राङ्निर्देशार्थमयमुद्यम इत्येवास्माकं प्रतिवचनविभवः । श्रीकण्ठेत्यादिश्लोकस्य तु दुष्करः पाठोद्धारः । प्रथमे पादे एवं ह्यर्थः सुस्थितः स्यात्— 'श्रीकण्ठसूर्येषमुखाम्बिकाजाः' इति । चतुर्थपादन्तु दुरुहमेव । ४०-४१ । दण्ड्यादयोऽष्टौ द्वारदेवताः पूर्वादिद्वारक्रमेण द्विशः संस्थाप्याः । एवञ्च 'दिशाञ्चैव प्रदक्षिणे' इत्यत्र 'द्विशश्चैव प्रदक्षिणात्' इति पाठः सकल्पः । तथा चैते प्राग्दक्षिण्येन द्वौ द्वौ कृत्वा
चतुर्थोऽध्यायः ६६ प्रतर्जन्यूर्ध्वकिरणं ताम्रचूडं दण्डायुधम् । दण्डी वामविभागे तु पिङ्गलः स्यादतः शृणु ॥ ४२ ॥ (किरणस्थाने ? किरणे तु) यदा शक्तिः किरणं ताम्रचूडके । तर्जनीदण्डपूर्वश्च पिङ्गलः पूर्वदक्षिणे ॥ ४३ ॥ तर्जनी द्वौ वक्त्रानां (?) दण्डेनानन्दकः स्मृतः । तर्जनीदण्डापसव्यं सव्यवेदान्तकाशुभाः ॥ ४४ ॥ तर्जना द्वौपमनी दण्डं दण्डान्ते चित्रका भवेत् । तर्जनीदण्डापसव्यं स भवेतद्विचित्रकः ॥ ४५ ॥ तर्जनी द्वौ किरणं (?) दण्डान्तकिरणोद्भवे । तर्जनीदण्डापसव्ये कर्त्तव्यः स सुलोचनः ॥ ४६ ॥ [ चन्द्रः ] चन्द्रश्चित्रे विधातव्यः श्वेतः श्वेताम्बरावृतः । दशश्वेताश्वसंयुक्त आरूढः स्यन्दने शुभः ॥ ४७ ॥ द्विभुजो दक्षिणे पाणौ गदां बिभ्रद् यथादरम् । वामस्तु वरदो हस्त इति चन्द्रो निरूप्यते ॥ ४८ ॥ [ भौमः ] धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि । चतुर्भुजो मेषगमश्चाङ्गारसदृशद्युतिः ॥ ४६ ॥ चतुर्द्वा रेषु संस्थाप्या इत्यर्थः । 'चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम्' इति रूपमण्डने ( अ० २, श्लो० ३०) पाठः । ४२-४६ । पञ्चश्लोक्या तेषां दण्ड्यादीनामायुधानि पूर्वोद्दिष्टायाः प्रादक्षिण्येन स्थितेः प्रकारञ्चाऽऽह—प्रतर्जन्यूर्द्ध्वकिरणमिति । पाठवैकल्यादकल्पेनाप्यस्य यथायथमर्थाविष्कारे नेदं दुष्परिष्कार्यं यत् प्रतर्जन्यादीनि अवयवस्वरूपेण वा आयुधस्वरूपेण वा दण्ड्यादीन् प्रतीहारान् विशिषन्तीति । तत्र पूर्वद्वारे दण्डिनो दक्षिणे पिङ्गलकः, दक्षिणद्वारे आनन्दस्य दक्षिणे चण्डकः, पश्चिमद्वारे चित्रस्य दक्षिणे विचित्रः, उत्तरे किरणाक्षस्य दक्षिणे सुलोचन इति पूर्वोक्तप्रदक्षिण- पदार्थः । रूपमण्डनीयपाठस्त्वेतस्माद्विशिष्यते (रूप० २ अ० २६-३० श्लो० ) । ४९-५० । अङ्गारसदृशद्युतिरिति ज्वलदङ्गारगौरवपुरित्यर्थः, तन्त्रान्तरेऽस्य लोहितवर्णत्व-
७० देवतामूर्तिप्रकरणम् दक्षिणं बुभ्रगं हस्तं वरदं परिकल्पयेत् । ऊर्ध्वं शक्तिसमायुक्तं वामौ शूलगदाधरौ ॥ ५० ॥ [ बुधः ] सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् । पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ॥ ५१ ॥ वरदं खड्गसंयुक्तं खेटकेन समन्वितम् । गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥ ५२ ॥ [ बृहस्पति-शुक्रौ ] पीतो देवगुरुर्लेख्यः शुभ्रश्च भृगुनन्दनः । चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ ५३ ॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा । दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ ५४ ॥ [ शनिः ] शौरितिलसम्यमासं (शौरिं तिलसमाभासं ?) गृध्रारूढं चतुर्भुजम् । वरदं बाणसंयुक्तं चापशूलधरं लिखेत् ॥ ५५ ॥ स्योक्तत्वात् । बुध्रगमिति, बुध्नो बुध्नमूलम् । हस्तमिति अधोहस्तम् । यद्वा बुध्रपदेनात्र लक्षणयाऽधोदेशो ग्राह्यः, दक्षिणाधोहस्तं वरदं परिकल्पयेदित्यर्थः । 'पुस्तकं हस्तम्' इति शिल्परत्ने, 'बुद्धकं' इति 'तद्वरं' इति तत्पादटिप्पण्यां पाठान्तराणि दृश्यन्ते । (शिल्प० उ० २८।१४५ श्लो०) । अयं शक्तिवराभयगदाधारीति शब्दकल्पद्रुमधृतग्रहयागतत्त्ववृजातकादयः । ५३-५४ । तुल्यबाहुत्वात्तुल्यप्रहरणत्वाच्च बृहस्पतिशुक्रौ तन्त्रेणाऽऽह—पीत इत्यादि । वरदावित्यादि द्विवचनन्तूभयापेक्षया, एवं 'बाहू' इत्यत्रापि । परमार्थतस्त्वनयोः प्रत्येकं चत्वारो बाहवश्चत्वारि चाऽऽयुधानीति ज्ञातव्यम् । एवञ्च वरोऽक्षसूत्रं कमण्डलुर्दण्डश्चेति बृहस्पतेस्तान्येव च दैत्यगुरोरप्यायुधानीति ।
चतुर्थोऽध्यायः ७१ [ राहुः ] सिंहासनगतं राहुं करालवदनं लिखेत् । वरदं खड्गसंयुक्तं खेटशूलधरं लिखेत् ॥ ५६ ॥ [ केतवः ] धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः । गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ ५७ ॥ [ ग्रहमूर्त्तौ साधारणविधिः ] (गृ ? ग्र)हाः किरीटिनः कुर्यान् (कार्या ?) नवतालप्रमाणकाः । रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ ५८ ॥ इति नवग्रहाः । [ इन्द्रः ] वरदं वज्राङ्कुशञ्च कमण्डलुविधृतकरम् । गजारूढं सहस्राक्षमिन्द्रं पूर्वदिशि स्थितम् ॥ ५६ ॥ [ अग्निः ] वरदं शक्तिहस्तञ्च मृणालञ्च कमण्डलुम् । ज्वालापुञ्जनिभं रूपं (देवं ?) मेषारूढं हुताशनम् ॥ ६० ॥
५८ । अत्र
७२ देवतामूर्त्तिप्रकरणम् [ यमः ] लेखनीं पुस्तकं हस्ते कुक्कुटं दण्डमेव च । महामहिषमारूढः कृष्णाङ्गश्च यमो भवेत् ॥ ६१ ॥ [ निर्ऋतिः ] खड्गखेटकहस्तश्च कतिका(कर्त्तृका?)वैरिमस्तकम्। दंष्ट्राकरालास्यं कुर्याच् श्वानरूपञ्च (श्वानारूढञ्च?) नैर्ऋतम्॥६२॥ [ वरुणः ] वरदं पाशपद्मञ्च कमण्डलुन्तथा करे । मकरा(नक्रा?)रूढश्च कर्त्तव्यं वरुणं पश्चिमादिशि ॥ ६३ ॥ [ वायुः ] वरं ध्वजपताकञ्च कमण्डलुन्तथा करे । मृगारूढं प्रकर्त्तव्यं वायुदेवं (तलो ? मरुद्)दिशि ॥ ६४ ॥ [ कुबेरः ] गदा-निधि-बीजपूरं कमण्डलुं करे तथा । गजारूढं प्रकर्त्तव्यं सौम्यायां धनदं दिशि ॥ ६५ ॥ ६२ । श्वानारूढमिति श्वा रूढमित्यर्थः, अदन्तः श्वानशब्दोऽपि कुक्कुरार्थकः । अयं खरारूढ इति कालिकापुराणम् (अ० ७९, ६१ श्लो०) । 'दंष्ट्राकरालवदनः श्वानारूढश्च राक्षसः' (रूप० २ अ०) इति रूपमण्डने पाठः । 'शवारूढम्' इति काश्यपशिल्पे (४८।४७) पाठः । एवञ्च यद्यपि यथाकामं 'खरारूढ' 'शवारूढ'योरन्यतमः पाठः शुद्धत्वेनोपादातुं शक्यते तथाऽपि साम्य- बाहुल्याद् रूपमण्डनपाठसाम्याच्च बन्धनीमध्यस्थपाठ एव शुद्धत्वेन निर्णीतः । ६३ । 'नक्रारूढः स कर्त्तव्यो वरुणः पश्चिमाथितः' (रूप० २ अ०) इति रूपमण्डने पाठः । यद्यपि यादस्त्वचाविशेषेण मकरो नक्रश्चेत्युभावेव वरुणस्य वाहनीभावे स्वरूपयोग्यौ तथाऽपि छन्दोऽनुकूलत्वेनान्यत्रोपलब्धेश्च नक्र इत्येव पाठः शुद्धत्वेन कल्पितः । वरुणो हंसारूढ इति जलाशयतत्त्वधृतहयशीर्षपञ्चरात्रम् । ६४ । यद्यपि 'तलो' इत्यत्र 'मरुद्' इति पाठकल्पनम् एकान्ततः कल्पनैव, तथाऽप्यर्थ- वैधुर्यादनन्यगत्या तथा पाठः कल्पितः । निपुणैः शब्दसाम्यमनुबुध्य पाठान्तरमनुसन्धातव्यम् ।
चतुर्थोऽध्यायः ७३ [ ईशानः ] वरश्चैव त्रिशूलश्च नागेन्द्रं बीजपूरकम् । वृषारूढं प्रकर्त्तव्यमीशानं (मिल ? मन्त्रि)कोणके ॥ ६६ ॥ इति दश दिक्पालाः । यस्माद् ब्रह्मा वेदविद्याः समस्ता आदित्याद्याः खेचरा धिष्ण्यचक्रम् । दिक्पालार्थं व्यक्तरूपञ्च जातं (वन्द्ये?न्यो) विष्णुर्विश्वसृक् पाल(कस्यः ? कोऽसौ) ॥६७॥ इति दोता(ध्व?त्म)जसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्त्तिप्रकरणे रूपावतारे ब्रह्म-सूर्य-नवग्रह-दशदिक्पालाधिकार- श्चतुर्थोऽध्यायः ॥ ४ ॥ ६६ । मन्त्रिकोणके इति देवमन्त्रिणो बृहस्पतेः कोणे ईशानदिशीत्यर्थः । ६७ । यस्माद् ब्रह्मादिव्यक्तरूपान्तं जगज्जातम् असौ विश्वसृक् पालकश्च 'विष्णुर्वन्द्य इत्यन्वयः । खेचरा ग्रहाः, धिष्ण्यचक्रं नक्षत्रमण्डलम्, व्यक्तरूपं भूतलम् । देवता—१०
पञ्चमोऽध्यायः [ वर्णविशेषेषु मूर्त्तिभेदेन विष्णोः शुभदायकत्वम् ] नारायणः केशवश्च माधवो मधुसूदनः । स्थापिता मूर्त्तयो (ह्येते ? ह्येता ?) विप्राणां सुखदाः सदा ॥१॥ मधुसूदनविष्णुश्च (खाड ? खड्ग)शूलधरं लिखेत् । क्षत्रियाणां फलप्रदौ वैश्यानामर्चने शुभौ ॥ २ ॥ पूजिता (श्री?श्रै)धरी मूर्त्तिः शूद्राणाञ्च सुखप्रदा । चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ३ ॥ मेदभिल्लकिरातानां हृषीकेशः सुखावहः । कुम्भकारवणिग्वैश्यचाक्रिकाणां ध्वजस्य च ॥ ४ ॥ सर्वासां प्रकृतीनाञ्च पद्मनाभः सुखप्रदः । दामोदरः सौख्यकरो ब्रह्मचार्येकदण्डिनोः ॥ ५ ॥ हरिं हिरण्यगर्भञ्च नारसिंहमतः परम् । वामनञ्च वराहञ्च सर्ववर्णेषु सौख्यदम् ॥ ६ ॥ २। एतेन मधुसूदनो विष्णुश्चाविशेषेण क्षत्रियाणां वैश्यानाञ्च शुभदावित्यायाति । रूपमण्डने पुनरन्यथैव दृश्यते । तथाच— मधुसूदनविष्णू च क्षत्रियाणां फलप्रदौ । त्रिविक्रमो वामनश्च वैश्याना(मर्चयेच्छुभा ? मर्चने शुभौ) ॥ ( अ० ३ ) इति । एष एव च पाठो युक्त इति प्रतिभाति । ३। शूद्राणाञ्चेति चकाराद् ब्रह्मक्षत्रविशामपि सुखप्रदेत्यनुमीयते । रूपमण्डने पुनः ‘शूद्राणां सौख्यदायिनी'ति पाठः । ४। मेदो म्लेच्छजातिविशेषः, ध्वजः शौण्डिकः । अत्र द्वितीयार्धे 'कुम्भकारवणिक्- वैश्यचाक्रिकध्वजिनामपि' इति सुखबोध्यः पाठो रूपमण्डने । एवञ्चैतन्मते वैश्यानां मधुसूदन- विष्णुहृषीकेशाः, रूपमण्डनमते त्रिविक्रमवामनहृषीकेशाः सुखावहा इति स्थितम् ।
पञ्चमोऽध्यायः ७५ [ अवस्थाभेदेन मूर्तीनां ग्राह्याग्राह्यत्वम् ] अङ्गप्रत्यङ्गभग्ना या मूर्त्तिः स्थाप्या विसर्जयेत् । नखाभरणमालास्त्रैर्भग्नां तां न विसर्जयेत् ॥ ७ ॥ [ विष्णोश्चतुर्विंशतिमूर्त्तयः ] केशवः (पद्मशङ्खश्च ? प-च-शं-गश्च)मधुसूदन-(च ?)शं-प-(गाः ?गः) सङ्कर्षणो ग-शं-पा-चै (ः?) दामोदरः प-शं-ग-च (ः ?) ॥ ८ ॥ वासुदेवो ग-शं-च-पै (ः?) प्रद्युम्नश्चक्र-शं-ग-पः । विष्णुर्गदा-प-शं-चक्री माधवो ग-च-शङ्ख-पैः ॥ ९ ॥ अनिरुद्धश्च-गं-शं-पः पुरुषोत्तमश्च-पा-श-गैः । अधोक्षजः प-गा-शं-चो जनार्दनः प-चं-श-गः ॥ १० ॥ गोविन्दश्चक्र-गा-पा-(शं ? शः) त्रिविक्रमः प-गं-च-श(ः ?) । श्रीधरः पद्म-चं-गा-(शं ? शः) हृषीकेशो ग-चं-प-शैः ॥ ११ ॥ नृसिंहश्च-प-गं-श(अ ? ञ्च) अच्युतो ग-प-चक्र-(शम् ?शः) । वामनः शं-च-गं-पद्मैर्नारायणः श-पं-ग-(च ः ?) ॥ १२ ॥ पद्मनाभः श-प-चां-ग उपेन्द्रः शं-ग-दा-च-पैः । हरिः शं-च-ग-पः पूज्यः कृष्णः शं-ग-प-चक्रभृत् ॥ १३ ॥ इति चतुर्विंशतिमूर्त्तयः । ७ । या स्थाप्या मूर्त्तिरङ्गप्रत्यङ्गभग्ना तामिति योजना । विशेषः प्रथमे (पृ० २२ ) द्रष्टव्यः । ८-१३ । आत्रयोदशश्लोकमनयां षट्श्लोक्या विष्णोश्चतुर्विंशति मूर्तीः सह नाम्ना सह चाऽऽयुधेनाभिदधानः संक्षेपबुद्धया आयुधानां पूर्ण नामानुपादाय प्रतीकरूपेणाद्याक्षरमात्रेण तान्या- युधानि प्रतिपादयतीति रहस्यमत्र विभावनीयम् । अत्र कृतशुद्धिषु पाठेषु प्रथमान्तानामायुध- पदानामायुधिसामानधिकरण्यम् अस्त्यर्थेऽवप्रत्ययात् । इतरेषु च विशेषणत्वात्तृतीयेति द्रष्टव्यम् । ‘मधुसूदन’ इत्यत्रातृप्रत्ययान्तेन सह कर्मधारयः । तत्र तत्र बिन्दव आकाराश्च छन्दःपालन- धृतव्रता अपि बहुत्राकारणकृतप्रमाण इति विषीदामः । तत्र चास्यैव ग्रन्थकर्तुर्ग्रन्थान्तरे रूपमण्डने आसामेव चतुर्विंशतिमूर्त्तीनामुल्लेखो विकलेनाऽऽयुधनाम्ना वर्त्तते । तद्दर्शनाच्चैतानि पद्यानि सुबोधानि स्युरिति रूपमण्डनीयपद्यान्यत्रोद्ध्रियन्ते । तथा च रूपमण्डने तृतीयाध्याये---
(ndha) न (na) ्य (ya) न् (n) त (ta) श् (ś) च (ca) क (ka) ा (ā) र (ra) ः (ḥ) = बन्धन्यन्तश्चकारः! Wait, or "बन्धन्यन्तश्चकारः" = "बन्धनी-अन्तः च-कारः"! Wait, could it be "बन्धन्यन्तश्चकारः" meaning "the editor placed it inside brackets"? Yes: "छन्दोदोषमविगणय्यैव बन्धन्यन्तश्चकारः प्रक्षिप्तोऽस्माभिरिति ज्ञेयम् ।" Wait, why चकारः? Does it mean the letter 'च' (च-कारः) or "made/did" (चकार)? Wait! "बन्धन्यन्तः चकारः प्रक्षिप्तोऽस्माभिः" -> "च-कार (the word 'च') inside brackets was inserted by us"! Wait, or "बन्धन्यन्तः चक्रः प्रक्षिप्तोऽस्माभिः"? Wait! Look at the word in line 30: Is it "चकारः" or "चक्रः"? च - का - रः ! It has an ā-mātrā: चकारः! Wait, but what was inserted in line 3? Look at line 3: धत्ते चक्रं ( * ?) ग
पञ्चमोऽध्यायः ७७ ( प्रोक्तानामायुधानां न्यासक्रमः ] अधरं दक्षिणे हस्तमारभ्य सृष्टि(माग्रतः ? मार्गकः) । चतुर्विंशतिमूर्त्तीनां सर्व(वेना ? वैवा)युधक्रमः ॥ १४ ॥ [ अथ शालग्रामशिलापरीक्षा ] [ आकृतितो ग्राह्यशिलालक्षणम् ] नागभोगसमा युक्ता शिला सूक्ष्मा च या भवेत् । पूजनीया प्रयत्नेन स्थिरा स्निग्धा च वर्त्तुला ॥ १५ ॥ भाव्यमिति, न चापि चतुर्भिस्तादृशमूर्त्त्यन्तरादर्शनात् । दृश्यन्ते हि प्रायेणालौकिकमूर्त्तौ प्रतिपादं द्वौ द्वौ बाहू इति, यथा शिवविष्णुचतुराननादीनाम् । त्रिपादत्वे च— 'ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।' इत्यादिस्मृतौ ज्वरासुरादीनां षट्चरणत्वम् । यद्यपि पुराणादौ श्रूयन्ते रावणादीनामतिपादा बाहवः परं न श्रूयन्तेऽतिबाहवश्चरणाः । समबाहुत्वं द्विपदादौ दृष्टमपि न त्रिपादादौ युक्तमिति विभावयामः । अस्त्रन्यासक्रमविधायकश्लोकदर्शनादपि चतुर्बाहुत्वमेवैषां प्रतीयते इति दिक् । १४ । प्रोक्तानामायुधानां विन्यासक्रममाह—अधरमित्यादि । चतुर्बाहुमूर्तीनां दक्षिणाधो- हस्तमारभ्य सृष्टिमार्गतः स्वभावक्रमेणाऽऽयुधक्रमो ज्ञातव्य इत्यर्थः । स्वभावक्रमश्च आदौ दक्षिणाधोहस्तस्ततो दक्षिणोर्ध्वहस्तस्ततो वामाधोहस्तोऽन्तततश्च वामोर्ध्वहस्त इति । तथा च 'केशवः पद्मशंगश्चे'ति केशवस्य दक्षिणाधोहस्ते पद्मम्, दक्षिणोर्ध्वे चक्रम्, वामाधः शङ्खः, [ वामोर्ध्वे गदेति ज्ञेयम्, एवं सर्वत्र । १५ । आ पञ्चदशश्लोकात् त्रिषष्टश्लोकं यावदष्टाचत्वारिंशता श्लोकैः शालग्रामशिलाया लक्षणं दोषगुणौ ग्राह्याग्राह्यते परस्परभेदाश्च निरूपितानि । शास्त्रान्तरप्रसिद्धान्यमूनि वस्तूनि कचिद्वि- कल्पशोधोद्वारेण कचिदक्षरमात्रपरिवर्त्तनेन, क्वचित् पदपरिवर्त्तनेन, कचिद् भाषापरिवर्त्तनतोऽर्थमात्रा- दानेन चायं ग्रन्थकारो यथायथमाजहार । एते च विषयाः प्रयोगपारिजातमत्स्यसूक्तादौ स्कन्दाग्नि- ब्रह्म-ब्रह्मवैवर्त्त-वाराहादिमहापुराणेषु चोपलभ्यन्त इति वीरमित्रोदयप्राणतोषणीशिलाचक्रार्थ- बोधिन्यादिसंग्रहग्रन्थादिभ्यो ज्ञायते । जिज्ञासुभिस्तत्र तत्राऽऽकरे संग्रहे वा द्रष्टव्यम् । न युक्तं पुनरर्थ- शास्त्रं व्याचिख्यासुभिर्धर्मशास्त्रविषयमवलम्ब्य विशेषेणाऽऽलोचयितुम् इति ततो विरमामः । नागभोगसमेति फणिफणाकृतिविशिष्टा, युक्ता सुघटिता । न पुनर्नागभोगसमायुक्तेत्यैक- पद्यम् । 'नागभोगसमाकारे'ति रूपमण्डने, 'छत्राकारे'त्यन्यत्र च पाठः । स्थिरेति, आसने यथा स्थिरतया वर्त्तेत तथाऽधश्चिपिटेत्यर्थः । तथाऽपि वर्त्तुला ऊर्ध्वभागे गोलाकृतिः ।
७८ देवतामूर्त्तिप्रकरणम् [ प्रमाणतो ग्राह्यशिलालक्षणम् ] तत्राप्यामलकीमाना सूक्ष्मा चातीव या भवेत् । तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ १६ ॥ यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् । तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ १७ ॥ [ त्याज्यशिलालक्षणम् ] कपिला कर्बुरा भग्ना रुक्षा निद्राकुला च या । (रेषाकुषा? रेखाकुला)ऽस्थिरा स्थूला बहुचक्रैकचक्रका ॥ १८ ॥ बृहन्मुखी बृहच्चक्रा बद्धचक्रा च (पायुनः ? या पुनः) । बद्धचक्राऽथ(नामा ? वा या) स्याद् भिन्नचक्रा त्वधोमुखी ॥१९॥ दग्धा (सुरत?सुरक्ता) चापूज्या निष्षणा (पाति?पंक्ति) चक्रिका । पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ २० ॥ [ तत्र प्रतिप्रसवः ] खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना विभेदिका । शा(लि?ल)ग्रामसमुद्भूता शिला दोषवहा न हि ॥ २१ ॥ १८ । श्लोकत्रयं प्राणतोषणीधृतस्कन्दपुराणे किञ्चिद्विकलमुपलभ्यते । तत्र यथा पाठान्तरं तथा श्लोकमध्ये बन्धनीचिह्नान्तर्यथासम्भवं सन्निवेशितम् । रुक्षेति—'अचिराच्छुष्कतां याति यस्यां लिप्तन्तु चन्दनम् । सा रुक्षेति' शिलाचक्रार्थबोधिनी- धृतप्रयोगपारिजातोक्तलक्षणेत्यर्थः । अस्थिरेति आसने स्थिरताऽवर्त्तमाना । बहुचक्रेति प्रमाणाधिकचक्रशालिनी, यस्याः शिलाया यावन्ति चक्राणि प्रमाणतः प्राप्तानि ततोऽधिकचक्रेति यावत् । एकचक्रकेति एकं चक्रकं यस्याः सा, यस्या एकमपि चक्रं क्षुद्रं तादृशीत्यर्थः । अन्य- त्रैकचक्राया ग्राह्यत्वश्रवणात् । १९ । बद्धचक्रेत्यत्र लग्नचक्रेति पाठः पुराणे । तत्रापि नास्त्यर्थान्तरम् । बृहच्चक्रेति चक्रान्तर्गतचक्रा, 'चक्रेणाऽऽवृतचक्रा च बृहच्चक्रा प्रकीर्त्तिता' इति शिलाचक्रार्थबोधिनीधृतप्रयोगपारिजातस्मरणात् । २१ । अत्र प्राणतोषण्यां स्फुटितादिवर्जनीयशिलालक्षणमभिधाय—
त + ा = ता
ह = ह
Result in Unicode: श्वेताश्यामयोर्र्विशेषफलमाह ? NO!
It gives: श्वेताश्यामयोर्र्विशेषफलमाह (wait, why did my brain think there is a duplicate र? There isn't!).
Let's look at:
श् वे ता श्या म यो र् वि शे ष फ ल मा ह:
Unicode: \u0936\u094d\u0935\u0947\u0924\u093e\u0936\u094d\u092f\u093e\u092e\u092f\u094b\u0930\u094d\u0935\u093f\u0936\u0947\u0938\u094d...
That renders as: श्वेताश्यामयोर्र्विशेषफलमाह? NO, it renders as:
श्वेताश्यामयोर्र्विशेषफलमाह (wait, the font renders it as: यो + र् + वि = र्वि after यो).
Wait, why did the text box in thought show two र's? Ah, because of double copy-paste.
Let's see: श्वेताश्यामयोर्र
८० देवतामूर्त्तिप्रकरणम् अथ चक्र[विशेष]लक्षणानि [ तत्र वासुदेवः ] द्वारदेशे समे चक्रे दृश्यते नान्त(रायिके ? रीयके) । वासुदेवः स विज्ञेयः शुक्लाभः स्यां(चा?)तितेजसा ॥ २६ ॥ [ सङ्कर्षणः ] (द्वौ चक्रावेकलग्नौ ? द्वे चक्रे एकलग्ने) तु पूर्वभागस्तु पुष्क(लः?लम्) । सङ्कर्षणाख्यो विज्ञेयो रक्ता(भि ? भ)श्चातितेजसा ॥ २७ ॥ [ प्रद्युम्नः ] प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च । सुषिरं छिद्रबहुलं दीर्घाकारन्तु यद् भवेत् ॥ २८ ॥ [ अनिरुद्धः ] अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः । (रेप्यायां ? रेखाणां) त्रितयं (द्वारं ? द्वारे) पृष्ठं पद्मेन लाञ्छितम् ॥ [ एतेषां पूजाधिकारिणः ] ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा । प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ ३० ॥ चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः । वैश्यैर्द्वावेव संपूज्यौ तथैकः शूद्रजातिभिः ॥ ३१ ॥ २६ । चक्रभेदान् विवक्षुर्वासुदेवमाह—द्वारदेश इति । नान्तरीयेके इति चक्रद्वयं परस्पर- लग्नमित्यर्थः । अतितेजसेति विशेषणे तृतीया, अतितेज उपलक्षित इत्यर्थः । २७ । ‘द्वे चक्रे अग्रलग्ने तु पूर्वभागे च पुष्करम् । सङ्कर्षणाख्यो विज्ञेयो रक्ताभश्चातिशोभनः ॥’ इति प्राणतोषणी । पुष्कलमिति र-लयोरभेदात् पुष्करमिति ज्ञेयम्, पुष्करमाकाशं छिद्रमित्यर्थः । २९ । एता द्विचक्रा इति प्राणतोषणीतो ज्ञायते । ३० । एवं चत्वारि चक्राणि निरूप्य प्रसङ्गात्तेषां पूजाधिकारिण आह—ब्राह्मणैरिति द्वाभ्याम् । ३१ । अन्यत्रोऽयं श्लोकः, शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एव हि ॥ इति स्मृत्यन्तरधृतवचनस्यापवादविधया हेमाद्रावुक्त इति वीरमित्रोदयाज् ज्ञायते । अत्र चायं वासुदेवादिपूजाप्रकारः—