भारतकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

षष्ठोऽध्यायः १११ कनि(ष्ठा ये ? ष्ठज्ये?)ष्ठलिङ्गेषु मध्यमामध्यमेषु च । प्रासा(द?दाः)कन्यसे (यष्ठां ? ज्येष्ठाः) सीमा- (न ?मान)मिदं स्मृतम् ॥७८॥ [ गर्भगेहमानेन लिङ्गमानम् ] गर्भे पञ्चांशके त्र्यंशे (न्यष्टे ?ज्येष्ठ)लिङ्गन्तु मध्यमम् । नवांशे पञ्चभागे (स्याद्गर्भार्थं ?स्याद्गर्भार्धं) कन्यसोदयम् ॥७६॥ धातुजे रत्नजे चैव शम्भुबाणे च (दारुणे ? दारवे) । गृहं न्यूनाधिकं प्रोक्तं वक्त्रलिङ्गे(षु? च) पार्थिवे ॥८०॥ ७९ । इदानीं गर्भगेहमानेन लिङ्गमानमाह—गर्भ इति । पञ्चभागीकृतस्य गर्भगेहस्य त्र्यंशेन परिमितं लिङ्गं ज्येष्ठं भवेत्, एवं नवधा कृतस्य तस्य पञ्चांशेन मध्यमम्, द्विधा कृतस्य च तस्यार्द्धेन कनिष्ठमित्यर्थः । मात्स्ये— भागार्धेन तु यल्लिङ्गं कार्यं तदिह शस्यते । पञ्चभागविभक्तेषु त्रिभागो ज्येष्ठ उच्यते । भाजिते नवधा गर्भे मध्यमं पाञ्चभागिकम् ॥ इति ( अ० २६३, श्लो० ७-८ ) गर्भगृहस्वरूपमाह समराङ्गणसूत्रधारे— शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा । संछन्ना ( चा ? सा )पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ इति । ( अ० १८, श्लो० २० ) । तन्मानन्तु— प्रासादस्य त्रिभागैकं सप्तभागानलांशकम् । विशेषाद् गर्भगेहस्य विस्तारं प्राह काश्यपः ॥ इति । ( शिल्प० पूर्व० अ० २१, श्लो० ९ ) । ८० । यथोक्तमानस्य कचिद् विपर्ययोऽपि भवतीत्याह—वक्त्रलिङ्गे चेति । पार्थिवे वक्त्रलिङ्गे इति सम्बन्धः । वक्त्रलिङ्गं लिङ्गविशेषः, मुखलिङ्गमित्यस्य नामान्तरम् । तत्स्वरूपं शिल्परत्ने उत्तरभागे तृतीयाध्याये द्रष्टव्यम् । शम्भुबाणे इति शाम्भौ बाणे चेत्यर्थः ।

११२ देवतामूर्तिप्रकरणम् [ लिङ्गविस्तारः ] मृद्दारुलोहशै(लं वा?लानां) दैर्घ्ये भक्ते (दिनांशके?जिनांशकैः) । कुर्यात् षट्सार्धसप्तांशनवांशे विस्त(र?रं) क्रमात् ॥८१॥ (विषकं?विष्कम्भं) नव(नागं?भागं) तु सार्द्धमष्ट पितामहः । नारायणोऽष्टभिर्जे(यो?यः) सप्तसार्धं महेश्वरः ॥८२॥ ८१-८२। इदानीं लिङ्गस्य विस्तारं ब्रह्मादिभागविभागञ्च युग्मकेनाऽऽह—मृद्दार्विति । मृदादिलिङ्गानां दैर्घ्यं जिनांशकेश्चतुर्विंशत्येत्यर्थः, भक्ते षट्सार्धादिना विस्तरं कुर्यादित्यर्थः । यद्वा विष्कम्भनवभागं गर्भगृहविष्कम्भस्य नवमांशमितं विस्तरं कुर्यादित्यर्थः । अत्रोद्दिष्टानां मृदादीनां चतुर्णां षट्सार्धंत्यादिभिश्चतुर्भिरनुद्देशाद् यथासंख्येनान्वयो बोध्यः । विषमफलमपि तुल्यप्रकारं विभागवचनं शिल्परत्ने— आयामे दलिते दिवाकरयुजाऽभीष्टेऽष्टभिर्विस्तृतिः



पञ्चांशैरपि गर्भगृहनवमांशेनापि सा स्मर्यते ॥ ( उ० अ० २, श्लो० ६७ ) । ब्रह्मादिभागमाह—सार्द्धमष्टेति । अत्रापि जिनांशकैर्भक्ते इत्येव । सप्तसार्द्धमिति सार्द्ध- सप्तेत्यर्थः । अत्रापि फलविसंवाद्यपि संवादि प्रमाणं तत्रैव— लिङ्गं सर्वसमं समोन्मितिर्विभक्तांशत्रयं तत् पुनः स्वायत्या सम-नाहकं यदि समांशं वाथ वृद्धूत्तरम् । भक्ते भानुयुजोच्छ्रयेऽद्रि(७)वश्व(८)नन्दां(९)शैस्तु मूलादिषू- पेतं दिग्दलिते त्रिलोकयुगसंख्यातैस्तथेशाधिकम् ॥ ( शिल्प० उ० अ० २ श्लो० ६६ ) अस्यायमर्थः—लिङ्गस्य उच्छ्राये भानुयुजा रविद्वयेन चतुर्विंशत्येत्यर्थः, भक्ते क्रमेण अद्रिवस्व- नन्दांशैः सप्ताष्टनवभिरंशैर्मूलादिषु मूलमध्योर्ध्वभागेषु उपेतं पूर्वार्धविशेषणविशिष्टं लिङ्गम् ईशाधिकं शिवभागाधिकं भवेदित्यर्थः । पक्षान्तरमाह—दिग्दलिते इति । दिशा दशभिर्दलिते विभाजिते उच्छ्राये इत्येव, त्रिलोकयुगसंख्यातैः यथाक्रमं त्रिभिखिभिश्चतुर्भिरंशैर्मूलादिषु उपेतम् ईशाधिकञ्च सत् लिङ्गं तथा पूर्वोक्तवदेव भवेदित्यर्थः ।

षष्ठोऽध्यायः ११३ [ लिङ्गस्य ब्रह्मादिभागाः ] ब्रह्मांशश्चतुरस्रो (वोऽधो) मध्येऽष्टास्रस्तु वैष्णवः । पूजाभागः सुवृत्तः स्यात् पीठोर्ध्वं शङ्करस्य च ॥८३॥ [ नागरलिङ्गानि ] गर्भा(र्थं?र्धं) कन्यसं श्रेष्ठं पञ्च(विं?त्र्यं)शं शिवालयम् । भवन्ति नव लिङ्गानि तयोर्मध्येऽष्ट(भागिके?भाजिते) ॥८४॥ श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि । नागरे नागरस्यो(क्त?क्तं)मा(न?नं)लिङ्गस्य मन्दिरे ॥८५॥ अग्रेऽशभागोऽधिक इति दृश्यते प्रकृते तु ब्रह्माभागः, तस्य सार्धाष्टभागभाजित्वात् । तदग्रेऽशपदं ब्रह्मपरं वा स्यात् मूलपदम् ऊर्ध्वपरं वेति तत्रभवन्तो निर्माणनिपुणा जातिशिल्पिनो निर्दिशन्त्विति । परमीशपदस्य ब्रह्मपरत्वेऽपि तस्य मूलभाक्त्वादाधिक्यमसम्भवमेव । ८३। ब्रह्मादिभागस्य देशं प्रकारञ्चाऽऽह—ब्रह्मांश इति । ब्रह्मांशश्चतुरस्रः समचतुष्कोणः, स च अधो विधेयः, वैष्णवः अष्टास्रः, स तु मध्ये कर्त्तव्यः, शङ्करस्य पूजाभागः सुवृत्तः पीठोर्ध्वञ्च स्यादिति योजना । तदेतदाह शिल्परत्ने— यथोचितातानवितानयुक्तां शिलां यथोक्तक्रमतोऽभिभज्य । मूलं युगाश्रं विदधीत मध्यमष्टाश्रकं वृत्तमयं परञ्च ॥ इति (उ० अ० २, श्लो० ७७) । ८४-८५। सम्प्रति लिङ्गस्य पूर्वोक्तं श्रेष्ठमध्यकनिष्ठत्वादिभेदत्रयमनूद्य नागरादिप्रासादभेदेन लिङ्गमानमाह—गर्भार्धमिति । गर्भार्धं शिवालयं शिवलिङ्गं कन्यसं कनिष्ठम्, पञ्चत्र्यंशं गर्भपञ्चांशस्य त्र्यंशं शिवलिङ्गं ज्येष्ठम् इति पूर्वोक्तानुवादः । प्रस्तुतमाह—भवन्तीति । तयोर्मध्ये ज्येष्ठ- कनिष्ठयोर्मध्ये नवांशीकृतस्य गर्भस्य पञ्चांशे इत्यर्थः, पूर्वं तस्यैव मध्यमत्वाभिधानात् ; अष्टभाजिते अष्टभिर्विभक्ते नव लिङ्गानि भवन्ति ; तानि च श्रेष्ठमध्यकनिष्ठानीति त्रित्रिभेदानि भवन्तीत्यर्थः । निगमयति—नागर इति । नागरे मन्दिरे नागरस्य लिङ्गस्य मानम् इत्युक्तम् । शिल्परत्ने 'नागरे' इत्यत्र 'वेशरे' इति लिखितं विलक्षणैरांशादिभिरयमेव प्रकारोऽभिहितः । तथाच— अभिकृत्यंशके (२६) गर्भे षोडशांशं तदुत्तमम् । त्रयोदशांशमधमं तयोर्मध्येऽष्टभाजिते ॥ नव लिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् । ( उ० अ० २, श्लो० ६४-६६ ) देवता—१५

११४ देवतामूर्तिप्रकरणम् विकारांशे तदायामे भूत(भङ्गानि?वेदाग्नि)विस्तरम् । (नयदं ?जयदं) पौष्टिकं सार्थकामकं नागरे विदुः ॥८६॥ [ द्राविडलिङ्गानि ] गर्भे (त्रिसुप्रभागं ?त्रिःसप्तभागे) तु दशां(श?शो) द्राविडेऽधमः । (त्र्या?त्रयो)दशांश(के?कं) श्रेष्ठं (गर्भे ?मध्ये)ऽष्टांशेन पूर्ववत् ॥८७॥ त्रिःसप्तांशे निजायामे षट्पञ्चचतुरं(शतम् ?शकम् ) । जयदा(यि?दि) विशालं तु पूर्ववद् द्राविडे मतम् ॥ ८८ ॥ इति । काश्यपशिल्पे पुनर्द्वारमानेनेयं कल्पना, परं तत्र नागरादिसंज्ञा नास्ति । तथाच तत्र द्वारमानमभिधाय— अधमोत्तमयोर्मध्ये वसुभागविभाजिते । नवधा सकलोत्तुङ्गं द्वार ( मानं ? मानाद् ) विधीयते ॥ इत्युक्तम् । एतत्तु चित्रम्, सर्वत्रैव मध्यमष्टभिर्विभज्य नव लिङ्गानि विहितानि, परं कथं तथाविधे भागे लिङ्गनवकोत्पत्तिर्भवेदिति शिल्पिन एव कल्पयितुं प्रभवेयुः । ८६। नागरलिङ्गस्य विस्तारक्रमेण नामान्याह—विकारांश इति । तदायासे लिङ्गायामे विकारांशे जयदं पौष्टिकं सार्थकामकञ्च लिङ्गं यथाक्रमं भूतवेदाग्निविस्तरं पञ्चचतुस्त्र्यंशविशालं विदुः । पञ्चांशविस्तृतं जयदम्, चतुरंशविस्तृतं पौष्टिकम्, त्र्यंशविस्तृतं सार्थकामकम् इति निष्कर्षः। शिल्परत्ने ( उ० भा० अ० २, श्लो० ६३ ) पुनः 'सार्वकामिकमि'ति तृतीयं नाम द्राविडे प्रासादे एषां स्थानञ्चोक्तम् । अत्र विकारपदेन षोडश प्रकृतिविकारा उच्यन्ते, काश्यपशिल्पे— अथोदये कलांशे तु पञ्चांशं स्वस्तिकं भवेत् । वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् ॥ ( अ० ४९, श्लो० ९१ ) इति यथोक्तांशस्य कलाशब्देनोल्लेखात् । अत्रापि नाम्नां भेदः पौर्वापर्यविपर्ययश्च द्रष्टव्यौ । ८७ । द्राविडप्रासादे लिङ्गायामविस्तारौ वक्तुमंशविभागमाह—गर्भ इति । द्राविडे प्रासादे त्रिःसप्तभागे एकविंशतिभागे कृते दशांशोऽधमः त्रयोदशांशकं श्रेष्ठं भवति । मध्येऽष्टांशे- नेति पूर्ववत् नागरे इव तयोर्मध्ये अष्टांशेन विभक्ते नवलिङ्गानि भवन्तीत्यर्थः । ८८। सम्प्रति विस्तारमाह—त्रिःसप्तांश इति । निजायाम इति लिङ्गदैर्घ्ये । षट्पञ्च- चतुरंशकं विशालं विस्तारं कुर्यादिति शेषः । जयदादीति क्रमेण तेषामंशानां पूर्ववत् जयदादि- संज्ञा स्यादित्यर्थः ।

षष्ठोऽध्यायः ११५ [ वेशरलिङ्गानि ] वेशरे पञ्चपञ्चांशे गर्भाकारे विमानके । त्रयोदशांशकं हीने श्रेष्ठं कुर्याद् विचक्षणः ॥८६॥ [ लिङ्गप्रासादोचितनक्षत्रानयनम् ] उत्सेधाष्टगुणे सप्तविंशभिर्हरणे ततः । शेषमश्वयुजा(ध्यं?द्यं) तु काश्यपे— लिङ्गोच्चे द्विनंवांशे तु रसभूतयुगांशके । गुणांशे शान्तिकादिः स्याद् द्राविडे च चतुर्विधम् ॥ (अ० ४९, श्लो० ९३) इति द्विनंवांश इति चतुर्विधमिति च प्रकृताद् भिद्येते । ८९। वेशरालिङ्गमाह—वेशर इति । प्रमादबहुलोऽयं पाठः । शिल्परत्ने— पञ्चपञ्चांशके दैर्घ्ये वसुकृप्तषडंशकैः । विस्तारं वेशरे विद्यात् पूर्वध्वज्जयदादिकम् ॥ इति ( उ० अ० २, श्लो० ६६) काश्यपशिल्पे— वेशरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते । अष्ट वा सप्तषट्पञ्चभागैक्यांशं प्रकल्पितम् ॥ (अ० ४९, श्लो० ९४) इति चैकार्थबोधकं पद्यद्वयम् । ९० । प्रसङ्गात् प्रासादस्य लिङ्गस्य च नक्षत्रादीनि वक्तुमादौ नक्षत्रमाह—उत्सेधाष्टगुणे इति । एतानि च शिल्परत्नादौ आयादिरिति नाम्ना व्यपदिश्यन्ते । शुभानाम् एतेषामति- प्राशस्त्यमाह समराङ्गणसूत्रधारे— आयो व्ययश्च योनि(त्वं ? श्च) ताराश्च भवनांशकम् । गृहनामेति चिन्त्यानि करणानि गृहस्य षट् । त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥ करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् ॥ (अ० २६, श्लो० ४९–५१) इति । इह गृहनाम वर्जयित्वाऽन्येषां पञ्चानां लक्षणानि लिखितानि । सम्प्रति व्याख्यायते । कर्तव्यस्य प्रासादस्य लिङ्गस्य वा भाविते उत्सेधे उन्नतिमाने अष्टभिर्गुणिते सप्तविंशत्या हृते च अवशिष्टसंख्यया नक्षत्रं जानीयादिति निष्कर्षः । अश्वयुजाद्य-

११६ देवतामूर्त्तिप्रकरणम् [ तस्कराद्यंशानयनम् ] नक्ष(त्रञ्च?त्रे च) चतुर्गुणे ॥६०॥ नवभिर्हरणे (षष्ठमश्यकं ?शेषमंशकं) तस्क(रं ति ?रादि)कम् । भुक्तिमुक्तिधनं (राज्ञा षडं का ? राजा षण्डञ्चाभयकं) वियत् । तस्करं (विषखण्डन्तु ?वियत् षण्डन्तु) निन्दितश्च सुपाठ(के?कैः) ॥६१॥ मिति अश्वन्यादिनक्षत्रम् । शेषसंख्यया नक्षत्रज्ञानञ्च—यथोक्तगुणहरणाभ्यामेकस्मिन्नवशिष्टे अश्विनी, द्वयोर्भरणी त्रिषु कृत्तिकेति क्रमेण । इयमेव रीतिः काश्यपे । तथाच—

      • अंशमष्टगुणीकृते । सप्तविंशतिहृच्छेषमश्विन्यादिक(कं?)सम्भवेत् ॥ (अ० ५०, श्लो० ६१ ) इति । समराङ्गणसूत्रधारे तु प्रकारान्तरेण नक्षत्रानयनमुपदिष्टम् । तत्र हि सप्तविंशतिर्नक्षत्राणि जन्मसम्पदादिसंज्ञया नवधा विभक्तानि ; अत एव तत्र हरणमपि नवभिः कृतम् । तथाच— गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् । नवभिर्भाजिते तस्मिन् शेषं तारा प्रकीर्त्तिता ॥ ( समराङ्गण० अ० २६, श्लो० ४०-४१ ), एवमेव शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० १३-१४ ) । अयमेव हि प्रकारः साधीयान्, एक- प्रयासेनैव नक्षत्राणां तच्छुभाशुभानवाप्तिगमकत्वात् । ९१। अंशानयनप्रकारमाह—नक्षत्रे चेति । नक्षत्रे नक्षत्रमाने चतुर्गुणे चतुर्भिर्गुणिते नवभिर्हृते विभाजिते च शेषमंशकं भवेत् । तेषां संज्ञामाह—तस्करमिति । ‘युगवृद्ध्या नवे हासे त्वंशकं तस्करादयः’ (अ० ४९, श्लो० १०३) इति काश्यपे यथोक्तावेव गुणहारौ । परमस्ति नाम्नि विप्रतिपत्तिः । तथाच— तस्करं भक्तिशक्तिश्च वनं राजञ्च षण्डकम् । अभयं धनषण्ढञ्च नवांशकमुदाहृतम् ॥ (अ० ५०, श्लो० ६१ ) इति । एवं शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० २७-२८ ) नामभेदो विद्यते । नवता तु प्राचीनैव । समराङ्गणसूत्रधारे पुनर्गुणहारयोर्नाम्नि संख्यायां च विप्रतिपत्तिः । तथाच— व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च । भागं त्रिभिर्हरेत्तत्र यच्छेषं सोऽंशको भवेत् ॥ इन्द्रो यमश्च राजा च त्रयो नामभिरंशकाः । स्वनामतुल्यफलदा विज्ञातव्याह्वयोऽपि च ॥ (अ० २६, श्लो० ३७-४०)

र् ? ि ) र् ते? Wait! Look at the letter after भि: It is ! And it has a virama? Or is it ह्? Wait, could it be काष्टभिह्? Wait, why would anyone write काष्टभिह्? In Sanskrit, काष्टभिः(visarga). In some manuscripts, visarga is written or transliterated, but here it's printed! Wait! Why is there a repha? Look at the repha:)has a repha on top! Wait, why would)have a repha? Could it beकाष्टभिर्? Wait! What if the reading in manuscript was: गुणेऽष्ट(काशभिर् ? काष्टभिर्)ते? Wait, why did you think that letter was ? Look at the letter: is it ? Wait! Could it be र्` and something else? Let's search Google / scholarly texts for this verse: "उत्तुङ्गे वसुनन्दाग्निगुणे" Let's search memory/knowledge base: Text: Silparत्न / Mayamata / Manasara / Tantrasamuccaya / Isanasivagurudevapaddhati

११८ देवतामूर्तिप्रकरणम् [ सूर्यादिवारानयनम् ] तुङ्गं नवगुणं कृत्वा सप्तभिः क्षापयेत्ततः । शेषं सूर्यादि(नारं?वारः) स्यात् क्रूरास्तत्र विवर्जिताः ॥६३॥ काश्यपे—

      • तुङ्गं हस्ताष्टवृद्धिदम् । नाभिस्तु निर्विशेषमायामित्युच्यते बुधैः । इत्येकत्र । ( अ० २६, श्लो० ४-५ ) अत्र द्वितीयार्धे—'नाडिभिस्तूनिते शेषमायमित्युच्यते बुधैरि'ति स्यात् । अन्यत्र च— अनले गुणिते चाष्टहृते योनिर्हृदाहृता । अष्टभिर्वर्धिते भानुहृते त्वायमुदाहृतम् ॥ नवभिर्गुणिते नाडीहृते शेषमृणं भवेत् । (काश्यप० अ० ४९, श्लो० १०२-१०३) इति यथोक्तसंख्यया गुणमभिधाय भानुहृते आयमाह, यत्र प्रकृते अष्टहरणमुक्तं यत्र च प्रकृते भानुहरणमुच्यते, तत्र ऋणे त्वयं नवभिर्हरणमाह, गुणनन्तु प्रकृतवदेव । तदन्यत्र च पूर्वोदाहृतवदेव आययोन्यादिकमभिधाय— नवभिर्गुणिते त्वं (श ? शे) राशिभिर्ह्रासयेत्ततः । शेषं व्ययमिति ख्यातम् * * * । ( काश्यप० अ० ५०, श्लो० ५०-५१ ) इति प्रकृतवदेव द्वादशभिर्हरणेन व्ययानयनं दृश्यते । तदत्र व्ययो धनं वा ऋणं वेति शिल्पिभि- रनुसन्धेयम् । मात्स्येऽपि अष्टाभिर्भाजिते आयव्ययावाह । तथाच— 'व्यासेन गुणिते दैर्घ्यं अष्टाभिर्वै हृते तथा । यच्छेषमा( यतं ? यं तं )विन्द्यात्' इत्यायम- भिधाय—'अष्टाभिर्भाजिते ऋक्षे यः शेषः स व्ययो मतः' ( अ० २५७, श्लो० १५-१६, २१ ) इति व्ययमाह । धनर्णयोर्हेयोपादेयत्वमाह—धनाधिकमिति । धनमधिकं यत्रेति, ऋणं क्षीणं यत्रेति च विग्रहद्वयम् , शेषं सुगमम् । 'आयाधिक्यं व्ययं क्षीणं सम्पदामास्पदं सदे'ति काश्यपे ( अ० ४९, श्लो० १०४ ) । इदमत्र द्रष्टव्यम्—षष्ठभिर्गुणिता तैरेव च भाजिता संख्या विकार- मननुभवन्त्येव स्वस्वरूपेणावतिष्ठते इत्यफलाऽनिष्टफला वा ग्रन्थकृतश्चेत्यवगच्छामः । ९३ । वारानयनमाह—तुङ्गमिति । स्पष्टम् । एवमेव शिल्परत्न(पूर्व० भा० अ० १५, श्लो० ३३ ) काश्यपशिल्पयोः ( अ० २६, श्लो० ३ । अ० ४९, श्लो० १०१ । अ० ५०, श्लो० ६३ ) ।

षष्ठोऽध्यायः ११६ [ तिथ्यानयनम् ] तुङ्गमष्टगुणं कृत्वा तिथिभि(हरणोज्झतः ? र्हरणात्ततः) । शेषश्च तिथयः सम्यग् रिक्तापर्व(विजिता ? विवर्जिताः) ॥६४॥ [ प्रशस्तचिह्नम् ] पद्मं शङ्खं ध्वजं छत्रं खड्ग्(:?)स्वस्तिकचामरे । वज्रं (दगेर्ध्व?दण्डार्ध)चन्द्रौ च(क्रमस्त्याप्यटकः ? चक्रमत्स्यौ घटः) शुभाः ॥ ६५ ॥ सौख्यदं चिह्नमित्या(च?थ)मावर्त्तौ दक्षिणे हि यः । रक्तश्वेतपीतकृष्णैरे(षो?खा) वर्णसुसौख्यदा ॥ ६६ ॥ [ लिङ्गे रेखाकरणम् ] पूजायामे कलांशे तु लिङ्गं चिह्नं दशांशकैः । पीठस्योर्ध्व द्विभागेन रे(षा?खा) कार्या प्रदक्षिणे ॥ ६७ ॥ [ लिङ्गशिरोवर्त्तनम् ] (सत्र?छत्रा)भमष्टमांशे तु सार्ध(त्र्यंशं?द्व्यंशे)(षडङ्गको?षडंशके) । त्रपुषाभं विस्तारार्धे (कुकुटान्नं ? कुक्कुटाण्डं) शिरो मतम् ॥६८॥ विभागे लिङ्गविस्तारे चैकां शेनार्धचन्द्रकम् । सार्धत्र्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृ(तिः?ति) ॥ ६६ ॥ ९५ । लिङ्गे प्रशस्तानि चिह्नान्याह—पद्ममिति । स्पष्टम् । ९६ । रेखामाह—पूजायाम इति । पूजायामे शिवांशे षोडशभिर्विभक्ते दशभिरंशैर्लिङ्गं चिह्नितव्यम् । पीठस्य ऊर्ध्वद्विभागेन प्रदक्षिणे रेखा कार्येत्यन्वयः । द्वितीयार्धं प्रथमार्ध- स्यैवानुवाद इति मन्यामहे । ९८ । सम्प्रति लिङ्गस्य शिरोवर्तनम् अंशवशेन तस्य संज्ञाश्चाऽऽह द्वाभ्याम्—छत्राभमिति । त्रिभागीकृतस्य लिङ्गस्य ऊर्ध्वभागः शिवांश इत्युक्तम्, शिवां अंशं पुनस्त्रिधा विभज्य लब्ध ऊर्ध्वभागो मुखम्, तत्र वर्तनं भवेदिति वस्तुस्थितिः । वर्त्तनमिति वृत्तक्रियामाह, यथा अर्द्धचन्द्राद्याकारः सम्पद्यते । शिरोभागे अष्टमांशे अष्टांशे अष्टभिरंशीकृते इत्यर्थः, सार्द्धद्व्यंशे छत्राभं षडंशे त्रपुषाभं वर्त्तनं भवेत् । त्रपुषाभमिति त्रपुषाप्रसदृशमित्यर्थः, त्रपुषं फलविशेषः यस्य 'शशा' इति ख्यातिर्वङ्गेषु ;

१२० देवतामूर्त्तिप्रकरणम् [ दुष्टलिङ्गलक्षणम् ] ऊर्द्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् । दीर्घं वा सन्धिरे(षा?खा)भिर्युक्तं काकपदा(दिवै?दिकैः)॥१००॥ [ स्फाटिकलिङ्गमानम् ] एकाद्वित्र्यङ्गुला वृद्धिर्हानिरायादिशुद्धये । मात्रादि स्फाटिकं लिङ्गं यावदेकादशाङ्गुलम् ॥१०१॥ इति दारुजानि स्फाटिकानि (च) । [ अथ बाणलिङ्गानि ] [ तत्र लिङ्गोत्पत्तिस्थानानि ] कुरुक्षेत्रे च लिङ्गानि सरस्वत्यां तथा पुनः । वाराणस्यां प्रयागे तु गङ्गायाः सङ्गमेषु च ॥ १०२ ॥ यानि वै नर्मदायाश्च अन्तर्वेदे च सङ्गमे । केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ १०३ ॥ विस्तरार्द्धे कक्कुटाण्डं त्रिभागैकभागे अर्द्धचन्द्रकम् अष्टांशीकृतस्य सार्द्धत्र्यंशेन तुल्यं बुद्धदाकृति शिरः स्यादित्यर्थः । एवं पञ्चधा वर्त्तनं भवेत् । तथाच शिल्परत्ने— छत्राभं त्रपुषाकारं कक्कुटाण्डनिभं तथा । अर्द्धेन्दुसदृशं चाथ बुद्बुदाभन्तु पञ्चमम् ॥ सर्वेषामपि लिङ्गानां शिरसो वर्त्तनक्रमम् । इति । ( उ० अ० २, श्लो० ११६-११७ ) । १०० । सम्प्रति दुष्टलिङ्गान्याह—ऊर्द्ध्वाधोमध्यहीनमिति । ग्रन्थान्तरेऽस्य 'लक्षणोद्धार' इति शिरोनाम दृश्यते । तस्य च वर्जनीयत्वमाह— 'शिरसो वर्त्तनोपेतं लक्षणोद्धारवर्जितम्' इति ( काश्यप० अ० ४९, श्लो० १४ ) । एतच्च स्फाटिकादिलिङ्गविषयमिति सम्भाव्यते, तत्रैवैतेषां दोषाणां दृष्टत्वात् । तथाच शिल्परत्ने रत्नदोषमधिकृत्य— रेखा बिन्दुः कलङ्कश्च काकाङ्घ्रिक्षतधूलयः । तुषारत्रासरन्ध्राणि यत्नादु रत्नेषु वर्जयेत् । इति । ( उ० भा० अ० १, श्लो० ३५-३६ ) ।

षष्ठोऽध्यायः १२१ [ बाणलिङ्गपरीक्षा ] त्रिपञ्च(नारं?वारं) यस्यैव तुलासाम्यं (जनायते?न जायते) तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥ १०४ ॥ [ वर्ज्यबाणलिङ्गानि ] स्थूलं वरञ्च दीर्घञ्च (स्फटिकं ? स्फुटितं) (छिन्न?छिद्र)संयुक्तम् । बिन्दुयुक्तञ्च शूलाग्रं कृष्णञ्च (वि?चि)पिटं तथा ॥ १०५ ॥ (वक्तृ?वक्र)ञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् । वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ १०६ ॥ [ क्वचित् पाषाणस्यापि पूज्यत्वम् ] महानदीसमुद्भूतं सिद्धक्षेत्रादिसम्भवम् । पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सदा ॥ १०७ ॥ [ यथातथावस्थितस्यापि बाणस्य प्राशस्त्यम् ] पुष्पपीठमपीठं वा मन्त्रसंस्कारवर्जितम् । भुक्तिमुक्तिकरं बाणं सर्वप्रासादपीठकम् ॥ १०८ ॥ [ भोगदबाणलक्षणम् ] ऊर्ध्वस्थूलं कृशं चाधो यदा लिङ्गं निवेशयेत् । तदा भोगं विजानीयात् पुत्रपौ(त्रा?त्र)श्च वर्धते ॥ १०६ ॥ १०४ । बाणलिङ्गपरीक्षाम्राह—त्रिपञ्चवारमिति । यस्यैवेत्येवकारो भिन्नक्रमे । यस्य त्रिपञ्चवारं पञ्चदशवारम् एव तुलासाम्यं न जायते प्रतिवारमेव मानं भिद्यते इत्यर्थः, तदा बाणं बाणलिङ्गं समाख्यातं कथितं मुनिभिरिति शेषः ; ‘अमेयः खलु भगवानि’ति भावः । १०७ । महानदीति । रूपमण्डने (अ० ४, श्लो० ७८) ‘ग्रन्थान्तरे’ इत्युपक्रम्यायं श्लोकः पठितः । लिङ्गवदिति बाणवदित्यर्थः, तस्यैव प्रस्तावात् । १०८ । पुष्पपीठमिति । प्राणतोषणीधृतवीरमित्रोदयेऽयं श्लोकः ‘पुष्पपीठ’मित्यत्र ‘तत् सपीठ’मिति, भुक्तिमुक्तिकरमित्यत्र ‘सिद्धिमुक्तिकप्रद’मिति ‘पीठक’मित्यत्र ‘पीठग’मिति च विपरिवर्त्तनेनोपलभ्यते । एवमन्यान्यपि लक्षणानि पौराणिकान्येवेति द्रष्टव्यम् । देवता—१६

१२२ देवतामूर्त्तिप्रकरणम् ऊर्ध्वकृशं यदा लिङ्गं स्थूलं चाधो निवेशयेत् । तदा (भु ? मु)क्तिं विजानीयात् संसा(रस्थिति ? रोच्छित्ति)कारणम् ॥ ११० ॥ [ सर्वावस्थास्वपि बाणस्य पूज्यत्वम् ] ह्रस्वं दीर्घं (कृश?कृशं)स्थूलं षण्डं कुब्जञ्च वामनम् । त्र्य(स्तं?स्र-)पीठं चतुरस्रं स्थूलाग्रं चक्रसंयुतम् ॥ १११ ॥ रे(षा?खा)कीलकसंयुक्तं सुवर्णं च निवर्णकम् । रक्तं कृष्णं तथा श्यामं पीतं शुक्लं च पाण्डुरम् ॥ ११२ ॥ सदोषगुणसंयुक्तं बाणं पूज्यञ्च नित्यशः । बलाल्लक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ११३ ॥ तस्माच्छतगुणं (पुष्पं ?पुण्यं) तत्संस्थापनपूजनात् । बाणलिङ्गं तथा पूज्यं तत्संस्थापनमुत्तमम् ॥ ११४ ॥ [ बाणस्थापनप्रशंसा ] सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् । तत् फलं कोटिगुणितं प्राप्यते लिङ्गस्थापनात् ॥ ११५ ॥ यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् । सर्वागमोदितं पु(ष्पं? ण्यं) कोटिकोटिगुणं भवेत् ॥ ११६ ॥ शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीषु च । नर्मदायाश्च लक्षेण कोटिं च कुरुजाङ्गले ॥ ११७ ॥ कृत्वा स्नानञ्च (पी? पि)ण्डञ्च हुतं दानञ्च भोजनम् । गुणितं कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ११८ ॥ ११० । ऊर्ध्वकृशमिति । पूर्वं 'भुक्तिमुक्तिकरं बाणम्' इत्युक्तम्, तन्न कीदृशं भुक्तिकारं कीदृशं वा मुक्तिकरमित्येतदाह श्लोकद्वयेन, तत्रापि पूर्वश्लोके भुक्तिदलिङ्गलक्षणमुक्तमितीदानीं मुक्तिदलिङ्गलक्षणमाहेत्यवधार्य अर्थवानपि यथाश्रुतः पाठो विपरिवर्त्तित इति ज्ञेयम् ।

षष्ठोऽध्यायः १२३ स्थापि(तं? ते) चैकलिङ्गे तु देवकल्पाभिवन्दिते । विमानकाञ्चनारूढो सुरवायैस्तु वायते ॥ ११९ ॥ भ्रमते सुर(लिङ्गन्तु ? लोके तु)च्छिन्नसंसार(वर्धनं ? बन्धनः) । सर्वसिद्धिकरं चैव सर्वकामफलप्रदम् ॥ १२० ॥ (बाणलिङ्गा तु लिङ्गानामाकर्षणां ?) स्वयम्भुवा । पीठं (प्र? प्रा)सादरूपञ्च यथेष्टं कारयेत् सुधीः ॥ १२१ ॥ [ एकास्त्रादिबाणमाहात्म्यम् ] एका(स्व? स्त्र)बाणमारभ्य यावच्चतुर्दशा(श्रयम्? स्त्रकम्) । पूजया परया भक्त्या सर्वसौख्यप्रदं नृणाम् ॥ १२२ ॥ [ शिवतीर्थोदकलक्षणम् ] धातवे शतहस्तेषु बाणे पञ्चशतेषु च । स्वयम्भूस्सहस्रहस्ते शिवतीर्थोदकं स्मृतम् ॥ १२३ ॥ [ शिवतीर्थोदकस्य पुण्यजनकत्वम् ] स्नाने कृते महत् पुण्यं लिङ्गादिषु दिशं प्रति । [ शिवतीर्थोदकलङ्घने प्रत्यवायः ] लङ्घिते च महत् पापं शिवस्नानोदके नृणाम् ॥ १२४ ॥ [ प्रदक्षिणनियमः ] एकां चण्ड्यां (वरे ? रवौ) स(प्त ? त) तिस्रो दद्याद् विनायके । चतस्रो विष्णुदेवस्य शिवस्या(र्धं?र्धां) प्रदक्षि(णा?णाम्) ॥१२५॥ [ जैनदेवालये विशेषः ] जैनदेवाग्रसंस्थाने स्तोत्रमन्त्रार्चनादिकम् । नैव (पृष्टिः?दृष्टिः) प्रदातव्या (सन्मुखं?) द्वारलङ्घनम् ॥१२६॥

: १२४ देवतामूर्त्तिप्रकरणम् [ प्रणालदिङ्नियमः ] पूर्वापरे यदा द्वारं प्रणालं चोत्तरे शुभम् । प्रशस्तं सर्वदेवानामिति शास्त्रार्थनिश्चयः ॥ १२७ ॥ [ पिण्डिकाया लक्षणम् ] लिङ्गायामपृथुकॢप्तं पिण्डिकानान्तु लक्षणम् । (आ?तत्वा)दौ ब्रह्मविष्णोश्च पिण्डिकाना(मुपध्य?)विदुः । [ तस्याः स्वजातिकर्त्तव्यत्वम् ] जात्यैकया विधातव्यं नेष्टमन्योन्यसंकरम् ॥ १२८ ॥ [ तत्र मतान्तरम् ] आहुः शैलेष्टमेकेचित् पीठं पक्केष्टकाम(दम्?यम्) । [ पीठानां सन्धिस्थानम् ] उपर्युपरि पीठानां सन्धिरङ्गावसानके ॥ १२९ ॥ [ नालमध्ये कर्णसन्धेर्निषेधः ] नालस्य मध्यमध्ये च कर्णसन्धिं न सन्धयेत् । [ प्रणालभागकथनम् ] प्रणालन्तु त्रिभागेन तत्तुल्यं चा(ग्रा?ग्रम)र्धकम् ॥ १३० ॥ त्रिधा विभक्तमग्रे तु मध्ये सजलमा(ग ? र्ग)तः । कन्दे तु पादमेकैकं मध्यवंशोद्गवाक्रु(ती ? ति) ॥ १३१ ॥ [ मेखला ] पृथूपीठ(स्तुनां?गुणां)शेन मे(ष?ख)ला श्रवणाकृतिः । [ खातविधानम् ] मेखला (च?) त्रिभागेन खातं कुर्यात्तथा परम् ॥ १३२ ॥ १२७ । यस्य देवालयस्य पूर्वस्यामपरस्यां वा दिशि द्वारं वर्त्तते तत्र उत्तरस्यां दिशि प्रणालः कर्त्तव्यः। प्रणालो जलनिःसरणमार्गः। १३२ । इदानीं पीठिकामाह—मेखलेति। पञ्चश्लोकीयं क्वचिद् विकृतपाठा क्वचिदन्त- र्विच्छिन्नेति व्याख्यानायोग्या।

षष्ठोऽध्यायः १२५ (याम्योदरतत् ?) संपादमग्रे स्यात् सार्धभागिकम् । कूर्मपृष्ठोन्नताकारं दर्पणो(द्ववमस्तकम् ? दरसन्निभम् ) ॥१३३॥ [ पीठम् ] मेखलामध्यकर्त्तव्या नवपीठन्तु कामदम् । भागैकं भूगतं कार्यं त्रिभागं (कर्त्तु?कण्ठ)पट्टिका ॥१३४॥ भा(गो?गा)र्धं मुखपट्टञ्च (स्कन्धसार्धत्रिभागोन्नतम् ?स्कन्धं सार्धत्रिभागतः) । स्कन्धश्च पट्टिकाद्व(यं न्द्रं) भागार्थं चान्तरपल्लिका ॥१३५॥ कणकं सार्धद्वयं भागै × × × कञ्चिन्निका मता । द्विभागं चान्तरपट्टं (क?च) (पोताविद्विसार्धका?) ॥१३६॥ (अर्धयं च मन्नासपट्टि?)कर्त्तव्यं विधिपूर्वकम् । अर्धे स्कन्धपट्टिकाख्या त्रिभागं स्कन्धशोभनम् ॥१३

१२६ देवतामूर्तिप्रकरणम् (९)अर्धचन्द्रा (१०)त्रिकोणा च विज्ञेया दश पीठिकाः । [ पीठिकालक्षणम् ] चतुरस्रा स्थण्डिला स्यात् संयुता मेख(ला?लै)कया ॥१४२॥ चतुरस्रा यदा वेदी सर्वकामफलप्रदा । [ इति स्थण्डिला(१) ] कर्तव्या मण्डलाकारा मेखलाभिरलङ्कृता । मण्डला सा तु विज्ञेया गणानां सिद्धिहेतवे ॥१४३॥ [ इति मण्डला(५) ] पूर्णचन्द्र (वि?नि)भाकारा मध्यन्यस्तद्विमेखला । विज्ञेया पूर्णचन्द्रा सा रुद्राणीशतसंप्रिया ॥१४४॥ [ इति पूर्णचन्द्रा(६) ] षडस्रा च भवेद्वज्रा मेखलात्रयभूषिता । [ इति वज्रा(७) ] षोडशास्रा भवेत् पद्मा किञ्चिच्च(स्या?स्यान्) मृणालवत् ॥१४५॥ [ इति पद्मा ८) ] लग्नज्यधनु(षा?रा)काराऽर्धचन्द्रा चैव सा भवेत् । [ इत्यर्धचन्द्रा(९) ] त्र्यस्रा त्रिकोणा विज्ञेया सा शक्त्या सदृशा भवेत् ॥१४६॥ [ इति त्रिकोणा(१०) ] [ आसां फलम् ] स्थण्डिला पीठिका यत्र धनधान्यार्थदायिनी । महिषीगोप्रदा वापी यक्षी सर्वार्थदायिनी ॥१४७॥ १४६। लग्नज्येति ज्यायुक्तधनुराकृतिरित्यर्थः ; एवं ह्यर्द्धचन्द्राकृतिर्भवेत् । १४७। इदानीं पीठिकानां नामभेदेन फलान्याह—स्थण्डिलेति । अत्राऽऽद्यायाः स्थण्डिलायाः परं वापीयक्षीवैरीणां तिसृणां पीठिकानां लक्षणं नोपलक्ष्यते । फलकथनप्रस्तावे पुनर्वापीयक्ष्योर्नामनी दृश्येते, वैरी तु वैरायमाणेव दृष्टिपथं परिहृतवती ।

षष्ठोऽध्यायः १२७ मण्डला कीर्त्तिबहुला पूर्णचन्द्रा तु शान्तिदा । वज्रा शत्रुविनाशाय पद्मा सौभाग्यदायिनी । अर्धचन्द्रा सुखाय स्यात्त्रिकोणा शत्रुनाशिनी ॥१४८॥ [ पीठिकानां स्वजातिकर्त्तव्यता ] शैलजे शैलजा योज्या दारुजे दारुजा शुभा । पार्थिवे पार्थि(वा?वी) कार्या लोहजे लोहजोत्तमा । रत्नजे धातुजा शस्ता रत्नजाता विशेषतः ॥१४९॥ [ प्रणालव्यवस्था ] मूलादग्रं प्रणाल(स्या?स्य) प्रमाणा इधिकं शुभम् । जल(मग्राविभाषेण ?मार्गास्त्रिभागेन) चाग्रतस्तु सुशोभनम् ॥१५०॥ [ मुखलिङ्गम् ] सम्मुखं (चैव?चैक)वक्त्रं स्यात् लिव(क्त?क्त्वे) पृष्ठतो नहि । पश्चिमास्यं स्थितं शुक्लं कुङ्कुमाभं तथोत्तरम् । याम्यं कृष्णकरालञ्च प्राच्यं दीप्ताग्निसन्निभम् ॥१५१॥ [ मुखनामानि ] सद्यो वामं तथाऽघोरं पुरुषञ्च चतुर्थकम् । पञ्चमञ्च तथेशानं योगिनामप्यगोचरम् ॥१५२॥ इति पीठिकामुखलिङ्गाधिकारः । वामे गणाधिपत्यञ्च दक्षिणे पार्वती स्मृता । नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ १५३ ॥ १५१। मुखलिङ्गमाह—सम्मुखमिति । एतत्पूर्वार्द्धत्वेन रूपमण्डने— 'मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रं चतुर्मुखम्' ( अ० ४, श्लो० १३ )

१२८ देवतामूर्तिप्रकरणम् मातृभिर्मातृस्थानं कारयेद्दक्षिणां दिशम् । सौम्ये शान्तिग्रहं कुर्या(द?द्य)क्षाधीशञ्च पश्चिमे ॥ १५४ ॥ इत्येकद्वारशिवायतनम् । वामे ज्ञानगृहं कुर्याद् (यशो?)द्वारञ्च दक्षिणे । मध्ये रुद्रः प्रकर्त्त(व्यं?व्यो) मातृस्थानञ्च दक्षिणे ॥१५५॥ (वाम?वामे) देवी महालक्ष्मीरुमा वै भैरवस्तथा । ब्रह्मा विष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ १५६ ॥ चन्द्रादित्यौ स्थितौ कर्णे आग्नेय्यां स्कन्दमेव च । ईशाने विघ्नराजं तु धूम्रमीशानगोचरे ॥ १५७ ॥ इति चतुर्मुखशिवायतनम् । मातुलिङ्गञ्च नागेन्द्र(?) डमरुं चाक्षसूत्रकम् । नन्दी मुकुटशोभाढ्यः सर्वाभरणभूषितः ॥ १५८ ॥ खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् । दंष्ट्राकरालवदनं महाकालन्तु दक्षिणे ॥१५९॥ इति पूर्वप्रतीहारौ । तर्जनी च त्रिशूलञ्च डमरुं गजमेव च । (हरेश्र्व?हेरम्बो) वामभागे स्याद् भृङ्गी दक्षिणतः शृणु ॥१६०॥ गजं डमरुखट्वाङ्गं तर्जनीवामहस्तकः । उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः शुभः ॥१६१॥ इति दक्षिणप्रतीहारौ । त्रिशूलं डमरुश्चैव खट्वाङ्गश्च कपालकम् । डमरुञ्च तथा दण्डं बीजपूरं तथैव हि ॥१६२॥ इत्यर्द्धं प्राप्यते, युक्तञ्चैतत्; इह लेखकप्रमादात् त्रुटितम् । सम्मुखमिति चतुर्वक्त्रे एकं वक्त्रं सम्मुखं स्यात्, त्रिवक्त्रे लिङ्गे पृष्ठतः पृष्ठदेशे वक्त्रं न हि कारयेदिति शेषः ।

षष्ठोऽध्यायः १२६ द्वारे पश्चिमके कार्यः पाण्डुरो वामदक्षिणे ॥ १६३ ॥ इति पश्चिमप्रतीहारौ । मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकम् । सितश्चैवोत्तरे द्वारे वामे चैव व्यवस्थितः ॥ १६४ ॥ पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् । असि(नो?तो) दक्षिणे भागे उत्तरे द्वार एव च ॥१६५॥ [ इत्युत्तरप्रतीहारौ ] [ वाहनविधानम् ] वाहनं यस्य देवस्य तत्तस्याग्रे प्रकल्पयेत् । एक-द्वि-त्रि-च (तत् ?तुः)पञ्च वा षट्-सप्तपदान्तरे ॥१६६॥ वाहनं मूर्त्तिलिङ्गञ्च मूलप्रासादमानतः । वृषभस्य (विभावन्ते?)लिङ्गे दृष्टां नियोजयेत् । सूर्यस्याग्रे भवेत् सोमस्तनसूत्रसमोद(यं?यः) ॥१६७॥ १६२ । अनेन वक्ष्यमाणयोः पश्चिमप्रतीहारयोरायुधानि प्रतिपादितानीति तत्त्वम् । सर्वेषामेव प्रतीहाराणां चतुर्भुजत्वमनुमीयते प्रहरणचातुर्विध्यात्, इह तु द्वितीयार्धे त्रीण्येव प्रहरणानि प्राप्यन्ते । रूपमण्डने तु—'कपालं डमरुं दण्डं बीजपूरं तथा दधत्' ( अ० ४, श्लो० १०४) इति यथापूर्वं चत्वार्यैवाऽऽयुधानि लभ्यन्ते । १६३ । प्रतिद्वारं द्वौ द्वौ प्रतीहाराविति प्रकृतम्, इह त्वेक एव लभ्यते 'पाण्डुर' इति । रूपमण्डने—'दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा' ( अ० ४, श्लो० १०६ ) इति द्वावेव प्रतीहारौ निर्दिष्टौ । अत्र ग्रन्थकृत्प्रमादादेकः प्रतीहारो लुप्तः किं वा पाण्डुरनामानौ द्वावेव प्रतीहाराविति चिन्तनीयम् । एवञ्च 'पाण्डुरा'विति द्विवचनमेव न्याय्यमुत्पश्यामः । अत्र 'वामदक्षिण' इति युगपदुभयपार्श्वयोरुल्लेखात् पाण्डर इत्येकेनैव नाम्ना निर्दिष्टौ द्वौ प्रतीहाराविति च नायौक्तिकं वक्तुमर्हामः । अपि च पूर्वश्लोके द्विधैवाऽऽयुधानि प्रतिपादितानीत्यपि प्रतीहार- द्वैधं निर्बाधमुपन्यस्यति । १६४-१६५ । उत्तरद्वारप्रतीहारावाह—सितश्चेति । उत्तरे द्वारे वामे सितः दक्षिणे असित इति वर्तुलॊऽर्थः । तदयं संक्षेपः—पूर्वद्वारोभयपार्श्वयोर्नन्दिमहाकालौ, दक्षिणद्वारपार्श्वयोर्हेरम्ब- भृङ्गणौ, पश्चिमद्वारपार्श्वयोः पाण्डुरौ, उत्तरद्वारपार्श्वयोश्च सितासिताविति । देवता—१७

१३० देवतामूर्त्तिकरणम् [ वाहनदृष्टिकथनम् ] पादं जानु कटिं यावन् (मर्जौ?मूर्त्तौ)वाहनदृक् शुभा । स्था(नं?न) नाशं करोत्यूर्ध्वाऽधोदृष्टिश्च प्रजाक्षयम् ॥१६८॥ (धात?धाता) दिवं प्रति(हातः?गतः) कलनेऽस्य रूपं (तत्यादयुग्ममगमदहाशो हरिहरश्च?) । यातौ न पारममरे(ष्वपी?ष्वपि) नंदनी(मा?य-) मव्य(ता?क्त)रूपममराधिपतेश्च पातु ॥ १६६ ॥ इति श्रीक्षेत्रा × × × × विरचिते वास्तुशास्त्रे रूपावतारे रुद्रमूर्त्तिलिङ्गाधिकारो नाम षष्ठमो(?)ऽध्यायः । १६८ । व्याख्यातमिदं प्राक् (पृ० ८८, श्लो० ६६) । १६९ । अन्ते अध्यायान्तर्मुख्यतः प्रतिपाद्यसारं महादेवं स्तौति-धातेति । द्वितीयपादे 'तस्मादयुग्ममगमद् बहुशो हरिश्चे'ति कथञ्चित् स्यात् । तथाचायमर्थः-अस्य रूपं कलने रूपं कलयितुमित्यर्थः, धाता दिवं प्रतिगतः, हरिश्च तस्माद् धातुर्युग्मं पृथगित्यर्थः, बहून् लोकानगमत्, उभावपि यस्य पारमन्तं न यातौ तस्याव्यक्तं रूपं पातु । 'तवैश्वर्यं यत्ताद् यदुपरि विरिञ्चिर्हरिरधः परिच्छेत्तुं यातौ' इत्यादि स्मृतिरत्र मूलमनुसन्धेयम् ।