भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

५४६ समराङ्गणसूत्रधारे रु(भ)द्राद् भ्रमोऽयं न पुनः कर्णनिर्गमधारिणाम् । रुचकस्येवं कर्तव्यः कर्णदेशात् परिक्रमः ॥ २९ ॥ शालानुसारतो भद्रे विस्तरैः कन्दकाद् बहिः । कर्तव्यो निर्गमस्तत्र बुद्धैः पदचतुष्टयम् ॥ ३० ॥ उदकान्तरविस्तारो भागेनार्धेन वा क्वचित् । प्रजाङ्गस्य विधातव्यं क्षोभणं५ च पदद्वयम् ॥ ३१ ॥ प्रासादस्य च विस्तारं दत्त्वाग्रे सलिलान्तरम् । गण्डौ तत्सूत्रगौ कार्यौ भ्रमाद् द्विपदनिर्गतौ६ ॥ ३२ ॥ प्रासादानां तु विस्तृत्या स्युरेकद्वित्रिनिघ्नया(?) । कर्णाद् विनिस्सृतौ गण्डौ ज्येष्ठमध्यकनीयसा(म्) ॥ ३३ ॥ (भवग्रे सुण्डिकाः ?) कार्याः कर्णशालाविनिर्गमः(ताः) । मालांसोपानसंयुक्ताः प्रतीहारसमाकुलाः ॥ ३४ ॥ प्रतोली चाग्रतः कार्या सपटो + र्गला दृढा । ब्रूमोऽथ जगतीपीठं तत् कुर्यादेकहस्तके ॥ ३५ ॥ प्रासादे विस्तृतेस्तुल्यसमुत्सेधे१० विचक्षणः । द्विहस्तके तु पादोनं त्र्यंशहीनं त्रिहस्तकेम् ॥ ३६ ॥ चतुर्हस्ते (तु) कर्तव्ये सार्धहस्तद्वयोच्छ्रितम् । चतुरिष्टा१३ त्र्यंया१४ चं + + + द्वादशहस्तकम् (?) ॥ ३७ ॥ कनीयोमध्यमज्येष्ठानुदयान् कल्पयेत् क्रमात् । अर्धं वा कर्णशालायाः पादोनं१५ वाथ तत्समम् ॥ ३८ ॥ अनेन (च) प्रकारेण ज्येष्ठमध्यमयोरपि । प्रासादयोर्जगत्युच्चा कर्णप्रासादमानतः ॥ ३९ ॥ पीठस्य यः समुत्सेधो१६ + + + तं विभाजयेत् । भागेन खुरकं कुर्याद् भागेनैकेन वर्त्मना(?) ॥ ४० ॥ १ द. स्यै । २ द. स्त । ३ द. स्य । ४ द. पा । ५ द. णां । ६ द. मौ । ७ द. तदग्रे सुंडिगा । ८ द. माः । ९ द. ता । १० द. ध । ११ द. के । १२ द. तिः । १३ द. न्व । १४ द. त्र्याव ं । १५ द. नवार्थम् । १६ द. धो ।

जगत्त्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः । ५४७ कुम्भस्य खुरका(कं)भागं द्विभागं कुम्भकं तथा । कलशं भागिकोत्सेधं तथैवान्तरपत्रकम् ॥ ४१ ॥ वरण्डीं भागिकीं कुर्यात् तथा पट्टं च भागिकम् । जगत्याः खुरकाद् भागं ( १प्रविशोकोद्गकः सुरः ? ) ॥ ४२ ॥ पट्टो२ भागेन सार्धेन प्रतिष्ठां३जगतीखुरान् । (खुरकारकुम्भकाकिश्चित्कुम्भका क्षणकस्तथा ?) ॥ ४३ ॥ (कणकादन्तरपत्र४ ?) कपोतालीं ५तथैव च । पट्टिकानां प्रवेशांश्च नासिकावर्तनास्तथा ॥ ४४ ॥ निम्नोनतप्रवेशांश्च विदधीत मनोहरान् ।

  • थिकाभिर्विचित्राभिः कूटैश्चानेकशेखरैः ॥ ४५ ॥ सुविभक्ता विधातव्याः शालानां कन्दकामू(स्त)ले । कर्माण्यतिविचित्राणि स्थानस्थानोचितानि तु७ ॥ ४६ ॥ कुर्यात् पीठेषु शोभार्थं प्रासादानां विचक्षणः । यथा सिंहासनं राज्ञां८ शोभते मणिदीप्तिभिः ॥ ४७ ॥ तथा प्रासादराजस्य पीठं कर्मभिरुत्तमैः । पट्टस्योर्ध्वं विधातव्यमुत्कृष्टं राजसेनकम् ॥ ४८ ॥ पुष्पितैः कमलैर्युक्तं शोभितं भारपुत्रकैः । तदर्धं वेदिका देया नानापत्रसमाकुला ॥ ४९ ॥ (रूपं संघटकोपेता ततश्चासमघट्टकः । स्तम्भिकाभिरनेकाभिर्धारयेत् तं समन्वितः ? ) ॥ ५० ॥ तस्योपरि विधातव्यं (करण्ड्यासनसमुत्तमम्९ ? ) । अन्तरं कर्णशालानां तलपादार्धपट्टयोः ॥ ५१ ॥ राजसेनयुतां वेदीं तत् त्रिभागेन कारयेत् । वेदिकार्धं त्रिभागं वा तले स्याद् राजसेनकम् ॥ ५२ ॥ १ द. प्रविशेत्कौभकः सुरः । २ द. दो । ३ द. विष्टो । ४ द. दान्तर । ५ द. ततोऽपि च । ६ द. नौ । ७ द. ति । ८ द. ज्ञः । ९ द. क्ष्या । १० द. तावेदि ।

२४८ समराङ्गणसूत्रधारे कूटारं + त्रिभागेन वेदेरूर्ध्वं मनोहरम् । करमात्रसमुत्सेधं कर्तव्यं मत्तवारणम् ॥ ५३॥ सुखलीलाशनार्थं तत् सप्रवेशं सनिर्गमम् । (गन्द्राग्रे सुकाग्रे ?) च प्रतोल्‍यग्रे तथैव च । तोरणं त्रिविधं ज्ञेयं कनीयोमध्यमोत्तमम् ॥ ५४॥ इत्थं जगत्यायतनस्य सम्यक् प्रासादपीठस्य च सम्प्रदिष्टम् । विधानमेतज्जगतीषु (नार्त- मन्यथाभिदधोः सह लक्षणानाम् ?) ॥ ५५॥ इति श्रीमदाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः ॥ अथ जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । वसुधा वसुधारा ( च) वहन्ती च तथापरे (रा) । श्रीधरा भद्रिका³ चैव एकभद्रा द्विभद्रिका ॥ १॥ त्रिभद्रिका भद्रमाला वैमानी भ्रमरावली । स्वस्तिका हरमाला च कुलशीला महीधरी ॥ २॥ मन्दारमालिकानाङ्गलेखाथोत्सवमालिका । ⁴नागारामा मारभव्या तथा च मकरध्वजा ॥ ३॥ नन्द्यावर्ता (नं ?) च भूपाला पारिजातकमञ्जरी । चूडामणिप्रभा चैव तथा श्रवणमञ्जरी ॥ ४॥ विश्वरूपादिकमला तथा त्रैलोक्यसुन्दरी । गन्धर्वबालिका चान्या विद्याधरकुमारिका ॥ ५॥ सुभद्रा च समाख्याता तथान्या सिंहपञ्जरा । ( ⁶वज्रपङ्कुरवाद्या: ? ) गन्धर्वनगरी तथा ॥ ६॥ १ द. मा । २ द. ध्मः । ३ द. की । ४ द. नागागानामारभ्यर्च्य तथा च मकरध्वज । ५ द. नां । ६ द. वज्रपङ्कुरवाद्यः गंधर्व° ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । २४९ तथामरावती ज्ञेया रत्नचूंमा च नामतः । त्रिदशेन्द्रसभा चैव तथान्या देवयन्त्रिका ॥ ७ ॥ चत्वारिंशद्द्वि( दि )तीयं स्यादेकोना नामसंख्यया । (यैमलाम्बरधरा नेत्रा दद्युडाः खण्डिला सिता ?) ॥ ८ ॥ अथातः कथ्यते तासां प्रविभागो यथा यथा । जगतीनां क्रमेणैव शालानां च यथोदितः ॥ ९ ॥ चतुरश्रीकृते क्षेत्रे (षडेते स ?)विभाजिते । समं वा सार्धयुक्ते वा ⁶गुणेऽथ सुखायतम्( ? ) ॥ १० ॥ मण्डपेनोज्झिते कुर्याज्जगतीमनुसारतः । द्वौ भागौ मध्यदेशे स्यात् प्रासादो भागिको भ्रमः ॥ ११ ॥ (कर्णदृशां समुज्य ?) पार्श्वयोरुभयोः पुरः । श्रीखण्डिका विधातव्याः प्रासादमं + + मिमाम् (?) ॥ १२ ॥ मत्तवारणसंयुक्ता प्रतोत्यादिविभूषिता । प्रथमे( मा ) च समाख्याता जगती वसुधाभिधा ॥ १३ ॥ वसुधा वसुधारा स्यात् समायुक्ताग्रशालया । निर्गमः पुरतः कार्यः प्रासादस्य प्रमाणतः ॥ १४ ॥

  • विस्तारस्तथा कार्यस्तं चतुर्धा विभाजयेत् । भागिका भ्रमणी कार्या शेषशाला द्विभागिका ॥ १५ ॥ शुण्डिका चापि पूर्वोक्तमानेनैवायता⁷ भवेत् । वसुधा च पुनः कर्णशालाभ्यां राजसिंहिका ॥ १६ ॥ प्रासादार्धेन ते कार्ये( र्ये ) कर्णयोरुभयोरपि । स्वमानार्धेन च तयोर्भ्रमणीं परिकल्पयेत् ॥ १७ ॥ मूलप्रासादविस्तारा कर्तव्या शुण्डिका पुरा । शाला स्याद् वसुधा⁸ राजहंसाः( ? ) पुरो यदा ॥ १८ ॥ १ द. चूडा । २ द. ममा । ३ द. न्य । ४ द. द्विदि । ५ मु. पाठस्तु 'यमलाम्बुधरा नेत्रा दोर्दण्डा खण्डला सिता' इति स्यात् । ६ द. द्विगुणे । ७ द. शुंडिका स विं° । ८ द. तो । ९ द. रा च ।

२९० समराङ्गणसूत्रधारे श्रीधरी सा तदा तस्याः ( सुरोयचन्द्र ? ) पूर्ववत् । यदा तु हंसिकास्थाने शाले¹ स्तोऽपरकर्णयोः ॥ १९ ॥ तद्रूपे तत्प्रमाणे च तदा सा भद्रिका भवेत् । चतुरश्रीकृते क्षेत्रे षोडशांशविभाजिते ॥ २० ॥ पूर्वोक्तक्रमसम्पन्ने यथाकामं मुखाग्रते । मण्डपायामसंयोगाद् यथाभागं विभाजिते ॥ २१ ॥ मध्ये देवालयः कार्यश्चतुर्वर्गपदान्वितः । बहिर्द्विपदविस्तारो भ्रमस्तस्य समन्ततः ॥ २२ ॥ कर्णे कर्णे च कर्तव्या द्विपदायामविस्तृता । चतुर्दिशं कर्णशाला या (पदि ?)भ्रमणान्विता ॥ २३ ॥ पदद्वितयविस्तारौ त्रिपदायामसंयुँता । पदिका च भ्रमर्णा⁴(?) कार्या भद्रशालाश्च सुन्दराः ॥ २४ ॥ वार्यन्तराणि परितः कुर्यान्मध्येपु शालयोः । पदमेकं प्रविष्टानि तदर्धं विस्तृतानि च ॥ २५ ॥ शालायाः पृष्ठभद्रे स्यादेकभद्रद्विर्भंद्रिका⁵(?) । (कृपोकृताभ्यां त्रिभद्राणि पृष्ठकुक्षिषु ?) ॥ २६ ॥ शालाभिः स्याँ(श्रा)थ⁷ तिसृभिर्जगती भद्रमालिनी । एकभद्रादिचतुष्टयम् ॥ चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥ २७ ॥ षड्वर्गलक्षणोपेतो मध्ये कार्यः सुरालयः । देवालर्य(स्य)परितस्त्रिपदः स्यात् परिभ्रमः ॥ २८ ॥ नतः शालाविभक्तिश्च कर्तव्या प्रोक्तलक्षणा । पञ्चभागायता मध्ये(भूचतुविस्तृता ?) पदैः ॥ २९ ॥ भद्रशालाश्च कर्तव्यास्तन्मध्ये भागिकक्रमः । भद्रस्य पार्श्वद्वितये द्वित(प)दायामविस्तृतम् ॥ ३० ॥ १ द. ल । २ द. रन्नि । ३ द. विसंयुता । ४ द. णाः । ५ द. भागिका । ६ द. कुयोः कृताभ्यां शालाभ्यां त्रिभद्रा पृष्ठिकुक्षिषु । ७ द. स्यात्तत्त सू° । ८ द. यं । ९ द. चतुर्भिर्र्वे ।

शालाद्वयं विधातव्यं द्वादशी शत + भ्रमम् (?) । भागमेकं प्रवेशस्तु तयोः (कर्ण ?) द्वयोर्भवेत् ॥ ३१ ॥ तिस्रस्तिस्रो भवत्येवं शालादिक्(क्षु)ति(सृ)ष्वपि । षडेवोदकमार्गाश्च कार्या भागार्धनिस्स्रुताः ॥ ३२ ॥ भागमेकं प्रविष्टाश्च भवेयुर्दिक्त्रयेऽपि ते । कर्णौ च पुरतः कार्यों भागद्वितयसम्मितौ ॥ ३३ ॥ सशुण्डिका(?) विमानोऽयं सुरासुरनरार्चिता(तः) । शुण्डिकाग्रे यदेतस्यां शालाप्रासादसंमुखम् ॥ ३४ ॥ संस्तुता किन्नरैः सिद्धैस्तदा स्याद् अमरावलिः । वक्त्रशालाविहीना तु पार्श्वशालाद्वयान्विता ॥ ३५ ॥ तद्रूपा तत्प्रमाणा या स्वस्तिकी सा प्रकीर्तिता । प्रासादाभिमुखी शाला स्वस्तिक्यामेव चेद् भवेत् ॥ ३६ ॥ तदानीं हंसमालति विख्याता जगती भुवि । मुख्य(ख)स्य पार्श्वद्वितये भागं वार्यन्तरं यदा ॥ ३७॥ कृत्वा (प्रासादैर्यदग्रे ?) भद्रमानेन निर्गमम् । प्रासादसंमितं सूत्रं शालास्तु गलभूषिताः ॥ ३८ ॥ शुण्डिका तदवस्थे च मुखे स्याच्छालया विना । कुलशैला तदा ज्ञेया हंसमालागमांश्रया ॥ ३९ ॥ सदा महेश्वरस्येष्टा स्कन्दस्य तु विशेषतः । अस्या एव यदा शाला पुरोभद्रे विधीयते ॥ ४० ॥ तदा महीधरी प्रोक्ता महीधरमनःप्रिया । चतुरश्रीकृते क्षेत्रे साष्टाविंशतिभाजिते ॥ ४१ ॥ चतुःषष्टिपदं मध्ये कुर्याद् देवालयं बुधः । चतुष्पदो भ्रमः कार्यों देवागारस्य सर्वतः ॥ ४२ ॥

१ द. द्वादशांशकृतभ्रमं । २ द. मु । ३ द. मु । ४ द. द्वि । ५ द. मुद्रित पुस्तके 'हरमाले'ति लक्ष्ये पश्यते; द. इसमालेति । ६ द. °येऽग्रे । ७ द. त । ८ द. °स्थैव । ९ मुद्रित पाठस्तु 'कुलशीले 'ति पूर्वं पठितः। द. कुलशैला । १० द. में । ११ द. री ।

५५२ समराङ्गणसूत्रधारे भ्रमसूत्रस्य कर्णस्था द्विपदायतविस्तृताः । शालाश्चतस्त(तस्रः) कर्तव्या भागिकभ्रमवेष्टिताः ॥ ४३ ॥ नासां पार्श्वेषु सन्त्यज्य भ्रमाद् भागचतुष्टयम् । (शालां कं +)प्रकुर्वीत + भागायतविस्तृतम् ॥ ४४ ॥ एकभागिकविस्तारः कर्णः (स्यात्) पार्श्वशालयोः । मध्ये भागे जलाध्वा२ स्याद् विहाय त्रिदशं बहिः ॥ ४५ ॥ द्विभागविस्तृतां तां च कुर्याद् भागत्रयायताम् (?) । अन्तरेण जलाध्वा३ स्याद् भद्रपार्श्वजला(शा)लयोः ॥ ४६ ॥ स च भागार्धमायामा(त्) प्रविष्टस्तावदेव च । कृत्वा तिसृषु दिक्ष्वेवं सुण्डिकाकन्दमध्यतः ॥ ४७ ॥ प्रासादार्धसमायामौ सम्यक् तुण्डौ निवेशयेत् । तयोरपि च शाले द्वे भ्रमक्रमविभूषिते ॥ ४८ ॥ कार्ये मन्दारशा(मा)ला स्यादेवं हरमनःप्रिया । सुण्डिकायां यदि तस्याः शाला सम्पद्यते तदा ॥ ४९ ॥ अनङ्गलेखा भवति जगती पार्वतीप्रिया । यत्रास्मिन्नेव विन्यासे मुखशाले विना कृते ॥ ५० ॥ शुण्डिकागण्ड६ ++ न्यौ शाला सोपानमालिकाः । मुखशालान्विता सैव यदा नागोङ्गना तदा ॥ ५१ ॥ चतुरश्रीकृते क्षेत्रे द्वात्रिंशद्भाग(वि?)भाजिते । चतुःषष्टिपदं मध्ये कर्तव्यं सुरमन्दिरम् ॥ ५२ ॥ कार्यस्तस्य भ्रमः सम्यक् समन्ताच्च चतुष्पदः । भ्रमन्ति(न्ती) द्विपदायामे शाले(तु) भ्रमसंयुतौ(ते) ॥ ५३ ॥ स्वंप्रमाणाद् विधातव्ये मध्यगे भद्रकर्णयोः । स्युः षोडशपदः(दाः) कॅन्दास्तेषु शालाश्चतुष्पदाः ॥ ५४ ॥ १ मु. पु. ‘शालाक्रन्दम्’ इति स्यात् । द. शाला कं । २ द. द्वा । ३ द. धा । ४ द. य । ५ द. दि । ६ द. ण्डमंड । ७ मु. पुस्तके ‘उत्सवमालिके’ति निर्देशो दृश्यते । ८ द. काः । ९ मुद्रित पुस्तके ‘नागरामे’ति पूर्वत्र पठिता । १० द. सु । ११ द. स्कंधा ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५१३ चतुर्ष्वपि च कर्णेषु प्रविष्टा भ्रमजाः पदम् । कर्तव्यं द्विपदायामं भद्रशालायुगं तथा ॥ ५५ ॥ विस्तारात् प्र + पादोनमन्योन्याभिमुखं भवेत् । आयता(द् ) द्व्यंशविस्तारा पदेनैकेन वेष्टिता ॥ ५६ ॥ भद्रशाला विधातव्या सार्धत्रिपदनिर्गमा । सौम्यानिलीवारुणीषु नैरृतीया(म्ययो )रपि ॥ ५७ ॥ शालास्तिस्रः प्रतिदिश( मशालाग्रेय्यायैदिना सुरविद्विषः ? ) । अस्या एव मुखे शाला यदि तन्मकरध्वजा ॥ ५८ ॥ अमराणां कृतानन्दा कृत्वैनां मोक्षमाप्नुयात् । मुखशास्त्रां परित्यज्य यद्यैकायकर्णयोः ॥ ५९ ॥ शाला प्रदीयते सा स्यान्नन्द्यावर्त( यत्यहर्पतेः ? ) । विकर्णकन्धोराग्रे(?) यदास्यान पृष्ठवंशगा ॥ ६० ॥ द्विभागायामविस्तारा शाला भवति शोभना । चतुर्ष्वसंस्थिता(?) शाला शालायाः संमुखी भवेत् ॥ ६१ ॥ ताम्रमूला तदा ज्ञेयाः ब्रह्मविष्णुहरि (र) प्रिया । यदास्यान पृष्ठवंशस्था ( हस्तायाम्योत्तरात्तथा ॥ ६२ ॥ शाले क्रियेते ? ) तदा ज्ञेया पारिजातकमञ्जरी । ( वारुणीचतुष्टःस्थिता ? ) शालायाः सम्मुखी भवेत् ॥ ६३ ॥ (ताम्रयाम्यासौम्यास ? ) शालाः स्युर्यदि वंशगाः । प्रिया स्यात् सर्वदेवानां तदा चूडा(मणिः प्रभोः ? ) ॥ ६४ ॥ चतुरश्रीकृते क्षेत्रे चतुरश्रः समन्ततः । दशांशः (स्यादुभायान्ता ? ) मध्ये प्रासादनायकः ॥ ६५ ॥ १ द. च । २ द. माः । ३ द. मे । ४ द. इतः पूर्वं '......द्वयं द्वयं ॥ निर्दिष्टा मा बंधैषा विंशत्यंशक्रमंडिकौ । कर्तव्या ब्राह्मणः शंभोर्यदि' इत्ययं अधिकः पाठः । ५ द. जाः । ६ द. लं । ७ मु. पु. 'ती त्वहर्पतेः' इति स्यात् । ८ द. र्णः । ९ द. धा । १० द. ष्का । ११ द. स । १२ मु. 'भूपाले'ति लक्ष्यनिर्देशे पश्यते । द. ताम्रचू° । १३ द. याः । १४ द. पदस्या । १५ द. म्योन्तरे तथा । १६ द. य । १७ द. लाभा । १८ मु. 'मणि प्रभा' इति पाठ्यं भाति । द. णिं । १९ मु. इह क्षेत्रविभाजकांशदर्शनान किञ्चित्त्रमिव प्रतिभाति । वा. ७०

५९४ समराङ्गणसूत्रधारे +++ ¹पुरतश्चैवं पार्श्वयोरुभयोरपि । भ्रमोऽस्तस्या विधातव्योः +++ पञ्चभिः पदैः ॥ ६६ ॥ कर्णकन्दाश्च कर्तव्या भ्रमसूत्राद् बहिः स्थिताः । द्विभागायामविस्ताराश्चतुःशालोपशोभिताः ॥ ६७ ॥ ⁴अमुनैव क्रमेण स्युर्भद्रकन्दाः पदाधिकाः । मूलप्रासादमालायां मालात्रितयधारिणाम्( ? ) ॥ ६८ ॥ कर्णे कर्णे तु याः शालास्ता द्वयंशायामविस्तृताः । द्विभागिकजलाधारा( स्तथा ) भागपरिश्रमाः ॥ ६९ ॥ पदप्र( वि )ष्टाम्बुपदा भ्रमपद्धतिसंयुताः । तुल्याश्चतुर्षु कर्णेषु तुल्या भद्रत्रयेऽपि च ॥ ७० ॥ भागद्वितयविस्तीर्णा भागत्रितयमायताः । ( सृग ? ) भ्रमाश्च कर्तव्या भ्रमशालादिशान्तयोः ॥ ७१ ॥ शेषं च पूर्ववत् कार्यं शुण्डिकागण्डमण्डनम् । स्यात् कर्णमञ्जरीत्येषा त्रिलोक्यानन्ददायिनी ॥ ७२ ॥ कर्णमञ्जरिकाभद्रे विभक्ते दशाभिः पदैः । द्विभागायामविस्तारं तुर्यां शालां निवेशयेत् ॥ ७३ ॥ उद ( र्क ) क्षणपूर्वाणि मुखान्यासां प्रकल्पयेत् । परिक्रमस्त्रि( स्तु ) सर्वासाम् भागैकः सर्वतो भवेत् ॥ ७४ ॥ द्वौ भागौ भद्रकर्णाभ्यां संक्षेपो( भ्योभयपार्श्वयो¹⁰? ) । भागिकोभयविस्तारा भद्रेऽन्या कर्णिका भवेत् ॥ ७५ ॥ पदैः षोडशभिर्युक्त( क्ता ) विचित्रभ्रमविभ्रमं( मा ) । ¹²भद्रास्या( च ) चतुष्की स्यात् पुरतः संवृतान्तरैः( रा ) ) ॥ ७६ ॥ श्रीमण्डपं प्रकुर्वीत प्रभूतस्तम्भमण्डितम् । ( दितामेतानेन परिक्षिप्तं छाद्यकाले हसंयुतै¹⁴? ) ॥ ७७ ॥ १ द. पुरतः पृष्टत । २ द. म । ३ द. व्यः । ४ द. अमुनैव......विस्तृताः इति यावत् पाठः नास्ति । ५ द. त्रि । ६ द. यनं । ७ द. चैर्द । ८ द. ग्द । ९ द. भ्यो । १० द. योः । ११ द. मुक्तं । १२ द. भद्राशा चतुष्क स्यात्पुरतः । १३ द. रं । १४ द. क्तं ।

(एश्वास्याद् विश्वरूपे च कस्यायास्तुपुरस्करा ?) चतुष्पिका(भि)स्तिसृभिर्भवेत् त्रैलोक्यसुन्दरी ॥ ७८ ॥ चतुरश्रीकृते क्षेत्रे भक्ते द्वादशभिः पदैः । त्रिभागायामविस्तारा मध्ये शाला चतुर्मुखी ॥ ७९ ॥ सर्वतः सार्धभागाश्च(च) कर्तव्या पदपद्धतिः । तस्याः प्रागुदक्१ ++++शालाचतुष्टयम् ॥ ८० ॥ द्विभागायामविस्तारं विधातव्यं सुशोभनम् । भागिकालिन्दकेनैतत् स्यात् प्राकूसे + न वेष्टितम् ॥ ८१ ॥ कक्ष्यास्ताभिर्द्विभागाभिः कर्णिकाभिरलङ्कृतम् । एवै(त)त् कर्णमञ्जर्याः कर्णे ++विधीयते(?) ॥ ८२ ॥ जगती स्याच्छ्वस्येष्टा३ तदा गन्धर्वमा(वा)लिका । इयवे(मे)वापरे भागे चतुर्थ्यां शालयान्वितां(ता) ॥ ८३ ॥ विज्ञेया जगती नाम्ना विद्याधरकुमारिका । अपरस्यां चतुर्थी(र्थीं) तु हित्वा शालां (विनीयते?) ॥ ८४ ॥ ते द्वे + (कुचो?) कुर्वीत सुभद्रां त्रिदशप्रियाम् । (चतसृषु भद्रेषु प्रत्येकं पञ्च कर्णिगा६ ॥ ८५॥ शालाः स्युर्यदिश्चन्द्राष्टा ?) तदा स्यात् सिंहपञ्जरा७ । चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ ८६ ॥ त्रिभागायामविस्तीर्णं मध्ये देवकुलं भवेत् । भागेनैकेन कर्तव्यो भ्रमो दिक्षु तिसृष्वथ ॥ ८७ ॥ प्रासादायामविस्तीर्णे तस्याग्रे मुखमण्डपः । भद्रस्य पार्श्वद्वितये बाह्यतो भद्रविस्तृतं(म्) ॥ ८८ ॥ शालायुग्मं विधातव्यं त्रिपदायामविस्तृतिः९ । भागिकभद्रमा(भ्रम)णोपेतं (यदिकाच्च पयास्वित ?) ॥ ८९ ॥

१ द. क्षु । २ द. गि । ३ द. ष्टां । ४ द. सा । ५ द. च । ६ द. र्ण । ७ द. राः । ८ द. ते । ९ द. तिः ।

५५६ समराङ्गणसूत्रधारे द्विभागायामविस्तारे भागिकभ्रमणान्विते । शाले¹ द्वे पुरतः कार्ये² ³साम्मुख्याच्च परस्परम् ॥ ९० ॥ (पञ्चस्वंलं ?) भवेदेवं पृष्ठभद्रं यदा शुभम् । याम्योत्तरे चतुःशाले (भद्रद्वयपञ्चकञ्चरा ?) ॥ ९१ ॥ पृष्ठभद्रं यदैतस्या +++न्मध्यशालया । (कक्षाभद्रे तथा स्यार्युते ?) गन्धर्वनगरी तदा ॥ ९२ ॥ पश्चै त्रीण्येव भद्राणि पञ्चशालान्वितानि च । (शिशुतत् ?) षट्त्रिंशत्तमा ज्ञेया सा जगत्यमरावती ॥ ९३ ॥ शुण्डिकाग्रे यदैतस्याः शाला सम्पद्यते क्वचित् । तदा स्याद् ⁶दन्तचूडेति जगती जगतः प्रिया ॥ ९४ ॥ (इयनि⁷ ?) शुण्डिकाशाला गण्डशालाद्वयान्विताः⁸ । त्रिदशेन्द्रसभा ज्ञेया ससुण्डी देवयैन्त्रिकौ ॥ ९५ ॥ (इति चतुरस्त्राणां कीर्त्य॑तेषायतः कासानंकामा ?) । सप्तभागायते क्षेत्रे भागपञ्चकविस्तृते ॥ ९६ ॥ द्विभागायतविस्तारे स्तः शाले वामदक्षिणे । चतुष्किर्कैकभागेन तयोरेवाग्रतो भवेत् ॥ ९७ ॥ भ्रमश्च भागिको मध्ये समन्ताच्च विधीयते । प्रतोत्या भूषिता खण्डशुण्डिकाभिरलङ्कृता ॥ ९८ ॥ मत्तवारणशोभाढ्या (यैमालेखा ?) प्रकीर्तिता । यदा स्यात् पृष्ठतः कन्दो भागत्रितयविस्तृतः ॥ ९९ ॥ भागत्रितयनिष्क्रामश्चतुर्धा भाजितः पुनः । द्विभागायामविस्तारा शाला भागद्वयं भ्रमः ॥ १०० ॥ १ द. ला । २ द. र्यो । ३ द. संमुख्यौ च । ४ द. युगते ? । ५ द. द । ६ मु० 'रत्नचूमा' इति पूर्वं पठितम् । ७ द. निः । ८ द. ताः । ९ द. ग । १० द. काः । ११ द. इतः पूर्वं ' चतुरस्त्राः चत्वारि संदियं सम्यगेकोना परिकीर्तिताः । शालीनां ।' इत्ययं अधिकः पाठः । १२ द. र्त्यं । १३ द. न् कामान् । १४ मु. पुस्तके 'यमलेया' इति स्यान् ; द. यमलैवो ।

जगतोलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५५७ तदा पयोधरा नेत्रा शालाभ्यामग्रपृष्ठयोः । (नेत्रार्थाश्चेतरशालास्यातां तु काया¹ ॥ १०१ ॥ पौरस्त्ययोरुभयोः सान्मू²त्कन्दो भागनिर्गतः³ ? ) । भागमन्तः प्रविष्टश्च विभाज्यः सोऽपि पूर्ववत् ॥ १०२ ॥ (शाल्योः स्यांतमोमानभ्रमयोरपि पूर्ववत् । पार्श्वयोर्भ्रमणं ⁴भागौ द्वे⁵ च चेन्मूलशालायाः ॥ १०३ ॥ शेषं तु पूर्ववत् सर्वदोर्दण्डा प्रासादाः प्रकीर्तिताः ? ) । दोर्दण्डयो(ण्डाया)स्तु पार्श्वेऽपि शालासुश्लिष्टकर्णयोः ॥ १०४ ॥ राक्षस्यानिलयोः शाले कुर्यादाखण्डला भवेत् । अखण्डोलायास्तु यदा पश्चाच्छाला विधीयते ॥ १०५ ॥ (पयो यं सरयोनि इव वैच्छिदेति ? ) जगती भवेत् । (शिवायं वारुणी यद्वा¹¹ शालात्रयविभूषिता ॥ १०६ ॥ शुण्डिकारा¹²लैय मचेन्माहेन्द्री चंपका तदा । ¹³कौकैणेषु यमेलायासाद्यदा शालाचतुष्टयं¹⁴ ॥ १०७॥ भद्रत्रयो¹⁵ऽपि तिस्रस्ताः पूर्वभद्रममालकम् । ये कर्णं¹⁶ व + कन्दाः स्युः सार्द्ध्यंशविनिर्गतैः¹⁷ ? ) ॥ १०८ ॥ चतुर्भिरिस्तेषु भक्तेषु शाला भागद्वयं भवेत् । भागं भागं भ्रमण्यः स्युः कर्णशाला इमा बहिः ॥ १०९ ॥ (त्रिनिष्क्रान्ता सुविस्तीर्णा भद्रकन्दास्थिते बहिः । चतुर्भि॑¹⁸ष्येषुतैः शाला स्यु॑¹⁹रार्थो भ्रमस्तथा ॥ ११० ॥ पदार्धसंमितः कुष्ठौ जलमार्गो विधीयते । पृष्ठसाधोसिकास्तस्या द्वै²⁰ कुलामोदिकाष्टमं²¹ ॥ १११ ॥ १ द. यश्चेतरः शालास्या । २ द. कयोः । ३ द. स्त । ४ द. मः । ५ द. भा । ६ द. द्वौ । ७ द. श्चिन् । ८ द. पृ । ९ द. ण्ड । १० द. त । ११ द. द्धच्छा । १२ द. ˚लेयेमं । १३ द. कोणेषु यमलायाः सायदाशा˚ । १४ द. ये । १५ द. ये च । १६ द. र्णे । १७ द. ताः । १८ द. तै˚ । १९ द. स्युर्द्देनद्वैश्च˚ । २० द. द्वे । २१ द. मी ।

५५८ समराङ्गणसूत्रधारे भागार्धयलमाला +++ द्वितयशालिना । पृष्ठभद्रेण जगतीतिलकाले³ केचिस्तुता ? ) ॥ ११२ ॥ एतस्यां² शुण्डिकायां स्याच्छाला चेन्मुखभूषणम् । असौ + पल्लवा नाव( म ) जगती जायते तदा ॥ ११३ ॥ तिलका गण्डकण्डेषु( ? ) शाला( ले ) द्वे भ( व )तो यदा । ( तेदा सिद्धार्थसंमुखां³ ? ) तदा विद्याधरी भवेत् ॥ ११४ ॥ त्रिविस्तृतं द्विनिष्क्रान्तं पृष्ठशालातलं यदि । विद्याधर्याः पृष्ठभद्रे तदा यक्षं विनिर्दिशेत् ॥ ११५ ॥ षड्भागविस्तृते क्षेत्रे दशभागकृतायते । द्विभागायामविस्तारं कुर्याच्छालाँत्रयं बुधः५ ॥ ११६ ॥ तदग्रे तत्समं⁶ कुर्यान्मण्ड( पा अधिवाधिकात् ? ) । यथाकामं प्रकुर्वीत कर्मशोभाविवभूतये ॥ ११७ ॥ ⁸++ भागं भ्रमं कुर्यात् तासां पार्श्वचतुष्टये । ( विशेषकरणांयंच शालानां मध्यमैरपि ? ) ॥ ११८ ॥ मत्तवारणसंयुक्ताः सुण्डिकागण्डमण्डिताः । इयं त्रिकूटा जगती ख्याता॑ ( तृपुष्पूर्या ? ) ॥ ११९ ॥ त्रिकूटा पूर्ववंशस्था त्रिभागायामविस्तृता॑ । ( विदध्यात् सवमां शालां प्राग्वत् स्याच्चित्रकूटिका ? ) ॥ १२० ॥ यथा पृष्ठे तथाग्रेऽपि यदि शाला विधीयते । तदा सैरनिकूटेति विज्ञेया जगती बुधैः ॥ १२१ ॥ ( युक्ता प्राणौस्य लभ्यामग्रशालाविवर्जिता ) । उपमेवाजॊत्तमा ? ) सा जगती विश्रुता भुवि ॥ १२२ ॥ नैरृतानलवाय्वीशकर्णप्रासादकैर्युता । ( त्रिकूटैर्भवेन्नन्दै विभक्तषडला यथा ॥ १२३ ॥ १ द. लोकविश्रुता । २ द. स्याः । ३ द. खा । ४ द. ल । ५ द. घेः । ६ द. मा । ७ द. भां । ८ द. भागं । ९ द. क । १० द. ताः । ११ द. तं । १२ द. सारं । १३ द. ण ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५५९ चित्रकूट क्रमायत्नां¹ द्विभजनं पूर्विविकूटवद् विचक्षणः । त्रिकूटायामतो रूपे सिद्धिद्वेयायामविस्तृतम् ? ) ॥ १२४ ॥ कर्णे कर्णे कृतं कन्दं चतुर्धा प्रविभाजयेत् । भागद्वयेन शाला स्याद् भागेन भ्रमणं तथा ॥ १२५ ॥ (मूलतार्थविस्तारं भवेत्तच्चेह³ मानतः । याम्योत्तरे चतुर्भागविस्तार⁴ मागं निर्गताम् ॥ १२६ ॥ +++++++ भद्रं भागिकैद्वयान्वितम् ? ) । ⁶शेषं तु भ्रमणं तत्र मध्यपार्श्वेषु कारयेत् ॥ १२७ ॥ एवमग्रेऽपि शाले द्वे द्वारस्योभयपार्श्वयोः । कर्तव्ये भागनिष्क्रान्ते भागिकायामविस्तृती ॥ १२८ ॥ पृष्ठभद्रं च कर्तव्यं सार्धांशद्वयविस्तृतम् । द्विभागनिर्गमं ⁷युक्तं शालया सार्धभागया ॥ १२९ ॥ याम्योत्तरेण चास्यैव कार्यं शालाद्वयं ततः । ( प्रमाणे पसन्नकार्ये भागे प्रवेशनम् ? ) ॥ १३० ॥ शेषो भ्रमः स्याच्छालानां सप्तानां मध्यगस्ततः । स्याच्छैवी (श्रयणी ?) त्वेषा सर्वामरगणप्रिया ॥ १३१ ॥ अस्या एव मुखे शाला यदा सञ्जायते तदा । त्रिविक्रमेति⁸ विख्याता जगती जायते शुभा ॥ १३२ ॥ यदा⁹ सार्धविनिष्क्रान्ते सार्धांशद्वयविस्तृते । पार्श्वभद्रद्वये शाले भवेतां भागविस्तृते ॥ १३३ ॥ ++++++ सार्धभागिकं(क)भ्रमणान्विते । ( ¹⁰लिप्यते चापि मा शाला ? ) क्रमायाता तदा भवेत् ॥ १३४ ॥ शालायाः शुण्डिकाग्रे तु त्रिपथा सैव जायते । ( ¹¹चतुर्यातो प्रोक्ता ? ) कथ्यन्ते वृत्तजातयः ॥ १३५ ॥ १ द. र्नर्या । २ द. द्वेध्या । ३ द. भवेत्तच्चेह । ४ द. रं । ५ द. कं । ६ द. शीर्यं । ७ द. व्य । ८ द. ण । ९ द. यदा सार्धा सति क्रांते । १० द. लु । ११ मु. ‘चतुरश्रोयताः प्रोक्ताः’ इति स्यात् ; द. र्य ।

५६० समराङ्गणसूत्रधारं चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । मध्ये देवगृहं वृत्तं 'सार्धांशायामविस्तृति ॥ १३६ ॥ भ्रमयेज्जगतीवृत्तं (समगां ?) भागिकं ततः । पूर्वोक्तविधिना कार्यं पार्श्वतो मत्तवारणम् ॥ १३७ ॥ गोपुरद्वारशोभाढ्या जगती वलया भवेत् । वलयापृष्ठतः कन्दं मूलशालासमायनैम् ॥ १३८ ॥ पूर्वोक्तविधिना भक्तां शालां कुर्यात् तदर्धतः । कलशेयं समाख्याता जगती कलशाकृतिः ॥ १३९ ॥ कर्णस्थं द्विपदायामं कर्णशालाचतुष्टयम् । चतुरश्रं भवेद् यत्र (शाताम्र्यै + ?) विधीयते ॥ १४० ॥ सप्तभागायते क्षेत्रे चतुरश्रे समन्ततः । भागांस्त्रीन् वर्जयेदग्रे चतुरः(पृष्ठ्यन्तरश्रितान् ?) ॥ १४१ ॥ सार्धांस्त्रीन् पार्श्वयोर्भागांस्त्यक्त्वा (गर्भततोकयेत् ?) । द्विभागायामविस्तारं वृत्तं स्याद् देवमन्दिरम् ॥ १४२ ॥ भागमेकं भ्रमस्तस्य विधातव्यः समन्ततः । भ्रमणयाः पृष्ठतः कन्दो भागायामविभूषितः ॥ १४३ ॥ तस्यार्धेन भवेच्छाला तदर्धेन परिक्रमः । गर्भाद् भागद्वयस्यान्त ईशानानलयोर्दिशोः ॥ १४४ ॥ द्विभागौ भवतः कन्दावर्धभागप्रवेशितौ । पृष्ठशालोर्ध्वगे तिर्यक्सूत्रे(ण ?) दत्ते भ्रमान्तिके ॥ १४५ ॥ कर्णिकाद्वितयं कार्यं राक्षसानिलयोर्दिशोः' । (व्यय ?)शालां च कुर्वीत पृष्ठशालासमां ततः ॥ १४६ ॥ प्राक् (च ?) पश्चात् कन्दगर्भस्था(स्थ)सूत्रद्वितैययोगतः । कुर्वीत कर्णिका(कां) तीक्ष्णा(क्ष्णां)पार्श्वयोरुभयोरपि ॥ १४७॥ १ द. स्यार्द्धिशायामनिष्टृतिः । २ द. व्य । ३ द. र्ति । ४ मु. 'सा कर्णेत्य' इति स्यात् । ५ द. ˚यद्दर्गे । ६ मु. पुस्तके 'पृष्ठतश्च तान्' इति स्यात् । ७ द. ˚त्स्व । ८ मु. पुस्तके 'गर्भं ततोऽ- ङ्कयेत्' इति स्यात् । ९. ˚त्त˚ । ९ द. रा । १० द. शः । ११ द. त्रि ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६१ ( शेषा भ ? ) पूर्ववत् सर्वा शुण्डिकादिक्रिया भवेत् । ( यदागभी१ ? ) करवीरेयमीशादित्रिदशप्रिया ॥ १५८ ॥ एतस्या एव पृष्ठस्था२ यदा सन्त्यष( ष्ट ) कर्णिको३( काः )। वामशाले विधीयेते नलिनीति तदा भवेत् ॥ १५९ ॥ ( दत्तंशस्य सालि४ख्यात् तद्यौ दृशभिः पदैः ? ) । सूत्राणि पातयेत् तस्य ततो दिक्षु विदिक्षु च ॥ १६० ॥ प्रासादभ्रमणस्यान्ते द्विपदायामव( वि )स्तृती( न् ) । कुर्वीताष्टसु संम्पातेष्वष्टौ कन्दान् समन्ततः ॥ १६१ ॥ ( विधाय तां चतुर्भक्तां कुर्याद् भ्रमांस्तथा ? ) । अन्तरेण च कन्दानां कर्तव्यं कर्णिकाष्टकम् ॥ १६२ ॥ देशात् सार्धं यदा सूत्रे( ? ) यथा संपत्स्यते मिथः । पार्श्वद्वयात् कर्णिकानां संस्थानं स्यात् तथाविधम् ॥ १६३ ॥ भक्त्वैवं सर्वभद्रानि त्रिपदोऽन्तः सुरालयः । पार्श्वभ्रमो व्यर्धपादो( ? ) दशधा भाजिते भवेत् ॥ १६४ ॥ कन्दाश्च द्विपदाः कार्या बहिर्दिक्षु विदिक्षु च । अन्योन्याभिमुखास्तेषु शालाः कार्या यथोदिताः ॥ १६५ ॥ ( शंक्तियस्ता समीक्षते ? ) विष्णोरप्रतिमौजसः । कार्येयं तस्य ( तान्थेस्युः ? ) ( पुंडरीकविनामतः ? ) ॥ १६६ ॥ एतस्याः कर्णिकास्थाने यदा वृत्तं प्रकल्प्यते१३। तदानीमातपत्रं स्यात् कर्तव्या ब्रह्मणश्च सा ॥ १६७ ॥ कृत्वा वृत्तायतं क्षेत्रं विभजेद् दशभिः पदैः । तस्य मध्ये विधातव्यं देवागारं पदैस्त्रिभिः ॥ १६८ ॥ १ द. र्भा । २ द. स्थे । ३ द. के । ४ द. स्य स्यात् । ५ द. संतापे । ६ मुद्रित प्रतौ 'विधाय तांश्चतुर्भक्तान् कुर्याद् दिक्षु भ्रमांस्तथा' इति स्यात् । ७ द. तांश्चतुर्भक्ताः । ८ द. ग्रा° । ९ द. संपन्नसो मिथः । १० द. शक्तयस्ता समाख्यपेत् रष्टोर प्र° । ११ द. नान्येभ्य । १२ मुद्रित पुस्तके 'केति नामतः' इति स्यात् । १३ द. प्रकल्पयेत् । वा. ७१

५६२ समराङ्गणसूत्रधारे तस्य पार्श्वेषु कर्तव्यो¹ भ्रमः सार्ध(द्वि)भागिकैः³ । द्विभागं बाह्यवृत्तं स्यात् तत्र कुर्यादिमां क्रियाम् ॥ १५९ ॥ भागैर्द्वादशभिस्तच्च तुल्यमानैर्विभाजयेत् । एकैकं च पुनर्भार्ग चतुर्धा तेषु भाजयेत् ॥ १६० ॥ द्विभागायामविस्तारा शाला मध्ये विधीयते । भागिकश्चतुरश्रंश्च दिर्छा(?)लान्(त्रि)तये भ्रमः ॥ १६१ ॥ वामदक्षिणतः शाले (ताँ ?) ये भवतः शुभे । ते वृत्ते संविधातव्ये संमुखे च परस्परम् ॥ १६२ ॥ (शाला तु खुमार्गस्याच्छालाईभागार्वविस्तृतः ?) । ⁹कल्प्यस्तेनैव मानेन (सचावा?) भ्रमणं भवेत् ॥ १६३ ॥ जगत्यैषा समाख्याता चक्रवालेति नामतः । दिवाकराय कर्तव्या सग्रहार्याथवेन्दवे ॥ १६४ ॥ (समक्षवायभद्रायामात्रियुक्तायं वा पुन?) । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ १६५ ॥ गर्भात् कोणगसूत्रेण सर्वतो वृत्तमालिखेत् । बहिखिपदविस्तारं कन्दं कुर्याच्चतुष्पदम् ॥ १६६ ॥ शालायां(लां) च द्विपदायामां विस्तारात् सार्धभागिकाँम् । शेषं तु भद्रशालायाः समन्ताद् भ्रमणं भवेत् ॥ १६७ ॥ भद्रस्योभयतो वृत्ते द्वि¹³भागायतविस्तृते । शाले च वृत्तयोरन्तर्भागिकायामविस्तृती ॥ १६८ ॥ याम्यसौम्यापरास्वेवं दिक्षु भद्रत्रयं भवेत् । सार्धमायामविस्तारास्त(त्त)दधर्भमणान्विताः ॥ १६९ ॥ शाला विदिक्षु कर्तव्याः शोभनाश्चतसृष्वपि । भद्रमध्ये स्थितां शालां हित्वा प्राच्याँ(तु सा) भवेत् ॥ १७० ॥ १ द. व्यं । २ द. मं । ३ कं । ४ द. ग । ५ द. ग्र । ६ द. च्छा । ७ मुद्रित पुस्तके 'तासां' इति स्यात् । ८ द. शालातुरिखमार्गस्याच्छालाई भा° । ९ द. क्षम्य । १० द. यथो वंदने । ११ द. गि । १२ द. क । १३ द. गोयत्त । १४ द. म्य । १५ द. च्य ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६३ सार्धंमायामविस्तारास्त(त्त)दर्धभ्रमणान्विता । सनक्षत्राय सोमाय कर्तव्या पुष्टिहेतवे ॥ १७१ ॥ चतुरश्रीकृते क्षेत्रे दशभागविभाजिते । पञ्चभागायतां मध्ये शालां वृत्तां प्रकल्पयेत् ॥ १७२ ॥ सार्धभागद्वय(स्त?)मिता देवागारस्य बाह्यतः । (१भ्र्मण संविधातव्य ?) कर्णशालाश्च कर्णगाः ॥ १७३ ॥ कर्णमानं३ बहिर्वृत्तं भ्रमयित्वासान्दं(समन्त)तः । भद्रोपभद्रकर्णेषु वृत्ताः शालाः प्रकल्पयेत् ॥ १७४ ॥ पदद्वयसमायामा(ः) पदत्रितयविस्तृतौ(ः) । भागिका(क)भ्रमणोपेता(ः) शालाः कुर्वीत भद्रजाः ॥ १७५ ॥ द्वे भद्रात् पार्श्वयोः शाले द्वे च प्रतिरथाश्रये । भागिकायामविस्तारा(रे) कुर्यादर्धपरिक्रमे ॥ १७६ ॥ बौ(बा)हल्यायामतः सार्धभागा(ः?) शालार्धकर्णगा । तासां तदर्धमानेन विधातव्यः परिक्रमः ॥ १७७॥ प्रविष्टौ तु पदार्धेन भद्रान् प्रतिरथावुभौ । इत्येषा जगती प्रोक्ता मानतश्चन्द्रमण्डला७ ॥ १७८॥ अथ ८वृत्ता++ ९ब्रूमो जगतीः षड् यथाक्रमम् । पञ्चभागायताः क्षेत्रा विस्तरेण चतुष्पदाः( ?) ॥ १७९ ॥ विद्ध्यादायतं वृत्तं (चमस्यां ११भवभागिकः ?) । मध्ये स्यात्(त्रिं१२पदास्तामा सं१३द्विपदविस्तृताः ?) ॥ १८०॥ मत्तवारणसंयुक्ता य(प्र)तोल्यालङ्कृता शुभा । सोपानशुण्डिकाप्रान्तं ++ गण्डितमण्डिता१४ ॥ १८१ ॥ १ द. भाग । २ द. भ्रमणी संविधातव्यः क॰; मुद्रित पुस्तके ‘भ्रमणाः संविधातव्याः’ इति स्यात् । ३ द. नाद्व । ४ द. दं ततः । ५ द. तः । ६ द. श्व कर्णगाः । ७ द. लाः । ८ मु. पु. ‘वृत्तायताः’ इति स्यात् । ९ द. ब्रगो । १० द. ॰ध्यायितं । ११ द. त । १२ मु. पु. ‘त्रिंपदायामा सार्धद्विपदविस्तृता’ इति स्यात् । १३ द. सा । १४ द. का ।

५६४ समराङ्गणसूत्रधारे उक्तेयं मातुलिङ्गीति जगत्यमरवल्लभा । अस्या एव यदा पृष्ठे द्विभागायामविस्तृतिः ॥ १८२ ॥ शाला पूर्वक्रमेण स्यात् तदा ज्ञेया घटीति सा । तद्रूपे ( तद्यतालालं ? ) द्वे शाले वामदक्षिणे ॥ १८३ ॥ ( यदि पश्चिमशाला च १तत्रेस्यायमती जगती तदा ? ) । घटीकर्णेषु सर्वेषु द्विभागायामविस्तृती ( ताः ) ॥ १८४ ॥ यदि स्युर्भ्रमसंयुक्ता ( ः ) शाला ( ः ) प्राग्वद् विभाजिता ( ः ) । ( कुरुक्षेत्रेर्धायंतरिक्षे द्वे च पृष्ठे वार्तन्तदूर्य ३? ) ॥ १८५ ॥ कालिङ्गीयं भवेदेवं ( पार्श्वयो र्नयुर्लैमदात्रेपु ४? ) । ५पुस्यांसु ( एतस्यां तु ) यदा शाला शुण्डिकाननसंत्रि( स्थि )ता ॥ वृत्तायतविनिर्माणा जगती स्याष्ट( त् ) ++++। ६एता वृत्तायताः । ब्रूमोऽथाष्टाश्रिसंस्थान( ना ) जगतीः शुभलक्षणाः ॥ १८७ ॥ चतुरश्रीकृतं क्षेत्रं सपादैर्दशभिर्भजेत् । परित्यजेत् ततः ७सूत्रं ८कर्णे कर्णे पदत्रयम् ॥ १८८ ॥ सपादांश्चतुरो भागान् मध्यभागेऽवशेषयेत् । ९संसिध्यते( ति ) च साष्टाश्रि तस्यार्धे स्यात् सुरालयः ॥ १८९ ॥ अष्टाश्रिमध्यभागस्थः + शेषं १०भ्रमणं भवेत् । प्रासादश्च ( च )तुर्द्वारश्च( च ? )तुर्भिर्मण्डपैर्युताः( तः ) ॥ १९० ॥ ( प्रासादसाक्रसूत्र ? ) मुखलिङ्गं निवेशयेत् । मूलकन्दार्धतः ( ११केन्दा क्रमादिक्षु १३वै ? ) ॥ १९१ ॥ तुल्यप्रमाणकांनष्टौ१४ चतुर्भागविभाजिता( तान् ) । भ्रमशालाश्च पूर्वोक्तक्रमेण परिकल्पयेत् ॥ १९२ ॥ १ द. नेत्रे । २ द. र्वाँ । ३ द. पू । ४ द. अंयु र्ष्णमदा । ५ द. त्रपु स्यां । ६ द. एतदाः । ७ द. स्तत्र । ८ द. प । ९ द. स । १० द. तु भ्रमणं । ११ द. मुद्रित पुस्तके ‘कन्दान् क्रमाद् दिक्षु विदिक्षु च’ इति स्यात् । १२ द. या । १३ द. विदिक्षु । १४ द. ता ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६३ सोपानशुण्डिकागण्डैस्ता(गो)पुरायैरलङ्कृतः । (करव्यासामेरुपता वैवा सर्वार्थमुदाहृता ?) ॥ १९३॥ कृत्वा पूर्ववदष्टाश्रि क्षेत्रं भद्रं वि(४द्वि)धा भजेत् । कुर्याद् भागार्धकं भद्रे पक्षयोश्च विनिर्गतम् ॥ १९४॥ तद्विस्तारं भजेत् षड्भिर्निर्गमस्तैस्त्रिभिः पदैः । परिक्रमो भवेत् ++ पार्श्वयोः पृष्ठ(तोऽ)ग्रतः ॥ १९५॥ शेषं (शाला)युगं कार्यं भागद्वितयमायतम्५ । सार्धभागिकविस्तारं (संघचेस्यरस्यं च ?) ॥ १९६॥ अनेनैव प्रकारेण भद्रे भद्रे भवेद् गतिः । कर्णभद्रं विधातव्यं त्रिपदायामविस्तृति६ ॥ १९७॥ चतुर्धा भाजिते तस्मिन् भागेन भ्रमणं भवेत् । शेषं तु शाला विज्ञेया द्विपदायामविस्तृता ॥ १९८॥ विदिग्(न्ते)षु सर्वेषु न्यासोऽयमतिसुन्दरः । मूलशाला तु कन्दार्धे (भ्रमश्चार्धीभ्रमं ततः ?) ॥ १९९॥ मातृकेयं समाख्याता९ (जगतुपसरचन्दितकिन्नरोंशप्रदिति ?) । ११भद्रं ++ पदेभ्यः स्याद् भद्र(भाग)त्रितयनिर्गतम् ॥ २००॥ चतुर्भागिकविस्तारं त्रिपदायामकन्दकम् । तदा स्याच्छेखरा नाम भद्रत्रितयभूषिता ॥ २०१॥ नित्यप्रमुदितानेकदेववृं१२त्तद(न्द)कृतास्पदा । १३प्रागष्टय(ष्टा)श्रीकृते क्षेत्रे चतुर्भागविभाजिते ॥ २०२॥ द्विभागायामविस्तारे प्रासादे दशमे भ्रमे । अश्रिभिः समविस्तारा(१४दौसष्टौ ++?) प्रकल्पयेत् ॥ २०३॥ सदा भागप्रविस्तारं(रान्) तांश्च कुर्यात् पृथक् पृथक् । निर्गमेण चतुर्भागो(गान्) भागिकैं१५ श्रमणान्वितान् ॥ २०४॥ १ द. ण्डं स्तो । २ द. ता । ३ द. च । ४ द. तथा । ५ द. तीम् । ६ द. तिः । ७ मुद्रित पुस्तके 'भ्रमश्चार्धभ्रमस्ततः' इति स्यात् । ८ द. द्धि । ९ द. त । १० द. किन्नरा रा । ११ द. प्रति भद्रं । १२ द. ॰वृतदक्षतास्पदा । १३ द. प्र । १४ मुद्रित पुस्तके पाठभेदस्तु 'नष्टौ कन्दान्' इति स्यात् । १५ द. कः ।