सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
दशमः परिच्छेदः २३५ वैभवमुद्रालक्षणकथनम् श्लेष्य पाणितले द्वे प्राङ्नम्रं कुर्याल्लतागणम् । विविक्तमन्तरीकृत्य सहाङ्गुष्ठद्वयेन तु ॥ ४१ ॥ मणिबन्धद्वयं कुर्यात् सुलग्नमतिनिश्चलम् । करयुग्मं सगर्भं तु सन्धार्य स्वधिया चलम् ॥ ४२ ॥ ऊरुमध्यनिषण्णे तु कुर्याद् वै बाहूकूर्परे । गुप्तं कृत्वा प्रयत्नेन बन्धमस्याः समाचरेत् ॥ ४३ ॥ सर्वदा सर्वसिद्धीनामाप्तये त्वमलेक्षण । वैभवमुद्रालक्षणमाह-श्लेष्येति सार्धैस्त्रिभिः । द्वे पाणितले संश्लिष्य अङ्गुलि- गणं नम्रं कृत्वा अङ्गुष्ठद्वयेन सह विविक्तमन्तरीकृत्य मणिबन्धद्वयं सुसंलग्न (मि?म) तिनिश्चलं कृत्वा सगर्भं करयुग्मं तु स्वधिया चलं संधार्य बाहूकूर्परे ऊरु- मध्यनिषण्णे = ऊरुमध्ये निषण्णे स(ति?ती) कुर्यात् । सर्वेषां विभवदेवानां साधारणीयं मुद्रा ॥ ४१-४४ ॥ अब वैभवमुद्रा का लक्षण कहते हैं-दोनो हाथों के तल भाग को एक में सटा देवे । समस्त अङ्गुलियों को मोड़ देवे, दोनो अङ्गुष्ठों से विविक्त स्थान को बन्द कर देवे । दोनो मणिबन्धों को स्थित कर देवे, इस प्रकार सगर्भ दोनों हाथों को अपनी बुद्धि से सचल कर दोनो बाहूकूर्पर को ऊरु के मध्य में स्थापित कर देवे । यह मुद्रा बन्ध सबसे छिपाकर प्रयत्नपूर्वक करना चाहिये । यह सभी विभव देवताओं की साधारणी मुद्रा है । हे अमलेक्षण सङ्कर्षण ! सभी सिद्धियों की प्राप्ति के लिये साधक प्रतिदिन यह मुद्रा प्रदर्शित करे ॥ ४१-४४ ॥ तीर्थमध्ये स्वहृत्पद्मे बिम्बे वेद्यां स्थले तु वा ॥ ४४ ॥ वह्निगर्भे तु निर्धूमे नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात् सिद्ध्यर्थमपि मुक्तये ॥ ४५ ॥ प्रत्यहं तीर्थादिस्थानचतुष्टये भगवदर्चनं कार्यमित्याह-तीर्थेति सार्धेन । वेद्यां बिम्बं विना केवलभद्रपीठ इत्यर्थः । स्थले मण्डल इत्यर्थः ॥ ४४-४५ ॥ तीर्थ के मध्य में, अपने हृत्पद्म में, बिम्ब में, बिम्ब रहित वेदी में (केवल भद्रपीठ में) इन चारों के मण्डल में तथा निर्धूम वह्नि गर्भ में सिद्धि के लिये तथा मुक्ति के लिये नित्य मन्त्र भगवान् का अर्चन करे ॥ ४४-४५ ॥ सजलाञ्जलिपूरैस्तु तीर्थेऽथ हृदयाम्बुजे । भावनामृतजैर्भोगैर्मूर्तेरर्घ्यादिकैर्बहिः ॥ ४६ ॥ समित्सप्तकपूर्वैस्तु साज्यैर्वह्निगतं तिलैः ।
२३६ सात्वतसंहिता तत्तत्स्थानोचितार्चनद्रव्यभेदानाह—सजलेति सार्धेन । एवं सजलाञ्जलिभि- स्तीर्थमध्ये भगवदर्चनं जयाख्येऽपि विशदमुपपादितम्— आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च । मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥ तर्पयेदुदकेनैवं विष्वक्सेनावसानकम् । स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ॥ (९।५५-५६) इत्यादिभिः । एवं पारमेश्वरेऽपि करशुद्धिसमोपेतमित्यादिभिरष्टभिः श्लोकै- र्जलमध्यार्चनक्रमो विस्तरेणोक्तः । वस्तुतस्तु पारमेश्वरोक्तरीत्या जलमध्येऽर्चनात् पूर्वमेव करशुद्धिप्राणायामभूतशुद्धिमन्त्रन्यासभगवत्तादात्म्यावलम्बनानुष्ठानमुचितम् । बिम्बार्चनप्रकरणे मानसार्चनात् पूर्वं तदनुष्ठानोक्तिस्त्वौदकस्नानाद्यशक्त्या तीर्थमध्ये भगवदर्चनमकृतवद्विषयेति बोध्यम् । ननु “नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात्” (१०।४५) इत्युक्त्या जलमध्येऽर्चनं कृतवतैव मानसार्चनादिकं कार्यमिति चेन्न, यावज्जीवं यथाशक्ति संस्थितो यत्र कुत्रचित् । स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ॥ द्रव्यैः पुष्पाम्बुपूर्वैस्तु तदभावात् तु वै हृदि । मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ॥ (१७।१२६-१२७) इत्यशक्तानां हृदयादिस्थानेष्वन्यतममात्रार्चनस्यापि वक्ष्यमाणत्वात् । किञ्च, पारमेश्वरे तीर्थमध्यार्चनं मानसार्चनं च होमान्तमुक्तम् । सात्वतनिष्ठैस्तु जपयज्ञान्तमेव कार्यम् । यतोऽत्र सप्तदशे परिच्छेदे— ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ॥ पूजयित्वा जपान्तं चाप्यवतार्य बहिर्यजेत् । (१७।४२-४३) इति जपान्तमेव वक्ष्यति ॥ ४६-४७ ॥ तीर्थ और हृत्कमल में पूर्ण जलाञ्जलि द्वारा अर्चन करे और भावनामृत से उत्पन्न भोगों से अथवा मूर्ति एवं अर्घ्यादिकों से बाहर अर्चना करे ॥ ४६-४७ ॥ पूजयित्वा यथान्यायं प्रत्येकस्मिन् पदे क्रमात् ॥ ४७ ॥ संन्यासं सञ्चयं वापि कृत्वा सम्यक् कृतस्य वै । मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ॥ ४८ ॥ एवं तीर्थमध्यादिपदेषु क्रमेण भगवन्तमभ्यर्च्य तत्तदर्चनानन्तरं निष्कामश्चेत् कृतस्य कर्मणः परित्यागं कुर्यात्, सकामश्चेत् तदार्चनं कुर्यात् । उभयत्रापि पूर्वोक्त- मुद्राबन्धं कुर्यादित्याह—पूजयित्वेति सार्धेन । ननु फलान्तरसम्पादककर्मणां निष्कामत्याज्यत्वमुचितम्, प्राधान्येन मोक्ष- सम्पादकभगवदाराधनकर्मणोऽपि त्याज्यत्वं कथमुक्तमिति चेन्न, सिद्धोपायनिष्ठै- र्भगवदाराधनकर्मणोऽपि स्वयं प्रयोजनतयाऽनुष्ठेयत्वात् ॥ ४७-४८ ॥
दशमः परिच्छेदः २३७ इस प्रकार क्रमशः प्रत्येक पद में समिधाओं से घृत युक्त तिलों से होम करे और यथोक्त पूजन करे । फिर अपने किये हुए कर्म का त्याग करे अथवा उसका सञ्चय करे । फिर मन्त्र रूप का अनुकरणवाली मुद्रा से उसे मुद्रित कर देवे ॥ ४७-४८ ॥ फलार्थं प्रसवं येन नैति संन्यासकारिणाम् । फलपर्यवसानं च कालमागमचोदितम् ॥ ४९ ॥ हर्तुं नो युज्यते येन सिद्धाद्यैस्तु फलार्थिनाम् । ननु संचितकर्मणामुपरि मुद्राबन्धः समुचितः । संन्यस्तकर्मणामुपरि मुद्राबन्धेन किं प्रयोजनमित्याशङ्कायामुभयत्रापि सार्थक्यमाह—फलार्थमिति सार्धेन । येन मुद्रा- बन्धेन हेतुना संन्यासकारिणां कर्मत्यागिनां फलार्थं प्रसवं पुष्पमेव नैति = नोत्पद्यत इत्यर्थः । फलार्थिनां कर्मसंचितवतां तु शास्त्रोक्तफलानुभवकालपर्यन्तं येन मुद्राबन्धेन हेतुना सिद्धाद्यैरन्यैर्हर्तुं नो युज्यते । यथा जतुमुद्रितधनग्रन्थेर्धनमनपहार्यं भवति, तथा कर्माप्यन्यैरनपहार्यं भवतीति भावः ॥ ४९-५० ॥ तीर्थ के मध्य आदि स्थानों में भगवान् की अर्चना के पश्चात् यदि साधक निष्काम हो तो कर्म का भगवान् को समर्पण कर देवे और यदि सकाम हो तब उसका अर्जन करे । इन दोनों विधियों में पूर्वोक्त मुद्राबन्ध अवश्य करे । क्योंकि सन्यास लेने वाले साधक को कर्म में मुद्राबन्ध कर देने से उसमें फल देने के लिये पुष्प ही नही आता । किन्तु जो कर्म का फल चाहते हैं या उसका अर्जन करना चाहते हैं उन्हें शास्त्रोक्त फलानुभव काल पर्यन्त मुद्रा बन्ध से कोई सिद्ध आदि जन भी उसकी चोरी नहीं कर सकता ॥ ४९-५० ॥ कालानुकालमुद्राणां यो बन्धः परिचोदितः ॥ ५० ॥ उक्तप्रयोजनादन्यः स विघ्नविनिवृत्तये । एवं पूजानन्तरकालीनमुद्राया उक्तं प्रयोजनं संभवति, पूजामध्यकालेषूक्तानां कर्मणां किं प्रयोजनमित्याकाङ्क्षायां विघ्ननिवृत्तिरूपं फलमाह—कालेति ॥ ५१ ॥ उक्त प्रयोजन से अतिरिक्त समय-समय पर मुद्रा बन्ध का फल यह होता है कि वह विघ्न की विनिवृत्ति करता है ॥ ५०-५१ ॥ मुदं कर्मात्मतत्त्वानां ददात्यमलयाजिनाम् ॥ ५१ ॥ द्रावयित्री च दोषाणां बाह्याभ्यन्तरचारिणाम् । तेन मुद्रा समाख्याता कृतस्यापि च मुद्रणात् ॥ ५२ ॥ एतदुभयप्रयोजनानुसारेण मुद्राशब्दनिर्वचनमाह—मुदमिति सार्धेन । अमल- याजिनां शुद्धयाजिनामित्यर्थः । कर्मात्मतत्त्वानां यजनादिकर्मनिष्ठचेतनानामित्यर्थः । दोषाणामिति कर्मणि षष्ठी । एवं च मुद्राशब्दे मुदित्यत्र ददातीति शेषः । द्रेत्यत्र दोषा-
२३८ सात्वतसंहिता निति शेषः । पूजामध्यकालीनमुद्राणां प्रयोजनानुसारीदं निर्वचनम् । मु(द्राणां?द्रणाद्) मुद्रेति निर्वचनं तु पूजानन्तरकालीनमुद्राया इति ज्ञेयम् ॥ ५१-५२ ॥ निष्कपट रूप से याग करने वाले उस महात्मा साधक को मुद्रा बन्ध प्रसन्नता प्रदान करता है तथा साधक के बाह्य एवं आभ्यन्तर रहने वाले समस्त दोषों को दूर करता है । (मोदयतीति मुद् तद्दरदाति मुद्रा यद्वा दोषान् द्रावयतीति मुद्रा) इतना ही नहीं 'कृतं मुद्रयतीति मुद्रा' इसलिये उसे मुद्रा कहते हैं । इस प्रकार वह प्रसन्नता प्रदान करता है, दोषों को दूर करता है, विघ्न नहीं होने देता, कर्म पर मुहर लगा देता है, जिससे कोई उसे चुरा न सके ॥ ५१-५२ ॥ तस्मात् स्वाभाविकं कृत्वा बद्धं वा मानसं पुरा । स्वेन स्वेन तु मन्त्रेण स्मरेद् व्याप्तिं सदैव हि ॥ ५३ ॥ कायिकं मानिसकं वा मुद्राबन्धं कृत्वा तत्र तत्तन्मन्त्रव्याप्तिं स्मरेदित्याह—तस्मा- दिति । मानसार्चने मानसिको मुद्राबन्धः, बाह्यार्चने कायिक इति विवेकः ॥ ५३ ॥ इस कारण बाह्य अर्चन में शारीरिक मुद्रा बन्धन करे, अथवा मानसिक अर्चन में मानसिक रूप से मुद्रा बन्धन करे ॥ ५३ ॥ चैतन्येनानुविद्धो यः शाखासंघश्च यद्यपि । तत्रापि मन्त्रोऽत्राध्यक्षस्तत्कार्यं सम्प्रयच्छति ॥ ५४ ॥ केवलचैतन्यानुविद्धाङ्गुलिगणस्यैवं विघ्ननिवृत्त्यादिफलप्रदानसामर्थ्यं मन्त्रा- धिष्ठितत्वात् संभवतीत्याह—चैतन्येनेति ॥ ५४ ॥ चैतन्याधिष्ठित अङ्गुलियों से ही मुद्रा बन्धन करने से मन्त्राधिष्ठित देवता विघ्न निवृत्यादि फल प्रदान करते हैं ॥ ५४ ॥ मण्डलस्थदेवानामुपसंहारक्रमकथनम् एवं कृते ततः कुर्यान्मन्त्राणां मण्डलान्तरात् । पूर्ववच्चोपसंहारमेकस्मिन् गगनस्थिते ॥ ५५ ॥ स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि । विश्रान्तं भावयेद् देवं स्वभावेन समन्वितम् ॥ ५६ ॥ मण्डलस्थदेवानामुपसंहारक्रममाह—एवमिति द्वाभ्याम् । एकस्मिन् गगनस्थिते पद्मनाभ इत्यर्थः । परात्मना = निष्कलरूपेणेत्यर्थः । स्वसंविद्गगने = नादान्तर्गगन इत्यर्थः ॥ ५५-५६ ॥ अब मण्डल स्थित देवताओं का उपसंहार क्रम कहते हैं—ऐसा कर देने के पश्चात् उस मण्डल से सभी मन्त्र देवताओं का गगन स्थित एक पद्मनाभ में, निष्कल परमात्मा में, अथवा नादान्तर्गत हृदरूप गगन में पूर्ववत् किसी एक में उपसंहार कर देवे ॥ ५५-५६ ॥
दशमः परिच्छेदः २३९ द्विजातेर्दत्तशिष्टस्य पुष्पपत्रादिकस्य च । विहितश्चाम्भसि त्यागो विष्वक्सेनार्चने कृते ॥ ५७ ॥ कारिप्रदानाद्यवशिष्टनैवेद्यपत्रपुष्पफलादीनां विष्वक्सेनार्चनानन्तरं जलमध्ये प्रक्षेपमाह—द्विजातेरिति ॥ ५७ ॥ काम करने वाले तथा द्विजातियों को देने से बचे हुए अन्न को विष्वक्सेन की पूजा के अनन्तर जल में फेंक देवे ॥ ५७ ॥ धर्तव्यं न चिरं चाग्रे यत्पुरा विनिवेदितम् । नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते ॥ ५८ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतार्चन नाम दशमः परिच्छेदः ॥ १० ॥ — ❦ ❁ ❧ — तत्र हेतुमाह—धर्तव्यमिति । यद्यस्मात् कारणात् पुरा निवेदितं मन्त्रमूर्तीनां नैवेद्यं भगवन्निवेदितहविरादिकं किञ्चित् पुष्पफलादृते स्वप्राशनोपयुक्तं किञ्चिद् भागं विनाऽ- न्यत् सर्वं चिरं बहुकालं न धार्यम् । शीघ्रं जलमध्ये प्रक्षेप्तव्यमित्यर्थः । इममेवार्थं सुस्पष्टं वक्ष्यति सप्तदशे परिच्छेदे च— ततो विसर्जनं कुर्यादुपसंहृत्य चाखिलम् । विनिक्षिप्याम्भसो मध्ये पत्रपुष्पफलादि यत् ॥ निष्कामः पावनार्थं तु स्तोकमुद्धृत्य वै पुरा । संधार्य मन्त्रपूतं प्राक् तमश्नीयाच्च मौनवान् ॥ —(१७।१४५-१४६) इति । ननु स्तोकमुद्धृत्य वै पुरेत्यत्र किं विष्वक्सेनार्चनात् पूर्वमेव स्तोकोद्धरणम्, अथवा तदर्चनान्तरं जलप्रक्षेपात् पू(र्वं वेत्या?र्वमित्या)काङ्क्षायां तत्पक्षद्वयमप्युपपन्न- मिति ज्ञेयम् । यतः पारमेश्वरे— स्वप्राशनार्थमेकांशं स्थापयित्वा निरीक्षितम् । शेषाशनाभिधानस्य गणेशस्यार्चनाय वै । भागमेकं तु संस्थाप्य भागेनान्येन तोषयेत् । ब्राह्मणादीन् शुभाचारान् भक्तान् ग्रामाधिवासिनः ॥ इति विष्वक्सेनार्चनात् पूर्वमेव स्वप्राशनार्थभागोद्धरणमुक्तम् । तत्रैव महाहविः प्रकरणे तु—
२४० सात्वतसंहिता प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ॥ जलजानां नीरगाणां जन्तूनां तृप्तयेऽथवा । जले किञ्चिद् विनिक्षिप्य शेषमन्नं तदग्रतः ॥ तद्भक्तानां द्विजातीनां निरतानां स्वकर्मसु । —(पा०सं०१८।४०५-४०७) इति तन्निवेदितस्वीकारोऽप्युक्तः । अतएवं सच्चरित्ररक्षायाम्—"विष्वक्सेन- निवेदिते च विकल्पभेदास्तत्तत्संहितानुसारेण प्रयोगपद्धतिरत्नावल्यादिषु भोजराजा- दिभिः स्थापिता द्रष्टव्याः" (पृ० ११७) इत्युक्तम् ॥ ५८ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये दशमः परिच्छेदः ॥ १० ॥ — ❦ ☸ ❧ — जो अन्नादि मन्त्र मूर्त्तियों को निवेदन कर दिया गया है उसमें पुष्प फलादि किञ्चिन्मात्रा में शेष रख कर जल में प्रवाहित कर देवे । बहुत काल तक अपने पास में न रखे । विमर्श—सत्रहवें परिच्छेद में १४५-१४६ श्लोक में विसर्जन का विधान किया गया है; जो शीघ्रातिशीघ्र करना चाहिए ॥ ५८ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के विभवदेवतार्चन नामक दशम परिच्छेद की हिन्दी समाप्त हुई ॥ १० ॥ — ❦ ☸ ❧ —
एकादशः परिच्छेदः मण्डलकुण्डलक्षणम् नारद उवाच श्रुत्वैवमच्युतमुखाद् वनमाली मुनीश्वराः । पुनः सञ्चोदयामास यदाकर्णयताद्य तत् ॥ १ ॥ अथैकादशपरिच्छेदो व्याख्यास्यते । अत्र सङ्कर्षणेन भगवान् यत्सम्पृष्टस्तदा- कर्णयतेत्याह—श्रुत्वेति ॥ १ ॥ श्री नारद जी ने कहा—वनमाली सङ्कर्षण ने इस प्रकार अच्युत श्रीकृष्ण के मुख से सुन कर पुनः जो पूछा, हे मुनीश्वरों ! उसे सुनिये ॥ १ ॥ सङ्कर्षण उवाच यथावज्ज्ञातुमिच्छामि मण्डलध्यानलक्षणम् । भगवन् भवभीतानामुपकाराय तद्वद ॥ २ ॥ सङ्कर्षणः पृच्छति—यथावदिति ॥ २ ॥ सङ्कर्षण ने कहा—हे भगवन् ! अब मैं मण्डल एवं ध्यान का लक्षण जानना चाहता हूँ । अतः संसार से भयभीत भक्तों के उपकार के लिये उसे कहिये ॥ २ ॥ श्रीभगवानुवाच संसाध्य यष्टियोगेन सूत्रात् पूर्वापरे पुरा । तद्दिगद्वयान्तरे दद्यात् प्राग् वै सूत्रचतुष्टयम् ॥ ३ ॥ समांशेन द्विधा कृत्वा स्फुटं मध्यात् तदङ्कय च । साधितेनार्धमानेन प्राक्प्रत्यक्स्थेन तन्तुना ॥ ४ ॥ दक्षिणोत्तरभागाभ्यां समुत्पाद्य चतुष्यथौ । सूत्रं पूर्वापरसमं कृत्वा तदुपरि क्षिपेत् ॥ ५ ॥ पुनरर्धसमं दिक्षु दत्वा कोणचतुष्टयम् । चतुष्पथचतुष्केण नयेद् भक्तिं प्रसार्य वै ॥ ६ ॥
२४२ सात्वतसंहिता समं सूत्रचतुष्कं च चतुरश्राश्रसिद्धये । तद्विभाज्याष्टदशाभिश्चतुर्दिक्षु पदैः समैः ॥ ७ ॥ क्षिपेत् सूत्रगणं तत्र घटिकारेणुरञ्जितम् । मध्ये पद्मावनिं कुर्याद् भागपङ्क्तित्रये क्रमात् ॥ ८ ॥ तद्बहिः पदपङ्क्त्या तु पीठमष्टदिगान्वितम् । तस्य भागचतुष्कोत्थं दिक्चतुष्कं प्रकल्प्य च ॥ ९ ॥ विदिक्कचतुष्कं त्रिपदं पङ्क्त्या पीठप्रदक्षिणम् । प्रदक्षिणं क्षितेर्बाह्याच्चतुष्कं दिक्चतुष्टयात् ॥ १० ॥ चतुर्णां तु चतुर्णां तु बाह्याद् बाह्यं द्वयं द्वयम् । शोधयित्वा तु तद्बाह्याच्चतुष्कं द्वारसिद्धये ॥ ११ ॥ चतुष्टयं क्रमेणैव भूयो दिक्षु पदं पदम् । सबाह्याभ्यन्तरगतं शोधनीयं प्रयत्नतः ॥ १२ ॥ पुनः सर्वपदाभ्यां तु षट्कं षट्कं तु चान्तरात् । संमार्ज्य पूर्णशोभार्थं तत्र रक्तोत्पलाष्टकम् ॥ १३ ॥ यथा दिक्षु स्थितं कुर्यात् पूजनाय दिवौकसाम् । बाह्यस्थपदपाश्र्वात् तु त्रीणि त्रीणि च लोपयेत् ॥ १४ ॥ त्रयाणामन्तरस्थं यत्यदमेकात्मतां नयेत् । उपशोभं तु तं विद्धि कुर्यान्नीलाब्जभूषितम् ॥ १५ ॥ पञ्चकं पञ्चकं कोणाद् वीथौ नीत्वा लयं पुरा । शेषैः कोणं तु निर्वर्त्य सान्तरं च ततो बहिः ॥ १६ ॥ दद्यात् सूत्रत्रयं चैव मध्येऽथ कमलं लिखेत् । तेन पृष्टो भगवान् पूर्वं मण्डललक्षणमाह—संसाध्य यष्टियोगेनेत्यारभ्य क्रमाद् रेखागणं बहिरित्यन्तम् । अस्यैवं प्रयोगः—संसाध्य यष्टियोगेनेत्याद्युक्तप्रकारेण वेदि- कोपरिभागं सूत्रपातादिना चतुरश्रीकृत्य तत्क्षेत्रं समैरष्टादशपदैर्विभज्य घटिकारेणुरञ्जितं सूत्रगणं तत्र प्रक्षिप्य मध्ये पङ्क्तित्रयस्य षट्त्रिंशत्कोष्ठेषु पद्मं कुर्यात् । तद्बहिरेकया पङ्क्त्या पीठं कुर्यात् । तत्र चतुर्भिश्चतुर्भिः कोष्ठैः प्रागादिदिक्चतुष्टयं त्रिभिस्त्रिभिः कोष्ठैराग्नेयादिविदिक्चतुष्टयं कुर्यात् । तद्बहिरेकया पङ्क्त्या प्रदक्षिणविधिं कृत्वा तद्बहिः पङ्क्तिद्वये पूर्वादिदिक्षु पूर्णशोभाचतुष्टयसिद्ध्यर्थं प्रागादिष्वन्तःपङ्क्त्यां कोष्ठचतुष्कं बहिःपङ्क्त्यां कोष्ठद्विकं चैकीकृत्य तद्बहिः पूर्वादिषु पङ्क्तिद्वयस्थ- कोष्ठचतुष्केण चतुर्द्वाराणि परिकल्प्य पूर्णशोभापार्श्वयोरर्धशोभासिद्ध्यर्थं बहिः- पङ्क्त्यां कोष्ठद्विकमन्तः पङ्क्त्यामेकं कोष्ठं चैकीकृत्य प्रागादिपूर्णशोभाचतुष्के रक्तोत्पलाष्टकमर्धशोभाष्टके नीलोत्पलाष्टकं च विलिखेत् । आग्नेयादिविदिक्षु उपशो-
एकादशः परिच्छेदः २४३ भयोरन्तरालेऽन्तःपङ्क्तिस्थं कोष्ठपञ्चकं वीथ्या सहैकीकृत्य बहिःपङ्क्तिस्थकोष्ठ- सप्तकेन कोणानि तद्बहिः पङ्क्तिद्वये सान्तरं रेखात्रयं कृत्वा मध्ये षट्त्रिंशद्दलंसंयुक्तं कमलं लिखेत् ॥ ३-१७ ॥ श्री भगवान् ने कहा—लाठी की तरह सूत्र को नीचे गिरा कर उससे वेदी का ऊपरी भाग अच्छी तरह चौकोर बना लेवे । उस वेदी के क्षेत्र को समान रूप से १८ भागों में विभक्त कर, घटिका रेणु से रञ्जित सूत्र को प्रक्षिप्त कर मध्य की तीन पङ्क्तियों में स्थित ३६ कोष्ठकों में कमल निर्माण करे । उसके बाहर एक पङ्क्ति में पीठ निर्माण करे । उसमें चार- चार कोष्ठों से युक्त पूर्वादि चारों दिशाओं का, फिर तीन-तीन कोष्ठों से युक्त आग्नेयादि चार वि दिक् (कोण) दिशा का निर्माण करे । उसके बाद बाहर एक पङ्क्ति में प्रदक्षिणा के लिये वीथी बनावे । उसके बाहर दो पङ्क्ति में पूर्वादि चारों दिशाओं में पूर्ण शोभा चतुष्टय की सिद्धि के लिये पूर्वादि दिशाओं की अन्त वाली पङ्क्ति में चार कोष्ठ बनावे और बाहर की पङ्क्ति में दो कोष्ठ को एक में मिला देवे । उसके बाहर पूर्वादि दिशाओं में दो पङ्क्ति में स्थित चार कोष्ठ में चार द्वार बनावे । पूर्ण शोभा वाले दोनों पार्श्व में अर्ध शोभा की सिद्धि के लिये बाहर की पङ्क्ति में दो कोष्ठक और अन्तः पङ्क्ति में एक कोष्ठक इन दोनों को एक में मिला देवे । पूर्वादि पूर्ण शोभा वाले चार कोष्ठक में आठ रक्तोत्पल अर्ध शोभाष्टक में नीलोत्पल का निर्माण करे । आग्नेयादि कोणों में रहने वाले दो-दो उपशोभा के अन्तराल में भीतरी पङ्क्ति में पाँच कोष्ठक को वीथी के साथ एक में मिला देवे । बाहरी पङ्क्ति में रहने वाले कोष्ठ सप्तक से कोण, उसके बाहर दो पङ्क्ति के अन्तर में तीन रेखा बना देवे । फिर मध्य में छत्तिस दल का कमल बनावे ॥ ३-१७ ॥ षट्त्रिंशद्ददलयुक्तं तस्य लक्षणमुच्यते ॥ १७ ॥ पीठावनिसमीपे तु चतुर्थांशपदात् पुरा । समुद्धृत्य भ्रमं कुर्याद् ब्रह्मस्थानाच्च तन्तुना ॥ १८ ॥ दिक्सूत्राणां चतुर्णां तु एकैकं हि यदन्तरम् । वृत्तावधेः समैर्भागैः पत्रसंख्यैर्विभज्य च ॥ १९ ॥ षड्भिर्हीनं शतं सार्धं सूत्राणां तत्र निक्षिपेत् । सूत्रं प्राक्पदसंस्थं यत् तदाश्रित्याब्जपल्लवम् ॥ २० ॥
२४४ सात्वतसंहिता कुर्याद् भागचतुष्केण यथा तदवधारय । तत्रकारः—पीठावनिसमीपे पादाच्चतुर्थांशं विहाय ब्रह्मस्थानगतेन तन्तुना भ्रमणं कृत्वा तद्वृत्तमध्ये पूर्वपश्चिमायतमेकं सूत्रं तदुपरि दक्षिणोत्तरायतमेकं सूत्रं च दत्वा दिक्सूत्राणां चतुर्णामेकैकं यदन्तरालं तद्वृत्तावधेः समैर्भागैर्नवधा नवधा विभज्यै- कैकं भागं पुनश्चतुर्धा चतुर्धा विभज्य सूत्राणि प्रक्षिपेत् । आहत्य चतुश्चत्वारिंश- दुत्तरशतसूत्राणि भवन्ति । तत्र प्राग्दिक्सूत्रमारभ्य चतुर्भिborderश्चतुर्भिर्भागैरेकैकं दलं कुर्यात् ॥ १७-२१ ॥ अब कमल निर्माण का प्रकार कहते हैं—पीठ की भूमि के समीप एक पाद का चौथा अंश छोड़कर ब्रह्म स्थान पर स्थित तन्तु से घुमा कर वृत्त बनावे । उस वृत्त के मध्य में पूर्व पश्चिम की ओर एक आयतन सूत्र से नापे । उसके ऊपर दक्षिणायतन एक सूत्र लगाकर दिशाओं में स्थित चार सूत्रों के अन्तराल में वृत्तावधि पर्यन्त सम भाग से नव-नव भागों में प्रविभक्त करे । फिर एक-एक भाग को चार-चार भागों में प्रविभक्त करे । फिर सूत्र फेंक देवे । इस प्रकार कुल जोड़ कर १४४ सूत्र होंगे । उसमें पूर्व दिशा के सम से आरम्भ कर चार-चार भागों का एक दल निर्माण करे । इस प्रकार कुल छत्तिस कमल दल का निर्माण हो जायेगा ॥ १७-२१ ॥ सव्यापसव्ये ये सूत्रे अन्तरस्य निरन्तरे ॥ २१ ॥ तयोरंशं समं कुर्याद् दलाग्रादङ्कमन्तरे । तदुद्देशात् तु सूत्रेण तदङ्कान्तर्गतेन च ॥ २२ ॥ अर्धचन्द्रद्वयं कुर्यात् तेन सूत्रेण वै समम् । पुनरभ्यन्तरे सूत्रं तत्सूत्राभ्यां निरोध्य च ॥ २३ ॥ पत्राग्रमानयेत् तस्माद् बहिस्तं शृङ्गसन्निधेः । लाञ्छ्यमानं दलाग्रं तु विधिनानेन सिद्ध्यति ॥ २४ ॥ दलाग्रब्रह्मदेशाभ्यां तुरीयांशेन चान्तरात् । भ्राम्य वै कर्णिकावृत्तं द्व्यंशमानेन केसरम् ॥ २५ ॥ दलाग्रगांशं वै मध्याद् व्योमार्थं भ्रामयेत् ततः । कृत्वैवं वर्णकैः पूतैः पूरणीयं महोज्ज्वलैः ॥ २६ ॥ तत्रकारः—एकस्मिन् भागे मध्यमसूत्रस्य दक्षिणभागयोरव्यवहिते ये सूत्रे, तयोरन्तरालं यत्प्रमाणं तत्प्रमाणसमं दलाग्रान्मध्यमसूत्रे लाञ्छनं कृत्वा तल्ला- ञ्छनान्तर्गतेन सूत्रेण दलाग्रमारभ्य सव्यदक्षिणयोरर्धचन्द्राकाररेखाद्वयं विलिख्य पुनरभ्यन्तरस्थं सूत्रं तद्रेखाभ्यां संयोज्य तस्मात् शृङ्गसन्निधेर्बहिः पत्राग्रं चानयेत् । ततो दलाग्रब्रह्मदेशयोन्तरालं यत्प्रमाणं तच्चतुर्थांशेन मध्यात् कर्णिकार्थं मण्डलं परिभ्राम्य तद्द्विगुणमानेन केसरार्थं वृत्तं परिभ्राम्य दलाग्रांशमध्येऽपि व्योमार्थमेकं मण्डलं परिभ्रामयेत् । एवं कृत्वा ततो वर्णपूरणं कुर्यात् ॥ २१ - २६ ॥
एकादशः परिच्छेदः २४५ उसका प्रकार कहते हैं—किसी एक भाग में मध्य सूत्र के दाहिनी ओर दो भागों में बिना व्यवधान के जो दो सूत्र स्थापित हैं, उनके अन्तराल का जितना प्रमाण है उतने अन्तराल के समान दल के आगे वाले मध्य सूत्र में चिह्न बनावे । फिर उस लाञ्छन के भीतर वाले सूत्र से दल के अग्रभाग से आरम्भ कर बायीं एवं दाहिनी दोनों ओर अर्धचन्द्राकार दो रेखा बनावे । फिर अनास्थ सूत्र को उस रेखा से मिला कर वहाँ से शृङ्ग सन्निधान से बाहर पत्र के आगे तक ले जावे। फिर दलाग्र से ब्रह्म देश तक का जितना प्रमाण है, उसके चतुर्थांश से मध्य देश से कर्णिका के लिये, मण्डल घुमाकर, उसके दूने मान से केसर के लिये वृत्त (गोला) घुमाकर दल के अग्रांश के मध्य में गोला (= व्योम) के लिये एक मण्डल घुमावे । इतना करने के पश्चात् उसमें उज्ज्वल एवं पवित्र रङ्ग भर देवे ॥ २१-२६ ॥ उच्चाग्रविततां पीतां सबीजां विद्धि कर्णिकाम् । रेखान्वितानि पत्राणि सर्वाणि सुसितानि च ॥ २७ ॥ केसरत्रितयं कुर्यात् पत्रे पत्रेऽरुणप्रभम् । दलान्तरालमसितं वृत्तबाह्यं ज्वलत्प्रभम् ॥ २८ ॥ सितानि पीठकोणानि रक्तं तद्दिक्चतुष्टयम् । राजोपलप्रभां वीथीं पत्रमालाद्यलङ्कृताम् ॥ २९ ॥ पश्चिमांशाद् विना सर्वद्वाराण्यम्बुजपत्रवत् । कृष्णानि सर्वशोभानि द्वारोद्देशस्थितानि च ॥ ३० ॥ तदर्धाकृतितुल्यानि तूपशोभानि गर्भवत् । कोणानि केसराभानि सितशङ्खान्वितानि च ॥ ३१ ॥ शोणहेमादिवर्णं च क्रमाद् रेखागणं बहिः । तत्प्रकारः—कर्णिकां पीतवर्णेन, पीठदिक्चतुष्टयं र(ले?क्ते)न, तत्कोणचतुष्कं श्वेतेन, प्रदक्षिणविधिं कृष्णवर्णेनापूर्य, वीथ्यां नानावर्णैः पत्रमालादींश्च विलिख्य, पश्चिमांशं विना सर्वद्वारा(णि) अपि मध्यस्थितकमलदलवत् श्वेतेन, पूर्णशोभा- चतुष्टयमपि कृष्णवर्णेन, अर्धशोभाष्टकं कमलगर्भवत् पीतेन, कोणानि केसरवद् रक्तेन चापूर्य, कोणेषु श्वेतरेखाभिः शङ्खांश्च विलिख्य, रक्तपीतश्वेतवर्णैः क्रमेण रेखात्रयं पूरयेत् । एवं मण्डललेखनप्रकारः ॥ २७-३२ ॥ रंग भरने का प्रकार कहते हैं—ऊपर को उठी हुई कर्णिका पीत वर्ण से रंगे और पीठ की चारों ओर की दिशायें लाल वर्ण से, उसके चारों कोण श्वेत रङ्ग से और प्रदक्षिणा विधि काले वर्ण से पूर्ण करे । वीथी में अनेक वर्ण के पत्र माला आदि का निर्माण करे । पश्चिम दिशा को छोड़कर सभी द्वारों को, मध्य में स्थित कमल दल के समान श्वेत रंग से, पूर्ण शोभा चतुष्टय को कृष्ण वर्ण से, अर्ध शोभाष्टक को कमल गर्भ के समान पीत वर्ण से तथा कोणों को केसर के समान
२४६ सात्वतसंहिता रक्त वर्ण से पूर्ण कर कोणों पर श्वेत रेखा से शङ्ख बना कर रक्त, पीत एवं श्वेत वर्णों से क्रमशः तीन रेखाओं को पूर्ण करे । यहाँ तक मण्डल लेखन का प्रकार कहा गया ॥ २७-३२ ॥ कृत्वैवमनुसन्धाय सर्वात्मत्वेन देहवत् ॥ ३२ ॥ रजांसि विद्धि भूतानि सितपीतादिकानि च । तन्मात्राण्युपशोभानि शोभानि करणानि तु ॥ ३३ ॥ एवं सर्वाणि कोणानि सद्द्वाराणीन्द्रियाणि च । बहिरावरणं यद्वै सत्त्वाद्यं त्रितयं हि यत् ॥ ३४ ॥ मनः सुवितता वीथी गर्वः पीठमुदाहृतम् । धीः पद्मं तदधिष्ठाता बीजात्मा चिन्मयः पुमान् ॥ ३५ ॥ एतन्मण्डलस्य भगवच्छरीरतयाऽत्रापि प्रसिद्धदेहवद् भूततन्मात्राणि दर्शयति— कृत्वैवमित्यादिभिः ॥ ३२-३५ ॥ यतः यह मण्डल भगवान् का शरीर है इसलिये प्रसिद्ध देह के समान इसमें भी भूत और तन्मात्रायें है । इसे कह रहे हैं—रजादिकों को पञ्चभूत समझे और सित पीतादि वर्णों को तन्मात्रा समझे तथा उपशोभाओं को शोभा और करण समझे । इसी प्रकार सभी कोणों को द्वार सहित इन्द्रियाँ समझे, जो बाहर के आवरण हैं । वही सत्त्वादि त्रितय हैं, मन विस्तृत वीथी है, पीठ गर्व है, पद्म धी (= बुद्धि) है और उसका अधिष्ठाता पुमान् चिन्मय बीजात्मा है ॥ ३२-३५ ॥ अमूर्त ईश्वरश्चात्र तिष्ठत्यानन्दलक्षणः । यस्य सन्दर्शनादेव शश्वद्भावः प्रसीदति ॥ ३६ ॥ ससङ्गानामसङ्गानां वपुष्पाते कृते सति । प्रायशो मुक्तिभाजां च त्विह जन्मैकशेषिणाम् ॥ ३७ ॥ देव आस्ते ज्ञतां हित्वा बहिरन्तश्च कर्मिणाम् । अन्यथा दृष्टमात्राद् वै कथमाह्लादमेति वै ॥ ३८ ॥ अन्तः संवेदनसमम् अस्तित्वप्रतिपादकम् । यद्यत् स्वलक्षणं तत्त्वं तत्तत् सर्वत्र सिद्धिगम् ॥ ३९ ॥ मण्डले भगवदवस्थानं सहेतुकमाह—अमूर्त इत्यादिभिः ॥ ३६-३९ ॥ इस प्रकार आनन्द लक्षण ईश्वर बिना मूर्त्ति के इस मण्डल में स्थित है । जो सहेतुक है इसके दर्शन मात्र से शाश्वत भाव प्रसन्न हो जाता है । सङ्ग युक्तों के एवं सङ्ग रहितों के, प्रायः मुक्तिभाजों के, अथवा एक जन्म मात्र शेष लोगों के कर्म कर्त्ताओं के शरीर पात कर देने पर भी इसमें बाहर और भीतर ज्ञान को
एकादशः परिच्छेदः २४७ परित्याग कर ईश्वर रहता ही है । अन्यथा इस शरीर के दर्शन मात्र से मनुष्य किस प्रकार आह्लादित हो सकता है । अन्तः समवेदना के समान अस्तित्व का प्रतिपादक जो-जो इसमें स्वलक्षण तत्त्व है वहीं सब प्रकार की सिद्धि प्रदान करते हैं ॥ ३६-३९ ॥ वस्तुत्वेन गृहीत्वैवं मण्डलं पूर्वनिर्मितम् । नाम्नाऽब्जनाभभुवनं सर्वदुःखक्षयङ्करम् ॥ ४० ॥ ततस्तस्मिन् क्रमेणैव ध्यात्वैकैकं निवेशयेत् । पूर्वोद्दिष्टेन बीजेन त्वाकारं पारमेश्वरम् ॥ ४१ ॥ एवमब्जनाभभुवनाख्यं मण्डलं परिगृह्य तत्र पूर्वोक्तक्रमेण तद्देवान् तत्तद्- बीजादिमन्त्रैर्निवेशयेदित्याह—वस्तुत्वेनेति द्वाभ्याम् ॥ ४०-४१ ॥ सभी दुःखों का विनाश करने वाले एक अब्जनाभ भुवनाख्य मण्डल को लेकर उसमें पूर्वोक्त क्रम से तत्तद् देवताओं को तत्तद् बीजादि मन्त्रों से ध्यान करते हुए सन्निविष्ट करे । यहाँ तक मण्डल का लक्षण कहा गया । अब शङ्ख, चक्र और पद्म एवं वृत्त कुण्ड तथा चतुरस्र पाँच कुण्डों के लक्षण को हे सङ्कर्षण सुनिये ॥ ४०-४१ ॥ अथैवं भाजितात् क्षेत्राच्चतुरश्राद् महामते । पूर्वोद्दिष्टानि धिष्ण्यानि यथा कार्याणि तच्छृणु ॥ ४२ ॥ एवं मण्डललक्षणमुक्त्वा कुण्डलक्षणं शृण्वित्याह—अथेति । एवं भाजितात् क्षेत्रात् पूर्वं मण्डलोक्तप्रकारेण सूत्रपातैरष्टादशधा विभक्तादित्यर्थः । पूर्वोद्दिष्टानि = पूर्वमाराधनप्रकरणादिषूक्तानीत्यर्थः । धिष्ण्यानि = वह्निगृहाणि, कुण्डानीति यावत् ॥ ४२ ॥ अब कुण्ड निर्माण का प्रकार कहते हैं—कुण्ड स्थान को पूर्व में आराधना प्रकरण में कहे गये मण्डलोक्त क्रम की तरह सूत्रपात के द्वारा १८ भागों में प्रविभक्त करे । हे महामते ! अब जिस प्रकार वह्नि गृह का निर्माण करना चाहिए, उसे सुनिए ॥ ४२ ॥ पञ्चमं ब्रह्मकर्माद्यं मर्म प्राग्दिश्यवस्थितम् । अंशं दीर्घेण तत्स्थेन कुर्यात् सूत्रेण लाञ्छनम् ॥ ४३ ॥ अर्धचन्द्रसमाकारं भागयुग्मस्य चान्तरे । दक्षिणोत्तरभागाभ्यां तदधस्तत्समं तथा ॥ ४४ ॥ लाञ्छनद्वितयं कुर्यात् तिर्यक्संस्थानसंस्थितम् । भागद्वादशकस्यैक्यं स्यात् पङ्क्तिद्वितयाद् यथा ॥ ४५ ॥ ब्रह्ममर्म चतुर्थं यत् संख्यामानं च पूर्ववत् ।
२४८ सात्वतसंहिता मर्म तस्य च पक्षस्थावेकममन्तरीकृतौ ॥ ४६ ॥ ताभ्यामवस्थितेनैव सूत्रेणैतत् प्रजायते । पुनर्मध्याद् द्वितीयं यद् मर्म चोर्ध्वं प्रवर्तते ॥ ४७ ॥ उसमें मध्यम मर्म मान से पूर्व दिशा में स्थित जो पाँचवाँ मर्म है, उन संस्पर्शों में एक कोष्ठ बढ़ाए और बढ़ाए गये सूत्र से दो कोष्ठ में अर्ध चन्द्राकार लाञ्छन करे । उसके नीचे की दो पङ्क्ति में एक द्वादश कोष्ठ की सिद्धि के लिये, उसके दशक के बाहर दक्षिण दो कोष्ठों में और उत्तर के दो कोष्ठों में पूर्ववत् अर्ध चन्द्राकार दो चिह्न तिरछे लिख कर मध्य से चौथा जो मर्म (= सन्धि) उसके दक्षिण भाग में स्थित मर्म (= सन्धि) द्वय में स्थित सूत्र से इसी प्रकार उसके वाम भाग के मर्मद्वयावस्थित सूत्र से पहले से लिखा हुआ अर्ध चन्द्राकार, तीनों लाञ्छनों को एक में मिला देवे ॥ ४३-४७ ॥ तस्माद् वै त्र्यन्तरीभूतं चतुर्थं पक्षयोर्द्वयोः । मर्म तत्स्थेन सूत्रेण वृत्तार्थे पूर्ववल्लिखेत् ॥ ४८ ॥ ब्रह्ममर्मणि षष्ठस्य प्रत्यग्दिक्संस्थितस्य च । मर्मणोऽप्यथ वै सूत्रं कृत्वा तत्सम्प्रसार्य च ॥ ४९ ॥ यावद् वृत्तार्थबुध्नस्थं शृङ्गकोटेस्तु सन्निधिम् । एवं सूत्रद्वये दत्ते धिष्ण्यः शङ्खाकृतिर्भवेत् ॥ ५० ॥ प्रथमं शङ्खकुण्डलक्षणं दर्शयन् तत्कुण्डक्षेत्रमध्यखातस्य शङ्खाकारतासिद्ध्यर्थं परितो लाञ्छनक्रममाह— पञ्चममित्यारभ्य धिष्ण्यः शङ्खाकृतिर्भवेदित्यन्तम् । ब्रह्मकर्माद्यं = मध्यममर्मप्रारम्भकमित्यर्थः । मर्म = प्राक्पश्चिमायतसूत्रस्य दक्षि- णोत्तरायतसूत्रस्य च सन्धिस्थानमित्यर्थः ॥ ४३-५० ॥ तथा चैवं कुण्डनिर्माणप्रकारः— कुण्डस्थानं पूर्वं मण्डलोक्तप्रकारेण सूत्रपातै- रष्टादशधा विभज्य तत्र मध्यमान्मर्मस्थानात् पञ्चमं प्राक्दिक्स्थ यन्मर्म तत्संस्पर्शा- नामेककोष्ठदीर्घेण सूत्रेण कोष्ठद्वयेऽर्धचन्द्राकारं लाञ्छनं कृत्वा तदधःपङ्क्तिद्वये कोष्ठद्वादशकस्यैक्यसिद्ध्यर्थं तद्दशकाद् बहिर्दक्षिणकोष्ठद्वये तदुत्तरकोष्ठद्वये च पूर्ववदर्धचन्द्राकारं लाञ्छनद्वयं तिर्यग्विलिख्य मध्याच्चतुर्थं यन्मर्म तद्दक्षिणभागस्थ- मर्मद्वयावस्थितेन सूत्रेण तद्वामभागमर्मद्वयावस्थितेन सूत्रेण च पूर्वं विलिखितमर्धचन्द्रा- कारलाञ्छनत्रयं चैकीकृत्य पुनर्मध्याद् द्वितयमूर्ध्वस्थं यन्मर्म तस्मात् त्र्यन्तरीभूतं चतुर्थं दक्षि(णं? ण)पार्श्वस्थं वामपार्श्वस्थं च यन्मर्म तदवस्थितेन सूत्रेण पूर्ववद् दक्षिणकोष्ठद्वये वामकोष्ठद्वये चार्धचन्द्राकारं लाञ्छनद्वयं तिर्यग् विलिखेत् । एवं कृते पूर्वोक्तद्वादशक- स्याधःपङ्क्तिद्वयेऽपि भागद्वादशकस्यैक्यं भवति । अथ पश्चिमदिशि मध्यात् षष्ठस्य मर्मणः सूत्रद्वयं प्रसार्य पूर्वोक्तयोर्दक्षिणोत्तरभागस्थार्धचन्द्राकारलाञ्छनयोः शृङ्गाग्राभ्यां सह योजयेत् । एवं कृते शङ्खाकारता सिद्ध्यति ॥ ४३-५० ॥
एकादशः परिच्छेदः २४९ इसके बाद, पुनः मध्य से द्वितीय ऊपर में रहने वाला जो मर्म उन तीनों के अन्तर में रहने वाला चतुर्थ दक्षिण पार्श्वस्थ तथा वामपार्श्वस्थ जो मर्म उसमें रहने वाले सूत्र से पूर्ववत् दक्षिण कोष्ठ द्वय तथा वाम कोष्ठद्वय में अर्ध चन्द्राकार दो लाञ्छन तिरछी ओर लिखे । ऐसा करने से पूर्वोक्त द्वादशक के नीचे दोनों पङ्क्ति में रहने वाला भाग द्वादशक एक हो जायेगा । इसके बाद पश्चिम दिशा में मध्य से छठे मर्म को दो सूत्र फैलाकर पूर्वोक्त दक्षिणोत्तर भागस्थ अर्ध चन्द्राकार दोनों लाञ्छनों को शृङ्ग के आगे रहने वाले दोनों किनारों से मिला देवे । ऐसा करने से उस अग्निकुण्ड की शङ्खकुण्ड की आकारता सिद्ध हो जायेगी ॥ ४८-५० ॥ तस्य भागसमा कार्या लाञ्छनैर्मेखला बहिः । पूर्वोक्तमर्मगैः सूत्रैर्यथा तदवधारय ॥ ५१ ॥ द्व्यंशदीर्घेण सूत्रेण नवचन्द्रकलासमम् । चतुर्णामन्तरेशानां प्राग्दिक् कुर्याच्च लाञ्छनम् ॥ ५२ ॥ ईशवह्निपदाभ्यां तु वृत्ततुर्यांशसम्मिते । द्वे लाञ्छने समे कुर्यादेकभागाधिके ततः ॥ ५३ ॥ तत्समे ह्यपरे द्वे वै यत्तदा लाञ्छ्य लाञ्छनैः । दक्षिणोत्तरभागाभ्यां पश्चात् सूत्रद्वयं क्षिपेत् ॥ ५४ ॥ कृत्वा सप्तममर्मस्थं पूर्वोद्दिष्टक्रमेण तु । जीवसूत्रस्य पाश्चात्ये भागे पार्श्वद्वये स्थितम् ॥ ५५ ॥ तत्खातस्य बहिः शङ्खाकारमेखलानिर्माणप्रकारमाह—तस्य भागसमेत्यारभ्य पूर्वोद्दिष्टक्रमेण त्वित्यन्तम् ॥ ५१-५५ ॥ एवं खातार्थं परितो लाञ्छनं कृत्वा तद्बहिस्तथैव शङ्खाकारैकभागमिति मेखलासिद्ध्यर्थं प्राग्दिशि कोष्ठद्वयदीर्घेण सूत्रेण कोष्ठचतुष्टयेऽर्धचन्द्राकारं लाञ्छनं कृत्वा तथैवेशान्यकोण आग्नेयकोणे च कोष्ठपञ्चके लाञ्छनद्वयं कृत्वा तदधः पार्श्व- द्वयेऽपि कोष्ठचतुष्टये पूर्ववद् द्वे लाञ्छने विलिख्य पूर्वोक्तरीत्या पश्चिमभागस्थ- सप्तममर्मणः सूत्रद्वयं प्रसार्य पूर्वोक्तलाञ्छनद्वययोः शृङ्गाग्राभ्यां सह योजयेत् । एवं कृते मेखलारूपं सिद्ध्यति ॥ ५१-५५ ॥ इसी प्रकार खात के लिये भी चारों ओर लाञ्छन निर्माण करे । उसके बाहर शङ्खाकार के एक भाग की मेखला सिद्धि के लिये, पूर्व दिशा में दो कोष्ठक के समान दीर्घ सूत्र से चार कोष्ठों में अर्ध चन्द्राकार लाञ्छन बना कर, उसी प्रकार ईशानकोण, आग्नेयकोण में और पञ्चकोष्ठक में दो लाञ्छन बनाकर, उसके नीचे दोनों पार्श्व में स्थित कोष्ठ चतुष्टक में पूर्ववत् दो लाञ्छन लिख कर, पूर्वोक्त रीति से पश्चिम भाग के सातवें मर्म का दोनों सूत्र फैलाकर पूर्वोक्त दोनों लाञ्छन के शृङ्ग के अग्रभाग से एक में मिला देवे । ऐसा करने से मेखला का रूप सिद्ध हो जायेगा ॥ ५१-५५ ॥ सा० सं० - 20
२५० सात्वतसंहिता भागद्वयं द्वयं लाञ्छ्यं योन्यर्थं चार्धवृत्तवत् । तच्छृङ्गकोटिगे सूत्रे कृत्वा ते सम्प्रसार्य च ॥ ५६ ॥ खातभूभागपर्यन्तं तत्पदाद् वटपत्रवत् । जायते सर्वकुण्डानां योनिरैवंविधा शुभा ॥ ५७ ॥ इसी प्रकार कुण्ड के पश्चिम भाग में योनि निर्माण के लिये मध्यसूत्र के दक्षिण भाग के कोष्ठों में तथा वाम भाग के दोनों कोष्ठों में अर्ध चन्द्राकार दो लाञ्छन बना कर दक्षिण लाञ्छन के दक्षिण शृङ्गाग्र में एक सूत्र, वाम भागस्थ लाञ्छन के वाम शृङ्गाग्र से एक सूत्र, दोनों मिलाकर उन दोनों को वटपत्र के समान खात भाग पर्यन्त फैला देवे । ऐसा करने से योनि बन जायेगी । इस प्रकार योनि का निर्माण आगे कहे जाने वाले कुण्डों में भी करना चाहिये ॥ ५६-५७ ॥ भागार्धमानसूत्रेण योनेरभ्यन्तरे पुनः । अर्धवृत्तद्वयं दद्यात् तद्वत् सूत्रद्वयान्वितम् ॥ ५८ ॥ खातस्यान्तर्गतो वर्ज्यश्चतुर्थांशस्तु कोष्ठकात् । कोष्ठार्धं निखनेच्छेषं तत्समं वा पुरोदितम् ॥ ५९ ॥ दैर्घ्यात् पादाधिका कार्या योनिर्वे पृष्ठतोन्नता । गजोष्ठसदृशी चाग्रात् स्पृशन्ती दशनच्छदम् ॥ ६० ॥ तद्बहिःपङ्क्तिमारभ्य खातपर्यन्तं प्रागादिषु योनिनिर्माणप्रकारं खातस्य परितः कोष्ठचतुर्थांशेनौष्ठनिर्माणप्रकारं चाह—जीवसूत्रस्येत्यारभ्य स्पृशन्ती दशनच्छदमित्य- न्तम् । जीवसूत्रस्य मध्यसूत्रस्येत्यर्थः । पार्श्वद्वये मध्यसूत्रस्य दक्षिणवामभागयोरि- त्यर्थः । तत्समं निखनेत् । खातभूभागविस्तारायामतुल्यं खातं कुर्यादित्यर्थः । अथवा पुरोदितं "त्र्यंशेनार्धेन वांशेन खाताद् व्यासो विधीयते" (६।७७) इति नित्याग्नि- कार्यप्रकरणोक्तं वेत्यर्थः । एवमेवोक्तं पारमेश्वरेऽपि— खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥ त्रिपादमर्धपादं वा (२६।१२-१३) इति । दशनच्छदमोष्ठमित्यर्थः ॥ ५५-६०॥ अथ पाश्चात्ये भागे योनिसिद्ध्यर्थं मध्यसूत्रदक्षिणभागकोष्ठद्वये वामभागकोष्ठ- द्वये चार्धचन्द्राकारलाञ्छनद्वयं विलिख्य दक्षिणलाञ्छनस्य दक्षिणशृङ्गाग्र एकं सूत्रं वामभागस्थलाञ्छनस्य वामशृङ्गाग्रेणैकं सूत्रं संयोज्य तद्द्वयमपि वटपत्रवत् खातभाग- पर्यन्तं प्रसारयेत् । एवं कृते योनिः सिद्ध्यति । इयं योनिवक्ष्यमाणकुण्डनामपि साधारणा ॥ ५६-५७ ॥ पुनस्तद्योनेरभ्यन्तरे मध्यसूत्रस्य दक्षिणकोष्ठे च कोष्ठार्धमानसूत्रेण पूर्ववदर्ध- चन्द्राकारं लाञ्छनद्वयं विलिख्य पूर्ववत् तयोः शृङ्गाग्राभ्यां सूत्रद्वयं प्रसारयेत् । अथ खातस्य परित ओष्ठसिद्धयर्थं खातस्यान्तः परित एकं कोष्ठं चतुर्धा विभज्य तेष्वेकं
एकादशः परिच्छेदः २५१ भागं विसृज्य शेषं सर्वमपि खातभागविस्तारसमं तत्र्यंशमर्धं वा निखनेत् । पूर्वोक्त- योनिदैर्घ्यात् सपादकोष्ठद्वयमिता पृष्ठतो गजोष्ठसदृशी पूर्वोक्तमोष्ठं स्पृशन्ती सती (= मेखला) कर्तव्या ॥ ५८-६० ॥ योनिकुण्ड पुनः उस योनि के भीतर मध्य सूत्र के और दक्षिण कोष्ठ में भी कोष्ठक के आधे प्रमाण वाले सूत्र से पूर्ववत् अर्ध चन्द्राकार दो लाञ्छन बना कर पूर्ववत् उनके दोनों शृङ्ग से दो सूत्र प्रसारित करे । इसके बाद खात के चारों ओर ओष्ठ की सिद्धि के लिये, खात के भीतर चारों ओर एक कोष्ठ को चार भागों में विभक्त करे । उसमें एक भाग को छोड़कर शेष सभी खातभाग के विस्तार के समान उसका तीसरा अंश अथवा आधा अंश खने । पूर्वोक्त योनि के विस्तार से लेकर सवा दो कोष्ठ पर्यन्त पीछे की ओर हाथी के ओठ के समान पूर्वोक्त ओष्ठ का स्पर्श करते हुए मेखला निर्माण करे ॥ ५८-६० ॥ पुरोभागचतुर्थांशं योनेरग्राद् विसृज्य तु । दद्यात् प्राक्सूत्रसम्बन्धं सूत्राणां द्वितयं परम् ॥ ६१ ॥ पूर्वोक्तलाञ्छनानुसारेण खातार्थमेकं तद्बहिरोष्ठार्थमेकं तद्बहिर्मेखलार्थमेक- मिति सूत्रत्रयं दद्यादित्याह—पुरोभागेति ॥ ६१ ॥ इस प्रकार से चारों ओर योनि के अग्रभाग में पूर्वोक्त रीति से कोष्ठ का चतुर्थांश त्याग कर खात के लिये, शङ्खाकार सूत्र पूर्व की भाँति लगाकर उसके बाद ओष्ठ निर्माण के लिये एक सूत्र और मेखला के निर्माण के लिये एक सूत्र देवे ॥ ६१ ॥ अनुपातेन वै ताभ्यामग्रात् सङ्कोचमाचरेत् । भागपङ्क्तित्रयेणैव मेखलात्रितयं बहिः ॥ ६२ ॥ सम्पाद्यं चतुरश्रं तु शङ्खं तत्रितयोपरि । आशङ्खं मेखलानां तु प्रोन्नतत्वं स्वविस्तृतेः ॥ ६३ ॥ ओष्ठाद्यङ्गानां क्रमेण संकोचमाह—अनुपातेनेति । एवमुक्तं पारमेश्वरेऽपि— “मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत्” (२६।२३) इति । मेखलात्रयनिर्माणमाह—भागपङ्क्तित्रयेणेति सार्धेन ॥ ६२-६३ ॥ एवं च खातप्रदेशे परितो योन्यग्रे पूर्वोक्तरीत्या कोष्ठचतुर्थांशं विसृज्य खातार्थं शङ्खाकारं सूत्रं पूर्ववद् दत्वा तदनन्तरमोष्ठार्थमेकं सूत्रं मेखलार्थमेकं सूत्रं च दद्यात् । ऊर्ध्वे ओष्ठं तदधो मेखला यथा स्यात् तथा तत्सूत्रयोः पातं संकुचितं कुर्यात् तद्बहिः परितः पङ्क्तित्रयेण चतुरश्रं मेखलात्रयं कुर्यात् । शङ्खान्तानां मेखलानामौन्नत्यं तु कुण्डविस्तारसमं कुर्यात् ॥ इति शङ्खकुण्डलक्षणम् ॥ ६२-६३ ॥
२५२ सात्वतसंहिता जिस प्रकार अपर ओष्ठ उसके नीचे मेखला बन जावे उस प्रकार संकोच के साथ दोनों सूत्रपात करे। उसके बाहर तीन पङ्क्ति में चौकोर तीन मेखला का निर्माण करे। शङ्खान्त मेखलाओं की ऊँचाई कुण्ड के विस्तार के समान ही करे ॥ ६२-६३ ॥ चक्रकुण्डलक्षणकथनम् मेखलानां तु शङ्खस्य यन्मध्येऽश्रिचतुष्टयम् । तच्चक्रचिह्नितं कुर्यात् तल्लक्षणमथोच्यते ॥ ६४ ॥ ब्रह्ममर्मनिरुद्धेन चतुर्भागसमेन तु । खातार्थं प्राग् भ्रमं दद्यात् क्षेत्रमध्ये महामते ॥ ६५ ॥ बहिर्भागसमा नाभिस्तद्बहिर्द्व्यंशविस्तृतम् । अरक्षेत्रं च तस्यापि नेमिभागसमा बहिः ॥ ६६ ॥ भागेन तद्बहिस्त्वेका चतुरश्रा च मेखला । भ्राम्य मध्यादरक्षेत्रं वृत्तेनैकेन वै पुनः ॥ ६७ ॥ ततः सूत्राष्टकं दद्याद् दिग्गविदिक्संस्थितं पुरा । तस्य चान्तर्गतं पश्चादष्टकं पातयेत् परम् ॥ ६८ ॥ ततस्तेषां समापाद्यम् अरत्वममलेक्षण । अन्तर्वृत्तनिरोधेन प्रतिसूत्रस्य पक्षयोः ॥ ६९ ॥ सूत्रेण लाञ्छनं कुर्यान्नाभिनेमिभ्रमावधेः । एकांशादर्धमानं च नेमिवृत्तस्य चान्तरे ॥ ७० ॥ द्वाभ्यां द्वाभ्यामराभ्यां तु मध्ये कुर्यात् प्रधिं प्रधिम् । विस्तारप्रोन्नता नाभिः कूर्मपृष्ठोपमाऽरका ॥ ७१ ॥ नेमिं दर्पणवत् कुर्यात् त्वीषन्निम्नावसानतः । अथ चक्रकुण्डलक्षणमाह—मेखलानां तु शङ्खस्येत्यारभ्य शिष्टं पुरोदितं सर्वमि- त्यन्तम् । अत्र प्रतिसूत्र(स्य) पक्षयोः सूत्रेण लाञ्छन कुर्यादित्यर लक्षणमुक्तम् । पार- मेश्वरे—"मत्स्यवल्लाञ्छनं कुर्यात्" (२६।२१) इति व्यक्तमुक्तं ज्ञेयम् ॥ ६४-७२ ॥ अथ चक्रकुण्डलक्षणमुच्यते—पूर्वोक्तप्रकारेणाष्टादशधा विभक्ते चतुरश्रे क्षेत्रे मध्ये मर्मस्थाने सूत्रं संस्थाप्य मध्यात् पञ्चमरेखास्पर्शिना सूत्रेणैकं मण्डलं विलिख्य पुनः षष्ठरेखास्पर्शिना सूत्रेणैकं वृत्तमापाद्य पुनर्नवामरेखास्पर्शिना सूत्रेणैकं वृत्तं कुर्यात् । तेषु प्रथमं मण्डलं खातार्थं द्वितीयं नाभिस्थानं तृतीयमरस्थानं चतुर्थं नेमि- स्थानमिति ज्ञेयम् । तद्बहिःपङ्क्तौ चतुरश्रा एकैव मेखला कर्तव्या । पूर्वोक्तमरस्थानं मध्यात् पुनरेकेन वृत्तेन परिभ्राम्य तत्र प्रागादिदिक्ष्वाग्नेयादिविदिक्षु च सूत्राष्टकं दत्वा तेषामरत्वसिद्ध्यर्थमन्तर्वृत्तनिरुद्धेन सूत्रेण प्रतिसूत्रस्य पक्षयोर्नाभिवृत्तपर्यन्तं नेमि-
एकादशः परिच्छेदः २५३ वृत्तपर्यन्तं च मत्स्यवल्लाञ्छनं कृत्वा नेमिवृत्तस्यान्तरे द्वयोर्द्वयोररयोर्मध्ये एकैकं प्रधिं कुर्यात् । अत्र नाभिः कुण्डविस्तारसदृशोच्छाया कूर्मपृष्ठसदृशी कार्या । नेमि- र्दर्पणसदृशयग्रे ईशन्निम्ना च कर्तव्या । अन्यत् सर्वं पूर्ववत् कुर्यात् ॥ इति चक्र- कुण्डलक्षणम् ॥ ६४-७२ ॥ अब चक्र कुण्ड का लक्षण कहते हैं— पूर्वोक्त प्रकार से अट्ठारह भागों में प्रविभक्त चक्रकुण्ड चौकोर क्षेत्र में मध्य के मर्मस्थान में सूत्र संस्थापित करे । मध्यम से पञ्च रेखा का स्पर्श करने वाले सूत्र से एक मण्डल निर्माण कर षष्ठ रेखा का स्पर्श करने वाले सूत्र से एक वृत्त बना कर, फिर नवम रेखा का स्पर्श करने वाले सूत्र से एक वृत्त का निर्माण करे । उसमें प्रथम मण्डल खात के लिये, द्वितीय नाभि स्थान के लिये, तृतीय अरा के लिये और चतुर्थ मण्डल नाभि के लिये समझना चाहिये । उसके बाहर की पङ्क्ति में चौकोर एक ही मेखला बनानी चाहिये । पूर्वोक्त अर स्थान मध्य से पुनः एक वृत्त से घुमा कर, पूर्वादि दिशाओं में तथा आग्नेयादि कोणों में, आठ सूत्र लगा कर, उनके अरत्व की सिद्धि के लिये, अन्तर्वृत्त निरुद्ध सूत्र से, प्रत्येक सूत्र के दोनों पक्षों के नाभिवृत्त पर्यन्त और नेमिवृत्त पर्यन्त, मछली के समान रेखा खींच कर, नेमिवृत्त के भीतर रहने से दो-दो अरों के बीच में एक-एक प्रधि निर्माण करे । यहाँ नाभि कुण्ड के विस्तार के सदृश ऊँची कूर्मपृष्ठ के सदृश बनावे । नेमि दर्पण के समान आगे थोडी नीची बनावे । अन्य सब निर्माण पूर्ववत् करे ॥ ६४-७२ ॥ पद्मकुण्डलक्षणकथनम् शिष्टं पुरोदितं सर्वम् अथ पद्माकृतिं शृणु ॥ ७२ ॥ भागार्धं भ्रामयेन्नाभेर्बहिः केसरसिद्धये । भ्रामयेदपरं चार्धमरक्षेत्रस्य बाह्यगम् ॥ ७३ ॥ नीत्वा लोपमनेनैव विधिना नेमिमण्डलम् । अरसूत्राश्रितं कुर्यात् ततः पद्मदलाष्टकम् ॥ ७४ ॥ केसरभ्रमरुद्धेन सूत्रेणार्धेन्दुलक्षणम् । तच्छृङ्गकोटिसंस्थेन परिधेर्बाह्यकेन तु ॥ ७५ ॥ सूत्रद्वयेन पत्राग्रं कुर्याद् ब्रह्मभ्रमावनेः । निरन्तराणामा मूलात् केसराणां महामते ॥ ७६ ॥ कर्णिकोच्छ्रायतुल्यानां विभागं जनयेत् स्फुटम् ।
२५४ सात्वतसंहिता शङ्खकोणचतुष्के तु शेषं पूर्ववदाचरेत् ॥ ७७ ॥ पद्मकुण्डलक्षणमाह— अथ पद्माकृतिं शृण्वित्यारभ्य शेषं पूर्ववदाचरेदित्यन्तम् ॥ ७२-७७ ॥ अथ पद्मकुण्डलक्षणमुच्यते—अत्रापि चक्रकुण्डवत् प्रथमं मण्डलं खातार्थं कृत्वा द्वितीये नाभिमण्डले भागार्धं कर्णिकासिद्ध्यै अपरार्धं केशरसिद्ध्यै द्वेधा मण्डलीकृत्याऽरक्षेत्रस्य बहिरेवमेव नेमिमण्डलं द्वेधा कृत्वा प्रथमभागमरक्षेत्रेण सहैकीकुर्यात् । उत्तरभागं पत्राग्रसिद्ध्यै स्थापयेत् । अरक्षेत्रेऽष्टदलसिद्ध्यर्थं प्रागाद्यष्टदिक्ष्वपि केसरमण्डलरुद्धेन सूत्रेणाऽर्धचन्द्राकारं लाञ्छनद्वयं (द्वयं?) परस्पराभिमुखं कृत्वा तच्छृङ्गाग्रसंस्थितेन दलमण्डलबाह्यगेन सूत्रद्वयेन पत्राग्रं कुर्यात् । आमूलान्तरितन्तराणां कर्णिकोच्छ्रायतुल्यानां केसराणां व्यक्तं यथा तथा विभागं जनयेत् । पत्राग्रमण्डलाद् बहिश्चतुष्कोणेषु शङ्खचतुष्टयं कुर्यात् । शेषं पूर्ववत् ॥ इति पद्मकुण्डलक्षणम् ॥ ७३-७७ ॥ पद्मकुण्ड अब पद्म कुण्ड का लक्षण कहते हैं—यहाँ भी चक्रकुण्ड के समान प्रथम मण्डल खात के लिये बनावे । द्वितीय नाभिमण्डल में आधा भाग कर्णिका बनाने के लिये, शेष आधे भाग में केशर निर्माण के लिये दो मण्डल बनावे । फिर अर क्षेत्र के बाहर भी इसी प्रकार नेमि मण्डल कर, दो भाग कर, प्रथम भाग को अरा क्षेत्र के साथ मिला देवे । उत्तर भाग पत्राग्र बनाने के लिये स्थापित करे । अरा क्षेत्र में अष्टदल निर्माण के लिये पूर्वादि आगे दिशाओं में केशर मण्डल से अवरुद्ध सूत्र से अर्ध चन्द्राकार दो लाञ्छन परस्पराभिमुख बना कर, उस शृङ्गाग्र स्थित दल मण्डल से बाहर रहने वाले दो सूत्रों से पद्माग्र निर्माण करे । मूल से प्रारम्भ करके अन्तर रहित कर्णिका के ऊँचाई के तुल्य जिस प्रकार केशर स्पष्ट दिखाई पड़े, ऐसा उनका विभाग करे और पद्माग्र मण्डल के बाहर चारों कोणों पर चार शङ्ख बनावे । शेष पूर्ववत् बनावे ॥ ७३-७७ ॥ योनिमेकेन भागेन चतुर्भिर्मेखलागणम् । खातं पूर्वसमं किन्तु वृत्ते वृत्तास्तु मेखलाः । चतुरश्रे तदाकारा इत्युक्तं कुण्डपञ्चकम् ॥ ७८ ॥ वृत्तचतुरश्रकुण्डयोर्लक्षणमाह—योनिरिति सार्धेन ॥ ७८ ॥ अब वृत्त तथा चौकोर कुण्ड का लक्षण कहते हैं—पूर्वोक्त रीति से अट्ठारह भाग में प्रविभक्त क्षेत्र में मध्य में पूर्ववत् ६४ कोष्ठ खात के लिये छोड़कर, उसके बाहर एक पङ्क्ति में योनि बनावे । फिर चार पङ्क्ति में चार मेखला