भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

४९२ सात्वतसंहिता नन्वेतदभिषेचनं विशेषणविशिष्टस्येति किं नियामकम्, समयिनः = पुत्रकस्य साधकस्य वाऽभिषेकः कार्य इत्यर्थः सरसः । यतः श्रीजयाख्ये— सेनापतिक्रमेणैव समयज्ञस्य सर्वदा । महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ॥ युवराजविधानेन दातव्यः साधकस्य तु । राजोपचारविधिना अभिषेको गुरोः स्मृतः ॥ (१८।३४-३५) इति सामयिकादीनां चतुर्णामप्यभिषेकः प्रतिपादित इति चेत्, ब्रूमः—जयाख्ये तेषां प्रत्येकमभिषेकप्रयोगभेदाश्च प्रतिपादिताः । अत्र तु केवलमाचार्याभिषेकविधान- मुक्तम् । अतोऽस्मदुक्तार्थ एव सरसः । न च तर्हि विशेषणानां वैय्यर्थापत्तिः, समाराधनसक्तस्येत्येतावन्मात्रेणैव चारितार्थ्यादिति वाच्यम्, तत्तत्सर्वगुणविशिष्टस्यैवा- भिषेकार्हत्वोक्त्या सामर्थ्यात् । किञ्च, अत्र वक्ष्यमाणेषु समयिपुत्रकसाधकलक्षणेषु जयाख्यवदभिषिक्तत्वं कुत्रापि न वक्ष्यति । आचार्यलक्षणेष्वेव—“लिङ्गैः पूर्वोदितै- र्युक्तस्त्वभिषिक्तो विशेषतः” (२२।४४) इत्यभिषिक्तत्वं वक्ष्यति । अत एवैतदुप- बृंहणेश्वरतन्त्रे— इत्येवमभिषेकस्तु भवेन्मुख्याधिकारिणाम् ॥ अन्ये तु दीक्षामात्रेण संस्कार्या मुनिपुङ्गवाः । (२१।५०३-५०४) इति सुस्पष्टं प्रतिपादितम् । पाद्मेऽपि— शिष्यं सुतं वा सर्वज्ञमनसूयं जितेन्द्रियम् । आचार्यवंशजन्मानं निग्रहानुग्रहक्षमम् ॥ शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् । वेदवेदान्ततत्त्वज्ञमाचार्यपदकाङ्क्षिणम् ॥ देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्त्ववित् । कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ॥ कुर्यान्मण्डलपूजादि कुम्भयागावसानिकम् ॥ इत्याचार्यवंशजानामेवाभिषेकः प्रतिपादितः, तेषामेव कर्षणादिष्वधिकारश्च ॥२॥ सिद्ध्यर्थं सर्वमन्त्राणामधिकाराप्तये तु वा । तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम् ॥ ३ ॥ ननु तर्हि जयाख्ये चतुर्वर्णानां चतुराश्रमिणां चतुर्विधशिष्याणां चाभिषेकः प्रति- पादितः । तत्र का गतिरिति चेत्, दत्तोत्तरमेतत् । जयाख्यनिष्ठानां सर्वेषामपि तारतम्ये- नाभिषेकः स्यात् । एतस्मिन्नाचार्याभिषेकमात्रस्योक्तत्वात् साधकाद्यभिषेकविधाना- नामनुक्तत्वाच्चैतन्निष्ठैराचार्याभिषेकमात्रमनुष्ठेयम् । यद्वा—अनुक्तमन्यतो ग्राह्यमिति न्यायेन साधकाभिषेकाद्यनुष्ठानेऽपि न प्रत्यवायः ॥ ३ ॥ अब समय निष्ठ तदनन्तर (द्र. २२.१४) शास्त्र के व्यवसाय में निरस पुत्रता को प्राप्त होने वाले (पुत्रक लक्षण २२.३८ द्र.) समाराधन में आसक्त (द्र.

विंशः परिच्छेदः ४९३ २२.३९), अथवा चारों से विशिष्ट शिष्य का, सभी मन्त्रों की सिद्धि के लिये, अथवा सभी मन्त्रों पर अधिकार प्राप्ति के लिये, दीक्षा के अनन्तर तत्काल उनका अभिषेक कर देना चाहिये ॥ २-३ ॥ अथाभिषेकविधानम् भगवत्तत्त्ववेत्तॄणां पञ्चकालरतात्मनाम् । संहितापारगाणां च आचार्याणां च सन्निधौ ॥ ४ ॥ यतीनां बद्धलक्ष्याणां साधकानां महात्मनाम् । देवस्य पुरतः कुर्याच्चतुरश्रं तु मण्डपम् ॥ ५ ॥ सर्वोपकरणोपेतं मध्ये भद्रासनान्वितम् । तस्मिन् कुर्यादनन्ताद्यं सन्धानं त्वासनोदितम् ॥ ६ ॥ अथाभिषेकविधानमाह—भगवत्तत्त्ववेत्तॄणामित्यारभ्य पूर्णान्तं चाग्निमध्यगमि- त्यन्तम् । देवस्य पुरत इत्यत्र मण्डलस्थस्य बिम्बस्थस्य वा देवस्येत्यर्थः । अनन्ताद्य- मित्यत्राद्यपदेन धर्मज्ञानादयः संग्राह्याः । अष्टाङ्गेन अष्टोपचारैरित्यर्थः । वैष्णवं कुम्भं दीक्षार्थं स्थापितं महाकुम्भमित्यर्थः । ननु दीक्षार्थं स्थापितं महाकुम्भमिति कोऽयं नियमः । यतो जयाख्यपाद्मयोर्भि- षेकार्थं पृथक् कुम्भस्थापनमुच्यत इति चेन्न, अत्र पृथगनुक्तत्वात्, महाकुम्भस्य विनियुक्तत्वादेवोत्तरत्र—'क्षान्त्वा यथोक्तविधिना सकुण्डान्मण्डलान्तरात्' (२०।१९) इति केवलकुण्डमण्डलाभ्यामेव भगवद्विसर्जनस्य वक्ष्यमाणत्वाच्च । ननु साधकस्य खल्वाचार्याभिषेकः कार्यः । साधकलक्षणं तु—‘‘पूर्ववल्लब्ध- दीक्षस्तु मन्त्राराधनतत्परः'' (२२।३९) इत्यादि वक्ष्यति । जयाख्येऽपि— मन्त्रसिद्धिश्च वै यस्य विज्ञाता गुरुणा यदा । गुरुणा वै सोऽभिषिक्तस्ततः शिष्यः प्रसादतः ॥ (१७।४६) इति प्रतिपाद्यते । एवं दीक्षानन्तरं मन्त्रसिद्धयर्थं बहुकालमनुष्ठितव्रतस्य साधकस्य दीक्षार्थं स्थापितमहाकुम्भेनैवाभिषेकः कथं संघटते । अतोऽभिषेककालेऽपि कुम्भ- मण्डलाग्निष्वर्चनं कार्यम् । तदातनमहाकुम्भेनैवाभिषेकः सरस इति चेत्, स्थूल- मनीषोऽसि । किमेकं शिष्यमुद्दिश्यैव दीक्षाप्रारम्भः क्रियते? बहूनुद्दिश्य क्रियमाणे दीक्षाक्रमे कांश्चित् समये नियोजयति, समयिनः पुत्रकपदे नियोजयति, पुत्रकान् साधक- पदे नियोजयति, साधकानाचार्यपदेऽभिषेचयतीति सूक्ष्मदृष्ट्या द्रष्टव्यम् । नृसिंह- दीक्षाप्रकरणे— ततः शुचीन् सोपवासान् शोधितान् बद्धलोचनान् ॥ भक्तान् प्रवेशयेत् तत्र गृहीतकुसुमांस्तु वै । (१७।११५-११६) इति बहूनां युगपद्दीक्षाक्रममुक्तं किं न श्रुतवानसि । अन्यथा—‘‘तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम्'' (२०।३) इत्युक्तः कालः संभवेत् । एकमेवो-

४९४ सात्वतसंहिता द्दिदृश्य क्रियमाणदीक्षाक्रमेऽपि भगवदनुग्रहवशात् सद्यस्तन्मन्त्रसिद्धिलिङ्गदर्शनादौ तत्काल एवाभिषेकोऽपि संभवत्येव । प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ॥ अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः । देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ॥ तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा । तीव्रमन्दधियां तेषां तदा दीक्षां समाचरेत् ॥ (१७।११६-११८) इति समयिपुत्रकाणां भक्त्यतिशये तीव्रबुद्धित्वे च तदानीमेव दीक्षाचरणं सुस्पष्टं प्रतिपादितं हि । ननु पुत्रकाणां दीक्षाचरणकथनं तत्र किं साधकमिति चेत्, जरकुड्य- दुःशङ्कापरिहरणं चतुर्मुखस्याप्यशक्यम् । कृत्वा. निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् । तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाहिताञ्जलिः ॥ (२२।३१) इति वक्ष्यमाणलक्षणानुसारेण पुष्पाञ्जलिप्रक्षेपाद्यनन्तरं हि पुत्रकत्वं सिद्ध्यति । तदा पुत्रकपदारूढस्यापि तदानीमेव दीक्षाचरणकथनं तत्र साधकं (कथं) न भवेत्, "सिद्धये द्रुतहेमाभम्" (२०।१९) इत्युक्तत्वात् । "ध्यात्वा तं स्फटिकामलम्" (२०।९२) इत्यत्र मुक्तय इति ज्ञेयम् । "स्वाहान्तं भोगसिद्धयर्थं नमोऽन्तं मोक्ष- सिद्धये" (१९।८५) इति पूर्वमेवोक्तं हि । यथार्हदण्डसहितं तत्तद्वर्णाश्रमविहितदण्ड- मित्यर्थः । एतेन "काषाये क्षौमवाससी" (२०।१७) इत्यपि व्याख्याते ॥ ४-१८॥ साधक को भगवत्तत्त्व वेत्ताओं के एवं पञ्चकाल भगवान् में निरतात्मा लोगों के तथा संहिता का मर्म जानने वालों के सन्निधान में यह अभिषेक क्रिया करनी चाहिये ॥ ४ ॥ इसी प्रकार अपने लक्ष्य का ध्यान करने वाले यतियों तथा साधकों के सन्निधान में भी यह अभिषेक क्रिया की जानी चाहिये । देवाधिदेव के सामने चौकोर मण्डप का निर्माण करना चाहिये । उस मण्डप को अभिषेक के लिये उपयुक्त समस्त उपकरणों से युक्त करना चाहिये । उसके मध्य में भद्रासन का निर्माण करे । उसमें अनन्तादि धर्मादि के लिये आसनादि निर्माण करे ॥ ५-६ ॥ पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् । बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ॥ ७ ॥ कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः । शङ्खाद्यैर्ध्मायमानं तु पाठ्यमानं तु मङ्गलैः ॥ ८ ॥ जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् । अष्टाङ्गेणार्चयित्वा तु कुम्भमादाय वैष्णवम् ॥ ९ ॥

विंशः परिच्छेदः ४९५ स तत्रस्थेन मन्त्रेण सम्यक् सिद्धिव्यपेक्षया । सहस्रावर्तितं कृत्वा शतावर्तितमेव वा ॥ १० ॥ तदनन्तर देवाधिदेव के सामने अर्घ्य पुष्पादि से पद्मासन पर बैठे हुए शिष्य की पूजा कर हाथ जोड़े हुए शिष्य को उस मण्डप में आरोपित करे । उस समय सौभाग्यवती सुन्दर स्त्रियाँ गान करें, बन्दी लोग स्तुति करें, अन्य लोग शङ्ख बजावें, मङ्गल पाठ करें, कोई पर-मन्त्र का जप करे और कोई अच्युत का ध्यान करे । तदनन्तर वैष्णव कुम्भ के द्वारा अष्टाङ्ग से उसकी अर्चना करनी चाहिये । तदनन्तर वह आचार्य शिष्य सिद्धि की अपेक्षा रखते हुए तत्रस्थ मन्त्र का एक सहस्र संख्या में अथवा शत संख्या में जप करे ॥ ७-१० ॥ सिद्धये द्रुतहेमाभं स्मृत्वा तमभिषिच्य च । स्वाहान्तमन्त्रमुच्चार्य प्लुतं हृत्कमलोदरात् ॥ ११ ॥ एवमुक्त्वा नमोऽन्तं तु ध्यात्वा तं स्फटिकामलम् । समुत्कीर्य खरन्ध्रेण तस्य हृत्पद्मगं स्मरेत् ॥ १२ ॥ सिद्धि के लिये तपाये हुए काञ्चन वर्ण के समान मन्त्र का स्मरण करना चाहिए । तदनन्तर साधक हृत्कमलोदर से निकले हुए स्वाहान्त मन्त्र का उच्चारण कर अभिषेक करे । फिर स्फटिक के समान अमल मोक्ष का नमोऽन्त उच्चारण कर, उसे आकाश मण्डल से, शिष्य के हृदय रूपी पद्म में स्थापित कर, स्मरण करे ॥ ११-१२ ॥ चिच्छक्तिविग्रहं ब्रह्म त्वात्मानन्दलक्षणम् । समारोप्य धिया सम्यक् स्वाधिकारं तु चाखिलम् ॥ १३ ॥ प्रतिपाद्यार्चितं शुद्धं दिव्यमागमसञ्चयम् । शुभमाराधनाधारमक्षसूत्रं च किङ्किणीम् ॥ १४ ॥ स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रे कमण्डलुम् । चमसं सार्घ्यपात्रं च दर्भान् कृष्णाजिनं ततम् ॥ १५ ॥ पादुके पादपीठं च च्छत्रमासनदर्पणम् । मायूरं व्यजनं शुक्लं चामरं भगवद्ध्वजम् ॥ १६ ॥ यथार्हदण्डसहितं काषाये क्षौमवाससी । समुत्थाप्यासनात् सर्वमाहृत्य स्नानजं जलम् ॥ १७ ॥ विनिक्षिप्य शुचौ स्थाने देवमभ्यर्च्य वै ततः । तादर्थ्येन तु सन्तर्प्य पूर्णान्तं चाग्निमध्यगम् ॥ १८ ॥

४९६ सात्वतसंहिता अपनी बुद्धि से आह्लाद, आनन्द लक्षण वाले, चित् शक्ति विग्रह से युक्त परब्रह्म को उसके हृदय में स्थापित करे । अपना समस्त अधिकार प्रदान करे । अपने में सञ्चित शुभ, शुद्ध, दिव्यागम तथा आराधना का आधारभूत अक्षसूत्र, किङ्किणी, स्रुक् स्रुवा, योगपट्ट, शङ्ख, चक्र, कमण्डल, अर्घ्यपात्र सहित चमस, कुश समूह, विस्तृत कृष्णाजिन, दो पादुका, पादपीठ, छत्र, आसन, दर्पण, मयूर पिच्छ का व्यजन, शुक्लवर्ण का चामर, भगवद् ध्वज, आश्रमानुसार दण्ड, दो काषायवर्ण के दो क्षौमवस्त्रादि एकत्र कर अपने आसन से उठकर शिष्य को प्रदान करे । फिर स्नानार्थ जल स्थापित करे । तदनन्तर शुचि स्थान में देवाधिदेव की पूजा करे । उन देवाधिदेव की तृप्ति के लिये तर्पण करे तथा अग्नि के मध्य में पूर्णाहुति करे ॥ १३-१८ ॥ क्षान्त्वा पूर्वोक्तविधिना सकुण्डान्मण्डलान्तरात् । अर्घ्यपात्रसमूहाच्च बलिदानं समाचरेत् ॥ १९ ॥ सोदकेन च भूतानामोदनेनास्त्रमुच्चरन् । बलिमण्डलकं कृत्वा यागागाराच्च बाह्यतः ॥ २० ॥ अथ कुण्डान्मण्डलादर्घ्यादिपात्रसमूहाच्च मन्त्रोपसंहारं बलिदानक्रमं चाह— क्षान्त्वेति चतुर्भिः । भूतानां = कुमुदादीनामित्यर्थः । बलिमण्डलकं = बलिदानार्थं गोमयोपलिप्तं स्थानमित्यर्थः ॥ १९-२० ॥ फिर कुण्ड से, मण्डल से, अर्घ्यपात्र समूह से मन्त्रोपसंहार कर साधक को इस प्रकार बलिदान करना चाहिए । यज्ञगृह से बाहर अस्त्र मन्त्र का उच्चारण करते हुए उदक सहित ओदन से भूतों के लिये बलिमण्डल (गोमयोपलिप्त स्थान) का निर्माण करे ॥ १९-२० ॥ कृत्वान्तर्बलिदानं तु प्रदाक्षिण्येन वै पुरा । अथ ऊर्ध्वं इदं चोक्त्वा शेषं तन्मण्डले बहिः ॥ २१ ॥ नमोऽस्त्वच्युतभूतेभ्यः सर्वेभ्यः सर्वदैव हि । सदिक्पतिभ्यः सास्त्रेभ्यः शान्तिर्नोऽस्त्वस्य वै शिशोः ॥ २२ ॥ अथ विष्वक्सेनार्चनं तत्सन्तर्पणं तद्विसर्जनं तन्निवेदितपरित्यागं चाह— पूजाद्यमिति सार्धद्वाभ्याम् ॥ २१-२५ ॥ तदनन्तर उस मण्डल के भीतर बलिदान करे एवं प्रदक्षिणा करे । इसके बाद मण्डल के बाहर ‘नमोऽस्त्वच्युत...’ आदि श्लोक से बलि प्रदान करे । बलिमन्त्र का अर्थ—सभी दिक्पतियों के साथ अस्त्र धारण किये हुए अच्युतभूतों को सर्वदा हमारा नमस्कार हो, हमारी शान्ति हो तथा हमारे इस शिष्य को शान्ति प्राप्त हो ॥ २१-२२ ॥

विंशः परिच्छेदः ४९७ विष्वक्सेनार्चन विधानम् पूजाद्यमुपसंहृत्य दत्तशिष्टेन पूर्ववत्। वृत्तमण्डलमध्ये तु सितपद्मोदरे ततः ॥ २३ ॥ दत्तशिष्टैर्यजेद् देवं सर्वदेवगुरुं प्रभुम्। तर्पयित्वाऽग्निमध्ये तु कुर्यात् तस्य विसर्जनम् ॥ २४ ॥ तदीयमथ निक्षिप्य क्ष्मावटे वा जलान्तरे। इसके बाद विष्वक्सेन की अर्चना करे और उनका सन्तर्पण, विसर्जन तथा तन्निवेदित अन्न का परित्याग इस प्रकार करे—सामग्री द्वारा वृत्तमण्डल के मध्य में श्वेत कमल पर पूजावशिष्ट सामग्री द्वारा प्रभु सर्वदेव गुरु विष्वक्सेन का पूजन करे । अग्नि के मध्य में सन्तर्पण करे । उनका विसर्जन करे । उनकी पूजा की समस्त सामग्री पृथ्वी में गड्ढा खोद कर डाल देवे अथवा जल में प्रक्षिप्त करे ॥ २३-२५ ॥ सुधापानप्रदानप्रकारकथनम् यागावनौ च तच्चक्रं द्वादशारं विचिन्त्य च ॥ २५ ॥ न्यस्यात्मन्यर्घ्यपुष्पाद्यैः समभ्यर्च्य तदन्तरे। करकं वारिसम्पूर्णमादाय विनिवेश्य च ॥ २६ ॥ सुधापानप्रदानप्रकारमाह—यागावनौ च तच्चक्रमित्यारभ्य कृत्वा फलसमन्वित- मित्यन्तम् ॥ २५-३३ ॥ फिर यज्ञ भूमि में द्वादशार चक्र का निर्माण करे । अपने देह में अङ्गन्यास करे । अर्घ्यपुष्पादि से उस चक्र की पूजा करे और वारिपूर्ण करके कमण्डल वहाँ स्थापित करे ॥ २५-२६ ॥ तत्रेष्ट्वा वीर्यमन्त्रेण मध्ये मन्त्रास्त्रमुत्तमम्। मध्वम्बुपयसा पूर्णमपरं शुभलक्षणम् ॥ २७ ॥ तदग्रतोऽर्घ्यकलशं तन्मध्येऽस्त्रं च चक्रगम्। तमभ्यर्च्य यथान्यायं कृत्वाऽष्टशतमन्त्रितम् ॥ २८ ॥ वषट्पदनिरुद्धेन मूलमन्त्रेण तं पुनः। दद्यात् तदन्तः शार्णेन प्राग्वत् पीयूषधारिणा ॥ २९ ॥ वहाँ वीर्यमन्त्र से पूजा करे । तदनन्तर मन्त्रास्त्र से युक्त दो कलश स्थापित करे । प्रथम कलश में मधु, जल और दूध स्थापित करे । दूसरा कलश शुभ लक्षणों युक्त कर स्थापित करे । उसके आगे अर्घ्य कलश जिसमें चक्र स्थित है, उसमें अस्त्र मन्त्र स्थापित करे । फिर उसे १०८ बार मन्त्र से अभिमन्त्रित कर

४९८ सात्वतसंहिता विधिवत् पूजा करे । तदनन्तर मूल मन्त्र में वषट् लगा कर उसके भीतर पीयूष की धारा देवे ॥ २७-२९ ॥ निर्निद्रीकरणं कुर्यात् सर्वेषां मन्त्रवारिणा । तदम्बुधारादानेन ध्यानोच्चारयुतेन च ॥ ३० ॥ संविभज्याथ वैतेषां मन्त्रपानं सुधामयम् । सुधाद्यस्त्रवरं पश्चात् समन्त्रं चक्रगं न्यसेत् ॥ ३१ ॥ फिर मन्त्र से जल छिड़क कर वहाँ के समस्त लोगों को विनिद्रित करे, फिर ध्यान एवं मन्त्र का उच्चारण करते हुए उसके चारों ओर जलधारा देवे । तदनन्तर सभी को वह सुधामय मन्त्रपान करावे । पश्चात् चक्र में रहने वाले समन्त्र सुधादि अस्त्र वर का न्यास करे ॥ ३०-३१ ॥ आदाय तं तोयकुम्भमस्त्रमन्त्रमुदीरयन् । भ्रामयेत् पूर्ववद्धारामथ मध्ये निधाय तम् ॥ ३२ ॥ सम्पूर्णमुदकेनैव कृत्वा फलसमन्वितम् । इसके बाद अस्त्र मन्त्र पढ़ते हुए उस जल कलश को लेकर चक्र के चारों ओर उसके जल से धारा देवे । फिर उसे मध्य में स्थापित कर फल समन्वित उदक धारा देकर उसे सम्पूर्ण करे ॥ ३२-३३॑ ॥ गुरुयागकथनम् गुरुयागमतः कुर्याच्छिष्यः प्रयतमानसः ॥ ३३ ॥ भगवद्यागवद् भक्त्या कर्मणा मनसा गिरा । यागोपयुक्तं सम्भारं तस्मै सर्वं निवेद्य च ॥ ३४ ॥ सशिरः पाणियुग्मं तु कृत्वा वै च तदङ्घ्रिगम् । क्षान्तव्यः सुप्रयत्नेन श्रद्धापूतेन चेतसा ॥ ३५ ॥ गुरुपूजनमाह—गुरुयागमिति सार्धद्वाभ्याम् । गुर्वर्चनमन्त्रस्तु लक्ष्मीतन्त्रोक्तो ग्राह्यः— अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये । दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः ॥ (४१।६४) इति । अस्मिन्नवसरे पादतीर्थपरिग्रहश्चोक्तो जयाख्ये— प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजे ॥ तेनात्मानं तु संसिच्य पिबेदञ्जलिना ततः । (१८।८४-८५) इति ॥ ३३-३५ ॥

विंशः परिच्छेदः ४९९ इसके बाद शिष्य समाहित चित्त होकर विधिवत् गुरुयाग करे । यह गुरु याग कर्म, मन और वाणी से भगवद् याग की तरह सम्पादन करे । सर्वप्रथम यागोपयुक्त समस्त पूजन सामग्री पूजा के द्वारा निवेदित करे । फिर गुरु के चरणों पर शिर सहित दोनों हाथ रखकर श्रद्धा से पवित्र चित्त द्वारा उनसे क्षमा माँगे ॥ ३३-३५ ॥ पञ्चरात्रविदस्तद्वद् यतींश्च स्नातकादिकान् । सम्पूज्य विधिवद् दद्यात् तेषां शक्त्या च दक्षिणाम् ॥ ३६ ॥ सर्वेषां भागवतानां दक्षिणादानादिकमाह—पञ्चरात्रेति ॥ ३६ ॥ तदनन्तर पञ्चरात्र के विद्वानों, यतियों, स्नातकादिकों की विधिवत् पूजा कर उन्हें शक्ति के अनुसार दक्षिणा प्रदान करे ॥ १३६ ॥ संवाहनपरात् कालाद् लब्ध्वाऽनुज्ञां तु गौरवीम् । भ्रातृभिः सह चाश्नीयाद् बहुभिः पूर्वदीक्षितैः ॥ ३७ ॥ तथान्यैर्भगवद्भक्तैः सुहृत्सम्बन्धिबान्धवैः । तदनन्तरं गुर्वनुज्ञया भ्रातृभिः सह भोजनमाह—संवाहनेति सार्धेन ॥ ३७-३८ ॥ फिर गुरु के पादसंवाहन के पश्चात् उनकी आज्ञा प्राप्त कर अपने भ्रातृगणों तथा पूर्व में बहुत से दीक्षित सज्जनों के साथ, अन्य भगवद् भक्तों के साथ तथा सुहृत् सम्बन्धी बन्धुओं के साथ भोजन करे । तत्पश्चात् उस काल में अथवा अन्य काल में जहाँ-तहाँ शिष्यों के साथ जाने वाले उन लोगों के साथ अनु- व्रजन करे ॥ ३७-३८ ॥ व्रजन्तं सह शिष्यैस्तु काले ह्यन्यत्र तत्र वा ॥ ३८ ॥ तदिच्छया ह्यनुव्रज्य निवर्तेताथ वै यदा । कृत्वा तु पादपतनं बहुधा सम्प्रदक्षिणम् ॥ ३९ ॥ आ मोक्षात् सर्वसिद्धीनां भक्तानां भावितात्मनाम् । परा गतिर्गुरुर्यस्मात् प्रसाद्यः स्मृत एव सः ॥ ४० ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायामभिषेकविधिर्नाम विंशः परिच्छेदः ॥ २० ॥

५०० सात्वतसंहिता तस्मिन् कालेऽन्यत्र वाव्रज्या गुरुणा सहानुव्रजनं पुनस्तदनुज्ञया निवर्तनकाले प्रणिपतनप्रदक्षिणादिभिर्गुरोः प्रसादीकरणं चाह— व्रजन्तमिति सार्धद्वाभ्याम् ॥ ३८-४० ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये विंशः परिच्छेदः ॥ २० ॥ तदनन्तर उनकी इच्छा से लौट आवे । फिर गुरु के चरणों पर गिर कर नमस्कार करे एवं प्रदक्षिणा करे ॥ ३८-३९ ॥ मोक्ष पर्यन्त समस्त सिद्धि प्रदान करने वाले तथा भगवदाराधन परायण भक्तों के लिये एकमात्र सर्वश्रेष्ठ गुरु ही परागति हैं, अतः वही प्रसाद्य हैं और संस्मरणीय भी हैं ॥ ४० ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के अभिषेकविधि नामक बीसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २० ॥

एकविंशः परिच्छेदः समयविधिः नारद उवाच भगवानथ विश्वात्मा चोदितस्तालकेतुना । द्विजप्रधाना यत् तन्मे आकर्णयत साम्प्रतम् ॥ १ ॥ अथैकविंश परिच्छेदो व्याख्यास्यते । अत्र पुनर्भगवान् वासुदेवः सङ्कर्षणेन यत्पृष्टस्तच्छृण्वित्याह—भगवानिति ॥ १ ॥ नारद जी ने कहा—हे श्रेष्ठ ब्राह्मणो ! तदनन्तर सङ्कर्षण के द्वारा पूछे जाने पर विश्वात्मा भगवान् ने जो कहा उसे मुझसे सुनिए ॥ १ ॥ सङ्कर्षण उवाच नियमाः किंस्वरूपास्तु दातव्या दीक्षितस्य च । गुरुणा प्रतिपन्नस्य शासनेऽस्मिन् जगत्प्रभो ॥ २ ॥ प्रश्नप्रकारमाह—नियमा इति ॥ २ ॥ सङ्कर्षण ने पूछा—हे जगत्प्रभो ! गुरु के शरण में प्रतिपन्न हुए दीक्षितों के लिये जो नियम गुरु द्वारा दातव्य है उनका स्वरूप क्या है? ॥ २ ॥ श्रीभगवानुवाच प्रत्येकस्मिन् हि नियमे निर्गते तु गुरोर्मुखात् । प्रब्रूयाद् बाढमित्येवं शिष्यः शोकाग्निशान्तये ॥ ३ ॥ एवं पृष्टो वासुदेव आचार्येणैकैकस्मिन् नियमे उपदिष्टे शिष्यो बाढं बाढमिति ब्रूयादित्याह—प्रत्येकस्मिन्निति ॥ ३ ॥ श्री भगवान् के कहा—गुरु के मुख से उपदिष्ट एक-एक नियम पर शिष्य 'बाढं बाढम्' ऐसा कहे ॥ ३ ॥ नाक्रम्या गौरवी छाया दैवी यानगता त्वपि । गुरुवद् गुरुवर्गश्च द्रष्टव्यो नित्यमेव हि ॥ ४ ॥

५०२ सात्वतसंहिता शयनासनयानाद्यं तदीयम्भिवादयेत् । अतन्द्रितः सदा कुर्याद् व्यापारं तद्गृहेऽखिलम् ॥ ५ ॥ नासने तत्समक्षं च वस्तव्यं न च दक्षिणे । सुयन्त्रितः संयतवाक् तदाज्ञासम्प्रतीक्षकः ॥ ६ ॥ तत्सन्निधौ तु नान्येषां प्रत्युत्थानं समाचरेत् । कुर्यात् संशयविच्छित्तिं न तदादेशतो विना ॥ ७ ॥ गुरोर्देवस्य तत्तद्वाहनस्य च छायोल्लङ्घनं न कार्यमित्याह—नेत्यर्धेन । आचार्य- पुत्रकलत्रादिषु चाचार्यदृष्टिः कार्येत्याह—गुरुवदित्यर्धेन । गुरोः शयनासनादीनामपि नमस्कारः कार्य इत्याह—शयनेत्यर्धेन । आचार्यगृहकृत्येषु जागरुकेण भवितव्य- मित्याह—अतन्द्रित इत्यर्धेन । गुरोः समक्षमासनोपरि वा तद्दक्षिणभागे वा न वर्तितव्यमित्याह—नेत्यर्धेन । गुरुसन्निधाववहितो मितभाषी तदाज्ञाप्रतीक्षकश्च भूयादि- त्याह—सुयन्त्रित इत्यर्धेन । गुरुसन्निधावन्येषां प्रत्युत्थानादिकं न कुर्यादित्याह— तदित्यर्धेन । गुर्वाज्ञां विना पृच्छकाणां संशयविच्छेदनं न कुर्यादित्याह—कुर्या- दित्यर्धेन ॥ ४-७ ॥ शिष्य गुरु देवता तथा उनके वाहन की छाया का उल्लङ्घन न करे । गुरु के समान गुरुवर्ग में भी श्रद्धा बुद्धि रखे ॥ ४ ॥ गुरु के शयन आसनादि को नमस्कार करे । उनके घर का समस्त व्यापार सावधानी से करे ॥ ५ ॥ उनके सामने आसन पर न बैठे । उनके दाहिनी ओर न रहे । गुरु के सन्निधान में सर्वदा अवहित ( मितभाषी तथा उनकी आज्ञा की प्रतीक्षा करे ॥ ६ ॥ गुरु के सन्निधान में अन्य को प्रत्युत्थानादि न करे तथा गुरु की आज्ञा के बिना अन्य किसी पृच्छक के संशय का समाधान न करे ॥ ७ ॥ व्याख्यानमागमानां च योगाभ्यासश्च धारणा । अवश्यकार्याण्येतानि स्वगृहे न गुरोर्गृहे ॥ ८ ॥ आगमव्याख्यादीनां स्वगृह एव कर्तव्यत्वमाचार्यगृहे तन्निषेधं चाह—व्याख्यान- मिति ॥ ८ ॥ आगमों का व्याख्यान, योगाभ्यास एवं धारणा आदि सभी आवश्यक कार्य अपने घर पर ही करे । गुरु के गृह में कदापि न करे ॥ ८ ॥ भोजननियमविधानम् न शङ्खचक्रपद्माङ्के भोक्तव्यं भाजने तु वै । तल्लक्ष्म चोपलं काष्ठं लोष्टं वा फलकादिकम् ॥ ९ ॥

एकविंशः परिच्छेदः ५०३ क्रमणीयं न पादेन कल्प्यं नैवासनार्थतः । भगवच्छासनज्ञानामाराधनरतात्मनाम् ॥ १० ॥ यथोचितं यथाशक्ति पूजा कार्या सदैव हि । शङ्खचक्राद्यङ्कितपात्रे न भोक्तव्यमित्याह—नेत्यर्द्धेन शङ्खचक्राङ्कितं शिलाकाष्ठ- लोष्टफलकादिकं च पादेन नाक्रमणीयम्, आसनार्थं न कल्पनीयमिति चाह— तल्लक्ष्मेति । भगवच्छास्त्राभिज्ञानां तदुक्तभगवदाराधननिष्ठानां च निरन्तरं यथा- शक्त्यर्चनं कार्यमित्याह—भगवच्छासनेति ॥ ९-११ ॥ जिस पात्र में शङ्ख एवं चक्र का चिह्न अङ्कित हो, उस पात्र में भोजन न करे । जिस उपल, काष्ठ, लौह तथा फलकादिक में शङ्ख एवं चक्र का चिह्न हो उसे पैर से लङ्घन न करे तथा उनका आसन न बनाये । भगवत् शास्त्रों के विज्ञाता तथा भगवच्छास्त्रोक्त विधि से आराधना करने वाले भक्तों का यथाशक्ति सर्वदा अर्चन करना चाहिए ॥ ९-११ ॥ प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ ११ ॥ अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् । दूरात् प्रदक्षिणीकुर्यान्निकटात् प्रतिमां विभोः ॥ १२ ॥ दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । भगवद्विमानादीनां प्रदक्षिणनमस्कारप्रकारावाह—प्रासादमिति द्वाभ्याम् । छायाक्रमणभिया दूरादित्युक्तमिति ज्ञेयम् ॥ ११-१३ ॥ देवता, देवों का प्रासाद, आचार्य, पाञ्चरात्रिक, अश्वत्थ, वट; धेनु, सत्समूह एवं गुरु का घर दूर से ही देखकर इनकी प्रदक्षिणा करे, सन्निकट से प्रदक्षिणा करने में छायोल्लङ्घन का भय है ॥ ११-१३ ॥ न यानपादुकारूढो न सोपानत्कपादभृत् ॥ १३ ॥ न विक्षिप्तमना भूत्वा संविशेद् भगवद्गृहम् । न व्याख्यावसरे कुर्यात् प्रत्युत्थानाभिवादने ॥ १४ ॥ भगवन्मन्दिरप्रवेशकाले पादुकामुपानहं वा पद्भ्यां न स्पृशेदन्तर मनोवृत्तिं च न वर्तयेदित्याह—नेति ॥ १३-१४ ॥ भगवन्मन्दिर में सवारी से, पादुका धारण कर, जूता पहन कर तथा विक्षिप्त मन से प्रवेश न करे । गुरु यदि शास्त्र की व्याख्या करते हों, तो उस समय प्रत्युत्थान अभिवादन न करे ॥ १३-१४ ॥ नाभक्तानां न मूर्खाणां नास्तिकानां विशेषतः । दातव्यः सम्प्रवेशश्च नोपहासरतात्मनाम् ॥ १५ ॥

५०४ सात्वतसंहिता आगमव्याख्यानकाले प्रत्युत्थानप्रणामनिषेधमभक्तादीनां तत्र प्रवेशनिषेधं चाह— नेति सार्धेन। नास्तिकानामित्यत्रापि नेत्यनुषङ्गः कार्यः॥ १५॥ आगम व्याख्यान के अवसर में जो भक्त न हों, मूर्ख हो, नास्तिक हो, तथा शास्त्र का उपहास करने वाले हों, उन्हें विशेष रूप से प्रवेश न देवे॥ १५॥ नापूजितं समुद्घाट्यं शासनं पारमेश्वरम्। समक्षं नान्यभक्तानां न तत्सन्देहशान्तये॥ १६॥ प्रकाशनीयं तल्लोभान्न चाऽन्यायेन नो भयात्। अयोग्यं प्रति वाऽन्यदेवताभक्तानां समक्षं वा लोभाद् भयादन्यायाद्वा भगवच्छास्त्रं न प्रकाश्यमित्याह—नेति॥ १६-१७॥ अयोग्यों तथा अन्य देवताओं के भक्तों के सामने लोभ से या भय से, अन्याय से भगवच्छास्त्रों का प्रकाश न करे और न उनसे सुगन्ध, फल, पुष्पादि और भी अपूर्व उचित वस्तु न लेवे और संदेह की शान्ति करे॥ १६-१७॥ सुगन्धफलपुष्पाद्यमपूर्वमुचितं च यत्॥ १७॥ अभोज्यं गुरुदेवाग्निनिवेदनविवर्जितम्। अपूर्वं योग्यं फलपुष्पादिकं वस्तु गुरुदेवाग्निसमर्पणमन्तरा न भोज्यमित्याह— सुगन्धेति॥ १७-१८॥ तस्करात् पतिताच्चण्डाद् दम्भलोभमदान्वितात्॥ १८॥ मात्रावित्तं न गृह्णीयाद्भक्तादुपचारतः। तस्करादिभ्यो मात्राद्रव्यप्रतिग्रहनिषेधमाह—तस्करादिति। तथा च स्मरति शाण्डिल्यः— कुलटाषण्ढपतितस्वैरिभ्यः काकिणीमपि। उद्यतामपि गृह्णीयान्नापद्यपि कदाचन॥ (६।९८) इति॥ १८-१९॥ गृहीत्वा भगवद्विम्बं वृत्त्यर्थमटतीह यः॥ १९॥ नगरापणवीथीषु तस्य देवलकस्य च। दर्शनं स्पर्शनं नैव कुर्यात् सम्भाषणं तथा॥ २०॥ स्वगृहे समाराध्यं भगवद्विम्बमादाय द्रव्यार्जनार्थं नगरादिषु सञ्चरमाणस्य देवल- कस्य दर्शनादिकमपि न कार्यमित्याह—गृहीत्वेति सार्धेन। नन्वेतन्मन्दिरस्थभगव- द्विम्बविषयमपि स्यादिति चेन्न, तस्य राजाधीनतया बहिर्द्रव्यार्जनार्थमानेतुमशक्यत्वात्, तत्र तादृशशङ्काया एवानवकाशात्॥ १९-२०॥ गुरु देवता तथा अग्नि को जिस अन्न का अर्पण न हुआ हो, उस अन्न का

एकविंशः परिच्छेदः ५०५ कदापि भोजन न करे । पतित, तस्कर, चाण्डाल, दम्भी, लोभी, मद्यपी तथा अभक्त से आपत्ति काल में भी मात्रावित्त तथा द्रव्य का प्रतिग्रह न लेवे । जो वृत्ति के लिये भगवान् की प्रतिमा लेकर जहाँ-तहाँ पर्यटन करता हो उसका दर्शन, स्पर्शन तथा संभाषण वर्जित करे ॥ १८-२० ॥ गायेत् तु भगवद्गाथां यो ग्रामे नगरान्तरे । तं प्रभुस्तावकं चैव पूजयेच्चैव सर्वदा ॥ २१ ॥ श्रीमद्वैकुण्ठाभरणादिविरचितदिव्यप्रबन्धगाथागायकानां निरन्तरपूज्यत्वमाह— गायेदिति ॥ २१ ॥ ग्राम एवं नगर में श्रीमद् वैकुण्ठाभरणादि विरचित दिव्य प्रबन्ध की गाथा गाने वाले तथा प्रभु का स्तवन करने वाले भगवद् भक्तों की सर्वदा पूजा करनी चाहिए ॥ २१ ॥ विष्णुपरियाणां विष्णुवत् पूज्यत्वविधानम् विष्णुव्रतपरं चैव विष्ण्वायतनवासिनम् । विष्ण्वालापकथासक्तं विष्ण्वायतनमार्जकम् ॥ २२ ॥ स्तावकं वैष्णवानां च विष्णुधर्मपरायणम् । पर्येष्टिकृद् वैष्णवानां मान्यो वै विष्णुवत् सदा ॥ २३ ॥ भगवत्कैङ्कर्यपराणां विष्णुवत् पूज्यत्वमाह—विष्ण्विति द्वाभ्याम् । वैष्णवानां पर्येष्टिकृद् वैष्णवधर्मान्वेषणपरः, पूजनार्थं भागवतान्वेषणपर इति वाऽर्थः । ‘पर्येषणा परीष्टिश्थान्वेषणा च गवेषणा’ (२।७।३२) इत्यमरः । गायेदिति वचनं शठकोपाद्य- र्चनपरम्, विष्णुव्रतपरमित्यादिकं शाण्डिल्याद्यार्चनपरमित्यपि सरसम् ॥ २२-२३ ॥ विष्णु का व्रत करने वाले, विष्णु के आयतन में निवास करने वाले, विष्णु की चर्चा, विष्णु की कथा में आसक्ति रखने वाले, विष्णु मन्दिर का मार्जन करने वाले, वैष्णवों की प्रशंसा करने वाले, वैष्णव धर्म का अन्वेषण करने वाले, विष्णु धर्म परायण लोगों का विष्णु के समान सम्मान प्रदान करे ॥ २२-२३ ॥ पुष्पादीनामाहरणप्रकार कथनम् प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि । पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतः सदा ॥ २४ ॥ यायादरण्यमथवा निर्बाधं हि तदार्जने । भगवदाराधनार्थं पुष्पादीनामाहरणप्रकारमाह—प्रातरिति सार्धेन । “अत्र वैशेषिकार्चनादिषु कदाचित् प्रातःशब्दस्य मुख्यार्थता, अन्यथाऽभिगमनविधिना प्रातः- कालोपरोधात्, अन्येषु च सर्वेषु शास्त्रेषु द्वितीयकाल एव द्रव्यार्जनविधानात् । प्रातः- सा० सं० - 36

५०६ सात्वतसंहिता शब्देन सन्निकर्षवशात् त्वरातिशयसिद्ध्यर्थं तदुचितकालो लक्ष्यते, "सायं प्रातर्द्विजाती- नामशनं विधिचोदितम्" इतिवत् । अत एवात्रत्यमुत्थानं च न स्वापानन्तरभावि, अपि तु—"ततः पुष्पकुशादीनामुत्थायार्जनमाचरेत्" (२२।६९) इति जयाख्यसंहितोक्तम- भिगमनानन्तरं देवसन्निधेरुत्थानम्" (पृ० १२९) इति श्रीपाञ्चरात्ररक्षायां व्याख्यातम्। एवं व्याख्यानं गृहार्चनप्रकरणे समञ्जसं भवति । मन्दिरे तु प्राभातिकार्चनादीनां कर्तव्यत्वात् तत्र प्रत्यहं प्रातःशब्दस्य मुख्यार्थतैव संभवतीति बोध्यम् । ननु प्रातरुत्थाय चिन्वीयादित्यादित्यादिनियमः स्वगृहार्चनपर एव, मन्दिरार्चने तु पुष्पाद्याहरणं परिचारकैः क्रियत इति चेन्न, यत उभयत्रापि स्वार्जितं मुख्यम्, अन्यार्जितं गौणमिति सिद्धम् । ननु तर्हि स्वयमेवोपादानप्रवृत्तः कथं मन्दिरे प्राभातिकाद्यर्चनादि निर्वहेदिति चेत्, शक्तः सर्वं निर्वहत्येव । अशक्तस्य गौणानुष्ठानम् । अन्यथा मन्दिरा- र्चनपरस्याभिगमनादिपाञ्चकालिकानुष्ठानं कथं सिद्ध्येत् । अत एव हि पारमेश्वरादिषु द्वादशकालार्चनप्रवृत्तस्यापि पाञ्चकालिकधर्मानुष्ठापनावकाशः प्रदर्शितः। परिचारका- श्चेदपि प्रातःकालं विना पुष्पाद्याहरणं पुनः कदा कुर्युः । गृहार्चनार्थमिव तैः संभव- काले संगृहीतं पुष्पादिकं कथं प्राभातिकार्चने उपयुज्यते ॥ २४-२५ ॥ प्रातःकाल उठकर अपनी वाटिका से स्वयं विष्णु पूजा के लिये सावधान होकर अस्त्रमन्त्र से पुष्पादि का सञ्चय करे अथवा उनके चयन के लिये खतरे से रहित जङ्गल में स्वयं जावे ॥ २४ ॥ पूजाद्रव्याणां ग्राह्याग्राह्यत्वकथनम् अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि॥ २५ ॥ हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सितादयः । उग्रगन्धा ह्यकर्मण्यास्त्वप्रसिद्धास्तथैव च॥ २६ ॥ चतुष्पथशिवावासश्मशानावनिमध्यगाः । क्षता अशनिपाताद्यैः क्रिमिकीटसमावृताः॥ २७ ॥ वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः । अम्बुजानि सुगन्धीनि सितरक्तादिकानि च॥ २८ ॥ अथ पुष्पफलपत्राङ्कुराणां मधुपर्कधूपदीपद्रव्याणां हविःपाकोपयुक्तद्रव्याणां च ग्राह्याग्राह्यत्वनियममाह—अकण्टकद्रुमोत्थाश्चेत्यारभ्य नारनालविभावितमित्यन्तम् । एवं पुष्पादीनां हविःपाकद्रव्याणां च वर्ज्यावर्ज्यविभागः संहितान्तरेषु श्रीपञ्चरात्ररक्षायां (पृ० १२७-१३४) च विस्तरेण विचारितो द्रष्टव्यः ॥ २५-३८ ॥ कण्टक रहित वृक्षों में फूले अथवा कण्टक युक्त वृक्ष में भी जो मनोहर सुगन्ध कर्म के योग्य श्वेतादि वर्ण के पुष्पों का चयन करे, किन्तु उग्र गन्ध वाले, पूजा में वर्जित, अप्रसिद्ध (अज्ञात) पुष्पों का चयन न करे । चतुष्पथ में उत्पन्न, अपवित्र स्थान में उत्पन्न एवं श्मशान भूमि में उत्पन्न वृक्षों के पुष्प ग्रहण न करे ।

एकविंशः परिच्छेदः ५०७ वज्रपात से आहत, कृमि, कीट संयुक्त सभी पत्र, पुष्प, फलादि प्रयत्नपूर्वक वर्जित करे ॥ २४-२८ ॥ योक्तव्यानि पवित्राणि नित्यमाराधने तु वै । साङ्कुराणि च पत्राणि भूगतान्येवमेव हि ॥ २९ ॥ विहितान्यर्चने नित्यं यथर्तुप्रभवाणि च । न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् ॥ ३० ॥ सित रक्त एवं नील वर्णों वाले सुगन्धित पवित्र कमल नित्य आराधन में अवश्य ग्राह्य हैं, इसी प्रकार अङ्कुरयुक्त पृथ्वी से संयुक्त पत्र जो ऋतुकाल के अनुसार उत्पन्न होते हैं । वे भी अर्चन में विहित है, अतः ग्राह्य है, घर पर कनैल (करवीर) के पुष्पों से अर्चन न करे ॥ २९-३० ॥ विशेषतः सकामस्य सिद्धिभूतयुतस्य च । अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभिः ॥ ३१ ॥ सद्योहृतानां विहितस्त्वम्लानानां यथा क्रयः । प्रदानमम्बुसिक्तानां तेषां कार्यं न चान्यथा ॥ ३२ ॥ विशेष कर सकाम अर्चन करने वालों तथा सिद्धि से युक्त लोगों के लिये यह निषेध है । इससे अतिरिक्त लोगों के लिये करवीरार्चन निषिद्ध नही है । धतूरादि द्वारा अर्चन अवश्य निषिद्ध है । तुरन्त चुने गये म्लानता रहित (विकसित) पुष्पों को खरीद कर भी पूजा का विधान हैं, किन्तु खरीदने के बाद उन्हें जल से संसिक्त कर ही पूजा करे, अन्यथा नहीं ॥ ३१-३२ ॥ निर्दोषतां प्रयान्त्याशु मन्त्रिणामवलोकनात् । भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् ॥ ३३ ॥ हृदय मन्त्र में निरत मन्त्रज्ञ पुरुषों के अवलोकन से भी पुष्प निर्दोष हो जाते हैं । किं बहुना, भक्ति से भी वे पूत हो जाते हैं ॥ ३३ ॥ न कांस्यपात्रे भोक्तव्यं न तत्र विनिवेदयेत् । देवाय मधुपर्काद्यं तथा वै सति सम्भवे ॥ ३४ ॥ मृण्मयायसपात्रेषु न धूपमपि निर्दहेत् । धूपार्थं गुग्गुलुः साज्यो देयश्चाभवतोऽपरः ॥ ३५ ॥ कांस्य पात्र में भोजन न करे । उसमें भोजन रख कर नैवेद्य अर्पित नं करे । इसी प्रकार संभव होने पर देवताओं के लिये कांस्य पात्र में अर्घ्य प्रदान भी न करे । मिट्टी के पात्र तथा लोहे के पात्र धूप भी न जलावे अभाव में धूप के लिये साज्य गुग्गुल घण्टा शब्द के साथ दिया जा सकता है ॥ ३४-३५ ॥

५०८ सात्वतसंहिता सह घण्टारवेणैव दीपार्थं परिवर्जयेत् । मेदो मज्जाऽतसीतैलं घृतं तैलविमिश्रितम् ॥ ३६ ॥ दीप के लिये मेद, मज्जा, अतसी का तेल तथा तैल विमिश्रित द्रव्य का प्रयोग वर्जित है ॥ ३६ ॥ नाविकं मधुपर्कार्थे दधिक्षीरादिकं शुभम् । कौलत्थः कौद्रवः कृष्णशाल्युत्थो नौदनो हितः ॥ ३७ ॥ नापक्वान्नं न मांसञ्च नारनालविभावितम् । मधुपर्क के लिये भेंड का दधि एवं क्षीर शुभावह नहीं है । इसी प्रकार नैवेद्य के लिये कुलत्थ, कोदो एवं कृष्णशाली का भात शुभावह नहीं है । इसी प्रकार नैवेद्य में अपक्वान्न, मांस तथा आरनाल (काँजी) मिश्रित अन्न वर्जित है । पूजा करते समय जल्दीबाजी से न उठे ॥ ३७-३८ ॥ न चाराधनकाले तु समुत्तिष्ठेत् त्वरान्वितः ॥ ३८ ॥ आ समाप्तिक्रियां चैव उपरोधेन केनचित् । आराधनकाले केनचित् कारणेन त्वरया नोत्थातव्यमित्याह—नेति ॥ ३८-३९॥ किसी उपरोध से अपने को बन्द कर विष्णु पूजा करे और जब तक वह समाप्त न हो जावे तब तक न उठे ॥ ३८-३९ ॥ आधाराद् भगवद्विम्बाद् भद्रपीठान्मलच्युतिः ॥ ३९ ॥ न कार्या कण्टकैर्लोहैर्मृदुकूर्चादिना विना । न स्नायान्न स्वपेन्नग्नो न मौनं चाचरेद् गुरोः ॥ ४० ॥ बिम्बादिशोधनं शिखिपक्षादिमृदुकूर्चेर्विना कण्टकादिभिर्न कार्यमित्याह— आधारादिति ॥ ३९-४० ॥ भगवदाधार भगवद् चित्त भद्रपीठ से मलिनता-निवारण कोमल कूर्च के अतिरिक्त काँटे अथवा लौह जैसे कड़े पदार्थों से न करे । निर्वस्त्र हो कर स्नान तथा शयन न करे । गुरु को चुप न करे ॥ ३९-४० ॥ नोच्छिष्टं संस्पृशेत् किञ्चिन्नाश्नीयाद् भगवद्गृहे । सन्निकर्षे न चाग्नेस्तु न गृहे मद्यसंकरे ॥ ४१ ॥ स्नानकाले स्वापकाले च विवस्त्रो न भवेत्, गुरुषु मौनं न कुर्यात्, उच्छिष्टं न स्पृशेत्, भगवन्मन्दिरादिषु न भुञ्जीतेति चाह—नेति सार्धेन । अत्र भोजननिषेधमात्र- तात्पर्येण निकृष्टोत्कृष्टानां सह पाठः कृत इति बोध्यम् । यथा "श्वयुवमघोनाम्" (६।४।१३३) इति सहपठिताः पाणिनिना ॥ ४१ ॥

एकविंशः परिच्छेदः ५०९ उच्छिष्ट रूप में उनका स्पर्श न करे । भगवान् के मन्दिर में भोजन न करे । इसी प्रकार अग्नि के समीप तथा मद्य स्थापित घर में भी साधक को पूजा नहीं करनी चाहिए ॥ ४१ ॥ भक्तानां कृतदीक्षाणां व्यङ्ग्यः शास्त्रार्थ एव हि । अन्येषां धर्मशास्त्रं च लोभनिर्मुक्तया धिया ॥ ४२ ॥ शिष्याणां विष्णुभक्तानां नित्यं कुर्याच्च संग्रहम् । कृतदीक्षाणामेव भगवच्छास्त्रो वाच्यः, तदन्येषां तु केवलधर्मशास्त्रमेव वाच्य- मिति, द्रव्यसंग्रहणबुद्धिं विना केवलमुपकारार्थं वैष्णवानां शिष्याणां संग्रहणं कुर्यादिति चाह—भक्तानामिति सार्धेन ॥ ४२-४३ ॥ शास्त्रार्थ की व्याख्या दीक्षा-प्राप्त भगवद् भक्तों को ही करे । अन्यों से लोभरहित बुद्धि से मात्र धर्मशास्त्र का व्याख्यान करे । जहाँ तक हो सके शिष्यों एवं विष्णु भक्तों का संग्रह करे ॥ ४२-४३ ॥ मानमात्सर्यकार्पण्यलोभमोहादयोऽगुणाः ॥ ४३ ॥ नेतव्यास्तानवं सर्वे यावज्जीवावधि क्रमात् । स्वनिष्ठाः शिष्यनिष्ठाश्च मानादिदुर्गुणाः कार्श्यं नेतव्या इत्याह—मानेति। तानवं तनुत्वम्, कार्श्यमित्यर्थः ॥ ४३-४४ ॥ मान, मात्सर्य, कार्पण्य, लोभ एवं मोह आदि अवगुणों को यावज्जीवन कम करने का प्रयास करता रहे ॥ ४३-४४ ॥ अकस्मादुपसन्नानां देशान्तरनिवासिनाम् ॥ ४४ ॥ इष्टोपदेशः कर्तव्यो नारायणरतात्मनाम् । देशान्तरादागतानां वैष्णवानामिष्टोपदेशः कार्य इत्याह— अकस्मादिति ॥ ४४-४५ ॥ अकस्माद् देशान्तर से अपने समीप में आये हुए नारायण परायण भक्तों को कल्याणकारी उपदेश करे ॥ ४४-४५ ॥ यो न वेत्त्याच्युतं तत्त्वं पञ्चरात्रार्थमेव च ॥ ४५ ॥ तथा सद्वैष्णवीं दीक्षां नानाशास्त्रोक्तलक्षणाम् । न तेन सह सम्बन्धः कार्यों भिन्नक्रमेण तु ॥ ४६ ॥ अवैष्णवेन सह सम्बन्धो न कार्य इत्याह—य इति सार्धेन ॥ ४५-४६ ॥ जो अच्युत तत्त्व नही जानता, जिसे पाञ्चरात्र का ज्ञान नहीं है और नाना शास्त्रों में प्रतिपादित वैष्णवी दीक्षा का ज्ञान जिसे नहीं है, इस प्रकार के अवैष्णवों को विरुद्ध क्रम से उपदेश न करे ॥ ४५-४६ ॥

५१० सात्वतसंहिता न शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्व उपप्लवः । आचर्तव्य इहाज्ञानात् पारम्पर्यक्रमं विना ॥ ४७ ॥ शास्त्रशास्त्रार्थयोः साङ्कर्यं न कार्यमित्याह—नेति । एतद्वचनतात्पर्यमेवमुक्तं श्री- पञ्चरात्ररक्षायाम्—‘‘अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु परिदृश्यमानप्रमाणमूला- न्याचारपरम्परागृहीतानि च कर्माणि न मात्रयापि परिहाप्यानि, न च तद्विरुद्धान्युपा- देयानीत्युक्तं भवति’’ (पृ० ५) इति ॥ ४७ ॥ प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः । प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम् ॥ ४८ ॥ चिरकालराष्ट्रक्षोभादिना प्रस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु वृद्धमुखात् तज्ज्ञातव्यमित्याह—प्रष्टव्य इति ॥ ४८ ॥ जिस स्थान पर परम्परापूर्वक शास्त्रार्थ प्रस्खलित नहीं है, वहाँ परिदृश्यमान प्रमाण के साथ मूलाधार शास्त्र को स्थापित न करे । वहाँ रञ्चमात्र भी कर्म व्याख्यान परिस्खलित न करे और न लोक विरुद्ध उपदेश ही करे । जहाँ राष्ट्र क्षोभ के कारण वैष्णव ज्ञान की परम्परा प्रस्खलित हो गई है, उसके परिज्ञान परम्परा को वृद्ध वैष्णवों द्वारा जानना चाहिये ॥ ४७-४८ ॥ मुद्रामण्डलमन्त्राणां निस्सन्देहपरेण च । भवितव्यं गुरूणां च सकाशात् सर्वदैव हि ॥ ४९ ॥ मुद्रामण्डलमन्त्राश्च गुरोः सकाशान्निःसन्देहं ज्ञातव्या इत्याह—मुद्रेति ॥ ४९ ॥ भगवन्मन्त्रों में गुरु के द्वारा मुद्रा, मण्डल और मन्त्र का ज्ञान संदेह रहित होकर करे ॥ ४९ ॥ न च सर्वज्ञमन्त्राणां विना भावांशकेन तु । आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्डलदर्शनम् ॥ ५० ॥ भगवन्मन्त्राणां सिद्धारिवीक्षणादिनाऽऽनुकूल्यान्वेषणं न कार्यमित्याह— न चेति ॥ ५० ॥ भगवन्मन्त्रों में सिद्ध अरिमन्त्र का विचार न करे । सर्वदा उनके अनुकूल होकर ही अन्वेषण या अनुसंधान करे ॥ ५० ॥ नाभिचक्रे तु हृत्पद्मे कन्दमूले गलावटे । भ्रूमध्ये ब्रह्मरन्ध्रे च स्थानेष्वेतेषु मन्त्रराट् ॥ ५१ ॥ स्मर्तव्यः सूर्यसंकाशः प्रवासे शयनेऽध्वनि । स्वशरीरे मन्त्रनाथस्मरणस्थानानि तत्कालांश्चाह—नाभीति सार्धेन ॥ ५१-५२ ॥

एकविंशः परिच्छेदः ५११ अब अपने शरीर में मन्त्रनाथ के स्मरण का स्थान तथा उसके लिये उचित काल कहते हैं—नाभिचक्र, हृत्कमल, कुण्डलिनी का मूल, गलारूप गर्त में, भ्रूमध्य में और ब्रह्मरन्ध्र में—इन स्थानों में मन्त्रराट् का स्मरण करे ॥ ५१ ॥ प्रवास, शयन तथा रास्ते में सूर्य के समान प्रकाशित इष्टदेव के मन्त्र का स्मरण सर्वदा करे ॥ ५२ ॥ मृगसूकरमांसानि नाद्यान्मीनोत्थितानि च ॥ ५२ ॥ न हंसकच्छपीयानि न शृङ्गाटपलानि च । न तथा पद्मबीजानि न वटाग्रं समारुहेत् ॥ ५३ ॥ सिंहसूकरादिरूपैर्भगवतोऽवतीर्णत्वात् तत्तन्मांसानि न भक्षयेत् । तथा चतुष्पथ- विक्रीतमांसानि च न भक्षयेदिति चाह—मृगेति । मृगसूकरादिषु भगवद्बुद्धिरेव कार्येति भावः । उक्तः खलु नृसिंहकल्पे समयोपदेशप्रकरणे— दूरादेव नमस्कार्यो मृगराड् व्याघ्र एव वा । तदाकृतिर्मृगो वान्यौ तच्चर्मापि च नारुहेत् ॥ (१७।१२९) इति । एवं मांसनिषेधश्च कृतयुगविषयः, कलौ सामान्यतो निषेधात् ॥ ५२-५३ ॥ मृग, सूकर तथा मछली के मांस का भोजन न करे । इसी प्रकार हंस, कच्छप तथा सींग वाले जीवों का मांस न खावे । भगवदाश्रित होने के कारण कमलगट्टा न खावे तथा वट पर भगवान् के शयन करने के कारण वट पर आरोहण न करे ॥ ५२-५३ ॥ छेद्यमानं न तत्पश्येत् तद्दलं नाङ्घ्रिणा स्पृशेत् । एवं पद्मस्य भगवदाश्रितत्वात् तद्बीजानामभक्ष्यत्वम्, भगवतो वटपत्रशायित्वात् तदारोहणादिनिषेधं चाह—न तथेति ॥ ५३-५४ ॥ वट के दल को तोड़ते हुए न देखे और उसके पत्ते को पैर से स्पर्श भी न करे ॥ ५४ ॥ चातुर्मास्यव्रतानुष्ठानस्थानकथनम् पुण्यक्षेत्रं महातीर्थं सिद्धाश्रममनुत्तमम् ॥ ५४ ॥ वैष्णवीं पर्षदं वापि व्यक्तिस्थानं तथाच्युतम् । आसाद्य मण्डलं कृत्वा चक्रं वा द्वादशारकम् ॥ ५५ ॥ निर्वाहणीयं विधिवत् चातुर्मास्यं महामते । गृहे संयमपूर्वं वा चक्रं कृत्वा तु कुड्यगम् ॥ ५६ ॥ चतुर्विधेन रजसा प्रतिमाया अथाग्रतः । चातुर्मास्यव्रतानुष्ठानस्थानान्याह—पुण्यक्षेत्रमिति त्रिभिः ॥ ५४-५७ ॥