भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२७ कुम्भकारादि कारणं, तत्रापि पूर्वं घटान्तरं यदि आकलितं स्यात्तदा कर्तव्यस्य घटान्तरस्य किमायातं येन तत्क्रियते, तदर्थस्य अतिचित्रता अनुपपद्यमानस्यापि भावादित्युपहासः ॥ ४४ ॥ अंकुरो१ जायत इति न भवेत्कारकात्मता ॥ ४५ ॥ असत्त्वे कारकाणां हि समूहो न भवेत्तदा । कर्माख्यस्य ह्यसत्यत्वात्तत्संबंधोऽसता कथम् ॥ ४६ ॥ तस्मात्स२ एव भगवान्स्वयमेव प्रकल्पते । तथा तथाभावरूपैः सन्नेव परमेश्वरः ॥ ४७ ॥ अङ्कुरो जायते बीजभूमावित्यत्रासतोऽङ्कुरस्य कारणता कर्तृता न स्यात्, घटं वा करोति कुम्भकारः इत्यसता कर्मणा कारकान्तराणां कर्तुर्वा कः संबन्धः, तत्कथं समूहः कारकाणां, ततः क्रिया नोत्पद्येत । तस्मा- च्चिद्रूपः परमेश्वरस्तथाभावस्वरूपैः स्वयमेव प्रकल्पते भवति । स च नित्यमेव सन्निति कथमसत्कार्यताशङ्का ॥ ४७ ॥ स्वयं३ च न प्रजायेत केनाप्येन प्रजन्यते । व्यतिरिक्तेन कर्त्राद्या यदि स्युस्ते तदात्मकाः ॥ ४८ ॥ तत्तस्य जन्मिता युक्ता व्यतिरिक्तैः कथं भवेत् । १ अथ च अनेककारकसाध्यं हि कार्यं, ततश्चैकस्याभावेऽपि किं सर्वेऽपि असत्कल्पाः स्युः, तथाहि अङ्कुरो जायते कर्मणोऽ- भावेऽपि कारणमस्त्येव, तथा घटं करोति कुंभकार इत्यत्र कर्तृकरणकर्मा- धिकरणाद्यनेककारकसन्वये कर्माभावमात्रे किं न सिद्धिरमीषामिति पूर्वपक्षमाशये कृत्वा कर्मण एवानेककारकसन्वयं दर्शयति । कर्मणि सति सर्वमेवैतत्सिद्धयति, नान्यथेत्याशयेन कर्तृकर्मणोः सामानाधिकरण्य- दर्शनार्थमङ्कुर इत्यादि । २ यतो न कथंचनापि जडस्य कारणता येनासतोऽपि कार्यस्योत्पत्तिः स्यात्तदेतद्यत्नसिद्धमित्याह तस्मादिति । ३ असत्त्वाच्च स्वयं यदि न जायते इति यदि भवद्भिः कथ्यते, न हि स्वयमसन् शशशृङ्गा- दिरन्येन जनयितुं शक्त इत्यर्थसंक्षेपः । ननु चैतदेव कारणस्य कार्याद्वैशिष्ट्यं यदन्यजननं, तदभावे कथं कारणमिति व्यपदिश्यत इत्याशङ्क्याह स्वयं चेत्यादि ।

१२८ शिवदृष्टिः [ आ०-४ स्वयं चासत्त्वाद्घटादिः कथं जायेत जननकर्ता¹ कथं स्यात् यदा, तदा केन सामर्थ्येनान्येनापि कुम्भकारादिना कथमसत्² जन्मयोग्यता- लक्षणस्वभावरहितं शशशृङ्गादविशिष्टं जन्येत । जनयिता यद्यपि सन्, तथापि तत्सत्ता³ जन्यस्य न काचिद्भवति व्यतिरिक्तत्वात्, ततस्तयापि⁴ न तस्य योग्यतापत्तिः । एवं सा⁵ जन्मयोग्यतायां व्याप्रियेत यदि तया तस्य जन्मिता युज्येत यदि⁶ जनयिता कर्ता सहकारिणश्च करणादिरूपा जन्यात्मकाः स्युः । व्यतिरिक्तैस्तु सद्भीरूप्यसतः कथं जन्मिता भवेत् ॥ ४८ ॥ जन्मकाले⁷ घटाभावात्संबन्धो नैव कारकैः ॥ ४९ ॥ नासंबद्धस्य करणं सत्कार्याच्चेत्स विद्यते । सन्नप्यसावसंवेद्यो व्यञ्जकस्याप्यभावतः ॥ ५० ॥ तस्मात्स्वयं स्वभावेन भावैर्भावी भवेद्भवः । घटस्य जन्यस्य जन्मारम्भकालेऽभावात्कुम्भकारमृत्पिण्डादिभिर्न संबन्धः । न च अविद्यमानसंबन्धस्य करणं पूर्वमपि⁸ अन्यतोऽपि वा प्रसङ्गात् । जन्यासंबन्धेऽपि⁹ तदपेक्षयैव जनकानामेव स सामर्थ्यस्य विशेषो येन¹⁰ तेषु तस्य विशिष्टस्यैव सत्ता, न तु यस्य कस्यचिदित्येषोऽ- सत्कार्यवादः ईश्वरप्रत्यभिज्ञादौ निराकृतः । अथ स विद्यते संबन्धः सतः¹¹ १ भवन्मतमेतदित्यर्थः । २ जन्मयोग्यतालक्षणस्वभावरहितं च शशशृङ्गमसदित्युच्यते । ततश्च तस्य न केनापि जननं युक्तम् । तथा यद्यदसत्सर्वं तत्तत् तथैवेति कथं जन्मासतोऽपि संभवेदित्यर्थः । ३ जन- यितृसत्ता । जन्यस्य असत इति शेषः । ४ जनयितृसत्तया, तस्य जन्यस्य, योग्यतापत्तिः सत्त्वयोग्यता । ५ जनयितृसत्ता । ६ युज्येतेत्युक्तं, तामेवोप- पत्तिमाह यदीति । ७ ननु च तदेव विवेच्यं यत्समन्तरं जन्यकार्योत्पत्तिः । पूर्वं तु कुम्भकारसंविदि बीजे वा परमेश्वरप्रकाशे वा सत्कार्यमस्तु भवता- मस्मन्मते वासव्, न तत्र व्यर्थं ग्रहः । यस्तु जन्मारम्भकालस्तत्र क्रियमाण- त्वादेव सदसत्त्वसंशय इति स एव सम्यग्विवेच्य इत्यपि समर्थयितुमाह जन्मकाल इति । ८ कुम्भकारादिसंबन्धात्प्राक् अन्यतोऽनियतमेव । ९ इदानीं पूर्वं सत एव सर्वक्रियासंबन्धमाह जन्यासंबन्धेऽपीत्यादिना । १० येन- पूर्वसत्त्वेन हेतुना । ११ कुम्भकारादिक्रियया निष्पाद्यत्वात् ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२६ कार्यात्मकत्वात्कार्यस्य । तदपि न, यतः सन्नप्यसौ जन्यो घटादिरर्थोऽ- संवेद्योऽसंवेद्यत्वाच्च संबन्धिनोऽप्रख्यत्वेन संबन्धागमनं व्यञ्जकत्वं च कुम्भकारादेर्घटं प्रति नास्ति यतः सर्वथा प्रतीत्यगोचरे वस्तुनि व्यञ्जको न भवति । सिद्ध एवार्थे व्यञ्जको मतो यथा घटादौ दीपः । ततो व्यञ्जक- स्यापि अभावतः कथं संबन्धः । एवं हि कारणं कार्यात्मना सत्तदा भवेत् यद्यव्यतिरेकस्तयोः १ स्यात् । स च प्रत्यक्षविरुद्धः । तस्मादविरुद्ध- सर्वभावैकभावः स्वयं भव एव परमेश्वरस्तथास्थानस्वभावेन, नावरेण हेतुना कारणेन भावाभावैः संसारवर्तिभिर्भावी भवत्यभीक्ष्णं तत्स्वभावत्वात् । अथवा २ नित्यं भावसंबन्धीति शिवकारणतया सत्कार्यवादः ॥ ५० ॥ इतोऽपि ३ विद्धि सत्कार्यं मृत्पिण्डात्किं घटः पृथक् ॥ ५१ ॥ अपृथग्वा पृथक्त्वे तु पटादेः करणं न किम् । अनुपादानतैव स्यादपृथक्त्वे स एव सः ॥ ५२ ॥ इतोऽपि शिवात्मतया अर्थानां सत्कार्यवादोपपत्तिं जानीहि यतो मृत्पिण्डघटयोः सदासत्कार्यवादेऽपि कार्यकारणतोपपत्तिः । मृत्पिण्डाद्धि घटस्य पृथक्त्वे तथा च असत्त्वे पटशशविषाणयोरप्यसत्त्वाविशेषात्करणं स्यात् । न चास्ति तत्, असत्यर्थे पदबन्धस्यान्यापरिहारेण कार्यत्वेन स्वीकरणस्य कर्तुमशक्यत्वात्, तस्य मृत्पिण्डादेरनुपादानतैव स्यात् प्रकृति रूपता नैव स्यादित्यर्थः । अपृथक्त्वे मृत्पिण्ड एव स घटः, न तु अपूर्वः । ततः प्रागपि पिण्डो घटः स्यात् ॥ नामसंस्थानभेदश्चेद्धस्ते मुष्ट्याद्यभेदिता । स्थितमेव हि सत्कार्यमत एवाविनाशिता ॥ ५३ ॥ शिवस्य भावनाशेऽपि मौलिनाशेऽपि हेमवत् । अथ मृत्पिण्डघटयोर्नामसंनिवेशभेदात् भेद एव, तत्कथं सत्कार्य- मिति । तन्न, नामसंस्थानमात्र एवात्र भेदः, न तु मृद्रूपतायां यथा हस्ते १ नहि कुम्भकारघटयोः परस्परमव्यतिरेको येन कुम्भकारमृत्पिण्डयोः संबन्धः सिद्ध्येत् । २ भावीत्यस्यार्थान्तरमाह अथवेति । नित्ययोगे मत्वर्थीय इनिप्रत्ययः । ३ इत्थं कारणभावेन सत्कार्यवादं समर्थेदानीं कार्यभावे- नापि सत्कार्यवादं समर्थयतीतोऽपीत्यादिना । ६

१३० शिवदृष्टिः [ आ०-४. मुष्टिप्रसृततादेः । अत्र हि हस्तता तुल्या द्वयोरपि, तथा सद्‍रूपता अनयोः । एतच्चात्यन्तप्रसिद्धमेतद्‍व्युत्पादनार्थं प्रदर्शितम् । वस्तुतो मृदपि पर्यालोच्यमानशब्दस्पर्शादितन्मात्रमयी जलादिविलक्षणा यावत्त्रैगुण्य- तादवस्थ्यम्, तत्तावदवस्थेऽपि यानि कार्याणि महदादीनि पृथिव्यन्तानि घटा- द्यन्तानि वा, तानि त्रैगुण्यमात्ररूपाणि विश्वस्यैकत्वापत्तेः । तदधिकत्वे तु इदं शब्दतन्मात्रमयमाकाशः, इयं पृथिवी, अयं घटः, अयं पट इति विभागः । विभागोऽपि च तद्भेदाद्वास्तव एव । न च प्रकाशमानस्यावस्तुता युज्यते त्रैगुण्यस्यापि तथा प्राप्तेः । प्रकाशनं च प्रतीयमानता प्रत्यक्षेणास्तु अनुमानेन वा सर्वथा सद्‍रूपवत्ता स्यात् । एवं च मृत्पिण्डोऽन्य एव सति यस्मिन् घटो भवति, घटश्चाप्यन्यो, मृदप्यन्या, या सर्वमृण्मयेष्वनुगता, घटश्चाननुगतः । न च अनुगताननुगतयोरैक्यं घटते, ततश्च पटादेः करणं न किमिति दोषः । दर्पणवत् विश्वप्रतिबिम्बयोगि त्रैगुण्यमित्यभ्युपगमेऽपि यद्वशात् तथाप्रतिबिम्बयोगस्तदेव कारणम्, तत्रापि भेदाभेदपर्यालोचनाद- नुपपत्तिरिति चिन्मयशिवरूपतैव सर्वकार्याणामीश्वरप्रत्यभिज्ञोक्तन्याये- नेत्याह स्थितमेव हि सत्कार्यमिति । अत एव शिवरूपतया सत्त्वादविना- शिता । न हि शिवस्य स्वसंविद्रूपस्य सतो विनाश इतीश्वरप्रत्य- भिज्ञायामेवं चोक्तम् । मौलिनाशेऽपि हेमवदिति सर्वलोकानुसारेण पूर्ववन्निदर्शनम् ॥ ५३ ॥ नाशः कटकरूपेण सद्भावः कुण्डलादिना ॥ ५४ ॥ सुवर्णत्वेऽपि न भ्रंशः संस्थानेऽपि विचार्यताम् । कटककुण्डलादिलौकिकनिदर्शनेन संस्थानमात्रभेद उक्तः। संस्थानेऽपि भेदो विचार्यताम् ॥ ५४ ॥ तद्विचारेण च शिवकारणतामेव पर्यवसानयन्नाह-- किं शिवत्वेन तद्व्याप्तमव्याप्तं वाभिधीयताम् ॥ ५५ ॥ व्यापित्वे तद्विनाशित्वमव्याप्तौ स्यात्प्रदेशिता । मौलिशिवत्वव्याप्तौ मौलिविनाशे शिवविनाशः । शिवाव्याप्तत्वे वा शिवस्य प्रदेशवृत्तित्ता मौलिघटपटादिस्वरूपदेशपरिहारेणावस्थाने भिन्नस्वरूपदेशत्वं ततश्चाविभुत्वमिति संस्थाने उभयथाभिधीयमानो दोषः ॥ ५५ ॥

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३१ नैवं यतो हि भावानां विनाशोऽस्मासु नेष्टता ॥ ५६ ॥ अंशाभिव्यक्तिता नाशो न नाशः सर्वलोपिता । न उक्तदोषः। यतो भावानां विनाशो विषये नेष्टता अस्मा- न्प्रति, भावा न विनाशिनोऽस्माभिरिष्यन्ते इति यावत्। अस्मद्दर्शने हि मौलेः कटकोत्पादकाले अंशस्य हेममात्रस्याभिव्यक्तिः प्राक्तनस्य मौलिपरिणामक्षणस्येति नाश उच्यते न तु सर्वांशादर्शनम्। ततो न निरन्वयविनाशदोषः, नाप्यंशस्य निरन्वयता अनभिव्यक्तिमात्रस्य नाशत्वात् ॥ ५६ ॥ अभिव्यक्तेर्विनाशित्वे तत्राप्यानन्त्यमापतेत् ॥ ५७ ॥ इन्द्रियाणामसामर्थ्यमात्रमत्र विनाशिता । असावेवानभिव्यक्तिः स प्रच्छन्नस्तदा स्थितः ॥ ५८ ॥ अथ स्थितानामेवार्थानं यथाभिव्यक्तिमात्रस्योत्पादस्तथा विनाशोऽपि तस्यैवेति प्राक्तनांशमात्रस्यानभिव्यक्तिर्विनाश उक्त इति। एतन्न। यतो यथाभिव्यक्तेरप्यसत्या उत्पत्तिरुत सत्या इत्यर्थोत्पादोक्तदोषोऽन- वस्था च, तथैवार्थस्य विनाशो नोपपन्नः सतो विनाशाद्योगात् तथाभि- व्यक्तेरपि। अथाभिव्यक्तिरेवाभिव्यक्तेर्विन्नश्यति, न सत्ता। तत्तस्या अपि अभिव्यक्त्यभिव्यक्तेर्न सत्ता नश्यति, अपि तु अभिव्यक्तिरित्यानन्त्यं स्यात्। अथत्रा अभिव्यक्तेर्विनाशोऽपि किमसन्नुत्पद्यते अथ सन् ? असत्ये सत्कार्यवादहानिरनुपपत्तिश्च। सत्त्वे पूर्वमेव विनाशः स्यात्। अथाभि- व्यक्तिविनाशस्य कारणेन क्रियते तत्पूर्वोक्ता अनवस्थेत्यानन्त्यम्। एवमस्मद्दर्शन ईश्वरप्रत्यभिज्ञोक्तनीत्या यथोभयेन्द्रियवेद्यत्वं शिवाभेदा- ख्यातिमयमर्थानां करणम्, तथा विनाश उभयेन्द्रियवेद्यत्वाभावः शिवाभेदः शिवत्वेन प्रच्छादनं, तदेवोक्तम् -'इन्द्रियाणामसामर्थ्यं' 'तथासावेवानभि- व्यक्तिः, स घटादिः शिवतया प्रच्छन्नस्तदा स्थित इति ॥ ५८ ॥ इतोऽपि नाशो नास्त्यस्य घटस्य करणात्पुनः । नाभावप्राप्तरूपस्य करणं युज्यते पुनः ॥ ५९ ॥ तस्माद्भावविनाशोऽपि शिवतत्त्वाविनाशिता । इतोऽपि हेतोर्नाशो नास्त्यस्य घटादेः पुनः करणात्। न हि यस्य सर्वथा शशविषाणतुल्यभावं प्राप्तं रूपं तस्य अर्थस्य पुनः सत्ता भवेत्।

१३२ शिवदृष्टिः [ आ०-४

ननु पूर्वोऽन्य एव घटः शशविषाणतामेव च प्राप्तोऽयं चान्य एव क्रियते । तदेतन्नास्ति । न हि घटादन्यो घटः स्यात् महत्त्वलोहित्वोच्छ्रितत्वादि- सामान्यान्तरसंपर्केऽन्तरवस्थित एव इन्द्रियवेद्योऽभेदाख्यातिमयः क्रियते इति पूर्वमुक्तम् । तस्मादुक्तक्रमेण भावानां शिवतत्त्वनिमज्जनरूपेण तदभेदाख्याति- विनाशोऽपि शिवतत्त्वाविनाशिता । एवमुत्पत्तिविनाशान्यथानुपपत्त्या सर्वशिवता व्यवस्थिता ॥ ५६ ॥ इतश्च सर्वशिवतावयवेभ्यो न कुत्रचित् ॥ ६० ॥ व्यतिरेकोऽवयविनस्तदेवेदं विचार्यताम् । भिन्नेष्वैक्यभेदश्च यथा तत्र व्यवस्थितम् ॥ ६१ ॥ तथा तत्र परिज्ञेयं पत्युः सामर्थ्यमीदृशम् । अभिन्ने भेदता येन भिन्नेष्वप्यस्त्यभेदता ॥ ६२ ॥ यथावयवगं रूपं तथा सर्वपदार्थगम् । इतोऽपि च हेतोः सर्वशिवता । अवयवेभ्यो व्यतिरिक्तोऽवयवी न क्वचित् ज्ञाने चाक्षुषे मानसे वा अवभासते । यैरपि व्यतिरिक्तोऽसौ प्रतिज्ञा- तस्तैः प्रतीतिः समवायवशादभेदेनैव इष्यते । तच्च इदं विचार्यताम्- यद्यपि विततावभासेऽवयवा भिन्ना व्यवस्थिताः परमाणुमात्रे ह्यभेदिनि वैतत्याभावात्तथाप्येक एव देवदत्तसंज्ञोऽर्थो निःसन्धिबन्ध एकघनोऽ- वभातीति भिन्नेष्वेवावयवेषु ऐक्यं भाति । तत्र यथैक्यं, तथा पत्युः शिवस्य चिन्मयस्य तत्सामर्थ्यमीश्वरप्रत्यभिज्ञायामुक्तं येन सामर्थ्य- नाभिन्ने देवदत्तेऽवयवभेदात्मता, अवयवेषु च भिन्नेषु एकैव देवदत्तता युज्यते, यथा अवयवभेदगतमेकं रूपम् । एवं त्रैलोक्यवर्तिष्वपि सर्वेष्वेवार्थेषु गतं शिवरूपम् ॥ ६२ ॥ तदेव व्यनक्ति-- क्व पाणिपादं क्व शिरो यथैक्यं भिन्नदेशगम् ॥ ६३ ॥ तद्वत्सर्वपदार्थानां जगत्यैक्ये स्थितः शिवः । अवयवभेदस्यापि अभिन्नावयविरूपता शिवरूपतयैवेति प्रतिपादि- मीश्वरप्रत्यभिज्ञायामेवं जगत्यैक्ये शिवरूपतोपपादिका स्थिता ॥ ६३ ॥ शब्दादेर्ग्रहणं नास्ति पूर्वापरसहोदितैः ॥ ६४ ॥ मनसः प्रेरणं कस्मात्प्राग्ज्ञानेन विना स्थिता ।

श्लो. ७-४ ] उत्पलदेवकृतवृत्त्योपेता १३३ सर्वैकतात एवात्र तथा सौषुप्तबोधनम् ॥ ६५ ॥ घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः । योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥ ६६ ॥ अत एव चात्र जगति सर्वैकता स्थिता यतः शब्दस्पर्शरूपादेर्विषयस्य सर्वस्य पूर्वापरसहोत्पन्नैर्ज्ञानैर्व्यतिरिक्तत्वाज्ज्ञानं नास्ति । तथाहि पूर्वं तावज्ज्ञानं कथं विषयेण विना स्यात्, पश्चाच्च सहापि द्वयोः स्वात्मनि स्थितयोः कथं ग्राह्यग्राहकभावः, अर्थाभिसन्धिज्ञानेन च विना कस्मा- दात्मना मनसः प्रेरणं, तद्बाह्यार्थग्रहणार्थमस्ति चेत्पूर्वं ज्ञानं किं मनः- प्रेरणेन । न चाभिसन्धिज्ञानेन बाह्योऽर्थो ज्ञातस्तदर्थं मनसः प्रेरणं न स्यात् । तस्माच्चिद्रूपशिवैक्ये सर्वदा संवेदने स्थिते प्रक्रियामात्रमिदं नियतिशक्ति- कृतमीश्वरप्रत्यभिज्ञोक्तमभेदाभिधायिमयं द्रष्टव्यम् । तथा सौषुप्ते स्थितस्य प्रबोधनमुच्चैः शब्दादिसमुच्चारणेन कथं घटेतैकतां विना । तथाहि उच्चैः- शब्दादिज्ञानं प्रबोधनिमित्तं तस्य च प्राग्योगोऽथ न योग इति चोद्यैः कथं घटनम्, तथाहि प्राक् शब्दादिज्ञानेन योगे जाग्रदवस्थैव स्यात् तस्या- स्तथालक्षणत्वात्, प्राक् शब्दादिज्ञानस्य निमित्तस्य तु विरहे कथं प्रबोधः । तदेतदेव स्याद्द्विधैकत्वे शिवत्वाख्यातिप्रक्रियामात्रमेतत्स्यात् । तीव्रशब्दादि- केनाज्ञानेनाप्यावरणे कृते सौषुप्तविनिवृत्तिरिति च परोक्तं कुतः, प्रमाणात्सिद्धमिति च न निश्चायकम् ॥ ६६ ॥ सामान्यरूपता वास्ति सा चाभिन्ना विशेषतः । भिन्नाभिन्नात्मकः क्वापि पदार्थस्तादृगिष्यते ॥ ६७ ॥ सामान्यरूपता वा सर्वेषां शावलेयादीनां विशेषाणामैक्यात्मिकास्ति । सा चाभिन्ना तेभ्यो विशेषेभ्यः । भिन्नाभिन्नात्मको हि पदार्थः सांख्यार्हंतादि- दर्शने यथा प्रतीयते तादृग्वास्तव इष्यते । स च तत्त्वस्यैक्यं विना न स्यादिति वक्ष्यमाणेन संबन्धः ॥ ६७ ॥ बौद्धस्य चेन्न सामान्यमनुमानं निवर्तते । यथा सुवर्णभाण्डेषु न तथा हेमतान्वयोः ॥ ६८ ॥ सुवर्णमानयेत्युक्ते शून्यता किं प्रतीयते । विशेषस्पर्शविरहात्कदाचिदपि युज्यते ॥ ६९ ॥

१३४ शिवदृष्टिः [ आ०-४ तत्त्वस्यैक्यं विना न स्यादेकस्यैव विरुद्धता । सामान्येन विशेषेण कथमेकस्य योगिता ॥ ७० ॥ अथ सामान्यं बौद्धस्य नास्ति, तदनुमानं सामान्यविषयमभीष्टं हीयते । तथा सामान्यं विना यथा सुवर्णमानयेत्युक्ते सौवर्णकटककेयूरादि- ष्ठ्वर्थेषु प्रतीतिर्न तथा हेमताम्रयोः, ताम्रासंस्पर्शन हेम्न एव प्रतीतेः, कटककेयूरादिषु तु न कस्यचित्परित्यागः । अन्यापोहस्यापि सामान्यत्वेऽ- भ्युपगते किं सुवर्णमानयेति शून्यता प्रसज्यप्रतिषेधरूपा प्रतीयते विशेष- स्पर्शविरहाद्धेतोः, अपि त्वसौवर्णाव्यावृत्ताः सुवर्णप्रत्यवमर्शकारिणः त एकता- मापाद्यमाना विशेषा एवेति कदाचिदपि युज्यते इति काक्वा व्याख्येयम् । न कदाचिदप्येतद्युज्यते शून्यतापि भातीति । तदेतच्चित्तत्त्वस्य पदार्थैक्यं विना न स्यादेकस्यैवार्थस्य परस्परविरुद्धत्वात् । अचिद्रूपस्य बाह्यस्यैतन्न घटते, तद्व्यनक्ति सामान्येनेत्यभेदेन, विशेषेणेति भेदेन । चित्तत्त्वस्य पुनः स्वच्छन्दत्वान्न विरोध इत्युक्तं प्रत्यभिज्ञायामेव ॥ ७० ॥ एकतत्त्वं विनैतच्च व्यवहारो न जायते । शब्दार्थयोर्न संबन्धो भिन्नयोर्भिन्नदेशयोः ॥ ७० ॥ विरुद्धरूपयोर्भिन्नकरणग्राह्ययोरपि । मुखे हि शब्दो भूमौ च विद्यतेऽर्थ क्व संगमः ॥ ७१ ॥ अमूर्त एको मूर्तश्च द्वितीयो योगिता कथम् । इतश्चैकत्वं, यत एकचित्त्वात्मतां विना व्यवहारो न जायते । यतः शब्दार्थयोर्योऽयमेकपरामर्शमयो वाच्यवाचकलक्षणः संबन्धः, स कथं चित्तत्त्वे भिन्नदेशत्वे भिन्नमूर्तामूर्तत्वादिखभावत्वे भिन्नेन्द्रियग्राह्यत्वे च सति स्यात्, तदेव भिन्नदेशतादि व्यनक्ति मुखे हीति । योगिता संबन्धित्ता स चैकपरामर्शो भिन्नयोरपि सतोः ॥ ७१ ॥ तथात्मादेरदृष्टस्य तच्छब्दैर्योगिता कथम् ॥ ७२ ॥ असतः शशशृङ्गादेः शशशृङ्गादिनान्वयः । घटते जातुचिन्नेवमसतां व्यवहार्यता ॥ ७३ ॥ शब्देन चेत्तदेवं हि सर्वसंसारनाशता । असत्यव्यवहारेण तादृगेव जगद्भवेत् ॥ ७४ ॥

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३५ अप्रत्यक्षस्यात्मादेः शशशृङ्गादेश्चासततः कथमात्मादिशब्देन शश- शृङ्गादिशब्देन च खपुष्पस्यापि खपुष्पशब्देन योजनम् । नैवं दोषः, असता- मेव हि शब्देन व्यवहार्यता शब्दानामसद्विषयत्वात् यदि, तदेवं हि सर्वस्य संसारस्य नाशः प्राप्नोति । तद्व्यनक्ति असत्येन शब्दव्यवहारेण तादृशम- सत्यमेव जगद्द्भवेत् जगतश्च प्रतिभासमानशब्द ॥ ❀ तथाभिनवजातस्य तन्नाम्ना संगमः कथम् । तत्संगमस्यासत्यत्वे यन्त्रवश्यादिकं कथम् ॥ ७५ ॥ तस्मादैक्येन तत्त्वस्य सर्वं तदपि युज्यते । व्यतिरिक्तेन शब्देन मन्त्रेणानतिरेकिणा ॥ ७६ ॥ कथं न देवदत्तस्य यज्ञदत्तवदाख्यया । अत्र संकेतितत्वाच्चेत् संकेतेनात्र किं कृतम् ॥ ७७ ॥ संयोगश्चेन्न दूरेषु मूर्तामूर्तेषु युज्यते । शब्दस्योच्चारितध्वंसान्नष्टानष्टद्वये न च ॥ ७८ ॥ वाच्यवाचकरूपश्चेत्तस एष नियमः कुतः । यत्तस्य वाचकत्वं हि वाच्यत्वमपरस्य तु ॥ ७९ ॥ वाच्यवाचकरूपत्वे वाच्यवाचकतान्वयः । इतश्चास्ति जगत्यैक्यं प्रत्यक्षाग्रहणादपि ॥ ८० ॥ स्वलक्षणेन योगित्वाद्व्यवहारस्य सर्वतः । लोके चानुपपत्तेश्च प्रमा च व्यवहारगा ॥ ८१ ॥ बालमूकादिविज्ञानसदृशी कीदृशी क्रिया । सविकल्पस्य योगित्वाद्यथावस्तु ग्रहः कथम् ॥ ८२ ॥ तेन ज्ञेयमेकमेव वस्तु भिन्ने ग्रहः कुतः । तथानुमानं न भवेद्धूमाग्न्योरन्वये क्वचित् ॥ ८३ ॥ ❀ अतः परं व्याख्या न लभ्यते ।

१३६ शिवदृष्टिः [ आ०-४ अपूर्वयोगंगृहीतेऽपि तत्कालं गतयोर्द्वयोः । अगृहीते न गृहीतः सम्बन्धोऽग्निः प्रतीयते ॥ ८४ ॥ सामान्यमविशेषं चेदविशेषात्कुतः प्रमा । विशेषस्याप्यपूर्वत्वे कथं चास्ति समन्वयः ॥ ८५ ॥ सादृश्यादथ चेन्नास्ति याथात्म्येन समागमः । न च वात्रानुमानत्वं धूमतः केवलाद्भवेत् ॥ ८६ ॥ तत्सम्बन्धादथोच्येत सम्बन्धे द्विष्ठता न च । द्विनिष्ठत्वादेकतरग्रहणान्नापि तद्ग्रहः ॥ ८७ ॥ धूमदृष्ट्याथ कल्प्येत वह्निस्तद्योगितापि च । इतरेतरदोषोऽत्र दुर्নিবারः प्रसज्यते ॥ ८८ ॥ यावन्न वह्निकल्पना न योगकल्पना भवेत् । यावद्वा योगकल्पना न वह्निकल्पनाक्षमा ॥ ८९ ॥ आप्तवाक्यादथास्तोह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥ ९० ॥ सोऽप्यन्यथा प्रदर्शयेताक्षयतो रागद्वेषयोः । पित्रादेरप्यसत्यत्वं तत्रान्यत्र न निश्चयः ॥ ९१ ॥ तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥ ९२ ॥ शक्ताशक्तविकल्पैर्हि दीपज्वालाद्युदाहृतैः । स्थिरता नोपपन्ना ते प्रत्यक्षेणापि च स्थिता ॥ ९३ ॥ स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् । अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥ ९४ ॥

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३७ यावन्न सर्वभावानामेकत्वेन व्यवस्थितिः । परेण क्षणभंगस्य परामर्शगमः कुतः ॥ ९५ ॥ ततोऽप्येतच्छिद्वात्मत्वं भावानामुपपद्यते । तथार्थावगतिर्वाक्यात्पदाद्वा नोपपद्यते ॥ ९६ ॥ क्षणिकत्वेन शब्दानामनभिव्यक्तितोऽपि वा । स्फोटाभिव्यंग्यपक्षे तु तत्रापि क्रमता कथम् ॥ ९७ ॥ निर्भागत्वात्स्फोटतत्त्वे स्फोटतत्त्वात्मकात्कथम् । आभासरूपवस्तूनां शाब्दिकान्नो भवेद्ग्रहः ॥ ९८ ॥ तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥ ९९ ॥ मूर्तंचोदकवैकल्यान्मनश्चेत्प्रेरितास्य नो । एकत्वे पुनरीदृक् स्यात्सर्वत्रैव हि युक्तता ॥ १०० ॥ न चापि भेदे भावानां ग्रहणं ज्ञानमेव वा । संयोगेनोपपद्येत यदि दृष्ट्यादिना भवेत् ॥ १०१ ॥ नैवमक्षार्थसंयोगमात्रात् किं बोद्धुरुद्यमः । संयोगेऽन्यस्य सञ्जाते कथमन्यस्य बोद्धृता ॥ १०२ ॥ मनसोऽभिन्नकालत्वात् स्मृतिज्ञानमथोच्यते । प्रारब्धश्चासमाप्तश्च वर्तमानः क्रियामनु ॥ १०३ ॥ प्रक्रियामात्रमेवैतद्यतः पूर्वापरात्मता । क्रियायाः कारकाणां हि क्रमोऽस्त्येव स्वकर्मणि ॥ १०४ ॥ यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥ १०५ ॥

•१३८ शिवदृष्टिः [ आ०-४ साशक्या मूर्तरूपत्वाद्रूपं चेन्न कथं गुणः । गुणिनो नीयतेऽन्यत्र तृषार्तश्चाकृतिं प्रति ? ॥ १०६ ॥ अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥ १०७ ॥ करणे ज्ञानसम्बन्धाद्वाह्यार्थे किं न कल्प्यते । बुद्धेर्गुणत्वं मनसि प्राप्नुयादथ चेतसा ॥ १०८ ॥ एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते । तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥ १०९ ॥ वर्णनेन च चैतन्यमेतावन्मनसो यदि । स्वात्मशक्तिसमावेशादमूर्तविशता कथम् ॥ ११० ॥ तेन वा सम्प्रतीतेऽर्थे क्रियते किं तदात्मना । तत्स्वरूपआत्मसंयोगः संयोगोऽभिन्नदेशयोः ॥ १११ ॥ मनसावेदितार्थस्य तद्देशित्वमथोच्यते । वर्णिते योगिता कस्य यदि वा तत्स्वरूपतः ॥ ११२ ॥ संस्करोति तदात्मानममूर्तेः संस्कृतिः कथम् । तद्रूपमात्मन्येतद्येनाश्लेषो यदि चोच्यते ॥ ११३ ॥ चैतन्येनाप्यमूर्तेन मिश्रतान्यस्य कीदृशी । किं स्वयं तत्प्रमेयत्वमस्य चेदतिरेकतः ॥ ११४ ॥ मनसा किं किमक्षेण तेन चेत्तत्परम्परा । एवं तदन्धपारम्पर्यत्वरूपमिदं स्फुटम् ॥ ११५ ॥ किमात्मप्रेरणेनात्र ज्ञातेऽज्ञातेऽथवा बहिः । ज्ञाते तु ज्ञानरूपत्वात् प्रेरणं केन हेतुना ॥ ११६ ॥

४. सप्तम आह्निक: सर्व-पदार्थ शिवत्व सिद्धि, समावेश एवं ग्रन्थ उपसंहार

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३६ अज्ञातेऽमुत्र याहीति प्रेर्यते केन मानसम् । प्रेर्यप्रेरणतत्कर्तृ द्वयक्यिादुपपद्यते ॥ ११७ ॥ तस्माज्ज्ञेयं समग्रैक्यवस्तु शैवं व्यवस्थितम् । तथास्मरणयोगाच्च स्मर्यते किं तथाविधम् । ११८ । तादृग्दृष्टं दृष्टता स्यादथवा ज्ञानमेव तत् । दृष्टस्मरणयोरैक्ये स्थिते तदुपपद्यते ॥ ११९ ॥ तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः । युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥ १२० ॥ द्वयोरैक्यमनैक्यं वा तदैक्यं भिन्नयोः कथम् । अनैक्ये न स एवायमिति स्याद्घटदण्डयोः ॥ १२१ ॥ तस्मादैक्यमिह स्पष्टं संसारे समवस्थितम् । एषैव वार्ता संयोगे वस्तुरूपतया स्थिते ॥ १२२ ॥ परस्परेण चाप्यत्र तेषां रूपेण वान्यथा । तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥ १२३ ॥ शिविकोद्वाहकानां च न्याय एषोऽनुवर्तताम् । परचित्तपरिज्ञानात्तस्माज्ज्ञैयैक्यया ततः ॥ १२४ ॥ सार्थसेना वनाद्यात्म जगत्यैक्यं स्फुटं स्थितम् ॥ इति श्रीशिवदृष्टौ अनुपपत्तिचोदनालक्षणं चतुर्थ- माह्निकं सम्पूर्णम् ॥

अथ पञ्चममाह्निकम् अथ चेत् सर्वभावानां न विना तत्त्ववेककम् । समन्वयोऽस्ति तदिदं कथमैक्यं विभेदितम् ॥ १ ॥ तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते । यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥ २ ॥ न जातुचिद्विभेदित्वं तथा तदुपकर्णताम् । चित्त्वात् सर्वपदार्थानां विशेषः केन कथ्यताम् ॥ ३ ॥ विभेदेष्वपि तद्व्याप्त्याभेदेष्वप्येकता स्थिता । इच्छावन्तः सर्व एव व्यापकाश्च समस्तकाः ॥ ४ ॥ अमूर्ताश्च तथा सर्वे सर्वे ज्ञानक्रियात्मकाः । प्रभवश्च तथा सर्वे इच्छामर्शस्तथाखिलाः ॥ ५ ॥ सर्वे स्वात्मपरिच्छेदवन्तो नित्यमवस्थिताः । विकासाह्लादवन्तश्च सर्वे निर्वृतियोगिनः ॥ ६ ॥ घटादीनां समस्तानामिच्छादेरल्पतास्ति चेत् । अन्यत्र देहे सर्पादौ दीपादौ नाग्नितल्पके ॥ ७ ॥ स्वल्पतेजसि दाढ्र्चाद्वा सर्वत्र शिवतुल्यता । भवेदिच्छादिविषये सर्वत्र प्रविसारिणी ॥ ८ ॥ दुःखादिना विशेषश्चेत् तत्राप्यशिवता न च । दुःखेऽपि प्रविकासेन दुःखार्थे धृतिसंगमात् ॥ ६ ॥ दृश्यते बन्धनं तेषु धृतिः कीटादिके तथा । निर्वृत्या यत्र योगोऽस्ति तत्रैव शिवता स्फुटम् ॥ १० ॥ अथ चेच्चिद्वतामेतद्वक्तुं युक्तं कदाचन । पृथिव्यादेर्हि मूर्तस्य घटादेर्वा न युज्यते ॥ ११ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५ नैवं घटस्य चैतन्यमस्ति ज्ञानात् स्वकर्मणि । नाज्ञात्वा कर्तुमिष्येत तथाचिदवबोधनात् ॥ १२ ॥ प्रकाशज्ञानजननाज्जनः कर्ता जडे कथम् । जडेन व्यज्यते नापि चैतन्यमजडात्मकम् ॥ १३ ॥ चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् । तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडे भवेत् ॥ १४ ॥ कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता । प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥ १५ ॥ जानन् कर्तारमात्मानं घटः कुर्यात् स्वकां क्रियाम् । अज्ञाते स्वात्मकर्तृत्वे न घटः सम्प्रवर्तते ॥ १६ ॥ स्वकर्मणि ममैतत्तदित्यज्ञानान्न चेष्टनम् । कूलं पिपतिषति गोर्व्यवहारः प्रसिद्धयति ॥ १७ ॥ घटादेर्भवता ज्ञातमाचैतन्यं कथं यदि । चेष्टोन्मेषाद्यभावात्तन्मूर्छिते किं करिष्यसि ॥ १८ ॥ प्राणाद्युन्मेषविरहादभिव्यक्तं नु कस्य तत् । सर्वचैतन्यवादे तु चार्वाकोऽत्र न सिद्ध्यति ॥ १९ ॥ प्रत्येकं परमाणौ चेच्चैतन्येऽनेकचेतनाः । घटादयः प्रसज्यन्ते परमाणुकथा न हि ॥ २० ॥ तथा वा शिवतत्त्वस्य सम्भूतेरथवा तथा । एकैकशोऽस्ति चैतन्यमनभिव्यक्तरूपकम् ॥ २१ ॥ इतश्च तेऽपि चिद्वन्तः स्वात्मनि ज्ञानयोगतः । स्वयमेव न चेज्ज्ञानमात्मन्येषां प्रजायते ॥ २२ ॥ नान्यथा ग्रहणं तेषां देवदत्तेन चेद्द्भवेत् । देवदत्तोऽत्र किं कुर्याच्चक्षुश्चेत् प्रेरयेद्घटे ॥ २३ ॥ गोलकं न प्रयातीह शक्तेरव्यतिरेकतः । शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥ २४ ॥

आत्मनो व्यापकत्वेन शरीरे व्यर्थता भवेत् । जडत्वादथवा शक्तस्तच्छक्त्या तद्घटो भवेत् ॥ २५ ॥ पुरा शक्तेरानयते चक्षुः शक्तं न वेति वा । तस्यापि शक्तेः कल्प्यत्वे भवत्यानन्त्यसंगमः ॥ २६ ॥ प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् । मनसो न च बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥ २७ ॥ शक्तिर्घटेऽत्र किं कुर्याद् गृहीत्वान्तरथाविशेत् । बुध्नोदरादिकं तत्तु गृहीत्वा न च युज्यते ॥ २८ ॥ तथाकारणगुणत्वान्न द्रव्याच्च चलनं पृथक् । शक्तेर्न चापि तज्ज्ञानं येन सा तन्निवेदयेत् ॥ २९ ॥ अन्तर्विशति चेच्छक्तिरन्तरप्युपलम्भनम् । अप्रवेशान्न मनसः सम्बन्धः उपपद्यते ॥ ३० ॥ विभुत्वेनेन्द्रियाणां ते किं वृथैव शरीरता । चक्षुषा चेदर्पितं मे मनसात्मन्यथार्यते ॥ ३१ ॥ तदात्मन्यपरोक्षत्वे भवेदाप्तवचः स्फुटम् । ये विकल्पाः शक्तिगतास्तेऽप्यायान्ति मनः प्रति ॥ ३२ ॥ चक्षूरश्मिगमत्वं चेत् स प्रत्यक्षोऽर्करश्मिवत् । भावान् प्रतिबिम्बत्व आत्मनोऽपि न युक्तता ॥ ३३ ॥ प्रतिबिम्बेऽवसत्यत्वादमूर्तेष्वेगोचरात् । तस्माद्घटः स्वमात्मानमवगच्छन्नवस्थितः ॥ ३४ ॥ तदैव्यातच्चचक्षुषैव प्रक्रिया चेत् कथं स्थिता । तथा शिवस्य सर्गाद्रा प्रक्रियायास्तथात्मनः ॥ ३५ ॥ अन्धादेरप्यदृष्टचात्र घटः किं प्रथते न चेत् । शिवत्वस्य तथा व्यक्तेर्घटस्येच्छा तथास्ति वा ॥ ३६ ॥ इच्छावत्त्वमनेनैव न्यायेनास्य निजां क्रियाम् । अनिच्छुर्न करोत्येवमत एवास्ति निर्वृतिः ॥ ३७ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४३ नानिवृत्तौ प्रवर्तेत स्फुटे ज्ञानक्रिये स्थिते । कर्मप्रभवणत्वात्तत्प्रभुत्वमवधार्यते ॥ ३८ ॥ स्वेच्छाकर्मविमर्शेन स्वेच्छाकर्मत्वमादृतम् । सर्वे पदार्थरूपेण सामान्येनार्थवत्तया ॥ ३६ ॥ व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ । यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥ ४० ॥ बाह्यावयवतद्योगात्तदन्तरवियोगतः । पटो गृहीतः सकल इति न स्यात् प्रमा क्वचित् ॥ ४१ ॥ सर्वज्ञत्वमप्रवेशाद्व्यवधानादियोगतः । न चान्यावयवत्वेन तदन्येष्वनुमानता ॥ ४२ ॥ न चान्यावयवैः सार्द्धं सम्बन्धग्रहणं पुरा । तस्मान्नान्येन गृह्यन्ते प्रत्यक्षेण कदाचन ॥ ४३ ॥ तत्तत्स्थान एव तज्ज्ञाना संविदेषा विमृश्यताम् । न चाप्यस्त्यनुमानेन परेषां ग्रहणं क्वचित् ॥ ४४ ॥ धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥ ४५ ॥ देशोऽपि न गृहीतोऽत्र धूमलेखानुरूपतः । न चापि निम्ने ह्रस्वे वा निश्चयोऽत्रावगम्यते ॥ ४६ ॥ अत्रापि क्वापि वास्तीति कल्पना कल्पनैव हि । यत्र यत्र भवेद्धूमस्तत्राग्निरित्यनिश्चयात् ॥ ४७ ॥ तत्राकाशे स्थितो धूमो न वह्नेः कणमात्रकम् । धूमेन व्यापितो देशो भवेदग्निमयोऽखिलः ॥ ४८ ॥ तद्बुध्नावयवैर्वाथ तेऽपि यान्त्यूर्ध्वतां क्षणात् । बुध्नस्तैर्न च सम्बद्धः कदाचिच्चक्षुषो भवेत् ॥ ४६ ॥ सम्बन्धो ग्रहकाले तु न चोर्ध्वावयवैर्भवेत् । वह्नेर्दूरतरस्थित्या वह्निश्लिष्टेष्वलक्ष्मता ॥ ५० ॥

१४४ शिवदृष्टिः [ आ०-५ न चापि वह्निर्जनकः काष्ठेष्वेव हि दर्शनात् । अत एव यत्र वह्निर्भास्वान्नो धूमिताऽत्र तु ॥ ५१ ॥ सन्निधानादथाग्नेश्च चुल्लयादेः सन्निधिर्न किम् । धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥ ५२ ॥ कुत्र तेऽन्यत्र दृष्टत्वात्तद्दृष्टेरग्निदृष्टता । अत्रेति धर्मिता कस्य पर्वतादौ समस्तके ॥ ५३ ॥ तत्सामस्त्यस्याग्रहणाददृष्टे धर्मिता कुतः । दृष्टश्चेत् सर्वघटवत्तदङ्गस्याग्निदर्शनम् ॥ ५४ ॥ स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् । अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥ ५५ ॥ एष इत्यपदिश्येत तज्ज्ञानं जनयेत् कथम् । करणत्वे कर्त्रपेक्षा कर्तृत्वे तदपेक्षता ॥ ५६ ॥ वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् । यच्च यद्विषयं ज्ञानं तज्जन्यं तस्य दृष्टवत् ॥ ५७ ॥ धूमादग्निप्रतीतिश्च न चायं नियमः स्थितः । कक्षभूर्जादिजो वह्निर्गुहाकारे ज्वलन् गृहे ॥ ५८ ॥ महान्तं धूममुत्पाद्य तत्कालं वारिणा हतः । तत्र केवलधूमास्था न वह्निप्राप्तिरस्ति ते ॥ ५६ ॥ तस्मात्तद्व्यपदेशो न वह्निः स्वं विनिवेदयेत् । वीक्ष्यात्मना तथात्मानं विनीतवदवस्थितम् ॥ ६० ।, एतयैव दिशा दूष्यं स्वभावाद्यमसंशयम् । परानुमाने पक्षादौ धर्मादेर्भेद्यभेदिता ॥ ६१ ॥ अनुमानस्यान्यथान्यैर्दूषणा प्रविधीयते । अवस्थादेशकालानामियादिभिरुदाहृतैः ॥ ६२ ॥ यत्र देशे च काले च प्रवृत्तिस्तत्र संगमः । तत्रैव व्यवहारित्वसम्बन्धान्तरतायतः ॥ ६३ ॥

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५ न चापि स्थिरभावानां क्वाप्यस्ति व्यभिचारिता । सूर्यः प्रकाशकः क्वापि काले देशेऽन्यथा भवेत् ॥ ६४ ॥ शब्दैरर्थाः प्रतीयन्ते सर्वत्रैवं क्व निश्चयतः । स्फोटादर्थप्रतीतिश्चेद् व्यज्यते तैः क्व निर्णयः ॥ ६५ ॥ तस्यापि सर्वदेश्यत्वान्निश्चयः केन लभ्यते । भोजनादेरचेष्टत्वे व्यवहारविलोपिता ॥ ६६ ॥ अनुमानं न चास्तीति पक्षादिर्नोपयुज्यते । गोपालघटिकान्यैश्च घटिता न ह्यसम्भवात् ॥ ६७ ॥ न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते । तस्माद्वर्णनिकैवेयं परस्यान्धाय कल्पिता ॥ ६८ ॥ यैरुक्तं सिद्धसाध्यत्वं सामान्ये तन्न दूषणम् । अत्रेति तत्प्रयोगत्वाद्विग्देशाद्यैर्विशेषिता ॥ ६६ ॥ न सर्वेषां विशेषाणां प्रत्यक्षेऽपि भवेद् ग्रहः । विशेषपूर्वताध्यक्षेऽविशेषोऽस्त्यनुमानतः ॥ ७० ॥ अतो नास्त्यनुमानस्य दूषणाद्यैः प्रतिभाषितैः । तेन पूर्वोक्तया नीत्या भावानां स्वग्रहः स्थितः ॥ ७१ ॥ नाप्याप्तवचनग्राह्यः सामान्याद्वा विशेषतः । सामान्यादनुमानोक्तदूषणं तद्विशेषतः ॥ ७२ ॥ प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् । स्वातन्त्र्यं न च शब्दस्य रचनात्वेन युज्यते ॥ ७३ ॥ तत्रापि व्यञ्जकापेक्षा स्यात् परायत्ततैव हि । अर्थापत्त्यादिना नापि तदनर्होपयोगतः ॥ ७४ ॥ प्रतिभा च प्रमाणत्वे वर्ण्यमाना न शोभते । काकतालीयरूपत्वादश्वादेस्तरणादथ ॥ ७५ ॥ तदहर्जातकस्यापि वासना सान्यजन्मजा । तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥ ७६ ॥ व्यापकत्वाच्छिवत्वस्य [सर्वज्ञत्वाद्भेदथ । तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥ ७७ ॥ १०

१४६ शिवदृष्टिः [ आ०-५ जानन्नवस्थितो दूरे स्वर्गादौ निरयेऽथवा । प्रत्यक्षादिप्रक्रियायास्तथा शिवकृतस्थितेः ॥ ७८ ॥ नौतरभ्रान्तिनाशादौ सम्यग्दृष्टिसमुद्गमात् । यमर्सनिकसद्दृष्टिधरादेश्चलनोद्गमात् ॥ ७६ ॥ भूकम्पनाच्च शेषादिचलनाच्चेन्न सर्वतः । गमागमेन वाय्वादेः कान्त्या भवति चेतना ॥ ८० ॥ सर्वत्र देवतात्मत्वाज्जडेष्वप्युपवर्णिता । पोतादेश्चेदुपायेन दृष्टे दीपाद्युपायता ॥ ८१ ॥ तत्र चेत् सुप्रसिद्धत्वे तथा तत्र प्रसिद्धितः । तुल्यकालं द्वयोर्द्वैधं नैवं यत्तदलक्ष्यता ॥ ८२ ॥ तद्देशत्वं पुनः कस्मादिति चेत्तत्तथाग्रतः । भावा मूर्ताः सर्व एव सूक्ष्मसूक्ष्मतरादिता ॥ ८३ ॥ ज्ञेया अवयवेनैते यावद्यावददर्शनाः । अणूनामथ मूर्तत्वादेवं चेत् किं न दर्शनम् ॥ ८४ ॥ सूक्ष्मत्वात्तर्ह्यदृश्यत्वमस्पृश्यत्वममूर्तता । तैरदृश्यैर्यदारब्धं तत्तथैवाथ संहतेः ॥ ८५ ॥ दृश्यत्वं तेषु संघातात् किं तेषां रूपताक्षतिः । स्वरूपमिश्रीभावो वा नैवं चेत्तर्ह्यमूर्तता ॥ ८६ ॥ ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः । अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥ ८७ ॥ ज्ञानस्वरूपग्रहाणां तद्ग्रहात्तद्ग्रहः किल । अतत्स्वरूपरूपत्वे नान्यस्यान्यग्रहाद्ग्रहः ॥ ८८ ॥ एवमिन्द्रियशक्तीनां ज्ञानमन्तःप्रवेशनात् । सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥ ८६ ॥ कथमाकारघटना व्योम्नि नित्येव नीलता । आत्मेच्छात्ः स्थिता भावाः स्थितैवासावमूर्तता ॥ ६० ॥ माययित्वे जगति वा प्राकृते वान्यथापि वा । अमूर्तकारणैर्योगात्तन्मूर्तत्वं निवार्यते ॥ ६१ ॥