सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
or an avagraha or a correction? Wait, look atइत्यपिthenमाthen(ना): Wait, is it इत्यपि मानं न ग्रहगणि-? No, there are parentheses: (and). Inside is ना! Wait, why मा(ना)? Wait, look at the text: इत्यपि मा (ना): Could it be इत्यपि मा(ना) ग्रहगणि-? Wait, look at line 6: तादावुपजीव्यत्वान्नाऽऽदृतमिति-> "गणितादावुपजीव्यत्वान्नाऽऽदृतमिति" =गणितादौ + उपजीव्यत्वात् + न + आदृतम् + इति. "न आदृतम्" -> "नाऽऽदृतम्"! So the "न" is already in "नाऽऽदृतम्"! Then what is "इत्यपि ..."? "इत्यपि मानं न ग्रहगणितादौ..." no, "इत्यपि मानाद् ग्रहगणितादौ..."? Wait, look at इत्यपि: After इत्यपि, the text is: माfollowed byन? Wait, look at the glyph: म+ा? No, it's
५६ गोलाध्याये (२) दो ग्रहों की परस्पर की युति साधन में (३) सूर्य चन्द्रमा के ग्रहणों के गणित के साधन में (४) ग्रहों के उदय और अस्तकाल साधन गणित में (५) ग्रहों की छायादि से नतांशादि साधन गणित में” उपयोग करने से उक्त गणित सही उतरते हैं अतएव मेरी बुद्धि से साधित उक्त भूपरिधि मान सही होता है—इत्यादि कहा है ॥१५॥१६॥ इदानीं भूगोले परिनिवेशमाह— लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च ॥१७॥ कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति । वसन्ति मेरौ सुरसिद्धसंघा और्वे च सर्वे नरकाः सदैत्याः ॥१८॥ यो यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितं च । स मन्यतेऽतः कुचतुर्थसंस्था ,मिथश्च ये तिर्यगिवामनन्ति ॥१९॥ अधःशिरस्काः कुदलान्तरस्थाइछायाममुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वयं यथात्र ॥२०॥ वा० भा०—सुगमम् ॥१७॥१८॥१९॥२०॥ मरीचिः—स्यादेतत् । निरक्षदेशादित्यनेन लङ्कादेशः कथमवगतस्तन्नांशांशानुपत्तौ कारणाभावादित्यतो वस्तुमात्रस्य मध्यपूर्वापरार्ध पार्श्वद्वयेति षड्भागसद्भावनियमाद्भूगो- लस्य षड् भागाः क इत्याशङ्कोत्तरभूतषट्स्थानसंनिवेशकथनच्छलेनोत्तरमुपजातिकयाऽऽह— लङ्केति । कुमध्ये भूगोलमध्यभागे लङ्का । यद्यपि गोलपृष्ठे मध्यस्य यत्र तत्रापि संभवाल्लङ्का कुमध्य इत्ययुक्तं तथाऽपि व्यवहारार्थमेकस्य प्रदेशस्य मध्यस्य कल्पनाश्यकतया स्वतन्त्रस्य नियोगानर्हत्वाच्च ब्रह्मणा लङ्कौव भूपृष्ठे मध्यत्वेन कल्पितेति ध्येयम् । अस्या लङ्कायाः सकाशात्पूर्वदिग्भागे यमकोटिनामंक नगरम् । चकाराल्लङ्काप्रदेशादेवेत्यर्थः । पश्चिमदिग्भागे रोमकाख्यं नगरम् । ततो लङ्कादेशादधःप्रदेशे लङ्कास्थानस्य मध्यत्व- कल्पनयोर्ध्वत्वकल्पनाङ्गीकारात् । अन्यथोर्ध्वाधःप्रदेशयोर्गोलेऽनुपपत्तेः । सिद्धपुरम् । अथानन्तरम् । सौम्य उक्तनगरेभ्य उत्तरदिग्भागे सुमेरुर्हेमाद्रिः । चकारादुक्तपूर्वापर- सूत्रस्थनगरचतुष्टयाद्याम्ये दक्षिणदिग्भागे वडवाख्योऽग्निस्तत्स्थानमित्यर्थः । तथा चाग्रे ध्रुवोन्नत्याऽक्षांशस्वरूपप्रतिपादनाल्लङ्कादिपूर्वापरसूत्रस्थदेशेषु तदुन्नत्यभावदर्शनप्रति- पादनाच्चोज्जयिनीदक्षिणसूत्रस्थनिरक्षदेशे लङ्कैवेति भावः ॥१७॥
भुवनकोशः ५७ ननु लङ्कादेशात्पूर्वापरसूत्रस्य सिद्धपुरपर्यन्तं सत्त्वात्तत्र यमकोटिरोमकनगरयोः कियताऽन्तरेण लङ्कादेशादवस्थानमेवं लङ्कास्थानाद्दक्षिणोत्तरसूत्रस्यापि तदवधित्वात्तच्च लङ्कास्थानात्कियताऽन्तरेण मेरुवडवानलयोरवस्थानमित्यतस्तदुत्तरं तत्प्रसङ्गात्पूर्वापर- सूत्रस्थलङ्कादिपुरचतुष्के मनुष्यगाम्यत्वेन दशशिरःपुरीत्यादिमध्याधिकारोक्तेन राक्षस- निवाससूचनाच्चावशिष्टमेरुवडवानलयोर्मनुष्यगोचरत्वाभावात्तयोः केषामस्थानमित्या- शङ्कोत्तरं चोपजातिकयाऽऽह—कुवृत्तेति । भूगोलस्वरूपतत्वज्ञाः पूर्वाचार्याः । तानि पूर्वोक्तानि षट्संख्याकानि स्थानानि लङ्कायमकोटिसिद्धपुररोमकमेरुवडवानलात्मकानि परस्परमुक्तान्यतमान्यवहितानि । कुवृ- त्तपादान्तरितानि । भूगोलवृत्तपरिधिचतुर्थांशान्तरं संजातं तेषां तानीत्यर्थः । पूर्वापरसूत्रे दक्षिणोत्तरसूत्रे च पूर्वोक्त्या नगरचतुष्टयस्य सिद्धत्वात्तेषां च गोलपरिधिस्थत्वेन विशेष- तोऽनुक्तेश्च समं स्यादश्रुतत्वादिति न्यायाच्च परिधिचतुर्थांशान्तराण्येव सिद्धानीति च वदन्ति । भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः । ताभ्यश्चोत्तरगो मेरुस्ताचा(वा)नेव सुराश्रय इति सूर्यसिद्धान्तोक्त्या कथयन्ति । तथा च लङ्कायाः पूर्वपश्चिमदक्षिणोत्तरभागेषु यमकोटिरोमकवडवानलमेरुस्थानानि क्रमेण परिधिचतुर्थांशान्तरेण सन्तीति भावः । एतेन प्रतिस्पर्धिनगरयोरुक्त्सान्यतमव्यवहितयोः परस्परमन्तरं तु परिध्यर्धमिति । यथा मेरुवडवा- नलयोर्लङ्कासिद्धपुरयोर्यमकोटिरोमकयोर्वेति सूचितम् । मेरौ सुरा इन्द्रादयो देवाः सिद्धा योगाभ्यासरता महर्षयः । अनयोः संघाः समुदायाः । अत्र बहुवचनमनन्तसंख्याद्योतकम् । वसन्त्यधितिष्ठन्ति । और्वे वडवानलस्थाने । नरकाः सर्वे । पापानन्तभेदान्नरकाः । अथाष्टाविंशतिसंख्याकास्तामिश्रा(स्रा)दधः(यः) पुराणप्रसिद्धाः पापपुरुषदाहकाः सदैवत्या दैत्यसहिताः । दैत्या अपीत्यर्थः । चकाराद्वसन्तीत्यर्थः वडवानलस्यातिदाहकत्वेन यातनार्थं नरकाणां सर्वेषां तत्रावस्थानं युक्तम् । तत्संसर्गात्तेषामप्यतिदाहकत्वसंभवात् । अत एवा- नास्या(स्वा)दितपरमेश्वरपदारविन्दमकरन्दानां दैत्यानां तत्रैवावस्थानं युक्तमिति भावः । तथा च सूर्यसिद्धान्ते-अनेकरत्ननिचयैः जाम्बूनदमयो गिरिः । भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः । उपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः । अधस्तादसुरास्तद्वद्विषन्तोऽन्योन्य- माश्रिता इति ॥
५८ गोलाध्याये
वयमिति प्रतीतेर्भूगोलस्य सर्वावयवावच्छेदेनाधस्त्वं तदभितश्चोर्ध्वत्वमिति पूर्वमनेकधा निर्णीतत्वादधःस्थितानामधःप्रदेशाभावात्पतनाभावः ॥१९॥ ननु लङ्कादेशात्सन्नगराणां तिरश्चीनतया तदधिष्ठितलोकास्तिरश्चीनाः प्रत्यक्षसिद्धाः पतनीया एवेत्यत आह—अध इति । भूमिगोलस्य निरपेक्षं सर्वावयवावच्छेदेनाधस्तिर्य- ग्भागाप्रसिद्धेरित्यर्थः । ते । लङ्कादिदेशस्थाः कुचतुर्थसंस्थाः । भूपरिधिचतुर्थांशान्तरेण स्थिताः । मिथः परस्परम् । तिर्यक् तिरश्चीनाः । चकारात्परस्परम् । इवेत्यनेन वस्तुत- स्तदभाव आमनन्ति । तथा च यथा लङ्कादेशादितरदेशानां तिरश्चीनतया तदधिष्ठित- मनुष्यपातशङ्का तथान्यदेशाल्लङ्कादेशस्यापि तिरश्चीनतया दर्शनात्तत्स्थलोकपतनमप्य- निवारितमिति सर्वलोकपतनानुपपत्त्या तदपतनमेवेति भावः । न
भुवनकोशः ५९ नगरी और पश्चिम क्षितिजिय भू खमध्य में रोमकपत्तन नाम की नगरी, एवं इसी विषुवद्वृत्त धरातल के अधो भूगोल खमध्य में सिद्धपुर नाम का नगर, एवं भू निरक्ष खमध्य गत लंका नगरी से नब्बे उत्तरदक्षिण में ९० अंश दूरी पर उत्तर ध्रुव और दक्षिण ध्रुव स्थित हैं। आचार्य को यहां पर पौराणिक मत के साथ सहमत होना पड़ रहा है, दक्षिण ध्रुव न कहकर बड़वानलः बड़वानलस्थाने नरकाः, पुराणप्रसिद्धाः पापपुरुषदाहकाः सदैत्या दैत्यसहिता दैत्या अपीत्यर्थः आचार्य इसका नाम दक्षिण बड़वानल कह रहा है । इस प्रकार भूपृष्ठ के निरक्ष स्थान अर्थात् अक्षांश शून्य स्थान, और साक्ष अक्षांश सत्तायुक्त नगर की स्वदेशीय भूपरिधि स्थान से प्रत्येक ९० अंश की दूरी पर (१) अपना नगर ग्राम, (२) अपने स्थान से पूर्व का नगर, (३) पश्चिम का नगर और (४) अपने नगर से १८०° की दूरी पर अधो खमध्य के नगर के साथ उत्तर में (५) भूपृष्ठगत ध्रुव बिन्दु और नीचे (६) भूपृष्ठगत दक्षिण ध्रुव विन्दु सिद्ध होते हैं । जैसे क्षेत्र दर्शन से स्पष्ट होता है— निरक्षखमध्य रोमकपत्तन उ. ध्रु. द. ध्रु. यम कोटि सिद्धपुर युग महायुग, कल्प कल्पान्तर के दीर्घसमयों में पृथ्वी में होते आ रहे परिवर्तनों से समुद्र की जगह स्थल, स्थल की जगह समुद्र हिमालय जैसे पहाड़ की समुद्र गत स्थिति इत्यादि प्राकृतिक परिवर्त्तनों के होते रहने से, पृथ्वी के कितने नगर देश ध्वस्त हो गये और अनेक नये नगर देशों का निर्माण होता जा रहा है । तदनुसार वर्त्तमान की भौगो- लिक स्थिति के अनुसार—भूमध्य रेखा गत स्थानों के नाम निम्न भांति है । मलएशिया में Bormes Singpus. उत्तर मेरु (ध्रुव) में देव योनि दक्षिण ध्रुव में दैत्यों का निवास है ।
६० गोलाध्याये भूपृष्ठ में जो जहाँ रहता है वह अपने को पृथ्वी के ऊपर और ठीक १८०' की दूरी के नागरिक को नीचे (पातालगत) समझता है । वस्तुतः गोल पदार्थ गत गोल बिम्बस्थ जन्तु अपने से ऊपर आकाश को ही देखेगा नीचे नीच, निम्न कहीं कुछ भी नहीं है । ज्ञान से "अहम्" भाग जाता है । जैसे तालाब के किनारे खड़े हुये व्यक्ति का प्रतिबिम्ब जल में विपरीत ही दीखता है । इत्यादि ॥१७–२०॥ इदानीं द्वीपानां समुद्राणां च स्थानमाह— भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहूराचार्यवर्याः । अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्याम्बुधीनां निवेशः ॥२१॥ लवणजलधिरादौ दुग्धसिन्धुश्च तस्मा- दमृतममृतरश्मिः श्रीश्च यस्माद्बभूव । महितचरणपद्मः पद्मजन्मादिदेवै- र्वसति सकलवासो वासुदेवश्च यत्र ॥२२॥ दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । स्वादूदकान्तर्वडवानलोऽसौ पाताललोकाः पृथिवीपुटानि ॥२३॥ चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दीव्यन्ति दिव्यरमणीरमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः ॥२४॥ शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च । द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति ॥२५॥ वा० भा०—स्पष्टम् ॥२१–२५॥ मरीचिः—अथ कीदृग्द्वीपेत्यादिप्रश्नोत्तरं सामान्यतो भूगोलविभागाभ्यां शालिन्या- ऽऽह—भूमेरिति । क्षारसिन्धोः क्षारसमुद्रतीरादुदग्भागस्थं भूगोलस्यार्धं जम्बूद्वीपमाचार्य- वर्या ज्योतिःशास्त्रप्रवर्तकाचार्यवरिष्ठाः सूर्यादयः प्राहुः । प्रकर्षेण वदन्ति । एतेन क्षार- समुद्रवलयमध्ये मण्डलाकारं जम्बूद्वीपं पुराणप्रसिद्धम् । तथाऽत्र गोलार्धात्परक्षारसमुद्रवलय- वेष्टितं सूचितम् । अन्यस्मिन् द्वितीये । अर्धे गोलार्धे । याम्ये जम्बूद्वीपसक्ताक्षारसमुद्रतटाद्- दक्षिणदिक्स्थे । द्वीपषट्कस्य । क्षीरादिसमुद्राणां चात्रानुसंधेयो निवेशः । असंकीर्णसमावेशो-
समुद्रसंबंधाल्लङ्काया उप-" Wait, "समुद्रसंबंधाल्लङ्काया" or "समुद्रसंबन्धाल्लङ्काया"? It has 'ध': "समुद्रसंबंधाल्लङ्काया" or "समुद्रसंबन्धाल्लङ्काया"? In line 13: "समुद्रसंबंधाल्लङ्काया" - anusvara over 'ब': 'संबंधा'. And 'ध'! And "सेतुबन्धोपपत्तेः" has 'ध': 'सेतुबन्धो'.
Line 14: "द्वीपत्वं व्यक्तम् । एतेन समन्तान्मेरुमध्यत्तातुल्यभागेषु तोयधेः । द्वीपेषु दिक्षु पूर्वादि नगर्यो" Wait, is there a space between पूर्वादि and नगर्यो? Yes, "पूर्वादि नगर्यो".
Line 15: "देवनिर्मिता इति सूर्यसिद्धान्ताल्लङ्कादिपुरचतुष्कं क्षारोदधिमध्यसंस्थितं ज्ञेयमित्यार्यभटोक्तं"
Line 16: "संगच्छते । केचित्त्वेतद्वचनादेव 'ज्यापिण्डमंध्ये परिधिः क्रमेण लवणार्र्णवः । मेखलेऽवस्थित-"
Line 17: "स्तस्या देवासुरविभागकृत् । योजनानां शतं त्रिंशद्युतं तस्यापि विस्तृतः । तन्मध्ये तुल्यभागे"
Line 18:
६२ गोलाध्याये रत्नाद्यैः प्राकारो दलतोरणैः । वसन्ति तत्र सिद्धाश्च महात्मानो गतव्यथाः । लङ्का भूम- मध्यवलये प्राच्यां बाणेऽङ्गभास्करैः । ततो जन(मनुज)संघैश्च यमकोटिः स्थिता द्विजेति । जम्बुद्वीपभुवोऽर्धे यदुदक्स्थं लवणार्णवात् । अर्धेऽन्यस्मिन्याम्यभागे द्वीपाः स्युः शाकपूर्वका इति चोक्तम् । अत एव । क्षाराम्भोधिर्दक्षिणे व्यक्षगानां जम्बुद्वीपं तस्य सौम्ये महीय इति लल्लेन स्पष्टमुक्तमित्यलम् ॥२१॥ अथ द्वीपसमुद्राणां विशेषतोऽवस्थानज्ञानार्थं क्रमेण क्षारादिसमुद्रान्विवक्षुः प्रथमं समुद्र- द्वयं मालिन्याऽऽह—लवणेति । आदौ भूगोले समुद्रावस्थानोपक्रमे प्रथमं लवणसमुद्रः । तस्मात्तदनन्तरं दुग्धसमुद्रः । चकारस्तदन्तराले देशावस्थानसूचकः । अन्यथा तद्वैक्यापत्तेः । तत्सद्भावे प्रमाणमाह— अमृतमिति । यस्मात्समुद्रामृतं देवानां भक्ष्यत्वेन प्रसिद्धम् । अमृतरश्मिश्चन्द्रः । श्रीर्लक्ष्मीः । चकारादैरावतोच्चैःश्रवादिकं बभूव । तथा च पुराणे । मन्दराचलेन देवैः क्षीरसमुद्रमथनादनेकपदार्था निष्काशिता इति प्रसिद्धत्वात्तन्मध्ये चन्द्रस्य प्रत्यक्षत्वेन तदुत्पादकत्वेन क्षीरसमुद्रसद्भावोऽनुमानगम्य इति भावः । प्रमाणान्तरेण तत्सद्भावमाह— महितेति । यत्र यस्मिन्समुद्रे । च परम् । वासुदेवः परब्रह्मस्वरूपो वसति । तथा च तत्समुद्रस्य परमेश्वरवसतिस्त्वेन पुराणे प्रसिद्धत्वात्तत्सद्भावे आगम एव प्रमाणम् । पुराणा- दीनां वेदमूलकत्वादिति भावः । ननु वसुदेवस्य मनुष्यत्वेन तत्तनुजस्यापि तत्त्वेन तदाश्रय- त्वेन समुद्रस्य को वा महिमा । येन तत्सद्भावे संशयो न स्यादित्यतः परमेश्वरत्वं तस्य विशेषणेन संस्थापयति—सकलवास इति । सकले स्थावरजङ्गमात्मके जगति वासो वसतिस्थानं यस्य । अयमेव व्यापकत्वात्परमेश्वर इति भावः । ननु तथाऽपि परमेश्वरस्य तथात्वेऽयं वसुदेवपुत्रः परमेश्वर एवेति कथमवगतमित्यत आह—महितेति । पद्मजन्मादि- देवैः पद्माद्विष्णुनाभिकमलाज्जन्मोत्पत्तिर्यस्येति ब्रह्मा तदादयो देवास्तैर्ब्रह्मेन्द्राद्यनेकदेवैर्महितं पूजितं चरणपद्मं यस्य स इत्यर्थः । तथा च परब्रह्मस्वरूपपरमेश्वरध्यानेकनिष्ठा देवा अपि
बाधितमित्यत आह—स्वादूदकान्तरमिति । असौ प्रागुक्त्या प्रसिद्धो वडवाग्निः स्वादूदक- समुद्रमध्येऽस्ति । तथा चाग्निजलयोर्विरोधेऽप्यग्निविशेषस्य वडवाख्यस्य जलेऽवस्थानम- विरुद्धमत एव वडवात्वं जलान्तःस्थितित्वेनाग्नेरिति भावः । नन्वेवं भूपृष्ठे सकलद्वीपादि- संनिवेशात्पाताललोकावस्थानानुक्तेस्तल्लोकापलापापत्तिः । पुराणे भूमेरधः सप्तपाताल- सद्भावप्रसिद्धेः । तन्मते भूगोलादभितः सर्वत्राऽऽकाश ऊर्ध्वत्वाङ्गीकारेणाधः प्रदेशसिद्धिरि- त्यत आह—पाताललोका इति । पृथिव्यन्तो यानि पुटानि गोलाकाराणि भूगर्भाविवरण- रूपाणि तान्येव स्वान्तरभेदैः सप्त पाताललोकाः । अतलवितलनितलगभस्ति [म] न्महीतलसुतलपातालात्मका भूपृष्ठादयो ऽभ्वन्तर्गता गोलाकाराः सन्तीति न तदपलाप इति भावः ॥२३॥ ननु पाताललोका इत्ययुक्तमुक्तम् । भ्वन्तःप्रदेशे लोकाधिष्ठानसंचारादेरभानात् । नहि विना लोकसंचारं प्रदेशस्य लोकत्वं संभवतीत्यतो वसन्ततिलक्याऽऽह—चञ्चदिति । एतेषु पातालप्रदेशेषु । फणिनो वासुकिप्रमुखाः सर्पाः सासुरगणा असुरा दैत्यदानवास्तेषां समुदायैः सह वर्तमानाः सर्पा दैत्याश्चेत्यर्थः । अधितिष्ठन्ति । पुराणोक्तरीत्या यथायोग्यमधोधः । अत्राऽऽचार्यैरेतेषु वसन्तीति पदाभ्यामेतेषु विलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दविभू- तिभिः सुसमृद्धभवनोद्यानक्रीडाविहारेषु दैत्यदानवकाद्रवेयाः । नित्यप्रमुदितानुरक्तकलत्रापत्य- बन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्तीति भागवतं प्रमाणं सूचितम् । तथा च पाताललोका इति पूर्वोक्तं युक्तमिति भावः । ननु सूर्यस्य भूगोलादभितो भ्रमणादन्तस्तद्भ्रमणाभावात्पाताले सूर्यकिरणासंसर्गादन्धकारसमये तत्स्थ- लोकानां कथं संभवत्यालोकाभावादित्यत आह—चञ्चदिति । चञ्चन्तो देदीप्यमाना ये फणामणयस्तेषां गणाः समूहास्तेषां येऽंशवः किरणास्तैः । वृतः प्रकाश आलोको येषां ते । तथा च व्यवहारानुपपत्तिर्न । तत्र महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्त इति भागव- तोक्तेरिति भावः । अथ प्रसङ्गान्मेरुपृष्ठस्थितानां सिद्धानां रहः केलिस्थानमिदमेवेत्याह— दीव्यन्तीति । तत्र पातालप्रदेशे । चकारोऽन्ययोगव्यवच्छेदार्थवकारपरस्तेन दिने मेरो प्रकाशप्राबल्येन सर्वजनसंदर्शनाद्यदा सिद्धानां संभोगेच्छा जायते तदा तत्र विहर्तुमशक्ताः पुराणमते रात्र्यभावात्सदैवेति ध्येयम् । सिद्धा मेरुपृष्ठस्था योगिनः । चकाराद्देवा दिव्या दिवि स्वर्गे जाता या रमण्यो बाला मेरोरेव स्वर्गत्त्वप्रतिपादनान्मेरुस्थनिजकामिन्यस्तासां ये रमणीयदेहा मनोहरसुकुमारमूर्तयस्तैः । आगत्य दीव्यन्ति क्रीडन्ति । अत्रत्यप्रकाशाल्लो- कान्तरसंचाराभावाच्च । ननु देहस्य रमणीयत्वं कुत इत्यतो देहविशेषणमाह—लसदिति । लसद्देदीप्यमानं च तत्कनकं च सुवर्णं तद्वदवभासन्ते शोभन्ते । एतादृशैः सुवर्णकान्ति- सदृशैरित्यर्थः ॥२४॥ ननु याम्ये द्वीपषट्कस्येत्यादिना प्रथममुद्दिष्टस्य द्वीपषट्कस्यावस्थानमनुक्त्वैव प्रथमं समुद्रावस्थानकथनं नोचितमित्यत उपजातिकायाऽऽह—शाकमिति । अत्र भूगोलस्य दक्षिणार्धभागे द्वयोर्द्वयोः समुद्रयोरन्तरालमेकमेकं द्वीपं पूर्वाचार्या
६४ गोलाध्याये वदन्ति । अत्र वीप्सया प्रत्येकं समुद्रयोरन्तरेणैकं द्वीपमिति सप्तसमुद्रान्तरतः षड् द्वीपानि । अन्यथा समुद्रद्वयव्यहितसमुद्रयोरन्तरस्य द्वीपत्वापत्तिरिति ध्येयम् । तथा च विना समुद्राव- स्थानं वक्तुमशक्यमतः प्रथमं समुद्रावस्थानमुक्त्वा द्वीपावस्थानमुक्तमिति भावः । तन्ना- मान्याह—शकमिति । क्षारक्षीरसमुद्रयोरन्तरालभूमिर्वलयाकारा शाकसंज्ञं द्वीपम् । ततस्त- दनन्तरं क्षीरदधिसमुद्रयोरन्तरं शाल्मलाख्यम् । ततो दधिघृतयोरन्तरं कौशम् । घृतेक्षुरस- योरन्तरं क्रौञ्चम् । चकारः क्रमार्थे । इक्षुरसमद्ययोरन्तरं गोमेदसंज्ञम् । मद्यसुस्वादुजल- योरन्तरं पुष्करद्वीपम् । चकारात्पुराणोक्तक्रमविरोधेऽपि भूम्याकारादिविशेषान्मतान्तरेण न क्षतिरिति सूचितम् । दधिदुग्धोदधिमध्ये कुशं दधिस्नेहयोस्तथा क्रौञ्चम् । इक्षुरसस्नेहज (ह्याज्य)योर्मध्ये स्याच्छाल्मलद्वीपमिति लघ्वार्यभट्टोक्तम् । लवणक्षीरदध्याज्यसेक्षुमद्यम्बु- सागरैः । सप्तभिः संवृतैरन्तर्द्दीपैः षड्भिश्च संवृतः । शाकशाल्मलसत्कौशक्रौञ्चगोमेदपुष्क- रैरिति लघुवसिष्ठोक्तमपेक्षणीयम् । समुद्रद्वीपमानं तु—वृत्तान्यग्नि १३ कुसंमितानि वडवाग्निस्थानतो भ्रामयेत्सुस्वाद्दाम्बुधितो भवेति शकलान्यूर्ध्वं त्वमीभिर्लवैः । सार्धैरा२२ कृतिभिर्लभैर्जलनिधेर्मानं ततो द्वाग्निभि३२द्वीपं पुष्करसंज्ञकं च खयुगैर्भागै४०श्च मध्व- म्बुधिः । गोमेदं च रसाब्धिभि४६भुंजशरैः स्यादैक्षवाम्भोनिधिः क्रौञ्चं सार्धनगै५७पुष्मि- घृतनिधिः सार्धद्विष्टकांशकैः ६२। सार्धाशैर्र्नगतकंसंमितलवै६७द्विपञ्चकौशाह्वयं दध्नो बाहुनगै७२स्तथाऽश्वगिरिभिः ७७ स्याच्छाल्मलस्यावधिः । सत्यंशेन्दुगतः ७१। २७ पयोनिधिरतः शाकं च तर्काहिभिः ८६ पूर्णाङ्कैकै९०ल्र्वणाब्धिसंस्थितिरधोभागे भुवश्चो- १० ३० दयः । वृत्तं पञ्चभिरंशैश्च वडवामुखतो लिखेत् । तानस्थानं तु दैत्यानां जलघेरन्तरस्थित- मित्यनेन रोसकोक्तं ध्येयम् ॥२५॥ केदारदत्तः—उत्तरार्ध भूमि में क्षार समुद्र तीर के उत्तर में वलयाकार जम्बू द्वीप है । भूमि के दक्षिण गोलार्ध में क्षारसमुद्रतीरासक्त जम्बूद्वीप के दक्षिण में ६ अन्य द्वीपों की स्थिति कही गई है । तदनन्तर दुग्ध सागर, दधि सागर, घृत सागर, इक्षु (ऊँख) रस सागर, मद्यसागर और सुस्वादु जलसागर भूगोल में स्थित हैं। इन दो-दो समुद्रों के मध्य में वलयाकार सप्तद्वीप स्थित हैं । ब्रह्मा आदि देवों से सदा पूजित परब्रह्म रूप श्री वासुदेव का क्षीर समुद्र में सदा निवास रहता है । लवण समुद्र के अनन्तर दुग्ध समुद्र है । दुग्ध सागर से अमृत और अमृत अर्थात् रश्मि चन्द्र की उत्पत्ति हुई है । इसी क्षीरसागर में ब्रह्मादि सकल देवताओं से पूजित परब्रह्म रूप वासुदेव का सदा निवास रहता है । दधी, घी, इक्षु, मद्य और अन्तिम में स्वादुजल सागर के साथ स्वादूदक समुद्र के मध्य में 'वडवाग्नि' स्थित रहता है ।
भुवनकोशः ६५ अतल, वितल, नितल, गभस्ति, महीतल, सुतल और पातालादि सप्तलोक इसी पृथ्वीपुर में स्थित हैं । इन पातालादि लोकों में असुर गणों के साथ अपने देदीप्यमान मणियों से प्रकाशित वासुकि प्रमुख सर्पगणों का समूह आवास करता है । मेरु में ६ मास के मानव मान के १ दिन में, सम्भोग इच्छा की उत्पत्ति से मेरु- पृष्ठस्थ देवता स्वर्गाङ्गनाओं के साथ क्रीडा नृत्यादिरति में प्रवृत्त होते हैं । तथा भूगोल के दक्षिण दिग्भाग में दो-दो समुद्रों के मध्य में अन्य शाकशाल्मल्यादि सातद्वीप पृथ्वीपुटों में संस्थित हैं । अर्थात् क्षार और क्षीर समुद्र के मध्य में शाक संज्ञक द्वीप, क्षीर और दधि समुद्र के मध्य में शाल्मल नामक द्वीप, दही और घी समुद्र के मध्य में कौशद्वीप, घी और इक्षुरस समुद्र के मध्य में क्रौञ्च द्वीप, इक्षुरस और मद्य समुद्रों के मध्य में पुष्कर द्वीप संस्थित है । अर्थात् उक्त दो-दो समुद्रों के मध्य में उक्तशाकादि सप्तद्वीप स्थित हैं । २१।।२२।। २३।।२४।।२५।। इदानीं जम्बूद्वीपमध्ये गिरिनिवेशवशेन नव खण्डान्याह— लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मा- तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्ध्याः । एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ॥२६॥ भारतवर्षमिदं ह्युदगस्मात्किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्माद्विद्धि हिरण्मयरम्यकवर्षे ॥२७॥ माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः । नीलशैलनिषधावधी च तावन्तरालमनयोरिलावृतम् ॥२८॥ माल्यवज्जलधिमध्यवर्ति यत्तत्तु भद्रतुरगं जगुर्बुधाः । गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः ॥२९॥ निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमाबभौ । अमरकेलिकुलाथसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् ॥३०॥ वा० भा०—अत्र भूगोलस्यार्धमुत्तरं जम्बूद्वीपम् । तस्य क्षारोब्धेश्च संधि- निरक्षदेशः । तत्र लङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूपरिधिचतुर्था- ५
६६ गोलाध्याये
शान्तरं किल कथितम् । तेभ्यः पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा । अतो लङ्- काया उत्तरतो हिमवान् नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति । तस्योत्तरे हेमकूटः । सोऽपि समुद्रपर्यन्तदैर्घ्यः । तथा तदुत्तरे निषधः । तेषामन्तरे द्रोणि- देशा वर्षसंज्ञाः । तत्राऽऽदौ भारतवर्षम् । तदुत्तरं किन्नरवर्षम् । ततो हरिवर्षमिति । एवं सिद्धपुरादुत्तरतः शृङ्गवान्नाम गिरिः । ततः श्वेतगिरिः । ततो नीलगिरि- रिति । तेऽपि सिन्धुपर्यन्तदैर्घ्याः । तेषामन्तरे च वर्षाणि । तत्राऽऽदौ कुरुवर्षम् । तदुत्तरे हिरण्मयम् । ततो रम्यमिति । अथ यमकोटेरुत्तरतो माल्यवान्नाम गिरिः । स तु निषधनीलपर्यन्तदैर्घ्यः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम् । एवं रोमकादु- त्तरतो गन्धमादनः । तस्य जलधेश्च मध्ये केतुमालम् । एवं निषधनीलमाल्यवद्ग- न्धमादनैरावृतमिलावृतं नाम नवमखण्डम् । सा स्वर्गभूमिः । अतस्तत्र देवक्रीडा- गृहाणि । शेषं स्पष्टम् ॥२६॥२७॥२८॥२९॥३०॥ मरीचिः—अथ कुलाद्रीन्द्वेत्यवान्तरप्रश्नस्योत्तरदानार्थं जम्बूद्वीपवर्षविभागं विवक्षुः प्रथमं षट् देशविभागरूपवर्षाणि मन्दाक्रान्तयाऽऽह—लङ्केति । अथ द्वीपात्रस्थानकथनानन्तरं लङ्कास्थानादुत्तरदिग्भागे मेर्वभिमुखो हिमगिरि- हिमालयपर्वतोऽस्ति । अस्माद्धिमालयादुत्तरभागे मेर्वभिमुखो हेमकूतोऽन्यो द्वितीयः पर्वतः । तस्माद्धेमकूटपर्वतादुत्तरभागे मेर्वभिमुखोऽन्यस्तृतीयो निषधपर्वतः । चकारस्तदन्तरदेश- सूचकः । अन्यथा त्रयाणामैक्यापत्तेः । इतिपदस्य समाप्तिद्योतकत्वादन्त्यस्तत्सद्भावावस्थि- तिकः पर्वतो मेर्वभिमुखो नास्तीति सिद्धम् । नन्वेते पर्वताः किमाकारा इत्यत आह—त इति । त उक्ताः पर्वता हिमालयहेमकूटनिषधाख्याः सिन्धुपर्यन्तदैर्घ्याः । लवण- समुद्रपर्यन्तम् । लवणसमुद्रोत्तरतटावधि दैर्घ्यं दीर्घता येषां त इत्यर्थः । एतदुक्तं भवति । भूमिगोलार्धं जम्बूद्वीपं मेरुयमकोटिरोमकगतपरिध्यर्धसूत्रकृतशकलद्वयात्मकम् । तत्र लङ्कासंबन्धिशकल एते त्रयः पर्वता लङ्काकेन्द्रकाभीष्टभागव्यासार्धत्रयोत्पन्नतच्छकलस्थ- लवणसमुद्रोत्तरतटस्पृष्टाग्रद्वयवृत्तार्धकाराः । व्यासार्धभागज्ञानं च—लङ्कादेशादूर्ध्व- भागेऽङ्करामैः पञ्चाशाढ्यैरालिखेदासमुद्रम् । वृत्तार्धं तज्ज्ञेयमेवं हिमाद्रिस्तल्लङ्कान्तर- भारतं वर्षसंज्ञम् । भूयश्चैवं साङ्घ्रिभिः षट्शरैः स्याद्वृत्तार्धं तद्धेमकूटाद्रिसंज्ञम् । अन्तर्वर्षं चैतयोः किन्नराख्यं भूयश्चैवं सार्धखाश्वैर्लवैश्च । वृत्तार्धं तन्निषधाख्याद्रिसंज्ञं चान्तर्वर्षं तद्धरेर्नामवर्षमिति रोमोक्तम् । अथान्यस्मिञ्जम्बूद्वीपस्य शकलपर्वतावस्थानमाह— एवमिति । सिद्धात्पुराल्लङ्काधःस्थत्वेन प्रसिद्धसिद्धपुरादित्यर्थः । उत्तरभागे मेर्वभिमुखक्रमेण शृङ्गवच्छुक्लनीलास्त्रयः पर्वताः । अपिशब्दात्परस्परं व्यवहिताः । एवं सिन्धुपर्यन्तदैर्घ्याः । सिद्धपुरकेन्द्रकाभीष्टव्यासार्धत्रयोत्पन्नतच्छकलस्थलवणसमुद्रोत्तरतटस्पृष्टाग्रद्वयवृत्ताकाराः । एषां व्यासार्धभागमानं हिमालयादितुल्यम् । एवं सिद्धस्थानकादप्यमीभिर्भागैः कुर्याद्वृत्त- खण्डत्रयं यत् । स्थानानि स्युः शृङ्गवच्छुक्लनीलाख्यानामिति रोमोक्तम् । अथ पर्वत-
..."? No! * Wait, is it "रोमके"? No. * Let's look at the letters very closely: * Letter 1: र with ओ? Or 'रो'? * Letter 2: looks like 'म' with an anusvara? Or 'प्र'? * Letter 3: 'क' with 'ो'? * Letter 4: 'क्ते' * Letter 5: 'र्य' * Letter 6: 'म' * Letter 7: 'को' * Letter 8: 'टि' * Wait, let's read the characters as printed, literally: * It is: "रोमकोक्तेर्यमकोटिसंलग्नसमुद्र तटान्मेर्वभिमुखे" * Wait, is that second letter 'म'? It looks like 'म' or 'प्र'. Let's look at 'प्र' in 'प्रत्येकं' (line 23): 'प्र' has a loop-less top, rounded left, vertical right, diagonal slash. * Here, letter 2 has: vertical right, horizontal bottom, vertical left: that's a 'म'! * So it is "रोमकोक्तेर्यमकोटिसंलग्नसमुद्र तटान्मेर्वभिमुखे" or "रोमकोक्तेः यमकोटि...". *
६८ गोलाध्याये भूम्यैकदेशरूपं मेरुमध्यकमिलावृतसंज्ञं वर्षम् । तथा च षडतिरिक्तवर्षसिद्ध्या प्रामाण्यं सिद्धमेवेति भावः ॥२८॥ ननु तथाऽपि नववर्षसिद्ध्या कथमत्र तत्प्रामाण्यमित्यतो रथोद्धतयाऽऽह—माल्यवदिति । माल्यवत्पर्वतलवणसमुद्रैकदेशयोरन्तः स्थितं तद्भूखण्डं तच्छकलद्वयसंधिस्थं नीलनिषधयो- रन्तररूपं तुकारादर्धं भद्राश्वसंज्ञम् । बुधाः पौराणिका भूगोलतत्त्वज्ञाः प्रोचुः । गन्धशब्दे नामैकदेशे नामग्रहणाद्गन्धमादनः स चासौ शैलश्च । जलराशिलवणसमुद्रस्तयोरन्तरे वर्तमानं यद्भूखण्डं शकलद्वयसंधिस्थं नीलनिषधयोरन्तररूपम् । इलाकलाविदो भूगोलश्रित- सूक्ष्मयुक्तिज्ञाः । केतुमालसंज्ञं वर्षमूचुः । तथा चात्र पुराणाभिमतनववर्षाणां प्रतिपादना- त्पुराणप्रामाण्यं स्वतः सिद्धमिति भावः ॥२९॥ ननु माल्यवद्गन्धमादनपर्वतान्तरत्वेनैवेलावृतप्रतिपादनमयुक्तम् । तस्य निषधनीलपर्वत- योरभ्यन्तरेऽप्यवस्थानादित्यतो द्रुतविलम्बितवृत्तेनेलावृतं विशदयति—निषधेति । निषधनीलौ प्रसिद्धौ । सुगन्धो गन्धमादनः । सुमाल्यो माल्यवानेतैश्चतुर्भिः पर्वतैश्चतुर्दिक्षु, आवृत्त- मावरणं संजातं यस्येत्येतादृशमिलावृतं वर्षमलमत्यर्थमतिशयेनेत्यर्थः । आबभावशोभत । वर्तमानेऽपि भूतकालसंबन्धादुक्तः । तथा च नोलनिषधयोरेवान्तरेणैतदुक्तौ भद्राश्वकेतु- मालयोरपीलावृतत्वापत्तिस्तद्वारणार्थं गन्धमादनमाल्यवतोरप्यन्तरत्वेनेलावृतोक्तिरावश्यकेति लाघवात्तयोरेवान्तरेणेलावृतोक्तियुक्ता । तदुक्त्यैव सिद्धेरिति स्पष्टम् । चतुःपर्वतान्तर- रूपमिलावृतं सिद्धमिति भावः नन्वावरणेनेलावृतस्य का वा शोभेत्यत आह—अमरेति । अमराणां देवानां रहःक्रीडार्थं यानि कुलायानि गृहाणि तैः समाकुलं व्याप्तम् । तथा चानेकरत्नसुवर्णादिरचितगृहप्रभासंघातशोभायमानेलावृतस्य स्वत एव शोभेति भावः । ननु देवैरपि तत्र क्रीडागृहाणि कुतः कृतानि कथं चान्यत्र न कृतानीत्यत आह—रुचिरेति । रुचिरं शोभायमानं च तत्काञ्चनं सुवर्णं तेन चित्रितं महीतलं भूप्रदेशो यस्यैतादृशमिला- वृतम् । तथा चान्यस्मिन्वर्षे सुवर्णभूमित्वासंभवादनेकरत्ननिचयरचितगृहाणामत्रैवाधिक- शोभायमानत्वसंभवेनाऽऽवृत्तत्वेन रहःस्थानत्वाच्चात्रैव गृहाणि कृतानीति भावः ॥३०॥ केदारदत्तः—पुराणों के अनुसार आचार्य यहाँ अष्टादश प्राचीन भूमण्डलीय देशों की स्थिति बता रहा है । भूगोल के उत्तरार्ध उत्तर में जम्बू द्वीप के साथ क्षार समुद्र की सन्धि निरक्ष देश में होती है । पूर्वोक्त लंका, यमकोटि, रोमकपत्तन और सिद्धपुर नाम के ४ पौराणिक नगर गोल सिद्ध होते हैं । उक्त चारों नगरों की स्थिति भूमध्यरेखा पर होने से इन चारों नगरों का पृष्ठीय केन्द्र बिन्दु ध्रुव है । ध्रुव या मेरु सर्वोपरि सर्वत्रगत भू बिन्दुओं के उत्तर में हैं । निरक्ष देशीय लङ्का नगर से हिमवान् पर्वत उत्तर पूर्व पश्चिम समुद्रों के मध्य में फैला है । इसके उत्तर में हेमकूट नामक पर्वत है जो प्राक् समुद्र तक फैला है । हेमकूट के उत्तर में निषध पर्वत है । इन पर्वतों के मध्य में द्रोणि देश, द्रोणि वर्ष संज्ञक भूखण्ड
भुवनकोशः ६९ कहा जाता है जिसके आदि में भारत वर्ष कहा जाता है । भारत वर्ष के उत्तर में किन्नर वर्ष तदुत्तर में हरिवर्ष है । इसी प्रकार सिद्धपुर (दक्षिण अमेरिका के उत्तर में शृङ्गवान नाम का पर्वत) उसके उत्तर में श्वेत गिरि और तदुत्तर में नीलगिरि नामक पर्वत हैं जो प्रागपरयाम्योत्तर में समुद्रों से मिले हुये हैं। इन देशों पर्वतों और समुद्रों के बीच में उत्तरोत्तर कुरु वर्ष, हिरण्मय और रम्यक वर्ष स्थित हैं । इसी निरक्ष देशीय पूर्व स्वस्तिकधरातलीय स्थित यमकोटि नगर के उत्तर में माल्य- वान् नामक पर्वत निषध और नील पर्वत तक दीर्घ विस्तृत कहा गया है । नीलगिरि और समुद्र के बीच में भद्राश्व वर्ष, इसी प्रकार रोमक के उत्तर में गन्धमादन, गन्धमादन और समुद्र के मध्य में केतुमाल, नामक प्रदेश है । निषध, नील, माल्यवान्, गन्धमादन, ऐरावत, इलावृत्त नामों से इस प्रकार ९ प्रकार की भूखण्डों की संज्ञा कही गई है। भूमण्डल के नवम खण्ड को स्वर्ग भूमि भी कहा गया है जिसे देव क्रीडा घर भी कहते हैं ॥२६॥२७॥२८॥२९॥३०॥ इदानीं मेरुसंस्थानमाह— इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः । द्रुहिणजन्मकुपद्मजकर्णिकेति च पुराणविदोऽमुमवर्णयन् ॥३१॥ विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्वः । तेषु क्रमात्सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः ॥३२॥ जम्बूफलामलगलद्रसतः प्रवृत्ता जम्बूनदी रसयुता मृदभूत् सुवर्णम् । जाम्बूनदं हि तदतः सुरसिद्धसंघाः शश्वत्पिबन्त्यमृतपानपराङ्मुखास्तम् ॥३३॥ वनं तथा चैत्ररथं विचित्रं तेष्वप्सरोनन्दननन्दनं च। धृत्याह्वयं यद्धृतिकृत्सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् ॥३४॥ सरांस्यथैतेष्वरुणं च मानसं महाह्रदं श्वेतजलं यथाक्रमम् । सरःसु रामारमणश्रमालसाः सुरा रमन्ते जलकेलिलालसाः ॥३५॥ सद्रत्नकाञ्चनमयं शिखरत्रयं च मेरो मुरारिपुरारिपुराणि तेषु । तेषामधः शतमखज्वलनान्तकानां रक्षोम्बुपानिलशशोशपुराणि चाष्टौ ॥३६॥ वा० भा०—तस्येलावृतस्य मध्ये कनकरत्नमयो मेरुगिरिः कर्णिकाकारस्तदेव देवानामालयम् । तत्र मेरावुपरि शिखरत्रयम् । तेषु शिखरेषु मुरारेर्ब्रह्मणः पुरारेश्च पुराणि सन्ति । शिखराणामधः समन्तादिन्द्रादिलोकपालानां पुराणि
७० गोलाध्याये सन्त । कथ मेरोर्विष्कम्भशैला इत्याधारपर्वताः । यस्यां दिशि यमकोटिस्त- दिक्प्रभृतिमन्दरसुगन्धविपुलसुपार्श्वा दिक्षु सन्ति । मन्दरे कदम्बः केतुवृक्षश्चैत्ररथं वनमरुणोदं सरः । सुगन्धशैलमस्तके केतुवृक्षो जम्बूः । येनेदं जम्बूद्वीपमुच्यते । नन्दनं वनं मानसं सरः । विपुलशैलमस्तके केतुवृक्षो वटो धृतिर्वनं महाह्रदं सरः । सुपार्श्वमस्तके केतुवृक्षः पिप्पलो वैभ्राजं वनं श्वेतोदं सरः । शेषं सुगमम् ॥३१॥ ३२॥३३॥३४॥३५॥=६॥ मरीचिः—ननु देवानां स्वर्गवासित्वेन भूमौ तदवस्थानाश्रवणात्कथमत्र तेषां गृहाणि संभवन्तीत्यतो द्रुतविलम्बितवृत्तेनाऽऽह—इहेति । इह । इलावृतवर्षे । किल निश्चयेन । हि यस्
भुवनकोशः ७१ परस्परमितरभेदज्ञापकध्वजवृक्षानाह—तेष्विति । आधारपर्वतेषु केतुवृक्षा ध्वजवृक्षाः क्रमात् मन्दराद्युक्तक्रमात् । कदम्बजम्बूवटपिप्पलाख्याः सन्ति । चकारादाम्रादयोऽप्यन्ये सन्ती- त्यर्थः । तथा च व्याससिद्धान्ते—विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । कद- म्बस्तेषु जम्बूश्च वटःपिप्पल एव च । एकादशशतायामाः पादपा गिरिकेतव इति ।। ३२।। स्यादेतत् । परमिलावृतं स्वर्णभूमिकं कुत इत्यतस्तदुत्तरं वसन्ततिलकयाऽऽह— जम्बूफलेति— जम्बूवृक्षस्य महतो यानि महान्ति फलानि सुपक्वानि तेभ्योऽमलः स्वच्छो यो गलत्प्र- च्यवद्रसस्तस्मादेकीभावापन्ना जम्बू नदी । प्रवृत्ताऽभूदित्यर्थः । मृत् । इलावृतवर्षभूमिसं- बन्धिनी मृत्तिका । रसयुता । नदीरसयुता । सुवर्णमभूत् । नन्विदं कुतोऽवगतमित्यत आह— जाम्बूनदमिति । हि यस्मात्कारणात् । तत्सुवर्णम् । जाम्बूनदमभिधानग्रन्थे प्रसिद्धम् । तथा च जम्बूनदीसंबन्धि जाम्बूनदमिति व्युत्पत्त्या जम्बूफलानां महाप्रमाणानां सर्वत्रेतस्ततस्तत्रैव पतनसंभवात्तन्नामकसंभूतनद्यास्तदभितः सत्त्वात्तद्रससंबन्धेनेलावृतभूमिः स्वर्णमयीति रुचिर- काञ्चनचित्रमहीतलमिति प्रागुक्तं युक्तमत एवास्य वृक्षस्येतरेभ्योऽतिशयितत्वादेतन्नामक- मेतद्वीपमिति भावः । अत एव देवास्तद्रसपानं कुर्वन्तीत्याह—अत इति । तद्रससंयोगा- न्मृत्तिकापरिणामस्य स्वर्णत्वेन ज्ञानादित्यर्थः । सुरासिद्धसंघाः । शश्वन्नित्यम् । तं जम्बू- फलामलरसं पिबन्ति । ननु तेषाममृतमेवोत्तमं षष्ठद्य[पथ्य]मिति कथमेनं पिबन्तीत्यत आह—अमृतपानपराङ्मुखा इति । एतद्रसपानेनास्माकं शरीरं सुवर्णमेव भवतीति मत्वा संजातप्रतीतिका अमृतादप्यधिकमेनमास्वादेन गणयन्तोऽमृतपाने विगतस्पृहा भवन्तीत्यर्थः । तथा च व्याससिद्धान्ते—जम्बूद्वीपस्य सा जम्बूनामहेतुर्महामुने । महागजप्रमाणानि जम्ब्वा- स्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वशः । रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै । सरित्प्रवर्तते साऽपि पीयते तत्र वासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थमनसां भूतानां तत्र जायते । तीरमृत्तद्रसं प्राप्य सूखवायु- विशो(षो)षिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणमिति ।।३३।। अथ वृक्षाणां वनान्तर्गतत्वेन वनान्युपजातिकयाऽऽह--वनमिति । तेष्वाधारपर्वतेषु । इति पुराणोक्त्या प्रसिद्धं सर्वावगतं वनम् । उद्यानम् । तथा । उक्तवृक्षाश्रयीभूतम् । क्रमेणास्ति । तत्र मन्दरपर्वते चैत्ररथं नामाऽऽश्चर्यकारकम् । दक्षिण- भागस्थगन्धमादनाख्याधारपर्वते । अप्सरोनन्दनन्दनम् । अप्सरसां देवाङ्गनानां रहः क्रीडा- विहारावलोकनादिना नन्दयतीत्यप्सरोनन्दनं तच्च नन्दनं च । तदाख्यमुद्यानमित्यर्थः । चकारादन्यान्यपि विविधानि वनानि सन्तीत्यर्थः । विपुलपर्वते धृतिसंज्ञं वनम् । ननु देवो- द्यानानि भवन्ति चत्वारि । नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमितीति भागवतोक्त्यैतद- धिष्ठितं वनं सर्वतोभद्रमिति कथं धृतिसंज्ञकमुक्तमत आह—यदि । यदि नन्दनं सर्वतो-
७२ गोलाध्याये भद्राख्यं सुराणां धृतिकरम् । तथा च दैत्यकृतोपद्रवत्रस्तानां पलायनपराणां देवानामेतद्वने सर्वतो भद्रं कल्याणं यत्रेति व्युत्पत्त्याऽवगततन्नाम्ना धृतिर्भवति । तया तत्रावस्थानं भव- त्यतो मया धृतिसंज्ञमुक्तमिति भावः । सुपार्श्वे वैभ्राजसंज्ञम् । भ्राजिष्णु । अनेकमयूरहंस- शुकसारिकापरभृतादिपतत्रिविरचितनानाकूजितादिभिः शोभायमानम् । चैत्ररथं नन्दनकं धृतिवैभ्राजवनानि च क्रमश इत्युक्तेश्च ॥३४॥ ननु वनानि विना सरोवरं न भान्तीत्यतः सरोवराणि वंशस्थेनाऽऽह—सरांसीति । अथानन्तरमेतेषु वनेषु सरांसि सरोवराणि यथाक्रममुक्तक्रमेणारुणादीनि सन्तीत्यर्थः । चकारादन्यान्यपि वर्तन्त इत्यर्थः । तत्सद्भावे पुराणं प्रमाणमिति देवजलक्रीडास्थानत्वे- नाऽऽह—सरःस्विति । उक्तसरोवरेषु देवा रमन्ते । जलक्रीडां कुर्वन्तीत्यर्थः । कुतो जलक्रीडां कुर्वन्तीत्यत आह—जलकेलिलालसा इति । परस्परजलकणसिञ्चनजलमज्जनादिनानाविध- जलक्रीडासु कृतान्त करणास्तदिच्छावन्त इत्यर्थः । इच्छाऽपि कुत इत्यत आह—रामारमण- श्रमालसा इति । रामाः स्वाङ्गनास्ताभिः सह रमणं क्रीडनं सुरतादिकं तेन संजातो यः श्रमस्तेनालसा व्यापारान्तराक्षमा इत्यर्थः । तदपनोदस्त्व जलक्रीडयेति तदिच्छा जायते । तथा च येष्वमरपरिवृढाः सह सुरललनालालामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्तीति भागवतमत्र प्रमाणमिति भावः ॥३५॥ अथ प्रसङ्गाद्वसन्ति मेरौ सुरसिद्धसंघा इति पूर्वोक्तं साधारणं विशेषतोऽवगमार्थं वसन्त- तिलक्या विशदयति—सद्रत्नेति । सद्रत्नकाञ्चनमयं समीचीनरत्नकाञ्चनाभ्यां घटितं तन्मयं शिखरत्रयमस्ति । चका- रादन्यान्यपि शिखराणि सन्त्यत एवायं रत्नसानुरभिधीयते । तेषु शिखरेषु मुरारिकपुरारि- पुराणि । एकस्मिन् शिखरे मुरारेर्विष्णोः पुरं वैकुण्ठाख्यमस्ति । द्वितीयशिखरे कस्य ब्रह्मणः पुरं शातकुम्भाख्यम् । तृतीयशिखरे शिवलोकाख्यम् । तेषामुक्तपुराणामधोभागे मेरावष्टदिशामभितोऽष्टसंख्यानि पुराणि सन्ति । केषामतो नामान्याह—शतमखेति । पूर्वभाग इन्द्रस्यामरावतीपुरम् । आग्नेयभागे वह्नेस्तेजोवत्याख्या । दक्षिणभागे यमस्य संयमिनी । नैर्ऋत्यभागे राक्षसस्य कृष्णाञ्जनाः । पश्चिमभागे वरुणस्य श्रद्धावती । वायव्यभागे वायोर्गन्धवती । उत्तरभागे महोदया शशिनः सोमस्य कुबेरस्येत्यर्थः । वेदे सोमपदेन तदभिधानप्रसिद्धेः । ईशानभाग ईशस्य महेश्वरावान्तरभेदस्य यशोवती पुरी । दिक्पालानामहष्टानां तदधोभागे स्वस्वदिशि पुराणि सन्तीति तात्पर्यार्थः । चकारान्मध्यभागे सिद्धानां स्थितिरित्यर्थः ॥३६॥ केदारदत्तः—इलावृत्त के मध्य में कर्णाभूषण की तरह सुवर्णमय मेरु पर्वत स्थित हैं । इस मेरु पर्वत की तीन चोटियों पर विष्णु, ब्रह्मा और पुरारि प्रभृति (त्रिदशालय) देव वृन्द की स्थिति कही गई है । मेरु पर्वत के चारों तरफ की आधार शिलाएँ, अर्थात् मेरु के पूर्व में मन्दर, दक्षिण
भुवनकोशः ७३ में सुगन्ध पर्वत, पश्चिम में विपुल और उत्तर में सुपार्श्व नाम की आधार शिलाएँ विद्य- मान हैं । इन आधार शिलाओं में क्रमशः कदम्ब, जम्बू (जामुन) वट और पीपल के वृक्ष सुशोभित हैं । विशाल जम्बू वृक्ष के सुन्दर पके फलों से द्रवित एकीभूत रस से जम्बू नदी बहती है जिससे इलावृत सम्बन्धिनी मृत्तिका (मिट्टी) रसयुक्त होकर सुवर्णमय हो जाती है अतएव सुवर्ण का नाम जाम्बूनद कहा गया है तथा तत्र स्थित देव योनि के जीव अमृत से भी अधिक सुस्वादु जम्बू रस का पान करते रहते हैं । इस रस के पान से देवगण अपने शरीर को सुवर्णमय कर लेते हैं । मेरु के उक्त उन चार आधार पर्वतों के पूर्व के मन्दर पर्वत में चैत्ररथ, दक्षिण के गन्धमादन में अप्सराओं व नन्दनन्दनों का विहार स्थान, पश्चिम के विपुल पर्वत में धृतिसंज्ञक वन, और उत्तर के सुपार्श्व नामक पर्वत (मेरु का आधारपर्वत) वैभ्राज संज्ञक वन में अनेक प्रकार के पक्षियों में मयूर-हंस-शुक-सारिकादि पक्षिगण सुखपूर्वक विहार करते रहते हैं । उक्त वन सम्पत्तियों में अनेक प्रकार के सुन्दर (१) अरुण, (२) मानस, (३) महाह्रद और (४) श्वेतजल नामक चारों तरफ चार सरोवर हैं जिनमें देवगण अप्सरा गणों के साथ जल विहार की आनन्दानुभूति लेते रहते हैं । मेरु की तीन चोटियाँ सुन्दर हैं, रत्न और सुवर्णमय सुशोभित हैं । जिसके एक शिखर (चोटी) में विष्णु भगवान् का वैकुण्ठ नगर, दूसरी चोटी पर ब्रह्मा का शातकुम्भ नामक नगर और मेरु पर्वत की तीसरी चोटी पर आशुतोष भगवान् शङ्कर की नगरी सुशोभित है । पूर्व में कथित नगरों के अधो (नीचे) भाग में अर्थात् मेरु पर्वत के चारों तरफ की आठों की दिशाओं में और आठ ८ नगर बसे हैं— (१) मेरु के पूर्व भाग में इन्द्र की अमरावती नगरी, (२) अग्नि कोण में वह्नि की तेजोवती नाम की नगरी, (३) दक्षिण भाग में यमराज की संयमिनी नाम की नगरी, (४) नैऋत्य दिशा में राक्षसों की कृष्णाङ्गना नामक नगरी, (५) पश्चिम भाग में वरुण की श्रद्धावती नाम नगरी, (६) वायु दिशा में वायु देवता की गन्धवती नामक नगरी, (७) उत्तर दिशा में कुबेर की महोदया नामक नगरी और (८) और ईशान में महेश्वर भगवान् शिव की यशोवती नामक नगरी स्थित है । तथा अधोभाग में दश दिक्पालों की मध्यभाग में सिद्ध महात्माओं को नगरी है ॥३१॥३२॥३३॥३४॥३५॥३६॥ तत्रान्यं विशेषमाह— विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धाऽस्मात् । विष्कम्भाचलमस्तकशतस्तरःसंगताऽऽगता वियता ॥३७॥
७४ गोलाध्याये सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम् । चक्षुश्च केतुमालं भद्राख्या चोत्तरान् कुरून् याता ॥३८॥ या कर्णिताभिलषिता दृष्टा स्पृष्टाऽवगाहिता पीता । उक्ता स्मृता वा पुनाति बहुधाऽपि पापिनः पुरुषान् ॥३९॥ यां चलिते दलिताखिलबन्धो गच्छति वलगति तत्पितृसंघः । प्राप्ततटे विजितान्तकदूतो याति नरे निर्यात् सुरलोकम् ॥४०॥ वा० भा०—गङ्गां यामीत्युपक्रमं कुर्वत्यपि नरे तस्य पितॄणां नरकस्थानां यमपाशबन्धास्त्रुटयन्ति । अथ गच्छति मार्गलग्ने तत्पितरो वलगन्ति । अस्मत्कुलजो गङ्गां गच्छति । अतोऽस्माकं दुष्कृतकर्मविच्छेदादूर्ध्वगतिर्भविष्यतीति हर्षेणोत्प- तन्ति । अथ प्राप्ततटे गङ्गासन्निस्थिते स्वकुलजे गङ्गाबलेन मुष्टिघातादिभिरन्तक- दूतान् जित्वा देवलोकं यान्ति । एवंविधाया गङ्गाया मन्दाकिन्याः किमन्यद्वर्ण्यत इत्यर्थः । शेषं स्पष्टम् ॥३७॥३८॥३९॥४०॥ मरीचिः—अथ प्रसङ्गाद्भगवच्चरणारविन्दस्मरणोपस्थितायास्तन्मकरन्दप्रवाहरूप- गङ्गायाः पुराणप्रसिद्धत्रिलोकागमनं स्वजन्मपाण्डित्यवाग्विलासकृतार्थतासंपादनार्थं ग्रन्थ- समाप्तिप्रचयप्रतिबन्धकीभूतविघ्ननिवारकमङ्गलाचरणार्थं च विवक्षुः प्रथमाधारपर्वतेषु गङ्गागमनमुद्गीत्याऽऽह—विष्णुपदीति । विष्णुपदी विष्णोश्चतुर्भुजस्य वैकुण्ठाधिवासिनः पदं चरणारविन्दं तस्येयं तत्संबन्धिनी गङ्गा । विष्णुपदात् । विष्णोः पीताम्बरस्य पदाद्वैकुण्ठस्थानान्मेरो उपरितनभागे मण्डला- कारे मध्ये प्रवाहरूपेण पतिता । अस्मान्मेरोः सकाशात् । चतुर्धा । आत्मानं प्रवाहरूपेण चतुर्भेदात्मकं संपाद्य समस्थलेषु जलप्रवाहस्यानेकत्वसंभवात् । वियता-आकाशमार्गेणाऽऽगता सती । आधारपर्वतोपरिभागस्थितसमीचीनप्रागुक्तारुणादिसरोवरेषु संगता संलग्ना । यत्तु विष्णुपदमाकाशं तत्रस्था वियद्गङ्गा मन्दाकिनी । विष्णुपदादाकाशादिति तन्न । पूर्वापर- ग्रन्थसंगत्यनुपपत्तेः । विना कारणं परमेश्वरसंबन्ध्यर्थापलापकर्तुः सर्वजनतिरस्कार- संभवःश्च ॥३७॥ अथेयं जम्बूद्वीपपवित्रतासंपादनार्थमिव जम्बूद्वीपेऽभित आगतेति गीत्याऽऽह—सीतेति । सा पुराणाद्युदितमहिमा गङ्गा । मेरुपूर्वभागस्थप्रवाहरूपेणारुणसरोवरमिलनद्वारा सीताख्या । मेरोः पूर्वभागस्थमिलावृतप्रदेशं पवित्रीकृत्य भद्राश्ववर्षं प्रति याता । तन्मार्गेण पर्वतादिभेदनं संपाद्य लवणसमुद्रं गतेत्यर्थः । मेरोर्दक्षिणभागगतप्रवाहात्मकगङ्गा मानससरो- वरसंगततयाऽलकनन्दा । भारतं वर्षमस्मदधिष्ठितभारतवर्षमार्गेण समुद्रं मिलिता । चकाराद्- दक्षिणभागस्थेलावृतप्रदेशहरिवर्षकिन्नरवर्षाणि संप्लाव्येत्यर्थः । पश्चिमभागगतप्रवाहात्मक-