भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

सुभाषितरत्नखण्डमञ्जूषा

दैवी विचित्रा गतिः ।
दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते ।
दैवेनैव हि साध्यन्ते सट्यां शुभकर्मणाम् । (क० स०)
दोषग्राही गुणत्यागी पलोलीव हि दुर्जनः । (प० त०)
दोषाय निर्विमर्शस्य भ्रातप्रश्नोत्तरक्रिया । (क० स०)
दोषोऽपि गुणता याति प्रभोर्भवति चेत्कृपा ।
धौने काचिदथवास्ति निरूढा सैव सा चलनि यत्र हि चित्तम् । (ने० च०)
द्रव्येण सर्वे वशाः ।
धनं सर्वप्रयोजनम् ।
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । (प० त०)
धनिनामिवर सतां पुनर्र्गुणवत्संनिविरेव संनिधिः । (शि० व०)
धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः ।
धर्मक्षयकरः क्रोधः ।
धर्मे कीर्तिर्द्वयं स्थिरम् । (म० भा०)
धर्मैः सत्येन वर्धते ।
धर्मः स नो यत्र न सत्यमस्ति ।
धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः । (र० व०)
धर्मस्य तत्त्वं निहितं गुहायाम् । (म० भा०)
धर्मस्य त्वरिता गतिः । (प० त०)
धर्मेण चरतां सत्ये नास्त्यनभ्युदयः क्वचित् । (क० स०)
धर्मेण हीनाः पशुभिः समानाः ।
धर्मो मित्रं मृतस्य च ।
धर्मो हि सानिध्यं कुरुते सताम् । (क० स०)
धर्मो हासम्यङ्निर्णीतो निहन्त्युभयलोकयोः । (क० स०)
धिक्कलत्रमपुत्रकम् ।
धिक्पुत्रमविनीतं च ।
धिगाशा सर्वदोषभूः ।
धिगिमा देहभृतामसारताम् । (र० व०)
धिग्गृहं गृहिणीशून्यम् ।
धिग्जीवितं चोद्यमवर्जितस्य ।
धिग्जीवितं ज्ञातिपराजितस्य ।
धिग्जीवितं व्यर्थमनोरथस्य ।
धिग्जीवितं शास्त्रकुलोञ्झितस्य ।
धिग्ज्योतिषमजातकम् ।
धीराणां व्रजति हि सर्व एव नान्तं पाण्डित्यादभिभवनीयतां परस्य । (शि० व०)
धीराश्च सोढविरहाः प्राप्नुवन्तीष्टसंगमम् । (क० स०)
धीनं चित्रीयते कस्माद्भित्तौ चित्रकर्मणा । (क० स०)
धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः । (र० व०)
धूर्ताः क्रीडन्त्येव हि बालिशैः । (क० स०)
ध्रुवमभिमतं को वा पूर्णे मुदा न हि माद्यति । (कु० स०)

ध्रुवं फलाय महतं महता सह संगमः । (क० स०)
न कस्य वीर्यान्न वरस्य सर्गतिः । (कु० स०)
न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः । (क० स०)
न कामसदृशो रिपुः । (वा० वा०)
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे । (हि०)
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । (प० त०)
न कापि साल्यमपराद्धकृता प्रभूणाम् ।
नक्षत्रभूषणं चन्द्रः । (चा० नी०)
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः । (मे० दू०)
न खलु धीमतां कश्चिदविषयो नाम । (अ० शा०)
न खलु वयस्तेजसो हेतुः । (भर्तृ०)
न खलु स उपरतो यस्य वल्लभो जनः स्मरति ।
न च दैवात्परं बलम् ।
न च धर्मो दयापरः ।
न चलति खलु वाक्यं सज्जनानां कदाचित् ।
न च विद्यासमो बन्धुः ।
न च व्याधिसमो रिपुः ।
न चापल्यसमः स्नेहः ।
न जात्ववसरे प्राप्ते सत्त्ववानवसीदति । (क० स०)
न जाने संसारः किममृतमयः किं विषममयः ।
न ज्ञानात्परं चक्षुः ।
न तथा कृतवेदिनां करिष्यन्नियतामेति यथा कृतावदानः । (किं० अ०)
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।
न तोयात्परमं सुखम् ।
न लोभो महता मृषा । (क० स०)
न दयासदृशं ज्ञानम् ।
न दरिद्रस्तथा दुःखी लब्धक्षीरणधनो यथा ।
न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्गुणैः । (क० स०)
न देवं परमो विष्णुः ।
न धर्मवृद्धेषु वयः समीक्ष्यते । (कु० स०)
न धर्मसदृशं मित्रम् ।
न धर्मात्परमं मित्रम् ।
न नन्दनालोकन मङ्गलेषु क्षण क्षण हृष्यति कस्य चेतः । (कु० स०)
न नश्यति तमो नाम कृतया दीपवार्तया ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् । (र० व०)
ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ।
ननु प्रवातेऽपि निष्कम्पा गिरयः । (अ० शा०)
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः । (किं० अ०)
ननु विमृश्य कृती कुरुतेऽखिलम् ।

2 सु० र० भा०

१०सुभाषितरत्नभाण्डागारम्
वाम-भागःदक्षिण-भागः
न पणिध्यतिरेकेण सुखीणामपरा गति । (क० स०)न सा सभा यत्र न सन्ति वृद्धा ।
न परिचयो मलिनात्मना प्रधानम् । (शि० व०)न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव । (शि० व०)न स्त्री चलितचारित्रा निम्नोन्नतमवेक्षते । (क० स०)
न परोदितं हि कलयन्ति कुमारा । (ह० वि०)न स्त्री स्वातन्त्र्यमर्हति । (म० भा०)
न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य । (र० व०)न स्नेहो न च दाक्षिण्यं स्त्रीष्वहो चापलादृते । (क० स०)
न पुत्रात्परमो लाभ ।न स्पृशति पल्वलाम्भ पञ्जरशेषोऽपि कुञ्जर क्वापि ।
न प्रभातरल ज्योतिरुदेति वसुधातलात् । (अ० शा०)न स्वेच्छ व्यवहर्तव्यमात्मनो भूतिमिच्छता । (क० स०)
न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ।नहि कृतमुपकार साधवो विस्मरन्ति ।
न भयं चास्ति जाग्रत ।नहि गणयति क्षुद्रो जन्तु परिग्रहफल्गुताम् ।
न भवति पुनरुक्त भाषितं सज्जनानाम् ।नहि तापयितुं शक्य सागराम्भस्तृणोलकया ।
न भवति महता हि क्वापि मोघ प्रसाद । (ह० वि०)नहि दुर्बलदग्धानां काले किञ्चित्प्ररोहति ।
न भविष्यति हन्त साधन किमिवान्यत्प्रहरिष्यतो विधे । (र० व०)नहि दुष्करमस्तीह किंचिद्व्यवसायिनाम् । (क० स०)
न भार्यायाः परं सुखम् ।नहि नार्यो विनेधैर्या ।
न भूतो न भविष्यति ।नहि प्रफुल्लं सहकारमेत्य वृक्षान्तर काङ्क्षति षट्पदाली । (र० व०)
न भेक कोकनदिनीकजलकास्वादकोविदः । (क० स०)नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः । (कि० अ०)
नभोभूषा पूषा । (प्र० भ०)नहि मूला प्रसिध्यति ।
न मुक्ते परमा गति । (यो० वा०)नहि वन्ध्याश्रुते दुख यथा हि मृतपुत्रिणी ।
नयनसुख को निवारयति ।नहि विचलति मैत्री दूरतोऽपि स्थितानाम् ।
नयवर्त्मगा प्रभवता हि धियः ।नहि सत्त्वावसादेन स्वल्पाप्यापद्विलङ्घयते । (क० स०)
न युक्त ते रोषादतिथिमिव धिक्कृत्य गमनम् ।नहि सर्वविद सर्वे ।
नये च शौर्ये च वसन्ति संपद ।नहि सर्वेऽपि कुर्वन्ति सभ्या युक्तिविवेचनम् ।
नयेन चालंक्रियते नरेन्द्रता ।नहि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः । (र० व०)
नर प्रत्युपकारार्थं विपत्तिमभिवाञ्छति ।नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा ।
न रत्नमन्विष्यति मृग्यते हि तत् । (कु० स०)नहीज्जितजोऽवसरेऽवसीदति । (कि० अ०)
नरपति हितकर्ता द्वेष्यता याति लोके । (प० त०)नहीश्वरव्याहृतय. कदाचित्पुष्णन्ति लोके विपरीत मर्थम् । (कु० स०)
नराणा नापितो धूर्तः । (प० त०)नाकाले म्रियते जन्तुर्विद्ध शरशतैरपि । (वृ० ख०)
नमैकसादरं हि नव वयः । (क० स०)नातीपीडयितु भञ्जन्तिच्छन्ति हि महौजसः । (कि० अ०)
न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः । (नै० च०)नाधर्मश्चिरमुद्धये । (क० स०)
नवान्नानां नव एव पन्थाः ।नानातत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धय. ।
नवा वाणी मुखे मुखे ।नानाफलै फलति कल्पलतेव भूमि । (भर्तृ०)
न विवेक विना ज्ञानम् ।नानृतात्यातक परम् ।
न वैराग्यात्पर भाग्यम् ।नाभाम्य भवतीह कर्मवशतॊ भाग्यस्य नाश कुत ।
न शरीर पुन पुन ।नारीणा भूषण पति ।
न शान्ते परमं सुखम् ।नार्कातपैर्र्जलजमेति हिमैस्तु दाहम् । (नै० च०)
न शास्त्र वेदत परम् ।नार्यैः समाश्रितजनं हि कलङ्कयन्ति ।
न शिक्षित प्रयत्नो हि धीराणां हृदये भिया । (क० स०)नालं सुखाय सुहृदो नालं दु खाय शत्रव । (म० भा०)
न शूरा विसहन्ते हि स्त्रीनिमित्त पराभवम् । (क० स०)नाल्पीयानबहु सुकृत हिनस्ति दोष । (कि० अ०)
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते । (कु० स०)नाऽविष्णु पृथिवीपति । (म० भा०)
न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते । (क० स०)नासन्नि किंचिदाचरेत् ।
नासमीक्ष्य पर स्थान पूर्वमायतनं त्यजेत् ।
नास्ति कामसमो व्याधि. ।
नास्ति क्रोधसमो वह्नि ।

सुभाषितरत्नखण्डमञ्जूषा ११

नास्ति चक्षु सम तेज ।निसर्गसिद्धो नारीणा सपत्नीपु हि मत्सर. । (क० स०)
नास्ति चात्मसम बलम् ।निस्पृहस्य तृणं जगत् ।
नास्ति ज्ञानात्पर सुखम् ।नि सङ्गाद्भवति महता मानपूजापहार ।
नास्ति तृष्णासमो व्याधि ।नीचाश्रयो हि महतामपमानहेतु ।
नास्ति धान्यसम प्रियम् ।नीचैर्गच्छत्युपरि च दशाचक्रनेमिक्रमेण । (म० दू०)
नास्ति प्राणसम भयम् ।नीचैर्नीचैरतिनीचनीचै सर्वैरुपायै फलमेव साध्यम् ।
नास्ति बन्धुसम बलम् ।नीचो वदति न कुरुते वदति न माधु करोत्येव ।
नास्ति भर्तृ. समो बन्धु । (विक्र०)नून विरूपरविक हामनै. क्रीडनि खग. । (क० स०)
नास्ति मेघसमं तोयम् ।नृपनि जनपदाना दुर्लभ । (प० त०)
नास्ति मोहसमो रिपु ।नृपस्य वर्णाश्रमपालन यत्ल एव धर्म । (र० व०)
नास्ति व्यसनिनां किञ्चिद्भुवि पर्याय्ये धनम् । (क० स०)नेन्दु. क्षिपति कि काल परिशीर्णोऽर्कमण्डले । (क० स०)
नास्ति सत्यसमो धर्म । (म० भा०)नेत्र्यां भर्तृहितैपिण्यो गणयन्ति हि सुधिय । (क० म०)
नास्ति हस्तिसम सखा ।नैकत्र सर्वो गुणसन्निपात ।
नास्ति हस्तिसमो बन्धु ।नैवाकृति फलति नैव कुलं न शील । (भतृ०)
नास्त्यदेयं महात्मनाम् ।नैता रूप परीक्षन्ते नासा वयसि सस्थिति । (हि०)
नास्त्यहो स्वामिभक्तान् पुत्रे वात्मनि वा स्पृहा । (क० स०)नैवामनीयमथवा क्रियते मदान्धै । (शि० व०)
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।नैवान्यथा भवति यल्लिखित विधात्रा ।
निजामृतैलौंचनसेचनाद्वा पृथक्किमिन्दुः सृजति प्रजानाम् । (नै० च०)नैवाश्रितेषु महता गुणदोषशङ्का ।
निपातनीया हि सतामसाधवः । (शि० व०)न्याय्यमुपेक्षते हि क. । (न० च०)
नि सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।न्याय्या वृत्ति समाचरेत् ।
निजेऽप्यपत्ये करुणा कठिनप्रकृतेः कुत । (प्र० रा०)न्याय्यात्पथ प्रविचलन्ति पदं न धीरा । (भर्तृ०)
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । (हि०)पङ्को हि नभसि क्षिप्त. क्षेप्तु पतति मूर्धनि । (क० स०)
निर्गलिताम्बुगर्भं शरद्घन नार्दति चातकोऽपि । (र० व०)पञ्चभिर्मिलितै कि यज्जगतीह न साध्यते । (न० च०)
निर्जितेषु तरसा तरस्विना शत्रुपु प्रशतिरेव कीर्तये । (र० व०)पठतो नास्ति मूर्खत्वम् ।
निर्ग्रन्ध्यं पुरुष त्यजन्ति गणिका. । (भर्तृ०)पथ श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् । (र० व०)
निर्धनता सर्वपदामास्पदम् ।पदं हि सर्वत्र गुणैर्विधीयते ।
निर्धनस्य कुत सुखम् ।पद सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुन. पतत्रिण । (कु० स०)
निर्वाणदीपे किमु तैलदानम् ।पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ।
निर्वाह प्रतिपन्नवस्तुपु सतामेतद्धि गोत्रव्रतम् ।पद्माना शिशिराद्भवम् ।
निर्विमर्शा हि भीरव । (क० स०)पय पान भुजगाना केवल विषवर्धनम् । (प० त०)
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धय । (कि० अ०)पयो गते कि खलु सेतुबन्ध. ।
निवसन्नन्तर्दारुणि लङ्घयो वह्निर्न तु ज्वलित ।पयो मुचा पङ्किषु विद्यतेव ।
निवृत्तपापसंपर्को सन्तो यान्ति हि निर्वृतिम् । (क० म०)परदु खेनापि दु खिता विरला ।
निवृत्तरागस्य गृह तपोवनम् । (हि०)परवृद्धिर्विनाशाय ।
निशारत्न चन्द्र । (प्रगपा०)परवृद्धिषु बद्धमत्सराणा किमित्र ह्यस्ति दुरात्मनामलङ्घयम् । (शि० अ०)
निष्प्रज्ञास्त्ववसीदन्ति लोकोपहसिता सदा । (क० स०)परशुके हि कमले क्रिमलेजायते रति । (क० स०)
निष्प्रज्ञो नाशयल्येव प्रभार्यमथात्मन । (क० स०)परम लाभमशान्तिभङ्गमाहु. । (कि० अ०)
निसर्गे स हि धीराणा यदापद्यधिकं दृढम् । (क० स०)परमार्थमविज्ञाय न भेतव्यं कचित्क्षभि । (क० स०)
निसर्गचपलाना हि मादृशा सयम्' कुत । (क० स०)परलोकगतस्य को वन्धु ।
निसर्गतोऽन्तर्मलिना ह्यसाधव ।परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् । (र० व०)
१२सुभाषितरत्नभाण्डागारम्
परवृद्धिमत्सरी मनो हि मानिनाम् । (शि० व०)पुत्र शत्रुरपण्डित. । (चा० नी०)
परसदननिविष्ट को लघुत्वं न याति । (भर्तृ०)पुत्रप्रयोजना दारा. ।
परसेवैकसकानां को हि स्नेहो निजे जने । (क० स०)पुत्रहीनं गृहं शून्यम् ।
परहस्तगता. स्त्रिय. ।पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् ।
परहितनिरतानामादरो नात्मकल्पैं ।पुत्रोदये नाद्यति का न हर्षात् । (कु० सं०)
पराभवोऽप्युत्सव एव मानिनाम् ।पुनर्दरिद्री पुनरेव पापी ।
परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमा । (क० स०)पुनर्दांरा पुनर्विंत्तं । (विक्र० च०)
परिजनतापि गुणाय सद्गुणानाम् । (कि० अ०)पुनर्घनाढ्य पुनरेव भोगी ।
परिवर्तिनि संसारे मृत. को वा न जायते ।पुरुषा अपि बाणा अपि गुणच्युताः कस्य न भयाय ।
परेङ्गितज्ञानफला हि बुद्धय. ।पुष्प पर्युषितं त्यजन्ति मधुपा ।
परैरनिन्द्यं चरितं मनस्विनां पयोनुसारोचितमेव शोभते । (क० स०)पुस्तकप्रत्ययाधीतं । (नारद०)
परैरपर्यांसितवीर्यसंपदां पराभवोऽप्युत्सव एव मानिनाम् । (कि० अ०)पूज्यं वाक्य समृद्धस्य ।
परोपकारं पुण्यं न स्यात्कलुशतैराप ।पूर्वपुण्यतया विद्या ।
परोपकाराय सतां विभूतय !पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते । (अ० शा०)
परोपकारार्थमिदं शरीरम् ।पृथिवीभूषणं राजा ।
परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै ।पेशलं हि सतीमन । (क० सं०)
परोऽपि हितवान्बन्धुः । (प० त०)प्रकृति खलु सा महीयसां सहते नान्यसमुन्नतिं यया ।
पर्यांयपीतस्य सुरैर्हिमांशो. कलाक्षयः श्लाघ्यतरो हि वृद्धे. । (र० व०)प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ।
पर्व्वतानां भयं वज्रात् । (चा० नी०)प्रकृतिरियं सत्त्ववताम् ।
पलाशजालै. पिहित. स्वयं हि प्रकाशमासादयतीक्षुडिम्भः । (नै० च०)प्रकृतिसिद्धमिदं हि दुरात्मनाम् ।
पवन. परागवाही रथ्यासु वहन्रजस्खलो भवति ।प्रकृतिसिद्धमिदं हि महात्मनाम् । (भर्तृ०)
पश्यन्तु लोका. कलिकौतुकानि ।प्रकृत्सा ह्यमणिः श्रेयान्नालकारश्च्युतोपलः ! (कि० अ०)
पश्यन्तु लोका कलिदोषकानि ।प्रच्छन्नमप्युह्यते हि चेष्टा । (कि० अ०)
पाणौ पयसा दुग्धे तक्रे फूत्कृत्य पामर. पिवति ।प्रजानामपि दीनाना राजैव सदय पिता ।
पात्रत्वाद्धनमाप्नोति ।प्रजापतेर्विसर्गो हि प्राणिसर्गोऽधिकाधिक । (क० स०)
पात्रानुसारं फलम् ।प्रज्ञा नाम बल ह्येव निष्प्रज्ञस्य बलेन किम् । (क० स०)
पादपाना भयं वातात् । (चा० नी०)प्रज्ञाबल च सर्वेषु सुख्य कार्येषु साधनम् । (क० स०)
पापप्रभावाच्चरकं प्रयाति ।प्रणानान्त सता कोप. ।
पापे कर्मण्यवज्ञाताद्धितवाक्ये कुतः सुखम् । (क० स०)प्रणिपातप्रतीकार. संगम्मो हि महात्मनाम् । (र० वं०)
पिण्डे पिण्डे मतिर्भिन्ना ।प्रतिकारविधानमायुष. सति शेषे हि फलाय कल्पते । (र० व०)
पिण्डेष्वनास्था खलु भौतिकेषु ।प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । (शि० व०)
पितृद्रोहेण मूर्खता ।प्रतिक्षण यन्नवतामुपैति तदेव रूपं रमणीयताया. ।
पिपासितै. काव्यरसो न पीयते !प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्त्वता । (क० स०)
पिबाम शास्त्रौघानुत्त विविधकाव्यामृतरसान् ।प्रतिपन्नार्थनिर्वाहं सहज हि सता वलम् । (क० स०)
पिशुनजन खलु विश्रान्तं क्षितीन्द्रा. ।प्रतिबध्नाति हि श्रेय पूज्यपूज्याव्यतिक्रमः । (र० व०)
पीत्वा मोहमयीं प्रमादशदिरामुन्मत्तभूतं जगत् ।प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावता धिय । (क० स०)
पुंसामदृष्टे दृष्टे वा श्रेयोऽहंकारिणा कुतः । (क० स०)प्रतीयन्ते न नीतिज्ञा कृतावज्ञस्य वैरिण । (क० स०)
पुण्यवन्तो हि सतान पश्यन्त्युच्चै. कृतान्वयम् । (क० स०)प्रत्यय. स्त्रीषु मुष्णाति विमर्शं विदुषामपि । (क० स०)
पुण्यैरैव हि लभ्यन्ते सुकृतिभि. सत्संगतिर्दुर्लभा ।प्रत्यासन्नविपत्तिमूढमनसां प्रायो मति क्षीयते ।
पुत्रः पिण्डप्रयोजन. । (चा० नी०)प्रत्युक्तं हि प्रणयिषु सवामीप्सितार्थक्रियैव । (मे० दू०)
प्रत्युत्पन्नमतिस्त्रैणम् । (अ० शा०)
प्रथमलीढमधुश. पिवन्ति कटु भेषजम् !
सुभाषितरत्नखण्डमञ्जूषा१३
प्रबलतमसामेवप्रायाः शुभेषु हि वृत्तयः स्वमपि शिरस्य
न्धाश्लेषा धुनोत्यहिशङ्कया । (अ० शा०)प्राय समानांविद्यः परस्परयश पुरोभागाः ।
प्रभुचित्तमेव हि जनोऽनुवर्तते । (शि० व०)प्राय. समासनविपत्तिकाले वियोऽपि पुंसां मलिनी-
भवन्ति ।
प्रभुप्रसादो हि मुदे न कस्य । (कु० स०)प्राय सर्वो भवति करुणावृत्तिराद्रान्तरात्मा । (मे० दू०)
प्रभुश्च निर्विचारश्च नीतिज्ञैर्न प्रशस्यते । (क० स०)प्राय. स्त्रियो भवन्तीह निसर्गीवषमाः शठा । (क० म०)
प्रभुस्तु विबुधाश्रय. कति न सन्ति कुक्षिभरा. ।प्राय स्व महिमान क्रोधात्प्रतिपद्यते हि जनः ।
प्रभूणां हि विभूत्यन्धा धावत्यविषये मति । (क० स०)प्रायेण गृहिणीनेत्रा. कन्यार्थेषु कुटुम्बिन. । (कु० सु०)
प्रभौ हठप्रवृत्ते हि कस्य प्रत्यायना भवेत् । (क० स०)प्रायेण भायीटौ शील्य स्वान्धो नेक्षते जन. । (क० स०)
प्रमदालोचनन्यस्त मलीमसमिवाञ्जनम् ।प्रायेण भूमिपतय प्रमदा लताश्च य. पार्श्वतो भवति त
परिवेष्टयन्ति । (प० त०)
प्रमाणं परम श्रुति. । (म० भा०)प्रायेण मत्स्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुलभानि
विनान्तरायै । (कि० अ०)
प्रमाद्यता सवृणोति खलु दोषममज्ञता । (कि० अ०)प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तय ।
प्रयोजनापेक्षतया प्रभूणा प्रायश्चल गौरवेमाश्रितेषु ।
(कु० स०)प्रायेण सामग्र्यविधौ गुणाना पराङ्मुखी विश्वसृज. प्रवृत्ति. ।
(कु० स०)
प्रलयोल्लसितस्य वारिधे परिवाहो जगत. करोति किम् ।
(शि० व०)प्रायेणाधममध्यमोत्तमगुण संसर्गंतो जायते । (भर्तृ०)
प्रवादमोहित प्रायो न विचारक्षमो जनः । (क० स०)प्रायो गच्छति यत्र भाग्यसहितस्तत्रापदा भाजनम् ।
(भर्तृ०)
प्रसन्नतोज्ञानि सुशीतलानि सरासि चेतासि हरन्ति
पुसाम् । (का० द०)प्रायो गच्छति यत्र भाग्यसहितस्तत्रैव यान्त्यापदः । (भर्तृ०)
प्रसन्नाना वाच. फलमपरिमेय प्रसुवते ।प्रायो वारितवामा हि प्रवृत्तिर्मनसो नृणाम् । (क० स०)
प्रसन्ने हि किमप्राप्यमन्वीह परमेश्वरे । (क० स०)प्रायोऽशुभस्य कार्यस्य कालहार प्रतिक्रिया । (क० स०)
प्रसादचिह्नानि पुरःफलानि ।प्रारभ्य चोत्तमजना न परित्यजन्ति । (भर्तृ०)
प्रसादसौम्यानि सता सुहृज्जने पतन्ति चक्षूषि
न दारुणा शरा । (अ० शा०)प्रासादशिखरस्थोऽपि काक. कि गरुडायते । (प० त०)
प्रसूयन्त च यौवनम् ।प्रियबन्धुविनाशात्थ. शोकाग्नि क न तापयेत् । (क० स०)
प्रस्तुतार्थविरुद्धं हि कोऽभिदध्यादवालिश । (क० स०)प्रियमनु सुकृता हि स स्पृहाया विलम्ब । (नै० च०)
प्रहर नमत्तु चाप प्राक्प्रहारप्रियोऽहम् ।प्रियमम्टगाधिपोज्झित. किमवद्य. करिकुम्भजो मणि.।
(शि० व०)
प्रहेष्वनिर्वन्धरुषो हि सन्त । (र० व०)प्रियानाशे कृच्छ्र किल जगदरण्यं हि भवति । (मे० दू०)
प्रागेव मुक्ता नयनाभिरामा प्राप्येन्द्रनील
किमुतोन्मयूखम् । (र० व०)प्रियेषु सौभाग्यफला हि चारुता । (कु० स०)
प्राचीनकर्म बलवन्मुनयो वदन्ति । (म० भा०)प्रिये सीमाह्लाद ।
प्राज्ञा सर्र्वहित कुर्यात्सभ्यग्बमबोधलब्धये । (क० स०)प्रौढ विक्रान्तमासीद्वन इव भवता शूरशून्ये रणेऽस्मिन् ।
प्राणव्ययाय शूराणा जायते हि रणोत्सव. । (क० स०)फलं भाग्यानुसारत । (म० भा०)
'प्राणानुदारा विसृजन्त्यर्थिनो न पराङ्मुखाः । (क० स०)फलेन फलमादिशेत् ।
प्राणिना हि निकृष्टापि जन्मभूमि परा प्रिया । (क० स०)बत क्षीणा चञ्चलाश्रित्तवृत्तय. । (क० स०)
प्राणेभ्योऽपि हि धीराणा प्रिया शत्रुप्रतिक्रिया । (नै० च०)बताश्रितानुरोधेन कि न कुर्वन्ति साधव. । (क० स०)
प्राणेभ्योऽप्यर्थमात्रा हि कृपणस्य गरीयसी । (क० स०)बधिरस्य गानम् ।
प्राणैरपि हि भृत्याना स्वामिसंरक्षण व्रतम् । (क० स०)बधिरान्धमन्दकर्ण श्रेयान् ।
प्राप्तोऽप्यर्थ क्षणदेव हार्धते मन्दबुद्धिना । (क० श०)बध्नात्यपर्यंरीवादं खलसंवादशृङ्खला । (क० स०)
प्राप्नोतीष्टमविक्लव. । (१० ग०)बन्धु को नाम दुष्टानाम् ।
प्राप्यते कि यश. शुभ्रममङ्गीकृत्य साहसम् । (क० स०)बन्धुरप्यहित पर. ।
प्राय प्रत्ययमाधत्ते स्वगुणेषूत्तमादर । (कु० सं०)बलवति सति दैवे बन्धुभि. किं विधेयम् ।
प्राय श्वश्रूस्नुषयोर्न दृश्यते सौहृद लोके ।बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः । (अ० शा०)
प्राय सज्जनसंगतौ हि लभते देवानुरूप फलम् ।बल मूर्खस्य मौनित्वम् ।
प्राय. सत्पुरुपाश्रितोऽपि लभते दैवानुरूप फलम् ।बली बलं वेत्ति न वेत्ति निर्बलः ।

| १४ | सुभाषितभाण्डागारम् | | | :--- | :--- |

बलीयसी केवलमीश्वरेच्छा । (म० भा०)भवितव्यता बलवती । (अ० शा०)
बहुरत्ना वसुंधरा ।भवितव्यं भवत्येव कर्मणामीदृशी गतिः । (म० भा०)
बहुवचनमल्पसारं यः कथयति विप्रलापी सः ।भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् । (क० स०)
बहुविघ्नास्तु सदा कल्याणसिद्धयः । (क० स०)भवितव्यानां द्वाराणि भवन्ति सर्वत्र । (अ० शा०)
बह्वाश्चर्या हि मेदिनी । (क० स०)भवेन्न यस्य यत्कर्म स तत्कुर्वन्विप्रणश्यति । (क० स०)
बालानां रोदनं बलम् ।भवो हि लोकाभ्युदयाय तादृशाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ।भस्मीभूतस्य जीवस्य पुनरागमनं कुतः । (नै० च०)
बुद्धिः कर्मानुसारिणी । (चा० नी०)भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्समः सेवकः ।
बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । (क० स०)भार्या मूलं गृहस्थस्य । (दम्पती०)
बुद्धेः फलमनाग्रहः ।भार्यासम् नास्ति शरीरतोषणम् ।
बुद्ध्या वा जितमपरेण कासमाविष्कुर्वीत स्वगुणमपत्नपः क एव । (शि० व०)भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् ।
बुभुक्षितः किं न करोति पापम् । (प० त०)भावस्थिराणि जननान्तरसौहृदानि । (अ० शा०)
बुभुक्षितं न प्रतिभाति किंचित् ।भिक्षुको भिक्षुकं दृष्ट्वा श्वानवद्गुद्गुरायते ।
बुभुक्षितैर्व्याकरणं न भुज्यते ।भिन्नरुचिर्हि लोकः । (र० व०)
बोधे बोधे सच्चिदानन्दभासः ।भीता इव हि धीराणां यान्ति दूरे विपत्तयः । (क० स०)
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् । (नै० च०)भूतार्थकथने यस्य स्थेयस्येव सरस्वती ।
भक्तानामनिर्वाच्यं हि चेष्टितम् । (क० स०)भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ।
भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ।भूभृद्रत्नं कनकनिशिखरी । (प्र०भ०)
भक्त्या हि तुष्यन्ति महानुभावाः ।भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ।
भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः । (प० त०)भोगरत्नं मृगाक्षी । (प्र०भ०)
भग्नेऽपि हि मृणालानामनुबध्नन्ति सन्तवः ।भोगो भूषणते धनम् ।
भजन्ति वैतसीं वृत्तिं राजानः कालवेदिनः । (क० स०)भोग्यं किं रमणी विना ।
भजन्त्यात्मंभरित्वं हि दुर्लभेऽपि न साधवः । (क० स०)भ्रष्टस्य का वा गतिः ।
भद्रंकृदामुयाद्भद्रमभद्रं चाप्यभद्रकृत् । (क० स०)मणिना भूषितः सर्पः किमसौ न भयङ्करः । (भर्तृ०)
भद्रमभद्रं वा कृतमात्मनि कल्प्यते । (क० स०)मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमितः ।
भयकाङ्क्षयकोपानां गृहं हि छान्दसा द्विजाः । (क० स०)मतिरेव बलाद्गरीयसी ।
भये सीमा मृत्युः । (ध० ख०)मदमूढबुद्धिषु विवेकिता कुतः । (शि० व०)
भर्ता च स्त्रीकृतं पापम् ।मद्यपस्य कुतः सत्यम् ।
भर्त्तारं हि विना नान्यः सतीनामस्ति बान्धवः । (क० स०)मद्यपाः किं न जल्पन्ति ।
भर्त्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् । (क० स०)मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः । (क० स०)
भवति महत्सु न निष्फलः प्रयासः । (शि० व०)मधुसमयभूषा मनसिजः । (प्र०भ०)
भवति योजयितुर्वचनीयता ।मधुरविधुरमिश्राः सृष्टयो हा विधातुः । (प्र० रा०)
भवति हि विक्लवता गुणोद्धतानाम् । (शि० व०)मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ।
भवति हृदयदाही शल्यतुल्यो विपाकः ।मनःपूतं समाचरेत् । (का० नी०)
भजन्ति क्लेशबहुलाः सर्वस्यापीह सिद्धयः । (क० स०)मन एव मनुष्याणां कारणं बन्धमोक्षयोः । (भ०गी०)
भवन्ति वाचोवसरे प्रयुक्ता ध्रुवं प्रविष्टेष्टफलोदयाय । (कु० स०)मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । (शा० प०)
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः । (कु० स०)मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् । (भर्तृ०)
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः । (कु० स०)मनीषिणः सन्ति न ते हितैषिणः ।
भवन्त्युदयकाले हि सत्कल्याणपरम्पराः । (क० स०)मनोभूषा मैत्री । (प्र० भ०)
भवन्त्येव हि भद्राणि धर्मादेव यदावृशत् । (क० स०)मनोरथानामगतिर्न विद्यते । (कु० स०)
मनो हि जन्मान्तरसंगतिज्ञम् । (र० व०)
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः । (मे० दू०)
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ।
मयि तु कृतनिघाते किं विदध्याः परेण ।

सुभाषितरत्नखण्डमञ्जूषा १५

मप्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्ववर्त्मनि । (क० स०)मूर्खस्य हृदयं शून्यम् ।
मरणं प्रकृति. शरीरिणाम् । (र० व०)मूर्खाणां बोधको रिपु ।
मर्दनं गुणवर्धनम् ।मूर्खैर्हि सङ्ग कस्यापि शर्मणे । (क० स०)
मर्मवाक्यमपि नोच्चरणीयम् ।मूर्खो दृष्टव्यलीकोऽपि व्याजमान्त्वेन तुष्यति । (क० स०)
महतां हि धैर्यमभिभाव्यवैभवम् । (कि० अ०)मूर्खोऽनुभवति क्लेश न कार्य कुरुते पुन. । (क० स०)
महतां हि सर्वमथवा जनातिगम् । (शि० व०)मूर्च्छन्त्यमी विकारा प्रायेणैश्वर्यमत्तेषु । (अ० शा०)
महतामनुकम्पा हि विरुद्धेषु प्रतिक्रिया । (क० स०)मृत्योः सर्वत्र तुल्यता ।
महतीमपि श्रियमवाप्य विस्मय. सुजनो न विस्मरति जातु किंचन । (शि० व०)मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेष-
प्रणयिनि जने किं पुनर्द्दूरसंस्थे । (मे० दू०)
महते रुजन्नपि गुणाय महान् । (कि० अ०)मेघो गिरिजलधिवर्षी च । (प० त०)
महाजनो येन गतः स पन्था । (प० त०)मोघा हि नाम जायेत महत्सूपकृतिः कुतः । (क० स०)
महानपि प्रसङ्गेन नीचं सेवितुमिच्छति ।मोहान्धमविवेकं हि श्रीश्रिरायं न सेवते । (क० स०)
महानुभावः प्रतिहन्ति पौरुषम् । (कि० अ०)मौनं विधेयं सततं सुधीभि. ।
महान्प्रकृत्यैव करोति विक्रमम् । (प० त०)मौनं सर्वार्थसाधकम् ।
महीतलस्पर्शनमात्रभिन्नमृदं हि राज्यं पदमैन्द्रमाहुः । (र० व०)मौनिन. कलहो नास्ति ।
महीपतीनां विनयो हि भूषणम् ।म्लायति श्रीः कुलस्त्रीव गृहे बन्धक्यधिष्ठिते । (क० स०)
महेश्वरमनाराध्य न सन्तीप्सितसिद्धयः । (क० स०)यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । (भर्तृ०)
महोदयानामपि सप्रवृत्तित्ता सहायसाध्या. प्रदिशन्ति सिद्धय. । (कि० अ०)यतः सतां हि संगतं मनीषिभि साप्तपदीनमुच्यते । (कु० स०)
मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणा. ।यतः सत्यं ततो धर्म ।
माता च व्यभिचारिणी । (चा० नी०)यतो धर्मस्ततो धनम् ।
मातापितृभ्या शश. सन्न जातु सुखमश्नुते । (क० स०)यतो नागास्ततो जय. ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने । (प० त०)यतो रूपं तत. शीलम् ।
मात्सर्यरागोपहतात्मना हि स्खलन्ति साधुष्वपि मानसानि । (कि० अ०)यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
मात्सर्यण दुरात्मकोऽपि सुजनं दृष्ट्वा सदा हासते ।यत्ने कृते यदि न सिध्यति कोऽत्र दोष. ।
मात्रा समं नास्ति शरीरपोषणम् ।यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ।
मादृशो हि कथं कुर्या. सच्छोल्लङ्घनसाध्वसम् । (क० स०)यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
माने म्लाने कुतः सुखम् ।यत्राकृतिस्तत्र गुणा वसन्ति ।
मासरत्नं वसन्तः । (प्र० म०)यत्रास्ति लक्ष्मीर्निधनो न तत्र ।
मितं च सारं च वचो हि वाग्मिता । (नै० च०)यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।
मित्रार्थगणितप्राणा दुर्लभा हि महोदया. । (क० स०)यथा देशस्तथा भाषा ।
मिथ्या परोपकारो हि कुतः स्यात्कस्य शर्मणे । (क० स०)यथा बीजं तथाङ्कुरः ।
मिष्टान्नमितरे जना. । (नै० च०)यथा भूमित्तथा तोयम् ।
मुक्त्वा बलिभुज काकी कोकिले रमते कथम् । (क० स०)यथा राजा तथा प्रजा ।
मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रम. । (नै० च०)यथा वृक्षस्तथा फलम् ।
मुखरतावसरे हि विराजते । (कि० अ०)यथाशक्त्यतिथे पूजा धर्मो हि गृहमेधिनाम् । (क० स०)
मुख्यमङ्गं हि मन्त्रस्य विनिपातप्रतिक्रिया । (क० स०)यथोत्तोरेच्छा हि गुणेषु कामिन. । (कि० अ०)
मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मन. । (कि० अ०)यथौषधं स्वादु हितं च दुर्लभम् ।
मुह्यन्मार्गममार्ग वा रागान्ध. को हि पश्यति । (क० स०)यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते । (कु० स०)
मूढ. परप्रत्ययनेयबुद्धिः । (प० त०)यदनुद्वेगतः साध्यं पुरुषार्थः सदा बुधैः । (क० स०)
मूर्खस्य किं शास्त्रकथाप्रसङ्ग. ।यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ।
यदि वात्यन्तसद्गुता न कस्य परिभूतये । (क० स०)
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ।
यद्देवेन ललाटपत्रलिखितं तद्रोज्झितुं कः क्षम. ।

१६ सुभाषितरत्नभाण्डागारम्

यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं कः क्षमः ।रन्ध्रोपनिपातिनोऽनर्थाः । (अ० शा०)
यद्भाविनात्मा म्रियते जन्तुस्तद्रूपमश्नुते । (क० स०)रम्याणां विकृतिरपि श्रियं तनोति । (कि० अ०)
यद्यपि शुद्धं लोकविरुद्धं नाकरणीय नाचरणीयम् ।रविपीतजला नपालये पुनरोधेन हि युज्यते नदी । (कु० स०)
यद्वा तद्वा भविष्यति ।
यशः पुण्यैरवाप्यते । (चा० नी०)रसमूला हि व्याधयः ।
यशस्तु रक्ष्यं परतो यशोधनैः । (र० व०)रहस्यं साधूनामनुपधि विशुद्धं विजयते ।
यस्याश्वास्तस्य काञ्चनम् ।राजा राष्ट्रकृतं पापम् । (वृ०चा०)
यस्याश्वास्तस्य मेदिनी ।राजा सहायवान्शूर सोत्साहो जयति द्विषः । (क० स०)
यः क्रियावान्स पण्डितः ।राज्ञः पापं पुरोहितः । (वृ० चा०)
यो गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी ।रामधाम शरणीकरणीयम् ।
याचको याचकं दृष्ट्वा श्वानवद्गुर्गुरायते ।रिक्तः सर्वो भवति हि लघु पूर्णता गौरवाय । (मे० दू०)
याचनान्तं हि गौरवम् ।रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ।
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा । (मे० दू०)रिपुष्वपि हि भीतेषु सानुकम्पा महाशयाः । (क० स०)
यादृशो यः कृतो धात्रा भवेत्तादृश एव सः । (क० स०)लक्ष्मीरनुसरति नयगुणसमृद्धिम् ।
यादृशास्तन्तवः कामं तादृशो जायते पटः । (क० स०)लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्वन्द्यताम् ।
यानरत्नं हि तुरगः । (प्र० भ०)लङ्केश्वरो हरति दाशरथे कलत्रं प्राप्नोति बन्धमथ दक्षिणसिन्धुराजः ।
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । (अ० रा०)
या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ।लब्धदिव्यरसस्वादं को हि रज्येतसान्तरे । (क० स०)
या राका शशिशोभना गतघना सा यामिनी यामिनी ।लब्धस्पर्शाना भवति कुतोऽथवा व्यवस्था । (शि० व०)
या लोकद्वयसाधनी तनुभृता सा चातुरी चातुरी ।लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् । (अ० शा०)
या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी ।
युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ।ललितान्तानि गीतानि ।
लाञ्छनं परं खलु मुखे तव भस्मपातः ।
युक्ताना खलु महता परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः । (कि० अ०)लिखितमपि ललाटे प्रोञ्झितुं क समर्थः ।
लीलया भवजल तरणीयम् ।
युक्ताना विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यल जलोघः । (शि० व०)लुब्धमर्थेन गृह्णीयात् । (प० त०)
लुब्धाना याचकः शत्रुः ।
युक्तियुक्तं प्रगृह्णीयाद्बालादपि विचक्षणः ।लोके पशुश्च मूर्खश्च निर्विवेकमतौ समौ । (क० स०)
युद्धस्य वार्ता रम्या स्यात् ।लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ।
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । (भर्तृ०)लोकोपहसिता शश्वत्सीदन्त्येव ह्यबुद्धयः । (क० स०)
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।लोभः पापस्य कारणम् ।
येन श्रियः संश्रयदोषरूढ स्वभावलोलेत्ययशः प्रमृष्टम् ।लोभमूलानि पापानि ।
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्तु ते किमपि तान्प्रति नैष यत्नः । (मा० मा०)वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ।
वक्ति जन्मान्तरप्रीतिं मनः स्निग्धदकारणम् । (क० स०)
येनेष्टं तेन गम्यताम् ।वक्रे विधौ वद कथं व्यवसायसिद्धिः ।
योगस्तडित्तोयदपोरिवास्तु ।वचने किं दरिद्रता ।
योजकस्तत्र दुर्लभः ।वचोभूषा सत्यम् । (प्र० भ०)
यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् । (क० स०)वञ्च्यन्ते हेलयैवोह कुश्रीभिः सरलाशयाः । (क० स०)
रक्षन्ति पुण्यानि पुरा कृतानि ।वज्रादपि हि वीराणां चित्तरत्नमखण्डितम् । (क० स०)
रङ्गः शुक्लपटे यथा ।वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते । (कु० स०)
रत्नदीपस्य हि शिखा वात्यापि न नश्यति ।
रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति । (क० स०)वनेऽपि दोषाः प्रभवन्ति रागिणाम् ।
रत्नं समायुज्यतु काञ्चनेन ।वयोगते किं वनिताविलासः ।
रत्नाकरे युज्यत एव रत्नम् । (कु० स०)वरं हि मानिनो मृत्युनं दैन्यं स्वजनाग्रतः । (क० स०)
सुभाषितरत्नखण्डमञ्जूषा१७
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । (भर्तृ०)विद्वान्सर्वत्र पूज्यते । (चा० नी०)
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि ।विधिरहो बलवानिति मे मति । (माग०)
वर भिक्षाशित्व न मानपरिखण्डनम् । (वृ० चा०)विधिरुन्मुह्वलो नृणाम् ।
वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् ।विधिर्हि घटयत्यर्थानचिन्त्यानपि समुन्व । (क० म०)
वरविभवभूषा वितरणम् ।विधिउल्लिव्य बुद्धिग्नुसरति ।
वरयेत्कुलजा प्राज्ञो विरूपामपि कन्यकाम् । (वृ० चा०)विधेर्विचित्राणि विचेष्टितानि ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ।विधेर्विलीलामानवेक्ष तरङ्गाङ्को हि तर्कयेत् । (क० स०)
वशिना न निहन्ति वैर्यसमुभावगुण । (कि० अ०)विनयाद्याति पात्रताम् ।
वसुमत्या हि नृपा. कलत्रिण । (र० व०)विनयो हि सनीवतम् । (क० स०)
वस्त्रपूतं पिवेजलम् । (चा० नी०)विनाप्यर्थैर्धीरा स्पृजन्ति बहुमानोन्नति पदं । (हि०)
वस्त्राणामातपो जरा । (प० त०)विना मलयमन्यत्र चन्दन न प्ररोहति ।
वाञ्छात्रोत्पादितासह्यवैराङ्को नानुत्तप्यते । (क० स०)विनाशकाले विपरीतबुद्धि ।
वाञ्छारूवं परमपदवी । (प्र० भ०)विनाश्रया न शोभन्ते पण्डिता वनिता लता ।
वाते वाति कदम्बपुष्पसुरभौ केन प्रतारिष्यते ।विना हि गुर्वीदृशेन संपूर्णाः सिद्धय कुत । (क० स०)
वामे विधौ न हि फलन्त्यभिवाञ्छितानि ।विनियोगप्रमादा हि किङ्करा प्रभविव्णेषु । (कु० स०)
वाराङ्गनेव नृपनीतिरनेकरूपा । (भर्तृ०)विनीतनाग किल सूत्रधारैरैन्तं पद भूमिंगतोऽपि भुङ्क्ते । (र० व०)
वास प्रधानं खलु योग्यतायाः ।
वासोविहीन विजहाति लक्ष्मीः ।विपदा परिभूता कि व्यवस्यन्ति विलम्बिनुम् । (कु० स०)
विकारं खलु परमार्थतोऽज्ञात्वानारम्भ प्रतीकारस्य । (अ० शा०)विपदि न दृपितानिभूमि । (शि० व०)
विपदोऽपि पद श्लाघ्योऽपकारयति नो हि स. । (कु० स०)
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीरा । (कु० स०)विप्रियमप्याकण्थे ब्रूते प्रियमेव सर्वदा सुजन. ।
विभूषण मौनमपण्डितानाम् । (भर्तृ०)
विक्रियायै न कल्पते संबन्धा सदनुष्ठिता । (कु० स०)विमल कलुषीभवच्च चेत. कथयत्येव हितैषिणं रिपुं वा । (कि० अ०)
विक्रीते करिणि किमङ्कुशे विवाद ।
विद्भवत्य प्रथितार्थसिद्धय । (अ० शा०)विरक्तस्य तृणं जगत् ।
विचित्रमायाः कितवा ईदृशा एव सर्वदा । (क० म०)विरक्तस्य तृण भार्या ।
विचित्ररूपा खलु चित्तवृत्तय । (कि० अ०)विलम्बिनु न खलु सदा मनस्विनो विवत्सवः कलहमवेक्ष्य विद्विष । (शि० व०)
विचित्रविधये तस्मै सर्वदा विधये नमः । (क० स०)
विचित्रा. खलु वासना ।विलासिनी हि सर्वस्य संध्येव क्षणरागिणी । (क० स०)
विचित्रो बत कायस्य विपाकविषम. क्रम. । (क० स०)विवश्चित ह्यनुक्तमनुताप जनयति । (अ० शा०)
विजानतोऽपि ह्यनयस्य रौद्रता भनत्यपाये परिमोहिना मति. । (कि० अ०)विवेकवाराशरजौनमन्त सता न काम. कलुषीकरोति । (नै० च०)
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । (वृ० चा०)विशाखान्तानि सेवानि ।
विदग्धा अपि वञ्च्यन्ते विटवर्णनया स्त्रिय. । (क० स०)विश्वास स्त्रीषु वर्जयेत् । (वृ० चा०)
विदेशे बन्धुलाभो हि मरावमृतनिर्झर. । (क० म०)विश्वास कुटिलेषु क । (क० स०)
विद्यातुराणा न सुख न निद्रा ।विश्वासयत्याशु सता हि योग. । (कि० अ०)
विद्या ददाति विनयम् । (हि०)विषं गोष्ठी दरिद्रस्य ।
विद्या मित्र प्रवासे च । (वृ० चा०)विषमप्यमृत क्वचिद्भवेदमृत वा विषमीश्वरेच्छया । (र० व०)
विद्या रूप कुरूपिणाम् ।
विद्या विवादाय वनम् । (उ० र०)विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् । (क० म०)
विद्यासमं नास्ति शरीरभूषणम् ।विषत्रिग फन्यापद्रोऽस्त गता. । (शि० पु०)
विद्या सर्वस्य भूषणम् ।विषवृक्षोऽपि सवर्ध्य स्वय छेत्तुमसाप्रतम् । (कु० स०)
विद्या स्तब्धस्य निष्फला ।वीरसहायनिविर्विज्ञा सुखलभ्या हि सिद्धय । (क० म०)
विद्वान्कुलीनो न करोति गर्वम् ।वीरो हि स्वाम्यमर्हति । (क० स०)
विद्वान्सर्वगुणेषु पूजिततनुर्भूरस्य नान्या गति ।वृक्ष क्षीणफल त्यजन्ति विहगाः । (स० र०)

३ सु० २० भा०

१८सुभाषितरत्नभाण्डागारम्

वृत्तं हि राज्ञामुपरुद्धवृत्तम् । (र० वं०) वृथा सुतस्य भोजनम् । वृथा दानं समर्थस्य । वृथा दीपो दिवापि च । वृथा भवेदसङ्गहान्धस्य हितोपदेशना । (कु० स०) वृथा वृष्टिः समुद्रेषु । वृद्धस्य तरुणी विषम् । वृद्धा जना निष्करुणा भवन्ति । वृद्धा न ते ये न वदन्ति धर्मम् । वृद्धा नारी पतिव्रता । वेदाञ्जानन्ति पण्डिताः । वेश्याङ्गनेव नृपनीतिरनेकरूपा । वेश्यानां च कुतः स्नेहः । व्याघ्रस्य चोपवासस्य पारणं पशुमारणम् । व्याजस्रप्रणयैर्वाक्यैर्जनन्या को न वञ्च्यते । (क० स०) व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः । (कु० स०)

व्याधितस्यौषधं मित्रम् । व्रताभिरक्षा हि सतामलंकिया । (कि० अ०) शक्तयो नियता वारि वैद्युताग्नि नु हन्ति किम् (क० स०) शक्या हि केन लङ्घयितुं दुर्जाना नियतेर्गतिः । (क० स०) शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । शयनतलरत्नं शशिमुखी । (प्र० भ०) शरीरूला हि नृपा मन्त्रमूला च राजता । (क० स०) शरीरमाद्यं खलु धर्मसाधनम् । (कु० स०) शस्त्राघाता न तथा सूचीक्षतवेदना यादृक् । शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति । (र० व०) शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः । (कु० स०) शास्त्रं हि निश्चितधिया क्व न सिद्धिमेति । (शि० व०) शास्त्राद्बुद्धिर्बलीयसी । शिरसि लिखितं लङ्घयति कः । शिष्यपापं गुरुस्तथा । शीलं परं भूषणम् । शीलं भूषयते कुलम् । शीलं हि विदुषां धनम् । (क० स०) शीलं हि सर्वस्य नरस्य भूषणम् । शुचिः क्षेमकरो राजा । शुचिन्नारी पतिव्रता । शुचिर्भूमिगतं तोयम् । शुभकृन्नहि सीदति । (क० स०) शुभस्य शीघ्रमशुभस्य कालहरणम् । शुभाचारस्य कः कुर्यादशुभं हि सचेतनः । (क० स०) शुष्केन्धने वह्निरुपैति वृद्धिम् ।

शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः । (प० त०) शूरस्य मरणं तृणम् । शूराणां मृतमारणे नहि परो धर्मः प्रयुक्तो बुधैः । शूरा हि प्रणतिप्रियाः । (क० स०) शोककन्दः क्व कन्या हि क्वानन्दः कायवान्सुतः । (क० स०) शोभन्ते विद्यया विप्राः । शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः । श्यालको गृहनाशाय । (चा० नी०) श्रद्धया न विना दानम् । श्रवणपुटरत्नं हरिकथा । (प्र० भ०) श्रवणसुखसीमा हरिकथा । (प्र० भ०) श्रीकृष्णस्य कृपालवो यदि भवेत्कः कं निहन्तुं क्षमः । श्रीपतेः पदयुगं स्मरणीयम् । श्रीमङ्गलात् प्रभवति । (म० भा०) श्रेयसि केन तृप्यते । (शि० व०) श्रेयान्हि मानिनो मृत्युनैर्दुगात्मप्रकाशनम् । (क० स०) श्रोत्रस्य भूषणं शास्त्रम् । सपत्सु महतां चित्तं भवत्युत्पलकोमलम् । संसर्गजा दोषगुणा भवन्ति । (भर्तृ०) संहर्षिणा सह गुणाभ्यधिकैर्दुरासम् । (शि० व०) सकलं शीलेन कुर्याद्वशम् । सकलकृतिसीमा श्रुतिस्मृतिः । (प्र० भ०) सकलगुणभूषा च विनयः । सकलगुणसीमा वितरणम् । सकलसुखसीमा सुवदना । (प्र० भ०) सकृद्विषिमानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्न्रहीतुम् । (र० व०)

स क्षत्रियस्त्राणसहः सतां यः । सखि साहजिकं प्रेम दूरादपि विजायते । सकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे । (क० स०) संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः । (क० स०) सङ्गः सता किमु न मङ्गलमातनोति । (भाग०) सङ्गात्संजायते कामः । (भ० गी०) सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् । (क० स०) सता प्रज्ञोन्मेष पुनरयमसीमा विजयते । सतां महत्संमुखभावि पौरुषम् । (नै० च०) सता हि चेतः शुचितात्मसाक्षिका । (नै० च०) सता हि सङ्गः सकलं प्रसूयते । (भाग०) सता हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः । (अ० शा०) सतां हि साधुशीलत्वात्स्वभावो न निवर्तते । सतां गुरुजिगीषे हि चेतसि स्त्रीतृणं कियत् । (क० स०) सतीधर्मो हि सुखीणां चिन्त्यो न सुहृदादयः । (क० स०) स तु निरवधिरेकः सञ्जनानां विवेकः । सत्त्वाधीना हि सिद्धयः । (क० स०)

सुभाषितरत्नखण्डमञ्जूषा१९
सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति । (क० स०)समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य । (कु० स०)
सत्पुत्र एव कुलसद्मनि कोऽपि दीपः ।सपत्सु हि सुसत्त्वानामेकहेतुः स्वपोषणम् । (क० स०)
सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् । (क० स०)सम्पूर्णकुम्भो न करोति शब्दम् ।
सत्यनियतवचस वचसा सुजनं जनाश्चलयितुं क ईशते । (शि० व०)संभवत्यभिजातानामभिमानो ह्यकृत्रिमः । (क० स०)
सत्यपूता वदेद्वाणीम् ।संभावना ह्यविकृतस्य तनोति तेजः । (कि० अ०)
सत्यं सम्यक्कृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् । (क० स०)संभावितस्य चाकीर्तिर्मरणादतिरिच्यते । (भ० गी०)
सत्यं कण्ठस्य भूषणम् ।समुपनो हि जयो रन्ध्रप्रहारिणाम् । (र० व०)
सत्य न तद्यच्छलमभ्युपैति ।सरित्पतिर्नहि समुपेति रिक्तताम् । (शि० व०)
सत्यमेव जयते । (वृ० चा०)सरित्पूरप्रपूर्गोऽपि क्षारो न मथुरायते । (वा० वा०)
सत्येन तपते रविः । (वृ० चा०)सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । (चा० नी०)
सत्येन धार्यते पृथ्वी । (वृ० चा०)सर्वं स्नेहात्प्रवर्तते । (म० भा०)
सत्येन पूर्यते साक्षी ।सर्वं कान्तमात्मीयं पश्यति । (अ० शा०)
सत्येन वाति वायुश्च । (वृ० चा०)सर्वं कालवशेन नश्यति ।
सत्संगतिः कथय किं न करोति पुंसाम् । (भर्तृ०)सर्वं कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् । (भर्तृ०)
सदसद्वा नहि विदुः कुक्षीवचनमोहिताः । (क० स०)सर्वः प्रार्थितमर्थमविगम्य सुखी संपद्यते जन्तुः ।
सदाभिमानैकधना हि मानिनः । (शि० व०)राज्ञा तु चरितार्थता दुःखोत्तरैव । (अ० शा०)
सदा स्याद्योऽत्र यच्चित्तन्मयत्वमुपैति सः । (क० स०)सर्वं प्रियं खलु भवत्यनुरूपचेष्टे । (शि० व०)
सदोभूषा सूक्तिः ।सर्वं कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः । (भर्तृ०)
सद्भावाद्रैः फलति न चिरेणोपकारो महत्सु । (म० दू०)सर्वं जीवद्भिराप्यते । (क० स०)
सद्भिः कुर्वीत संगतिम् ।सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ।
सद्भिरेव सहासीत ।सर्वं रत्नमुपद्रवेन सहितं निर्दोषमेकं यशः ।
सद्भिर्विवादं मैत्रीं च ।सर्वं शून्यं दरिद्रस्य । (प० त०)
सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् ।सर्वं सत्ये प्रतिष्ठितम् । (चा० नी०)
सद्यः फलति गान्धर्वम् ।सर्वं सावधि नावधि कुलभुवां प्रेम परं केवलम् ।
सद्य एव सुकृता हि पच्यते कल्पवृक्षफलधर्मि काङ्क्षितम् । (र० व०)सर्वनाशाय मातुलः । (चा० नी०)
स धार्मिको यः परधर्मं न स्पृशेत् ।सर्वमत्यन्तगर्हितम् ।
स धीरो यो न संमोहमापत्कालेऽपि गच्छति । (क० स०)सर्वलोकप्रतिष्ठाया यतन्ते बहवो जनाः ।
सन्तः परीक्ष्यान्यतरद्भजन्ते ।सर्वशून्या दरिद्रता ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् । (म० भा०)सर्वश्चित्तप्रमाणेण सदसद्वाभिवाञ्छति । (क० स०)
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे । (र० व०)सर्वस्यौषधमस्ति शास्त्रविहितं, मूर्खस्य नास्त्यौषधम् । (प० त०)
संतोष एव पुरुषस्य परं निधानम् ।सर्वाङ्गे दुर्जनो विषम् ।
संतोषतुल्यं धनमस्ति नान्यत् ।सर्वारम्भास्तण्डुलप्रस्थमूलाः ।
संतोषे ब्राह्मणः शुचिः ।सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । (अ० शा०)
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः । (भर्तृ०)सर्वे गुणाः काञ्चनमाश्रयन्ते । (भर्तृ०)
संधत्ते भृशमरतिं हि सद्वियोगः ।सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । (म० भा०)
संधिं कृत्वा तु हन्तव्यः सम्प्राप्तेऽवसरे पुनः । (क० स०)सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति । (शि० व०)
संनिकृष्टे निकृष्टेऽपि कष्टं रच्यन्ति कुक्षियः । (क० स०)सलज्जा गणिका नष्टा ।
सभारत्नं विद्वान् । (प्र० भ०)स सुहृद्व्यसने यः स्यात् । (प० त०)
समये हि सर्वमुपकारि कृतम् । (शि० व०)सहते मादृश को हि तादृशं धर्मविप्लवम् । (क० स०)
समर्थो यो नित्यं स जयतितरा कोऽपि पुरुषः ।सहने विपत्सहस्रं मानी नैवापमानलेशमपि । (म० भा०)
समानशीलव्यसनेषु सख्यम् । (हि० प०)सहते विरहक्लेशं यशस्वी नायशः पुनः । (क० स०)
२०सुभाषितरत्नभाण्डागारम्
बायाँ स्तम्भदायाँ स्तम्भ
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
(कि० अ०)सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ।
(र० व०)
सहसा हि कृतं पापं कथं मा भूद्विपत्तये । (क० स०)सेवाधर्म परमगहनो योगिनामप्यगम्यः । (भर्तृ०)
सहसि प्लवगैरूपासितं नहि गुञ्जाफलमेति सोष्मताम् ।
(शि० व०)सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः ।
सहस्रेषु च पण्डितः ।स्तवे रवेरप्सु कृताप्लुवैः कृते न मुद्धती जातु भवेत्कुमुद्वती ।
(नै० च०)
सहायकृत्तैर्महता न सङ्गतं भवन्ति गोमायुसखा न दन्तिन ।
(कि० अ०)स्तोत्रं कस्य न तुष्टये । (कु० स०)
सागरं वर्जयित्वा कुत्र महानद्यवतरति । (अ० शा०)स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः ।
साधनेषु हि रतेरुपचन्ते रम्यता प्रियसमागम एव ।
(कि० अ०)स्त्रियो नष्टा ह्यभर्तृकाः । (वृ० चा०)
साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः ।
(नै० च०)स्त्रियो यथा विचेष्टन्ता निष्कंपं हि सतां मनः । (क० स०)
साधु सीदति दुर्जनः प्रभवति प्राप्ते कलौ दुर्युगे ।स्त्रीचित्तमहो विचित्रमिति । (क० स०)
साधूता दुर्जनाद्भव्यम् । (प० त०)स्त्रीचित्तस्येव दैवस्य को वेत्ति गहनां गतिम् । (क० स०)
साधूना हि परोपकारकरणे नोपाध्यपेक्ष मन ।स्त्रीणां पति प्राणा न बान्धवाः । (क० स०)
साध्यासाध्यविचार हि नेक्षते भवितव्यता । (क० स०)स्त्रीणां प्रियालोकफलो हि वेष । (कु० स०)
सानुकूले जगन्नाथे विप्रियः सुप्रियो भवेत् ।स्त्रीणां भावानुरक्तं हि विरहासहन मनः । (क० स०)
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः । (शि० व०)स्त्रीणामलीकमुग्ध हि वच को मन्यते मृषा । (क० स०)
सार गृह्णन्ति पण्डिताः ।स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु । (मे० दू०)
साहसं नैरपेक्ष्यं च कृतवानां निसर्गजम् । (क० स०)स्त्रीपुमानित्यानास्थैषा वृत्त हि महितं सताम् । (कु० स०)
सिते हि जायते शिते सुलक्ष्यता । (नै० च०)स्त्री पुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम् ।
सिद्धिर्वा यदि वाऽसिद्धिं विद्धोत्साहो निवेदयेत् । (प० त०)स्त्रीबुद्धि प्रलयावहा । (का० नी०)
सिध्यन्ति कुत्र सुकृतानि विना श्रमेण ।स्त्रीभिः कस्य न खण्डितं भुवि मन । (भर्तृ०)
सीमन्तिनीना कान्तोदन्त सुहृदुपगतः सगमात्किंचिदूनः ।
(मे० दू०)स्त्रीवचः प्रत्ययो हन्ति विचारं महतामपि । (क० स०)
सुकविता यद्यस्ति राज्येन किम् ।स्त्री विनश्यति रूपेण । (शा० प०)
सुकृती चानुभूयैव दु खमप्यश्नुते सुखम् । (क० स०)स्त्रीषु वाक्यसंयम कुतः । (क० स०)
सुखं च मे शयनं च मे ।स्त्रीध्वनर्गलचेतास्तु कस्येच्छा नोपजायते । (क० स०)
सुखमास्ते नि स्पृहः पुरुष ।स्थातुं नियोक्तुर्नहि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ।
(र० व०)
सुखार्थिनः कुतो विद्या ।स्थितः पृथिव्या इव मानदण्ड । (कु० स०)
सुतप्तमपि पानीय शमयत्येव पावकम् । (प० त०)स्थिरा शैली गुणवता । (कुव० न०)
सुदुर्ग्रहान्त करणा हि साधवः । (कि० अ०)स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्क्वचित् ।
सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे ।
(कि० अ०)स्निग्धमुग्धा हि सख्यिय । (क० स०)
सुपर्वणे हि स्फुटभावना या सा पूर्वरूपं फलभावनाया ।
(शि० व०)स्निग्धो हि विरहायासे साधुवादं ददाति किम् । (क० स०)
सुरेषु हि श्रद्दधतां नभस्या सर्वार्थसिद्ध्यङ्गमिश्र. समस्या ।
(शि० व०)स्नुषात्वं पापानां फलमधनगेहेषु सुदृशाम् ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् । (कि० अ०)स्नेहमूलानि दुःखानि । (म० भा०)
सुलभो हि द्विषा भङ्गो दुर्लभा सत्त्ववाच्यता । (कि० अ०)स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति । (मे० दू०)
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराङ्गति विरुद्धमपि ।
(शि० व०)स्नेहः खलु पापशङ्की । (अ० शा०)
सूर्यापाये न खलु कमल पुष्यति स्वामभिख्याम् । (मे० दू०)स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः । (नै० च०)
स्पृशन्त्यास्तारुण्यं किमिव नहि रम्यं मृगदृशः ।
स्पृशन्नपि गजो हन्ति । (प० त०)
स्रर्तुमधिगतगुणसरणाः पटवो न दोषमखिलं खलूत्तमाः ।
(शि० व०)
स्रोतोरखं विबुधतटिनी । (प्र० भ०)
स्वं जीवितमपि सन्तो न गणयन्ति मित्रार्थे । (प० त०)
स्वकर्मसूत्रग्रथितो हि लोकः ।
सुभाषितरत्नखण्डमञ्जूषा ।२१
स्वगृहे पूज्यते मूर्खः ।स्वामिवन्पञ्च वर्षाणि दश वर्षाणि दासवत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ (प्र० भ०)
स्वग्रामे पूज्यते प्रभुः ।स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । (प० त०)
क्वचित्कल्पितो गर्व्वः कस्य केन प्रशाम्यति । (प० त०)स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिश्चति । (शि० व०)
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते । (कु० स०)स्वेनाननस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् । (शि० व०)
स्वजनालोकवातेद्धो दुःखाग्निः कं न तापयेत् । (क० स०)हंसो यथा क्षीरमिवाम्बुमध्यात् ।
स्वजातीयविघाताय माहात्म्यं दृश्यते नृणाम् ।हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयन्त्यपः । (अ० शा०)
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता । (शि० व०)हहो पञ्चसरः कुतः कतिपयैरहैर्विना श्रीस्तव ।
स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा ।हतं ज्ञानं क्रियाहीनम् । (वृ० चा०)
स्वदेशे पूज्यते राजा । (चा० नी०)हतमश्रोत्रिय श्राद्धं । (चा० नी०)
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । (भ० गी०)हतं सैन्यमनायकम् । (चा० नी०)
स्वधियो निश्चयो नास्ति यस्य स भ्रमति स्वयम् । (वृ० शा०)हतश्चाज्ञानतो नरः । (वृ० चा०)
स्वपन्त्यहो हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् । (क० स०)हतविधिपरिपाकः केन वा लङ्घनीयः । (मे० दू०)
स्वपदाच्च्यवमानस्य कस्याज्ञा को हि मन्यते । (क० स०)हरति मनो मधुरा हि यौवनश्रीः । (कि० व०)
स्वभाव एवैष परोपकारिणाम् । (भर्तृ०)हसन्नपि नृपो हन्ति ।
स्वभावतः सर्वमिदं हि सिद्धम् ।हस्तस्य भूषणं दानम् ।
स्वभावस्वच्छानां पतनमपि भाग्यं हि भवति ।हस्तौ दानविवर्जितौ । (वृ० चा०)
स्वभावो दुरतिक्रमः । (प० त०)हा कष्टं खलु वर्तते कलियुगे धन्या नराः सजनाः ।
स्वभावो यादृशो यस्य न जहाति कदाचन । (चा० नी०)हास्यादृते किमन्यत्स्याद्दतितौल्यवतां फलम् । (क० स०)
स्वमहिमदर्शनमङ्गेणेर्मुकुरतले जायते यस्मात् ।हा हा तथापि विषयान्न जहाति चेतः । (भर्तृ०)
स्वयशांसि विक्रमवतामवता न वधूर्व्वधानि विमृशन्ति धिय । (कि० अ०)हिंसा बलमसाधूनां । (म० भा०)
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते । (र० व०)हितप्रयोजनं मित्रम् ।
स्ववीर्यगुप्ता हि मनोः प्रसूतिः । (र० व०)हितभुङ्मितभुक् शाकभुक् ।
स्वसुखं नास्ति साध्वीनां तासा भर्तृसुखं सुखम् । (क० स०)हितमारण्यमौषधम् ।
स्वस्थे को वा न पण्डित । (प० त०)हितं मनोहारि च दुर्लभं वच । (कि० अ०)
स्वस्थे चित्ते बुद्धयः संभवन्ति ।हितैषिण सन्ति न ते मनीषिणः ।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते (र० व०)हितोपदेशो मूर्खस्य कोपायैव न शान्तये । (क० स०)
स्वाधीनकुशलाः सिद्धिमन्तः । (अ० शां०)हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते... ...मित्राणि । (र० व०)
स्वाधीना दयिता सुतावधि ।हीयते हि मतिस्तात हीनैः सह समागमात् ॥ (हि०)
स्वामापदं प्रोञ्छ्य विपत्तिमग्रं शोचन्ति सन्तो ह्युपकारिपक्षम् । (कि० अ०)हेम्न संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । (र० वं०)
स्वामिन्यसाध्यव्यसने सुखं सन्मन्त्रिणां कुतः । (क० स०)होतारमपि जुह्वन्त स्पृष्टो दहति पावकः । (प० त०)
ह्यर्थो हि लोक पुरुषस्य बन्धु । (भर्तृ०)
ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः । (नै० च०)

इति सुभाषितरत्नखण्डमञ्जूषा संपूर्णा ॥

ग्रन्थसमाप्तिः

इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु नित्यम् ।
विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानाम् ॥

अस्याभ्यासाद्ग्रन्थवर्यस्य शिष्यः सर्वज्ञः स्याद्दिस्फुरच्चारुबुद्धिः ।
अर्थं कामं वेत्ति धर्मं च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि ॥

शास्त्राब्धिं सकलं विलोड्य नितरां ग्रन्थः कृतोऽयं मया
लोकानन्दकरः समस्तसुकलासंतानजैवातृकः ।
अस्यास्वाद्य सुभाषितामृतरसानानन्दपूर्णान्तराः
सन्तः संप्रति नाकवासनिरतान्देवान्हसन्तु ध्रुवम् ॥

विज्ञप्तिः

दृष्टं किमपि लोकेऽस्मिन्न निर्दोषं न निर्गुणम् ।
आव्रणुध्वमतो दोषान्विवृणुध्वं गुणान्बुधाः ।

आशीर्वचनम्

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥

सुभाषितरत्नभाण्डागारस्थपद्यानां सस्थाननिर्देशमनुक्रमकोशः

अंशुकं हृतवता (शिशु १० ४३) ३१६।३अकृत्य (प त २ १५१) १५५।५३५अग्नौ दग्धं १५७।१९८
अशुक्रमिव शीतभया (सु.१८४१) ३४७।४अकृत्रि (किरात ३ ३७) . २५१।७अग्नौ प्रास्तं (मा २ १५५०) ३७९।१०७
अश्रुपाणिभिरतीव पिपासु २९४।२३अकृत्वा (शा प अ १५ ) १५०।३४१अग्न्याधानेन (मा १ ५५६०) ३७९।१०५
अंसाकृष्टदुकूलया ३१८।१५अकृत्वा परसंता (शा.प म १) ७५।२अग्रसानुपु निता २९४।२६
असालम्बितवामकुण्डल २५१।८२अकृत्वा पौरुषं (प त ४ ८८) १५८।२४०अग्राह्य हृदयं (भर्तृ २ ५०) ३५०।७६
अकरुण कातरमनसा ३५१।२५अकृत्वा हेलया ७८।७अग्रे कस्यचि (सा द २ ७४) ३७६।२६२
अकरुणत्वमकारण (भर्तृ स ६१) ५९।२१७अकृशं कुचयो २५१।२८अग्रे गीर्न मर (मृ ३ ६७) ३७५।२४५
अकरो किमु नेत्रशोणि ३०९।३अकृश नितम्ब (शा.प. ३३७६) २७०।८अग्रे यान्ति रथस्य १४०।६
अकर्तव्येव्वसाध्वीव ७६।२१अक्रतवाङ्मनसस्तक १८१।१५अग्रे लघिमा पश्चा ७३।२४
अकर्मशील (भा ५ १३६८) ३८०।१४१अक्रोधन. (भा १ ३५५६) ३८०।१२२अग्रे व्याव २३३।१९२
अकस्मात्त्र (भा १२ ४१७०) ३८०।१४०अक्रोधेन जये (भा ५ १५१८) ३८०।१२०अघ्नो भुक्तिमता ९६।३
अकलङ्कचन्द्रकल्या कलि ३०३।१२३अक्षत्रारिक्कताभि ३६२।३४अधं स केवलं (म ३ १८८) ३७९।१०४
अकलितशब्दाालंकृति २९।१२अक्षम क्षमत्तामानी (स ३९) ३८०।११९अघटितघटित ९१।३६
अकल्प स्वाङ्गचेष्टाया ३७२।१४१अक्षमा ही (भा १२ ५८८१) ३८०।११७अङ्क केऽपि (सु १९८२) ३०४।१६२
अकस्मादेकस्मिन्पथि २८७।६अक्षमालाप्रकृति ५५।५३अङ्कनिलीनगजा १९१।१०
अकस्मादेव कुप्यन्ति प्रसीद ५४।३१अक्षरद्वयमभ्यस्तं १५६।१३३अङ्गावरोपितमृगश्च (कुव २६) ७९।८
अकस्माद्देष्टि यो (कविता.३७) १४६।१७५अक्षरमैत्रीभाज १८६।१२अङ्ग येन रथीकृत ६।६९
अकाण्डधृतमानसव्यथ १०६।१६९अक्षराणि परी १५८।२४४अङ्गं गलिन पलितं (मोहमुद्ग.) ७६।३३
अकाण्डपा (हि. ४. ८२.) १५८।२३७अक्षेत्रे बीजमु (म १० ७१) ३८०।११६अङ्गं चन्दनपा ३३७।५५
अकामस्य क्रिया (म २४) ३८०।१३८अखण्डमण्डल (स क १ १२१) १०३।६२अङ्ग भूषणनि २७०।१३
अकामा कामया (र ५ २४) ३८०।१३७अखण्डिता १०४।९९अङ्गण तदिदमु (शा प ५६७) २०५।६
अकामान्काम (भा ५ १००२) ३८०।१३५अखर्वपर्वगते॑षु २१७।८३अङ्गणवेदी वसुधा (सु २२७०) ७७।७
अकारणाविष्कृत (बृह ११२) ५९।२२१अखिलेषु विहं (कुव. १६२) २२७।१८१अङ्गमङ्गेन समीक्ष्य (वासिष्ठ) ३७१।११८
अकार्यकरणा (भा ५.११३७) ३८०।१३४अगजाननप २।५अङ्गा सजातभ ११५।४०
अकार्याण्यपि (राग ४ ३८३) ३८०।१३२अगणितगुणेन २८८।१७अङ्गानामलितानवं (सु. १५८४) ३०५।३
अकालसह्म (हि ३ १३५) ३८०।१३१अगस्तितुल्याश्च ९६।२अङ्गानि खेदय (सा द ६ १९२) २०५।१२
अकाले कृत्य (भा १२ ५००६) ३८०।१२९अगस्त्यस्य मुने १९५।६अङ्गानि मे दह्तु (शा प ३४८३) २८८।४१
अकिंचन (भा १२ ६५६८) ३८०।१२८अगस्त्येन पयो १९८।८अङ्गारै खन्चिते (शा प ३८२७) ३३६।२६
अकिंचनस्य (भर्तृ ३.१००) ७६।१०अगाधजलसंचारी (नीति १०) २३५।२अङ्गासङ्गिमृणाल (कुव २७) २७७।५५
*अकिंचनस्य (भा १२.६५७०) ३८०।१२६अगाधहृदया १४६।१७२अङ्गालिभङ्गविक (क्षेमेन्द्र) ३६४।१८
अकिंचिदपि कुर्वाण• १६७।६२७अंगारेऽस्मिनका २७६।३१अङ्गुलीकिसलया (शा प ३५६६) ३१०।१
अकीर्ति विन (भा ५.१४८८) ३८०।१२५अगुणकणो गुण (सु. ४६६) ५८।१९५अङ्गुलीभिरिव (सु १९६३) २९९।२७
अकुबेरपुरीवलोकनं १८९।६१अगुणस्य हृत १५९।१६०अङ्गुलीषु कुर (शा प ३३३४) २६४।२४६
अकुलीन कुली (सु ३०५१) ८४।११अगुह्यिरिति वद (शा प वृ १४) २३८।६२अङ्गुल्यग्रनखेन (अमरु ८०) ३०८।२२
अकुलीनोऽपि (प त १ १६४) १४९।२७८अग्निं प्राप्य यथा (विक १८४) ३८०।११४अङ्गुल्यग्रनिरो (सु १७११) ३३९।११८
अकुले पतितो १५८।२४७अग्निदाहे न २४६।१८अङ्गुल्या क (द्व १३०) २६१।९१
अकूपाराद्ववारि २१३।५४अग्निस्तेजो म (भा ५ १३९४) ३८०।११३अङ्गेन केनापि २६८।३८६
अकूर्चारम्भोऽपि (शार्ङ्गधर) २०८।३७अग्निहोत्र गृहं १६०।३१८अङ्गेनऽङ्गजवरहु (कविकंठा ३ २) २८९।४८
अकृतेष्वेव (भा १२.९९४२) ३८०।१२३अग्निहोत्र त्रयो (प्रब ३०) ३८०।१०८अङ्गेष्वाभरण (गीत ६.१२ २) २९०।९०
अकृतो (प च १ ४७४) १५६।१२९अग्निहोत्रफला (प त २ १५४) १५५।५३६अङ्घिदण्डो हरेरू (कुव १९) २०।६१

१ अत्रोपयुक्तसांकेतिकचिह्नाना विवरण 'सांकेतिकचिह्नपरिचय'तोऽवसेयम् ।
१ सुभा०अनु०

२ सुभाषितरत्नभाण्डागारस्थपद्यानां

पद्य / पादसंदर्भ / पृष्ठपद्य / पादसंदर्भ / पृष्ठपद्य / पादसंदर्भ / पृष्ठ
अचकमत् सप(किरात.१० ४९)२८८।३८अणुरपि मणि प्राण(सु ३२५)५१।२२७अत्यच्छ सितमंशु३३६।२८
अचतुर्वदनो ब्रह्मा (कुव ५)३६।५६अणुरप्यसता सङ्ग८७।४अत्यच्छेनातिरु२४६।२०
अचलं चलदिव२५५।१३अत एव निपीयते३४९।६१अत्यद्भुतमिदं (सु ५१४)७०।२१
अचला कमला१६५।५६३अत कविनां (भाग २ २)३८९।४९१अत्यन्तचञ्च (कथा.३७.२३२)३७९।८९
अचिन्तितानि (शा प स ७)७५।५अतनुज्वरपीडि१८९।६०अत्यन्तमन्थन१७६।९५५
अचिन्तितानि (हि १ १५७)९१।१७अतन्द्रचन्द्राभरणा (का प्र ४ ७२)२५३।५अत्यन्तविमुखे दैवे (हि १.१२४)६५।९
अचिन्त्या (शा प २२२)५२।२४१अतसीकुसुमोपमेय२२१।२३अत्यम्बुपाना (विक्रम.२३७)३७९।८७
अचिराधिष्ठित१५१।३६६अतसीपुष्पसकाशं१८१।१९अत्यपूर्वेस्य२६९।४०६
अचिरेण परस्य१५१।३८७अताडयत्पल्लव३३४।१०५अत्यर्थवकत्वमन (सु १७४)४०।४२
अचोद्यमानानि (ना.१२ ६७५६)९१।१३अतिकुपिता अपि (शा प स ९)४७।१११अत्यादरपरो (प्रब ८८)३७९।८६
अच्छप्रकाशवति३०४।१५४अतिक्रान्त का (भर्तृ ३ १०१)३६८।५३अत्यादरादध्ययनं१०४।१०६
अच्छिन्नं नयना (सु १४०७)२८९।७०अतिक्रेशेन (मा ५ १५२१)३७९।९६अत्यायत्तै (का प्र १० ३९४)११०।१४३
अच्छिन्नामृतबिन्दु२७४।२५अतिगम्भीरे भूपे१५१।३७०अत्यार्यमतिदातारम(मा ५.१५०९)६२।५
अच्युतभक्तिवशा१८९।४८अतितेज (शा प रा ११३)१५१।३६५अत्यासन्ना (शा.प.रा.९४)१५६।१२४
अजनि प्रतिदिन२८४।७अतिथिर्बालक१५७।२०६अत्युक्तिं रह (पञ्च.१ २५)३८४।२८२
अजन्मा पुरु(किरात ११ ७०)१४९।३०८अतिदर्पे हता१६९।३८३अत्युक्तौ यदि न (शा.प सा)१३३।१३
अजरामरव (शा प ६६९)१६२।४२७अतिदाक्षिण्ययु१६१।३५३अत्युच्चा परित (कुव १०२)११०।२३२
अजस्रं लसत्पद्मि२०९।६अतिदाना (शा प नी २६)१५३।२०अत्युच्छ्रिते (हि २ १२०)१५१।३७८
अजस्रमभ्यास१०५।१३०अतिदीर्घजीवितो३५।११अत्युस्तेकेन स (राग ४ ५१७)३७९।८४
अजातमृतमूर्खा (हि प्र १३)९०।५अतिदूरपथ (वृ.ख नी १५)१६०।२९८अत्युदात्तु (राग ३ ३०४)३७९।८३
अजातमृतमूर्खेभ्यो (शा प १४८३)९०।६अतिपरिचया१६९।७२४अत्युन्नतस्तन (सा द २.१६१)२५५।२२
अजाखरखरो (पञ्च.२ १०८)३७९।१०१अतिपरिचया(शा.प.नी ८३)१६९।७२३अत्युन्नतिं प्राप्य (स.पा ५७)३७९।८१
अजानन्दाहात्तै(भर्तृ.स.१६०)३७४।२१४अतिपरिचया१६९।७२२अत्युल्लसद्धिसरहस्य३३५।२
अजामिव प्रजा(शा प १२९०)१४५।१२२अतिपूजिततारेयं२५९।७४अत्युष्णात्सघृता१६७।६२८
अजायुद्धमृषि (शा प स ८)१५३।२७अतिपेलवमति (का प्र.७ २०२)५७।१३४अत्र मन्मथम१८३।१९०
अजीयतावर्त्त (नैषध ७ ६९)२६४।२२९अतिप्रचण्डा१७५।९२२अत्रस्थ. सखि२२८।२२४
अज्ञ सुखमाराध्य (हि १ ५६)४०।२५अतिबहुतरलज्जा२६८।३६०अत्रान्तरे च (गीत ७ १३ १)३०४।१५३
अज्ञतया प्रेम्णा२१८।७३अतिमन्दचन्दन३३४।१२६अत्राशितं शयित२७४।२
अज्ञातपाण्डित्यर (सु १६९)४०।३४अतिमलिने कर्ते (शा.प.नी.८३)५७।१२६अत्रिलोचनस (का प्र ७ १५८)१८८।४१
अज्ञातशास्त्रसद्भावा४४।५अतिमात्रभाखरस्त्व८६।८अथ कोकिल२२५।१२९
अज्ञातेन्दुपराभवं२६३।२०५अतिरमणीये काव्ये३७।१४अथ नभसि निरी३४१।५२
अज्ञानाद्यदि (म.११.२३२)३७९।९९अतिवादास्ति (म.६.४७)३७९।९५अथ नित्यम (भाग ७ २ ४९)३७९।८०
अज्ञेभ्यो ग्रन्थि (म १२ १०३)३७९।९८अतिविततगगनस(का प्र ७ २५५)२७।३अथ पथिकवधूद२९९।१०
अज्ञानामविरामलौ९९।२०अतिविपुलं कुच (अरसीठकुर.)१४।५अथ प्रसन्नेन्दु (सु १८१८)३४४।१३
अज्ञानेन पराङ्मुखी (अमरू.२४)३१०।१२अतिव्ययोऽनवे (हि २ ९०)१४६।१४३अथ बद्धजटे रामे३६१।५
अज्ञो वा यदि१५२।४१६अतिशयितकद३४१।१३अथ मन्मथवा (शा प ३६२२)२९९।१७
अञ्चति रजनिरूह३०८।७अतिसञ्चयकर्तॄणा (सु ४७४)७१।२८अथ लक्ष्मणामु (शिशु ९ ३१)३००।५६
अञ्जनस्य क्षय दृष्ट्वा (हि २ ९)१५४।४३अतिसत्कृता अपि (सु ४०४)५८।१७९अथ वाभिनिविष्ट (शिशु.१६ ४३)४०।४६
अञ्जलिकारि लोके९८।८अतिसाहसमतिदु (शा.प लो २)७२।३८अथ सान्द्रसाध्यकि (शिशु ९ ५२)२९६।३
अञ्जलिस्यानि पुष्पाणि (शा प प ३)४५।३अतीतानागता (भा १.०२४४)३७९।९३अथ स्फुरन्मीन (किरात ८ ३७)३३८।७२
अञ्जलौ जलमवीर३३८।९८अतीव गुण (भा.५.१४.५५)३७९।९२अथ स्वस्थाय देवाय९।१
अटत्कटकघोटकप्र११५।३५अतुष्टिदानं (हि १ ११८)३७९।९०अथेदं रक्षोभि (उत्तर.१.२८)३६२।३२
अटवी कीदृशी प्रायो१९८।६अतुहिनरुचिना (शिशु ११ ४६)३२७।१५अयोञ्चकैर्जलठक (शिशु.१७ ५२)१२७।१
अट्ठशूला जनपदा१८७।१५अतो हास्यतरं (म.१.३०८७)५६।१०१अयोपगूढे शरदा शशा (कुव ६१)३४४।३
अत्तुं वाञ्छति (पञ्च.१ १७५)३६५।५२अद समित्समु (नैषध १२ ३५)१३५।१५

सस्थाननिर्देशमनुक्रमकोशः ३

अदम्भा हि रम्भा २५३।१७अधरे मधुरा सरस्व २७०।३०अनन्नोद्भूतभूतोघम (सु २००६) ७८।३
अदाता पुरुषस्त्यागी (शा प ४६८) ७०।२अधरोऽयमवीरा (कुव ७०) २६१।१४१अनन्यक्षुण्णश्रीमलय ३७६।२४
अदातारं दातृप्रवर १०६।१५६अधरोऽयं कुरङ्गा २६१।१४४अनन्यसाधारणका २६७।३३६
अदाता वंशदोषेण १६१।३८२अधर्मेण च (म २ १६१) ३८०।१४६अनपेक्षितगुरुवचना (सु २) ३०।१०
अदातुर्मनसः कापि न ७।१२१अधाक्षीच्चो ल(शा प १२६७)१९९।१०३अनभिज्ञो गुणाना यो १४८।२७१
अदुगों विषय कस्य (हि ३ ५४)१४३।६४अधारि पद्मेषु तद् (नैषध १ २०)२५२।१अनभिध्या पर (भा १३ ५८६) १५४।३८
अदृष्टपूर्वमस्माभिर्य (सु १७२९)३४३।९७अविकरतलन (का प्र ७ २३३)२८६।१२अनन्यासेन (काव्या २ २४७)३८१।१५३
अदृष्टपूर्वा (भाग १० १२५।९)३७९।७९अधिगतपरमार्थान्पृ(भर्तृ.२.१४) ३९।७६अनंन्नवृत्ति श्रवणाम् ३१।२८
अदृष्टमुखभङ्गस्य युक्त (सु ५०३) ७३।८अधिगमनमनेकास्ता २०९।११अनयनपथे प्रिये न २८८।७
अदृष्टव्यापारं (का नी ९ ३८)२२९।२३९अधिदेहली हन्त हेम २७५।१५अनयोरनवद्याङ्गि(काव्या ८ ७)३१२।१६
अदृष्टे दर्शनोत्क (का प्र ५ १२८)२९१।१अधिपञ्चवटीकुटीरव २१।७८अनर्घ्यमपि मणि १६०।३२१
अदेशकाल (पञ्च ३ ११३) ३७९।७७अधिभिल्लपल्लिगल ३७।९अनर्थकं विप्र(भा ५ १०७८) ३८१।१५५
अद्भुतस्तर्कपाथोधिर् ४२।१अधियामिनि गजगा २९८।६अनर्थमर्थत (भा ० १९५५) ३८१।१५६
अद्य द्यूतजिताथ (सु २११०) ३१६।४अधिरजनि जगाम (शिशु ७ ५०) ३१०।२अनर्थित्वाम्नतुष्यणा ३४८।१४
अद्य धारा सदाधारा ११७।८३अधिलवङ्गममी( शिशु ६ ३६) ३४७।११अनलस्तम्भनवि (शा प ३४४३) २८४।६
अद्य शीतं वरीवर्ति ३४५।७अधिश्रीरुद्याने त्वमसि २४०।११८अनलपदधारिपु (नैष १ १०)१०५।१२५
अद्यापि तत्प्रचलकु(सु १२९१)२७८।३९अधीतव्यवहारज्ञं मौलं १४२।२अनवरतधनुर्ज्यास्फा १४१।२
अद्यापि तां कन(शा प ३४६९)२७८।४१अधीतिबोधाचर (नैषध १ ४)१०५।१२०अनवरतपरोपकरण ४७।१०६
अद्यापि तिष्ठति दृशो (कुव ९६)२७९।५३अधीत्य चत्तु (शा.प ४१७४)३७५।२३२अनवसरे गुणवानपि(शा प ३०६)८२।३३
अद्यापि दुर्निवारं ४८।१२३अधुना मधुकरापतिना १८८।४६अनवसरे च यदुक्त १७०।७५६
अद्यापि नूनं हरको २८२।१२५अष्टपरिषतञ्निचोल २७८।३०अनवाप्यं च (भा ५ १३०४) ३८१।१५८
अद्यापि नोज्झति (कौ.५० ) ५०।२००अधोऽध पश्यत (हि २ २) १६३।४६७अनस्ति सीदति (शा प १६२) २३४।१४२
अद्यापि सा मन(शा प ३४७०)२७८।४२अधोविधानात्क(नैषध १ १८)१०५।१३१अनस्तमितसाह (शा प १०९८) २१७।४९
अद्यापि सुन्दरि तया २९१।१२अध्याक्रान्ता वसेति १०७।१७४अनाकाशे (शा प ३३२४) २६३।१९७
अद्यापि स्तनशैलदुर्गे(हनु ना २)३०२।९५अध्यायोथनवेदि मार्ग १३४।२४अनाकृतैरैव (शा प ३२८९) २५५।२७
अद्याप्युन्मदयातु (शा प ४०६७)३६५।७अध्याहार स्मर(नैषध.१२ ५७)१३६।३५अनागतविधा (शा प नी ११) ६२।६
अद्यारभ्य कठोरका ३६१।४५अध्रुवेण शरी (विक्रम १६७) ३८०।१४७अनाघ्रातं पुष्प (अ शा २ १०) २५५।२५
अद्यारभ्य यदि प्रिये (सु १२५९) ३०९।९अध्वनि पदमहपर ३०।१३अनातुरोत्कण्ठि (मालवि ५०) ३८१।१५९
अद्यैव कुरु(मा १२ ६५२५) ३८०।१४३अध्वन्यध्वनि तरव २३६।१०अनात्मवान् (का नी ५ ४) ३८१।१६१
अद्यैव हसितं (शा प ४१६८)३७२।१२१अध्वन्यध्वनि भूरूह २४१।१४२अनादायी व्ययं १६७।६५३
अद्योत्सङ्गवसद्भुजंग ३२६।३०अध्वन्यस्य वधूर्वि(सु १६८०)३३५।१४३अनादिष्टोऽपि भूप १४४।९१
अद्रोह सर्व (म ३.१६७८) ८४।७अध्वन्यैर्मकरन्द ३३५।१४५अनाहतचमूपतिप्रहि १५।२४
अद्विसवीक्षणं चक्षुरद्वि २८७।१अध्वा जरा (भा ५ १५२३) ३८०।१४९अनादेयं नादरीत(म ८ १७०)३८१।१६२
अद्वैतं सुखदु ख (उत्तर १ ३९) ५२।२६७अध्वानं नैकचक्र २९५।६९अनादेयस्य (म ८.१७१) ३८१।१६४
अद्वैतोक्तिपदन्पदन्नपि ३७६।२५५अनङ्कुरितकूर्चक. स ३४९।७१अनायन्ता (भा ३ ८३) ३८१।१६५
अध करोषि रला (शा प.स.५) २१५।४अनङ्गमङ्गल (का प्र ७ १४१) २५९।७२अनाम्नायमला(भा ५ १५२४)३८१।१६७
अधना धनमि(चा.नी.४ १८) १५९।२८९अनङ्गरङ्गपीतोडस्या. २६८।३८३अनायके न (शा प १४६६) १५४।३६
अधर्मं बाधते भूयो (वृ.६४) १६९।१६८अनङ्गेनाबलास (शा प ३०७६) २५०।१अनायासकृशं म(शा द.१० ६७) २५४।४
अधर किसलयरोग २५५।८अनङ्गोऽयमनङ्ग(शा प ३७९८) ३१२।११अनारतपरिखलन् १३३।१८
अधरः किसल (अ.शा १ १८)३८०।१४४अनधिगतमनोरथ (विक्रम ६३) ३१३।४४अनारम्भा (भा ५ १११३) ३८१।१६८
अधर खलु बिम्ब २६१।१४३अनध्वन्या० (कविता १०५) ३८१।१५२अनार्यप्रज्ञाना (शा प.३७७८) ३५२।३४
अधरममृतं क २६१।१५३अनन्तनामधेयाय (सु ११) १।३अनार्यवृत्तम (भा ५.१४३२)३८१।१७०
अधरस्य मधुरिमाणं १७७।७९९अनन्तपदविन्यासरचना ३२।१२अनावृतनवद्वार (द १९) ३८१।१७१
अधरे नववीटिका २५१।२९अनन्तपार किल १७३।८७९अनालोच्य प्रेमगा. (सु ११७०) ३८०।१४

४ | सुभाषितरत्नभाण्डागारस्थपद्यानां

अनाहूतो विशेथ (हि २ ५२) १६३।४७६अनुरागवन्तमपि (शिशु ९ ११) २९४।३८अन्तर्मोहनमौ (गीत ८ १७ २) २५१।७९
अनित्ये प्रिय (मा १२ ८७३) ३८१।१७३अनुरागवर्तिना तव २८८।१६अन्तये सतत (राग ३ २०२) ३८१।१८९
अनिर्वाच्यमानि (कवि २३) ३८१।१७४अनुलेपनानि (शिशु ९ २४) २९७।२०अन्तर्वसति मार्जरी २३१।५९
अनिर्वेदं श्रि(मा ५ १५०३) ३८१।१७६अनुवनं वनरा (शिशु ६ ४८) ३४४।३८अन्तर्वाणि मन्यमा ५९।२१०
अनिश्चितैरध्य(पच ३ २६१) ३८१।१७७अनुसरति करिकपो(शा प ८०८) ७३।२२अन्तर्विषमया (पच १.२११) ३४८।२२
अनेष्टसप्रयोगा(भा ११ ७३) ३८१।१७९अनूनवेगादयमद्विती १२२।३अन्तर्विष्णोस्त्रिलोकी (कुव ४९) ११६।५५
अनि सरन्तीमपि १३५।१६अनृतं सत्य (भार १३ २२४) ३८८।२१अन्तर्हिते शशिनि (शा ७८) ३२३।१२
अनिभालित (शिशु १६ २४) २१७।५५अनृतं साहस (चा नी २ १) ३४६।१अन्तश्छिद्राणि (शा प क.१०) २४३।२०८
अनिराकृततापसप ५९।२०२अनेकचित्त (का नी ९ ३४) ३८१।१८६अन्तस्तारं तरलतर २७६।३९
अनिर्देश्योपभोगस्य रूप ३०५।१अनेकविद्वज्जनरत्नपूर्ण १०१।७अन्तक्रान्तिक (गोमट्ट) ३००।३८
अनिलोंडितकार्यस्य १५८।२३८अनेकशास्त्रं बहु १७३।८७८अन्यायवस्थोऽपि (पच ४.७६) ४८।१४२
अनिलनिखिलविश्वं प्रा २१४।८अनेकसंशयोच्छेदि परो (हि प्र १०) २९।२अन्येषु रे (मा १२ ६४९२) ३८१।१९१
अनिशमपि मकरके २७८।२०अनेकसुषिर वाद्य १८४।५अन्नप्रोतबृहत्कपा(म वी च१ ३५) ३६६।५
अनिशं मतङ्ग २२९।१५अनेके फणिन. २३६।१६४अन्नाकल्पचलत्पयो ३६५।१०
अनिष्टादिष्टलाभे (हि १ ५) १६२।४३३अनेन पर्यास(सा द १० ६१) १०५।१९९अन्नैः कल्पितमङ्ग(शा प ४०७६) ३६६।३
अनीर्युर्गुणदा (मा ५ १४०७) ३८१।१८०अनेन मर्त्यदे (शा.प.स ४९) १५४।४१अन्नै खैरांप (माल्वी ५ १८) ३६१।३५
अनुकुरुत खल (शा प स १०) ४७।११२अनेन रम्भोरु (शा प ३३२१) २६२।१८०अन्धकारगरलं (शा प ३६३५) २९९।२२
अनुकूलविधायिदैव २०९।६१अनेन सर्वार्थिकृता १०४।१९४अन्यत्वमन्वसमये १७१।७९६
अनुकूला विमलाङ्गी १७०।७५३अन्त कटुरपि (शा प.प.१६) ४८।१२२अन्नदानात्परं दानं १५८।२१७
अनुकूले विधौ देय यतः ६८।१अन्त करणतत्त्वस्य (उत्तर ३ १७) ८९।५अन्नवस्त्रसुवर्णानि (शा प ५३६) १९४।१९
अनुकूले सति धातारि ९१।४०अन्त कुटि (शा प श ३) २१८।७४अन्यं मनुष्य ह(मृच्छ.४.१६) ३४०।६६
अनुक्षणमनुक्षणं १३५।२५अन्त कूजदुदारकण्ठ ३१४।७५अन्यकालपरिहार्य ३१८।१४
अनुगन्तुं सता (शा प नी १) १५३।१अन्त क्रूराः ३४८।७अन्यतो यदि निजोप ७३।२०
अनुचितकर्मारं (हि.२.१४२) १६९।७२९अन्त कोधोजिहान १९५।७अन्यत्र भीष्माद्वा ३७१।१२१
अनुचितमेवाचरितं ९१।४१अन्त पुरचरै (पच १ ६१) १४८।२६३अन्यत्र यापितनिशं ३२३।१७
अनुच्छिष्टो दैवेरप २६३।२००अन्त पुरधनाध्य १५०।३२८अन्यत्र यूय कु(का प्र ३ २०) ३३४।१०६
अनुदिनमधिकं ते २८६।१०अन्त पुराणा विहित १३९।३अन्यत्र व्रजतीति (का प्र ४ ३३) ३५८।७७
अनुदिनमनुकूल १७५।९४३अन्त पुरीयसि(सा द १०.२०) १०५।१९५अन्यथैव हि सौहार्दं (हि.१.९३) ८८।४
अनुदेहमागतवत (शिशु ७ १३) ३१०।५अन्त प्रतप्त (शा प तृ १५) १७६।९७२अन्यदा भूषणं (शिशु २ ४४) १५७।१८४
अनुनयति पतिं न ३५७।४४अन्त सतोषबा (नैषध.१२ ३९) १३८।८१अन्यप्रतापमा (पच १ १३०) १६४।५०३
अनुनयमगृहीत्वा (शिशु.११ ९) ३२२।२अन्त सारविहीनस्य ३९।७अन्यमाश्रयते १६०।३३३
अनुनेतुं मानिन्या १८५।२९अन्त सारैरकु (पच १ १४२) १४२।२७अन्यमु (शा प प्र ४) १६९।७३०
अनुपाल्यता (किरात ०.२०) १५१।३८८अन्तक पर्यवस्था ३७२।१६५अन्यान्यन्वनि (शिशु १० २८) ३१५।३१
अनुबन्धं च (मा ५ ११०२)अन्तरङ्गममञ्जय २५४।२अन्यवर्णपरावृत्त्या (शा प १९६) ३७।३
अनुबन्धानुपे (मा ५ ११०८) ३८१।१८३अन्तरायतिमिरोप २१।६अन्यस्त्रीस्पृहयालवो १९८।३९
अनुभवत ददत वित्तं (विक्रम ७५) ६२।१५अन्तर्गता मदनव (शृ न.१६) २८४।२०अन्यस्य लगति कर्णे ५७।१५४
अनुभवत युवत्यो ३३४।११६अन्तर्गतैर्गुणे कि द्वि ८२।३९अन्या जगद्धितमयी (रसगङ्गाधर) ३९।२५
अनुभवन्नवदोलम् ३३२।५६अन्तर्गूढानर्थानन्वजय ३१।२५अन्यानि शास्त्राणि विनो ४३।३
अनुममार न (नैषध ४ ७९) २८२।१२८अन्तर्दुष्ट सदा (हि २ ९७) ३८१।१८८अन्यायवित्तेन कृतो १७२।८३१
अनुययौ विधि (शिशु.६ २७) ३४१।३३अन्तर्नाडीनियमितमरु ९१।३९अन्यायोपा (चा नी.१५.६) १६६।५९७
अनुयातानेकजन परं १५१।३७५अन्तर्बलान्येवमुमुष्य २३०।२७अन्यार्थमङ्गीकृत १०४।१०८
अनुयाति न (द ५९) ३८१।१८४अन्तर्भूतो निवसति जडे ४०।२८अन्या सा सरसी (शा प ८०६) २२१।२९
अनुरणन्मणिमेखल २६९।४१०अन्तर्मलिनदेहेन बहि (कविता ८) ५५।६२अन्यास तावदु (सु ७३५) २२३।७९
अनुरागवती सध्या(ध्वन्या १.१३) ९१।३५अन्तर्मलिनससर्गाच्छुद्ध ८७।२

सस्थाननिर्देशमनुक्रमकोशः

अन्यास्ता गु (का प्र ७ २१८) १११।२५०अपह्ल तम (विक्रम १८१) ३८२।२०२अपूर्वेयं धनुर्विद्या (सु १०५५) १०२।१५
अन्यूनं गुणम (शिशु ८ ५०) ३३९।१०९अपहरति महस्त्व प्रार्थना ९६।७अपूर्वो दृश्यते व (भर्तृ स ३७१) २७७।११
अन्यूनोन्नतयो (शिशु १७ ६९) १२७।२२अपहस्सितवान्धव्वे ३६२।१६अपूर्वो भाति भारत्या ३२।७
अन्ये ते जल (शा प चा १०) २२६।१६८अपहाय शनै पटीर ३२५।७अपूर्वोऽयं मया दृष्ट १८४।२६
अन्ये ते विहगा २२६।१६८अपा प्रवाहो (का नी ५ ८) ३८२।२०३अपृष्टस्तु नर कि १४९।३०
अन्येऽपि सन्ति कति २८६।२८अपाङ्कलाशेषणण्यपि ३८५।८८अपेक्षन्ते न च लेह (सु २२४) ४६।४२
अन्येऽपि स (शा प चा ११) २२६।१६०अपाङ्गतारले (का प्र १० ५४६) २७३।२७अप्याकरसमुत्पन्ना २१७।४८
अन्येयं रूपसंपत्तिरन्या (कुव १३) २५४।३अपादसंसर्गि तर(का प्र ७ १८४) ३०४।३अप्यापन्नममयं साधो (सु २९७) ७६।६०
अन्योच्छिष्टेषु (राग ५ ११) ३८२।१९३अपानिवि वारिभिर ४९।१७८अप्युच्चनपदारूढ ७४।२७१
अन्यो धन (भा १५४८) ३८०।११४अपायसदर्शन (पच १ ७०) १७८।३८६अप्युन्मत्तात्प्र (भा ७ ११०४)३८२।२११
अन्योन्यमुख २६५।२७४अपायि मुनिना पुरा १३५।८अप्येकवंशजनुषो १७१।७९७
अन्योऽन्यस्य (भा ५ १३०४) ३८२।१९६अपार पाथोवि २२७।१९५अप्यौत्सुक्ये महति ३१८।१३
अन्योन्या (शा प ४०८६) ३६७।१३अपारेव्यार्पारैरहरिह ९९।१५अप्सु लवन्ते पाषा ३७३।१९४
अन्योन्याहति (शा प ३९३४) ३४७।५२अपि कापुरुषो (पच.१,१६५) १४९।२७९अप्रकटीकृतशक्ति १७१।७७६
अन्योन्यैषा पु (शिशु १८ ३०) १२९।७१अपि तद्वपुषि प्रम २६५।२८७अप्रगल्भस्य या १६१।३५०
अन्योऽपि चन्दन(शा प मे १०) ०१२।३७अपि त्वया कैरवि २४४।२२१अप्रगल्भा (शा प १०१) ३७।१
अन्यो हि (भा ३ १३८६८) ३८२।२०१अपि दलन्मुकुले बकु २२३।७४अप्रतिबुद्धे श्रोतरि (सु १८८८) १७०।७४२
अन्वायातगविचा १५६।१२७अपि दिनमणिरेश ३४६।२६अप्रभूतमतनीय (शिशु १० ८३) ३०१।९
अप पिबन्प्रपापाली १८७।२३अपि दोर्भ्यां परिबद्धा ६२।१९अप्रसन्नमपराद्धरि (सु २०११) ३१५।१७
अपकारमस ५६।१०२अपि नाम स दृश्येत (सु ५०८) ७०।१५अप्रसादोऽन (हि ३ ९०) ३८२।२१२
अपकारिणि वि (हरि ११६३) ३८२।१९९अपि पिबत चको ३०३।२२७अप्रस्तावस्तुतिभि (सु ३२०२) ६७।५४
अपकुर्वन्नपि प्राय (शा प म.११) ४५।९अपि मन्दत्व (पच २ १७९) ३८२।२०५अप्राकृतस्य च(म वी च २ ३९) ३६०।२८
अपकृत्य ब(भा १२ ३५०१) ३८१।१७५अपि मरणमुपैति २७५।१७अप्राज्ञेन च कातरे १३९।९
अपक्रान्ते बाल्ये २५५।३१अपि मार्देव (हरि ११६७) ३८२।२०६अप्राप्तकाल (सु २७८९) १४५।१३९
अपण्डितस्ते पुरु (मृच्छ ४ १०) ३४९।६१अपि मुदमुपयान्तो (शा प १६४) ३३।४३अप्रियवचनदरिद्रैः ४७।९१
अपतुषारतया ३३२।४९अपि मृगाक्षि तवा २६१।१४६अप्रियस्यापि प (हि २ १३५) १६४।४८७
अपत्यदर्शनस्यार्थे १५७।१९३अपि मेरुसम प्राज्ञम (शा प ४२७) ७६।९अप्रियाण्यपि कु (हि २ १३३) १६४।४८६
अपदो दूरगामी च (शा प ५१४) १८४।१अपि विधि कु(नैषध ४ ८९)२८२।१३२अप्रियैरपि (राग ३ २८३) ३८२।२१४
अपनीतपरिमलन्त २२३।५५अपि विभवविही ५५।२२५अफलानि दुरन्ता (सु २७२०) १६०।३५६
अपमान पुर (पञ्च.३ २४६) १६०।२९९अपि वेत्ति षडक्ष ५९।२०३अबलाव्याविग्रहश्रीरम १३।३
अपराधी नूनमह प्रसीद ३०५।८अपि शिशिरतरोप ३३६।१५अबला यत्र प्रब १७०।७४७
अपराधेऽपि नि (हि २ ९८) १४७।२०४अपि सम्पूर्णतायु १६५।५२३अबले सलिले तप २६२।१७५
• अपराघो न मेऽस्ती(हि १ ७५)१६३।४४७अपि समानसयु १४९।२८३अबुद्धिमाश्रि (शा प १३९८) १४६।१६९
अपराधशीतल २९४।३३अपि स्थाणुवदा १४८।२५८अबुधा अजंगमा १६९।७३६
अपरीक्षितलक्षणप्रमाणै ४२।२अपि स्वल्पमसत्य १४९।२४७अबुधैरर्थलाभा (शा प रा १२१) ७१।७
अपणेयं भूमृदनम १३२।२२अपीतक्षीवकाद (का द २ २००) ३४०।२अब्जं त्वन्जम (शा प ११८६) २४५।१५
अपर्णैव लता सेव्या ११।३अपुत्रस्य गति (विक्रम ८५) ३८२।२०८अब्दैर्वारिरिजिक्ष १३२।१५
अपर्याप्तभुजायाम २६८।३७४अपुत्रस्य गृह (चा नी ४.८४) १६३।४५४अब्धेरम्भ (का प्र १० ४४६) २८८।९५
अपवादादभीत (किरात.११ ५६) ५५।५६अपूजितैवास्तु २८७।१अभयस्य हि(भा १२ २७७२) ३८२।२१५
अपसरणमेव शरणं (शा प ७९८) २२१।८अपूर्व कोऽपि कोपा (शा प ३५९) ५४।७अभितापसपदमथो (शिशु ९ १)२९४।३०
अपसरत रे दूरादस्मा ३४९।७४अपूर्व कोऽपि कोशोऽय २९।१अभितिमिरदिम २९४।३९
अपसरति २७८।२७अपूर्व चौर्यमभ्यस्तं ३१२।४अभिद्रोहेण भूता १६१।३६४
अपसर मधुकर दू(शा प ८३१)२२३।५०अपूर्वा रसनाव्यालाः ५५।४७अभिन्त्याम्परि ३३२।३९
अपसारय घन (सु १०७१) २७५।७अपूर्विणा (भा १२ १०७९६) ३८२।२०९अभिनवनलि(का प्र १० ४८२) २८८।१३

सुभाषितरत्नभाण्डागारस्थपद्यानां

अभिनवनलिनी (शा प म ५) २२३।७२अमरैरमृतं न (सु ४२९) ५९।२०६अम्बरमेष रमण्यै ३४५।९
अभिनवनवनीत २२१।२९अमलमृणालका २५४।३६अम्बरविपिनसिदानी २९७।५
अभिनवनवनीत २२१।३०अमलात्ममु प्रति(शिशु ९ ३७) ३००।६२अम्ब श्राम्यसि तिष्ठ २४१।६५
अभिनवपुलकालीं ३१९।३२अमितगुणोऽपि पदा (रसगङ्गाधर) ८२।३७अम्ब श्वश्रु यदि त्वया ३५३।५६
अभिनवयवसश्रीशा ३४१।५३अमित समित (सा द ४ ७) १०२।३६अम्बा कुप्यति तात १८३।६३
अभिन्नवेलौ (काव्या २ १८४) ३८२।२१७अमित्रं नैव (मा १२ ५२९८) ३८२।२३०अम्बा तुष्यति (सु ३१८४) ६६।३४
अभिप्रायं यो(मा ५ १३५८) ३८२।२१८अमित्रादुन्नतिं (हरि ११७७) ३८२।२३१अम्बुजमम्बुनि जातं ३६।३८
अभिप्रेतार्थसि (सु ९) २।८अमित्रो न (मा १ ५५६४) ३८२।२३३अम्बुजमम्बुनि मग्न २६२।१७१
अभिभवति (किरात १० २३) ३४०।२५अमित्रो मि (मा १२ ४९२५) ३८२।२३४अम्भ कर्दमतामु १२१।१६०
अभिभूतोऽप्यव १५०।२२७अमी तटसमीपनि ३२६।२२अम्भसा भिद्य (पञ्च १ ११५) १६४।५०२
अभिभूय सतामव २९४।४४अमी तिलास्तै (शा प ११८४) २४६।४२अम्भासि जलज (हि १ १९६) १६३।४६५
अभिमतफल (शा प स १४) १०६।१६८अमी पृथुस्तम्भभृत ३४४।२२अम्भोजप्रकरोऽथ २२५।१४५
अभिमतमहामानग्र (भर्तृ ३ २३) ९७।९अमी शिरीष ३३७।६२अम्भोजाक्ष्या पुरन ३५६।२४
अभिमान (मा १३ २१८१) ३८२।२२३अमीषां जन्तू (शा श २ ९) ३७३।१७९अम्भोजिनीवन (भर्तृ २ १५) २२१।१५
अभिमानधनस्य ८०।३१अमीषा प्राणाना (भर्तृ.३ ७) ७७।४५अम्भोधि स्थल (सु ३१५२) ९४।११८
अभिमानवतो १५१।३९१अमी समुद्भूतसरो ३४४।२७अम्भोमुचा सलि (सु.२४१३) २०७।६
अभिमानवता(राग १ ०२६) ३८२।२२१अमुं कालक्षेपं (शा प ७८४) २१३।५३अम्भोरुहमये ज्ञात्वा १९४।३१
अभिमुखनिह (सु.०२७२) १५१।३६८अमुना मरुरूपेण २२०।३अम्भोरुहाक्षि शंभो ३५९।९७
अभिमुखपतयालुभि ३२०।११अमुष्मिन्ना (नैषध १८ २२०) १२७।१९२अम्भोवाहमुरद्रि २४३।१०८
अभियुक्ते (मा ५ ९८३) ३८२।२२४अमुष्मिन्द्युवानङ्गम २९७।२९अम्लानपङ्कजा माला १९३।११
अभियोक्ता (का नी ९ ००) ३८२।२२६अमुष्मिन्स्याने (शा प ८७९) ०२७।१९१अय खलु मृणालि ३२७।१९
अभिलषन्ति तवा २६१।१४७अमुष्मिंल्लाव (सु १५५८) २६८।२६२अयं च सुरतजवा (मृच्छ ४ ११) ३५५।२
अभिलषसि यदि (कुव ३८) २८२।१४७अमुष्य दो०र्यमिरि(नैषध १ २२) २५२।३अय त्रयाणा ग्रामा २६३।२१४
अभिलष्य (का नी ५ १०) ३८२।२२७अमुष्य सुषिता २५९।६५अयं दरिद्रो (नैषध १ १५) १०५।१२८
अभिवीक्ष्य (शिशु १३ ३१) १२६।३८अमुष्य विद्या (नैषध १५) १०५।१२१अयं निज परो (शा.प २७३) ७०।९
अभिषिषेणयिषु (शिशु ६ ६४) ३४०।९अमुष्या लावण्य मृदु २५४।३०अयं नेत्रादत्रेर्जनि ३०१।८०
अभुक्तौया यस्या (भर्तृ ३ ५९) ८०।३४अमुष्योर्वीभ (नैषध १२ ८२) १०६।१६४अयं पटो मे पितु ३६४।३९
अभूत्प्राची (सु ००१८) ३२४।३६अमुल्यस्य मम (सु १५७०) २६९।४०३अय पुर पार्वेण ३०४।१४७
अभूदम्भोरारौ सह ६०।२५०अमृतं शिशिरे (पञ्च १ १४४) १६४।५०८अयं मार्तण्ड (सा द १०.३६) १०६।१६१
अभेदेनोपास्ते (सु ११०२) ५२।२४३अमृतं किरति हिमा ४८।१९७अयं मृग समायाति १८।१७
अभ्यास कर्मणा (सु १४५४) २५३।१अमृतं चैव (मा १२ ६५५२) ३८२।२३६अयं मृदुमृणालिनी ३२४।४३
अभ्युत्थानमु (शा प ३७५७) ३५१।३६अमृतजलधेः पार्यं पार्यं ३१।३६अय मे वाग्गुम्फो ३३४।५
अभ्युद्गता वसु(स क १.७७) १०५।१३५अमृतद्रवमाधुरीधुरीणा २६३।२१८अयं रत्नाकरो (सा द १० ७०) २१५।६
अभ्युन्नतस्तनयुगा ३०४।४अमृतद्रवैर्विदध ३००।६१अयं रेवाकुञ्ज कुञ्ज ३५२।३५
अभ्युन्नताङ्गुष्ठ(कुमार १ ३३) २६९।४१२अमृतं तदधरबिम्बे २५३।११अय वारामेको (भल्लट १०८) २१६।३३
अभ्युन्नतेऽपि जलदे २२०।४अमृतं दुर्लभ नृणा १५६।१२५अय विपाको वद कस्य २८।५७
अभ्युपयुक्त सद्विर्ग (सु ४७१) ७२।४४अमृतममृतं (वामन सू ३ २) २५२।५०अयं स्वभाव खत ४९।१७६
अभ्रच्छाया (पञ्च २ १२०) १५६।१५१अमृतममृतं (शा प ३५१९) २७३।१८अय पिण्ड इवो (शा.प.दु.२१) ५४।१७
अभ्रच्छाया तृणा १६०।३२६अमृतवचनलीला २२७।१८९अयमङ्कुरभा (शा.प.३२७२) २५५।१४
अभ्रध्वानैर्मुखरि २८९।५५अमृतस्येव कुण्डानि (सु १४१०) २५१।५अयमतिमठरा. प्र (शिशु ४ २०) १४०।१
अभ्रदयनम्धु ३३२।५२अमृतोत्प्रेक्षणे रागं (शा प १७) ३२।१०अयमपि खरयोोषि २९५।५५
अभ्रन्भ्रमक्षरं नास्ति १९६।१५८अम्बर विनय (शिशु २० ६२) ३१०।२३अयमपि पुरुहूतप्रे २९५।५८
अमन्दमणिनूपुर(शा प ३९२९) ३४६।३८अम्बरमनूरुलङ्घयं ४८।१५०अयमभिनवमेघश्या(मालती ९ ५) १४०।२
अमरतरुकुसुमसौर २२३।५३अम्बरमम्बुनि (शा.प.५२८) १८९।५८अयममृतनिधानं (भर्तृ स.२०९) ९३।८४