तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
५४६ तैत्तिरीये आरण्यके
मासा॑स्त्वा श्रपयन्तु । ऋ॒तव॑स्त्वा पचन्तु । सं॒व॒त्स॒र- स्त्वा॑ हन्त्वसौ^(१) ॥ अनु० २६ ॥
अथ सप्तविंशोऽनुवाकः ।
^(१)खट् फट् ज॒हि । छि॒न्धी भि॒न्धी ह॒न्धी कट् । इ॒ति वाचः क्रू॒राणि॑^(१) ॥ अनु० २७ ॥
'श्रपयन्तु' वह्नौ पक्तुं प्रवर्त्तन्तां । ऋतुदेवतास्त्वां सम्यक् पक्वं कुर्वन्तु । संवत्सरदेवस्त्वां 'हन्तु' मारयतु ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके षड्विंशोऽनुवाकः ॥ २६ ॥
अथ सप्तविंशोऽनुवाकः ।
आभिचारप्रकरणे ब्राह्मणे यदुक्तं, यद्वाचः क्रूरन्तेन वषट् करोति इति । तदेतत्क्रूरमाह । ^(१)“खट् फट् जहि ० इति वाचः क्रूराणि”^(१) इति । भर्त्सनद्योतकाः खडादयस्त्रयोऽनु- करणशब्दाः । हननच्छेदनभेदनवाचकानि* तु क्रियापदानि । 'इति' एतानि षड्विधानि, 'वाचः,' 'क्रूराणि' ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके सप्तविंशोऽनुवाकः ॥ २७ ॥
* छेदनभेदनहननवाचकानि इति E चिह्नितपुस्तकपाठः ।
४ प्रपाठके २८ अनुवाकः । ५७७
अथ अष्टाविंशोऽनुवाकः ।
$^{(१)}$विगा॑ इन्द्र॒ विच॑र॒न्त्याश॑यस्व । स्वपन्त॑मिन्द्र प॒शुमन्त॑मिच्छ । वज्रे॑णा॒मुम्बोधय दुर्वि॑दत्रँ । स्व॒पतो॑ऽस्य प्रह॑र भोज॑नेभ्यः$^{(१)}$ । $^{(२)}$अग्ने॑ अ॒ग्निना॒ संव॑दस्व । मृत्यो॑
अथ अष्टाविंशोऽनुवाकः।
कल्पः । यदि धर्मेण चरत्स्वेकवृक उत्तिष्ठेत् । विगा इन्द्र विचरन्त्याशयस्वेति एनमभिमन्त्रयत इति । पाठस्तु । $^{(१)}$“विगा इन्द्र विचरन्त्याशयस्व ० स्वपतोऽस्य प्रहर भोजनेभ्यः”$^{(१)}$ इति । एकाकिलेनारण्ये सञ्चरन् वत्सान्मारयति यः अरण्यश्वा सोऽयं एकवृकः, तद्बाधनमत्र प्रार्थ्यते* । हे ‘इन्द्र,’ ‘विगाः’ वत्सानेक-वृकादियोज्य, तद्रक्षार्थं ‘विशेषेण ‘चरन्,’ ‘स्याशयस्व’ तमे-कवृकं बाधितंकुरु । हे ‘इन्द्र,’ ‘पशुमन्तं’ वत्सान् भक्षयि-तुमायातः पशुभिर्युक्तं तमेकवृकं, ‘स्वपन्तं’ निद्राणं, गच्छ । गत्वा च ‘दुर्विदत्रं’ दुर्बुद्धिशीलं, ‘अमुं’ एकवृकं, ‘वज्रेण’ आयुधेन, बोधय । यथा स्वपन्तं सुप्तं प्रहारेण$^\dagger$ बोधयन्ति, तथा वज्र-प्रहारेण बोधय । बोधयेत्यस्यैवार्थः स्पष्टमुच्यते । ‘स्वपन्तं एनमे-कवृकं, ‘भोजनेभ्यः’ वत्सभक्षणेभ्यः, निवारयितुं ‘प्रहर’ मारय, इत्यर्थः ॥
कल्पः । उभयत आदीप्तोल्मुकमस्मै प्रत्यस्येत् । अग्ने अग्नि-
* प्रार्थयते इति D चिह्नितपुस्तकपाठः ।
$^\dagger$ हस्तप्रहारेण इति E चिह्नितपुस्तकपाठः ।
५४८ तैत्तिरीये आरण्यके
मृत्युना॒ संव॑दस्व । नम॑स्ते अस्तु भगवः^(१) । ^(२)स॒कृत्ते॑ अग्ने॒ नमः॑ । द्व॒िस्ते नमः॑ । त्रि॒स्ते नमः॑ ॥ चतु॒स्ते नमः॑ । प॒ञ्चकृ॒त्वस्ते॒ नमः॑ । दश॑कृ॒त्वस्ते॒ नमः॑ । श॒तकृ॒त्वस्ते॒ नमः॑ । आ॒स॒ह॒स्रकृ॒त्वस्ते॒ नमः॑ । अप॑रिमितकृ॒त्व॑स्ते॒ नमः॑ । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः^(२) ॥ १ ॥ त्रि॒स्ते नमः॑, स॒प्त च॑ ॥ अनु० २८ ॥
ना संवदस्वेति । पाठस्तु । ^(१)"अग्ने अग्निना संवदस्व नमस्ते अस्तु भगवः"^(१) इति । हे 'अग्ने,' उल्मुकस्य मूलभागवर्त्तिना 'अग्निना,' उल्मुकाग्रभागवर्त्तिना सह, 'संवदस्व' एकवृकं हन्तुमैकमत्यं प्राप्नुहि । हे 'मृत्यो,' मूलभागस्थिताग्निप्रेरित, 'मृत्युना' अग्रभागस्थिताग्निप्रेरितेन सह, 'संवदस्व' एकवृकं हन्तुं संवादमनुमतिं कुरु । हे 'भगवः' ऐश्वर्यादिगुणयुक्त अग्ने, 'ते' तुभ्यं, 'नमोऽस्तु' ॥
कल्पः । अथैनमनुतिष्ठन्ते सकृत्ते अग्ने नम इत्यनुवाकशेषेणेति । पाठस्तु । ^(२)"सकृत्ते अग्ने नमः ० नमस्ते अस्तु मा मा हिꣳसीः"^(२) इति । वृकदर्शनावृत्त्यनुसारेण नमस्कारावृत्त्तिवाक्यानि योजनीयानि । यद्वा सकृद्दर्शनेपि कृत्स्नो मन्त्रः प्रयोक्तव्यः । नमस्कारावृत्त्युक्तिरादरार्था ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके अष्टाविंशोऽनुवाकः ॥ २८ ॥
४ प्रपाठके २९ अनुवाकः । ५४६
अथ एकोनत्रिंशोऽनुवाकः ।
(१)असृ॑ङ्मुखो रु॒धिरे॒णाव्य॑क्तः । य॒मस्य॑ दू॒तः श्वपा॒द्वि- धा॑वसि । गृध्रः॑ सुप॒र्णः कु॒णप॒न्निषे॑वसे । य॒मस्य॑ दू॒तः
अथ एकोनत्रिंशोऽनुवाकः ॥
कल्पः । अथ यदि गृध्रः शालावृको भयेडको दीर्घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेत्, “असृङ्मुखः” “यदेतत्” “दोषितः” “दीर्घमुखि” “इत्यादुलूकः” “यदेतद्भूतान्यन्वाविश्य” “प्रसार्य सक्थ्यौ” इत्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानमिति । तत्र गृध्रविषयमनुवाकमाह । “असृङ्मुखो रुधिरेणाव्यक्तः ० प्रहितो भवस्य चोभयोः”(१) इति । ‘गृध्रः’ पक्षिविशेषः । हे गृध्र त्वं ‘विधावसि’ विविधन्धावनङ्करोषि, शवमन्विच्छन् सर्वत्र सञ्चरसि । कीदृशः, ‘असृङ्मुखः’ असृक् रक्तं मुखे यस्यासौ तादृशः, पातुं स्वीकृतेन ‘रुधिरेण,’ मुखस्य सर्वस्य लेपित्वात् ‘अव्यक्तः,’ ईदृग्जातिरिति निश्चेतुमशक्यः, ‘यमस्य,’ ‘दूतः,’ यमो हि मारयितुं गृध्रं प्रेषयति । श्ववत् पद्यते शीघ्रङ्गच्छति इति ‘श्वपात्’ । त्वं रक्तमांसयोर्गन्धेन तृषया युक्तत्वात् ‘गृध्रः,’ शोभनौ पर्णौ शीघ्रपतनक्षमौ यस्यासौ ‘सुपर्णः,’ । तादृशस्त्वं ‘कुणपं’ शवं, ‘निषेवसे’ नितरां सेवसे । सोयं गृध्रः ‘यमस्य’ प्रेताधिपतिदेवस्य, ‘भवस्य’ परमेश्वरस्यान्तर्यामिणः, ‘उभयोः’ एतयोः, ‘दूतः,’ । भवो हि यमं
५५० तैत्तिरीये आरण्यके
प्रहि॑तो भ॒वस्य॑ चो॒भयोः॑॥(१)॥ अनु० २९ ॥
अथ त्रिंशोऽनुवाकः ।
(१)यदे॒तद्वृक॑सो भू॒त्वा। वाग्दे॒व्य॑भि॒राय॑सि। द्विषन्तं॑ मेऽभि॒राय॑। तं मृ॑त्यो मृत्य॒वे न॑य। स आर्त्याऽऽर्ति॒मा- र्च्छतु॑(१)॥ अनु० ३० ॥
प्रेषयति, यमस्य गृहं। अतः साक्षात्परम्परया चोभयोर्दूतः सन् इह ‘प्रहितः’ प्रेषितः ॥*
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकोनत्रिंशोऽनुवाकः ॥ २९ ॥
अथ त्रिंशोऽनुवाकः ॥
अथ शालावृकविषयमनुवाकमाह । (१)“यदेतद्वृकसो भूत्वा ० स आर्त्यार्त्तिमार्च्छतु”(१) इति । वृकः क्रोष्टा, हे ‘वाग्देवि’ ध्वनिदेवते, ‘वृकसो भूत्वा’ वृकादुत्पद्य, ‘अभिरायसि’ आभिमुख्येन शब्दं करोषि, इति ‘यत्,’ तत् ‘एतत्,’ ‘मे,’ द्विषन्तं, ‘अभिलक्ष्य’ ‘राय’ शब्दं कुरु । हे ‘मृत्यो’ । वृकरूपं ‘तं’ ‘द्विषन्तं, ‘मृत्यवे’ मारकाय देवाय, ‘नय’ प्रापय । ‘सः’ द्विषन्, ‘आर्त्या’ रोगेण, ‘आर्त्तिं’ दुःखं, ‘आर्च्छतु’ प्राप्नोतु ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रिंशोऽनुवाकः ॥ ३० ॥
४ प्रपाठके ३२ अनुवाकः । ५५१
अथ एकत्रिंशोऽनुवाकः ।
(१)यदी॑षि॒तो यदि॑ वा स्व॒कामी॑ । भ॒येड॑को वद॑ति॒ वाच॑मे॒ताम् । तामिन्द्रा॑ग्नी॒ ब्रह्म॑णा॒ संवि॑दानौ । शि॒वाम॒स्मभ्यं॑ कृणुतं गृ॒हेषु॑(१) ॥ अनु० ३१ ॥
अथ द्वात्रिंशोऽनुवाकः ।
(१)दी॒र्घमु॑खि दुर्ह॑णु । मास्म॑ दक्षि॒णतो॑ वदः । यदि॑
अथ एकत्रिंशोऽनुवाकः ॥
भयेडकविषयमनुवाकमाह । (१)“यदीषितो यदि वा ० कृणुतं गृहेषु”(१) इति । एडको* मेषः, स च युद्धव्यमनयुक्तः ‘भयेडकः,’ तन्दृष्ट्वैव भीत्या मनुष्याः पलायन्ते । स च ‘यदि,’ केनचित् ‘ईषितः’† प्रवर्त्तितः, ‘यदि वा,’ ‘स्वकामी’ स्वेच्छावर्त्ती सन्, ‘एतां’ श्रूयमाणां, ‘वाचं वदति’ ध्वनिं करोति । हे ‘इन्द्राग्नी,’ ‘ब्रह्मणा’ परमेश्वरेण सह, ‘संविदानौ’ ऐकमत्यङ्गतौ, ‘अस्मभ्यं’ अस्मदर्थं, ‘गृहेषु,’ अस्मदीयेषु, ‘तां’ वाचं, ‘शिवां’ सुखकरीं, ‘कृणुतं’ कुरुतं ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकत्रिंशोऽनुवाकः ॥ ३१ ॥
अथ द्वात्रिंशोऽनुवाकः ।
दीर्घमुखीविषयमनुवाकमाह । (१)“दीर्घमुखि दुर्हणु ० द्विषन्तं मेऽवबाधस्व”(१) इति । ‘दीर्घमुखी’ काकस्त्री, गर्दभी वा, ‘दुष्टा
* एलक इति D F चिह्नितपुस्तकद्वयपाठः ।
† एषित इति E चिह्नितपुस्तकपाठः ।
६ x
५५२ तैत्तिरीये आरण्यके
दक्षिण॒तो वदा॑द्द्विष॒न्तं मे॒ऽवबा॑धस्व^(१)॥ अनु० ३२॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
^(१)इ॒त्या॑दुलू॑क॒ आप॑पत् । हिर॑ण्या॒क्षो॒ अयो॑मुखः ।
रक्ष॑सान्दू॒त आ॑ग॒तः । तमि॒तो ना॑शयाऽग्ने^(१)॥
अनु० ३३॥
हनूः यस्याः सा दुर्हणूः । हे 'दुर्हणु,' 'दीर्घमुखि,' 'दक्षिणतः' दक्षिणभागे, 'मास्म वदः' ध्वनिम्मा कार्षीः,। 'यदि,' दक्षिणभागे, 'वदात्' शब्दङ्कुर्याः, तदा 'मे,' 'द्विषन्तं,' 'अवबाधस्व' विनाशय ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
उलूकविषयमनुवाकमाह । ^(१)“इत्यादुलूकः ० तमितो नाशयाऽग्ने”^(१)इति । उलूकः, काकविरोधी घूकः, सोयं 'उलूकः,' 'इत्यात्' अनेन प्रकारेण, 'आपपत्' प्राप्नोत् । कीदृशः, हिरण्यवद्रक्ते अक्षिणी यस्यासौ 'हिरण्याक्षः,' अयोवत् कृष्णवर्णमुखं यस्यासौ 'अयोमुखः,' स च यज्ञविघातिनां 'रक्षसां,' 'दूतः,' सन्, इह समागतः । हे 'अग्ने,' 'तं' उलूकं, 'इतः' स्थानात्, 'नाशय' ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥
४ प्रपाठके ३४ अनुवाकः। ५५३
अथ चतुस्त्रिंशोऽनुवाकः।
(१)यदे॑तद्भू॒तान्य॑न्वा॒विश्य॑। दैवीँ॒ वाचँ॑ व॒दसि॑। द्वि॒षतो॑ नः॒ परा॑वद। तान्मृ॒त्यो॒ मृत्य॑वे नय। त आर्त्याऽऽर्त्तिमा॒र्च्छन्तु॑। अ॒ग्निना॒ऽग्निः सं॑वदतां॑(१) ॥ अनु० ३४ ॥
अथ चतुस्त्रिंशोऽनुवाकः।
अथ भूतोपसृष्टविषयमनुवाकमाह। (१)“यदेतद्भूतान्यन्वाविश्य ॰ अग्निनाऽग्निः संवदतां”(१) इति। यक्षराक्षसग्रहाविष्टो मनुष्यो यद्वदति तद्विषयमिदमुच्यते। यक्षादिभूतानि प्राणिनः मनुष्यान् अनुप्रविश्य ‘दैवीं वाचं’ मनुष्याणामयोग्यां काञ्चिद्वाचं, ‘वदसि,’ इति ‘यत्,’ ‘एतत्’ एतेन वचनेन, ‘नः’ अस्माकं, ‘द्विषतः’ शत्रून्, ‘परावद’ पराभूतां यथा भवन्ति तथा वद। हे ‘मृत्यो,’ यक्षादिरूप ‘मृत्यवे’ परममृत्युरूपाय* देवाय, ‘तान्’ द्विषतः, ‘नय’ प्रापय। ‘ते’ द्विषन्तः, ‘आर्त्त्या’ रोगेण, ‘आर्त्तिं’ दुःखं, ‘आर्च्छन्तु’ प्राप्नुवन्तु। अस्मिन्नर्थे ‘अग्निना’ उल्मुकमूलभागवर्त्तिना, ‘अग्निः’ उल्मुकाग्रवर्त्ती, ‘संवदतां’ संवादमनुमतिं करोतु॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके चतुस्त्रिंशोऽनुवाकः ॥ ३४ ॥
* परमृत्युरूपाय इति D चिह्नितपुस्तकपाठः
3 x 2
| ५५४ | तैत्तिरीये आरण्यके |
|---|
अथ पञ्चत्रिंशोऽनुवाकः ।
$^{(१)}$प्र॒सार्य॑ स॒क्थ्यौ॑ पत॑सि । स॒व्यमक्षि॑ नि॒पेपि॑ च ।
मे॒ह क॑स्य च॒ नाऽम॑मत्$^{(१)}$ ॥ अनु० ३५ ॥
अथ षट्त्रिंशोऽनुवाकः ।
$^{(१)}$अत्रि॑णा त्वा क्रिमे हन्मि । क॒ण्वे॑न ज॒मद॑ग्निना ।
वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः । क्रिमी॑णा॒ꣳ राजा॑ । अप्ये॑षा॒ꣳ
अथ पञ्चत्रिंशोऽनुवाकः ।
अथ शकुनिविषयमनुवाकमाह । $^{(१)}$"प्रसार्य सक्थ्यौ ० मेह कस्य च नाऽममत्"$^{(१)}$ इति । ग्रामगमनादौ शुभाशुभसूचकः पक्षी शकुनिः, हे शकुने 'सक्थ्यौ प्रसार्य' ऊरू प्रसृतौ कृत्वा, इह 'पतसि' । 'सव्यमक्षि' वामञ्चक्षुः, 'निपेपि च' पुनः पुनर्निमीलयसि च । तेन दोषेण 'इह' अस्मिन् देशे, 'कस्य च न' कस्यापि पुरुषस्य, 'माऽममत्' रोगो मा भवतु ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके पञ्चत्रिंशोऽनुवाकः ॥ ३५ ॥
अथ षड्त्रिंशोऽनुवाकः ।
कल्पः । यदि घर्मधुक् क्रिमिणा स्यात्, अत्रिणा त्वा क्रिमे हन्मीत्यनुवाकेनास्याः क्रिमीन् हन्यात् । अपि वा सार्वत्रिकमेतत् प्रायश्चित्तं क्रियेत इति । पाठस्तु । $^{(१)}$"अत्रिणा त्वा क्रिमे हन्मि ०
४ प्रपाठके ३६ अनुवाकः ५५५
स्थ॒प॑तिर्ह॒तः। अथो॑ मा॒ताऽथो॑ पि॒ता। अथो॑ स्थू॒रा अथो॑ क्षु॒द्राः। अथो॑ कृ॒ष्णा अथो॑ श्वे॒ताः। अथो॑ आ॒- शा॑तिका ह॒ताः। श्वे॒ताभिः॑ स॒ह सर्वे॑ ह॒ताः^(१) ॥ अनु० ३६ ॥
अथ सप्तत्रिंशोऽनुवाकः।
^(१)आ॒हरा॑वद्य॑। मृतस्य॑ ह॒विषो॒ य॒था॑। तत्स॒त्यं यद॒मुं
श्वेताभिः सह सर्वे हताः"^(१) इति । हे 'क्रिमे,' घर्मधुगादिवर्त्तिन्, 'अत्रिणा,' 'कण्वेन,' 'जमदग्निना,' च महर्षिणा अनुगृहीतः अहं त्वां 'हन्मि' । 'विश्वावसोर्ब्रह्मणा' विश्वावसुसंज्ञकस्य गन्धर्वस्य मन्त्रे- ण, 'क्रिमीणां,' 'राजा' स्वामी, 'हतः' । 'अपि,' च 'एषां' क्रिमीणां, 'स्थपतिः' अन्योऽपि राजव्यतिरिक्तः प्रभुः, 'हतः' । अपि च तव 'माता,' हता, तथा तव 'पिता' । अन्येपि क्रिमयः 'स्थूलाः,' 'क्षुद्राः,' 'कृष्णाः,' 'श्वेताः,' च नानाविधा 'हताः'। अपि च 'आशातिकाः' आगत्य शात्यमानाः अस्माभिरेव बाध्यमानाः गवाश्वादिशरीरेषु वर्त्तमाना दंशयूकादयः सर्वेपि, 'श्वेताभिः' क्रिमिजातिभिः, 'सह,' मारिताः ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके षड्विंशोऽनुवाकः ॥ ३६ ॥
अथ सप्तत्रिंशोऽनुवाकः।
कल्पः । यमभिचरेत्तस्य लोहितमवदानं कृत्वा आहरावद्य
५५६ तैत्तिरीये आरण्यके
य॒मस्य॒ जम्भ॑योः। आर्द॑धामि तथा॒हि तत्। खण् फण्
म॑सि॑^{(१)} ॥ अनु० ३७॥
यत्र अष्टत्रिंशोऽनुवाकः।
^{(१)}ब्रह्म॑णा त्वा शपामि। ब्रह्म॑णस्त्वा श॒पथे॑न शपा-
शृतस्येत्यनुवाकेन जुहुयात् इति। पाठस्तु। ^{(१)}“आहरावद्य
० खण् फण् मसि”^{(१)} इति। ‘यथा’ यागकाले, ‘शृतस्य’ ‘हविषः’
पक्वं हविः, ‘अवद्य’ अवदाय, जुहु इति। तथा हे शत्रो लोहितं
द्वितीयं ‘आहर’ आनय। ‘अमुं’ शत्रुं, ‘यमस्य,’ ‘जम्भयोः’
दन्तयोर्मध्ये, ‘आदधामि’ स्थापयामि’ इति ‘यत्,’ ‘तत् सत्यं’।
‘तत्’ कार्यम्, ‘तथाहि’ तथैव अस्तु। दंशनध्वनेरनुकरणरूपौ
‘खण्फण्’ शब्दौ,* तौ यथा भवतस्तथा शत्रो मारितोसि ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
अथ अष्टत्रिंशोऽनुवकः।
कल्पः। यमभिव्याहरिष्यन् स्यात् त्रिरात्रावरं ब्रह्मचर्यं
चरित्वा आगत्य एनमभिव्याहरेत्, ब्रह्मणा त्वा शपामीत्य-
नुवाकेनेति। पाठस्तु। ^{(१)}“ब्रह्मणा त्वा शपामि ० अधरो मत्पद्य-
स्वामौ”^{(१)} इति। हे शत्रो त्वां देवदत्तनामानं ‘ब्रह्मणा’ मन्त्रेण,
‘शपामि’ शापयुक्तं करोमि। ‘ब्रह्मणः’ परमात्मवस्तुनः, ‘शपथेन’ शा-
* खट्फट्शब्दै। इति E चिह्नितपुस्तकपाठः।
४ प्रपाठके ३८ अनुवाकः। ५५७
मि। घोरे॑ण त्वा॒ भृगू॑णां॒ चक्षु॑षा प्रेक्षे॑। रौद्रे॑ण॒ त्वाऽङ्गिरसां॒ मन॑सा ध्यायामि। अ॒घस्य॑ त्वा॒ धा॑र॑या विद्ध्यामि। अध॑रो॒ मत्प॑द्यस्वा॒सौ^{(१)} ॥ अनु० ३८ ॥
अथ एकोनचत्वारिंशोऽनुवाकः।
$^{(१)}$उत्तुं॑द शिमिजावरि। तल्पैं॑जे तल्प॒ उत्तुं॑द। गि॒-
पसामर्थ्येन, त्वां 'शपामि' । 'भृगूणां' महर्षीणां, सम्बन्धिना 'घोरेण' उग्रेण, 'चक्षुषा,' त्वां 'प्रेक्षे' । 'अङ्गिरसां' महर्षीणां, सम्बन्धिना 'रौद्रेण' उग्रेण, 'मनसा,' 'त्वां,' 'ध्यायामि' । 'अघस्य' पापरूपस्य क्रूरस्यायुधस्य खङ्गरूपस्य, 'धारया;' त्वां 'विद्ध्यामि' । 'असौ' हे देवदत्तरूप, त्वं 'मत्' अभिचरितुः* पुरुषात्, 'अधरः,' 'पद्यस्व' अर्वाचीनः पतितो भव ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके अष्टत्रिंशोऽनुवाकः ॥ ३८ ॥
अथ एकोनचत्वारिंशोऽनुवाकः।
कल्पः। यं द्विष्यात्तस्य गोष्ठेष्वक्षतमोषधीन्निखनेत्, उत्तुद शिमिजावरीत्यनुवाकेन । अपि वा गोष्ठस्यैवादक्षिणं दार्वाङ्गमेतेनैव विचालयेदिति । पाठस्तु । $^{(१)}$“उत्तुद शिमिजावरि ॰
* अभिवदत इति E चिह्नितपुस्तकपाठः ।
५५८ तैत्तिरीये आरण्यके
री॒रनु॒प्रवे॑शय । मरी॑ची॒रुप॒ सन्नु॑द । याव॑दि॒तः पु॒र-
स्ता॑दु॒दया॑ति॒ सूर्य॑: । ताव॑दि॒तोऽमुन्ना॑शय । योऽस्मान्द्वे-
ष्टि॑ । यञ्च॑ व॒यं द्वि॒ष्मः^{(१)} ॥ अनु० ३९ ॥
अथ चत्वारिंशोऽनुवाकः ।
^{(१)}भूर्भुव॒: सुव॑ भूर्भुव॒: सुव॑ भूर्भुव॒: सुव॑: । भुवो-
यञ्च वयं द्विष्मः''(१) इति । कृषिमन्तरेण स्वयमेवोत्पन्ना 'शिसि-
जावरी,' हे तथाविधौषधे, 'उत्तृद' शत्रुमुत्कृत्य व्यथितं कुरु । हे-
'तल्पेजे' तस्य शयनस्थाने समुत्पन्ने ओषधे, तदीये 'तल्पे,' प्रविश्य तं
'उत्तृद' । ततो गृहात् भ्रष्टं कृत्वा 'गिरीननुप्रवेशय' । ततः 'मरीचीः'
दावाग्निरश्मीन्, 'उप' प्रापय्य, 'सन्नुद' सम्यक् निराकुरु । 'सूर्यः,'
यावता कालेन 'इतः' देशात्, 'पुरस्तात्' पूर्वस्यान्दिशि, उदेति,
'तावता, कालेन, 'इतः' देशात्, 'अमुं' द्वेष्टारं, द्वेष्यञ्च 'नाशय' ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके चतुर्थप्रपाठके एकोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
अथ चत्वारिंशोऽनुवाकः ।
कल्पः । यद्युद्गाता पुरुषः साम गायेत्, अध्वर्युरेवैतेन साम्नो-
द्गायेत् । भूर्भुवः सुवरित्यनुवाकेनेति । पाठस्तु । ^{(१)}“भूर्भुवः सुवो
४ प्रपाठके ४१ अनुवाकः। ५५६
ऽधायि॒* भुवो॑ऽधायि॒ भुवो॑ऽधायि। नृ॒म्णायि॒ नृ॒म्णं नृ॒- म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णं। नि॒धाय्यो॑ऽवापि नि॒- धाय्यो॑ऽवापि नि॒धाय्यो॑ऽवापि। ए अ॒स्मे अ॒स्मे। सु- वर्ण्ज्योतिः॑१) ॥ अनु० ४० ॥
अथ एकचत्वारिंशोऽनुवाकः।
(१)पृथि॒वी स॒मित्। ताम॒ग्निः समि॑न्धे। साऽग्निग्ं स-
भूर्भुवः सुवः • सुवर्णज्योतिः”(२) इति । एते सर्वे स्तोभविशेषाः । ऋचमन्तरेण स्तोभैरेव स्वरविशिष्टैः साम आगायेत् । गानार्था तत्र तत्रावृत्तिः । भूरादयस्त्रयो लोका इष्टार्थप्रदाः सन्तु, विशेषतः ‘भुवः,’ सकाशात् ‘अधायि’ सर्वमिष्टं सम्पादितं । नृभिर्मनुष्यैर्मन्यते, अभीष्टत्वेन स्मर्यते इति ‘नृम्णं’ सुखं, नृम्णे सुखे सत्यपि पुनः ‘नृम्णं’ सुखं, अस्तु । ‘निधाय्यः’ नितरां सम्पादनीयो भागः, ‘अवापि’ प्राप्तं । गत्यर्थो वातिधातुः । ‘ए’कारो देवदासम्बोधनार्थः । हे देवते ‘अस्मे’ अस्मासु, ‘सुवर्णज्योतिः’ सुवर्णसमानं ज्योतिः सम्पद्यतां ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः ॥ ४० ॥
अथ एकचत्वारिंशोऽनुवाकः ।
सूत्रे अवान्तरदीक्षां व्याख्यास्याम इत्युपक्रम्याभिहितं, चतस्र
* भुवोद्वायि इति वाक्यं G, I, J चिह्नितपुस्तकानां मूलपाठे वर्त्तते, भाष्ये तु “भुवोऽधायि” इति पाठ एव दृश्यते ।
३ y
५६० तैत्तिरीये आरण्यके
मिन्धे॒ । ताम॒हꣳ स॑मिन्धे॒ । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अन्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑$^{(१)}$ । $^{(२)}$अ॒न्तरि॑क्षꣳ स॒मित् ॥ १ ॥ तां वायुः॒ समि॑न्धे । सा वायुꣳ॑ समिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अन्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑$^{(२)}$ । $^{(३)}$द्यौः स॒मित् । तामा॑दि॒त्यः स॒मिन्धे ॥ २ ॥
औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति, पृथिवी समिदित्येतैर्मन्त्रैरिति । तत्र प्रथमं मन्त्रमाह । $^{(१)}$“पृथिवी समित् ० अन्नाद्येन समिन्ताꣳस्वाहा”$^{(१)}$ इति । ‘पृथिवी,’ देवता, सम्यग्दीप्यमानत्वात् ‘समित्,’ इत्युच्यते । ‘तां’ पृथिव्याख्यां समिधं, ‘अग्निः,’ देवः, ‘समिन्धे’ सम्यग्दीपितवान् । ‘सा’ च पृथिव्याख्या समित्, ‘अग्निं,’ देवं, ‘समिन्धे’ सम्यग्दीपयति । ‘तां’ पृथिवीरूपां समिधं, ‘अहं,’ ‘समिन्धे’ सम्यक् प्रकाशयामि । ‘सा’ च देवता, मया ‘समिद्धा,’ सती, मां आयुरादिभिः ‘समिन्तां’* सम्यक् प्रकाशयतु । ‘तेजः’ शरीरकान्तिः, ‘वर्चः’ बाह्यदीप्तिः ॥
अथ द्वितीयतृतीयमन्त्रावाह । $^{(२)}$“अन्तरिक्षꣳसमित् ० अन्ना-
* समिन्द्धामिति D चिह्नितपुस्तकपाठः ।
४ प्रपाठके ११ अनुवाकः। ५६१
साऽऽदि॒त्यꣳ सम्मि॑न्धे। ताम॒हꣳ सम्मि॑न्धे। सा मा॒ स- म्मि॑द्धा। आयु॑षा॒ तेज॑सा। वर्च॑सा॒ श्रिया॑। यश॑सा ब्रह्मवर्च॒सेन॑। अन्नाद्ये॑न॒ सम्मि॑न्ताꣳ स्वाहा॑^(२)। ^(४)प्रा॒जा- प॒त्या मे॑ समि॒द॑सि सपत्न॒क्षय॑णी। भ्रातृ॑व्यहा मे॑ऽसि॒ स्वाहा॑^(४)। ^(५)अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ॥ ३ ॥ तच्छ॑केयं॒ तन्मे॑ राध्यताम्। वायो॑ व्रतपत॒ आदि॑त्य व्रतपते। व्रतानां॑ व्रतपते व्र॒तञ्च॑रिष्यामि। तच्छ॑केयं॒
द्येन सम्मिन्ताꣳस्वाहा"^(२)। ^(३)“द्यौः समिद् ० अन्नाद्येन सम्मिन्ताꣳ स्वाहा”^(३) इति पूर्ववद्व्याख्येयौ ॥
चतुर्थं मन्त्रमाह। ^(४)“प्राजापत्या मे ० भ्रातृव्यहा मेऽसि स्वाहा”^(४) इति। हे समिद्, त्वं 'प्राजापत्या' प्रजापतिसम्बन्धिनी, 'सपत्नक्षयणी' वैरिविनाशिनी, 'मे' 'समिदसि' सम्यग्दीपिकाऽसि। तस्मात् 'मे' मम, 'भ्रातृव्यहा असि' शत्रुघातिनी भवसि। स्वाहु- तमिदमस्तु ॥
कल्पः। अथ देवता उपतिष्ठते, अग्ने व्रतपते व्रतं च- रिष्यामीति। पाठस्तु। ^(५)“अग्ने व्रतपते ० तन्मे राध्यतां”^(५) इति। हे 'व्रतपते' अवान्तरदीक्षारूपस्य व्रतस्य पालक अग्ने, 'व्रतं,' इदमहं 'चरिष्यामि'। त्वत्प्रसादात् 'तत्' व्रतं, कर्तुं 'शकेयं' शक्तो भूयासम्। 'मे' मदीयं, 'तत्' व्रतं, 'राध्यतां' समृद्धिं गच्छतु। वायो व्रतपत इत्येतस्मिन् उत्तरस्मिन् च व्रतं चरिष्या-
3 r 2
५६२ तैत्तिरीये आरण्यके
तन्मे॑ राध्यताम्^(५) । ^{(६)}द्यौः स॒मित् । तामा॑दि॒त्यः स- मि॑न्धे । साऽऽदि॒त्यꣳ स॑मिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा ॥ ४ ॥
वर्च॑सा॒ श्रिया॑ । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑ । अ॒न्तरि॑क्षꣳ स॒मित् । तां वा॒युः स- मि॑न्धे । सा वा॒युꣳस॑मिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा॒ श्रिया ॥ ५ ॥
यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑ । पृ॒थि॒वी स॒मित् । ताम॒ग्निः स॑मिन्धे । साऽग्निꣳ स- मि॑न्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आ- यु॑षा॒ तेज॑सा । वर्च॑सा॒ श्रिया॑ । यश॑सा ब्रह्मवर्च॒सेन॑ ॥
मोत्यादिकमनुषज्यते । एतदर्थमेव चतुर्थमन्त्रे पुनराम्नातं । व्रतपत इत्युक्तस्य पुनरपि व्रतानामित्युक्तिः कृत्स्नव्रतस्वीकारार्था ॥
कल्पः । आवृत्तैर्मन्त्रैः समिध आधाय आवृत्तैर्देवता उपस्था- येति । पाठस्तु । ^{(६)}"द्यौः समित् • तदशकं तन्मे राधि"^{(१)} इति । व्रतावसाने कर्त्तव्यत्वात् 'अचारिषं', इत्यादिभूतार्थवाचिशब्दप्रयोगः। तद्धि चतुर्षु वेदव्रतेषु सौम्यव्रतमित्यभिधीयते । एतस्य प्रवर्ग्याङ्ग- त्वाभावेपि शुक्रीयकाण्डोक्तमन्त्रसापेक्षत्वात् अत्राम्नातं । एतच्च
४ प्रपाठके ४२ अनुवाकः । ५६३
अन्नाद्येन॒ समि॑न्ता॒ꣳ स्वाहा॑ । प्रा॒जाप॒त्या मे॑ स॒मिद॑सि सपत्नक्षयणी। भ्रातृ॑व्य॒हा मे॑ऽसि॒ स्वाहा॑ । आदि॑त्य व्रतपते व्र॒तम॑चारिषं । तद॑शकं॒ तन्मे॑ राधि । वायो॑ व्रतपतेऽग्ने॑ व्रतपते । व्रतानां॑ व्रतपते व्र॒तम॑चारिषं । तद॑शकं॒ तन्मे॑ राधि^{(१)} ॥ ६ ॥
स॒मित्, समि॑न्धे, व्र॒तं च॑रिष्यामि॒, तेज॑सा, श्रि॒या, यश॑सा ब्रह्मवर्च॒सेन॒, अ॒ष्टौ च॑ ॥ अनु० ४१ ॥
अथ द्विचत्वारिंशोऽनुवाकः ।
^{(१)}शन्नो॒ वातः॑ पवतां मा॒त॒रिश्वा॒ शन्न॑स्तपतु॒ सूर्य॑ः ।
सूत्रकारेण दर्शितं, अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति, प्रथमोत्तमयोर्वोत्तमेनानुवाकेन शान्तिं कृत्वेति ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकचत्वारिंशोऽनुवाकः ॥ ४१ ॥
अथ द्विचत्वारिंशोऽनुवाकः ।
कल्पः । गामवसृज्य मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कुर्वन्ति, एवं सायं प्रातः प्रवर्ग्योपसङ्गां चरन्तीति । तस्मिन्ननुवाके प्रथमं मन्त्रमाह । ^{(१)}“शन्नो वातः ० प्रतिधीयतां”^{(१)} इति ।
५६४ तैत्तिरीये आरण्यके
अहा॑नि॒ शम्भ॑वन्तु न॒ः शꣳ रात्रि॒ः प्रति॑धीयतां^(१) । ^(२)शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॑ः शन्त॑मा भव सुमृ॒डी॒का सर॑स्वति । मा ते॒ व्योम॑ सं॒दृशि॑^(२) । ^(३)इ॒डायै॒ वास्तो॑सि वा॒स्तुम॑द्वा॒स्तुम॑न्तो भूयास्म॒ मा वास्तोश्छि॑त्स्म॒ ह्यवा॑स्तुः स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं
'मातरिश्वा' अन्तरिक्षनिवासी, 'वातः,' 'नः' अस्माकं, 'शं' सुखं, यथा भवति, तथा, 'पवतां' । 'सूर्यः,' अपि तथैव 'तपतु' । 'अहानि,' अपि 'नः' अस्माकं, सुखकराणि 'भवन्तु' । 'रात्रिः,' च सुखकरी सम्पद्यतां ॥
द्वितीयं मन्त्रमाह । ^(२)“शमुषा नो व्युच्छतु ० मा ते व्योम संदृशि”^(२) इति । 'उषा,' देवी, 'नः' अस्माकं, सुखकरी प्रभातं करोतु । 'आदित्यः,' चास्माकं सुखकरः 'उदेतु' । हे 'सरस्वति,' त्वं 'नः' अस्मान् प्रति, 'शिवा' अनुकूला, 'शन्तमा' अतिशयेन सर्वोपद्रवशमनी, 'सुमृडीका' सुष्ठु सुखकरी, च 'भव' । 'ते संदृशि' तव कटाक्षे सति, 'व्योम' सुखशून्यत्वं, 'मा,' भूत् ॥
तृतीयं मन्त्रमाह । ^(३)“इडायै वास्तु ० यं च वयन्द्विष्मः”^(३) इति । हे भूमे त्वं 'इडायै' धेनुरूपाया इडादेव्याः, 'वास्तु असि' निवासस्थानमसि । सर्वं जगत् तत्प्रसादात् 'वास्तुमत्' निवासस्थानयुक्तं भवतु । वयमपि तत्प्रसादात् 'वास्तुमन्तः' निवासस्थानयुक्ताः, 'भूयास्म' । 'वास्तोः,' निवासस्थानात् 'माच्छित्स्म' विच्छिन्ना मा-
४ प्रपाठके ४२ अनुवाकः । ५६५
द्वि॒ष्मः^{(३)} । ^{(४)}प्रति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑- ति॒ष्ठा या॑म्छि॒त्स्म ह्यप्र॑तिष्ठः॒ स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यं चं व॒यं द्वि॒ष्मः^{(४)}} । ^{(५)}आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑ः । त्वꣳ हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑- से^{(५)} । ^{(६)}द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रा॒वत॑ः ॥१॥
भूयास्म । 'हि' यस्मात्, 'वयमेवंविधाः तस्मादस्माकं विपरीत: 'यः' द्वेष्टा, यश्च द्वेष्यः, सोऽयं 'अवास्तुः' निवासस्थानरहितो भूयात् ॥
अथ चतुर्थं मन्त्रमाह । ^{(४)}“प्रतिष्ठासि प्रतिष्ठावन्तः ० द्वेष्टि' यं च वयं द्विष्मः”^{(४)} इति । 'प्रतिष्ठा' आधारः । अन्यत् पूर्ववत् ॥
अथ पञ्चमं मन्त्रमाह । ^{(५)}“आ वात वाहि भेषजं ० दे- वानां दूत ईयसे”^{(५)} इति । हे 'वात' वायो, मे 'भेषजं', यथा भवति तथा, 'आवाहि' अस्मान् प्रति सर्वतो वातकुरु । हे 'वात,' 'यद्रपः' पापमस्ति, तत् 'विवाहि' विश्लेष्य गच्छ । यस्मात् 'त्वं,' 'विश्वभेषजः' इति विश्वस्य चिकित्सकः, 'देवानां दूतः,' च सन् 'ईयसे' गच्छसि ॥
अथ षष्ठं मन्त्रमाह । ^{(६)}“द्वाविमौ वातौ ० परान्यो वातु यद्रपः”^{(६)} इति । 'इमौ' लोके दृश्यमानौ, 'द्वौ वातौ,' 'आसिन्धोः' समुद्रसहिते प्रदेशे, 'आपरावतः' दूरवर्त्तिलोक-