भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं

१३० (१.३.५) तैत्तिरीयब्राह्मणम् वाजपेये किमेकैकपशोः सर्वसमापनम् । सर्वेष्वेवैकधर्मो आद्यः साहित्यसिद्धये ॥ धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते ॥ (इति) । वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरण- नियोजनादि संस्काराः सर्वे समापनीयाः । तथा सति साङ्गं प्रधानं कर्मव्यमिति प्रयोग वचनेनावगतं धर्माणां साहित्यं प्रसिध्यति । चोदकोऽपि धर्मसाहित्यं प्रापयति । प्रकृतावुपाकरणनियोजनादीनां साहित्यदर्शनात् । तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते ब्रूमः । सप्तदश प्राजापत्यान्पशूनालभत इति वचनात्पशुसा- हित्यमवगतम् । तत्र प्रबलं प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापितत्वात् । धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं किंतु प्रयोग वचनेन परिकल्प्यंते यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपय धर्मवैकल्येन साङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ धर्मसाहित्यवचनमनुष्ठीयते । तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद् दुर्बलम् । तस्माद्वैश्र्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीत्यनेन प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं धर्मसाहित्यं न विरुध्यते । एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणा- मनुष्ठितत्वात् । दशमाध्यायस्य चतुर्थपादे चिन्तितम्-- प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः । अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम् ॥ पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा । कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः ॥ (इति) । वाजपेये श्रूयते । सप्तदश प्राजापत्यान्पशूनालभत इति । तैरेतैः प्राकृतपशूनामाग्नेयादीनां बाधः स्यात् । कुतः पशुत्वलिङ्गात् । नहि पशुशब्दो ग्रहशब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते ब्रूमः । किमत्र प्रकृतपश्वनुवादेन सप्तदशसंख्या प्रजापतिर्देवता चेति गुणद्वयं विधीयते, आहोस्विद्विशिष्टमन्यत्कर्म । नाऽऽद्यो वाक्यभेदापत्तेः । द्वितीये तु न पशुशब्दो लिङ्गम् । ततोऽत्र ग्रहन्यायो योजनीयः । किंचावरोधनमेवाऽऽम्नायते-“ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवो ऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते ।

तैत्तिरीयब्राह्मणम् · (१.३.५) १३१ अग्निष्टोममेव तेनाव॒रुन्धे॑ । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् । सारस्वत्याऽतिरात्रम् । मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः । तान्यशुभिरेवावरुन्द्धे'' इति । अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादि- पशुतद्भावस्य सिद्धवदनुवादात्समुञ्चयोऽवगम्यते । एकादशाध्यायस्य द्वितीयपादे चिन्तितम्- प्रजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः । पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः ।। (इति) । वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण वसाहोमो भिद्यत इति चेन्मैवम् । प्रजापति एव सप्तदशानां पशूनां देवता तथा पाकोऽपि सहैव क्रियते । प्रदानस्यापि पाक उपलक्षणम् । प्रदानेऽपि साहित्यमस्ति . कालश्चैको याज्याया अर्धर्चान्तस्य तत्कालत्वेन चोदकातिदेशात् । शक्यते च सह होमः तस्मात्तन्त्रम् । तत्रैव चतुर्थपादे चिन्तितम्- प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः । भेदो मैवमशेषाङ्गश्रपणादौ प्रभुत्वतः ।। (इति ) । वाजपेये सप्तदशसु प्राजापत्यपशुषु कुम्भ्याद्वयशूलस्य वपाश्रपण्याश्च भेदः स्यात् । कुतः । तत्तत्पश्वङ्गानां भिन्नत्वात् । मैवम् । पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थश्रपणादौ प्रभुत्वात् । तस्मात्तन्त्रम् । तत्रैव तृतीयपादे चिन्तितम्- प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः । ऊर्ध्वं वा विकृतौ वोत परस्मात्सर्वसोमतः ।। आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः । श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः ।। पशवो नहि सोमस्य विकारा अविशेषतः । उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यताम् ।। (इति) । वाजपेये सप्तदशप्राजापत्यपशुप्रचारस्य काले चतुर्धा संशयः । तत्र तावदयं प्रयोगक्रमः। तृतीयसवने प्रथममार्भवः पवमानः । ततो वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः । ततोऽ शस्त्रेष्ववशिष्टेषु सोमग्रहेषु प्रचीर्णेष्वग्निष्टोमसाम ऊर्ध्वमुक्थ्यादयः सोमविकारा इति । एवं स्थिते प्राजापत्यपशूनामार्भवकाले प्रचारः । कुतः । प्रकृतौ तस्य पशुप्रचारकालत्वेन चोदकप्राप्तेरित्याद्यः पक्षः । उपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति वचनेन सोमग्रहप्रचारादूर्ध्वं कालो विधीयते । यदि

१३२ (१.३.५) तैत्तिरीयब्राह्मणम् प्रातः सवनमाध्यन्दिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्तीति योज्येत तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यादतस्तृतीय सवनगतसोमानामुपरीति वक्तव्यम् । यदि तत्र सर्वसोमानामुपरीति विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्यते । ततः प्रत्यासत्तये शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः । उपरिष्टात्सो- मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत । तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्टोमे यज्ञायज्ञीयसाम्ना संस्थिते सति तत्प्रचारः कार्यः। तस्य विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः । सोमविकाराणामेवायं कालःपशवस्तु न सोमविकारस्त- स्मादविशेषवचनानुसारेण प्राकृतानां वैकृताना च सर्वेषां सोमानामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः । तत्रैव द्वितीय पादे चिन्तितम्- पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि । कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत् ।। किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः । अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः ।। (इति) । वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते-“ तान्पर्यग्निकृ- तानुत्सृजति । ब्रह्मसाम्न्यालभते” इति । तेषु सप़्दशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते । अश्वमेधे पर्यग्निकृतानारण्यानुत्सृजन्तीत्यत्र कर्मशेषनिषेधस्य संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणपर्यन्ताः समापनीयाः । आलम्भवचनेन च ब्रह्मसामकलेकर्मान्तरं विधीयत इति प्राप्ते ब्रूमः । कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत, वाक्यभेदश्च प्राप्नुयात् । किंच ब्रह्मसाम्न्यालभत इत्यत्र द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति । तस्मात्पर्यग्नि- करणानन्तरमेव कर्तव्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल उत्कर्षो विधीयते । तथा सत्यर्थप्राप्तः पर्यग्निकरणानन्तरभा विकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥

तैत्तिरीयब्राह्मणम् (१.३.६) १३३ अथ तृतीयाध्याये षष्ठोऽनुवाकः । सप्तमे रथमन्त्रा वर्णिताः । अष्टमे रथस्य धावनमन्त्रा वर्ण्यन्ते । कल्पः- “रथमातिष्ठति- दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना ॰वा॒ज॒जिता॒ वाजं॑ जे॒षम्” इति । अतिष्ठत्यारोहेदित्यर्थः । वाजजिताऽन्नजयकारिणा बृहस्पति- नाऽनुगृहीतोऽहं वाजं जेषमन्नं जेष्यामि । एतन्मन्त्रगतं बृहस्पतिशब्दं ब्राह्मणजात्यभिमानिदेवपरत्वेन व्याचष्टे- दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वाजं॑ जे॒षमि॒त्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॑मु॒ज्जय॑ति, इति । कल्पः-“चात्वाले रथचक्रं निमित्तं ब्रह्माऽऽरोहति तमत एवानुमन्त्रयते दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं॒ नाक ꣳ रुहे॒यम् ” इति । निमिक्तं निखातस्य काष्ठस्याग्रे स्थापितं वर्षिष्ठमतिशयेन प्रवृद्धम् । पूर्वमन्त्रवद्व्याचष्टे- दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं नाकँ॑रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठं नाकꣳ॑ रोहति, इति । विधत्ते- चा॒त्वा॒ले र॒थच॒क्रं निमि॑क्तꣳ रोहति । अ॒तो वा अङ्गि॑रस उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । सा॒क्षादे॒वयज॑मानः सुव॒र्गं लो॒कमै॑ति, इति । अत उपरिस्थिताद्रथचक्रादुत्तमा उद्गततमाः । साक्षादेवाव्यव- धानेनैव ।

ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत ।

१३४ (१.३.६) तैत्तिरीयब्राह्मणम् विधत्ते- आवै॑ष्टयति । वज्रो॒ वै रथः॑ वज्रे॑णैव दिशोऽभिज॑यति (१), इति । ऊर्ध्वकाष्ठाग्रे स्थापितं ब्रह्मणा समारूढं रथचक्रं त्रिःप्रदक्षिणं पर्यावर्त येत् । रथस्य वज्रांशत्वाद्वज्रत्वम् । तच्चान्यत्राऽऽम्नातम्-‘ ‘स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयम्' अतो भ्राम्यमाणेन वज्ररूपेण रथचक्रेणैव सर्वासां दिशां जयो भवति । विधत्ते- वा॒जिनाँ॒ साम॑ गायते । अन्नं॒ वै वाजः॑। अन्न॑मे॒वाव॑रुन्धे, इति । वाजिनामन्नार्थिनां सबन्धि यत्साम तद्ब्रह्मा गायेत् । अन्नपदस्तु सामविशेषः शाखान्तरे द्रष्टव्यः । ब्रह्मण इदं गानमित्यापस्तम्बः स्पष्टयति- “औदुम्बर ँरथचक्रं ब्रह्माऽऽरोहति तमाह । वाजिना ँसाम गायेति तस्य चक्रं त्रिःप्रदक्षिणमावर्तयति । तत्राऽऽवर्त ( र्त्स्यः)माने ब्रह्मा गायति ” इति । कल्पः-“आघ्नन्ति दुन्दुभीन्संपवदन्ति वावः संप्रवदिता वाचोऽनुमन्त्रयते- इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् ” इति । यागलक्षणेन परमैश्वर्येण योगाद्यजमान इन्द्रस्तस्मादिन्द्राय हे सभ्या ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत । अन्नविषये जयं प्रापयत । अयमिन्द्रो यजमानो वाजमन्नमजयिञ्जयतु । सोऽयं मन्त्र आपस्तम्बेन दुन्दुभिवादने विनियुक्तः-‘ इन्द्राय वाचं वदतेति दुन्दुभीन्सँ ह्वादयन्ति ” इति । तमेतं दन्दुभिघातं विधातुं प्रस्तौति- वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा॑क्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् । सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा॑द्दुन्दुभिः सर्वा॒ वाचोऽति॑वदति, इति । वाग्देवताया वर्ष्म नादात्मकं प्रधानशरीरं तस्य प्रदेशादयं दुन्दुभिः सर्वा मनुष्यवाचोऽतिक्रम्य ध्वनिं करोति । विधत्ते-

ब्राह्मणोदाहरणेन स्पष्टीकरिष्यते । दक्षिणात्वेन दातव्यानां रथादीनां

तैत्तिरीयब्राह्मणम् (१.३.६) १३५ दुन्दुभी॒न्समा॑घ्नन्ति । प॒रमा वा ए॒षा वाक् (२) । या दु॒न्दु॒भौ । प॒र॒मयै॑व वा॒चाऽरां॒ वाच॒मव॑रुन्धे । अथो॒ वाच॑ ए॒व वर्ष्म॑ यज॑मा॒नोऽव॑रुन्धे, इति । मन्त्रगतमिन्द्रियपदं वाजमजयिदित्येतच्च व्याचष्टे- इन्द्रा॑य वाचं॑ वद॒तेन्द्रं॑ वाजं॑ जापय॒तेन्द्रो॑ वाज॑मजयि॒दित्य॑ह । ए॒ष वा ए॒तर्हीन्द्र॑ः । यो यज॑ते । यज॑मान ए॒व वाज॑मु॒र्जय॑ति, इति । कल्पः-"अथास्मा अश्वाजनिं प्रयच्छति- अश्वा॑जनि॒वाजि॑नी॒ वाजे॑षु वाजिनीवत्यश्वान्त्समत्सु॑ वाजय " इति । अस्मै यजमानाय । अश्वमजति क्षिपतीत्यश्वाजनी कशा । सा च विजयेनान्नप्रदत्वाद्वाजिनी । वाजिन्यो वेगवत्योऽश्वगतयस्ता अस्याः कशाया इति वाजिनीवती । यथोक्तगुणत्रयोपेते हे कशे वाजेष्वन्नेषु निमित्तभूतेषु सत्सु त्वमश्वान्समत्सु युद्धेषु वाजय गमय । अयं मन्त्रः स्पष्टत्वबुद्ध्योपेक्षितः । श्रीविधेयान्विधत्ते- स॒प्तद॑श प्र॒व्या॒धाना॒जिं धा॑वन्ति । स॒प्तद॑श स्तोत्रं॑ भवति । स॒प्तद॑श स॒प्तद॑श दीयन्ते (३) । स॒प्तद॑शः प्र॒जाप॑तिः । प्र॒जाप॑तेरा॒प्त्यै॑, इति । प्रकर्षेण बलाधिक्येन विध्यन्ते मुच्यन्ते बाणा यावत्परिमाणेषु देशविशेषेषु तावत्परिमाणा देशाः प्रव्याधास्ते च सप्तदशसंख्याकाः तेषामन्तेऽवधित्वद्योतनाय काचिदौदुम्बरी शाखा निखन्यते । तत्काष्ठयुक्तोऽवधिराजिः तत् पर्यन्तं रथारुढा धावेयुः । अस्मिन्वाजपेये सामवेदप्रसिद्धं यत्स्तोत्रंतत्सप्तदशसंख्याकावृत्तियुक्तं भवेत् । तदावृत्तिप्रकारस्त्वष्टमप्रपाठके समिधमातिष्ठेत्यस्मिन्ननुवाके ब्राह्मणोदाहरणेन स्पष्टीकरिष्यते । दक्षिणात्वेन दातव्यानां रथादीनां गोशतान्तानां द्रव्याणां मध्य एकैकद्रव्यं सप्तदशसंख्यायुक्तं दद्यात् । तञ्चाऽऽपस्तम्बो दर्शयति-"दक्षिणाकाले सप्तदश रथान्ददाति सप्तदशानासि सप्तदशाश्वान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः (सीः) सप्तदशाजाः सप्तदशाधीः सप्तदश वासांसि सप्तदश गवां शतानि" इति । यद्यपि स्तोमविशेषविधेर्देयद्रव्यसंख्याविधेश्च

१३६ (१.३.६) तैत्तिरीयब्राह्मणम् नायमवसरस्तथाऽपि गन्तव्यदेशविशेषसंख्याविधिप्रसङ्गेन तदुभयं विहितम् । तथा सत्येकेनैव सप्तदशः प्रजापतित्यनेनार्थवादेन विधित्रयस्य स्तोतुं शक्यत्वात् । कल्पः-“तया यथायुक्तमश्वानिक्षपति- “अर्वा॑ऽसि” इति दक्षिणं “सप्ति॑रसि” इति मध्यमं “वा॒ज्य॑सि” इत्युत्तरम्’ इति । अर्वादयोऽश्वजातिविशेषाः । तदेवाभिप्रेत्यान्य- त्राऽऽम्नायते-‘हयो देवानवहदर्वा सुरान्वाजी गन्धर्वानश्वो मनुष्यान् ” इति (वामदक्षिणयोरश्वयोर्मध्य ईषाद्वयं प्रसार्य तयोर्मध्ये सम्याख्यजातिविशेषोपेतमश्वं युञ्जय(ञ्जया) त् । त्रींस्तान्देवतात्रयरूपेण स्तौति- अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्याह॑ । अ॒ग्निर्व्वा अर्वा॑ । वा॒युः सप्ति॑ः। आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्दे॒वर॑थं युनक्ति, इति । पूर्वं यजुषा युनक्तीत्यत्र मंत्रो विहितः । इदानीं रथयोगं विधत्ते- पृ॒ष्टि॒वा॒हिनं॑ युनक्ति । पृ॒ष्टि॒वाही॒ वै दे॑वर॒थः । दे॒वरथ॑मे॒वास्मै॑ युनक्ति (४), इति । पृष्टिः पादत्रयोपेतो भोजनपात्रस्याऽऽधारस्तद्वदश्वैस्त्रिभिर्वहतीति पृष्टिवाही । अत एवोपरिष्टाद्वक्ष्यते-‘त्रयोऽश्वा भवन्ति रथश्चतुर्थः’ इति । कल्पः-“अथैतानाजिसृतो विख्यापयति- वाजिनो वाजं धावत मरुतां प्रसवे जय॑त॒ वि योजना॑ मिमीध्वमध्व॑नः स्कभ्नीत । काष्ठां गच्छत ” इति । हे वाजिनोऽश्वा वाजमन्नं संपादयितुं त्वरया धावत । मरुतामनुज्ञायां सत्यामन्नं जयत । विशेषेण बहून्यपि योजनानि मिमीध्वं शीघ्रधावनेन परिमितान्यल्पानीव कुरुत । किंचाध्वनो मार्गान्स्कभ्नीत स्कम्भयत शीघ्रगत्या पीडितान्कुरुत । काष्ठामध्वसमाप्तिमाजिशिरो गच्छत । अस्मिन्मन्त्रे प्रथमभागं प्रतीकत्वेनोपादाय चतुर्थभागे काष्ठाशब्दं व्याचष्टे- वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां॑ गच्छतेत्या॑ह । सु॒वर्गो॒ वै

तैत्तिरीयब्राह्मणम् (१.३.६) १३७ लो॒कः काष्ठां॑ । सु॒वर्ग॒मेव लो॒कं य॑न्ति, इति । दिग्विशेषं विधातुं प्रस्तौति- सु॒वर्गं॑ वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति, इति । विधत्ते- प्राञ्चो॑ धावन्ति । प्राङ्ङि॒व हि सु॑व॒र्गो लो॒कः, इति । प्राञ्चः पूर्वाभिमुखाः । ऐन्द्रत्वात्स्वर्गस्य प्राग्दिग्वर्तित्वम् । कल्पः-“अथ रथान्धावतोऽनुमन्त्रयते, बजे वाजेऽवत वाजिनो न इति चतसृभिरनुच्छन्दसम् ” इति । तंत्रेयमुक्तप्रथमाह- वाजे॑ वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋत॒ज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑, इति । हे वाजिनोऽश्वा वाजे वाजे तत्तदन्ननिमित्तं धनमिमित्तं च नोऽस्मानवत् । विप्रा ब्राह्मणवत्स्नानेन शुद्धा अमृता मरणरहिताः श्रमरहिता ऋतज्ञा ऋतं सत्यमस्य गंतव्यदेशं जानन्तस्तादृगश्वाभिमानिनो हे देवा अस्य मध्वः पिबत, धावनात्पूर्वं पश्चाच्चावघ्राष्यमाणं मधुसमानं नैवारचरुरसं पिबत । पीत्वा च मादयध्वं हृष्टा भवत । ततस्तृप्ताः सन्तो देवयानैः पथिभिराजिं प्रति यात । अथ द्वितीया- ते नो॒ अर्व॑न्तो हव॒नश्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिन॑, इति । तेऽश्वा अर्वन्तो गतिकुशला हवनश्रुतोऽस्मदाह्वानश्रोतारो वाजिनोऽन्नवन्तो विश्वे सर्वेऽपि हवमाह्वानमस्मद्वचनं शृण्वन्तु । अथ तृतीया- मि॒तद्र॑वः सहस्रसा मेधसाता॒ सनि॑ष्यव॑ । म॒हो ये रत्न॒ ँसमि॑थेषु॒ । ज॒भि॒रे शं नो॑ भवन्तु वा॒जिनो॑ ह॒वेषु॑, इति । महान्तमपि पन्थानं मितमपामिव द्रवन्ति गच्छन्तीति मितद्रवः । सहस्रमाः सहस्रस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता यज्ञस्य प्रदातारः । सनिष्यवः सनिं द्रव्यदानमस्मास्विच्छन्तः । ईदृशा येऽश्वाः समियेषु संग्रामेषु महो रत्नमत्यधिकं शत्रोधनं जभ्रिरे जितवन्तस्ते वाजिनो नोऽस्माकं शं भवन्तु सुखकरा भवन्तु । अथ चतुर्थी- दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः॑ । जम्भ॑य॒न्तोऽहिं॒ वृक॒ ँ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यवन् । अमी॑वाः, इति । देवताता देवानर्हन्तीति देवतांतयः । मितद्रवः पूर्ववत् । स्वर्काः शीघ्रधावनेन सुष्ठावर्चनीयाः ते वाजिनोऽहिं वृकं रक्षांसि

१३८ (१.३.६) तैत्तिरीयब्राह्मणम् सर्पं वंदरण्याश्ववदवाधक्रान्नाक्षसाञ्जम्भयन्तः । वर्ण (वचन) व्यत्ययः । सनेमि क्षिप्रमेवामीवा रोगानस्मद्युयवन्नस्मत्तो वियोजितवन्तः । तदेवमध्यापकंसंप्रदायमनुसृत्य मन्त्रचतुष्टयं विभक्तम् । बोधायनाचार्यस्तु ते नो अर्वन्त इत्यादिर्वाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थी मेषस्य वाजीत्यादिकामृचं चतुष्टयेऽन्तर्भावयामास । तदीयपाठस्तु- ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पि क॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑सन्तवीत्वत्प॒थामङ्गाँ॒स्यन्वाप॑नीफणत्, इति । ग्रीवायां कक्ष आस्ये च तत्तदुचितरजुविशेषैर्बद्धः । सन्नेष स्य वाज्येषोऽश्वः क्षिपणिं सुरण्यति कशां त्वरयति बहुधा बद्धत्वाद्वयं भञ्जयितुमितस्ततो न गच्छति, कशायास्त्वस्याः शीघ्रं धावतीत्यर्थः । दधिक्रा धारकान्मार्गावरोधकान्पाषाणादीनप्यतिक्रमन्क्रतुं सादिनोऽभि- प्रायमनुसन्तवीत्वत्सम्यगनुसंदधानः पथां मार्गाणामङ्गांसि लक्षणानि कुटिलानि निम्नोन्नतानि च वाज्यन्वापनीफणदनुक्रमेणोर्जितवं समत्वं चाऽऽ पादयंस्तुरण्यतीति पूर्वत्रान्वयः । कल्पः-‘स यद्यस्मै रथश्चेवमाचक्षते आग्नीध्र एतां जुहोत्युत स्मास्य द्रवतस्तुरण्यते ” इति । पाठस्तु- उ॒त स्मा॑स्य द्रवतस्तुर॒ण्यतः॑ प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॒ सहोर्जा त॑रित्रतः, इति । उत स्मापि च द्रवतो गच्छतस्तुरण्यतस्त्वरयतः प्रगर्धिनो ऽवधिं प्राप्तुं काङ्क्षतोऽस्याश्वस्याङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानमनुवाति गच्छन्तमश्वमनूत्क्षिप्तत्वेन दृश्यमानं गच्छति । कस्य किमिव । वेः पक्षिणः पर्णं न पक्ष इव । यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यालंकाररूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यते । पक्षमात्रस्य पर्णमङ्कस्य दृष्टान्तत्वेनाभिहितम् । शीघ्रधावने श्येनदृष्टान्त उच्यते । ध्रजता गच्छतः श्येनस्येव दधिक्राव्णो धारकपर्वताद्यतिक्रामिण ऊर्जा सहात्यन्तबलेन सह तरित्रतो भृशं तरतोऽश्वस्येति योज्यम् । आपस्तम्बस्त्वेवमाह- “वाजिनो वाजं धावतेति चतसृभिर्धावतोऽनुमन्त्रयतेऽग्निरेकाक्षरेणेति । धावत्सूर्जितीर्यजमानं वाचयति लक्षणं (?) प्राप्योदञ्च आवृत्त्य प्रदक्षिणमावर्तते मितद्रव इति चतसृभिः प्रत्याधावतोऽनुमन्त्रयते ” इति । वाजिनो वि योजना वाजे वाजे त नों अर्वन्त इति चतस्रः । प्रधावतोऽनुमन्त्रणं विधत्ते- च॒तसृ॑भिरनुमन्त्रयते । च॒त्वारि॒ च्छन्दा॑ ँ सि ।

तैत्तिरीयब्राह्मणम् (१.३.६) १३९ छन्दो॑भिरे॒वैनां॑ ' सुव॒र्गं लो॒कं ग॑मयति (५), इति । गायत्री त्रिष्टुब्जगत्यनुष्टुबिति च्छन्दसां चतुष्टयम् । उदङ्मुखत्वेनाऽऽवृत्तिं विधत्ते- प्रवा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते (न्ते) । य आ॒जिं धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेने॑ लो॒कान्नर्य॑न्ति, इति । कल्प:-“रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यात्' इति पाठस्तु- आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू । आ मांऽऽगन्तां॑ पि॒तरा॑ मा॒तरा॑ चाऽऽमा॒ सोमो॑ अ॒मृत॑त्वा य॑गम्यात्, इति । वाजस्यान्नस्य प्रसव उत्पत्तिर्मां प्रत्याजगम्यादागच्छतु । द्यावापृथिव्यौ च विश्वशंभू कृत्स्नस्य जगतः सुखं भावयन्तौ (न्त्यौ) मामागच्छताम् । पितरा मातराऽस्मदीयः पिता च मा प्रत्यागन्तां चिरजीवित्वाय समागच्छताम् । किंच सोमश्चामृतत्वाय मम देवत्वजन्मने मां प्रत्यागम्यादागच्छतु । अपाम सोमममृता अभूमेति ह्यन्यत्र श्रुतम् । विधत्ते- र॒थ॒वि॒मो॒च॒नी॒यं जु॑होति॒ प्रति॑ष्ठित्यै, इति । रथविमोकेनाश्वानामायासं परिहृत्य स्वयं प्रतिष्ठितो भवति । मन्त्रे वाजप्रसवोक्तेरभिप्रायमाह- आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाज॑: । अन्न॑मे॒वाव॑रुन्धे, इति । इतरैः षोडशरथैर्धावद्ध्यः कृष्णलदानं विधातुं प्रस्तौति-- य॒था लो॒कं वा ए॒त उर्जय॑न्ति । य आ॒जिं धाव॑न्ति (६), इति । ये रथान्तरवर्तिनं आजिं धावन्ति, एते यथा लोकं यथास्थानमुञ्जयन्ति यस्मिन्यस्मिन्स्थाने यों यों धावत्यसावसौ तत्तत्स्थानं जयतीत्यर्थः । विधत्ते--

१४० (१.३.६) तैत्तिरीयब्राह्मणम् कृ॒ष्ण॒लं कृ॒ष्ण॒लं वा॒ज॒सृद्‍भ्यः॑ प्रय॑च्छति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तं प॒रिक्री॒याव॑रुन्धे, इति । यवत्रयपरिमितं सुवर्णं कृष्णलम् । वाजमन्नमुद्दिश्य सरन्ति धावन्तीति वाजसृतो रथान्तरवर्तिनः । अत एवाऽऽपस्तम्ब-- “यजुर्युक्तं यजमान आरोहति वाजसृत इतरात्रथान् ” इति । एकैकस्मै वाजसृत एकैकं कृष्णलं दद्यात्तेन तैः संपादितमन्नं निवासस्थानं च परिक्रीय स्वाधीनं करोति । तान्षोडश कृष्णलान्पुनरादायैकीकृत्य ब्रह्मणे तद्दानं विधत्ते- एक॑धा ब्र॒ह्मणे॒ उप॑हरति । एक॑धैव य॒र्ज॑माने वी॒र्यं॑ दधाति, इति । चरुं विधातुं प्रस्तौति- दे॒वा वा ओष॑धीषु॒वाजि॑मर्युः । ता बृह॒स्पति॑रुद॑जयत् । स नी॒वारा॒न्निरे॑वृणीत । तन्नी॒वारा॑णां नीवा॒रत्वम्, इति । यथा पूर्वं प्रथमो वाजपेययागार्थमाजिं धावतो बृहस्पतेर्जयस्तद्वदत्राप्योषधीषु सारस्वीकारायाऽऽजिप्राप्तौ बृहस्पतिर्जयं प्राप्यौषधीषु सारत्वेन नीवारानन्याभ्य ओषधीभ्यो निष्कृष्यावृणीत् निःशेषेण वृत्तत्वान्नीवारत्वं संपन्नम् । विधत्ते- नै॒वा॒रश्च॒रुर्भव॑ति (७) । ए॒तद्वै दे॒वानां॑ पर॒ममन्न॑म् । यन्नीवा॑राः । प॒र॒मेणै॒वास्मा॒ अन्नाद्ये॒नाव॑र॒मन्नाद्य॒मव॑रुन्धे, इति । शाल्यादिभ्योऽत्यन्तपूतत्वेन नीवाराणां देवान्नत्वम् । चरोः परिमाणं विधत्ते- स॒प्तद॑शशरा॒वो भव॑ति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेरा॒प्त्यै, इति । चरोः सप्तदशशरवपरिमितत्वं पूर्वं तत्वचारविधौ व्याख्यातम् । चरुनिष्पादनोपयुक्तं द्रव्यविशेषं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.३.६) १४१ क्षीरे॒ भव॑ति । रु॒चमे॒वास्मि॑न्दधाति, इति । रुचं स्वादुत्वम् । निष्पन्ने चरौ घृतप्लावनं विधत्ते- स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑, इति । एतदेवाभिप्रेत्याश्वदेवानुद्दिश्यास्य मध्वः पिबत मादयध्वमित्यस्य मन्त्रस्यार्थो व्याख्यातः । चरोर्देवतां विधत्ते- बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या (८) । यो वाज॑पेयेन॒ यज॑ते । बा॒र्ह॒स्प॒त्य ए॒ष च॒रु, इति । कर्तव्य इत्यध्याहारः । वाजपेययाजिनो बृहस्पतिर्देवतेति तत्रत्यचरोरपि सा देवता युक्ता । कल्पः-“तमेतान्यजुर्युजोऽश्वानवघ्रावयति- वाजिनो वाजजितो वाजँ॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत” इति । बाजजितोऽन्नं जेतुमुद्यता वाजिनो हेऽश्वा वाजमन्नं जेतुमार्जिसु- दिश्य सरिष्यन्तो धावनं करिष्यन्तो वाजमन्नं जष्यन्तो यूयं बृहस्पतेर्भागमिमं चरुमवजिघ्रत । कल्पः-“यजुर्युजोऽश्वान्प्रत्याधावतो ऽवघ्रापयति- वाजिनो वाजजितो वज ँ॑ ससृ॒वा ँसो॒ वाजं॑ जिगि॒वा ँसो॒ बृह॒स्पते॑र्भा॒गे निमृ॑द्ध्वम्” इति । यजमानार्थे रथे यजुर्मन्त्रैर्योजनीया अश्वा यजुर्युजः । ससृवांसो धावनं कृतवन्तः । जिगिवांसो जयं कृतवन्तः । निमृद्ध्वं शुद्धा भवत । आपस्तम्बमते तु जिगिवा ँ स इत्यन्तो मन्त्रः । तदर्थपूरणाय बृहस्पतेर्भाग- मवजिघ्रतेति पूर्वस्मान्मन्त्रादनुवर्तनीयम् । अवशिष्टाभागो मन्त्रान्तरं तत्र विनियोगं स एवाह-“बृहस्पतेर्भागे निमृद्ध्वमिति प्रप्रोथेषु च ले॒पान्निर्मा॑ष्टि” इति । प्रप्रोथा ओष्ठाग्राणि । आजिधावनात्पुरा पश्चाच्चावघ्रापणं विधत्ते- अश्वा॑नसरिष्यतः ससृ॒पाँश्चाव॑घ्रापयति । यमे॒व ते वाजं॑ लो॒कमु॑जयन्ति । तमे॒वाव॑रुन्धे, इति ।

१४२ (१.३.६) तैत्तिरीयब्राह्मणम् कल्पः-“अथ रथान् विमुच्यमानाननुमन्त्रयते- इ॒यं वः॑ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण॒ सम॑धध्वम्” इति । हे रथा वो युष्माकमियं संघाऽऽजिधावनप्रतिज्ञा सा सत्याऽभूत् । यां प्रतिज्ञामिन्द्रेणेन्द्रानुग्रहेण समधध्वं सम्यग्धारिवन्तः । इन्द्रानुग्रहायैवेन्द्रस्य वज्रोऽसीति रथमन्त्र आम्नान्तः । कल्पः-“ दुन्दुभीनवस्यतोऽनुमन्त्रयते- अजी॑जिन्त॒ वन॑स्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ” इति । हे वनस्पतयो वनस्पतिविकारा दुन्दुभय इन्द्रं यागस्वामिनं वाजमन्नमुद्दिश्याजीजिपत यथा जितवान्भवति तथा जितवन्तः । तादृशा यूयं पूर्वं यत्र बद्धास्ततो विमुच्यध्वं विमुक्ता भवत । बन्धनप्रदेशस्त्वापस्तम्बेन दर्शितः- “दक्षिणस्यां वेदिश्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नाति” इति । विधत्ते- अजी॑जिपत वन॒स्पत॑य॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑ दु॒न्दुभीन्विमु॑ञ्चति । य॒मे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे (९), इति । अभिज॑यति॒ वा ए॒षा वा॒न्दी॑यन्त्य॒ऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ । अत्र देवतयाऽष्टौ च । अत्र विनियोगसंग्रहः- देवाऽऽरोहेद्रथं स्वामी ब्रह्मारोहणन्त्रणम् । देवेतीन्द्रा दुन्दुभीनां घोषोऽश्वाज कशाग्रहः ॥ अर्वाऽसीति विभिर्मन्त्रैर्युक्त्यश्वत्रयं रथे । वाजीत्येतैर्मन्त्रयेत चतुर्भिर्धावतो रथान् ॥ मितेत्याभिश्चतसृभिस्तान्प्रत्याधावतो रथान् । आ मा रथविमुक्त्याख्यं जुहुयाद्वाजिनद्वयात् ॥ गतेः पुरोपरिष्टाच्च घ्रापयेच्चरुमश्वकान् । बृहादिजिप्रतेत्यन्तो द्वितीयेऽप्यनुषज्यते ॥ बृहेति मार्ष्टि घोणायामियं तु रथमन्त्रणम् । अजीदुन्दुमन्त्रः स्यादेकविंशतिरीरिताः ॥ इति ।

द्वितीयोऽस्तीति चेन्नैवं द्विलोपे बाधगौरवात् ।।

तैत्तिरीयब्राह्मणम् (१.३.६) १४३ अथ मीमांसा । दशमाध्यायस्य तृतीयपादे चिन्तितम् । यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत । बाधः प्रकाशवन्नैवं पक्षे प्राप्तो नियम्यते ॥ (इति) । वाजपेये श्रूयते-यजुर्युक्तं रथमध्वर्यवे ददातीति । तत्रायमर्थः-रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि प्राकृतगवाश्वादिदक्षिणाद्रव्यबाधकान्यत्रविहितानि । तेषु च प्रतिद्रव्यं सप्तदशसंख्या विहिता । ततो रथाः सप्त दशः । तेषु मुख्यं रथं यजमानारोहणायेन्द्रस्य वज्रोऽसीत्यादिभिर्यजुर्वेदोक्तैर्मन्त्रैः सजी करोति सोऽयं यजुर्युक्तो रथस्तं च दक्षिणाकालेऽध्वर्यवे दद्यादिति। प्रकाशावध्वर्यवे ददातीत्यत्र यथा चोदकप्राप्तस्याध्वर्यु भागस्य बाध एवमत्रापि । ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधः सिद्धः । बाढम् । तथाऽप्यर्धिनः पादिन इत्यादिसमाख्याप्रापिता विषमविभागविशेषक्लप्तिर्नद्रव्यान्तरमात्रेण बाधितुं शक्या । विरोधिनो विधा (ना) न्तरस्यावि धानादतश्चोदकप्राप्तेयमध्वर्योर्भागविशेषक्लृप्तिः । सा यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते । तस्मादध्वर्योर्न रथान्तरभागोऽस्ति । नापि शकटदास्यादिभाग इति पूर्वः पक्षः । नैतद्युक्तम् । प्रकाशदृष्टान्तवैषम्यात् । अत्यन्तमप्राप्तौ हि प्रकाशौ तत्र विधेयौ । यजुर्युक्तरथस्तु पक्षे प्राप्तः । तथा हि सप्तदश रथान्ददातीत्युक्ते कस्य को रथ इति वीक्षायां यजमानेच्छाया नियामकत्वाद्यदाऽध्वर्यवे तं दातुमिच्छति तदा प्राप्नोति यदा नेच्छति तदा न प्राप्नोतीति पक्षे प्राप्तिः। ततो यजुर्युक्तो यो रथःसोऽध्वर्यवेऽवश्यं देय इति नियम्यतेऽतो न कस्याप्यनेन बाधः । तत्रैव द्वितीयपादे चिन्तितम्- शरावैःसप्तदशभिर्यश्चरुस्तत्र मुष्टयः । चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः ।। तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः। द्वितीयोऽस्तीति चेन्नैवं द्विलोपे बाधगौरवात् ।। तृतीयोऽस्त्वेकलोपेऽत्र धर्मसंख्यैव लुप्यताम् । क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम् ।। (इति) । प्रकृतौ चतुरो मुष्टीन्निर्वपतीति मुष्टितत्संख्ये श्रुते । तथा वाजपेये विकृतिरूपः सप्तदशशरावश्चरुश्रुतः । तत्र चरौ किं मुष्टिसंख्ये द्वे अपि विद्येते किंवा द्वे अपि न विद्येते । आहोस्विदुभयोरेकमस्त्यन्यन्नास्ति ।

१४४ (१.३.७) तैत्तिरीयब्राह्मणम् यदेकं तदाऽपि किं मुष्टिरेव किंवा संख्येवेति संशयः । चोदकप्राप्त- मुभयमस्तीत्याद्यः पक्षः प्राप्नोति । चतुर्भिर्मुष्टिः सप्तदशशरावपूरणसर्थस्य चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि मुष्टिसंख्ये द्वे अपि बाध्यते इति द्वितीयः पक्षोऽस्त्विति चेन्मैवम् । एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे सति द्वयोर्बाधे गौरवप्रसङ्गात् । नन्वत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं मुष्टिद्रव्यं बाध्यते । तथा सप्तदशसंख्यया चतुःसंख्या बाध्यत इत्युभयबाधोऽवश्यंभावी । मैवम् । भिन्नविषयत्वेन बाधासंभवात् । शरावसप्तदशसंख्ये यागसंबद्धे, मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे इति विषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः । अन्यथाऽनुपपत्त्येति वदामः । अनुपपत्तिश्च पूरणासंभवेन दर्शिता । पूरणं चैकबाधेनाप्युपपद्यते मुष्टिबाधे यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात् । चतुःसंख्याबाधे यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति । एवं तर्ह्य कलोप इति तृतीयः पक्षोऽस्तु । तत्र संख्या धर्मः । मुष्टिर्धर्मी । तथा सति मुष्टौ लुप्ते सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी । संख्याया तु लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्, तस्मात्संख्येव लुप्यतामिति प्राप्ते ब्रूमः। चतुःसंख्या तावन्न मुष्टिमात्रेऽन्वेति । कर्मकारकवांचि- द्वितीयाविभक्तयन्तस्य चतुःशब्दस्य सहकर्मकारकेण निर्वपतिधातुना सहान्वयात् । अतः संख्या न मुष्टिधर्मः। पार्ष्णिकान्वयेन तु मुष्टिविशेषणं भविष्यति । संख्यामुष्ट्योः क्रियासंबन्धे समान सत्यपि प्रथमश्रुतत्वात्साऽनुगृह्यते चरमश्रुतत्वेन दुर्बलो मुष्टिर्बाध्यत इति राद्धान्तः। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः । अष्टम रथधावनमुक्तं नवमे यूपारोहणमुच्यते । कल्पः-“अथ यजमानं तार्प्यं परिधापयति- क्ष॒त्रस्योल्ब॑मसि, इति । क्ष॒त्रस्य॒ योनि॑रसि॒, इति दर्भमयं पत्नीम् ” इति । धृताक्तं वस्त्रं तार्प्यम् । क्षत्रस्य राजस्थानीयस्य यजमानस्य गर्भत्वेनोपचर्यमाणस्थोल्बमवरणमसि । उल्बवृतो गर्भ इति च्छन्दोगा आमनन्ति । हे दर्भमय पट क्षत्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य योनिरसि शीतनिवारणकारणमसि । तदेतत्परिधानद्वयं विधत्ते- तार्प्यं॑ यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै तार्प्यम्॑ । य॒ज्ञेनै॒वैन॑ ँ

तैत्तिरीयब्राह्मणम् (१.३.७) १४५ सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै दर्भाः॑ । पु॒नात्ये॒वैन॑म् । वाजं॒ वा ए॒षोऽव॑रुरुत्सते । यो वा॑ज॒पेये॑न॒ यज॑ते । ओष॑धयः॒ खलु॒ वै वाजः॑ । यद्दर्भ॑मयं परि॒धाप॑यति (१) । वाज॑स्याव॑रुद्ध्यै, इति । तार्प्यस्य यज्ञस्य यज्ञसाधनत्वायज्ञत्वम् । एनं पत्नीदेहम् । वाजपेयया जिनोऽन्नावरोधकामिन ओषधिरुपदर्भमयेनान्नमवरुद्धं भवति । कल्पः-- "अथ जायामामन्त्रयते-- जाय एहि सुवो रोहाव, इति । रोहावहि सुवः, इति-इतरा प्रत्याह । अहं ना॑वु॒भयोः सुर्वे रोक्ष्या॑मि, इति यजमान " इति । स्पष्टार्थो मन्त्रः । एहीत्याह्वानस्य तात्पर्यमाह- जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्न्या॑ एवैष॒ य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै, इति । आह्व न (ने) न यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति यज्ञोऽनबच्छिन्नो भवति । पूर्वमन्त्रैः स्वर्गत्त्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं परिमाणपवदितुं परिमाणान्तरं विधत्ते- स॒प्तद॑शार॒त्निर्यू॒पो भ॑वति । स॒प्तद॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेराप्त्यै॑, इति । चतुर्विंशत्यङ्गुलिपरिमितोऽरत्निः, सप्तदशसंख्याका अरत्नयः परिमाणं यस्य यूपस्येति विग्रहः । अन्यद्गुणद्वयं यूपस्य विधत्ते- तूप॒रश्च॑तुर॒श्रिर्भव॑ति, इति । इतरेषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽ णीयांश्र्चषाल- पतिमोकायामवशेष्यते सोऽस्य नास्तीति तूपरत्वम् । अष्टाश्रित्वमपवदितुं चतुरश्रित्वम् । चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय विधत्ते-

१४६ (१.३.७) तैत्तिरीयब्राह्मणम् गौ॒धूमं॑ च॒षाल॑म् । न वा ए॒ते व्री॒हयो॒ न यवाः॑ । यद्गो॒धूमाः॑ (२) । ए॒तमिव॑ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति, इति । गोधूमं कुर्यादिति शेषः । यथाव्रीहिभ्यो यवेभ्यश्च गोधूमानां लोकं प्रशस्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तं प्रजापतिः । किंच गोधूमसंपत्त्या सर्वगोंऽन्नवान्भवति । यूपस्य वेष्टनं विधत्ते-- वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॑ दे॒व॒त्यं॑ वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः सम॑र्धयति । अथो॑ आक्र॑मणमे॒व तत्सेतुं॒ यज॑मानः कुरुते । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति । वाससां संख्यामपस्तम्ब आह-“रशनाकाल सप्तदशभिर्वासोभिर्यूपं वेष्टयति ” इति । वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यदौ सौमिकदीक्षा प्रकरणे विस्पष्टम् । आक्रमणं स्वर्गारोहणं सोपानसदृशम् । कल्पः-“आहवनीये जुहोत्यन्वारब्ध यजमाने वाजश्च प्रसवश्चेति द्वादश स्रुवाहुतीः” इति । पाठस्तु-वाज॑श्च प्रस॒वश्चा॑पिज॒श्च क्रतु॑श्च सुव॑श्च मू॒र्धा च॒ व्यश्निय॑श्चान्त्याय॒ नश्चान्त्य॑श्च भौव॒नश्च॒ भुवन॑श्चाधिप॑तिश्च, इति । वाजादयः सर्वं मम सन्त्विति शेषः । वाजोऽन्नं प्रसवस्तस्योत्पत्तिः । अपिजस्तस्यैव पुनः पुनरुत्पत्तिः । क्रतुं संकल्पो भोगादिविषयो यागो वा । सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः । अथवा वाजादयश्चैत्रादिमासानां नाम विशेषाः । तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः । चकाराः परस्परसमुच्च यार्थाः । अनुक्तकालादिदेवतासमुच्चयार्था वा । विधत्ते- द्वाद॑श वाजप्रस॒वीया॑नि जुहोति (३) । द्वाद॑श मासाः॑ संवत्स॒रं । सं॒व॒त्स॒रमे॒व प्री॑णाति । अथो॑संवत्स॒रमे॒यात्मा॒ उप॑दधाति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति । वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि वाज प्रसवीयानि । अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम् । न केवलमनेन होमेन संवत्सरदेवतायाः प्रीतिः किं त्वस्य यजमानस्य

तैत्तिरीयब्राह्मणम् (१.३.७) २४७ स्वर्गप्राप्तये संवत्सरदेवतां निश्रेणिवदुपधानमाधारमपि करोति । कल्पः-“तं दशभिः कल्पै रोहत्यायुर्य॒ज्ञेन॑ कल्पताम् ” इति । तं यूपम् । कल्पैः कल्पशब्दोपेतैः । पाठस्तु- आयु॒र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपानो य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता ँ॒श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां मने॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्, इति । आत्मा जीवः । यज्ञेन यज्ञसंबन्धिना यूपारोहणेन । आयुरादया स्वम्य प्रयोजनसमर्था भवन्तु । विधत्ते- दश॑भिः कल्पै रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं लो॒कमे॑ति । ए॒ताव॑द्वै पुरु॑षस्य॒ स्वम् (४) । याव॑त्प्रा॒णाः । याव॑देवा॒स्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति, इति । अन्यत्र सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चविति श्रुतत्वदिक्षवि च्छिद्रभिप्रायः प्राणशब्दः । अनेन कल्पमन्त्रपाठेन प्राणापानचक्षुः श्रोत्रादी-प्राणा स्वस्वस्थाने स्थापयित्वा तैस्तदीयस्थानैः सह स्वर्गः प्राप्तो भवति । कल्पः-“बाहू उद्गृह्णाति- सुव॑र्देवाँ अगन्मामृता॑ अभूम प्रजाप॑तेः प्र॒जा अ॑भूम ” इति । उद्गृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिमभिनयता यजमानेनैतदुच्यते । वयं स्वर्गावस्थितदेवान्प्रत्यगन्म प्राप्ताः स्मः । प्राप्य चामृता दवा अभूम । अतः प्रजापतेः प्रीतिविषयाः प्रजा अस्मिन्भूलोके यज्ञानुष्ठान परा अभूम । मन्त्रस्य त्रीन्भागान्पृथग्व्याचष्टे- सुव॑र्देवं अग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमै॑ति । अमृ॑ता अभूमेत्या॑ह । अ॒मृत॑मि॒व हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेः प्र॒जा अभूमेत्या॑ह । प्रा॒जाप॑त्यो वा अ॒यं लो॒कः अ॒स्मादे॒व तेन॑ लो॒कान्नै॑ति (५), इति । तेन तृतीयभागपाठेन भूलोकात्सव।

<!-- Page 177: Content rendered in scan -->

तैत्तिरीयब्राह्मणम् (१.३.७) १४९ ताड्यमानप्रदेशं विधत्ते-- शी॒र्ष॒तो घ्न॑न्ति । शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑, इति । चतुर्दिक्षु हननं विधत्ते- दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॒ अन्ना॑द्य॒मव॑रुन्धते, इति । कल्पः-“अत्रास्मै प्रत्यवरोहत आसन्दीं निदधाति तस्यां वस्ताजिनमा स्तृणाति वस्ताजिने शतमान ँ हिरण्यं दक्षिणं पादं हिरण्य उपावरोहयति- अ॒मृत॑मसि, इति । पुष्टि॑रसि प्र॒जनन॑मसि, इति सव्यं बस्ताजिने ; इति । हे हिरण्य त्वं विनाशरहितमसि । नह्यग्नौ प्रक्षिप्तमपि हिरण्यं काष्ठादिवद्विनश्यति । हे बस्ताजिन त्वं पुष्टि॒रसि । संवत्सरे बह्वपत्योत्पादकत्वात् । एतदेवाभिप्रेत्य प्रजननमसीत्युच्यते । हिरण्यऽवरोहं विधातुं प्रस्तौति- ईश्व॒रो वा ए॒ष परा॑ङ्प्र॒दध॑: । यो यूप॒ ँ रोह॑ति, इति । यूपमारूढो यजमानः पराङ्लोकाद्विमुखः प्रदधः प्रदग्धुं स्वात्मानं विनाशयितुमीश्वरः समर्थो भवति । अथवा प्रदधः प्रकर्षेण गन्तुमीश्वरो न पुरनावर्तेतेत्यर्थः । विधत्ते- हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतं॒ वै हिर॑ण्यम् । अ॒मृत॑ꣳसुवर्गो लो॒कः । अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति, इति । हिरण्यस्य परिमाणं विधत्ते- श॒तमा॑नं भवति । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति, इति । मानशब्देन पणस्य विंशो भागोऽभिधीयंत । ततः पञ्चपणपरिमित्युक्तं भवति । शतसंख्याकाः संवत्सराः पुरुषस्याऽऽयुः । दशानां ज्ञानकर्मन्द्रियाणां मध्ये चक्षुरादीन्द्रियस्यैकैकस्य दशसु नाडीषु वृत्तिभेदेन शतेन्द्रियत्वम् ।