भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२२२ श्रीतन्त्रालोकः । आकस्मिकमेव अभिधानं कृतम् इति को नामायं प्रसंगः । एवं हि अप्राकरणिकानां प्रमेयाणामान- न्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसंगः स्यात् ? इत्युक्तं 'नास्माकं मानसावर्जी' इति ॥ १६२ ॥ १६३॥ यद्येवं तर्हि किं प्रतिपत्तव्यम् ? इत्याह उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता । भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥१६४॥ अत्र इति अद्वयशास्त्रे श्रीश्रीपूर्वे। सा इति विभि- न्नता । तन्निषेधे तु द्वयवर्जितत्वं हेतुः ॥१६४॥ ततश्च किं स्यात् ? इत्याशङ्क्याह यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन । एतावती महादेवी रुद्रशक्तिरनर्गला ॥१६५॥ अन्यत् इति-तद्भेदा एव भुवनाद्याः । अनर्गला इति-व्यापकत्वादप्रतिहता इत्यर्थः । यदुक्तं

श्लोक १६६ ] प्रथमाह्निकम् । २२३ 'तच्छक्तिचक्रात्मकमेव विश्वं ग्राह्यग्रहीतृग्रहणात्मनैतत् । अन्तादिमध्येषु सदा विभाति नान्यन्तभिन्नं भवतोऽस्ति किंचित् ॥' इति ॥१६५॥ एतच्च तत्रत्येनैव अर्थेन संवादयति तत एव द्वितीयेऽस्मि- न्नधिकारे न्यरूप्यत । धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥१६६॥ तत एव इति - रुद्रशक्तेरेव तावत्स्फाररूपत्वात् । अस्मिन् इति - श्रीपूर्वशास्त्रे । यदुक्तं तत्रैव 'शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते । स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ॥' इत्यादि ...........'शिवः साक्षान्न भिद्यते ।' इत्यन्तम् । एतच्च तत्त्वभेदने भविष्यति, इति ग्रन्थविस्तरभयात् नेह आयस्तम् ॥१६६॥ ननु यद्येवं तर्हि रुद्रशक्तावेवं-समावेशोऽभिधीयतां किं भूताद्यावेशेन इति स एव दोषः ? इत्याशङ्कां

२२४ श्रीतन्त्रालोकः । गर्भीकृत्य, एतदेव उपसंहारभङ्ग्या दृष्टान्तं दर्शयन् उपपादयति तस्माद्यथा पुरःस्थेऽर्थे गुणाद्यंशांशिकामुखात् । निरंशभावसंबोध- स्तथैवात्रापि बुध्यताम् ॥१६७॥ यथा संनिहिते घटादौ अर्थे लौहित्याद्यंशाभास- द्वारेण अनेकसामान्याभाससंमेलनात्मनो निरंशस्य अखण्डस्य अर्थस्य सम्यक् स्वालक्षण्येन बोधो भवेत् तथैव अत्रापि भूताद्यंशमुखेन निखिलरुद्रशक्त्य- वभासः इत्यधिगन्तव्यम् ॥१६७॥ एवमपि किं स्यात् ? इत्याशङ्क्याह अत एवाविकल्पत्व- ध्रौव्यप्राभववैभवैः । अन्यैर्वा शक्तिरूपत्वा- द्धर्मैः स्वसमवायिभिः ॥१६८॥ सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् । पं० १३ क० पु० अत एव विकल्पेति पाठः ।

श्लोक २०० ] प्रथमाह्निकम् । २१५ उपासते विकल्पौघ- संस्काराद्ये श्रुतोत्थितात् ॥१६६॥ ते तत्तत्स्वविकल्पान्तः- स्फुरद्धर्मपाटवात् । धर्मिणं पूर्णधर्मौघ- मभेदेनाधिशेरते ॥२००॥ अत एव इति - धर्ममात्रावगममुखेन धर्मिण्यव- गमात् । ध्रुवस्य भावो ध्रौव्यं - नित्यत्वम् । अन्यैः इति - पूर्णत्वादिभिः, स्वसमवायिभिः इति - शक्ति- रूपत्वादभिन्नैरित्यर्थः । ये केचन श्रुतचिन्ताद्युत्थि- ततत्तन्नियतधर्मविषयस्य विकल्पौघस्य संस्कारम् अवलम्ब्य परमेश्वरं समनन्तरोद्दिष्टाभिः सर्वाभिरेव शक्तिभिः एकयैव वा शक्त्या समाविशन्ति, ते समाविष्टाः सन्तः, ते ते ये विकल्पाः तेषाम् अन्तः स्वाकारतया स्फुरन्तः, ते नियता अनियता वा धर्माः शक्तयः, तेषां पाटवं प्रबोधः, तदाश्रित्य पूर्णधर्मौघम् अनन्तशक्तिखचितत्वेन पूर्णस्वभावं पं० ३ ख० पु० तेन तत्स्वविकल्पेति पाठः । २६

२२६ श्रीतन्त्रालोकः । धर्मिणं शक्तिमन्तं परमेश्वरम् अभेदेन अधिशेरते - तद्रूपतया स्फुरन्ति इत्यर्थः ॥१९८॥१९६॥२००॥ ननु एकस्यापि नानाविधधर्मयोगिनोऽर्थस्य आ- खण्ड्येनैव प्रतीतिगोचरीभावः संभवति न तु इतरथा इति किमेतदुक्तम् ? इत्याशङ्काशान्त्यर्थम् एतदेव संवादयति ऊचिवानत एव श्री- विद्याधिपतिरादरात् । तदेव पठति त्वत्स्वरूपमविकल्पमत्तजा कल्पने न विषयीकरोति चेत् । अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥२०१॥ यदि नाम ऐन्द्रियकी निर्विकल्पप्रतीतिः अवि- कल्पम् - अविभागमपि त्वत्स्वरूपं, कल्पने नियत- पं० ३ क० पु० अखण्डेनैवेति पाठः । पं० ११ क० पु० कल्पनमिति पाठः । पं० १३ क० पु० बभूवुरिति पाठः । पं० १४ क० पु० त्वत्स्वरूपकल्पने इति समस्तः पाठः ।

श्लोक २०२ ] प्रथमाह्निकम् । २२७ तत्तद्धर्मविषयत्वेन भेदनमवलम्ब्य न विषयीकुर्यात् तत् स्फुटा-नियतैकतरधर्मावभासमुखेन धर्मिस्वरू- पावभासमय्यः, अन्तः-अस्फुटाकारत्वेन, उल्लिखिताः चित्राः-अवान्तरनानाधर्मविषयाः संविदो यासां ताः, एवंविधाः अनुभूतयः-अनुभवा, नो भवेयुः न उत्पद्येरन् इत्यर्थः । यदि हि सर्वधर्माक्रान्त्या धर्मि- णि सर्वे अनुभवाः स्युः तत् परिव्राडित्यादौ एकै- कस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्, अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियत- धर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु इतरथा इति युक्तम्-एकतरशक्त्यवभासमुखेन अन- न्तशक्तावपि परमेश्वरेऽवभासः इति ॥२०१॥ एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि इत्याह तदुक्तं श्रीमतङ्गादौ स्वशक्ति किरणात्मकम् । अथ पत्युरधिष्ठान- मित्याद्युक्तं विशेषणैः ॥२०२॥ पं० ११ क० पु० शक्त्यवभासेनानन्तशक्ताविति पाठः ।

३२८ श्रीतन्त्रालोकः। तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् । काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥ प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥२०४॥ स्वशक्तिकिरणात्मकं यद्वस्तु तत् 'पत्युरधिष्ठानम्' इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति संबन्धः। 'अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम्।' इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभाव- दर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि दर्शयितुं 'तस्याम्' इत्यादि 'उपचर्यते' इत्यन्तमागमः पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणा रश्मयः पं० १२ क० पु० मौलः, ग० पु० पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थ- मिति पाठः।

श्लोक २०४ ] प्रथमाह्निकम् २२६ तदात्मकं, पत्युः – शक्तिमतः, अधिष्ठानम् – अभिव्य- क्तिस्थानम् इत्यर्थः। शक्तिरेव तज्ज्ञतावुपायः, यदुक्तं 'यथालोकेन दीपस्य किरणैर्भास्करस्य वा। ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥' इति । अत एव तस्यां शक्तौ, दिवि द्योतमानायां, सोऽपि सुष्ठु दीप्तात्मा – महाप्रकाशवपुः, अत एव निष्कम्पः – स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्र- काशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्, अत एव च अचलया – महाप्रकाशमय्या प्रशस्यया मूर्त्या युक्तः, यतश्च तस्यामेवं-विधायाम् अयमेवं- विधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः, अत एव सूक्ष्मा परिच्छेत्तुमशक्या – परप्रमात्रे- करूपत्वात्, अत एव वस्तुमात्रे पारमार्थिके रूपे अतिशयेन लालसा – तत्स्फुरत्तात्मिका इति यावत् । एवं च प्रकर्षेण निःसंस्कारतया ध्वस्तानि बाह्यावरणानि यया सा प्रशान्तभेदा इत्यर्थः, अत एव शान्ता चिन्मात्ररूपा इत्यर्थः । एवमपि पं० ५ ख० ग० पु० शक्तौ विद्योतमानायामिति पाठः । पं० ८ ख० पु० सर्वमिदमेतदिति पाठः । पं० ९ क० पु० अत एवाचञ्चलयेति पाठः ।

२३० श्रीतन्त्रालोकः सर्वदिक्षु भवा स्थावरजङ्गमात्मकजगद्रूपत्वात् चित्र- स्वभावा इति यावत् , तदपि अमृतात्मिका नित्या, अत एव आद्यन्तोपरता, अनित्ये हि आद्यन्तौ भवतः, अत एव साध्वी - अनित्यत्वादिदोषकालुष्य- रहिता इत्यर्थः, एवं-विधा च एषा शक्तिमतः परमे- श्वरस्य मूर्तित्वेन उपचर्यते - गौण्या वृत्त्या तद्रूपतया अभिधीयत इत्यर्थः ॥२०२॥२०३॥२०४॥ ननु उपचारे मुख्यार्थबाधादिना त्रितयेन अवश्य- भाव्यं, तच्चात्र किमस्ति न वा ? इत्याशङ्क्याह तथोपचारस्यात्रैत- न्निमित्तं सप्रयोजनम् । निमित्तम् इति कारणम्, तद्वशादेव हि उपचारो भवेत् इति भावः । तत्र शक्तेः शक्तिमद्रूपत्वाभिधाने बाधितस्तावत् मुख्योऽर्थः, संबन्धश्च तयोरुपायो- पेयभावः ॥ तदाह तन्मुखा स्फुटता धर्मि- ण्याशु तन्मयतास्थितिः ॥१०५॥ पं० १३ क० पु० शक्तिमद्रूपत्वाभिमाने इति, ख० पु० रूपत्वाभिमानेनेति पाठः ।

श्लोक २०७ ] प्रथमाह्निकम् । २३१ त एव धर्माः शक्त्याख्या- स्तैस्तैरुचितरूपकैः ॥ आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥२०६॥ सा शक्तिः मुखम् उपायो यस्याः, स्फुटता नाम किमुच्यते इत्युक्तम् 'आशु तन्मयतास्थितिः' इति, आसादितायां शक्तावासादित एव शिवः इत्याशयः। एतदेव च मुख्यं प्रयोजनम् ॥२०६॥ अत एवाह तत्र काचित्पुनः शक्ति- रनन्ता वा मिताश्च वा । आक्षिपेद्धवतासत्त्व- न्यायाद्दूरान्तिकत्वतः ॥२०७॥ अनन्ता मिताश्च इत्यर्थाच्छक्तीः । धवतासत्त्व- न्यायात् इति - धवता हि अधवव्यावृत्ताः स्वव्य-

पं० ६ ख० पु० तद्युक्तमिति पाठः । पं० १२ ख० पु० आक्षिपेद्द्भ्रुवतेति, अन्तिकात्तत इति च पाठः । ग० पु० अन्तिकास्तत इति पाठः । पं० १४ ख० पु० ध्रुवतासत्त्वेति पाठः ।

प्रकाशत्वं चिदात्मता ।

२३२ श्रीतन्त्रालोकः । क्तीरेव आक्षिपति इत्यस्याः परिमितवस्त्वाक्षेपि- त्वम्, सत्त्वं पुनर्धवाधवात्मनि सर्वत्रैव अस्ति इत्यस्यानन्तवस्त्वाक्षेपित्वम् अत एव च मितवस्वा- क्षेपिण्यो दूरा - अव्यापकत्वेन सर्वत्र असन्निहि- तत्वात्, अनन्तवस्त्वाक्षेपिण्यस्तु आसन्ना - व्यापक- त्वात् सर्वत्रैव संनिहितत्वात् ॥२०७॥ एतदेव प्रकृते योजयति तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता । भैरवत्वं विश्वशक्ती- राक्षिपेद्व्यापकत्वतः ॥२०८॥ सदाशिवादयस्तूर्ध्व- व्याप्त्यभावादधोजुषः । शक्तीः समाक्षिपेयुस्त- दुपासान्तिकदूरतः ॥२०९॥ पं० ३ क० पु० इत्यस्यानन्तरवस्त्विति पाठः । पं० ४ ख० पु० ध्रुवा अव्यापकेति पाठः । पं० ५ क० पु० क्षेपिण्यस्त्वसत्त्वव्यापकेति, ख० पु० क्षेपिण्यस्तु सत्त्वाव्यापकेति पाठः ।

श्लोक २१० ] । प्रथमाह्निकम् । २३३ अधोजुषः इति-ईश्वरादिकाः शक्तीः, तदिति पूर्णस्वभावत्वसदाशिवत्वादेः व्यापकत्वाव्यापकत्वस्व- भावत्वाद्धेतोः । पूर्णस्वभावे हि रूपे उपासन्नाः पूर्ण- मेव भुक्तिमुक्तिलक्षणं फलम् आसादयन्ति, अपूर्ण- स्वभावे पुनरपूर्णत्वमेव इत्युक्तम् 'उपासान्तिकदूरतः' इति । अत एव च दर्शनभेदः ॥२०८॥२०९॥ ननु विकल्प एव तत्कल्पनाबलान्नियतः सामा- न्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मिणि अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात् न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे शाम्भवे इति कथमिवैतदुक्तम् ? इत्याशङ्क्याह इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः । इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥२१०॥ पं० २ क० पु० शिवत्वादेः व्यापकस्वभावत्वाद्धेतोरिति पाठः । पं० १२ क० पु० शाक्ताख्ये इति पाठः । पं० १५ क० पु० योगाविकल्पनम् इति पाठः । ३०

प्रकाशे तन्मुखेनैव

२३४ श्रीतन्त्रालोकः । इह इति शाम्भवावसरे, तस्मात् इति विकल्पात्, प्रतिपक्षे हि निरूपिते सुष्ठु पक्षनिरूपणं कृतं स्यात् इति-नैतदप्रस्तुतं किंचिदभिहितमिति भावः । विकल्पे हि क्रमेण अखण्डवस्त्ववभासो भवति अविकल्पे पुनरक्रमेण इति-प्राप्ताविकल्पस्थितिर्यत्र कुत्रचिद्ववधत्ते तत्रास्य तदैव शिवतापत्तिः स्यात् ॥२१०॥ तदाह अविकल्पपथारूढो येन येन पथा विशेत् । धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥२११॥ एतदेव उदाहरति निर्मले हृदये प्राग्य- स्फुरद्भूम्‍यंशभासिनि । प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥२१२॥


पं० ५ क० ग० पु प्राप्तविकल्पस्थितिरिति पाठः । पं० १० ग० पु० पथा व्रजेदिति पाठः । पं० १४ क० ख० पु० प्राग्रस्फुरदिति पाठः ।

श्लोक २१३] प्रथमाह्निकम् । २३५ इह खलु निर्मले हृदये पूर्णाहंविमर्शात्मनि, अत एव प्राग्र्यम् - आखण्ड्येन प्रकृष्टं कृत्वा, स्फुरद्भूमि- लक्षणः तत्त्वान्तरापेक्षया अंशः - षट्त्रिंशो भागः, तदाभासात्मनि प्रकाशे तद्भूम्यंशात्मनैव उपायेन संवित्परशिवात्मता - तदावेशः स्यादित्यर्थः ॥२१२॥ एतदेव उपसंहरति एवं परेच्छाशक्त्यंश- सदुपायमिमं विदुः । शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥२१३॥ परा भट्टारिकारूपा च असौ इच्छाशक्तिः, तदा- त्मकश्च असौ अंशः '...........परं त्विच्छात्मकं मतम् ।' इत्याद्युक्तेः शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासौ उपायः तं, सुमत्यन्तेनिवासिनः इति - श्रीसोमदेवा- पं० २ क० ख० पु० प्राग्रमाखण्ड्येनेति पाठः । पं० ४ क० पु० प्रकाशेन भूम्यंशात्मनैवेति पाठः । पं० ६ क० पु० तदेवोपपादयतीति पाठः ।

२३६ श्रीतन्त्रालोकः । दयः । श्रीसुमतिनाथस्य श्रीसोमदेवः शिष्यः, तस्य श्रीशम्भुनाथः इति हि आयातिक्रमविदः । यद्व- क्ष्यति ‘श्रीसोमतः सकलवित्किल शम्भुनाथः..............।’ इति । यत्तु ‘कश्चिद्दक्षिणभूमिपीठवसतिः श्रीमान्विभुर्भैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः । लोकेऽभूत्सुमतिस्ततः समुद्भूत्तस्यैव शिष्याग्रणीः श्रीमाञ्छम्भुरिति प्रसिद्धिमगमज्जालन्धरात्पीठतः ॥’ इत्यन्यत्रोक्तं, तत्परमगुर्वभिप्रायेणैव योज्यम् । यद्वा ‘यावानस्य हि सन्तानस्तावोनेको गुरुर्मतः ।’ इत्यादिवक्ष्यमाणनीत्यवलम्बनेन एतद्व्याख्येयम् । एवं ‘इति श्रीसुमतिप्रज्ञाचन्द्रिकापास्ततामसः । श्रीशम्भुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥’ इत्यादावपि ज्ञेयम् ॥२१३॥ इदानीं शाम्भवमुपायं प्रतिपाद्य, शाक्तमप्याह शाक्तोऽथ भण्यते चेतो- धी-मनोहंकृति स्फुटम् ।

पं० ११ क० पु० यावान्यस्येति पाठः । पं० १३ ग० पु० चन्द्रिकाशान्ततामस इति पाठः ।

श्लोक २१४ ] प्रथमाह्निकम् । २३७ सविकल्पतया माया- मयमिच्छादि वस्तुतः ॥२१४॥ एतच्चात्र न मनोमात्रम् इत्याह धीमनोऽहंकृति इति । अत एव स्फुटं - साक्षादभिव्यक्तस्वरूपम् इत्यर्थः । ततश्च 'सर्वे विकल्पः संसारः............।' इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तं - 'सविकल्पतया मायामयम्' इति । एवमपि परमार्थतो यथायोगम् एतदिच्छाज्ञानक्रियात्मकम् इत्युक्तम् 'इच्छादि- वस्तुतः' इति । यथा खलु पतिरिच्छाद्याभिः शक्ति- भिर्विश्वं निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्य- न्तःकरणत्रयेण पशुरित्याशयः, विकल्पादौ हि प्रायः क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्रया- धीनमेव इत्येवमुक्तम् ॥२१४॥ पं० ३ ग० पु० एतच्च नात्र मनोमात्रमिति पाठः । पं० ५ क० ग० पु० तश्चेति पाठः । पं० ११ क० पु० निर्मियते इति पाठः । पं० १३ ख० पु० क्षेत्रज्ञस्य हीति पाठः ।

२३८ श्रीतन्त्रालोकः । अत आह अभिमानेन संकल्पा- ध्यवसायक्रमेण यः । शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥२१५॥ इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभि- मन्य बाह्यमेषणीयादि तद्तद्रूपतया संकल्प्य तदेव च अन्यापोहेन निश्चित्य 'अहमेव सर्वत्र स्थितः' 'सर्वं वा मय्येव स्थितम्' इत्येवमात्मा यः शाक्तो वैकल्पिकः प्रत्यय उदेति स यद्यपि विकल्पानां भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां विकल्पानाम् अभ्यासबलेन यथायथं सातिशयवि- कल्पजननात् अन्ते स्फुटतमार्थसाक्षात्कारात्मा निर्विकल्पकः शाम्भवः समावेशः स्यात् इत्यर्थः । यद्वक्ष्यति 'अनन्तराह्णिकोक्तेऽस्मिन् स्वभावे पारमेश्वरे । प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥' पं० ६ क० पु० अहङ्कारग्रहणकर्तृत्वेति पाठः । पं० ७ ख० पु० तदेवान्यापोहेति पाठः । पं० ६ क० पु० स्थितः एवं च मय्येवेति पाठः ।

श्लोक २१६ ] प्रथमाह्निकम् । २३६ इत्याद्युपक्रम्य 'ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता । संविद्भ्येति विमलामविकल्पस्वरूपताम् ॥' इति । अत एव हि शाक्तोपायस्य उपायोपायत्व- मुक्तम् ॥२१५॥ ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वार- सिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते ? इत्याशङ्क्याह पशोर्वै याविकल्पा भू- र्दशा सा शाम्भवी परम् । अपूर्णा मातृदौरात्म्या- त्तदपाये विकस्वरा ॥२१६॥ सा इति अविकल्पा भूः । यदुक्तं 'तस्यां दशायामैश्वरो भावः पशोरपि।' इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ? इत्याह परमपूर्णा इति । संकुचितस्य हि मातुः पं० ४ क० पु० शाक्तस्य उपायस्येति असमस्तः पाठः । ग० पु० शाक्तस्यो- पायोपायत्वमिति । पं० १० क० पु० पशोर्यैवाविकल्पेति पाठः ।

२४० श्रीतन्त्रालोकः । संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य दुरात्मनः साक्षात् शाम्भवत्वं भवेत् इति भावः, अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशा- लिनी भवेत् इत्यर्थः, तेन संकुचितज्ञत्वकर्तृत्वाद्यप- हस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनाथंम् अवश्यो- पादेयोऽयम् उपदेशादियत्नः इति सिद्धम् ॥२१६॥ तदेव प्रकृते योजयति एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने । यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनिर्तितः ॥२१७॥ तथा संकोचसंभार- विलायनपरस्य तु । सा यथेष्टान्तराभास- कारिणी शक्तिरुज्ज्वला ॥२१८॥ पं० २ क० पु० साक्षाच्छाम्भुत्वं भवेदिति भावः । पं० ११ ख० पु० यस्यां स्फुटमिति पाठः । पं० १४ ख० पु० विज्ञापनपरस्येति पाठः ।

श्लोक २१६ ] प्रथमाह्निकम् । २४१ इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदौ- रात्म्यात् ते संकुचित एव, इति अत्रापि उपदे- शादियत्नेन अवश्यं भाव्यं, येन सर्वस्य तथा संकोचविलायनपरतया सा शाक्ती भूः उज्ज्वला विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः प्रमात्रैकात्म्यस्वभावम् आभासं करोति – परप्रमात्रे- करूपतया स्फुरति इत्यर्थः ॥२१७॥२१८॥ ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते । ननु वैकल्पिकी किं धी- राणवे नास्ति तत्र सा । अन्योपायात्र तूच्चार- रहितत्वं न्यरूपयत् ॥२१६॥ तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः । पं० ५ ख० पु० विलापनपरतयेति पाठः । पं० ७ ख० पु० परप्रमात्रैकात्म्यरूपेति पाठः । पं० १३ क० पु० यत्र सा इति पाठः । पं० १६ क० पु० अत्र इत्यादिनेति पाठः । ३१