तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
२२६ श्रीतन्त्रालोकः । धर्मिणं शक्तिमन्तं परमेश्वरम् अभेदेन अधिशेरते - तद्रूपतया स्फुरन्ति इत्यर्थः ॥१९८॥१९६॥२००॥ ननु एकस्यापि नानाविधधर्मयोगिनोऽर्थस्य आ- खण्ड्येनैव प्रतीतिगोचरीभावः संभवति न तु इतरथा इति किमेतदुक्तम् ? इत्याशङ्काशान्त्यर्थम् एतदेव संवादयति ऊचिवानत एव श्री- विद्याधिपतिरादरात् । तदेव पठति त्वत्स्वरूपमविकल्पमत्तजा कल्पने न विषयीकरोति चेत् । अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥२०१॥ यदि नाम ऐन्द्रियकी निर्विकल्पप्रतीतिः अवि- कल्पम् - अविभागमपि त्वत्स्वरूपं, कल्पने नियत- पं० ३ क० पु० अखण्डेनैवेति पाठः । पं० ११ क० पु० कल्पनमिति पाठः । पं० १३ क० पु० बभूवुरिति पाठः । पं० १४ क० पु० त्वत्स्वरूपकल्पने इति समस्तः पाठः ।
श्लोक २०२ ] प्रथमाह्निकम् । २२७ तत्तद्धर्मविषयत्वेन भेदनमवलम्ब्य न विषयीकुर्यात् तत् स्फुटा-नियतैकतरधर्मावभासमुखेन धर्मिस्वरू- पावभासमय्यः, अन्तः-अस्फुटाकारत्वेन, उल्लिखिताः चित्राः-अवान्तरनानाधर्मविषयाः संविदो यासां ताः, एवंविधाः अनुभूतयः-अनुभवा, नो भवेयुः न उत्पद्येरन् इत्यर्थः । यदि हि सर्वधर्माक्रान्त्या धर्मि- णि सर्वे अनुभवाः स्युः तत् परिव्राडित्यादौ एकै- कस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्, अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियत- धर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु इतरथा इति युक्तम्-एकतरशक्त्यवभासमुखेन अन- न्तशक्तावपि परमेश्वरेऽवभासः इति ॥२०१॥ एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि इत्याह तदुक्तं श्रीमतङ्गादौ स्वशक्ति किरणात्मकम् । अथ पत्युरधिष्ठान- मित्याद्युक्तं विशेषणैः ॥२०२॥ पं० ११ क० पु० शक्त्यवभासेनानन्तशक्ताविति पाठः ।
३२८ श्रीतन्त्रालोकः। तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् । काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥ प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥२०४॥ स्वशक्तिकिरणात्मकं यद्वस्तु तत् 'पत्युरधिष्ठानम्' इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति संबन्धः। 'अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम्।' इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभाव- दर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि दर्शयितुं 'तस्याम्' इत्यादि 'उपचर्यते' इत्यन्तमागमः पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणा रश्मयः पं० १२ क० पु० मौलः, ग० पु० पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थ- मिति पाठः।
श्लोक २०४ ] प्रथमाह्निकम् २२६ तदात्मकं, पत्युः – शक्तिमतः, अधिष्ठानम् – अभिव्य- क्तिस्थानम् इत्यर्थः। शक्तिरेव तज्ज्ञतावुपायः, यदुक्तं 'यथालोकेन दीपस्य किरणैर्भास्करस्य वा। ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥' इति । अत एव तस्यां शक्तौ, दिवि द्योतमानायां, सोऽपि सुष्ठु दीप्तात्मा – महाप्रकाशवपुः, अत एव निष्कम्पः – स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्र- काशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्, अत एव च अचलया – महाप्रकाशमय्या प्रशस्यया मूर्त्या युक्तः, यतश्च तस्यामेवं-विधायाम् अयमेवं- विधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः, अत एव सूक्ष्मा परिच्छेत्तुमशक्या – परप्रमात्रे- करूपत्वात्, अत एव वस्तुमात्रे पारमार्थिके रूपे अतिशयेन लालसा – तत्स्फुरत्तात्मिका इति यावत् । एवं च प्रकर्षेण निःसंस्कारतया ध्वस्तानि बाह्यावरणानि यया सा प्रशान्तभेदा इत्यर्थः, अत एव शान्ता चिन्मात्ररूपा इत्यर्थः । एवमपि पं० ५ ख० ग० पु० शक्तौ विद्योतमानायामिति पाठः । पं० ८ ख० पु० सर्वमिदमेतदिति पाठः । पं० ९ क० पु० अत एवाचञ्चलयेति पाठः ।
२३० श्रीतन्त्रालोकः सर्वदिक्षु भवा स्थावरजङ्गमात्मकजगद्रूपत्वात् चित्र- स्वभावा इति यावत् , तदपि अमृतात्मिका नित्या, अत एव आद्यन्तोपरता, अनित्ये हि आद्यन्तौ भवतः, अत एव साध्वी - अनित्यत्वादिदोषकालुष्य- रहिता इत्यर्थः, एवं-विधा च एषा शक्तिमतः परमे- श्वरस्य मूर्तित्वेन उपचर्यते - गौण्या वृत्त्या तद्रूपतया अभिधीयत इत्यर्थः ॥२०२॥२०३॥२०४॥ ननु उपचारे मुख्यार्थबाधादिना त्रितयेन अवश्य- भाव्यं, तच्चात्र किमस्ति न वा ? इत्याशङ्क्याह तथोपचारस्यात्रैत- न्निमित्तं सप्रयोजनम् । निमित्तम् इति कारणम्, तद्वशादेव हि उपचारो भवेत् इति भावः । तत्र शक्तेः शक्तिमद्रूपत्वाभिधाने बाधितस्तावत् मुख्योऽर्थः, संबन्धश्च तयोरुपायो- पेयभावः ॥ तदाह तन्मुखा स्फुटता धर्मि- ण्याशु तन्मयतास्थितिः ॥१०५॥ पं० १३ क० पु० शक्तिमद्रूपत्वाभिमाने इति, ख० पु० रूपत्वाभिमानेनेति पाठः ।
श्लोक २०७ ] प्रथमाह्निकम् । २३१ त एव धर्माः शक्त्याख्या- स्तैस्तैरुचितरूपकैः ॥ आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥२०६॥ सा शक्तिः मुखम् उपायो यस्याः, स्फुटता नाम किमुच्यते इत्युक्तम् 'आशु तन्मयतास्थितिः' इति, आसादितायां शक्तावासादित एव शिवः इत्याशयः। एतदेव च मुख्यं प्रयोजनम् ॥२०६॥ अत एवाह तत्र काचित्पुनः शक्ति- रनन्ता वा मिताश्च वा । आक्षिपेद्धवतासत्त्व- न्यायाद्दूरान्तिकत्वतः ॥२०७॥ अनन्ता मिताश्च इत्यर्थाच्छक्तीः । धवतासत्त्व- न्यायात् इति - धवता हि अधवव्यावृत्ताः स्वव्य-
पं० ६ ख० पु० तद्युक्तमिति पाठः । पं० १२ ख० पु० आक्षिपेद्द्भ्रुवतेति, अन्तिकात्तत इति च पाठः । ग० पु० अन्तिकास्तत इति पाठः । पं० १४ ख० पु० ध्रुवतासत्त्वेति पाठः ।
प्रकाशत्वं चिदात्मता ।
२३२ श्रीतन्त्रालोकः । क्तीरेव आक्षिपति इत्यस्याः परिमितवस्त्वाक्षेपि- त्वम्, सत्त्वं पुनर्धवाधवात्मनि सर्वत्रैव अस्ति इत्यस्यानन्तवस्त्वाक्षेपित्वम् अत एव च मितवस्वा- क्षेपिण्यो दूरा - अव्यापकत्वेन सर्वत्र असन्निहि- तत्वात्, अनन्तवस्त्वाक्षेपिण्यस्तु आसन्ना - व्यापक- त्वात् सर्वत्रैव संनिहितत्वात् ॥२०७॥ एतदेव प्रकृते योजयति तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता । भैरवत्वं विश्वशक्ती- राक्षिपेद्व्यापकत्वतः ॥२०८॥ सदाशिवादयस्तूर्ध्व- व्याप्त्यभावादधोजुषः । शक्तीः समाक्षिपेयुस्त- दुपासान्तिकदूरतः ॥२०९॥ पं० ३ क० पु० इत्यस्यानन्तरवस्त्विति पाठः । पं० ४ ख० पु० ध्रुवा अव्यापकेति पाठः । पं० ५ क० पु० क्षेपिण्यस्त्वसत्त्वव्यापकेति, ख० पु० क्षेपिण्यस्तु सत्त्वाव्यापकेति पाठः ।
श्लोक २१० ] । प्रथमाह्निकम् । २३३ अधोजुषः इति-ईश्वरादिकाः शक्तीः, तदिति पूर्णस्वभावत्वसदाशिवत्वादेः व्यापकत्वाव्यापकत्वस्व- भावत्वाद्धेतोः । पूर्णस्वभावे हि रूपे उपासन्नाः पूर्ण- मेव भुक्तिमुक्तिलक्षणं फलम् आसादयन्ति, अपूर्ण- स्वभावे पुनरपूर्णत्वमेव इत्युक्तम् 'उपासान्तिकदूरतः' इति । अत एव च दर्शनभेदः ॥२०८॥२०९॥ ननु विकल्प एव तत्कल्पनाबलान्नियतः सामा- न्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मिणि अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात् न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे शाम्भवे इति कथमिवैतदुक्तम् ? इत्याशङ्क्याह इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः । इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥२१०॥ पं० २ क० पु० शिवत्वादेः व्यापकस्वभावत्वाद्धेतोरिति पाठः । पं० १२ क० पु० शाक्ताख्ये इति पाठः । पं० १५ क० पु० योगाविकल्पनम् इति पाठः । ३०
प्रकाशे तन्मुखेनैव
२३४ श्रीतन्त्रालोकः । इह इति शाम्भवावसरे, तस्मात् इति विकल्पात्, प्रतिपक्षे हि निरूपिते सुष्ठु पक्षनिरूपणं कृतं स्यात् इति-नैतदप्रस्तुतं किंचिदभिहितमिति भावः । विकल्पे हि क्रमेण अखण्डवस्त्ववभासो भवति अविकल्पे पुनरक्रमेण इति-प्राप्ताविकल्पस्थितिर्यत्र कुत्रचिद्ववधत्ते तत्रास्य तदैव शिवतापत्तिः स्यात् ॥२१०॥ तदाह अविकल्पपथारूढो येन येन पथा विशेत् । धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥२११॥ एतदेव उदाहरति निर्मले हृदये प्राग्य- स्फुरद्भूम्यंशभासिनि । प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥२१२॥
पं० ५ क० ग० पु प्राप्तविकल्पस्थितिरिति पाठः । पं० १० ग० पु० पथा व्रजेदिति पाठः । पं० १४ क० ख० पु० प्राग्रस्फुरदिति पाठः ।
श्लोक २१३] प्रथमाह्निकम् । २३५ इह खलु निर्मले हृदये पूर्णाहंविमर्शात्मनि, अत एव प्राग्र्यम् - आखण्ड्येन प्रकृष्टं कृत्वा, स्फुरद्भूमि- लक्षणः तत्त्वान्तरापेक्षया अंशः - षट्त्रिंशो भागः, तदाभासात्मनि प्रकाशे तद्भूम्यंशात्मनैव उपायेन संवित्परशिवात्मता - तदावेशः स्यादित्यर्थः ॥२१२॥ एतदेव उपसंहरति एवं परेच्छाशक्त्यंश- सदुपायमिमं विदुः । शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥२१३॥ परा भट्टारिकारूपा च असौ इच्छाशक्तिः, तदा- त्मकश्च असौ अंशः '...........परं त्विच्छात्मकं मतम् ।' इत्याद्युक्तेः शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासौ उपायः तं, सुमत्यन्तेनिवासिनः इति - श्रीसोमदेवा- पं० २ क० ख० पु० प्राग्रमाखण्ड्येनेति पाठः । पं० ४ क० पु० प्रकाशेन भूम्यंशात्मनैवेति पाठः । पं० ६ क० पु० तदेवोपपादयतीति पाठः ।
२३६ श्रीतन्त्रालोकः । दयः । श्रीसुमतिनाथस्य श्रीसोमदेवः शिष्यः, तस्य श्रीशम्भुनाथः इति हि आयातिक्रमविदः । यद्व- क्ष्यति ‘श्रीसोमतः सकलवित्किल शम्भुनाथः..............।’ इति । यत्तु ‘कश्चिद्दक्षिणभूमिपीठवसतिः श्रीमान्विभुर्भैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः । लोकेऽभूत्सुमतिस्ततः समुद्भूत्तस्यैव शिष्याग्रणीः श्रीमाञ्छम्भुरिति प्रसिद्धिमगमज्जालन्धरात्पीठतः ॥’ इत्यन्यत्रोक्तं, तत्परमगुर्वभिप्रायेणैव योज्यम् । यद्वा ‘यावानस्य हि सन्तानस्तावोनेको गुरुर्मतः ।’ इत्यादिवक्ष्यमाणनीत्यवलम्बनेन एतद्व्याख्येयम् । एवं ‘इति श्रीसुमतिप्रज्ञाचन्द्रिकापास्ततामसः । श्रीशम्भुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥’ इत्यादावपि ज्ञेयम् ॥२१३॥ इदानीं शाम्भवमुपायं प्रतिपाद्य, शाक्तमप्याह शाक्तोऽथ भण्यते चेतो- धी-मनोहंकृति स्फुटम् ।
पं० ११ क० पु० यावान्यस्येति पाठः । पं० १३ ग० पु० चन्द्रिकाशान्ततामस इति पाठः ।
श्लोक २१४ ] प्रथमाह्निकम् । २३७ सविकल्पतया माया- मयमिच्छादि वस्तुतः ॥२१४॥ एतच्चात्र न मनोमात्रम् इत्याह धीमनोऽहंकृति इति । अत एव स्फुटं - साक्षादभिव्यक्तस्वरूपम् इत्यर्थः । ततश्च 'सर्वे विकल्पः संसारः............।' इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तं - 'सविकल्पतया मायामयम्' इति । एवमपि परमार्थतो यथायोगम् एतदिच्छाज्ञानक्रियात्मकम् इत्युक्तम् 'इच्छादि- वस्तुतः' इति । यथा खलु पतिरिच्छाद्याभिः शक्ति- भिर्विश्वं निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्य- न्तःकरणत्रयेण पशुरित्याशयः, विकल्पादौ हि प्रायः क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्रया- धीनमेव इत्येवमुक्तम् ॥२१४॥ पं० ३ ग० पु० एतच्च नात्र मनोमात्रमिति पाठः । पं० ५ क० ग० पु० तश्चेति पाठः । पं० ११ क० पु० निर्मियते इति पाठः । पं० १३ ख० पु० क्षेत्रज्ञस्य हीति पाठः ।
२३८ श्रीतन्त्रालोकः । अत आह अभिमानेन संकल्पा- ध्यवसायक्रमेण यः । शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥२१५॥ इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभि- मन्य बाह्यमेषणीयादि तद्तद्रूपतया संकल्प्य तदेव च अन्यापोहेन निश्चित्य 'अहमेव सर्वत्र स्थितः' 'सर्वं वा मय्येव स्थितम्' इत्येवमात्मा यः शाक्तो वैकल्पिकः प्रत्यय उदेति स यद्यपि विकल्पानां भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां विकल्पानाम् अभ्यासबलेन यथायथं सातिशयवि- कल्पजननात् अन्ते स्फुटतमार्थसाक्षात्कारात्मा निर्विकल्पकः शाम्भवः समावेशः स्यात् इत्यर्थः । यद्वक्ष्यति 'अनन्तराह्णिकोक्तेऽस्मिन् स्वभावे पारमेश्वरे । प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥' पं० ६ क० पु० अहङ्कारग्रहणकर्तृत्वेति पाठः । पं० ७ ख० पु० तदेवान्यापोहेति पाठः । पं० ६ क० पु० स्थितः एवं च मय्येवेति पाठः ।
श्लोक २१६ ] प्रथमाह्निकम् । २३६ इत्याद्युपक्रम्य 'ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता । संविद्भ्येति विमलामविकल्पस्वरूपताम् ॥' इति । अत एव हि शाक्तोपायस्य उपायोपायत्व- मुक्तम् ॥२१५॥ ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वार- सिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते ? इत्याशङ्क्याह पशोर्वै याविकल्पा भू- र्दशा सा शाम्भवी परम् । अपूर्णा मातृदौरात्म्या- त्तदपाये विकस्वरा ॥२१६॥ सा इति अविकल्पा भूः । यदुक्तं 'तस्यां दशायामैश्वरो भावः पशोरपि।' इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ? इत्याह परमपूर्णा इति । संकुचितस्य हि मातुः पं० ४ क० पु० शाक्तस्य उपायस्येति असमस्तः पाठः । ग० पु० शाक्तस्यो- पायोपायत्वमिति । पं० १० क० पु० पशोर्यैवाविकल्पेति पाठः ।
२४० श्रीतन्त्रालोकः । संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य दुरात्मनः साक्षात् शाम्भवत्वं भवेत् इति भावः, अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशा- लिनी भवेत् इत्यर्थः, तेन संकुचितज्ञत्वकर्तृत्वाद्यप- हस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनाथंम् अवश्यो- पादेयोऽयम् उपदेशादियत्नः इति सिद्धम् ॥२१६॥ तदेव प्रकृते योजयति एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने । यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनिर्तितः ॥२१७॥ तथा संकोचसंभार- विलायनपरस्य तु । सा यथेष्टान्तराभास- कारिणी शक्तिरुज्ज्वला ॥२१८॥ पं० २ क० पु० साक्षाच्छाम्भुत्वं भवेदिति भावः । पं० ११ ख० पु० यस्यां स्फुटमिति पाठः । पं० १४ ख० पु० विज्ञापनपरस्येति पाठः ।
श्लोक २१६ ] प्रथमाह्निकम् । २४१ इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदौ- रात्म्यात् ते संकुचित एव, इति अत्रापि उपदे- शादियत्नेन अवश्यं भाव्यं, येन सर्वस्य तथा संकोचविलायनपरतया सा शाक्ती भूः उज्ज्वला विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः प्रमात्रैकात्म्यस्वभावम् आभासं करोति – परप्रमात्रे- करूपतया स्फुरति इत्यर्थः ॥२१७॥२१८॥ ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते । ननु वैकल्पिकी किं धी- राणवे नास्ति तत्र सा । अन्योपायात्र तूच्चार- रहितत्वं न्यरूपयत् ॥२१६॥ तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः । पं० ५ ख० पु० विलापनपरतयेति पाठः । पं० ७ ख० पु० परप्रमात्रैकात्म्यरूपेति पाठः । पं० १३ क० पु० यत्र सा इति पाठः । पं० १६ क० पु० अत्र इत्यादिनेति पाठः । ३१
२४१ श्रीतन्त्रालोकः । आणवे हि उच्चारादि बाह्यमेव अवलम्ब्य वैकल्पि- की बुद्धिरस्ति, अत्र शाक्ते पुनस्तद्रहितत्वेन इति विशेषः, अत एव चेतसैव इति सावधारणं चिन्तन- मात्रम् अत्रोक्तम् ॥२१६॥ नन्वत्र किमुच्चारमात्रेणैव रहितत्वम्, उत करणा- दिभिरपि ? इत्याह उच्चारशब्देनात्रोक्ता बहन्तेन तदादयः । शक्त्युपाये न सन्त्येते भेदाभेदौ हि शाक्तता ॥२२०॥ बहन्तेन इति बहुवचनादाद्यर्थो हि लभ्यते इति भावः, तेन उच्चारैः रहितम् इति विग्रहो दर्शयि- तव्यः । एते इति उच्चारकरणादयः । न सन्ति इति भेदैकनिष्ठत्वादेषाम् । अत्र हि बाह्योच्चारादिरहित- त्वात् अभेदस्य विकल्पात्मकत्वाच्च भेदस्यापि सं- भवः इत्युभयमयत्वम्, तदाह 'भेदाभेदौ हि शाक्तता' इति, आणवे पुनर्भेदस्यैव प्राधान्यम् ॥२२०॥ पं० ५ क० पु० उच्चारणामात्रेणैवेति पाठः । पं० ८ क० पु० बहन्तेनैतदादय इति पाठः । पं० १० क० पु० भेदाभेदौ चेति पाठः ।
श्लोक २२२] प्रथमाह्निकम् । २४३ तदाह अणूनां स्फुटो भेद- स्तदुपाय इहाणवः । विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥२२१॥ पर्यन्ते निर्विकल्पकः इत्यनेन अस्यापि शाम्भव एव विश्रान्तिरिति दर्शितम् ॥२२१॥ ननु ‘सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधो जुषः । शक्तौ समाविशेयुः’...................२०८ इत्याद्युक्तयुक्त्या बुद्ध्यादीनां शिवे व्याप्तिरेव नास्ति इति कथमेषां तद्वाप्तावुपायत्वमपि उक्तम् ? इत्याह ननु धी-मानसाहंकृ- त्पुमांसो व्याप्नुयुः शिवम् । नाधोवर्तितया तेन कथितं कथमीदृशम् ॥२२२॥ एतदेव समाधत्ते पं० १२ ग० पु० व्याप्नुयुश्चिरमिति पाठः ।
२४४ श्रीतन्त्रालोकः । उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः । स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥२२३॥ वस्तुतो हि शिव एव अस्माकम् अद्वैतवादिनां मते 'शिव एव गृहीतपशुभावः ।' इत्याद्युक्तयुक्त्या स्वस्वातन्य्रमाहात्म्यादात्मानं प्र- च्छाद्य तथाविधो बुद्ध्यादिरूपः परिमितः प्रमाता स्यात्, स एव पुनः उद्वेष्टनयुक्त्या बुद्ध्याद्युपाया- साधनक्रमेणैव तथा शिव एव स्वप्रकाशो भवति इति शिवेऽपि बुद्ध्यादयो व्याप्रियेरन् नो वा इति न कश्चिद्दोषः ॥२२३॥ न केवलमेतदद्वैतशास्त्रेषु उक्तं यावत् द्वैतशास्त्रेष्वपि इत्याह द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् । अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥२२४॥ पं० ६ ग० बुद्ध्याद्युपायसाधनेति पाठः । पं० १७ क० पु० प्रभोर्व्याप्तुरिति पाठः ।
श्लोक २२६ ] प्रथमाह्निकम् । २४५ येन बुद्धि-मनोभूमा- वपि भाति परं पदम् ॥२२५॥ यदुक्तं तत्र 'इत्थं गुणवतस्तस्मात्तत्त्वात्तत्त्वमनिन्दितम् । स्फुरद्रश्मिसहस्राढ्यमधस्ताद्व्यापकं महत् ॥' इति । एतदेव निगमयति 'अधोव्याप्तुः' इत्या- दिना । स इति बुद्ध्यादिरूपः, येन इति बुद्ध्या- दीनां शिवप्रकाशैकरूपत्वेन हेतुना ॥२२४॥२२५॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति । प्रयात एव तद्रूढिं विना नैव हि किंचन ॥२२६॥ प्रतिः आभिमुख्ये, तेन एतदुभयमपि परप्रका- शात्मनि शाम्भवावेशे एव विश्रान्तम् इत्यर्थः । यद्धि तत्र न विश्रान्तं तदप्रकाशमानत्वात् न किंचित् स्यात् इत्युक्तं 'तद्रूढिं विना नैव हि किंचन' पं० ६ क० पु० प्रभोर्व्याप्तुरिति पाठः । पं० १२ क० पु० विश्रान्तिरिति इति पाठः ।