तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह पृष्ठ रिक्त (blank) है।
Digitized by the Internet Archive in 2007 with funding from Microsoft Corporation http://www.archive.org/details/tantralokaofabhi01abhiuoft
I THE KASHMIR SERIES OF TEXTS AND STUDIES. 304C
(रिक्त पृष्ठ / Blank page)
Kashmir Series of Texts and Studies. No. XXIII THE TANTRĀLOKA OF ABHINAVA GUPTA With Commentary by RĀJĀNAKA JAYARATHA Edited with notes by MAHĀMAHOPĀDHYĀYA PANDIT MUKUND RĀM SHĀSTRĪ, Officer-in-Charge, Research Department, JAMMU AND KASHMIR STATE, SRINAGAR. Published under the authority of the Government of His Highness Lieut.-General Mahārāja SIR PRATĀP SINGH SĀHIB BAHĀDUR, G.C.S.I., G.C.I.E., K.G.C.B.E., LL.D., Mahārāja of Jammu and Kashmir State. VOLUME I Allahabad : PRINTED AT THE INDIAN PRESS. 1918.
श्रीमच्छ्रीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गा लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः । कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान् देशेऽप्यस्मिन्नदृष्टो घुस्त्रणविसरवत्स्तान्मुदे सज्जनानाम् ॥१॥ तरत तरसा संसारान्धिं विधत्त परे पदे पदमविचलं नित्यालोकप्रमोदसुनिर्भरे । विमृशत शिवादिष्टाह्वैतावबोधसुधारसं प्रसभविलसत्सद्युक्तक्रान्तःसमुत्प्लवदायिनम् ॥२॥
ॐ काश्मीर-संस्कृतग्रन्थावलिः । ग्रन्थाङ्कः २३ श्रीतन्त्रालोकः । श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्ताचार्यविरचितः । श्रीमन्महामाहेश्वराचार्य-श्रीजयरथकृतविवेकाभिख्यटीकोपेतः श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज-श्रीप्रतापसिंहवरप्रतिष्ठापिते प्रत्नविद्याप्रकाश- ( रिसर्च ) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य श्रीप्रयागपत्तने इंडियनप्रेस-नाम्नि मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः । ( प्रथमो भागः ) संवत् १९७५ खैस्ताब्दः १९१८ काश्मीर-श्रीनगर । ( अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति )
(ALL RIGHTS RESERVED.) PRINTED BY APURVA KRISHNA BOSE, AT THE INDIAN PRESS, ALLAHABAD. PUBLISHED BY THE RESEARCH DEPARTMENT, JAMMU AND KASHMIR STATE SRINAGAR.
अथ श्री तन्त्रालोकः श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचितः । श्रीमदाचार्यवर्यजयरथविरचितविवेकाभिख्यव्याख्यानोपेतः । प्रथममाह्निकम् । यस्मादेषणविक्रिया यदुदिता ह्यानन्दचिद्भूमयो यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम् । तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे ॥१॥ पं० १ ख० पु० यस्सादीषणवत्क्रिया यदुचितास्तास्ता जगद्व्यक्तय इति, ग० पु० ... ... ... यदुचितास्तत्तप्रथाशक्तयो यद्धाम त्रिकतत्त्वमद्वयमयं मायाविमोहोत्थितम् । यन्नैवंविधतां कदाप्युपगतं यद्वा यदेवंविधं ध्वान्तं स्वान्तनिशान्तसंस्थितमपाकुर्यात्समन्तान्मम ॥ इति पाठः ।
२ श्रीतन्त्रालोकः । देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः । यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये ॥२॥ मूर्न्युत्तंस इव क्ष्मापैः सर्वैर्यस्यानुशासनम् । हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये ॥३॥ न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं वाक्कौशलं च न निदर्शयितुं प्रवृत्तः । किं त्वेतदर्थपरिशीलनतो विकल्पः संस्कारवांश्च समियादिति वाञ्छितं नः ॥४॥ पं० १ ग० पु० एवास्मि यत्प्रसत्तीक्षणेक्षणात् । श्रीमत्कल्याणराजानं वन्दे तं जनकं गुरुम् ॥ इति पाठः । पं० २ ख० पु० श्रिये इति पाठः । एतच्छ्लोकानन्तरं ग० पु० श्लोकद्वयमाधिक्येन दृश्यते यथा शिवशासनागमरहस्यकोविदै- र्गुरुभिर्गभीरहृदयैर्दयोदयैः । करुणारुणा विदधिरे दृशस्तथा मयि दीनबन्धुभिरमोघभाषितैः ॥ यथा रहस्यसर्वस्वं मानसे मे शिवोदितम् । भाववासनया स्थानं कर्कशेऽप्याशु शिश्रिये ॥ युग्मम् इति । पं० ३ क० पु० मूर्निं तंस इव, ख० पु० उत्तंसमिवेति नपुंसकनिर्दिष्टः पाठः । पं० ५ ग० माप्तुमनासपूर्वमिति पाठः । पं० ६ ग० पु० स्वं कौशलं प्रथयितुं विबुधाः प्रवृत्ता, इति पाठः । पं० ८ ग० पु० वाञ्छितं मे इति पाठः ।
श्लो० १ ] प्रथमाह्निकम् । ३ यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे । संदिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः ॥५॥ तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम् । साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः ॥६॥ अत्र मद्भागशक्तापि यन्निर्यन्त्रणमुल्लसेत् । तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् ॥७॥ इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्य- माणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्र- कारः परामृशति विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः । तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥१॥ पं० २ ख० पु० ब्रूयादिति पाठः ।
४ श्रीतन्त्रालोकः । 'मम' आत्मनो 'हृदयं' जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्य- क्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यक- लिततया 'स्फुरतात्' कालत्रयावच्छेदशून्यत्वेन विकसतात्-इत्यर्थः । तच्च कीदृक् ?-इत्युक्तं 'तदुभय' इति । 'तत्' आद्यार्धव्याख्यास्यमानं च तत् 'उभयं' तस्य 'यामलं' ' तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।' इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा संघट्टः, ततः 'स्फुरितभावः' परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ 'अत एव विसर्गोऽयमव्यक्तह-कलात्मकः ।' १ षण्णामानन्दभूमीनां य एकोऽनुसंधाता उदयास्तमयविहीनोऽन्तर्विश्रान्तिपर- मार्थरूपो जगदानन्दः । वक्ष्यति च ग्रन्थकार एव उत्तरत्र यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् । यदनाहतसंवित्तिपरमामृतबृंहितम् ॥ यत्रास्ति भावनादीनां न मुख्या कापि संगतिः । तदेतज्जगदानन्दमस्मभ्यं शंभुरुचिवान् ॥ इति । पं० ६ ग० पु० सामरस्यरूपः इति पाठः ।
श्लो० १ ] प्रथमाह्निकम् । ५ इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धार्धरूपो ‘विसर्गो’ बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तत्; अत एवाह ‘अनुत्तरामृतकुलम्’ इति । ‘अनुत्तरं’ कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं च तत् ‘यत्रास्ति न भयं किंचिन्न जरा व्याधयोऽपि वा । न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम् ॥’ इत्यकालकलितत्वात् अविद्यमानं मृतं यत्र तत् ‘कुलं’ शरीरं यस्य तत् अमाख्यकलास्वरूपम्—इत्यर्थः । तदुक्तम् ‘कला सप्तदशी यासावमृताकाररूपिणी ।’ इति । किं च तदुभयम् ?—इत्याह ‘जननी जनकश्च’ इति । कीदृशी जननी ? ‘विमलकलाश्रया’ इति । विगता ‘मला’ अवच्छेदका यस्यास्तादृशी या ‘कला’ परविमर्शैकस्वभावकर्तृतालक्षणा, सा ‘आश्रय’ आल- म्बनं स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्ति- रूपा—इत्यर्थः । पं० १ क० पु० हकारार्धरूप इति पाठः । पं० २ क० पु० यत्र तत् इति पाठः ।
६ श्रीतन्त्रालोकः । अत एव 'अभिनवायाम्' आद्यायां 'सृष्टौ' शुद्धा- ध्वमार्गे 'शुद्धेऽध्वनि शिवः कर्ता................।' इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् 'महः' पारिपूर्ण्यलक्षणं तेजःस्फारो यस्याः सा-इत्युक्तम् । इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यात् आभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यति- रिक्तत्वेनेवजगत् आभासयति,-इत्यनन्यापेक्षिणः स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तम्, अविद्या- वासनादीनां भेदाभेदविकल्पोपहतत्वात् जगद्वैचित्र्य- निमित्तत्वाभिधानानुपपत्तेः; अत एव भगवतश्चिदा- द्यनन्तशक्तिसंभवेऽपि तत्स्फुरणमात्रत्वात् तासां तस्या एव प्राधान्यात् इहाभिधानम् । यद्वक्ष्यति 'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।' इति । जनकश्च कीदृक् ?-इत्युक्तं 'भरिततनुः' इति । 'भरिता' सर्वाकाङ्क्षासंक्षयात् पारिपूर्ण्येन
श्लो० १ ] प्रथमाह्निकम् । ७ पूरिता 'तनुः' स्वभावो यस्य सः, अनन्योन्मुखतया स्वतन्त्रः-इति यावत् । अत एव 'पञ्चभिः' चिदानन्दे- च्छाज्ञानक्रियात्मभिः 'मुखैः' '...................शैवी मुखमिहोच्यते ।' इत्युक्त्या शक्तिभिः 'गुप्ता' परिपूरिता प्रबन्धेना- नुवर्तमाना 'रुचिः' अभिलाषो विशेषानुपादानात् कृत्यपञ्चकविषयो यस्यासौ, सदैव पञ्चविधकृत्यकारी- इत्यर्थः । तदुक्तम् 'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥' इति । तदेवम् अत्र विसर्गप्रसरस्वभावत्वेन जग- द्वैचित्र्यबीजभूतं शिवशक्तिसंघट्टात्मकपरत्रिकशब्द- वाच्यम् अनाख्यात्मकं विघ्नौघप्रध्वंसाय परामृष्टम् । तदुक्तम् 'तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः । यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् ॥ पं० ७ क० पु० पञ्चकविशेष इति पाठः । पं० १५ क० पु० तत्रापि मर्त्यैरहितः स्वात्मशक्त्या महेश्वरः इति, ख० पु० तत्रापि शक्त्या रहितः इति मौलिकः पाठः प्रथमोपन्यस्त आसीत् इति संदृश्यते ।
८ श्रीतन्त्रालोकः। तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् । अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् ॥ भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् । हृत्स्पन्दोद्यत्परासारनिर्मामोर्म्यादि तन्मतम् ॥ एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविभागवत् ।' इति । अथ च 'हृदयं' 'हृदयं शक्तिसूत्रं तु ............।' इत्याद्युक्त्या श्रीसृष्टिकात्याद्यखिलशक्तिचक्रासूत्र- णेन प्रस्फुरद्रूपं श्रीकालसंकर्षणीधाम 'संस्फु- रतात्' तादात्म्येनैकः स्याम्—इत्यर्थः।तच्च कीदृशम्?— इत्युक्तम् 'अनुत्तरामृतकुलम्' इति । सृष्ट्यादीनाम- त्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् अत एव 'अमृतं' स्वात्मचमत्कारमात्रपरमार्थम्, अत एव च 'कुलं' पं० २ ख० पु० अनुत्तरविकासांशुजगदिति पाठः । पं० ३ ख० पु० वक्रादिभागेनेति पाठः । पं० ४ ख० पु० हृत्स्पन्दो दृक्परासारमूर्तिर्निर्मामतन्मयम्, इति पाठः । पं० ६ ख० पु० सृष्टिकालाद्यखिलशक्तिचक्रासूत्रेणेति पाठः । पं० ११ ख० पु० तदैकात्म्येन एक इति पाठः ।
श्लो० १ ] प्रथमाह्निकम् । ९ ‘कुलं पदमनामाख्यं....................।’ इत्यनाख्यरूपम्-इत्यर्थः । अन्यच्च कीदृक् ?—इत्या ह ‘तदुभय’ इति । तच्च तत् व्याख्यास्यमानं सृष्टिसंहा- रात्मकम् ‘उभयं’ तस्य ‘यामलं’ लोलीभावः, ततः ‘चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः।’ इति । तथा ‘प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः ।’ इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः सर्गस्तन्मयम् । परैव हि अनाख्या भगवती संवित् स्वस्वातंत्र्यात् स्वात्मनि सृष्ट्यादि अवभासयति विलाययति च—इत्यभिप्रायः । यदुक्तम् ‘यस्य नित्योदिता ह्येकाभासा कालक्षयंकरी । राजते हृदयाम्भोजविकासिगगनोदरे ॥ सृष्टिस्थित्युपसंहाररूपा तद्धरणे रता ।’ पं० १ ख० पु० कुलाकुलं पदमनामकमिति पाठः । पं० २ क० पु० इत्यनामा ख्यरूपमिति पाठः । पं० १० ख० पु० विलापयतीति पाठः । २
१० श्रीतन्त्रालोकः । इति । तच्छब्दपरामृष्टमुभयं व्याचष्टे 'जननी जनकश्च' इति । जनयति विश्वम्-इति 'जननी' परा पारमेश्वरी सृष्ट्यादिचक्राद्या, सा च शुद्धबोधमात्र- स्वभावत्वात् 'विमला' येयम् आदिभूता चान्द्रमसी 'कला' सा 'आश्रयः' आलम्बनं गतिर्यस्याः सा, सक- लजगदाप्यायकारिपरामृतमयी-इत्यर्थः । तदुक्तम् 'ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी । पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥' इति । तथा 'ऊर्ध्वे स्थिता चन्द्रकला च शान्ता पूर्णामृतानन्दरसेन देवी ।' इति । अत एव 'अभिनवायां' 'सदा सृष्टिविनोदाय............।' इत्यादीनीत्या सदा द्योतमानायां 'सृष्टौ' बहीरूप- तायां स्वातन्त्र्यलक्षणं 'महः' तेजो यस्याः सा-इत्यु- क्तम्। जनयति भावसंहारम्-इति 'जनकः' अभिरूपः पं० ३ ख० पु० पारमेश्वरी सृष्टिचक्रः सा चेति इयानेव पाठः । पं० १४ क० पु० सदा द्योतनायामिति, ख० ग० पु० सदातनयामिति पाठः ।
श्लो० १ ] प्रथमाह्निकम् । ११ परः प्रमाता, स च 'पञ्चानां' वामेश्यादिवाहशक्तीनां 'मुखैः' चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः 'येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते । स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ॥' इत्यादिनीत्या तत्तद्विषयाहरणेन 'गुप्ता' स्वा- वष्टम्भबलेन परिरक्षिता 'रुचिः' दीप्तिर्यस्यासौ, नि- खिलभावग्रसिष्णुतया समुद्दीपितपरप्रमातृभावः- इत्यर्थः । अत एव 'भरिततनुः' तत्तद्भावसंचर्वणेन निराकाङ्क्षतोत्पादात् स्वात्ममात्रविश्रान्त्या पूर्णः- इत्यर्थः । तदेवम् अत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूप- तामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमा- क्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परा- मृष्टा,-इत्युक्तं स्यात् । यदुक्तमस्मत्परमेष्ठिगुरुभिः 'क्रमत्रयसमाश्रयव्यतिकरेण या संततं क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः । क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते करोमि हृदि तामहं भगवतीं परां संविदम् ॥' पं० १ ख० पु० वामेशादिवाहनशक्तीनामिति पाठः । पं० १३ क० पु० अस्मद्गुरुभिरिति पाठः ।
१२ श्रीतन्त्रालोकः । इति । अथ च 'हृदयं' निजबलसमुद्भूतिलक्षणं तत्त्वं विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण 'स्फुरतात्' विकसतात्—इत्यर्थः । तच्च कीदृक् ? 'तदुभयं' इति । तत् आद्यार्धव्याख्यास्यमानं माता- पितृलक्षणम् 'उभयं' तस्य यत् 'यामलम्' आद्यया- गाधिरूढं मिथुनं, तस्य परस्परोन्मुख्येन चमत्कार- तारतम्ययोगात् 'स्फुरितः' सोल्लासो योऽसौ 'भावः' आशयविशेषः, तेन यो 'विसर्गः' क्षेपः कुण्डगोला- ख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत् ; अत एव च 'अनुत्तरे' श्वेतारुणात्मदेवतामयताद्यनुसंधा- नेन पशुशुक्रशोणितवैलक्षणयादुत्कृष्टे 'अमृते' सारे '.............कुलमुत्पत्तिगोचरः।' इत्युक्त्या 'कुलम्' आकारो यस्य तत् । किं तदुभयम् ?—इत्याह 'जननी जनकश्च' इति । कीदृशी पं० २ ख० पु० लक्षणं सतत्त्वमिति पाठः । पं० ४ क० ख० पु० तच्च तदाद्यार्धेति 'कीदृक्-तदुभयेति' वाक्यद्वयहीनश्च पाठः । पं० ६ क० पु० आश्रयविशेषस्तेन विमलो यो विसर्ग इति, कुण्डगोलकाख्यो द्रव्येति च पाठः । पं० १२ क० पु० वैलक्षण्याद्युत्कृष्टे इति पाठः । पं० १३ ख० पु० कुल उत्पत्तिगोचरे इति पाठः ।