भारतकोश
संग्रह पर लौटें

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

The provided image is completely blank and contains no visible text to transcribe. Please upload a clear image of the page you would like transcribed.

प्रस्तावना। अयि गीर्वाणवाणीविलासासादितहृदयानन्दाः ! इदन्तावन्नाविदित मस्ति सर्वेषां शासितोपलब्धिवतां यद्व्याकरणस्य पदपदार्थावभा- सकत्वेन सर्वशास्त्रोपकारकत्वमिति । तत्र सत्स्वपि महर्षिशाकटा- यनादिप्रणीतेषु व्याकरणान्तरेषु, आम्नायमूलकत्वेन झटित्यज्ञा- नकान्तारसञ्चारसन्तारकत्वेन च पदवाक्यप्रमाणपारावारपारीणानां मस्तकालंकारमणिरिवाभासते पाणिनीयमेव, अत एव “काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् ।” इति वैचक्षण्यसमानाधि- करणमनर्वाचीनं वचनमनूचाना वदन्ति । तदिदमघटितघटना- पटीयसः सुरकुलमुकुटालंकारमन्दारमकरन्दपंकिलपादारविन्दान्म- हेशानजानेः शब्दार्णवतरणतरणिमिवोदग्रतपःफलमिव मनोरथ- निदानमिव चतुर्दशसूत्रात्मकं साम्नायं पटहारावाविस्फुरितं स्फुलिङ्गमिव दीप्यन्तं समुपलभ्य भगवान् महर्षिदाक्षीपुत्रः तपः प्रभावविस्फूर्तिशालिन्या प्रतिपत्त्याऽनायासेनाष्टाभिरध्यायैरुपनिब- बन्ध यदिदानीमपि विद्वत्प्रकाण्डैर्हृदयाधिष्ठितदेवतेव वरिवस्यते । अनन्तरं करालकलिकालमाहात्म्यात्सूत्राक्षरैर्भगवदाशयमावि- ष्कर्तुमसमर्थानामौदास्यमसहमानेन महर्षिणा पतञ्जलिनाऽष्टाभिरे- वाध्यायैः सूत्रव्याख्या निरमायि, या इदानीमपि भूमण्डले महाभा- ष्याख्यया विख्यातास्ति । तथा सूत्रव्याख्यानभूतो व्याडिविदुषा संग्रहोऽपि संगृहीतः । व्याकरणन्यायमिश्रितपदपदार्थावबोधजनकं वाक्यपदीयमपि भर्तृहरिपादैराविर्भावि। परन्तु तावतापि ग्रन्थनिव- हेन जनहृदयानन्दमसमीक्षमाणाभ्यां करुणासागरविहितस्नानाभ्यां

! Wait, or did the author write "ग्रन्थिग्रन्थिग्रथित" (meaning knot upon knot, knotted in every knot)? "ग्रन्थौ ग्रन्थौ ग्रथित" -> "ग्रन्थिग्रन्थिग्रथित"! Yes! "ग्रन्थिग्रन्थिग्रथित" = knotted at every single knot / intricately knotted! Wait, what about the word before it: "दुर्भेय"? "दुर्भेयग्रन्थिग्रन्थिग्रथितस्थलान्यप्युद्घाटयितुं"! Wait, let's read: "दुर्भेय-ग्रन्थि-ग्रन्थि-ग्रथित-स्थलानि अपि उद्घाटयितुं क्षमो भवेत्।" "दुर्भेय" (difficult to pierce/solve) + "ग्रन्थिग्रन्थि" (knot after knot / in every knot) + "ग्रथित" (tied/composed) + "स्थलानि" (places)! That makes complete, beautiful, poetic Sanskrit sense! "दुर्भेयग्रन्थिग्रन्थिग्रथितस्थलान्यप्युद्घाटयितुं क्षमो भवेत् । इत्थं" Let's check the letters: द ु र्भे य = दुर्भेय ग्र न्थि = ग्रन्थि ग्र न्थि = ग्रन्थि ग्र थि त = ग्रथित स ् थ ल ा न ् य प ् य ु द् घा ट य ि त ु ं = स्थलान्यप्युद्घाटयितु

प्रस्तावना । (५) सर्वतः प्रकाशितभावापि साऽभ्याससौकर्याय सूत्रादिमार्गणसुग- माय च शिक्षाष्टाध्यायीसूत्रगणसूत्रधातुलिङ्गानुशासनकौमुद्य- न्तर्गतवार्त्तिकपरिभाषोणादिसूत्रफित्सूत्रपाठैः शिक्षालिङ्गानुशासन- वर्जमुक्ताष्टाध्याय्यादिसूचीभिश्च विभूषिता भूषयिष्यति तदर्थिज- नमानसानीत्याशास्ते ।

विद्वत्कृपाभिलाषी खेमराज श्रीकृष्णदास, “श्रीवेङ्कटेश्वर” स्टीम्-मुद्रणालयाध्यक्षो मुम्बई-स्थः” तथा खेमराज श्रीकृष्णदास, “श्रीवेङ्कटेश बुकडीपो” बनारस.

अथ वैयाकरणसिद्धान्तकौमुदीस्थविषयानुक्रमणिका प्रारभ्यते । पृष्ठाङ्काः विषयाः पृष्ठाङ्काः विषयाः १ संज्ञाप्रकरणम् १८३ तद्धितेषु रक्ताद्यर्थप्रकरणम् ६ परिभाषाप्रकरणम् १८९ ,, चातुरर्थिकप्र० ७ अच्सन्धिप्र० १९३ '' शैषिकप्र० १५ हलसन्धिप्र० २०५ ,' प्राग्दीव्यतीयप्र० १९ विसर्गसन्धिप्र० २०७ '' ठगधिकारप्र० २१ स्वादिसन्धिप्र० २११ '' पाग्वहतीयप्र० २४ अजन्तपुँल्लिङ्गप्र० २१३ '' छ्यतोरधिकारप्र० ४० अजन्तस्त्रीलिङ्गप्र० २१४ '' आर्हीयप्र० ४५ अजन्तनपुंसकलिङ्गप्र० २१८ '' ठञधिकारे कालाधिकारप्र० ४८ हलन्तपुँल्लिङ्गप्र० २२० '' ठञधिकारप्र० ६८ हलन्तस्त्रीलिङ्गप्र० २२१ '' भावकर्मार्थप्र० ६९ हलन्तनपुंसकलिङ्गप्र० २२४ '' पाञ्चमिकप्र० ७२ अव्ययप्रकरणम् २३० '' मत्वर्थीयप्र० ७३ स्त्रीप्रत्ययप्रकरणम् २३४ '' विभक्तिसंज्ञकप्र० ८९ कारकप्रकरणम् २३६ '' प्राग्दिशीयप्र० ११२ अव्ययीभावप्र० २४० '' स्वार्थिकप्र० ११९ तत्पुरुषप्र० २४७ द्विरुक्तप्र० १३९ बहुव्रीहिप्र० २४९ तिङन्ते भ्वादिप्रकरणम् १५० द्वन्द्वप्रकरणम् ३१७ '' अदादिप्र० १५४ एकशेषप्रकरणम् ३२९ '' जुहोत्यादिप्र० १५६ सर्वसमासशेषप्र० ३३२ '' दिवादिप्र० १५७ समासान्तप्रकरणम् ३३८ '' स्वादिप्र० १५९ अलुक्समासप्र० ३४० '' तुदादिप्र० १६१ समासाश्रयविधिप्र० ३४६ '' रुधादिप्र० १६९ तद्धितेष्वपत्यादिविकारान्तार्थसा- ३४७ '' तनादिप्र० धारणप्र० ३४९ '' क्र्यादिप्र० १७० तद्धितेष्वपत्याधिकारप्र० ३५२ '' चुरादिप्र०

विषयानुक्रमणिका । (७) पृष्ठाङ्काः विषयाः पृष्ठाङ्काः विषयाः ३६५ तिङन्ते ण्यन्तप्रकरणम् ५२३ प्रत्ययस्वरप्रकरणम् ३७० " सन्नन्तप्र० ५२५ समासस्वरप्र० ३७३ " यङन्तप्र० ५४१ तिङन्तस्वरप्र० ३७५ " यङ्लुगन्तप्र० ५४५ लिङ्गानुशासनम् ३८० " नामधातुप्र० १ शिक्षा ३८९ " कण्डादिप्र० ४ अष्टाध्यायीसूत्रपाठः ३९० " प्रत्ययमालाप्र० ५१ गणसूत्रपाठः ३९० " आत्मनेपदप्र० ८० धातुपाठः ४०० " परस्मैपदप्र० ९९ लिङ्गानुशासनपाठः ४०१ " भावकर्मप्र० १०२ कौमुद्यन्तर्गतवार्तिकपाठः ४०६ " कर्मकर्तृप्र० १०३ परिभाषापाठः ४०९ " लकारार्थप्र० ४१७ कृदन्तकृत्यप्रकरणम् ११६ उणादिसूत्रपाठः ४२३ कृदन्तप्र० १२७ फिट्सूत्रपाठः ४५० उणादिप्र० १३० अष्टाध्यायीसूत्रसूची ४७५ उत्तरकृदन्तप्र० १८९ गणसूत्रसूची ४९७ वैदिकप्र० १९१ धातुसूची ५१५ स्वरप्र० २०७ वार्तिकसूची ५१७ धातुस्वरप्र० २१५ परिभाषासूची ५१८ प्रातिपदिकस्वरप्र० २१७ उणादिसूत्रसूची ५१९ फिट्सूत्रप्र० २२४ फिट्सूत्रसूची इति वैयाकरणसिद्धान्तकौमुदीस्थविषयानुक्रमणिका समाप्ता ॥

इस पृष्ठ पर कोई व्याकरण शास्त्रीय देवनागरी पाठ (सूत्र, वार्तिक, भाष्य आदि) विद्यमान नहीं है। यह पृष्ठ एक सज्जित आलंकारिक बॉर्डर (border) तथा केंद्र में पुष्प-पात्र (flower vase/bouquet) के चित्र से युक्त एक अलंकृत/रिक्त पृष्ठ है।

पृष्ठ पर केवल दो मुद्रण-चिह्न (printer's marks) दिखाई दे रहे हैं: r (ऊपरी बाएँ कोने में) r (निचले दाएँ कोने में)

॥ श्रीः ॥ व्याकरणागमे प्रस्तावनाविशेषः । अथ लघुत्रिमुनिकल्पतरुः । प्रारभ्यते. पूर्वो भागः । ॐ परमात्मने नमः । नत्वा शिवं गुरुं वाणीं वेङ्कटाचलसूरिणा । शेषादिना त्रिमुनिकल्पतरुः क्रियते लघुः ॥ १ ॥ अथ भगवान्परमकारुणिको लोकहितैषी यदृच्छया ब्रह्माणं सृष्ट्वा तस्मै त्रिवर्गस्य सर्वो- त्तमस्य मोक्षस्य च, सम्पादकान् (ऋग्यजुस्सामाथर्वाख्यान् साङ्गांश्चतुरो वेदानुपदिदेश । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति श्वेताश्वतरोपनिषच्छ्रुतेः । ब्रह्मापि तदुपदेशकमेणैव जगत्सृष्ट्वा वेदोक्तान्येव नामानि तत्तज्जात्यनुगुणानि निर्माय, अध्य- यनादिरूपाणि च योग्यानि कर्माणि प्रजाभ्य उपदिदेश । तत्रेयं स्मृतिः—“सर्वेषां स तु नामानि कर्माणि च पृथक्पृथक् ॥ वेदशब्देभ्य एवासौ पृथक्संस्थाश्च निर्ममे ” इति । तत्र यजुर्वेदः शुक्लकृष्णभेदेन द्विविधः । दर्शपूर्णमासादिसर्वयाज्ञिकमन्त्राणां ब्राह्मणसं- मिश्रतया यथोक्तक्रमविन्यासेन शुक्लत्वमेकस्य अन्यस्य तु ब्राह्मणस्सङ्कीर्णत्वाद्याज्ञिकमन्त्राणां क्रमपाठाभावाच्च क्रमस्य दुर्ज्ञेयतया कृष्णत्वमिति वदन्ति । कृष्णयजुर्वेदेष्वेकस्याः तैत्ति- रीयशाखेति नामान्तरमपि । सर्वत्र वेदेषु संहिता ब्राह्मणमारण्यकमुपनिषदश्चेत्याद्यवान्त- रभेदा बहवो दृश्यन्ते । मन्त्रभाग एकः, ब्राह्मणभाग अन्यः सर्वोपीत्यभिप्रायेण मन्त्र- ब्राह्मणयोर्वेदनामधेयमित्यस्योपपत्तिः । तत्र सर्वेष्वपि वेदेषु कर्मज्ञानकाण्डभेदेन भागद्वयम् । कर्मप्रतिपादको भागः कर्मकाण्डशब्देनोच्यते, ज्ञेयार्थप्रतिपादको भागो ज्ञानकाण्डशब्देन । ज्ञानकाण्डशब्देनोपनिषद उच्यन्ते । कर्मकाण्डशब्देन तद्भिन्ना वेदभागा उच्यन्ते । कर्म- शब्देनाष्टाचत्वारिंशत्संस्कारा आग्नेयाद्युक्ता उच्यन्ते । ते च— अष्टाचत्वारिंशत्संस्कारा नाममात्रेण निर्दिश्यन्ते— ( १ ) गर्भाधानम् ( २ ) पुँसवनम् ( ३ ) सीमन्तः ( ४ ) विष्णुबलिः ( ५ ) जातकर्म ( ६ ) नामकरणम् ( ७ ) उपनिष्क्रामणम् ( ८ ) अन्नप्राशनम् ( ९ ) कर्ण- वेधः ( १० ) चौलम् ( ११ ) अक्षरस्वीकरणम् ( १२ ) उपनयनम् ( १३ ) व्रतम् ( १४ ) समावर्तनम् ( १५ ) विवाहः ( १६ ) उपाकर्म ( १७ ) उत्सर्जनम् ॥

( २ ) लघुत्रिमुनिकल्पतरुः । अथ सप्त पाकयज्ञाः- ( १८ ) हुतम् ( १९ ) प्रहुतम् ( २० ) आहुतम् ( २१ ) शूलगवः ( २२ ) बलिहरणम् ( २३ ) प्रत्यवरोहणम् ( २४ ) अष्टकाहोमः ॥ इति सप्त पाकयज्ञाः ॥ अथ सप्त हविर्यज्ञसंस्थाः- ( २५ ) अग्न्याधानम् ( २६ ) अग्निहोत्रम् ( २७ ) दर्शपूर्णमासौ ( २८ ) चातु- र्मास्यानि ( २९ ) आग्रयणेष्टिः ( ३० ) निरूढपशुबन्धः ( ३१ ) सौत्रामणी ॥ इति सप्त हविर्यज्ञसंस्थाः ॥ अथ सप्त सोमयज्ञसंस्थाः- ( ३२ ) अग्निष्टोमः ( ३३ ) अत्यग्निष्टोमः ( ३४ ) उक्थ्यः ( ३५ ) षोडशी ३६ ) वाजपेयः ( ३७ ) अतिरात्रः ( ३८ ) आप्तोर्यामः ॥ इति सप्त सोमयज्ञसंस्थाः ॥ ( ३९ ) वानप्रस्थ्यम् ( ४० ) संन्यासः ॥ अथ सप्ताऽऽत्मगुणाः- ( ४१ ) दया ( ४२ ) अनसूया ( ४३ ) शौचम् ( ४४ ) अनायासः ( ४५ ) मङ्गल्यम् ( ४६ ) अकार्पण्यम् ( ४७ ) अस्पृहा ( ४८ ) अन्त्येष्टिः । तत्र पाकयज्ञेष्वे- कानां केषांचिदन्तर्भावाङ्गीकारेण न्यूनतायामिष्टापत्तिरेवेति दिक् । अथोत्तरक्रतवः- ( १ ) राजसूयः ( २ ) गवामयनम् ( ३ ) गोसवः ( ४ ) अश्वमेधः ( ५ ) आङ्गिरसक्रतुः ( ६ ) साकमेधः ( ७ ) पञ्चशारदीयः ( ८ ) विश्वजित् ( ९ ) पौण्डरी- कम् ( १० ) भर्तृद्वादशाहम् ( ११ ) संवत्सरसत्रम् ( १२ ) महाव्रतम् ( १३ ) रात्रि- सत्रम् ( १४ ) शतरात्रम् ( १५ ) स्तोमः ( १६ ) द्वादशसंवत्सरक्रतुः ( १७ ) सह- स्रसंवत्सरक्रतुः । एवमन्येपि बोध्याः ॥ वेदभेदेन- सूत्रकर्तारः- १ साङ्ख्यायनः २ शाकलः १ ऋग्वेदस्य ३ बाष्कलः ४ आश्वलायनः ५ माण्डूकः ६ आपस्तम्बः ७ हिरण्यकेशीयः { २ यजुर्वेदस्य ८ मैत्रायणीयः } षट् सूत्रकारा इत्यन्ये । ९ सत्याषाढः १० बोधायनः

पूर्वभागः । ( ३ ) ⎧ ११ कौथुमः ⎪ १२ राणायनः ⎫ ३ सामवेदस्य ⎨ १३ गोभिलः ⎬ दश सूत्रकारा इत्यन्ये । ⎩ १४ राणायनीयः ⎭ ४ अथर्वणवेदस्य ⎧ १५ पिप्पलादः ⎩ १६ शौनकः एतावत्यश्शाखा उपलभ्यन्ते इति केचित् । तत्रैतानि कर्माणि लोकैर्मुमुक्षुभिः सत्त्वशुद्ध्यर्थतया मुक्तैश्च लोकसंग्रहार्थतया कर्तव्यानि भवन्ति । तेषां वेदानां शाखाः बहुधा भवन्ति । तत्र ऋग्वेदस्यैकविंशतिशाखाः, शुक्लयजुर्वेदस्य पञ्चदशभिः शाखाभिः मिलित्वा यजुर्वेदस्य महाभाष्यरीत्यैकशतशाखाः, सीतोपनिषद्ररीत्या तु नवो- त्तरशतशाखाः, सामवेदस्य सहस्रशाखाः, अथर्वणस्य नव शाखा इति ज्ञेयम् । तत्रर्ग्ग्वेदे इदानीं पठ्यमाना बाष्कलशाखेति केचिद्वदन्ति । शाकलशाखेति बहवः । तत्र न प्रमाण- मुपलभ्यते लोकव्यवहारमन्तराऽन्यदिति केचित् । अथर्वणवेदे भागद्वयमस्ति-भैषज्यभागः, मन्त्रभागश्चेति । आद्यः अथर्वणेनान्यो घोरापरनाम्नाऽऽङ्गिरसेन दृष्टः । ततः मिलित्वाऽथर्वा- ङ्गिरस इति नामेति केचित् । कालवशेन सर्वा लुप्ताः सत्यो काश्चिदेव पञ्चषाः शाखा अवशिष्यन्ते । लुप्ताश्च नामतोपि दुर्ज्ञेयाः प्रायस्संवृत्ताः । अथर्वणवेदस्य शाखान्तरं काश्मीरतो लब्धं भूर्जपत्रलिखितममरिकायां प्रतिचित्रितमिति शृणुमः । एषां परिज्ञायमानशाखानां श्रीमाधवाचार्यैः विजयनगरसंस्कृतपुस्तकावल्यां ( विजयनगरं संस्कृतसीरीस्--नामकमुद्रितविवरणप्रमेयसंग्रहे ) भूमिकोक्तरीत्या १३१३ शके अथवा १३९२ तमखिस्तशके उत्पन्नैर्देवगिरौ राज्यकर्तुः जैत्रपालस्य कृष्णराजानुजस्य स्वयं ११८२ तमे शके राज्यासनमधिरूढस्य रामचन्द्रदेवप्रतिभुवो राज्ञः सर्वाधिपत्यपदे नियुक्तो यः प्रसिद्धो हेमाद्रिः चतुर्वर्गचिन्तामणिग्रन्थकर्ता तस्योत्तरकालिकैः भाष्याणि रचितानीदानीमपि जाग्रति । तथोवटभाष्यमपि जागर्ति अन्यान्यप्येतदपेक्षया प्राचीनकालेषु-स्कन्दस्वामि, भवस्वामि, राहदेव, श्रीनिवास, माधवदेव, इत्यादिभिः कृतानि वेदभाष्याण्यासन् । अहो- बलभाष्यमप्यासीदिति चमकव्याख्यायां सायनाचार्यभाष्यादनुमीयते । भट्टभास्करभाष्यं नाम कृष्णयजुर्वेदसंहिताभाष्यमपि मैसूरराज्ये राजकीयमुद्रणालये मुद्रितमुपलभ्यते । तत्रैतत्सं- हितायाः चतुर्थकाण्डभाष्यमनुपलब्धेर्न मुद्रितम् । विक्रमार्कसमयादतीतेषु ८४९ मितवर्षेषु केरलदेशे कलापीग्रामे शिवगुरुशर्मणः पुत्रत्वेन कलेरादितः ३८८९ तमे विभवसंवत्सरे वैशाखमासे शुक्लपक्षे दशम्यामवतीर्णैः श्रीमच्छङ्करभग- वत्पादैश्च दशोपनिषदोऽन्याश्च काश्चित्तथा श्रीमद्विद्यारण्यैश्च बह्व्यो व्याख्याताः । एतद्वि- भागकर्त्तारो व्यासा बहवः, बहव ऋषयश्चेति तु प्रकृतानुपयोगाद्ग्रन्थबाहुल्याच्च नोक्ताः । तथा तत्प्रकारोपि । न चास्मदीयवेदवदन्यान्यग्रन्थराशेरपि वेदशब्देन व्यवहारोऽस्तीति तदङ्क-

त्वमन्येषाम् स्यादिति वाच्यम् । सकलभाषामूलभूतसंस्कृतभाषाया आदिभाषात्वेन तादृश- भाषाव्युत्पादकस्य स्वेतरभाषादिवेदाङ्गत्वे मानाभावात् । किञ्चात्र वेदशब्दस्य योगरूढत्वं, तत्र तु केवलयौगिकत्वमिति विशेषात् । अपि चैतदुत्पत्तिसमयेऽनादेरपौरुषेयार्थतो नित्य- स्यास्य सिद्धत्वात् । मूलवेदवत्तदङ्गस्यापि नव्यत्वेन कल्पनीयत्वाच्च । वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्मः । भोजने प्रयोजने श्येनयागादौ च दोषवारणाय पदत्रयमत्र लक्षणे बोध्यम् । ईश्वरेण वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षा इति वेदः । अपौरुषेयं वाक्यं वेद इति यावत् । यद्वेष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावर्त्येते । अनुभूयमानस्रक्चन्दनवनितादेरिष्टप्राप्ति- हेतुत्वमौषधसेवनादेरनिष्टपरिहारहेतुत्वं च प्रत्यक्षसिद्धम् । स्वेनानुभूयमानस्य पुरुषान्तरगत- स्य च तथात्वमनुमानगम्यम् । नन्वेवं भाविजन्मगतसुखादिकमप्यनुमानगम्यमिति चेन्न । तद्विशेषस्यानवगमात् । न हि कोपि ज्योतिष्टोमादिष्टप्राप्तिः कलञ्जभक्षणवर्जनादनिष्टनिवृत्ति- रित्यमुमर्थं वेदमन्तरेणानुमानसहस्रेणाप्यवगन्तुं शक्नोति । तस्मादुक्तलक्षणो वेद इति न स वेद इति सिद्धम् । "प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते । एवं विदन्ति वेदेन तस्मा- द्वेदस्य वेदता" इत्यन्यत्र विस्तरः । ऋग्यजुश्च 'मन्त्रः' इत्युच्यते । मन्त्रा द्विविधाः-वैदिकाः, तान्त्रिकाश्चेति । वैदिकाश्च द्विविधाः-प्रगीताः, अप्रगीताश्चेति । तत्र प्रगीताः सामानि । अप्रगीता द्विविधाः-छन्दो- बद्धास्तद्विलक्षणाश्चेति । तत्र प्रथमा ऋचः । अन्त्या यजूंषि । नियतवर्णपदा ऋक् । ऋग्बा- हुल्यवानृग्वेद इति यावत् । अनियतवर्णपदं यजुः । निगदो यजुर्विशेषः । ऋग्यजुषोर- विवक्षया गानप्राधान्यवान् सामवेदः । ऋग्यजुषोरविवक्षया शान्तिकपौष्टिकप्राधान्यवानथ- र्वणवेद इति विवेकः । विधिरर्थवादोऽनुवादश्च ब्राह्मणम् । तच्च "ब्राह्मणम्--अष्टविधम्--इतिहासः--पुरा- णम्--विद्याँ--उपनिषदः--श्लोकाँः--सूत्राणि--व्याख्याँनानि--अनुँव्याख्यानानि" इति श्रीवि- द्यारण्यैः तैत्तिरीयोपनिषट्टीकायां दीपिकायामुक्तम् । तत्र विधिर्नाम-अज्ञातार्थबोधकं वाक्यम् । सविधिश्चतुर्धा--उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति । कर्मस्वरूपमात्रबोधको विधिः--उत्पत्तिविधिः । अङ्गप्रधानबोधको विधिः--विनियोगविधिः । कर्मजन्यफलस्वाम्यको विधिः--अधिकारविधिः । प्रयोगप्रांशुभावबोधको विधिः, अङ्गानां प्रयोगबोधको विधिर्वा--प्रयोगविधिः । पुनस्त्रिविधो विधिः--अपूर्वविधिर्नियमविधिः परिसङ्ख्याविधिश्चेति । प्रमाणान्तरेणाप्रा- प्तस्य प्रापको विधिः-अपूर्वविधिः । पक्षप्राप्तानुवादको विधिः-नियमविधिः । इतरव्यावृत्तिफ- लको विधिः-परिसङ्ख्याविधिः । अयं परिसङ्ख्याविधिः द्विधा-श्रोती, लाक्षणिकी चेति । अर्थवादः-प्राशस्त्यनिन्दान्यतरपरं वाक्यम् । स द्विविधः-विधिशेषः, निषेधशेषश्चेति । स त्रिधा--गुणवादानुवादभूतार्थवादभेदात् । प्रमाणान्तरविरोधे सत्यर्थवादः--गुणवादः ।

प्रमाणान्तरावगतार्थबोधकवादः-अनुवादः । प्रमाणान्तरविरोधतथाप्रसिद्धिहितार्थबोधको वादः- भूतार्थवादः । विधिमन्त्रनामधेयनिषेधार्थवादादिमीमांसापूर्वकं वेदार्थनिर्णयः कार्यः । विधीनामनुष्ठान- विधायकत्वेन, मन्त्राणामनुष्ठेयार्थस्मारकत्वेन, उद्भिदादिवाक्यानां नाम्ना विधेयार्थपरिच्छेद- कत्वेन, निषेधानां विधेयार्थसंकोचकत्वेन, अर्थवादानां विधेयप्राशस्त्यसंपादकत्वेन--अर्थव- त्त्वमिति दिक् । उपवेदाश्च चतुर्धा-क्रमेणाऽऽयुर्वेदधनुर्वेदगान्धर्ववेदतन्त्रभेदात् । अस्याः वेदराशेः षडङ्गानि, शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं कल्पश्चेति । "छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्" इति शिक्षावचनात् । अत एव व्याकरणं मुख्यमङ्गम् । सर्वस्य गात्रस्य शिरः प्रधानमित्यभियुक्तोक्तेः । मुखस्यैव प्रायः पुरुषभेदादिपरि- चायकत्वदर्शनाच्च । तत्र-शिक्षा नाम-उदात्तानुदात्तस्वरितप्रचयाख्यस्वरह्रस्वदीर्घप्लुतानुनासिकाननुनासिकादिभे- दभिन्नवर्णसमुदायात्मकपदपरिपाटीक्रमेण वेदशिक्षणप्रकारवान् नारदपाणिन्यादिमहर्षिकृतो ग्रन्थः । "अथ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः" इति श्रुतेः । किं च "गीती शीघ्री शिरःकम्पी तथाऽलिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ॥ धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥ ३३ ॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । सवा- ग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्" ॥ ५२ ॥ "आत्मा बुद्ध्या समेत्यार्था- न्मनो युक्ते विवक्षया" ॥ ६ ॥ इत्याद्युक्तरीत्योच्चारणादेस्तदेकगम्यत्वात् । उच्चारणमर्थज्ञान- पूर्वकमेवावश्यकमिति दिक् । तत्र निर्दुष्टतया शब्दोच्चारणे दोषज्ञानमन्तरा निर्दुष्टत्वज्ञानासम्भव इति तादृशसंवृताद्यष्टादशदोषज्ञानं शिक्षाधीनमिति ज्ञेयम् । ते दोषाश्च-( १ ) संवृतः- एकारादीनां संवृतत्वं दोषो, न त्वकारस्य । ( २ ) कलः-स्थानान्तरनिष्पन्नः । ( ३ ) ध्मातः-येन श्वासाधिक्याद्ध्रस्वोपि दीर्घ इव लक्ष्यते । ( ४ ) एणीकृतः-अविशिष्टः किमय- मोकारोऽथवौकार इति सन्देहो यत्र । ( ५ ) अम्बूकृतः-योऽव्यक्तोप्यन्तर्मुखो दृश्यते । ( ६ ) अद्धिकः-दीर्घोपि ह्रस्व इव । ( ७ ) ग्रस्तः-जिह्वामूले निगृहीतः । ( ८ ) निरस्तः- निष्ठुरः । ( ९ ) प्रगीतः--सामवदुच्चारितः । ( १० ) उपगीतः--समीपस्थवर्णान्तरगीत्या- ऽनुरक्तः । ( ११ ) क्षित्रणः--कम्पमान इव । ( १२ ) रोमशः--गम्भीरः । ( १३ ) अविल- म्बितः--वर्णान्तरासम्भिन्नः । ( १४ ) निर्हतः--रूक्षः । ( १५ ) विकम्पितः--स्पष्टोऽर्थः । ( १६ ) सन्दष्टः--वर्द्धित इव । ( १७ ) द्रुतम्--स्पष्टोऽर्थः । ( १८ ) विकीर्णः-- वर्णान्तरप्रसृतः-- एकोऽप्यनेकनिभः इति । ताश्च शिक्षाः द्वात्रिंशत्संख्याका मुद्रिताः शिक्षासंग्रहनाम्ना ।

( ६ ) लघुत्रिमुनिकल्पतरुः । छन्दो-नाम-लौकिकवैदिकशब्दान् छन्दयति नियमयतीति पादयतिविरामादिव्यवस्थापकः पिङ्गलादिमहर्षिप्रणीतो ग्रन्थः । गायत्र्या यजतीत्यादिविध्यादौ निर्णयायोपयुज्यते । तद्भेदाश्च प्रस्तारादिना नानेत्यादिकं तत एवावधार्यम् । ज्योतिषं नाम-लोकवदेव सूर्यचन्द्रादिज्योतिराश्रित्य तत्तद्देशशास्त्रविहितकर्मानुष्ठानकाल- निर्णयायाध्ययनाध्यापनादिविधिनिषेधकालनिर्णयाय गरुडचयनादौ गणितज्ञानायाऽऽपदादिषु होराप्रश्नस्कन्धद्वारा फलादेशादिप्रतिपादनाय कृतो ग्रन्थः । परं तु ऋग्वेदाङ्गज्योतिषं षट्त्रिंशच्छ्लो- क्यात्मकमिति विशेषः । वेदाङ्गज्योतिषग्रन्थस्य टीका सोमाकरकृतास्ति । तत्र टीकान्त्यभागे “शेषकृतयजुर्वेदाङ्गज्योतिष” इत्युल्लेखाद्भेदभेदेन तदङ्गज्योतिषमपि भिन्नमिति ज्ञायते । तत्र यजुर्वेदाङ्गज्योतिषमृग्वेदाङ्गज्योतिषापेक्षयाऽभिन्नमेव । प्रायः । तत्रर्ग्वेदाङ्गज्योतिषस्था एव त्रिंश- च्छ्लोक्या यजुर्वेदाङ्गज्योतिषे कचिद्वृत्तमात्रेण भिन्नाः । अर्थेन त्वभिन्ना एव दृश्यन्ते । तथा त्रयोदश ग्रन्थास्ततोधिका दृश्यन्ते । ऋग्यजुर्वेदाङ्गज्योतिषयोस्संहत्य ग्रन्था एकोनपञ्चाशत्स्युः । अथर्वणवेदाङ्गज्योतिषं त्वेतदुभयापेक्षया विलक्षणमेव । वेदाङ्गज्योतिषाचार्यश्च “लगधः” इति “पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥ प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः” इति तदादावुक्तेः । मलयाळदेशे “लगडाचार्यः” इत्यपि देशभेदेनोच्चारणभेदो दृश्यते । कल्पो नाम-बोधायनापस्तम्बाश्वलायनादिमहर्षिप्रणीत एकशाखायां भिन्नभिन्नप्रकरणोक्त- मन्त्राणां न्यायलभ्यशाखान्तरस्थानां च मन्त्राणां प्रयोगक्रमकल्पको ग्रन्थः । ते च बहवः । तथापि कानिचित्प्रदर्श्यन्ते नामभिः-- तत्र पूर्वसूत्राणि नव— अपरसूत्राणि नव— १ अग्निवेश्यसूत्रम् । १ वैखानससू० २ बोधायनसूत्रम् । २ शौनकीयसू० ३ आपस्तम्बसूत्रम् ! ३ भारद्वाजसू० ४ सत्याषाडसूत्रम् । ४ अग्निवेश्यसू० ५ द्राह्यायणसूत्रम् । ५ जैमिनीयसू० ६ अगस्त्यसूत्रम् । ६ अमाथुन्यसू० ७ शाकल्याश्वलायनसूत्रम् । ७ माध्यन्दिनसू० ८ शाम्भवीयसूत्रम् । ८ कौण्डिन्यसू० ९ कात्यायनीयसूत्रम् । ९ कौषीतकिसू० इत्यष्टादश सूत्राणि स्मृतिमुक्ताफले आचारकाण्डे स्मृतिकर्तृनिरूपणप्रकरणे वैद्यनाथदीक्षितै- र्यथोक्तानि तथात्र प्रदर्शितानि । एतेषां श्रौतस्मार्तधर्मादिभेदेन बहवोऽवान्तरभेदाः । व्याकरणं नाम-अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययादिविशेषादीन्विद्वत्पदखण्डार्थविशेष- ज्ञापकः विशेषेण संस्कारविशेषेण आसमन्ताद्वैदिकाँल्लौकिकांश्च शब्दान्करोति तथाभूतम्

पूर्वभागः । ( ७ )

पाणिन्यादिमहर्षिप्रणीता ग्रंथराशिः । तच्च नवविधम् “—ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाक- टायनम् । सारस्वतं चापिशलं शाकलं पाणिनायकम” इति श्रीतत्त्वनिधावुक्तेः “ सोयं नवव्या- करणार्थवेत्ता” इति श्रीवाल्मीकीयरामायणे उक्तेश्च । न चेदमप्रमाणम् । हनुमत्समये पाणिन्यादेर- नुत्पत्तेरिति वाच्यम् । अत एव पूर्वपूर्वयुगीयपाणिनीयव्याकरणादीनां सत्त्वानुमानात् । “धाता यथापूर्वमकल्पयद्” इति श्रुतेः । ( १ ) तत्र-ऐन्द्रं व्याकरणं श्रुत्योद्घुष्यते—“वाग्वै पराच्यव्याकृता अवदत् ॥ तं देवा इन्द्रमब्रुवन् । इमं नो वाचं व्याकुर्विति । सोऽब्रवीत् । वरं वृणै । मह्यं चैवैष वायवे च सह गृहातादिति । तस्मादैन्द्रवायवस्सह गृह्यते । तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत् । तस्मा- दियं व्याकृता वागुच्यते” इति । इयं श्रुतिरिन्द्रस्य व्याकरणकर्तृत्त्वपरत्वेन श्रीविद्यारण्या- चार्यैर्व्याख्याता । ( २ ) चान्द्रमार्षग्रन्थेष्वन्वेषणीयम् । “ चान्द्रास्तु आमोदरकुक्षिविति पेठुः” इत्यादिना स्पष्टमनुमातुं शक्यते तत्सत्ता । ( ३ ) काशकृत्स्नं व्याकरणं पतञ्जलिना “ शैतोर्चे ष्ठन्यता—” इत्यत्र नाम्ना उक्तम् । ( ४ ) कौमारं त्वाग्नेयपुराणन्त्यभागे । एतत्पाणिनिकृतं प्रातिशाख्यसूत्रमेव तदित्यन्ये । ( ५-६ ) सारस्वतं, शाकटायनमृक्तन्त्रव्याकरणाख्यं चाधुना मुद्रितान्युपलभ्यन्त एव सर्वत्र भरतखण्डादौ । ( ७-८ ) आपिशलं, शाकलं च; पाणिनिसूत्रेषु तत्रतत्र तन्नाम्नोरनुवादात्ते बभूवतुरि- त्यनुमीयते । ( ९ ) पाणिनीयं व्याकरणं चाधुना मुद्रितं सर्वत्रोपलभ्यत एव । एवम् “ अवङ् स्फोटायनस्य” इत्युक्तेः स्फोटायनव्याकरणं, कात्यायनेन “पौष्करसादेः” इत्युक्तेः पौष्करसादिव्याकरणं, “विन्दतिश्चान्द्रदौर्गादेः” इत्युक्तेर्दौर्गव्याकरणम्, “व्याघ्रमूत्यादय- स्त्वेनम्” इत्याद्युक्तेर्व्याघ्रभूतिव्याकरणादिकमप्यासीदित्यनुमीयते । श्रीमत्पण्डितम्याक्सिमूलर्कृतं, भोजकृतं, व्याकरणं श्रीमण्डारकरकृतमार्गोपदेशिकादिव्याकरणं च सुलभमेव । एवमाशुबोधव्याक- रणं जैनेन्द्रव्याकरणं कातन्त्रव्याकरणं च । नन्वेवं सत्स्वेतेषु बहुषु व्याकरणेष्वन्यतमस्य यस्य कस्य वा वेदाङ्गत्वमास्तामिति चेन्न । इच्छया नियममन्तरा कस्याप्यर्थनिर्णयस्यायुक्तत्वात् । एकस्यैव शब्दस्य व्याकरणभेदेन साधु- त्वासाधुत्वयोरापत्तेश्च । तस्मात्सर्वलौकिकालौकिकशब्दव्युत्पादकस्य पाणिनीयव्याकरणस्यैव वेदाङ्गत्वमभ्युपगमस्स्यात् । व्याकरणान्तरे तु सर्वेषां लौकिकालौकिकशब्दानां न व्युत्पादनम् । “इदमक्षरं छन्दो वर्णशास्तमनुक्रान्तं ब्रह्माबृहस्पतये प्रोवाच । बृहस्पतिरिन्द्राय, इन्द्रो भरद्वा- जाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यः । तं खल्विममक्षरसमाम्नायमित्याचक्षते न मुक्त्वा न नक्तं ब्रूयाद्वक्षरराशिः” इति ऋक्तन्त्रव्याकरणोक्तरीत्याक्षररूपस्यास्य चतुर्दशसूत्रकद- म्बस्याम्नायत्वमिति तन्मूलकत्वाच्च । अत एवास्य ज्ञाने सर्ववेदपारायणजं पुण्यमित्युक्तम् । छान्दो-

( ८ ) लघुत्रिमुनिकल्पतरुः ।

ऽयेऽपि व्याकरणं ( चतुर्दशसूत्ररूपम् ) उपक्रम्य वेदानां वेद इत्युक्तम् । किं च “कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः । द्वापरे शङ्खलिखिताः कलौ पाराशरास्मृताः” इति वचनेनाऽऽचारव्यवस्थावच्छब्दसाधुत्वासाधुत्वव्यवस्थाया अपि पाणिनिकृताया एवाभ्युपेयत्वात् । अत एव पराशरोपपुराणे-“पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किंचन' इत्युक्तं संगच्छते । अत एव “शताच्च ठन्यतावशते” इति सूत्रे शाकलका- शकृत्स्नव्याकरणान्तरस्थं “ शताच्च ठन्यतावग्रन्थे ”इति सूत्रमुपन्यस्य तन्मते शत्यश्शतिको वा गोसंघ इति साधुः । पाणिनिमते तु शतको गोसंघ इत्येव साधुरिति व्याकरणयोर्विरोधमु- पन्यस्य नियतकालाश्च स्मृतयो व्यवस्थाहेतवो भवन्ति । “कलौ पाराशरास्मृताः” इतिवन्मु- नित्रयमतेनैवाऽद्यत्वे साध्वसाधुप्रविभाग इत्युक्तं भाष्यकैयटयोः । यथोत्तरम् मुनीनां प्रामाण्याच्च । अत एव “न बहुव्रीहौ” इत्यत्र महाभाष्ये त्वत्कपितृक इत्यस्यैव साधुत्वं, न त्वत्कत्पितृक इत्य- स्येति स्पष्टम् । एतद्व्याकरणमूलभूतचतुर्दश सूत्राणि भगवता परमकारुणिकेन महेश्वरेण पाणिनये उपदिष्टानि । अत एव “ नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् (१४)। उद्धर्तु- कामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ” इति नंदिकेश्वरकृतकाशिकायामुक्तं, “ येना क्षरसम्नाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तम् ” इत्युक्तं च संगच्छत इति दिक् । ननु पदपदार्थनिर्णायकत्वेन व्याकरणस्योक्तं वेदाङ्गत्वम् । तत्र व्याकरणस्थपदपदार्थनिर्णायकं किमिति चेत्तत्रान्यत्तत्रान्यदित्यनवस्थेति चेन्न । वेदार्थनिर्णायकं मुख्यमङ्गमिदमेव । व्याकरणे तन्निर्णायकं तु काव्यकोशादिकम् । तत्र चोपदेशपरम्परेत्यदोषादिति दिक् । निरुक्तं नाम-व्याकरणस्यैव परिशिष्टमिति वक्तुं युक्तम् । वैदिकाश्शब्दा निश्शेषेणोच्यन्तेऽर्था- दिन्निर्णयेनेति तथाभूतः यास्कप्रणीतो ग्रन्थः । स चाष्टादशाध्यायात्मकः । तत्रान्तिमौ द्वाव- ध्यायौ परिशिष्टशब्देनोच्येते । चतुर्दशाध्यायानां खण्डानि ( ४८० ) एकेषां मते । अन्यमते ( ४४८ ), ततः परस्य मते ( ४४३ ) इति ज्ञेयानि । नैघण्टुककाण्डस्य पञ्चाध्यायाः, नैगमकाण्डस्य षडध्यायाः, दैवतकाण्डस्य षडध्यायाः, परिशिष्टस्यैकोऽध्यायः इत्यष्टादशाध्याया अत्र ज्ञेयाः । उदाहरणरूपं वेदवाक्यं निगमः । एतद्भाष्यं स्कन्दस्वामिना कृतम् । नैघण्टुक- काण्डे षष्ठाध्यायादि जम्बूमार्गाश्रमवासिदुर्गाचार्यकृतमृज्वर्थाख्यव्याख्यानं मुद्रितमेव । अत्रिगोत्र- देवराजयज्वकृतनैघण्टुककाण्डस्य निर्वचनाख्यव्याख्यानमादौ पञ्चमाध्यायान्तमस्ति । क्षीरस्वाम्य- नन्ताचार्येण निघण्टुव्याख्या कृतेत्युल्लेखः क्वचिद्दृश्यते । निघण्टुपदेनायमन्यो वा लौकिक इति विचार्यम् । प्राय इदमेव भवेत् । यतोस्य नाम बहवो ग्रन्थकारास्स्वग्रन्थेषूल्लङ्कयन्ति । तस्यास्य व्याकरणस्य को विषयः, किं प्रयोजनम्, अधिकारी कः, सम्बन्धश्च कः इति चेत्तत्राहुः-वैदिका लौकिकाश्च शब्दाः विषयाः । तज्ज्ञानं प्रयोजनम् । तज्जिज्ञासुरधीतकाव्य- कोशादिरधिकारीति ज्ञेयम् । तान्यष्टादशप्रकाराणि- १ वेदरक्षा, २ ऊहः, ३ आगमः, ४ लाघवम्, ५ असन्देहः, ६ म्लेच्छताऽसम्पत्तिः, ७ स्वरवर्णदोषराहित्यम्, ८ सार्थकवेदज्ञा- नम्, ९ सुशब्दापशब्दज्ञानयोर्धर्माधर्मज्ञानम्, १० प्रत्यभिवादे नाम्नि प्लुतज्ञानम्, ११

पूर्वभागः । ( ९ )

विध्यादिवाक्यघटकविभक्तिपदार्थादिज्ञानम्, १२ पदाक्षरादिविभागज्ञानम्, १३ चतुर्विधपदजात- कालव्यङ्ग्यव्यञ्जकविभक्तिस्थानभेदज्ञानम्, यद्वा सकलपदजातज्ञानम्, १४ वाग्विस्तारसम्पत्तिः, १५ असाधुशब्देभ्यो विविच्य सुशब्दज्ञानम्, १६ अपशब्दप्रयोगजन्यप्रत्यवायपरिहारकप्राय- श्चित्ताभावः, १७ नामकरणेषु विहितनामस्वरूपज्ञानम्, १८ सर्वविभक्त्यन्तानां सम्यगुच्चार- णमिति । एतद्व्याख्यानं महाभाष्ये विस्तृतम् । तथापि किञ्चिन्निरूप्यते । तद्यथा-( १ ) भद्रं कर्णेभिरित्यादौ लोकविलक्षणस्य कर्णेभिरित्यस्य "बहुलं छन्दसि" इति व्याकरणेन साधु- त्वम् । ( २ ) अग्नये त्वा जुष्टं निर्वपामीत्यादौ सूर्योद्देश्यताकत्वविवक्षायां सूर्याय त्वा जुष्टं निर्वपामीत्याद्यूहो व्याकरणेन सिध्यति ( ३ ) विश्वेदेवासः इत्यादौ "आज्जसेरसुक्" इत्यसु- गागम इत्यादिकं व्याकरणेन सिध्यति । ( ४ ) ब्राह्मणस्याध्यापनं धर्मः । तच्चाध्यापनं वैदुष्या- यत्तम् । तच्च शब्दार्थादिषु साध्वसाधुत्वप्रतियोगिकभेदज्ञानाधीनम् । तच्च शब्दादीनां प्रतिपद- पाठादिना दुःशकम् । शब्दादीनामानन्त्यात् । तस्मादुत्सर्गापवादाद्यनुगमकलक्षणेनैव तज्ज्ञानं साध्यम् । तेन लाघवमपि । अत एव महाभाष्ये "बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिप- दोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । इन्द्रश्चाध्येता । बृहस्पतिर्वक्ता । दिव्यं वर्षसहस्रमध्ययनस्य कालः । न चान्तं जगाम" इत्युक्तम् । शब्दपारायणम्-योगरूढ्या तदाख्यशास्त्रविशेष इति कैयटः । एवं च प्रतिपदपाठस्य दुश्शकत्वप्रतिपादकोऽयमर्थवादः । ( ५ ) "स्थूलपृषतीमनड्वाहीमालभेत", "इन्द्रशत्रुर्वर्धस्व" इत्यादौ बहुव्रीहिस्तत्पुरुषो वेति सन्देहे पूर्वपदप्रकृतिस्वरेण बहुव्रीहिरिति तु व्याकरणेन सिध्यति । ( अत्रेयमाख्यायिका ) पुरा किल त्वष्टुर्ब्रह्मणः पुत्रे इन्द्रेण निहते विश्वरूपवधात्कुपितेन त्वष्ट्राऽऽरब्धे वीन्द्रे सोमेऽनपहूतेनैवे- न्द्रेण पीतस्य सोमस्यावशेषं दृष्ट्वा क्रुद्धस्त्वष्टेन्द्रहन्तृवृत्राख्यपुत्रोत्पादनायाऽभिचारिकं यियक्षमाणः आहवनीयमुपप्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति । ततो वृत्र उदभूदिति श्रूयते तैत्तिरीयसंहिता- याम् । तदेतच्छ्रुत्वा भीत इन्द्रः ब्रह्मलोकं गत्वा सरस्वतीं तुष्टाव । ततोनुकम्पया सरस्वती [L22

( १० ) लघुत्रिमुनिकल्पतरुः । ( ८ )—“स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थवित्स- कलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा” इति “यदधीतमविज्ञातं निगदेनैव शब्द्यते ॥ अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” “अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ” इति च भाष्यादावुक्तरीत्यार्थज्ञानमन्तरा वेदानुपूर्वीज्ञानस्य निरर्थकत्वोक्तेरर्थज्ञानमावश्यकम् । तच्च व्याकरणाध्येतुः प्रकृतिप्रत्ययार्थज्ञानेन सुसाध्यं, नान्यस्य । अत एव “वेदार्थज्ञो जपं जप्त्वा तथैवाध्ययनं द्विजः । कुर्वन्स्वर्गमवाप्नोति नरकं तु विपर्यये” इति व्यासेनोक्तम् । ( ९ )—एकस्यापशब्दस्य भूयांसोऽपशब्दाः । संस्कृततदतिरिक्तभाषाशब्दादयः इति यावत् तत्प्रयोगेण दुष्यति । एकस्य सुशब्दस्य प्रयोगे तु न तथा दुष्यति । अनन्तफलमप्या- प्नोति तद्दोषप्राप्तिपरिहारो व्याकरणेनैव सिध्यत्यनन्तफलप्राप्तिश्च । तदेतदुच्यते “यस्तु प्रयु- ङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद्दुष्यति चापशब्दैः” इति । ( १० )—प्रत्यभिवादे गुर्वादिभिः स्त्रीभिन्नैः प्लुतः कार्य इति विधिरस्ति । तच्च व्याकरण- ज्ञानाधीनम् ॥ ( ११ )—“प्रयाजाः सविभक्तिकाः कार्याः” इति विधिवाक्यानुसारेण तत्र वाक्येषु तत्त- द्विभक्त्यन्तघटिततयोच्चारणं व्याकरणेनैव सिध्यति । ( १२ ) साच्कव्यञ्जनरूपाक्षरज्ञानं पदज्ञानं वाक्यज्ञानं च व्याकरणज्ञानाधीनम् । ( १३ )—यत्र नामाख्यातोपसर्गनिपातरूपचतुर्विधपदज्ञानं, भूतभविष्यद्वर्तमानतदवान्तराद्य- तनानद्यतनकालज्ञानं, व्यङ्ग्यव्यञ्जकशब्दज्ञानं सप्तविभक्तिज्ञानं तत्तद्वर्णिनामुरःकण्ठशिरोरूपस्थान- त्रयज्ञानं तत्र मनुष्ये शब्दः प्रविश्य तथा प्रकाशमापेदे इति ज्ञानं व्याकरणज्ञानाधीनम् । तत्रेयं श्रुतिः—“चत्वारिवाग्-.” इत्यादि । अथ वा “परापश्यन्ती मध्यमा वैखरी” इति चतस्रो वाचः । तत्र तिस्रो गुहायां मूलाधारस्वाधिष्ठानमणिपूरकाख्येषु स्थानेषु क्रमेण सन्ति ॥ तुरीयां वैखर्याख्यां वाचं मनुष्या मुखेनोच्चारयन्तीत्यर्थः । एवं च वर्णानामुत्पत्तिवृद्ध्यादिक्रमो व्याकरणाधीनः । ( १४ )—बहूनामपि समानपृष्ठोदरपाणिपादानां वेदवेदाङ्गादिकमधीयमानानां स्वभ्यस्ता- ध्ययनोपि सूक्ष्मबुद्धिरपि कश्चित्पदशः प्रकृतिप्रत्ययविभागेन विगृह्यार्थेनैनां न पश्यति न जानाति वाचम् । अर्थपरिज्ञानमेव हि वाचां फलम् । एकः शृण्वन्नपि न शृणोत्येनाम् । य एव हि सम्यगर्थं जानाति स एवैनां वाचं जानाति शृणोति च । तत्रेयं श्रुतिः—“उत त्वः पश्यन्न ददर्श वाचमुतत्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वाँ ३ विसस्रे जायेव पत्य उशती सुवासाः” इति । अर्थो हि वाचश्शरीरम् । प्रातिपदिकाद् धातोश्चार्थादौ प्रत्ययानां विधानात् । तच्च ज्ञानं व्याकरणज्ञानाधीनम् । ( १५ )—सुशब्दापशब्दसमूहात्परिशोध्यापशब्दान्विहायैव सुशब्दसंपत्सम्पादनं व्याकरण- ज्ञानाधीनम् । तदाह श्रुतिः—“सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायस्सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि” इति ।

पूर्वभागः । ( ११ )

( १६ )—आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्ती स्यात् । तदनिष्टपरिहारश्च व्याक- रणज्ञानाधीनः । ( १७ )—दशम्युत्तरकालं जातस्य पुत्रस्य नाम विदध्याद्घोषवदाद्यन्तरन्तःस्थमवृद्धं तत्संब- न्धित्रिपुरुषान्यतमाभिधायि शत्रोर्मनुष्यस्य वा यन्नाम न भवति, किन्तु देवतादेः तथाभूतं द्वयक्षरं चतुरक्षरं वा कृदन्तं नाम कार्यम् । न तद्धितान्तमिति विविधविहितरीत्या नामकरण- ज्ञानं व्याकरणज्ञानाधीनम् । ( १८ )—यो व्याकरणज्ञः स शब्दान् यथेच्छं विनियोक्तुं शक्नोति, नान्य इति तदेतदपि व्याकरणज्ञानाधीनमिति च महाभाष्ये स्पष्टमिति दिक् ॥ तज्जिज्ञासुरधिकारी । प्रतिपाद्यप्रतिपादकभावादिसंबन्ध इति ज्ञेयम् । वेदोपाङ्गानि तु—“पुराणं न्यायो मीमांसा धर्मशास्त्रम्' इति । ( पुराणं ) द्विविधम्- महापुराणमुपपुराणं चेति । एकैकं पुनरष्टादशधा भवति । तच्चोभयं व्यासकृतम् । व्यासाः— बहव इत्युक्तमित्यन्यत् । न्यायः—पदार्थानां सर्वेषामनुगमरूपेण प्रकाशकः काणादादिमहर्षि- प्रणीतो ग्रन्थः । मीमांसा—वेदार्थकर्मनिर्णायको ग्रन्थः । स च प्रकारः किञ्चित्प्राक् संक्षेपेण निरूपितः । धर्मशास्त्रम्—मन्वादिमहर्षिप्रणीतः स्मृत्यादिरूपो ग्रन्थ इत्यलम् । अथ वेदवेदाङ्गयोरध्ययनादिकालो निरूप्यते— “श्रावण्यां प्रौष्ठपद्यां वा ह्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्द्धपञ्च- मान्'' ॥ ४ । ९५ ॥ “ततः परंन्तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च कृष्णपक्षेषु संपठेत्” ॥ ४ । ९८ ॥ इति मनूक्तेः । स्मृत्यन्तरं च “इत ऊर्ध्वमनध्याये- ष्वाङ्गान्यधीयीत” इति स्मृत्यन्तराद्युक्तेश्च श्रावण्यामुपाकर्मपक्षे तत आरभ्य, प्रौष्ठपद्यामुपाकर्म- पक्षे तत आरभ्य सार्द्धचतुर्मासपर्यन्तं वेदाध्ययनं कार्यम् । “पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वार्द्धे प्रथमेऽहनि ॥ ४ । ९६ ॥ यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं तदैवकमहर्निशम्” ॥ ४ । ९७ ॥ इति मनूक्तेः सार्द्ध- चतुर्मासान्तर्गतान्तिमपक्षान्तर्गतदिनेषु यत्र पुष्यः तत्रोत्सर्गः कार्यः, माघशुक्लस्य प्रथमेऽहनि प्रौष्ठ- पद्यां येनोपाकर्म कृतं तेनोत्सर्गः कार्य इत्यर्थः एवमुत्सर्गादित्रिदिनानध्यायानन्तरं शुक्लपक्षेषु वेदान्, कृष्णपक्षेषु तत्रानध्यायेष्वपि वेदाङ्गानि चाधीयीत । पठेदित्युक्ते वेदाङ्गानामुक्तकालेष्वप्य- ध्ययनं सिद्धमिति दिक् । ( अङ्गाध्ययनादिषु नानध्यायदोषो भवति )— “अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेद्” इति “नित्ये जपे च काम्ये च क्रतौ पारायणेपि च । नानध्यायोस्ति वेदानां ग्रहणे गाहणे स्मृतः” इति च क्रमेण कौर्मशौनकीययोर्वचनात् । अथ वेदतदङ्गोपाङ्गाध्ययनाध्यापनविध्यादयः । नन्वस्तु वेदाङ्गत्वं व्याकरणस्य । तदध्ययने वेदाध्ययने वा प्रवृत्तिः कुतः स्यादिति

चेद् ॥ अत्रोच्यते ॥ “ब्राह्मणेन निष्कारणेन षडङ्गो वेदोऽध्येयो ज्ञेयश्च” इति श्रुत्या, “द्वे विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणवेदश्शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् ” इति मुण्डकश्रुत्या, “स्वाध्यायोऽध्येतव्यः”, “स्वाध्यायप्रव- चनाभ्यां न प्रमदितव्यम्” इति श्रुतिभ्यां “छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्सा- ङ्गमधीत्यैव ब्रह्मलोके महीयते” इति शिक्षावाक्येन, “द्वे च विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिः ऋग्वेदादिमयी परा” इति विष्णुपुराणोक्त्या, “द्वे च विद्ये वेदितव्ये परा चैवापरा द्विज । ऋग्यजुस्सामाथर्वाख्यो वेदा अङ्गानि षड् द्विजाः । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दश्शास्त्रं च मीमांसा धर्मशास्त्रं पुराणकम् । न्यायो वैद्यकगांधर्वधनु- र्वेदार्थशास्त्रकम् । अपरेयं परा विद्या तया ब्रह्म निगद्यते” इत्याग्नेयोक्त्या च, यथा “अहरह- स्सन्ध्यामुपासीत” इत्यादिश्रुत्या सन्ध्यावन्दनादिकं दृष्टफलाश्रवणेपि कारणमनपेक्ष्यैव कर्तव्य- त्वेन विधीयते, तथा वेदवेदाङ्गतदुपाङ्गाध्ययनमपि कारणमनपेक्ष्यैव ब्राह्मणस्य कर्तव्यत्वेन विधी- यते । किंच “सत्यान्मा प्रमदः” “सत्यं वद” “नानृतं वदेद्” इति श्रुतिभ्यः “न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः” इति भाष्याद् यज्ञे कर्मण्यपशब्दो- च्चारणे “सारस्वतीयामिष्टिं निर्वपेद्” इति श्रुतेः “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” इति स्मृतेश्च कर्तव्येन विहितस्य वेदतदङ्गाध्ययनस्या- करणेऽविहितस्यापशब्दस्योच्चारणे सुशब्दस्यानुच्चारणे वा सत्यप्रमादादिजन्यप्रत्यवायजन्यापूर्वद्वार- कानिष्टभयोत्पत्त्यापत्तेस्तन्निवृत्तये तदध्ययनं विहितम् । किञ्च “ यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो ज्ञेयः सर्वकर्मबहिष्कृतः ” इति स्मृतेः “योऽनधीत्य द्विजो वेद- मन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ” इति स्मृतेः “द्विजातीनाम- ध्ययनमिज्या दानमिति ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमः ” इति गौतमो- क्तेः, “तपो दमो दया दानं सत्यं धर्मश्श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ” इति स्मृतेः, “ वेदः कृत्स्नोधिगन्तव्यस्स्रहस्यो द्विजन्मना । कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यशु विनश्यन्ति ” इति मनुस्मृतेश्च द्विजानां श्रुतविद्याध्ययनाध्यापनाग्निहोत्राचर- णदानतपोदमदयासत्यविज्ञानसंपादनास्तिकत्वान्यावश्यकानि भवन्ति । किं च “शास्त्रं सुनिश्चि- तमपि प्रतिचिन्तनीयमाराधितोपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिपाल- नीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ” इति नीतिकृदुक्तेरावर्तनादिकं चात्यावश्य- कम् । “विद्या विहीनः पशुः ” इत्युक्तिरप्युक्ताशयेनैव । एवं चैतदध्ययनं ब्राह्मणस्य नित्यमिति सिद्धम् ॥ तथा काम्यत्वमपि—“एकश्शब्दस्सम्यग्ज्ञातः सुष्ठु प्रयुक्तश्शास्त्रान्वितस्स्वर्गे लोके कामधुग्भवति” इति श्रुत्या मतान्तरे स्मृत्या “ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश ” “ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ” इति च स्मृतिभ्यां धर्मादिकाम्यफलसम्पादकत्वोक्तेः ।

अत एव “ यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पंक्तिपावन- पावनौ ” इति “ यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविदुष्यति चापशब्दैः-”, इति “ नाकमृष्टिसुखं यान्ति सुयुक्तैर्वडवारथैः । अथ पत्काषिणो यान्ति येचीकम्रतभाषिणः ;” इति च महाभाष्यं “ पातं जले विष्णुपदाप- गायाः पातञ्जले चापि न येऽवगाहम् । आ च क्षतेश्शुद्धिदमा प्रसूतेराचक्षते रागमधोक्षजे च ” इत्यभियुक्तोक्तं च संगच्छते । अत एव “ आपः पवित्रं परमं पृथिव्यामपां पवित्रं परमं च मन्त्राः । महर्षयो व्याकरणं निराहुः ” इति स्कान्दोक्तं संगच्छते ॥ “ अष्टवर्षं ब्राह्मणमुपनयीत । तमध्यापयीत ” इति ब्राह्मणस्याध्यापनविषयेपि विधिर्जागर्ति तथा द्विजानामध्यापनाधिकारेपि विधिर्भवति-“ वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः । वेदमध्यापयेच्छिष्यान्धारयेच्च विचारयेद् ” इति व्यासेन “मन्त्रार्थज्ञो जपञ्जुह्वंस्तथैवाध्यापयन्द्वि- जः । स्वर्गलोकमवाप्नोति नरकं तु विपर्यये” इति हारीतेन चोक्तेः । अध्यापनं त्रिविधं-धर्मार्थमर्थार्थं शुश्रूषार्थं चेति । “अध्यापनं च त्रिविधं धर्मार्थं चार्थ- कारणात् । शुश्रूषाकरणं चेति ऋषिभिः परिकीर्तितम् । एषामन्यतमाभावे मृषाचारो भवे- द्विजः ” इति हारीतोक्तेः । अन्येभ्यो नीचेभ्योपि क्वचिदध्ययनादीनि कार्याणि । अत एव “अब्राह्मणादध्ययनमापदि शुश्रूषानुव्रज्या च यावदध्ययनम्” इति बोधायनेन “अब्राह्मणादध्ययनमापत्काले विधीयते ।