विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ४१६ ) अथ दक्षिणानिलस्य कामोद्दीपकत्वाद्विरहिणीनां दयनीयां दशां वर्णयति कविः— देया शिलापट्टकपाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु । वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥६॥ अन्वयः श्रीखण्डशैलस्य दरीगृहेषु शिलापट्टकपाटमुद्रा देया । (येन) विनियोगिनीकण्टकः एषः वायुः कारागृहस्य चिरात् अभिज्ञः अस्तु । व्याख्या श्रीखण्डशैलस्य चन्दनाद्रेर्मलयाचलस्य दरीगृहेषु कन्दरागृहेषु 'दरी तु कन्दरो वास्त्री' इत्यमरः । शिलापट्टाः प्रस्तरखण्डपट्टा एव कपाटानि तेषा मुद्रा प्रावरणं देया निवेश्या येन कारणेन शिलामुद्रणसहस्रेण वियोगिनीकण्टको विरहिणीनां हृदि कण्टकवच्छल्यवद्व्यथाजनक एष प्रसिद्धो वायुर्दक्षिणानिलः कारागृहस्य बन्धनाल- यस्य 'प्रग्रहोपग्रहो बन्धां कारास्याद्बन्धनालये' इत्यमरः । चिराच्चिराय बहुकाल- पर्यन्तमित्यर्थः । अभिज्ञस्तत्प्रियासजन्यदुःखानुभविताऽस्तु जायताम् । परपीड़कः कारागृहनिवासयोग्य इति भावः । भाषा मलयाचल के कन्दरा रूपी घरों को पत्थरो की चट्टान रूपी किवाड़ों से बन्द कर देना चाहिये । जिससे (उन कन्दराओ में रहने वाला) विरहिणियो के हृदय में कांटे गड़ाने के समान पीड़ा देने वाला यह दक्षिणानिल चिरकाल तक कैदखाने में रहने के दुख का अनुभव करे । क्योकि जो दूसरो को व्यर्थ दुख देता है वह कैदखाने में जाने योग्य है । विरूक्षणीयः सखि दाक्षिणात्यस्त्वया न वायुः परुषैर्वचोभिः । यत्कोपनिःश्वासपरम्पराभिः पीनत्वमायात्ययमुष्णताञ्च ॥६॥ अन्वयः हे सखि ! त्वया परुषैः वचोभिः दाक्षिणात्यो वायुः न विरूक्षणीयः । यत् अयं कोपनिःश्वासपरम्पराभिः पीनत्वम् उष्णतां च आयाति ।
( ४१७ ) व्याख्या हे सखि ! हे वयस्ये ! त्वया परुषै क्रूरै क्रोधोत्पादकैरित्यर्थः । वचोभिर्व- चनैर्दक्षिणस्या भवो दाक्षिणात्यो मलयाचलसम्बन्धी वायुः पवनो न विरुक्षणीयो न कोपनीयः । यद्यस्मात्कारणादय वायु कोपस्य त्वत्परुषवचनजन्यक्रोधस्य निःश्वासपरम्परा परुषवाक्यजातक्रोधोत्पन्नन क्षोभजनि श्वासपरम्परास्ताभि- पीनत्य स्थूलत्वमुष्णता तापकत्वञ्चाऽध्यास्ति प्राप्नोति । मलयानिल शीतलोऽपि विरहिणीनामुष्णतामेव वेगेन वर्धयतीति भावः । भाषा हे सखि ! तुम कटुए वचनो से दक्षिणानिलको कुपित न करो । क्योंकि यह वायु क्रुद्ध होकर लम्ब २ उच्छ्वास लेने से मोटा अर्थात् वायु में उच्छ्वास के वायु मिलने से अधिक, और गरम हो जाता है । विरहिणियो को दक्षिणानिल ठंडा होने पर भी गरम ही मालूम होता है । बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शवराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः ॥१०॥ अन्वयः श्रीखण्डपृथ्वीधरकन्दरस्थः शवराधिराजः बाणेन मृगं हत्वा अस्य दक्षिणमारुतस्य यात्रा निवार्यताम् इति अर्थनीयः । व्याख्या श्रीखण्डपृथ्वीधरो मलयाचलस्तस्य कन्दरो दरी 'दरी तु कन्दरो वा स्त्री' इत्यमरः । तस्मिन् तिष्ठतीति श्रीखण्डपृथ्वीधरकन्दरस्थ शबराणा वनेचराणा- मधिराज स्वामी बाणेन शरेण मृग वायुवाहनरूप मृग हत्वा मारयित्वाऽस्य दक्षिणमारुतस्य दक्षिणानिलस्य यात्रा प्रवह इत आगमनमित्यर्थः । निवार्यतां प्रतिषेधनीयेत्यर्थनीय प्रार्थनीय । वायोर्वाहन मृग अत एव स पृषदश्व इति कथ्यते । 'पृषदश्वो गन्धवहो गन्धवाहानिलाशुगा' इत्यमरः । वाहनाभावे वायोरत्राऽगमनमसम्भवमिति भावः । भाषा मलयाचल की कन्दरा में रहने वाले शबरराज से यह प्रार्थना करनी २७
( ४२० ) इति भ्रमत्सौरभमांसलेन निमीलितानां मलयानिलेन । अभूच्चिरं भूमिगृहस्थितानां प्रलापमाला प्रियकाङ्क्षिणीनाम् ॥१४॥ अन्वयः भ्रमत्सौरभमांसलेन मलयानिलेन निमीलितानां भूमिगृहस्थितानं प्रियकाङ्क्षिणीनाम् इति प्रलापमाला चिरम् अभूत् । व्याख्या भ्रमन्नितस्ततः प्रसरन् यत्सौरभस्सुगन्धस्तेन मांसलो बहुलस्तेन प्रसरत्सुगन्ध- बहुलेन मलयानिलेन दक्षिणपवनेन निमीलितानां व्यथितानां भूमौ पृथिव्यामध- स्तात् गृहाणि सदनानि, ग्रीष्मातपनिवारणाय भूम्यभ्यन्तरे निर्मितानि शीतभव- नानि तेषु स्थिता विद्यमानास्तासां प्रियाणां प्रेमास्पदजनानां पतीनामित्यर्थः । काङ्क्षिण्योऽभिलाषिण्यस्तासां ललनानां वियोगिनीनामित्यर्थः । इति पूर्वोक्त- प्रकाराः प्रलापमाला निरर्थकवाक्यकदम्बः 'विप्रलापो विरोधोक्तिः प्रलापोऽनर्थकं वचः' इत्यमरः । चिरं बहुकालपर्यन्तमभूज्जाता । भाषा चारो ओर फैलने वाली सुगन्ध से भरे दक्षिण वायु से पीड़ित, तल घर में (तहखाने में) रहने वाली, अपने प्रिय की अभिलाषा रखने वाली वियोगिनी स्त्रियों के पूर्वोक्त प्रकार के निरर्थक वाक्यसमूह चिरकाल तक चलते रहे । इति षट्श्लोकात्मकं कुलकम् । कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य । चैत्रस्य सर्वर्तुविशेषचिन्हं दोलाविलासः सुदृशां रराज ॥१५॥ अन्वयः कन्दर्पदेवस्य विमानसृष्टिः, रसपार्थिवस्य प्रासादमाला चैत्रस्य सर्वर्तु- विशेषचिन्हं सुदृशां दोलाविलासः, रराज । व्याख्या कन्दर्पदेवस्य कामदेवस्य 'कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः' इत्यमरः । विमानसृष्टिर्व्योमयानरचना, 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।
( ४२१ ) रसः शृङ्गाररस एव पार्थिवो राजा तस्य प्रासादानां हर्म्याणां माला पङ्क्तिः । अत्युच्चत्वेन निरतिशयरमणीयत्वेन च दोलाविलासे कामसम्बन्धिविमानसृष्टे- रसनृपसम्बन्धिप्रासादमालायाश्चाऽऽरोपः । चैत्रस्य चैत्रमासस्य सर्वं सकलमृतु- विशेषस्य वसन्तस्य चिह्नं लक्षणं यद्वा चैत्रस्य वसन्तस्य सर्वर्तुभ्यो विशेषं विशिष्टं चिह्नं लक्षणं 'कलङ्काङ्कौ लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । यतो वसन्त एव दोलारोहणक्रीडा विशेषतो भवतीति भावः । सुष्ठु दृशौ नयने यासां स्तादृशां सुन्दरनयनाङ्गनानां दोलासु प्रेङ्खासु विलासः क्रीडा रराज शुशुभे । विशेषविनोदकारित्वेन चैत्रमासभवस्य वसन्तर्तुसकलचिह्नस्याऽभेदारोपो दोला- विलासेऽतोऽत्र मालारूपकम् । भाषा कामदेव की विमान रचना, शृङ्गार रस रूपी राजा के महलों की कतार, चैत्र मास का सब ऋतुओं में श्रेष्ठ वसन्तऋतु का चिह्न अथवा वसन्त का अन्य सब ऋतुओं से विशिष्ट चिह्न, सुनयनी स्त्रियों की झूला झूलने की क्रीडा शोभित होने लगी । अर्थात् चैत्र मास या वसन्त ऋतु के आते ही सुन्दर नेत्रवाली कामिनियों में झूला झूलने का उमङ्ग, कामदेव की प्रेरणा से काम सम्बन्धि दूर २ की उनकी मानसिक उड़ानें तथा शृङ्गार रस का साम्राज्य चारोंतरफ छा गया । दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु । त्रुटिर्यदालम्बगुणेषु नाभूत् सा भाग्यशक्तिः कुसुमायुधस्य ॥१६॥ अन्वयः यत् दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु आलम्बगुणेषु त्रुटिः न अभूत् सा कुसुमायुधस्य भाग्यशक्तिः । व्याख्या यदित्यनेन वाक्यार्थपरामर्शः । दोलां प्रेङ्खा 'दोला प्रेङ्खादिका स्त्रियाम्' इत्यमरः । 'हिंडोला' इति भाषायाम् । अधिरूढस्समासीनस्तस्य प्रेङ्खास्थितस्य वधूजनस्य कामिनीजनस्य नितम्बः श्रोणिस्तस्य भारो गुरुत्वं तेन गतामागत- मितस्ततः सञ्चलनं येषां ते तेष्वालम्बगुणेषु दोलावलम्बनरज्जुषु त्रुटिर्भङ्गो नाऽभून्न जात सा कुसुमायुधस्य कामस्य भाग्यशक्तिरदृष्टमहत्त्वम् । ललनानि-
( ४२२ ) तम्बानामप्यन्तगुरुत्वाद्वोलावलम्बनारज्जूनां भङ्गस्तु निश्चितप्राय एवाऽऽसीत् । परन्तु स न जात इत्यत्र कामस्याऽदृष्टमहत्वमेव कारणमिति भावः । काव्य- लिङ्गमलङ्कारः । भाषा चूंकि हिंडोले पर झूलने वाली कामिनियो के नितम्बों के बोझ से झोको में इधर उधर जाने वाली झूले की रस्सियाँ न टूटी इसमें कामदेव की भाग्य सम्पत्ति ही कारण हैं । अर्थात् उन स्त्रियो के नितम्ब बहुत भारी थे और कामदेव की पूर्ण कृपापात्र थीं । अर्थात् पूर्णतया कामासक्त थीं । जनेषु दोलातरलाः पुरन्ध्रीः संभूय भूयःसु विलोकयत्सु । लक्ष्यस्य विस्तीर्णतया मनोभूरवन्ध्यपातैरिषुभिर्ववर्ष ॥१७॥ अन्वयः दोलातरलाः पुरन्ध्रीः भूयःसु जनेषु संभूय विलोकयत्सु (सत्सु) मनोभूः लक्ष्यस्य विस्तीर्णतया अवन्ध्यपातैः इषुभिः ववर्ष । व्याख्या दोलासु प्रेङ्खासु तरलाश्चञ्चलाः पुरन्ध्रीर्ललनाः (कर्म) 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । भूयःसु बहुलेषु जनेषु कामिजनेषु सम्भूयै- कत्रीभूय विलोकयत्सु पश्यत्सु सत्सु मनसि भवतीति मनोभूः कामो लक्ष्यस्य शरपातविषयस्य विस्तीर्णतया विशालदेशव्यापित्वेनाऽवन्ध्योऽनिष्फल पातो लक्ष्ये वेधो येषां ते तैरिरिषुभिः स्वपुष्पबाणैर्यवर्ष वृष्टवान् । तत्रैकत्रीभूताः कामिजनास्ता दोलास्थिता. कामिनीर्यांश्च कामार्ता जाता इति भावः । भाषा हिंडोले पर झलने वाली कामिनियो को कामी लोगो के इकट्ठा होकर देखते रहने पर कामदेव ने निशाने के स्थूल अर्थात् बडे होने के कारण अपने अमोघ बाणो की वर्षा की । अर्थात् उन झूला झूलने वाली स्त्रियो को देखने के लिये इकट्ठा भए हुए सभी कामी जन कामासक्त हो गए । दोलाविनोदेन विलासवत्यः सुदूरमारुह्य निवर्तमानाः । अर्धे नभःप्राङ्गणसङ्गिनीनां विलासमापुस्त्रिदशाङ्गनानाम् ॥१८॥
( ४२३ ) अन्वयः विलासवत्यः दोलाविनोदेन सुदूरम् आरुह्य निवर्त्तमानाः (सत्यः) नभःप्राङ्गणसङ्गिनीनां त्रिदशाङ्गनानाम् अर्द्ध विलासम् आपुः । व्याख्या विलासवत्योऽङ्गना दोलाया प्रेङ्खाया विनोदेन क्रीडया सुदूरमत्यूर्ध्वदेशमारुह्य गत्वा निवर्त्तमाना पुनरधोदेशं प्रति निवृत्ता सत्यो नभ एवाऽऽकाशमेव प्राङ्गणं विस्तृतस्थानं तस्मिन्सङ्गिन्य प्राप्तास्तासां त्रिदशाङ्गनाता देवाङ्गनानामाकाशे सञ्चरणशीलानामप्सरसां याऽर्धं विलास विभ्रम सारूप्यमित्यर्थ । आपु प्राप्तवत्य । अङ्गनानां रूपलावण्यातिशयाद्देवाङ्गनासादृश्यम् । दोलाया आकाशे चाऽल्पकाल- वृत्तित्वादर्धमेवाऽप्सरसां विलास शोभा वा प्रापुरित्यर्थ । अत्र निदर्शनालङ्कार । भाषा अङ्गनाओ के हिंडोले की क्रीडा में बहुत ऊँचे जाकर फिर नीचे लौट आन से, वे, आकाशरूपी आगन में विहार करन वाली अप्सराओ के आधे सारुप्य को प्राप्त हुई । अर्थात् कामिनियाँ झूला झूलते हुए आधे समय तक खूब ऊँचे और आध समय तक नीचे रहने से ऊँचे रहन के आधे समय के लिये साक्षात् आकाश में विहार करने वाली अप्सराओ की शोभा प्राप्त करती थीं । विलासदोलाफलके नितम्ब-विस्ताररुद्धे परितस्तरुण्याः । लब्धः परं कुञ्चितकार्मुकेण तत्रावकाशः कुसुमायुधेन ॥१६॥ अन्वयः विलासदोलाफलके परितः तरुण्याः नितम्बविस्ताररुद्धे (सति) तत्र परं कुञ्चितकार्मुकेण कुसुमायुधेन अवकाशः लब्धः । व्याख्या विलासस्य क्रीडाया दोलाफलक दारूमयन्दोलनफलकं 'तख्ता' इति भाषायाम् । तस्मिन परित सर्वतस्तरुण्या युवतीजनस्य नितम्बरय कटिपश्चा- द्भागस्य 'पश्चान्नितम्ब स्त्रीकट्या इत्यमर' । विस्तारेण विशालरूपेण रुद्धे समाच्छादिते सति तत्र दोलाफलके पर केवल कुञ्चितं सङ्कोचमाप्तं कार्मुकं धनुर्यस्य स तेन कुसुमायुधेन कामेनाऽवकाश स्थानं लब्ध प्राप्त । दोलावि-
( ४२४ ) लासो युवतीनामतीव कामोद्दीपक इति भावः । यथा स्वल्पावकाशेऽपि संकुचित- स्थाने विदग्धजनः स्वशरीरं तत्र प्रविश्य सुखानुभूतिं करोतीत्यप्रकृतव्यवहारस्य कुसुमायुधव्यवहारे समारोपात्समासोक्तिरलंङ्कारः ।
भाषा क्रीडा के झूले का तख्ता युवतियों के नितम्बो से चारो तरफ से छेक लिया जाने पर अर्थात् वहाँ बिल्कुल जमीन न रहने पर भी, वहाँ केवल अपने धनुष को सिकोड़ लेने वाले कामदेव ने ही स्थान प्राप्त किया । अर्थात् झूला झूलने से युवतियाँ कामासक्त हो गई ।
सौन्दर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्ललास । यदि ⸀प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥२०॥
अन्वयः लोलासु दोलासु इन्दीवरलोचनानां यत् सौन्दर्यम् उल्ललास, यदि मनोभूः प्रसादात् कवित्वं लभते (तर्हि सः) तत् वर्णयितुं जानाति ।
व्याख्या लोलासु चञ्चलासु दोलासु प्रेङ्खास्विन्दीवराणीव नीलकमलानीव लोचनानि नेत्राणि यासां तास्तासामङ्गनानां यत् सौन्दर्यं रामणीयकमुल्ललास प्रादुर्बभूव, यदि मनोभूः कामः प्रसादात्तत्सरस्वत्यनुग्रहात् कवित्वं काव्योत्पादन- प्रागल्भ्यं लभते प्राप्नोति तर्हि स कामस्तत्सौन्दर्यं वर्णयितुं विस्तारेण कथयितुं जानाति पटुस्स्यादित्यर्थः² । समर्थः कविरेव स्वकृतेर्गुप्तरहस्यं ज्ञातुं समुद्घाट- यितुञ्च क्षमो न त्वन्यः । अतः कामविलासरहस्यं कामस्य कवित्वे एव याथार्थ्येन वर्णितं स्यात्प्रत्यस्येति भावः ।
⸀ 'प्रमादात्' इति पाठस्तु लेखकानवधानतंव । चरितचन्द्रिका टिप्पणी- कारस्य 'प्रमादादनवधानता परित्यज्येति भाव ।" इत्यपि चिन्त्यम् । ² त्रिपुरारहस्यमाहात्म्ये-लक्ष्म्यास्त्रिपुराप्रसादेन कामस्य पुत्रत्वेन प्राप्तिः । स कविरासीदिति तस्य "त्रिपुरानवकम्" रचनया सिद्धम् । तन्मन्त्रानुष्ठानेन पण्डिताः कवित्वं प्राप्नुवन्तीति प्रसिद्धिः ।
( ४२५ ) भाषा चञ्चल झूलों पर नीलकमलनयनी ललनाओं का जो सौन्दर्य उमड पढा उसका यथार्थ वर्णन, यदि कामदेव ही सरस्वती के प्रसाद से कविता रचना की शक्ति प्राप्त करेँ तो ही हो सकता है । अर्थात् कामदेव ही यदि कवि हों तो वे इस काम सम्बन्धिात ललनाओं के सौन्दर्य का सफलता से वर्णन कर सकते हैं । दोलासु यद्दोलनमङ्गनानां यन्(या)मल्लिका यच्(श्च)^१ च लवङ्गवायुः । सा विश्वसंमोहनदीक्षितस्य मुख्याङ्गसम्पत्कुसुमायुधस्य ॥२१॥ अन्वयः अङ्गनानां दोलासु यत् दोलनं, यत् लवङ्गवायुः यत् च मल्लिका, सा विश्वसंमोहनदीक्षितस्य कुसुमायुधस्य मुख्याङ्गसम्पत् (अस्ति ।) व्याख्या अङ्गनानां सुन्दरीणां दोलासु प्रेङ्खासु यद्दोलनमद्यस्तादुपरि चक्र्रमणं यच्चात्र यदिात क्रियाविशेषण यथेत्यर्थ । लवङ्गवायुर्देवकुसुमसम्पर्कजन्य- सुगन्धवाही पवन 'लवङ्गं देवकुसुमम्' इत्यमर । यदत्राऽपि पूर्ववत् । मल्लिका पुष्पविशेष 'बेला' इति भाषायाम् । सा विश्वस्य सम्पूर्णसंसारप्राणिनां संमोहनं कार्म्मणकर्म वशीकरणमित्यर्थ । तस्मिन् दीक्षितस्य बद्धदृढस्य कुसुमा- युधस्य कामस्य मुख्याङ्गानां प्रधानसाधनानां सम्पात्सम्पत्तिरस्ति । आंदोलन- मल्लिकापुष्प-लवङ्गवायव एव कामस्याखिललोकवशीकरणे प्रधानसाधना- नीत्यर्थ । भाषा ललनाओं का हिंडोलो पर झूलना, बेले के फूल और देवपुष्प, य सब विश्व का वशीकरण करन में तत्पर कामदेव की प्रधान साधन संपत्ति है । प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकपल्लवानाम् । मनोरथानामपि यन्न गम्यं तद्दृष्टुमापुः सुदृशां युवानः ॥२२॥ ————————————————————————————————— ^१ अत्र यत् यत् इत्यस्य स्थान या मल्लिका, यश्च लवङ्गवायु, इत्येव पाठ समीचीन प्रतिभाति, परं पाठान्तराज्ञानात्तथैव मुद्रितमिति विचिन्तनीयम् ।
( ४२६ ) अन्वयः युवानः दोलासु पादौ प्रसार्य विहितस्थितीना लोलांशुकपल्लवाना सुदृशा यत् मनोरथानाम् अपि न गम्यं तत् द्रष्टुम् आपुः । व्याख्या युवानस्तरुणजना दोलासु प्रेङ्खासु पादौ चरणौ प्रसार्य विस्तार्य विहिता कृता स्थिति समुपवेशन याभिस्तारतासामासीनाना लोलाश्चञ्चला स्वनियत- स्थानात्परिच्युता अंशुका पल्लवा इवेत्यंशुकपल्लवा मसृणाम्बराणि यासा स्तास्तासा सुदृशा सुनयनानामङ्गनाना यत् गुह्य स्थान गोपनीयाङ्ग जघनादि मनोरथानामपि कल्पनानामपि न गम्य न प्राप्य तद्द्रष्टुमवलोकयितुमापु प्राप्तवन्त । दोलनजनितवायुवेगेन तासा मसृणाम्बरेषु स्थानभ्रष्टेषु सत्सु युवानस्तासा कल्पनायामप्यप्राप्य जघनादिगोपनीयाङ्ग ददृशुरिति भाव । भाषा युवक लोगोन, पाव लम्बा कर झूलो पर बैठी हुई, हवा के झोके स स्थानच्युत मुलायम साडी वाली सुनयनी अङ्गनाओ के, कल्पना में भी न आने वाले जधनादि गोपनीय अङ्गो को देखा । उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः । दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥२३॥ अन्वयः दूरम् उन्नम्य मुहुः आनमन्त्यः श्लथीभूतनितम्बजाड्याः कान्ताः दोला- विलासेन जितश्रमत्वात् पुरुषायितेषु प्रकर्षम् आपुः । व्याख्या दूर विप्रकृष्टदेशमुन्नम्योर्ध्वं समुत्थाय मुहुर्वारम्वारमानमन्त्योऽधोदेश प्राप्नु- वन्त्य उत्थाय पुनरुपविशन्त्य श्लथीभूत शिथिलीभूत निरस्तमित्यर्थ । नितम्बस्य कटिपश्चाद्भागस्य जाड्य क्रियाशीलत्वशून्यरव यासा ता कान्ता अङ्गना दोलाया प्रेङ्खाया विलासेन सञ्चालनक्रीडया जितोवशीकृत श्रम कार्यकारणशमत्व याभिस्तास्तासा भावो जितश्रमत्व तस्मात समुपाजितकठिनकायसम्पादग- शक्तित्वात् पुरुषायितेषु पुरुषकर्तृकव्यापारेषु विपरीतमुरतेषु प्रकर्षमुत्कृष्टत्वमापु प्राप्तवत्य ।
( ४२७ ) भाषा दूर तक ऊपर जाकर फिर नीचे आने वाली अर्थात् झूला झुलाने में उठकर बैठने वाली, अपने नितम्बो के शैथिल्य को त्याग कर उनसे काम लेने वाली ललनाएँ हिंडोलो के चलाने में जरा भी थकावट का अनुभव न करने से पुरुषों के द्वारा किये जाने वाले काम में अर्थात् विपरीत रति में उत्कृष्टता को प्राप्त हुईं । अर्थात् बिना थकावट झूला चलाने में अपनी कमर को आगे पीछे करने वाली ललनाओ ने विपरीतरति में अपनी समग्रता का परिचय दिया । कुचस्थलैनिर्दलितो वधूनां संजीवितः श्वाससमीरणेन । क्लेशातिरेकान्मलयानिलोऽभूद् भृत्येषु मान्यः कुसुमायुधस्य ॥२४॥ अन्वयः वधूनां कुचस्थलैः निर्दलितः मलयनिलः श्वाससमीरणेन संजीवितः (सन्) क्लेशातिरेकात् कुसुमायुधस्य भृत्येषु मान्यः अभूत् । व्याख्या वधूनां स्त्रीणां कुचस्थलैः कठिनस्तनमण्डलैर्दलितः आघातात्संचूर्णितो मलयानिलो दक्षिणसमीरणो वधूनामेव श्वाससमीरनेन वियोगजन्यदीर्घश्वास- वायुना संजीवितस्सन् समासादितप्राणः सन् प्रवृद्धस्सन्मित्यर्थः । क्लेशस्य कष्टस्याऽतिरेको बाहुल्यं तस्मात् कष्टप्राचुर्यात् कुसुमायुधस्य कामस्य भृत्येषु कर्मंकरेपु सहायकेष्वित्यर्थः । मान्यः प्रतिष्ठितोऽभूज्जातः । कामस्य दक्षिणा- निलोऽतीव प्रियः सहायकत्वादिति भावः । अत्र समीरणे सेवकवृत्तान्तसमा- रोपात् समासोक्तिरलङ्कारः । भाषा स्त्रियो के कठिन कुचस्थली से टकराकर गत प्राण होते हुए और स्त्रियो के ही वियोगजन्य उच्छ्वासो से पुनः जीवित मलयानिल, अधिक कष्ट भोगने के कारण कामदेव के भृत्यो या सहायको में मान्य हो गया । अर्थात् मलयानिल कामदेव का प्रधान सहायक है । यत्पूरयामास विलासदोलाः पुरन्धिभिः सिञ्जितनूपुराभिः । तेनोद्बसां मन्मथराजधानीं मन्ये वसन्तोमकरोद्वसन्तः ॥२५॥
( ४२८ ) अन्वयः वसन्तः सिञ्जितनूपुराभिः पुरन्ध्रिभिः विलासदोलाः यत् पूरयामास तेन उद्वसां मन्मथराजधानीं वसन्तीम् अकरोत् । (इत्यहं) मन्ये । व्याख्या वसन्तो वसन्तर्तुः, सिञ्जितानि शब्दायमानानि नूपुराणि मञ्जीराणि ‘मञ्जीरो नूपुरो स्त्रियाम्’ इत्यमरः । यासां तास्ताभिः पुरन्ध्रिभिः स्त्रीभिर्विलासदोलाः क्रीडाप्रेङ्खा यत् पूरयामास परिपूरितवान्, तेन कारणेन उद्वसां उद्गता वसन्तो यस्याः सा उद्वसा तां जनशून्यामित्यर्थः । मन्मथस्य कामस्य राजधानीं प्रधान- नगरीं तां वसन्तीं जनबहुलामकरोत् कृतवान् । वसन्ते कामिनीकर्तृकविलास- दोलाकर्मकाक्रमणेन कामराजधानीरूपविलासदोलायां कामिनीजनाभ्युषितत्वं सूचितम् । इत्यहं मन्ये तर्कयामि । उत्प्रेक्षालङ्कारः । भाषा चूँकि वसन्त ऋतु ने शब्द करने वाले पैंजेब पहने हुई अङ्गनाओ से, आनन्द देने वाले हिंडोलो को भर दिया । इससे मैं समझता हूँ कि वसन्त ऋतु ने कामदेव की उजड़ी राजधानी को बसा दिया । चुचुम्ब वक्त्राणि चकर्ष वस्त्रं चिरं विशश्राम नितम्बबिम्बे । दोलाविलासे गुरुङ्गनानामङ्कुशः केरलमारुतोऽभूत् ॥२६॥ अन्वयः केरलमारुतः अङ्गनानां वक्त्राणि चुचुम्ब, वस्त्रं चकर्ष, नितम्बबिम्बे चिरं विशश्राम । (अतः) दोलाविलासे (अङ्गनानाम्) अनङ्कुशः गुरुः अभूत् । व्याख्या केरलमारुतो दक्षिणदिग्गतकेरलदेशपवनो दक्षिणानिल इत्यर्थः । अङ्गनानां स्त्रीणां वक्त्राणि मुखानि चुचुम्ब पस्पर्श । वस्त्रमम्बरं चकर्ष हठाज्जग्राह । नितम्बबिम्बे पश्चात्कटिभागे चिरं बहुकालं विशश्राम विश्रान्तिं लेभे । अतोऽङ्ग- नानां दोलाविलासे प्रेङ्खाक्रीडायामनङ्कुशः स्वच्छन्दो गुरुरुपदेष्टा आचार्य इत्यर्थः । अभूत् संजातः । गुरुर्यथा स्वशिष्येभ्यः शिक्षां ददाति तथैव दक्षिणपवनोऽङ्गनाभ्यो मुखवस्त्रनितम्बसंसाहाय्येन दोलाविलाससम्बन्धिनीं शिक्षां ददाविति भावः ।
( ४२१ ) भाषा दक्षिण दिशा के केरल देश के वायु ने अर्थात् दक्षिनानिल ने कामिनियों के मुखो को चूमा, साड़ी को खींचा, कटि पश्चात् भाग में चिर काल तक विश्रान्ति ली। इसलिये अङ्गनाओ का हिंडोले की क्रीड़ा का वह आचार्य हो गया। अर्थात् हिंडोले की क्रीड़ा में क्या २ किया जाता है (चुम्बन करना, कपड़ा हटाना और नितम्बों पर हाथ फेरना) इसका उपदेश दिया। गीतेषु याताः किमु शिष्यभावं वामभ्रुवां विश्रमदोलिनीनाम्। पुंस्कोकिलाः काननचारिणो यच्चातुर्यमापुः कलपञ्चमस्य ॥२७॥ अन्वयः काननचारिणः पुँस्कोकिलाः गीतेषु विभ्रमदोलिनीनां वामभ्रुवां शिष्यत्वं याताः किमु, यत् (ते) कलपञ्चमस्य चातुर्यम् आपुः। व्याख्या कानने वने 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। चरन्ति विहरन्तीति ते वनगताः पुंस्कोकिलाः पिकाः 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः। गीतेषु गानकलासु विभ्रमेण विलासेन दोलायन्ते दोलासु विहरन्तीति विभ्रमदोलिन्यस्तासां विलासदोलासु विहरन्तीनां वामभ्रुवा चञ्चल- भ्रुकुटीनां कान्तानां शिष्यत्वं छात्रभावं याताः प्राप्ताः किमु। यद्यस्मात्कारणात्ते पिकाः कलो मधुरः पञ्चमः पञ्चमस्वर इति तस्य मधुरपञ्चमस्वरस्य चातुर्यं नैपुण्यमापुः प्राप्ताः। वामभ्रुवां शिष्यभावं विना पुंस्कोकिलानां पञ्चमस्वरस्यै- तादृशं नैपुण्यं सर्वथैवासंभवतीति भावः। उत्प्रेक्षालङ्कारः। भाषा जंगलो में विहार करने वाले पिक, क्या गान कला में विलास पूर्वक झूला झूलने वाली व टेढ़ी भौंवो वाली ललनाओ के शिष्य तो नही हो गए, क्यो कि उन्होने मधुर पञ्चम स्वर में बोलने की चतुरता प्राप्त करली थी। अर्थात् बिना गुरु के विद्या कहाँ ? इससे उन झूला झूलने वाली नारियो से कोकिलो ने पञ्चमस्वर में बोलना सीखा होगा।
( ४३० ) सङ्गादजस्रं वनदेवतानां लीलावनान्तस्थितयः शकुन्ताः । आरुह्य दोलासु विलासिनीनां ताभिः सह भ्रेमुरसंभ्रमेण ॥२८॥ अन्वयः लीलावनान्तस्थितयः शकुन्ताः वनदेवतानाम् अजस्रं सङ्गात् विला- सिनीनां दोलासु आरुह्य ताभिः सह असंम्भ्रमेण भ्रेमुः । व्याख्या लीलाबनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिर्निवासो येषां ते क्रीडोद्यानमध्य- वासिनः शकुन्ताः पक्षिणः 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । वनदेवतानामरण्यव्यापिष्ठातृदेवतानामजस्रं निरन्तरं 'नित्यानवरताजस्रमप्ययाति- शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खा- स्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सह्रादसंभ्रमेणाऽव्याकुलं यथास्यात्तथा भ्रेमुर्ग- तागतं चक्रुः । काव्यलिङ्गमलङ्कारः । भाषा क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से झूला झूलने वाली रूपवती स्त्रियों के झूलों पर बैठ कर उनके साथ निडर होकर झूला झूलते थे । अर्थात् वे स्त्रिया वनदेवताओं के ऐसी रूपवती थीं । हस्तद्वयीगाढगृहीतलोल—दोलागुणानां जघने वधूनाम् । १असवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ॥२६॥ अन्वयः हस्तद्वयीगाढगृहीतलोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने असंवृते (सति) मनोभूः किमपि उच्छ्वसितः अभूत् । व्याख्या हस्तयोः करयोर्द्वयीति हस्तद्वयी तया गाढं दृढं गृहीता धृता लोलाइचञ्चला दोलागुणा दोलारज्जवो याभिस्तास्तासां वधूनां नारीणां स्रस्तः स्थानाच्च्यु- १ "असवृतस्रस्तदुकूलबन्धे" इति पाठस्तु चिन्त्यः ।
( ४३१ ) तो दुकूलग्रन्थो नीविबन्धो यस्मात्तत्तस्मिन् जघने कटिपुरोभागेऽसङ्गेना- च्छादिते प्रकटोभूते सति मनोभू कामं कियन्निर्वचनीयं यथास्यात्तथोद्वहन्निव उल्लासयुक्तं सानन्द इत्यर्थः । अभूद्भातः । नारीणां गुह्याङ्गदर्शनेन यूनाम- निर्वचनीयाऽऽनन्दप्राप्तिरभूदिति भावः । भाषा झूला झूलने समय दोनो हाथो से दृढ़तापूर्वक हिंडोले की चञ्चल रस्सियो को पकड़ रखने वाली अङ्गनाओ के, नीवी की गांठ खुल जाने से, और धोती सरक पड़ने से जघनस्थल के दिखाई पड़ने पर कामदेव अनिर्वचनीय उल्लास को प्राप्त हुआ । अर्थात् स्त्रियों के गोपनीय अङ्गो को देखने से युवको को एक विशिष्ट आनन्द मिलता है । त्वरोपयातप्रियबाहुपाश-रुद्धेषु कण्ठेषु वियोगिनीनाम् । वृथासमाहूतकृतान्तपाशः स्मितं लतानां मधुराततान ॥ ३० ॥ अन्वयः वियोगिनीनां कण्ठेषु त्वरोपयातप्रियबाहुपाशरुद्धेषु (सत्सु) वृथास- माहूतकृतान्तपाशः मधुः लतानां स्मितम् आततान । व्याख्या वियोगिनीनां विरहिणीनां कण्ठेषु ग्रीवासु स्वरया शीघ्रमुपयातैस्तत्सम्प्राप्तैः प्रियाः कान्तास्तेषां बाहवो भुजा एव पाशा रज्जवस्तै रुद्धेषु सत्सु वृथैव मुधैव समाहूतस्सम्प्रापितः कृतान्तस्य यमस्य पाशो येन स मधुर्वसन्तो चैत्रमासो वा लतानां वीरुधां स्मितमीषद्रास्यं विकासमित्यर्थः । आततान विस्तारयामास । वसन्तगमनेनोद्दीपितमदनतानां विरहिणीनां कामिनीनां झटिति प्रियालिङ्गन- प्राप्त्या वसन्तजन्यमन्मथसन्तापे सत्यपि प्राणवियोगो न जात इति दृष्ट्वा स्त्रीरज- साजात्यात् लता वसन्तमुपहसन्तीति भावः । भाषा वियोगिनी स्त्रियों के गलो के, शीघ्रता पूर्वक आए हुए उनके पतियों के बाहु पाश से उपरुद्ध हो जाने पर, यमराज के पाश को (उनके गलो में बाध कर उनका प्राणान्त करने के लिये) व्यर्थ ही बुलाने वाले वसन्त ने लताओ को विकसित किया । अर्थात् वसन्तजनितसन्ताप से मरणासन्न स्त्रियो की,
( ४३२ ) उनके पतियों द्वारा जल्दी में आकर आलिङ्गन किये जाने के कारण, वियोग से उनकी मृत्यु न हो सकने से, लताएँ वसन्त को हँसने लगी अर्थात् विकसित हो गईं। निवारणं पल्लववीजनानां स्थितिर्निवातेषु गृहोदरेषु । मूर्च्छाप्रबन्धेषु वियोगिनीनामासीदपूर्वः परिहारमार्गः ॥३१॥ अन्वयः वियोगिनीनां मूर्च्छाप्रबन्धेषु पल्लववीजनानां निवारणं निवातेषु गृहोदरेषु स्थितिः (इति) अपूर्वः परिहारमार्गः आसीत् । व्याख्या वियोगिनीनां पतिविरहितानां कामिनीनां मूर्च्छाप्रबन्धेषु पतिविरहजन्य- दुःखातिशयात्संजातशून्यदशायां पल्लवैः किसलयैर्वीजनानि वायुसञ्चालनानि तेषां शीतत्वात्किसलयैर्न वायुसंचालनानां निवारणं निषेधः । नास्ति वातो वायुर्येषु ते निवातास्तेषु वायुरहितेषु गृहाणामुदराणि मध्यानि तेषु गृहमध्यस्थानेषु स्थिति- र्निवास इत्यपूर्वो विचित्रः परिहारमार्गो मूर्च्छानिवारणस्योपचारविधिरासीत् । विरहावस्थायां शीतोपचारा अपि विशिष्टसंतापकारा भवन्तीति भावः । भाषा पतिविरहजन्य अधिक दुःख से मूर्छित, विरहिणियों की मूर्च्छावस्था में कोमल- पत्तो से ठण्डी हवा झलने का निषेध और वायुरहित गृहमध्य में निवास इत्यादि मूर्च्छानिवारण के लिये अभूतपूर्व उपचार होते थे । अर्थात् विरहिणियों को विरहावस्था में शीतोपचार अधिक संतापकारक होते हैं । इसीलिये मूर्च्छा निवृत्ति के लिये शीतोपचार का निषेध किया जाता था । लीलाशुकाः कोकिलकूजितानामविप्रहर्षाद्विहितानुकाराः । गृहादधाव्यन्त¹ वियोगिनीभिर्गुणो हि काले गुणिनां गुणाय ॥३२॥ अन्वयः अतिप्रहर्षात् कोकिलकूजितानां विहितानुकाराः लीलाशुकाः वियोगि- नीभिः गृहात् अधाव्यन्त, हि गुणिनां गुणाः काले गुणाय (भवति) । ¹ 'अवाह्यन्त' इति पाठः साधुतरः ।
( ४३३ ) व्याख्या अतिप्रहर्षादानन्दातिशयात् कोकिलाना पिकाना, कूजितानि ध्वनदस्तैषा विहित कृतोऽनुकारोऽनुकरण यैरते लीलाशुका क्रीडाशुका 'कीरशुकौ समौ' इत्यमरः । वियोगिनीभिर्विरहिणीभिर्गृहात्स्वसदनादपाद्यन्त बहिनिष्कास्यन्ते स्म । कोकिलकूजितस्य विरहे दुःखप्रदायित्वेनाऽसहत्वासदनुकारिणा लीला- शुकाना गृहादपसारण ताभि कृतमिति भावः । हि यतः गुणिनां गुणवता गुणः स्वरमाधुर्यादिरूप काले समुचिते समय एव गुणाय प्रहर्षाय भवति नत्वन्यथेति शेष । कीराणां कोकिलशब्दानुकरणं गुण परञ्च विरहावस्थाया स दोष एव जात इति भावः । अत्राऽर्थान्तरन्यासालङ्कारः । भाषा अत्यन्त हर्ष से कोयल के शब्दो का अनुकरण करने वाले पालतू सुग्गे, वियोगिनियो द्वारा दौडा कर बाहर कर दिये गए । क्योकि गुणियो का गुण अवसर पर ही गुणाधायक होता है। अर्थात् सुग्गो का, कोयल की बोली बोलना यह एक गुण है किन्तु पतिविरहजन्य दुख की अवस्था में वह गुण अवगुण सा हो जाता है । श्रुत्वेव घृष्टावसरं तुषारं वहिःस्थितानामलिनां निनादैः । द्विवर्षकन्यामुखकोमलामं पङ्कोदरात्पङ्कजमाविरासीत् ॥३३॥ अन्वयः द्विवर्षकन्यामुखकोमलाभं पङ्कजं, बहिः स्थितानाम् अलिना निनादैः तुषार घृष्टावसरं श्रुत्वा इव पङ्कोदरात् आविरासीत् । व्याख्या द्वौ वर्षों यस्या सा द्विवर्षा, द्विवर्षा चाऽसौ कन्या च द्विवर्षकन्या तस्या मुखस्येव कोमला सुकुमाराऽऽभा कान्तिर्यस्य तत् 'स्यु प्रभा रुग्रुचिस्त्विड्भाऽ- माश्छविद्युतयोतय' इत्यमरः । पङ्कज कमल बहि स्थितानां बाह्यस्थान- वर्तिनामलीनां भ्रमराणां निनादैस्झङ्कारैस्तुषार हिमं 'तुषारस्तुहिनं हिमम्' इत्यमर । धूतो निर्गतोऽवसर कालो हेमन्तशिशिरर्तू यस्य स त धूतवेगाऽऽ- कम्यैव पङ्कोदरात्सरस पङ्कमुदरे यस्येति विग्रहात, पङ्कस्य कर्दमस्योदर मध्य तस्माद्वा कर्दमान्तरादाविरासीत्प्रकटीबभूव । हिमसमये पङ्कजानि न समुत्पद्यन्ते भ्रमराश्च न गुञ्जन्ति तस्माद्भ्रमरशब्दश्रवणादिनागममनुमाय वसन्तागम- नात्कोमल कमल प्रादुर्बभूवेति भाव । अत्रोत्प्रेक्षालङ्कार । २८
( ४३४ )
भाषा
दो वर्ष की कन्या के मुख के समान कोमल कान्ति वाला, कमल, बाहर रहने वाले भ्रमरों की गुञ्जार से मानो हेमन्त और शिशिर ऋतुओ के बीत जाने की सूचना पाकर तालाब से प्रकट हुआ। अर्थात् हेमन्त और शिशिर ऋतुओ में कमल नही उत्पन्न होते और भ्रमर भी गुञ्जार नहीं करते।
नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन । उत्सङ्गसङ्गी विपिनस्थलीनां बालो वसन्तः किमपि व्यराजत् ॥३४॥
अन्वयः
विपिनस्थलीनाम् उत्सङ्गसङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन किमपि व्यराजत् ।
व्याख्या
विपिनस्थलीनामरण्यभूमीनां 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्ग्यम्। उत्सङ्गेऽङ्के मध्ये वा सङ्गत इत्युत्सङ्गसङ्गी 'उत्सङ्गश्चिह्नयोरङ्कः' इत्यमरः। अङ्कवर्ती वसन्तो बालः कुमारो नवीनः प्रत्यग्रो दन्तोद्गमो दशनोत्पत्तिस्तद्वत्सुन्दरो मनोहरस्तेन वासन्तिका माधवीलता 'वासन्ती माधवीलता' इत्यमरः। तस्याः कुड्मलानि कलिकास्तासां निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत् शुशुभे। वसन्ते बालत्वारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, विपिनस्थलीनां धात्रीत्वारोपस्य व्यङ्ग्यत्वाच्च एकदेशविवर्तिरूपकम्।
भाषा
जंगल की भूमियो की गोद में रहने वाला वसन्त रूपी बालक, नये दांत निकलने के समान सुन्दर माधवीलता की कलियों के निकलने से एक अवर्णनीय शोभा को प्राप्त हुआ।
सुगन्धिनिःश्वासमिवानुवेलमुद्वेलता दक्षिणमारुतेन । मुखं प्रसूनस्मितदन्तुरं वचुचुम्ब मुग्धस्य मधोर्वनश्रीः ॥३५॥
( ४३५ ) अन्वयः वनश्रीः अनुवेलं सुगन्धिनिःश्वासम् इव उद्वेलता दक्षिणमारुते मुग्धस्य मधोः तत् प्रसूनस्मितदन्तुरं मुखं चुचुम्ब । व्याख्या वनश्रीर्वनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेलं प्रतिक्षणं सुगन्धिनिःश्वासमि- सुन्दरगन्धयुक्तमुखनिःश्वासमिवोद्वेलता विस्तारयता दक्षिणमारुतेन मलय- निलेन मुग्धस्य बालस्य मधोर्वसन्तस्य तदनिर्वचनीयं प्रसूनान्येव पुष्पाण्येव शुभ्र- त्येन स्मितानीषद्धास्यानि तैर्दन्तुरं दन्तुरितं मनोहरमितिभावः । मुखमाननमग्र- भागञ्च चुचुम्ब परिचुम्बितवती । वसन्तौ पुष्पोद्गमेन वनशोभाऽभिव्यक्तासीदिति भावः । समासोक्तिरलंकारः । भाषा वनकी शोभा ने सुगन्धित सास के समान सुगन्धयुक्त दक्षिणानिल के बहते रहने से बालरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तऋतु में फूलों से वन की शोभा प्रकट होती थी । संक्रान्तभृङ्गीपदपंक्तिमुद्रं पौष्पं रजः क्ष्माफलके रराज । क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेव ॥३६॥ अन्वयः क्ष्माफलके संक्रान्तभृङ्गीपदपङ्क्तिमुद्रं पौष्पं रजः क्रमात् लिपिज्ञान- कृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज । व्याख्या क्ष्माफलके पृथ्वीतलपट्टिकायां संक्रान्ताः संलग्ना भृङ्गीणां भ्रमरीणां पदानि चरणास्तेषां पङ्क्तयः श्रेणयस्तासां मुद्राश्चिह्नानि, यस्मिंस्तत् पुष्पादण्डं पौष्पं कुसुमसम्वन्धी 'तस्येदमित्यण्' । रजो धूलिः क्रमात् क्रमशो लिपिज्ञानेऽक्षर- ज्ञानाभ्यासे कृतो विहितः क्षण उत्सवो येन स तस्य 'निर्व्यापारस्थितौ काल- विशेषोत्सवयोः क्षणः' इत्यमरः । मधोर्वसन्तस्याक्षरमालया वर्णमालया क्षुण्णमिव संभृतमिव रराज शुशुभे । बालको यदाऽक्षरज्ञानाभ्यासे पट्टिकायां
( ४३६ ) तिर्यगादिरेखाबाहुल्यमेव रचयन्ति तथैव क्ष्माफलके वसन्तागमनात्पुष्पधूलि- बाहुल्यात्तत्र भृङ्गीणां भ्रमणेन तत्पादजनितरेखाकदम्बकं कविः बालस्य वसन्त- स्याक्षरज्ञानाभ्यासे क्ष्मापट्टिकायां तिर्यग्रेखादिकमित्युत्प्रेक्षते । भाषा पृथ्वी रूपी पटिया पर भ्रमरियों के पावो की पंक्तियों से अङ्कित कुसुम- रज, धीरे २ वर्णमाला सीखने का उत्सव मनाने वाले वसन्तऋतु की अक्षर- माला से मानो अङ्कित हो, ऐसी शोभित होती थी । अर्थात् वसन्त-ऋतु में पृथ्वीपर बहुत पुष्परज गिरने से और उनपर भ्रमरियो के चलने से बनी लकीरों से कवि उत्प्रेक्षा करता है कि बालक वसन्त ने मानो अक्षर सीखते समय पृथ्वी रूपी पटिया पर टेढी मेढी लकीरें खीची हो । समारूढोपरि पादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे । लताप्रसूनांशुकमाचकर्ष क्रीडन्वनैः किं न चकार चैत्रः ॥३७॥ अन्वयः चैत्रः पादपानाम् उपरि समारुरोह, पुष्पोत्कररेणुपुञ्जे लुलोठ, लता- प्रसूनांशुकम् आचकर्ष, वनैः क्रीडन् किं न चकार । व्याख्या • चैत्रो वसन्तमासः पादैर्मूलैः पिबन्तीति पादपास्तेषा पादपाना वृक्षाणामुपर्यूर्ध्वं समारुरोह वृक्षानामाच्छादितवानित्यर्थ । पुष्पाणा कुसुमानामुत्करास्समूहास्तेषा रेणवो धूलयः 'रेणुर्द्वयोः स्त्रिया पुंसि पासुर्वा न द्वयो रज.' इत्यमरः । तेषा पुञ्जे समूहे लुलोठ पपात । लताना वीरुधा प्रसूनान्येव पुष्पाण्येवाऽशुकं श्लक्ष्ण- त्वान्मृदुत्वान्नाम्बरमाचकर्ष बलाद्गृहीतवान् । इत्थ वनैर्वनस्थैर्वस्तुभिः क्रीडन् विहरन् किं न चकार किं न कृतवान् । कर्तव्याकर्तव्यविवेक परिहाय बालवत् यथेच्छ सर्वमेव चैत्रेणानुष्ठितमिति भावः । यथा कश्चित् बालको वृक्षारोहण धूलिविलुण्ठन, अंशुकाकर्षणञ्च करोति तथा बालो मधु. कृतवानिति भावः । अत्र समासोक्तिरलङ्कारः । भाषा (बालक) चैत्र अर्थात् वसन्त वृक्षों पर चढ गया । पुष्पों के समूह के पराग में अर्थात् मिट्टी में लोट पोट की, लता के पुष्प रूपी वस्त्र को खीच लिया ।
( ४३७ ) इस प्रकार बालक बसन्त ने वन में की सभी वस्तुओं से क्रीडा करते हुए क्या नहीं किया। अर्थात् बालक बसन्त ने कर्तव्याकर्तव्य का विचार छोड़कर अपनी इच्छा के अनुसार सब कुछ खेल किया। जैसे कोई बालक वृक्षारोहण, धूर में लोटना और मा के या अन्य स्त्रियों की साडी खींचना आदि चेष्टाएं करता है वैसे ही चैत्र ने किया। भाव यह है कि वसन्त ऋतु के आने से वृक्षों पर वासन्तिक शोभा छा गई, पुष्पों के समूह से खूब मकरन्द चूने लगा और लताओं में से फूल टूट २ कर गिरने लगे। दक्षः प्रवालौष्ठसमर्पणाय लतावधूनां मुकुलस्तनीनाम्। मत्तालिवैतालिकगीतकीर्तिर्भ्रमन्मधुर्यौवनमारुरोह ॥३८॥ अन्वयः मुकुलस्तनीनां लतावधूनां प्रवालौष्ठसमर्पणाय दक्षः मत्तालिवैतालिक- गीतकीर्तिः भ्रमन् मधुः यौवनम् आरुरोह। व्याख्या मुकुलानि कुड्मलान्येव स्तनाः कुचा यासां तास्तासां लतावधूनां वीरुद्रूपनारीणां प्रवाला. रक्तकिसलया एवौष्ठा अधरोष्ठास्तेषां समर्पणाय वितरणाय दक्षश्चतुरः प्रगल्भ इत्यर्थः। मत्ता मदान्धा अलयो भ्रमरा एव वैतालिकाः स्तुतिगायका- स्तैर्गीता गानेन वर्णिता कीर्तिर्यस्य स भ्रमंस्ततस्ततो गतागतं कुर्वन् मधुर्वसन्तो यौवनं तारुण्यमारुरोह सम्प्राप्तवान् । प्रत्यग्रकुचभूषितानां किशोरीणाम- धरोष्ठप्रदाने चुम्बनदाने कुशलो वैतालिकगीतकीर्तिस्सञ्चरन् मनुष्य इव मुकुलि- तानां लतानां किसलयप्रदाने कुशलो मत्तालिगीतकीर्तिर्भ्रमन् वसन्तो यौवनं प्रापेति भावः। भाषा कली रूपी स्तनों वाली, लता रूपी स्त्रियों को किसलय (नये लाल पत्ते) रूपी ओठों को (तृप्त करने में) देने में कुशल मदोन्मत्त भ्रमर रूपी स्तुतिगायकों से गाई गई कीर्तिवाला, चारों ओर विहरण करने वाला वसन्तऋतु युवावस्था को प्राप्त हुआ। अर्थात् छोटे २ नये कड़े स्तन वाली किशोरियों के लाल ओठों को चूम लेने में कुशल स्तुतिपाठकों द्वारा कीर्तिगान किए जाने वाले नवयुवक के