भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( २४ ) अच्छे काव्य सुनकर उनसे आनन्द न मिलकर केवल उनमें दोष निकालना ही प्रिय मालूम होता है। एषाऽस्तु चालुक्यनरेन्द्रवंश-समुद्गतानां गुणमौक्तिकानाम् । मद्भारती-सूत्रनिवेशितानामेकावली कण्ठविभूषणं वः ॥३०॥ -अन्वयः एषा चालुक्यनरेन्द्रवंशसमुद्गतानां मद्भारतीसूत्रनिवेशितानां गुणमौक्ति- कानाम् एकावली वः कण्ठविभूषणम् अस्तु । व्याख्या एषा वाग्यावली चालुक्यनरेन्द्राणां वंशः कुलमेव वंशो वेणुस्तस्मात्समुद्गतानां समुत्पन्नानां, वेणौ मुक्तास्समुद्भवन्ति बहुमूल्याश्च भवन्तीति प्रसिद्धिः । मद्भारती मदीयवाग्येव सूत्रं गुणस्तस्मिन्निवेशितानां गुम्फितानां, गुणा दयादा- क्षिण्यादय एव मौक्तिकानि तेषामेकावल्येकावृतो हारो वो युष्माकं कण्ठवि- भूषणमस्तु । राज्ञां गुणाः कण्ठेनोच्चार्यमाणास्सन्तः कण्ठविभूषणानि मौक्तिकानि कण्ठे धार्यमाणानि कण्ठविभूषणानीति भावः । अत्र गुणेषु मौक्तिकारोपे, वंशे वेणुत्वारोपस्य कारणत्वात्परम्परितं रूपकम् । वाक्यावल्यामेकावल्यारोपे भारत्यां सूत्रत्वारोपस्य कारणत्वाच्च परम्परितं रूपकम् । 'नियता रोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा' इति । भाषा चालुक्य राजाओं के वंश रूपी बांस में से उत्पन्न यह दया दाक्षिण्यादि गुण रूपी मोतियों का, मेरी वाणी रूपी डोरे में परोया हुआ, वाक्यावली रूपी एकलड़ा हार, आप लोगों के कण्ठ का आभूषण हो । अर्थात् चालुक्य वंशीय राजाओं के दयादाक्षिण्यादिगुणों की मेरी वाणी में वर्णित वाक्यावली आप लोगों के कण्ठ से उच्चारित होकर उसे सुशोभित करे जिस प्रकार बांस की मोतियों का डोरे में परोया हुआ एकलड़ा हार कण्ठ को सुशोभित करता है। साम्प्रतं चालुक्यवंशमूलपुरुषोत्पत्तिं प्रस्तौति- लोकेषु सप्तस्वपि विश्रुतोऽसौ सरस्वतीविभ्रमभूः स्वयम्भूः । चत्वारि काव्यानि चतुर्मुखस्य यस्य प्रसिद्धाः श्रुतयश्चतस्रः ॥३१॥

( २५ ) अन्वय चतुर्मुखस्य यस्य चत्वारि काव्यानि चतस्रः श्रुतयः प्रसिद्धाः, असौ सरस्वतीविभ्रमभूः स्वयम्भूः सप्तसु अपि लोकेषु प्रसिद्धः । व्याख्या चत्वारि मुखानि यस्य स चतुर्मुखस्तस्य चतुर्मुखस्य यस्य ब्रह्मण सम्बन्धीनि तन्मुखेभ्यो निसृतानीत्यर्थः । चत्वारि चतु सङ्ख्याकानि काव्यानि काव्यरूपाणि चतस्र श्रुतयो वेदा प्रसिद्धा ख्याता असौ प्रसिद्ध सरस्वत्या वाग्देव्या वाङ्मयस्य वा विभ्रमाणां विलासानां भूत्पत्तिस्थानमाश्रयो वा स्वयम्भू्र्ब्रह्मा सप्तस्वपि भूर्भुवःस्वर्महोजनस्तपःसत्येषु लोकेषु भुवनेषु 'लोकस्तु भुवने जने' इत्यमरः । प्रसिद्धो विख्यात अस्तीति । सरस्वती वेधस कन्येति पत्नीतिवेत्युभयं लोक- प्रसिद्धम् । सरस्वत्या पतिर्ब्रह्मेति हेतो सरस्वती तस्मिन्स्वमञ्जुलविलासावि- र्चेष्टाभिस्सरसतामापादयति कन्यात्वेनाऽऽवन्त्वञ्च जगत्पति । भाषा जिस चार मुख वाले ब्रह्मा के चार मुखो से निकले हुए चार काव्य चार वेद हैं, ऐसी प्रसिद्धि है वह सरस्वती के विलास का स्थान स्वयम्भू ब्रह्मा सातो लोको में प्रसिद्ध है । एकस्य सेवातिशयेन शङ्के पङ्केरुहस्यासनतां गतस्य । आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपदमम्बुजानाम् ॥३२॥ अन्वय आसनता गतस्य एकस्य पङ्केरुहस्य सेवातिशयेन आराधितः यः अम्बुजानां सकल कुटुम्ब लक्ष्मीपदं चकार (इति) शङ्के। व्याख्या (ब्रह्मन्) आसनतामुपवेशनस्थानता गतास्य प्राप्तस्यैकस्य कस्यचित्पङ्केरुहस्य सरसीरुहस्य 'पङ्केरुहं तामरस सारस सरसीरुहम्' इत्यमरः । सेवातिशयेन स्वपत्रस्योपर्यासनदानरूपसेवाप्रकर्षेणाऽऽराधित सेवितो यो ब्रह्माऽम्बुजानां पद्मानां सकल समग्रं 'समग्र सकल पूर्णम्' इत्यमरः । कुटुम्बं जाति कमलजाति मित्यथः । लक्ष्म्या श्रियः पदं निवासस्थानं चकारेति शङ्के तर्कयामि । अतएव लक्ष्म्या पद्मालयेति नाम लोके प्रसिद्धमिति भावः । अत्रोत्प्रेक्षालङ्कारः ।

( २६ ) भाषा किसी एक कमल ने, आसन बनकर अत्यधिक सेवा करने से प्रसन्न होकर ब्रह्मा ने सम्पूर्ण कमल जाति को ही लक्ष्मी का निवास स्थान बना दिया, ऐसा मैं सोचता हूँ। ब्रह्मर्षिभिर्ब्रह्ममयीममुष्य सार्द्धं कथां वर्धयतः कदाचित् । त्रैलोक्यबन्धोः सुरसिन्धुतीरे प्रत्यूषसन्ध्यासमयो बभूव ॥३३॥ अन्वयः कदाचित् सुरसिन्धुतीरे ब्रह्मर्षिभिः सार्द्धं ब्रह्ममयीं कथां वर्धयतः त्रैलोक्यबन्धोः अमुष्य प्रत्यूषसन्ध्यासमयः बभूव । व्याख्या कदाचित्कस्मिंश्चित्समये सुरसिन्धो स्वर्गङ्गायास्तीरे तटे ब्रह्मर्षिभि श्रेष्ठ- मुनिभिस्साद्धं सह ब्रह्ममयीं परब्रह्मविषयिणीं कथां वार्तां वर्धयतो विकास नयतस्त्रैलोक्यस्य बन्धुर्मित्र तस्य त्रैलोक्यहितकारकस्याऽमुष्य ब्रह्मण प्रत्यूषस्य प्रातःकालस्य ‘प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्यूषसी अपि’ इत्यमरः । सन्ध्याया सन्ध्यावन्दनादेस्समयः कालो बभूव जात । कथारसे मग्नानां तेषां समयज्ञाना- भावात्प्रातःकालसन्ध्यावन्दनावसरः सम्प्राप्त इति भावः । भाषा किसी समय आकाशगङ्गा के किनारे ब्रह्मर्षियों के साथ परब्रह्मसम्बन्धि कथा का विस्तार करते करते तीनों लोका के मित्र अर्थात् हित चाहने वाले ब्रह्मा जी का प्रातःकाल का सन्ध्यावन्दन करने का समय उपस्थित हो गया । अर्थात् परब्रह्म की चर्चा में इतने लीन हो गये थे कि बातें करते करते सब रात बीत गई । मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः । अन्योन्यविश्लेषणयन्त्रसूत्र- भ्रान्त्येव चञ्चुस्थितमाचकर्ष ॥३४॥ अन्वय निजवल्लभायाः चाटुषु समुत्सुकः चक्रवाकः अन्योन्यविश्लेषणयन्त्रसूत्र- भ्रान्त्या इव चञ्चुस्थितं मृणालसूत्रम् आचकर्ष ।

( २७ ) व्याख्या (प्रत्यूषे) निजवल्लभायाः स्वप्रियायाश्चाटुषु चाटुकरणेषु प्रेमालापादिव्य- हारेषु समुत्सुकः समुत्साहितश्चक्रवाकः कोकः 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वय नामकाः, इत्यमरः । अन्योन्यस्य परस्परस्य यद्विश्लेषणं वियोगस्तस्य यन्त्रसूत्रं तद्धटकयन्त्रस्य सूत्रं तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र- सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थितं 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । मृणालसूत्रं बिसतन्तुमाचकर्षऽऽकृष्टवान् । रात्रौ चक्रवाक- मिथुनस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे जाते चक्रवाकस्य स्व- प्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधकं मृणालतन्तुं निरीक्ष्यैतदेवास्मद्रात्रिवियोगकारणमिति भ्रमावतःपरमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः । चक्रवाककर्तृकचञ्चुस्थितमृणाल- सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्वेन सम्भावनप्रति- पादनादुत्प्रेक्षालङ्कारः । भाषा (प्रात काल हो जाने पर, रातभरके वियोग के अनन्तर सयोग होने से) अपनी स्त्री चकई से उत्सुकता से रस भरी मीठी मीठी बातें कहने और सुनने की अभिलाषा से, चकई की चोंच में विद्यमान कमल के डण्डे के डोरे को मानो परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है ।) आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन । बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ॥३५॥ अन्वयः अर्ध्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजी- वितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे । व्याख्या अर्घ्यस्य पूजोपचारमिश्रितजलस्य 'यत् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यादिरमरः । अर्पणे प्रदाने तत्पराणां लग्नानां सिद्धाङ्गनानां देवयो-

( २८ ) निर्विशेषपतितानां कुङ्कुमेनेवाऽग्निशिखेनेव कुङ्कुममिश्रितजलरूपार्घ्यस्य रक्तकान्त्येवाऽरक्तमासमन्ताद्रक्तवर्णं राजीविन्द्याः कमलिन्या जीवितं जीवनं तस्य वल्लभः स्वामी तस्य सूर्यस्य बिम्बं मण्डलं 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । बिम्बफलस्य कुन्दू इति लोके प्रसिद्धस्य रक्तवर्णशाकफलस्य प्रतिष्ठां सवर्णतासारूप्यं दधे दधार । कुङ्कुमार्ययुक्ताम्बुरूपार्घ्यस्य सूर्यबिम्बे प्राप्त्याऽर्घ्यस्य रक्तत्वात्सूर्य-बिम्बस्याऽपि रक्तत्वं जातमिति भावः । प्रातः- कालिकसूर्यबिम्बस्य बिम्बफलस्य च सादृश्यदर्शनादुपमा । सूर्यबिम्बस्य रक्तत्वे कुङ्कुमस्य कारणत्वेन सम्भावनाद्धेतूत्प्रेक्षा । भाषा अर्घ्य देने में तत्पर सिद्धाङ्गनाओ के अर्घ्य के केसर से मानो लाल भया हुआ कमलिनी के जीवन के स्वामी सूर्य का मण्डल (पके हुए) कुन्दू के समान लाल दिखाई देने लगा । सुधाकरं वार्धकतः क्षपायाः संप्रेश्य मूर्द्धानमिवानमन्तम् । तद्विप्लवायेव सरोजिनीनां स्मितोन्मुखं पङ्कजवक्त्रमासीत् ॥३६॥ अन्वयः क्षपायाः वार्धकतः आनमन्तं मूर्द्धानम् इव सुधाकरं संप्रेक्ष्य सरोजिनीनां पङ्कजवक्त्रं तद्विप्लवाय इव स्मितोन्मुखम् आसीत् । व्याख्या क्षपाया रजन्या वृद्धस्य भावो वार्धकं तस्माद्वार्धकतोरजन्या गतप्रायत्वाद्वृ- द्धावस्थात आनमन्तमधोगच्छन्तं (अस्तोन्मुखत्वात्) मूर्द्धानमिव शिर इव सुधाकरं चन्द्रं सम्प्रेक्ष्य दृष्ट्वा सरोजिनीनां कमलिनीनां पङ्कजमेव वक्त्रं मुखं, तस्य चन्द्रस्य सरोजिनीरिपुत्वात् तस्याः क्षपायाश्च रिपुस्त्रीत्वात् विप्लवायेव विडम्बनाया इव स्मितोन्मुखमीषद्विकस्युक्त विकासयुक्तं वाऽऽसीद्वभूव । यथा काचिन्नायिका स्वरिपु- मस्तोन्मुखं स्वरिपुस्त्रियश्च वृद्धावस्थाप्रयुक्तां नम्राननत्वादितुरवस्थां वीक्ष्य सुखमनुभवन्ती तद्विडम्बनाय हसेरानना भवति तथैवेयं कमलिनी गतप्रायां रात्रिं अस्तोन्मुखं चन्द्रञ्च वीक्ष्य विकसिताभूदिति भावः । कमलिनी रात्रौ न विकसतीति प्रसिद्धम् । अत्राप्रस्तुत-व्यवहारस्य कमलिनीव्यवहारे समारोपात्समासोक्त्य- लङ्कारः । चन्द्रे च वार्धक्यप्रयुक्तनम्रीभूतरात्रिरूपनायिकाशीर्षस्योत्प्रेक्षणाद्वस्तू- त्प्रेक्षा । पङ्कजे वक्त्रत्वाभेदाद्रूपकम् । अत उत्प्रेक्षारूपकमूला समासोक्तिः । इति त्रयाणामङ्गाङ्गीभावसङ्करः ।

( २९ ) भाषा वृद्धावस्था के कारण रात्रि रूपी कामिनी के चन्द्ररूपी मस्तक को लटका हुआ देखकर चन्द्र के अस्तोन्मुख होने से और उसकी (रात्रि की) वृद्धावस्था की बुरी हालत से प्रसन्न होकर कमलिनी मानो उसे चिढाने के लिये मुस्कुराने लगी। अर्थात् रात समाप्त होने से और चन्द्रमा के अस्तोन्मुख होने के कारण नीचे लटक जाने से कमलिनी धीरे २ खिलने लगी। कमलिनी रात को नही खिलती यह बात प्रसिद्ध है। ज्ञात्वा विधातुश्चुलुकात्प्रसूतिं तेजस्विनोऽन्यस्य समस्तजेतुः । प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥३७॥ अन्वयः पङ्कजिनीवधूनां प्राणेश्वरः विधातुः चुलुकात् समस्तजेतुः अन्यस्य तेज- स्विनः प्रसूतिं ज्ञात्वा इव दुर्गं पूर्वाचलम् आरुरोह। व्याख्या पङ्कजिन्यो नलिन्यस्त एव वध्वस्तासां प्राणेश्वरो जीवितेश्वरस्तरणिर्विधातु- र्ब्रह्मणश्चुलुकाञ्जलपूरिताञ्जलेः समस्तस्य राजवंशस्य जेतुर्जयशीलस्यान्यस्य कस्यचित्तेजस्विनः प्रतापिनश्चालुक्यवंशमूलपुरुषस्य प्रसूतिमुत्पत्तिं ज्ञात्वेव विज्ञा- यैव सकलजेतुरन्यतेजस्विनो भयादात्मरक्षार्थं दुर्गं दुष्प्राप्यस्थानं दुर्गाश्रयं वा पूर्वाचलमुदयाचलमारुरोह गतवानिति । सूर्योद‌यो जात इति भावः । अत्र पद्मिन्यां वधूतादात्म्यारोपः सूर्ये प्राणेश्वरस्याऽभेदारोपे कारणत्वात्परम्परितं रूपकम्। पूर्वाचले दुर्गाभेदरूपकम् । सूर्यस्य दुर्गारोह अन्यतेजस्विन उत्पत्ति- ज्ञानस्य कारणत्वेनोत्प्रेक्षणादुत्प्रेक्षा । सूर्यवृत्तान्ते तादृशाप्रकृतान्यपुरुषवृत्तान्ता- भेदसमारोपात्समासोक्तिः । अत एतेषां सङ्करः । भाषा ब्रह्मा के चुल्लू से सबको जीतने वाले चालुक्य वंश के मूल पुरुष रूपी किसी दूसरे तेजस्वी की उत्पत्ति होने वाली है ऐसा मानो जानकर कमलिनी रूपी ललनाओ के पति सूर्य भय से पूर्वाचल रूपी अगम्य किले पर चढ गये। अर्थात् जिस प्रकार प्रतापी, वीर और सबको जीतने वाले योद्धा के आने पर कोई प्रतापी भय से दुर्गाश्रय कर लेता है उसी प्रकार चालुक्य वंश के प्रतापी मूल पुरुष की ब्रह्मा जी के चुल्लू से उत्पत्ति होने वाली है ऐसा मानो जान कर

( ३० ) प्रतापी सूर्य ने उदयाचल रूपी अभेद्य किले का आश्रय लिया । अर्थात् सूर्य पूर्वाचल पर उदित हुआ । जगाम याङ्गेषु रथाङ्गनाम्नां परस्परदर्शनलेपनत्वम् । - सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणफलके ममज्ज ॥३८॥ अन्वयः या रथाङ्गनाम्नाम् अङ्गेषु परस्परदर्शनलेपनत्वं जगाम सा चन्दनपङ्क- कान्तिः चन्द्रिका शीतांशुशाणफलके ममज्ज । व्याख्या या रथत्वाऽङ्ग चक्र नाम येषां तेषां रथाङ्गनाम्नां चक्रवाकपक्षिणामङ्गेष्ववयवेषु परस्परस्यान्योन्यस्य यद्दर्शनं तदेव लेपनं तस्य भावस्तत्वमन्योन्यादर्शनप्रयोज- कलेपनद्रव्यत्वं जगाम प्राप्तवती, रात्रौ चन्द्रिकया निखिललोके नितान्तं धवलितेऽपि चक्रवाकयुगलस्यान्योन्यदर्शनं न सम्भवतीति कविलोकप्रसिद्धम् । तत्रोत्प्रेक्ष्यते तेषां पक्षिणामङ्गेषु चन्द्रिकारूपविलेपनद्रव्यविशेषेण लेपस्य जायमानत्वाद्विलि- प्तत्वेनाङ्गानामविभावनम् । सा चन्दनपङ्कस्य कान्तिरिव कान्तिर्यस्या सा चन्द्रिका (प्रात कालसमये) शीतांशुश्चन्द्र शाणफलकमिवेत्युपमितसमासः, चन्द- नघर्षणोपलमिव तस्मिन् ममज्ज तिरोहिता बभूव । जाते प्रत्यूषे चन्द्रस्य निष्प्रभ- त्वात्तस्य शरीरे चन्द्रिका समाविष्टा सती नान्यत्र परिदृश्यते । चन्दनस्य यथा शाणोपरि घर्षणेन चन्दनाऽभावेऽपि तत्कान्ति शाणोपरि दृश्यते तथैव साम्प्रतं चन्द्रिकाया सर्वत्राऽभाव सञ्जात किन्तु तत्स्वरूपं शाणफलकसदृशावर्तुलाकार- चन्द्रोपरि केवलं परिदृश्यते । अत इद ज्ञायते यच्चन्द्रिकाऽस्मिन्सुधांशावेव प्रविष्टा सती निमग्ना जाताऽदृश्यत्व गतेत्यर्थ । चन्द्रिकायाश्चन्दनपङ्केन सह सादृश्यादुपमा । भाषा रात को चकवा और चकई का वियोग होता है और वे परस्पर देख नही सकते ऐसी कविप्रसिद्धि है। अतः कवि कल्पना करते हैं कि चकवा और चकई के अङ्गों को अदृश्य कर देने वाले लेप के समान एक दूसरे को परस्पर देखने में बाधक, चन्दन के द्रव के समान शोभावाली चांदनी, चन्दन घिसने के गोल होरसा के सदृश चन्द्र में प्रविष्ट हो गई अर्थात् प्रात काल में चाँदनी अन्यत्र कहीं न दिखाई

( ३१ ) देकर केवल चन्द्र में दिखाई देती थी जैसे चन्दन हटा लिये जाने पर भी होरसे

  • पर चन्दन की आभा दिखाई पड़ती ही है । सन्ध्यासमाधौ भगवाँस्थितोऽथ शक्रेण बद्धाञ्जलिना प्रणम्य । विज्ञापितः शेखरपारिजात-द्विरेफनादद्विगुणैर्वचोभिः ॥३६॥ अन्वयः अथ सन्ध्यासमाधौ स्थितः भगवान् बद्धाञ्जलिना शक्रेण प्रणम्य शेखरपारिजातद्विरेफनादद्विगुणैः वचोभिः विज्ञापितः । व्याख्या अथाऽनन्तरं 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्यैष्वथो अथ' इत्यमरः । सन्ध्या- समाधौ सन्ध्याकालिकध्यानयोगे स्थितो लीनो भगवान् ब्रह्मा बद्धोऽञ्जलिय॑स्य तेन कृताञ्जलिना शक्रेणेन्द्रेण प्रणम्य नमस्कृत्य शेखरे शिरसि शिरोभूषणरूपो यः पारिजातो देवकुसुमविशेषस्तस्मिन् ये द्विरेफा भ्रमराः 'द्विरेफपुष्पलिड्भृङ्गषट्पद- भ्रमरालयः' इत्यमरः । तेषां नादेन झङ्कारेण द्विगुणैर्द्विगुणीभूतैरुच्चैरुद्यमानैर्व- चोभिर्वचनैर्विज्ञापितो निवेदितः । भाषा इस के अनन्तर सन्ध्याकाल के ध्यान में मग्न ब्रह्मा जी को इन्द्र ने हाथ जोड़कर प्रणाम कर के, अपने मस्तक पर शोभा के लिये धारण किये हुए पारि- जात के फूलों पर गूंजने वाले भौरों की झङ्कार से प्रतिध्वनित, दूने ऊँचे स्वर में निवेदन किया । इतः परं शक्रश्चतुर्भिः श्लोकैः स्वीयमैश्वर्यं निरूपयन् ब्रह्माणं स्तौति— आस्ते यदैरावतवारणस्य मदाम्बुसङ्गान्मिलितालिमाला । साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये वन्दनमालिकेव ॥४०॥ अन्वयः यत् ऐरावणवारणस्य साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये मदाम्बु- सङ्गात् मिलितालिमाला वन्दनमालिका इव आस्ते । (अत्र यच्छब्दो

( ३२ ) वाक्यार्थं परामृशन् तच्छब्देन सह नित्यसाकाङ्क्षत्वात् 'स्वामिन् स सर्वोऽ- पी'त्यादि-त्रिचत्वारिंशत्तमे पद्ये तच्छब्देन सहाऽन्वेति ।) व्याख्या यद्यैरावणनाम्नो वारणस्येन्द्रहस्तिन 'ऐरावतोऽभ्रमातङ्गैरवाणामुवल्लभा' इत्यमरः । साम्राज्यलक्ष्म्या सार्वभौमश्रियो जयसूचक तोरण बहिर्द्वार तस्याऽऽभा कान्तिरिवाऽऽभा यस्य तत्तस्मिन् दन्तद्वये रदनयुग्मे 'रदना दशना दन्ता रदा' इत्यमरः । मदाम्बुसङ्गान्मदजलसंसर्गान्मिलिता समागताऽलिमाला भ्रमर- पङ्क्तिर्वन्दनमालिकेव चूताशोकादिपत्रमालेव' वन्दनवार इति लोके प्रसिद्धा । आस्ते शोभते—स सर्व एव त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेनाऽन्वयः । आम्राऽशोकपल्लवं सग्रथिता माला मङ्गलकार्येषु द्वारोपरि निबध्यते । दन्तद्वये विजयतोरणसाम्यादलिमालिकायाश्च वन्दनमालिकासाम्यादुपमा । भाषा यह जो (मेरे) ऐरावण नामक हाथी के, सब भुवनो की विजय श्री के बाहरी फाटक के समान शोभा देने वाले दोनो दातो पर, मदजल के चून से एकत्रित भौंरे बन्दनवार से दिखाई देते है (वह आपकी चरण सेवा की धूलि का ही प्रभाव है) इसका ४३ वें श्लोक से सम्बन्ध है । यदातपत्रं मम नेत्रपद्म-सहस्रलोलालिकदम्बनीलम् । कुरङ्गनाभीतितकप्रतिष्ठां मुखे समारोहति राजलक्ष्म्याः ॥४१॥ अन्वयः यत् मम नेत्रपद्मसहस्रलोलालिकदम्बनीलम् आतपत्रं राजलक्ष्म्याः मुखे कुरङ्गनाभीतिलकप्रतिष्ठा समारोहति (स त्वत्पादसेवारजसा प्रभाव इत्य- ग्रिमेण श्लोकेनाऽन्वितम्) । व्याख्या यच्छब्दो वाक्यार्थपरामर्शकः । मम मदीय नेत्राण्येव नयनान्येव पद्मानि कमलानि तेषां सहस्रमिन्द्रस्य सहस्राक्षत्वात् । तस्मिन्येsलोलालीना चञ्चल- भ्रमराणां लोलालित्वेनाध्यवसितकृष्णवर्णकनीनिकाना च कदम्ब समूहस्तद्वन्नील, आतपत्रञ्छातृ राजलक्ष्म्या राज्यशियो मुखे वकत्रे कुरङ्कनाभी कस्तूरी तस्या स्तिलवस्य भालनूषणाङ्गविशेषस्य प्रतिष्ठां स्थितिसमतां समारोहति प्राप्नोति ।

( ३३ ) • (स त्वत्पादसेवारजसां प्रभाव इत्यग्रे सम्बन्धः) नीलभ्रमरसमूहेन नीलच्छत्रस्य साम्यादुपमा। नेत्रेषु पद्मत्वारोपाद्रूपकम्। कृष्ण चञ्चलताराणां लोलालि- त्वेनाध्यवसितत्वादतिशयोक्तिः। अत्रैषामङ्गाङ्गिभावसङ्करः। भाषा यह जो मेरे सहस्रनेत्र रूपी सहस्र कमलो में स्थित चञ्चल पुतलियो के स्वरूप चञ्चल भ्रमर समूह की नीलिमा के समान नीले रंग का छत्र, राज्य श्री के मुखपर कस्तूरी के तिलक की शोभा दे रहा है। (वह आपकी चरण सेवा की धूली का प्रभाव है। यह ४३ वें श्लोक से सम्बन्धित है।) यन्नन्दने कल्पमहीरुहाणां छायासु विश्रम्य रतिश्रमेण। गायन्ति मे शौर्यरसोज्जितानि गीर्वाणसारङ्गदृशो यशांसि ॥४२॥ अन्वयः यत् गीर्वाणसारङ्गदृशः रतिश्रमेण नन्दने कल्पमहीरुहाणां छायासु विश्रम्य मे शौर्यरसोज्जितानि यशांसि गायन्ति (स त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेन सम्बन्धः) व्याख्या यदिति वाक्यार्थपरामर्शकः, “स्वामिन् स सर्वोपी”त्यत्र तच्छब्देनाऽन्वेति। शारङ्गरस्य मृगस्य दृगिव दृग् नेत्रं यासां ता गीर्वाणानां देवानां सारङ्गदृशो मृगनयन्यः कान्ता रतिश्रमेण सम्भोगजनितपरिश्रमेण खिन्नाः सत्यो नन्दने नन्दनाम्केन्द्रो- द्याने 'स्य उच्चैः श्रवासूतो मातलिर्नन्दनं वनम्' इत्यमरः। कल्पमहीरुहाणां कल्पवृक्षाणां छायासु विश्रम्य श्रमं निवार्य मे ममेन्द्रस्य शौर्यरसेन वीररसेनोर्ज्जि- तानि प्रवृद्धानि यशांसि स्तोत्राणि गायन्ति भजन्तीत्यर्थः। भाषा यह जो सम्भोग से थकी हुई मृगनयनी देवियां नन्दन वन में कल्पवृक्षो की छाया में विश्राम कर मेरे वीररस से परिवर्द्धित यशो का गान करती है (यह आपकी चरण सेवा की धूलि का प्रभाव है—यह ४३ वे श्लोक से सम्बन्धित है।) ३

( ३४ ) किं वा बहूक्तैः पुरुहूत एष पात्रं महिम्नो यदनङ्कुशस्य । स्वामिन् स सर्वोऽपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः ॥४३॥ अन्वयः वा बहूक्तैः किम् । यत् एषः पुरुहूतः अनङ्कुशस्य महिम्नः पात्रं, स्वामिन्, सः सर्वः अपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः (अस्ति) । व्याख्या वाऽथवा बहून्युकतानि कथितानि तै बहूक्यनैः कि, कि प्रयोजनम् न किम- पीत्यर्थः । यदिति वाक्यार्थपरामर्शकः । एष सन्मुखस्यः पुरुहूत इन्द्रो 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः । वृद्धश्रवाः सुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः । नास्त्यङ्कुशः प्रतिबन्धको यस्य तस्याप्रतिहतस्य महिम्नो महत्त्वस्य पात्रं भाजनमस्तीत्यर्थः । हे स्वामिन् हे निग्रहानुग्रहसमर्थ ब्रह्मन् स सर्वोऽपि शिरोधृतानां मस्तकोपरि धारितानां सेवाया रजांसि धूलिकणानि सेवासम्बन्धि- रजांस्यर्चनीयधूलिकणानीत्यर्थः, त्वत्पादयोस्तव चरणयोस्तेजारजांसि तेषां प्रभावः प्रतापः कार्यमित्यर्थः, अस्ति । चकलकमर्थात् कलापकम्१ । शब्दोऽयं कलापकार्थे काश्मीरे रूढः । भाषा अथवा, अधिक कहने से क्या लाभ । हे स्वामिन् यह मैं इन्द्र जो असीम महिमा का पात्र हुआ हूँ, यह सब सिर पर धारण की हुई आपकी चरण सेवा की धूलि का ही प्रताप है । (जहां चार श्लोको में अर्थ की पूर्ति होती है उसे कलापक कहते है । कश्मीर में कलापक को चक्रलक कहते है ।)

१ छन्दोबद्वपद पद्य तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मकं सदानितक त्रिभिरिष्यते ॥ कलापकं चतुर्भिञ्च पञ्चभिः कुलक मतम् । अत्र पञ्चभिरिति न्यूनसंख्या व्यवच्छेदः । पञ्चभि, पञ्चाधिकैश्चेत्यर्थः । संदानितक विशेषक तिलक वा ।

( ३५ ) निवेदितश्चारजनेन नाथ तथा क्षितौ सम्प्रति विप्लवो मे। मन्ये यथा यज्ञविभागभोगः स्मर्तव्यतामेष्यति निर्जराणाम् ॥४४॥ अन्वयः नाथ, चारजनेन सम्प्रति क्षितौ तथा विप्लवः मे निवेदितः यथा निर्ज- राणां यज्ञविभागभोगः स्मर्तव्यताम् एष्यति (इति) मन्ये । व्याख्या हे नाथ हे स्वामिन् ब्रह्मन् ! चार एव चारश्चार एव जनस्तेन गुप्तचरेण सम्प्रत्यधुना क्षितौ पृथिव्यां तथा तादृशो विप्लवो डिम्बो 'डिम्बे डमरविप्लवौ' इत्यमरः। नगरलुण्ठनाद्युपसर्गविशेष इत्यर्थः । मे मह्यं निवेदितो विज्ञापितो यथा येन प्रकारेण निर्जराणां देवानां 'अमरा निर्जरा देवाः' इत्यमरः । यज्ञेषु क्रतुषु विभागा देवेभ्योऽर्पणीयद्रव्यविभागास्तेषां भोगो ग्रहणमुपभोगश्च स्मर्तव्यतां स्मरणीयतामेष्यति प्राप्स्यतीति मन्ये जानामि तर्कयामीत्यर्थः । विप्लववरेण देवेभ्यो यज्ञभागा नार्पिता भविष्यन्तीति तर्कयामीतिभावः । भाषा हे नाथ ब्रह्मा जी ! गुप्तचर ने पृथ्वीपर होनेवाले ऐसे उपद्रवों की मुझे सूचना दी है जिससे देवताओं का, यज्ञों में मिलने वाले भागों का उपभोग, केवल स्मरण करने का ही विषय हो जाएगा, ऐसा में अनुमान करता हूँ । अर्थात् ऐसे उपद्रव से भविष्य में यज्ञों में देवताओं को भाग नहीं दिया जाएगा ऐसा मेरा अनुमान है । धर्मद्रुहामत्र निवारणाय कार्यस्त्वया कश्चिदयर्यवीर्यः । रवेरिवांशुपमरेणु यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥४५॥ अन्वयः अत्र धर्मद्रुहां निवारणाय त्वया अवार्यवीर्यः कश्चित् कार्यः । रवेः अंशुपमरेणु इव यस्य वंशेन ककुभः सुस्थाः क्रियन्ते ।

( ३६ ) व्याख्या अत्र क्षितौ धर्मद्रुहां धर्मद्वेषिणामधर्मपरायणानां निवारणाय विनाशाय त्वया ग्रहणाद्वायंमप्रतिहतं वीर्यं पराक्रमो यस्यैवम्भूत्तः कश्चित् कोऽप्यप्रतिहतशक्ति- मान्वीरः कार्यः समुत्पाद्यनीयः । रवेः सूर्यस्यांशुप्रसरेण प्रभासन्तानेनेव (यथा सर्वा दिशस्तमोविनाशेन प्रकाशिता भवन्ति तत्स्थाश्च प्राणिनः सुखेन स्वकार्यकरणेन जीवनमतिवाहयन्ति तथैव) यस्याऽप्यंवीर्यस्य वीरस्य वंशेन कुलेन ककुभः सर्वा दिशः 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तत्स्थाः प्राणिन इत्यर्थः । सुखेन तिष्ठन्तीति सुस्था निरुपद्रवाः क्रियन्ते सम्पाद्यन्ते । राज्ञि सूर्यस्य साम्यात्तद्वंशे चांशुप्रसरस्य साम्यादुपमा । भाषा (इसलिये) इस पृथ्वी पर अधर्मियो का नाश करने के लिये आप किसी अप्रतिहतशक्तिशाली वीर की उत्पत्ति करिए, जिसके वंश के फैलने से सब दिशाओं में रहने वाले लोग, उपद्रवो से दूर होकर, प्रसन्न हो, जिस प्रकार सूर्य की किरणो के फैलने से अन्धकार दूर होकर सब दिशाएं प्रसन्न हो जाती हैं। पुरन्दरेण प्रतिपाद्यमान-मेवं समाकर्ण्य वचो विरिञ्चिः । सन्ध्याम्बुपूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥४६॥ अन्वयः विरिञ्चिः पुरन्दरेण एवं प्रतिपाद्यमानं वचः समाकर्ण्य सन्ध्याम्बुपूर्णे चुलुके ध्यानानुविद्धानि विलोचनानि मुमोच । व्याख्या विरिञ्चिर्धाता 'धाताऽब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः' इत्यमरः । विरिञ्चिर्विरञ्चिरित्युभयमपि साधु । पुरन्दारयतीति पुरन्दरस्तेनेन्द्रेणैवं पूर्वोक्तं प्रतिपाद्यमानं कथ्यमानं वचो वाणीं समाकर्ण्य श्रुत्वा सन्ध्या-सन्ध्यार्घ्याम्बु जलं तेन पूर्ण पूरिते चुलुकेऽञ्जलौ ध्यानेनानुविद्धानि ध्यानप्रसक्तानि विलोचनानि नयनानि, चतुर्मुखत्वाद्वहुवचनम् । मुमोच निक्षिप्तवान् ।

( ३७ ) भाषा ब्रह्माने, इन्द्र द्वारा इस प्रकार कहे हुए वचनों को सुन कर, सन्ध्या सम्बन्धि जल से भरी अँजुली पर अपने ध्यानयुक्त नेत्रों को डाला अर्थात् उसे ध्यान पूर्वक देखा । १कुलकारम्भः— प्रकोष्ठपृष्ठस्फुरदिन्द्रनील-रत्नावलीकङ्कणडम्बरेण । बन्धाय धर्मप्रतिबन्धकानां वहन्सहोत्थानिव नागपाशान् ॥४७॥ अन्वयः प्रकोष्ठपृष्ठस्फुरदिन्द्रनीलरत्नावलीकङ्कणडम्बरेण धर्मप्रतिबन्धकानां बन्धाय सहोत्थान् नागपाशान् वहन् इव । (सुभटो विधातुश्चुलुकादा- विरासीदिति पञ्चपञ्चाशत्संख्याकश्लोकेन सम्बन्धः ।) व्याख्या प्रकोष्ठस्य कूर्पराधोभागस्य पृष्ठे पृष्ठभागे स्फुरन्ती देदीप्यमाना येन्द्रनील- रत्नानामिन्द्रनीलमणीनां रत्नविशेषाणामावली पङ्क्तिस्तस्याः कङ्कणङ्करभूषणं 'कंकणं करभूषणम्' इत्यमरः । तस्य डम्बरेण मिषेण प्रकोष्ठस्थितेन्द्रनीलमणि- घटित-करभूषण-मिषेण धर्मप्रतिबन्धकानां धर्मप्रतिरोधकानामधार्मिकाणामित्यर्थः । बन्धाय नियन्त्रणाय जन्मना सहोत्तिष्ठन्तीति प्रादुर्भवन्तीति सहोत्थांस्तान्, राज्ञो जन्मकालादेव समुत्पन्नान् नागपाशान् सर्परज्जूंवहन्निव धारयन्निव—सुभटो धातु- श्चुलुकादाविरासीदिति सम्बन्धः । इन्द्रनीलरत्नावलीकङ्कणे नागपाशस्य संभावनातदुत्प्रेक्षा । सा च 'डम्बरेण' इत्यपह्नुतिमूलत्वात्सापह्नुवा । भाषा कलाई पर बधे हुए इन्द्रनीलमणि के कंगन के मिष से, धर्म द्रोहियों को बाधने के लिए मानो साथ ही में उत्पन्न भये हुए नागफाश को धारण करता हुआ (एक वीर ब्रह्मा जी की अजुली से उत्पन्न हुआ ।) (इसका सम्बन्ध ५५ वें श्लोक से है ।) १ कुलकलक्षणं त्रिचत्वारिंशत्तमश्लोकटिप्पण्यां द्रष्टव्यम् ।

( ३८ ) उत्तर्जनीकेन मुहुःकरेण कृताकृतावेक्षणबद्धलक्षः । रुषा निषेधन्निव चेष्टितानि दिक्पालवर्गस्य निरर्गलानि ॥४८॥ अन्वयः कृताकृतावेक्षणबद्धलक्षः (सः) उत्तर्जनीकेन करेण दिक्पालवर्गस्य निरर्गलानि चेष्टितानि रुषा मुहुः निषेधन् इव (विधातुश्चुलुकादाविरासी- दित्यग्रिमेण श्लोकेन सम्बन्धः ।) व्याख्या कृतमुचितसमाचारमकृतमनुचितसमाचारञ्च कृताकृते तयोः किमुचितं समाचरितं किं वाऽनुचितमाचरितं लोकैरेतयोर्वेक्षणे पर्यालोचने बद्धं व्याप्तं लक्षं ध्यानं यस्य स धर्माधर्माचरणसमीक्षकैकमनाः स सुभट ऊर्ध्वकृता तर्जनी यस्यैवंभूतेन तेन करेण हस्तेन दिशां पालाः पालकास्तेषां दिक्पालानां वर्गस्य समूहस्य निरर्गलानि निष्प्रतिबन्धानि चेष्टितानि कार्याणि रुषा क्रोधेन मुहुर्वारं- वारं निषेधन्निव निवारयन्निव (विधातुश्चुलुकादाविरासीदित्यनेन सम्बन्धः ।) उत्तर्जनीकरे दिक्पालचेष्टितकर्मकनिषेधक्रियायास्समुत्प्रेक्षणात्क्रियोत्प्रेक्षा । भाषा उचित और अनुचित कार्यों के परीक्षण में दत्तचित्त वह वीर, दिक्पाल लोगों के निरङ्कुश कार्यों का, खड़ी की हुई तर्जनी अंगुली से युक्त, हाथ से मानो क्रोध से बार २ निषेध करता हुआ (ब्रह्मा जी की अञ्जुली से उत्पन्न हुआ ।) भोगाय वैपुल्यविशेषभाजं कर्तुं धरित्रीं निजवंशजानाम् । केयूरसङ्क्रान्तविमानभङ्ग्या भुजोद्धृतक्ष्माभृदिवेक्ष्यमाणः ॥४९॥ अन्वयः निजवंशजानां भोगाय धरित्रीं वैपुल्यविशेषभाजं कर्तुं केयूरसङ्क्रा- न्तविमानभङ्ग्या भुजोद्धृतक्ष्माभृत् इव ईक्ष्यमाणः (विधातुश्चुलुकादा- विरासीदित्यन्वयः ।)

( ३९ ) व्याख्या निजवंशजानां स्वकुलोत्पन्नानां राज्ञां भोगायोपभोगाय धरित्रीं पृथ्वीं वैपुल्य- विशेषं भजतीति वैपुल्यविशेषभाक् तां विशालक्षेत्रां कर्तुं सम्पादयितुं केयूरैरङ्गदै 'केयूरमंगदं तुल्ये' इत्यमरः । संक्रान्तानि प्रतिबिम्बितानि विमानानि गगन उड्डीयमानानि व्योमयानानि 'व्योमयानं विमानोऽस्त्री' इत्यमरः । तेषां भङ्गया व्याजेन भुजाभ्यामुद्धता क्ष्माभृतः पर्वता राजानश्च येन स भुजोपरि समुत्क्षिप्त- महीधर इवेक्ष्यमाणो दृश्यमानः सुभटः प्रादुरासीदित्यग्रे सम्बन्धः । पर्वतैरथवा राजभिराक्रान्तां पृथ्वीं स्ववंशजानां भोगायाऽल्पतरां मत्वा तानुत्क्षिप्य समतलां निष्कण्टकां विशालाञ्च धरा चिकीर्षुरित्यर्थः । नेमे विमानाः किन्तु क्ष्माभृत इति भङ्गि शब्देन प्रतिपादनादाक्षेप॑पह्नुतिस्तन्मूला विमानोपरि क्ष्माभृतामुत्प्रेक्षा । अत द्वयोरङ्गाङ्गिभावसंकरः । भाषा अपने वंश में होने वाले राजाओं के उपभोग के लिये पृथ्वी पर अधिक स्थान बढ़ाने के ध्येय से, भुजा के आभूषण विजावट में प्रतिबिम्बित, आकाश में उड़ने वाले विमानों की परछाई के मिष से मानो भुजाओं से पहाड़ों को या विपक्षी राजाओं को हटाकर दूर फेंक देने के लिये उठाए हुए के ऐसा दिखाई देने वाला (वीर ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।) अखर्वगर्वस्मितदन्तुरेण विराज मानोऽधरपल्लवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसि ॥५०॥ अन्वयः अखर्वगर्वस्मितदन्तुरेण अधरपल्लवेन विराजमानः क्षीरविपाण्डुराणि द्विषतां यशांसि सद्यः पीत्वा समुत्थितः इव । व्याख्या अखर्वो महान् गर्वो दर्पस्तेन यत्स्मितं शुभ्रवर्ण-गर्वहेतुकमीषद्धास्य तेन दन्तुर उन्नताग्रतः 'खर्वो ह्रस्वश्च वामनः इति । 'दन्तुर तून्नतानतम्' इति वाग्भटः । तेनाऽधरः अधरोष्ठः पल्लव इवेत्यधरपल्लवस्तेन विराजमानः सुशोभितः क्षीरवद्दुग्धवद्विपाण्डुराणि शुभ्राणि द्विषतां शत्रूणां यशांसि सद्यः पीत्वा

( ४० ) पानं कृत्वा, नवजातशिशुः पूर्वं दुग्धमेव पिबतीत्याशयः । समुत्थित इव विद्यमान इव सुभटः प्रादुरासीदित्यन्वयः । यशः स्मितञ्च शुभ्रं भवतीति कविसम्प्रदायः । तस्मिन् जातमात्र एव शत्रुयशांसि विनश्यन्ति स्मेति भावः । अधरे पल्लवा- भेदाद्रूपकम् । क्षीरेण यशसः साम्यादुपमा । क्षीररूपयशः पानानन्तरं समुत्था- नरूपोत्प्रेक्षणात्क्रियोत्प्रेक्षा । अत एतेषां संकरः । भाषा अधिक अभिमान से उत्पन्न भई हुई (श्वेत) मुस्कुराहट से विकसित अधरोष्ठ से शोभित (वह वीर) मानो दूध के समान शत्रुओं के उज्वल यशों को पीकर प्रकट भया हुआ (ब्रह्मा जी की अञ्जुली से उत्पन्न हुआ ।) सुवर्णनिर्माणमभेद्यमस्त्रैः स्वभावसिद्धं कवचं दधानः । जयश्रियः काञ्चनविष्टराभं समुद्वहन्नुन्नतयंसकूटम् ॥५१॥ अन्वयः अस्त्रैः अभेद्यं सुवर्णनिर्माणं स्वभावसिद्धं कवचं दधानः जयश्रियः काञ्चनविष्टराभम् उन्नतम् अंसकूटं समुद्वहन् (सुभटो विधातुश्चुलुकादावि- रासीदित्यनेन सम्बन्धः ।) व्याख्या अस्त्रैर्वाणैरन्यास्त्रैर्वाऽभेद्यं भेत्तुमशक्यं सुवर्णस्य काञ्चनाभस्य सुन्दरदेहवर्णस्य निर्माणं निर्मितिर्यस्य स्वभावसिद्धं प्राकृतिकं कवचं तनुत्रं 'अथ तनुत्रं वर्म दंशनम् । उरश्छदः कंकटको जगरः कवचोऽस्त्रियाम्' इत्यमरः । दधानो धारयन्, पक्षे सुवर्णेन हेम्ना निर्माणं यस्यैवम्भूतं कवचम् । श्लिष्टरूपकम् । जयश्रियो विजयलक्ष्म्या उपवेशनाय काञ्चनमय स्वर्णस्य विष्टरमासनं तदाभेयाऽऽभा कान्तिर्यस्य तं सुवर्णसिंहासनसदृशमुन्नतं प्रशस्तमंसकूटं स्कन्धशिखरं समुद्वहन् धारयन् 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । सुभटः प्रादुरासीदित्यन्वयः । काञ्चनाभदेहप्रभाया स्वभावसिद्धकवचत्वस्योत्प्रेक्षणादुत्प्रेक्षा । वाचकाभावाच्च तस्या व्यङ्ग्यत्वम् । अंसकूटे काञ्चनविष्टरस्य साम्यप्रतीत्योपमा । देहरूप सुवर्णे स्वभावसिद्धस्वर्णनिर्मितकवचस्य तादात्म्यारोपाद्रूपकमपीत्युत्प्रेक्षारूपकयोः सन्देहसंकरः ।

( ४१ ) भाषा सोने के समान शरीर के स्वाभाविक रंग के कारण मानो बाणों या अन्य अस्त्रों से न छिद सकने वाले सोने से बने हुए कवच को धारण करने वाला, विजयलक्ष्मी के (बैठने के) सोने के आसन के समान उन्नत स्कन्धप्रदेशों को धारण करने वाला (एक वीर प्रकट हुआ ।) स्वःसुन्दरीबन्दिपरिग्रहाय दत्तोऽञ्जलिः सम्प्रति दानवेन्द्रैः । इति प्रहर्षादमराङ्गनानां नेत्रोत्पलश्रेणिभिरर्च्यमानः ॥५२॥ अन्वयः सम्प्रति दानवेन्द्रैः स्वःसुन्दरीवन्दिपरिग्रहाय अञ्जलिः दत्तः इति प्रहर्षात् अमराङ्गनानां नेत्रोत्पलश्रेणिभिः अर्च्यमानः (सुभटः प्रादुरासीत् ।) व्याख्या सम्प्रत्यधुना राज्ञः समुत्पत्त्यनन्तरं दानवेन्द्रैर्दैत्यपुरन्धरैः स्वः स्वर्गस्य सुन्दर्य एव बन्दिनो वशीकृताः स्त्रियः स्तुतिपाठिका वा 'वन्दिनः स्तुतिपाठकाः' इत्यमरः । तासां परिग्रहाय सुन्दरस्त्रीत्वेन स्तुतिपाठिकात्वेन वा हरणायाऽञ्जलिर्दत्तः । अस्य राज्ञो भयात्सुरसुन्दरीवशीकरणाय तासां हठापहरणम साहसन्तैः परित्यक्त इति प्रहर्षदित्कार्यजनिताऽऽनन्दोद्रेकेणामराङ्गनानां देवाङ्गनानां नेत्राणि नयनान्युत्पलानीव कमलानीव तेषां श्रेणिभिः पङ्क्तिभिरर्च्यमानः पूज्यमानो दृश्यमान इत्यर्थः । न दानवा इतः परमस्य कृपयाऽस्मान्बन्दीकरिष्यन्तीति देवाङ्गनाभिः प्रसन्नताभिर्वृत्तिभिरवलोक्यमान इति भावः । कमलपङ्क्तिभि- रच्यंमाने प्रहर्षस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । नेत्रयोः कमलसाम्यादुपमा । नेत्राण्येव कमलानीति रूपकमपि । अतस्तेषां सङ्करः । भाषा इस वीर के उत्पन्न हो जाने पर अब दानवेन्द्रों ने भय से, स्वर्गीय ललनाओं को, अपनी स्तुति करने के लिये अथवा सुन्दर स्त्री होने के नाते अपने वश में करने के हेतु से, उनका अपहरण करने से मुँह मोड़ लिया है, इस हर्ष से देवाङ्गनाओं के नेत्र रूपी कमलों से पूजित (एक वीर उत्पन्न हुआ ।) अर्थात्

( ४२ ) उन देवाङ्गनाओं का इस वीर के कारण भय दूर हो जाने से वे इसे हर्ष से टकटकी बांध कर देखने लगी थीं। अपि स्वयं पङ्कजविष्टरेण देवेन दृष्टश्चिरमुत्सुकेन । वाञ्छाधिकप्रस्तुतवस्तुसिद्धि-सविस्मयस्मेरमुखाम्बुजेन ॥५३॥ अन्वयः वाञ्छाधिकप्रस्तुतवस्तुसिद्धिसविस्मयस्मेरमुखाम्बुजेन उत्सुकेन पङ्कज- विष्टरेण देवेन अपि स्वयं चिरं दृष्टः सुभट आविरासीदित्यनेन सम्बन्धः। व्याख्या वाञ्छाया मनोरथादप्यधिका विशेषा या प्रस्तुतवस्तुनोऽतिप्रभावशालिनो राज्ञः सिद्धिनिर्माणं तया सविस्मयमाश्चर्ययुक्तं स्मेरमीषद्वोस्यं तेन युक्तं मुखाम्बुजं वदनारविन्दं यस्य तेनोत्सुकेनोत्कण्ठितेन पङ्कजं कमलं विष्टरमासनं यस्य तेन कमलासनेन देवेन ब्रह्मणाऽपि स्वयं चिरं चिराय दृष्टः संवीक्षितः । न केवलं देवाङ्गनाभिरपि तु ब्रह्मणाऽपि साश्चर्यं स्वयं चिरं दृष्टः । मुखेऽम्बुजा- भेदाद्रूपकम् । भाषा अपने मनोरथ से भी अधिक प्रभावशाली नई वस्तु अर्थात् राजा के बन जाने से आश्चर्य युक्त मुस्कुराहट वाले मुखकमल को धारण करने वाले, कमल के आसन पर विराजित उत्सुक ब्रह्मा से भी स्वयं चिरकाल तक अव- लोकित (एकवीर उत्पन्न हुवा ।) कपोपले पौरुषकाञ्चनस्य पङ्के यशः पाण्डुसरोरुहाणाम् । व्यापारयन्दृष्टिमतिप्रहृष्टा - मवाप्तपाणिप्रणये कृपाणे ॥५४॥ अन्वयः पौरुषकाञ्चनस्य कपोपले यशःपाण्डुसरोरुहाणां पङ्के अवाप्तपाणि- प्रणये कृपाणे अतिप्रहृष्टां दृष्टिं व्यापारयन् सुभट आविरासीदित्यनेन सम्बन्धः ।

( ४३ ) व्याख्या पौरुषं पुरुषार्य एव काञ्चनं सुवर्णं तस्य कषोपले शुद्धयशुद्धिपरिचायक- नीलपाषाणरूपे, यशःपाण्डुसरोरुहाणां यशःस्वरूपशुभ्रपद्मानामुत्पत्तिस्थानरूपे पङ्के कृष्णवर्णपङ्करूपाभिषेऽवाप्तः प्राप्तः पाणेर्हस्तस्य प्रणयस्संव्रहणस्नेहो यस्मिन्नेवं भूते कृपाणे सङ्गेऽतिप्रहृष्टामतिप्रसन्नां दृष्टिं व्यापारयन् कुर्वन्—सुभट आबिरासीदि- त्यनेनान्वयः । पौरुषे काञ्चनाभेदस्यारोपस्य कृपाणे कषोपलत्वारोपैकारणत्वाद्य- शसि श्वेतपद्मारोपस्य च खड्गे पङ्कत्वारोपे कारणत्वात्परम्परितरूपकद्वयम् । भाषा पुरुषार्थरूपी सोने की काले कसौटी स्वरूप तथा यशरूपी श्वेत कमलों को उत्पन्न करने वाली तालाब की काली मिट्टी स्वरूप अपने हाथ को प्रिय लगने वाली तलवार को अत्यन्त हर्ष युक्त दृष्टि से देखता हुआ—एक वीर उत्पन्न हुआ । हेमाचलस्येव कृतः शिलाभिरुदारजाम्बूनदचारुदेहः । अथाऽऽविरासीत्सुभटस्त्रिलोक-त्राणप्रवीणश्चुलुकाद्विधातुः ॥५५॥ अन्वयः अथ उदारजाम्बूनदचारुदेहः हेमाचलस्य शिलाभिः कृतः इव त्रिलोक- त्राणप्रवीणः सुभटः विधातुः चुलुकात् आविरासीत् । व्याख्या अथ ब्रह्मणः स्व-चुलुके दृष्टिपातानन्तरं उदारं शुक्लं महत् 'उदारो दातृ- महतोः' इत्यमरः । जाम्बूनदमिव सुवर्णमिव 'रुक्मं कार्तस्वरं जाम्बूनदमष्टा- पदोऽस्त्रियाम्' इत्यमरः । चारुः सुन्दरो देहः शरीरं यस्य स अतएव हेमाचलस्य सुमेरोश्शिलाभिः कृत इव निर्मित इव त्रिलोकस्य त्रैलोक्यस्य त्राणे रक्षणे समुद्धरणे च प्रवीणो निपुणः सुभटः गुग्गोद्धा राजा ब्रह्मणो विधातुश्चुलुकादब्जतेरावि- रासीत्प्रादुर्बभूव । देहस्य जाम्बूनदेन सादृश्यादुपमा । सुभटशरीरे सुवर्णाचल- शिलानिमित्तत्वस्योत्प्रेक्षणात्क्रियोत्प्रेक्षा । इति नवभिः श्लोकैः कुलकम् ।१

१ कुलकादिलक्षणमस्मिन्यन्थे त्रिचत्वारिंशत्तमश्लोकटिप्पण्यां द्रष्टव्यम् ।