भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ
अध्यायाःविषयाःपत्रांकाःपृष्ठांकाः
७९अनैश्वर्यरूपिहिरण्याक्षशिरश्छेदोद्यतस्य धरणीद्विसनाथस्यैश्वर्यरूप-नृवराहस्य निर्माणम् ....३४७
८०हयग्रीवरूपनिर्माणम् ....""
८१शेषशायिरूपनिर्माणम् ...."
८२विष्णोः पार्श्वे पृथक् च लक्ष्मीचित्रनिर्माणकारः""
८३हरिविश्वरूपवर्णनम् ....""
८४वैकुण्ठरूपनिर्माणम् ....३४८
८५वासुदेवरूपनिर्मापणे सायुधसप्तर्षिसहितिकस्य विष्णोश्चतुर्मुखादिभेदेन रूपनिर्माणं तथा भार्गवरामादशस्थिरामादि (देवोद्यान) मूर्ति-निर्माणम् ...."
८६हिमवदादिप्रभासादृदर्शनं तत्र च सर्वतोभद्र+केशवादिमूर्त्ति-स्थापनम् ....३५०
८७मण्डपद्वारशिखरादिषु क्रमासादे पूर्वाद्रिक्रमेण वासुदेवसङ्कर्षणार्दि-मूर्त्तिस्थापनम् ....३५२
८८चतुःषष्टिपदे देवायतने (सामान्यप्रासादे) द्वारप्रतिमापिण्डिका-कवित्वसुधामंतरणीमदिधारिमितिवसुधाक्षरसोपानादिप्रमाणवर्णनम्३५४
८९देवालयार्थं दारुपरीक्षणम् ....""
९०दारुपरीक्षोक्तविधिंविधच्छेदुले दण्डपुरोहिताभ्यां देवाचैर्हिशिलार्पणक्षणं शिलानामुत्तममध्यमनिकृष्टतादिभेदेन तासां फलानि पाकेन तासां दार्ढ्यकरणञ्च ....३५५
९१ब्राह्मणादिजातिभेदेन मृद्मानीय ब्राह्मणादिभिर्ब्रह्मतालादार्थामिष्टका-करणम् ...."
९२बिन्दुकर्कटपिथाश्चाश्रमलीपपुष्पादिभिर्द्रव्यैश्चलेपकप्रकारणाः ....३५६
९३सत्ययुगे देवानां प्रत्यक्षपूजनं त्रेताद्वापाययोः प्रत्यक्षपूजा प्रतिमासु च, तत्रापि त्रेतायुगे गृहे द्वापर चारण्ये कलौ च देवायतननिर्मितिर्नरेषु समारब्धा, भूमिदानं विधायैव देवायतनप्रतिष्ठा कार्या, देवालय-योग्यभूमिः ....""
९४ब्राह्मणादिपङ्क्तिक्रोर्मात् मृशोधननपुरस्सरं शल्योद्धारादि विधाय श्री-विष्णुवाराहुदेवाद्विपूजनं कार्यम्, ऐशान्यां शिलां विन्यस्य प्राग्दक्षिणयेन पुनस्तन्न्यासं समाचरेत् । तद्दहेव सूत्रन्यासनन्द्रादिशिलाचने विधाय चित्रकर्म विधेयं विष्ण्वादित्रासादे गरुडाद्रेक्षाभ्यान्मपि कर्त्तव्यानि...३५७
९५वास्तुपुरुषे शल्यज्ञानं, शल्यं विहाय वास्तुदेवायतनं कर्त्तव्यम्, देवा-यतनदक्षिणादिभागेषु देवतार्कोशभवनादि, धनशल्ये लब्धे वृद्धिः३५८
९६वैश्य, वालिदुगोर्वाञ्च्चिन्यादिक्षेत्रेषु संवत्सरादिषु वर्षेषु वसन्तादृऋतुषु
वि० ध०अनु०
॥१५॥॥१५॥
अध्यायःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायःविषयाःपत्राङ्काःपृष्ठाङ्काः
मासादिमासेषु सूर्यादिवारेषु प्रतिपदादितिथिषु शकुनादिकरणेषु मेषादित्येषु सूर्यादिहोरासु प्रतिष्ठाफलानि ....३६११०७श्रीवासुदेवविवोधनमन्त्राः ....३७१
९७प्रतिष्ठाविधिकथने यजमानस्त्वृत्विग्भिः सह दीक्षाग्रहणं स्वस्तिवाचनपूर्वकं प्रतिसरकंकणबन्धनमासनमर्यादित्यागहविष्यप्राशनादिनियमवर्णनम् ....३६११०८व्यक्ताव्यक्तमूर्तीष्णोध्यानंसौख्यार्थ भोगमोक्षहेतवे च मूर्तिकल्पनावाहनं ....
९८विधिर्बलिंम तामासोऽधिवासनस्थण्डिलपश्चिमादिभागेषु कल्पकादिवेशपुरस्सरं कलशस्थापनांतरीगणन्यासध्वजबितानघटिप्रतीहारस्थापनघटादर्पणादिना सुसजीकरणं रक्षोध्नमंत्रैश्चेश्वररक्षकरणञ्च३६२१०९होमविधिवर्णनम् ....३७२
९९पञ्चगव्यसंस्कारः ....३६३११०श्रीभगवद्विबोधनमन्त्रवर्णनम् ....
१००अर्चाशौचादिविवर्णनम् ....१११बृहत्तनपद्मव्योमन्त्रमाहात्म्यवर्णनम् ....३७३
१०१अधिवासनवर्णनम् ....११२गन्धानुलेपनताम्बूलनिवेदनदूतिं(भांगदान)-वर्णनम् ....
१०२समन्त्रतोकै जीवाधोधाववासनाविधिर्वर्णनम् ...३६४११३मधुपर्कनिवेदनम् ....
१०३नास्त्यादिदेवतानामावाहनानि ....११४श्रीविष्णोर्वस्त्राणिनिवेदनपुरस्सरं भक्ष्यभोज्यादि-(हव्या)-निवेदनम्३७४
१०४ब्रह्मादिदेवतानामावाहनाद्यर्ध्याद धूपोदियमन्त्रकथनम्११५शङ्करगीताधिकविधिना सास्वेतेज्यावर्णनम् ....
१०५लोकपालशूलनन्दीश्वराद्यावाहनम् ....३६७११६तोरणोद्धारादिविधिवर्णनम् ....
१०६श्रीविष्णुव्येवकतावतारिदेवानां युधिष्ठिरादिपाण्डवानां याज्ञसेनीसीतादेवकीयशोदारुक्मिणीप्रभृतीनामावाहनादिवर्णनम् ....३६८११७तत्तद्देवतातिथिषु प्रथमादिपञ्चमादिवसपर्यन्तं विनायकग्रहर्र्कशेनागममथब्राह्मणपूजनानि षष्ठेऽह्नि च बृहत्स्नपनं कर्तव्यम्। तत्र सर्वेषां नागार्दिकाणां गक्षा सह महता वाद्यघोषेण नृत्यगीर्तिादिमङ्गलैस्तुतिभिक्षातृग्ममं निर्मित्तदर्शनञ्च ....
११८धर्मार्थकाममोक्षादिकमानानुरागेणार्तिनरुद्धमंकर्पणप्रद्युम्नवासुदेवाद्यर्चनानि ....३७५
अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
११९समुद्रयात्रानुष्ठानविचारम्भादिकामानुसारं मत्स्यवराहहयग्रीवादिपूजनम्३७५
१२०हयग्रीवादिदेवानां पूजाकालनिर्णयः""
१२१पुष्करप्रयागकालञ्जरादितीर्थेषु ब्रह्मयोगिशयिमहादेवशतकलादिव्रतपूजनानियमः३७६
१२२विष्णोर्वासुदेवादीनामेषु मोक्षादिद्वादशशक्तितर्पणम्""
१२३पूर्वादिदिक्सरलेन क्षमादिकामपरत्वेन च विष्णोश्चक्रादीनामस्मरणकीर्तनादिनाभीष्टसिद्धिः""
१२४चैत्रादिमासपरत्वेन कृत्तिकादिनक्षत्रपरत्वेन च विष्ण्वादीनामस्मरणफलानि३७७
१२५अर्जुनावर्तेन पुष्करादिक्षेत्रेषु पुण्डरीकाक्षादिपञ्चपञ्चाशन्नामकीर्तनादिना पापक्षयपुरस्सरं महत्फलम्""
१२६अष्टपत्रकमलकर्णिकायां ब्रह्मपूजनं पूर्वादिपत्रेषु च ऋगादिपूजनविधानम्३७८
१२७चैत्रशुक्लप्रतिपदादौ ब्रह्मादित्रिदेवपूजनविधानम्""
१२८चैत्रशुक्लप्रतिपदि स्थले जले वा विष्णुपूजनेन सर्वपापक्षयमोक्षप्राप्तिः"
१२९अशीतिभागात्मकप्रकृतिमण्डलनिर्माणवार्तासुष्ठुत्वं, चैत्रशुक्लप्रतिपदि वेधोलक्ष्म्याश्च पूजनादिनियमाः३७९
१३०नामत्रयपूजाचक्रव्रतप्रतिपादनम्३७८
१३१चैत्रशुक्लद्वितीयायां बालेन्दुव्रतवर्णनम्३७९
१३२अङ्गन्यासनिहतिप्रान्तम्""
१३३ज्येष्ठशुक्लतृतीयायां त्रिविक्रमव्रतम्""
१३४अस्यामेव तिथौ द्वितीयं त्रिविक्रमव्रतम्""
१३५अस्यामेव तिथौ तृतीयं त्रिविक्रमव्रतम्३८०
१३६वार्षिकश्चन्द्रेन्द्रस्य विष्णोरुक्त- ज्येष्ठशुक्लतृतीयायां तिथौ व्रताचरणपूर्वकमुक्तेनारत्नलोके यथेष्टसुखप्राप्तिः""
१३७वह्निसूर्यसोमवरुणारुणविष्ण्वेषु श्रुतरश्मिव्रतवर्णनम्""
१३८इन्द्रयमवरुणकुबेरचतुःसीतावतवर्णनम्३८१
१३९विष्णुभूमिमनोबलचतुर्भूतव्रतप्रतिधानम्""
१४०बलज्ञानैश्वर्यशक्तिरुचिमूर्तित्रितयवर्णनम्""
१४१पञ्चमचतुर्भूतकल्पे वेदव्रतकथनम्"
१४२चैत्रशुक्लचतुर्थ्या वासुदेवस्य वैशाखे सङ्कर्षणस्य ज्येष्ठे प्रद्युम्नस्याप-"

वि० ध० | ॥ १६ ॥ | अनु०

[भाग १]

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
ठेऽनिरुद्धस्य चार्चनं विधाय योग्यब्राह्मणाय तत्तद्व्रतोक्तदक्षिणादिदानम् ....३८१
१४३सप्तमचतुर्मूर्त्तिकल्पेनेोद्विव्रतवर्णनम् ....३८२
१४४अष्टमचतुर्मूर्त्तिकल्पे चतुर्युगसूतवर्णनम् ....
१४५श्रावणादिचतुर्मासेषु विष्णुरूपिचतुःसागरोपचरणंकुम्भपूजनहवनादिविधानम् ....
१४६वासुदेवादिचतुर्मूर्त्तिण्डमकरादिरुचिसहितस्य पूजनम् ....
१४७ईशानाद्यैविश्वरूपश्चाक्षुषरूपाणि निर्माय चैत्रशुक्लादिप्रतिपदि भौमनादेयताम्रकाजलस्नानादिपद्मदित्यल्यवबूद्यहोमादिकमारेण व्रतवर्णनम् ....३८३
१४८शंखचक्रगदापद्मानां वासुदेवानिरुद्धादिचतुर्द्दण्डालमकानां श्रावणादिचतुर्मासेषु वह्निस्नानभक्तभोजनादिनियमपुरस्सरमर्चनम् ....
१४९वासन्तिकविषुवद्दिने त्रिरात्रोपवासपुरस्सरं यथाशक्ति वासुदेवाचंनं विधाय पुरो मासतूयं च नित्यार्चनफलाहारविधिं कृत्वा वामरोक्तविषुवद्दिने व्रतं समापयेत् ....
१५०पूर्वोक्त ( १४९ अध्यायोक्त ) व्रते विष्णोः स्यागेऽनंतपूजनं विधाय द्वितीयादिषु महीगंगनेवद्यप्रामेकत्रवर्णनं व्रतमाचरेच्चंडनरूपपुष्पादिव्याभाः ....

[भाग २]

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
१५१नरनारायणहंसादिरूपचतुर्मूर्त्तिव्रतवर्णनम्, समाप्तं चतुर्मूर्त्तितत्त्वम् ॥<br>अथ पंचमूर्त्तितत्त्वम्३८३
१५२चैत्रशुक्लपंचम्यां पृथिव्यादिपंचभूतात्मकस्य विष्णोः शुक्लादिवर्णमण्डलेषु तत्तद्वर्णगन्धपुष्पादिभिरर्चनम् ....
१५३बन्धूकोदधिषुपवित्रस्तरपरिवेस्तरनदीनां सफललतावाविधिवर्णनम्
१५४सावित्रीलक्ष्मीव्रतवर्णनम् ....
१५५पंचमूर्त्तिव्रते शंखचक्रगदापद्मपूजनहवनादि ....३८४
१५६वसतऋतुषु मधुमाधवादियुग्मनामकपण्मूर्त्तितत्त्ववर्णनम् ....
१५७सप्तमूर्त्तिव्रते सुभास्त्रादिदीप्तव्रतवर्णनम् ....
१५८चैत्रमासादारभ्य कृष्णपक्षे प्रतिदिनं रुक्मभौमादित्यालत्र नवव्रतन्म्३८५
१५९चैत्रशुक्लपक्षादारभ्य प्रत्यहं सप्ताहपर्यन्तं जम्बूद्वीपादिममद्वीपवर्णनम्
१६०चैत्रशुक्लपक्षादारभ्य लवणादिसप्तसमुद्रतवर्णनम् ....
१६१महेंद्रादिसप्तकुलपर्वतपूजनविधिवानम् ....
१६२मन्वन्त्यादिसप्तमलोकव्रतवर्णनम् ....
१६३ह्रादिन्यादिनदीव्रतवर्णनम् ....
१६४नागसप्तव्रतवर्णनम् ....
१६५मोक्षप्राप्तिफलदं गताश्वव्रतकथनम् ....३८६
अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
१६६चैत्रशुक्लसप्तम्यां मरुत्प्लावितव्रतम् ....३८६१८२मार्गशुक्लद्वादश्यां धातादित्यादिद्वादशादित्यव्रतवर्णनम् ....३८९
१६७” मरुद्धूतेऽग्नौ गोपतिपूजनम्, तत्र चाष्टदलकमलकर्णिकायां विभावसुं संस्थाप्यर्तुकारिकादिगन्धवैिर्धूपजनैर्विधानम् ....१८३वैशाखत्रयोदश्यां कामदेवव्रतम्....
१६८वसन्ताद्यृतुनुसारं सर्षपार्चनार्चादिदेववर्णनम् ....३८७१८४फाल्गुनशुक्लत्रयोदशीतो दम्पत्यर्च्चनं शुक्लत्रयोदश्यां धनव्रतम् ....
१६९अष्टदलकमले भास्करस्य तदंगदेवांनाञ्च पूजनम् ....१८५ज्येष्ठशुक्लपक्षत्रयोदश्यां वायुलोंकप्रदं वापिकव्रतम् ....
१७०रक्तसप्तमीव्रतवर्णनप्रसंगेन सांगदेवभास्करपूजनम् ....१८६पौषमासिककृष्णचतुर्दशीषु वत्सरपर्यन्तं विरुपाक्षव्रतस्य कृष्णचतुर्दशीभ्यां यमव्रतम् ....
१७१संवत्सरपर्यन्तमुक्तविधिना सप्तमीव्रतकरणेन सूर्यप्रसादात्सतवार्थाभिष्टिसिद्धिः३८८१८७फाल्गुनशुक्लपक्षचतुर्दश्यां शिवव्रतम् ....
१७२ब्रह्मसूर्यदिग्निभपालपुरस्सरस्याम्यश्वसुपूजामाहात्म्यम् ....१८८चैत्रशुक्लपक्षादारभ्य वर्षपर्यन्तं प्रतिपञ्चदशीषु श्राद्धपापिनुव्रतम्३९०
१७३सोमाष्टमी महेश्वरव्रतपूजोपवासस्नानप्रदानिकरणफलम् ....१८९चैत्रकृष्णपञ्चदशीतो वर्षपर्यन्तं वह्निहुतदहनवानादिक्स ....
१७४हिमवदादिपर्वतेशशैलानां भद्रादिनववर्षाणां नवम्यां पूजनम् ....१९०अमावास्यायां चन्द्रसूर्यव्रतवर्णनम् ....
१७५भद्रकालीव्रतपूजाविधानम् ....१९१कार्त्तिकरात्रौस्थितिप्रतिमासं कृत्तिकागोहिण्यादिनक्षत्रयुतचन्द्रमःपूजनाद्विवर्णनम् ....
१७६दशम्यां क्रत्यादिवेधदेवव्रतवर्णनं समाहात्म्यम् ....१९२कात्तिकपूर्णिमायां षोडशदले पद्मे कर्णिकायां चन्द्रस्य केसरेष्वष्टाविंशतिनक्षत्राणां पत्रेषु च तिथिनिदेवतानां सचन्द्रिकाणां पूजनविधिः
१७७” अङ्गिरोव्रतवर्णनम् ....१९३प्रौष्ठपदपूर्णिमायां वरुणव्रतवर्णनम् ....
१७८धर्मव्रतवर्णनम् ....१९४आश्वयुक्पूर्णिमायां शक्रव्रतवर्णनम् ....
१७९मार्गशीर्षमासमारभ्याऽसंवत्सरमेकादश्यां रुद्रमहद्रुद्रव्रतवर्णनम् ....३८९१९५आश्वयुक्पूर्णिमायां शक्रव्रतम् ....
१८०मार्गकृष्णद्वादशीषु संवत्सरपर्यन्तं शुचिव्रतवर्णनम् ....
१८१मार्गशीर्षद्वादश्यां वत्सरपर्यन्तं साध्यव्रतवर्णनम् ....

वि० ध० | अनु०


॥ १७ ॥

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
१९७ब्रह्मकूर्च-(पञ्चगव्य) वर्णनम् .... .... ....३९०
१९८पौर्णमामावास्यासु द्वादशवर्षपर्यन्तं महाव्रतम् ....,,,,
१९९तिर्यग्योनिसंरूढदशजन्मनि निवारकं मेषादिसंक्रान्तिषु पशुरामकृष्णादिव्रतम् .... .... .... ....,,,,
२००इष्टप्राप्त्यादिव्रतवर्णनम् .... .... ....,,
२०१सत्कुलादिमित्रव्रतवर्णनम् .... .... ....,,,,
२०२रूपावाप्तिव्रतवर्णनम् .... .... ....,,,,
२०३इह लावण्यमदभन्ते च स्वर्गाप्तिकरं व्रतम् .... ....३९२
२०४सौभाग्यविधायकव्रतम् .... .... ....,,,,
२०५आश्वयुजप्रतिपद्मारभ्यास्यपर्यन्तमारोग्यसम्पदादिषड्विधव्रतविधानम्,,,,
२०६ज्ञानबुद्धिविवर्द्धनं वैशाखमासवतम् .... ....,,,,
२०७विद्याप्राप्तिव्रतवर्णनम् .... .... ....,,
२०८शीलप्राप्तिव्रतवर्णनम् .... .... ....,,,,
२०९धर्मप्राप्तिकरं श्रावणमासवतम् .... ....,,,,
२१०धनप्राप्तिकरं सङ्कर्षणव्रतम् .... ....,,,,
२११लक्ष्मीप्राप्तिकरं ज्येष्ठमासवतम् .... ....,,,,
२१२भोगावाप्तिकमाघाद्यष्टमासवतम् .... ....३९३

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
२१३जयप्राप्तिविधायकं कार्तिकमासवतम् .... ....३९३
२१४कार्तिकपौर्णमासीतः श्रावणीपर्यन्तं प्रतिपद्दिनेषुजननव्रतविधानम् ....,,,,
२१५फाल्गुन्याद्याश्चतस्रऋक्षैरेकादशीषु विविक्तकृष्णेकशयनादिव्रतकथनादिह लोके श्रेष्ठाप्तिमृतिकालसमये च श्रीकृष्णस्मरणमाप्नोति जनः ....
२१६फाल्गुनपूर्णिमायां लक्ष्मीनारायणाविन्दुगोरात्रिरूपिणावभ्यर्च्य चैत्रवैशा-खज्येष्ठमासेषु चैतेयथासंख्यं पारणमा आपाढाश्रावणाभाद्रपदाश्विन-मासेषु श्रिया सह श्रीधरं सम्पूज्य चन्द्रमसः पूजनेन द्वितीयं पारणम् । कार्तिकादिमासेषु केशवमर्चयित्वा मुक्तिचन्द्रमसः पूजनेन तृतीयं तुरीये पारणम् । एतत्पारणत्रये प्रथमपारण पञ्चगव्यप्राशनं, द्वितीये कुशौदकं, तृतीये सुवर्णोदकप्राशनेति नियमनं लक्ष्मीनारायणौ सम्पूज्य नरो नैविद्ययुक्तैऽन्नफलैर् लभते च द्रुमस्मृतिं मुक्तिञ्च तत इति ....३९४
२१७चैत्रकृष्णाष्टम्यामुपवासपुरस्सरं कृष्णाष्टमीमर्च्य वशागव्यदुग्ध-योनिन्नमिश्रकपारणव्रतस्नानादिविधानेन सम्मस्तानायुरन्नदा स्यात् ।,,
२१८हरिशयनप्रबोधनयोर्मध्ये द्वादशव्रतविधानाव्रतनिर्देशनम्,,,,
२१९भाद्रशुक्लद्वादश्यां प्रारभ्य यावत्संवत्सरं द्वादशीव्रतव्रतवर्णनम्३९७,,
२२०पापशुद्धशर्वाणी दम्परत्नं प्रनहद्भावनेषु जगदर्चितनदानगोदत्र-प्राप्तानादिविधानम् .... .... ....,,,,

॥ १७ ॥

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
२२१चैत्रशुक्लप्रतिपदादौ ब्रह्मादिदेवानां सहेतुफलं पूजनम्३९६र्जन्मादिनियमपुरस्सरमाचारगतिकथनम्४०१
२२२रोचेषु मासोपवासफलानिरूपणम्३९७"२३४महापातकोपपातकादिनिर्देशपूर्वकं प्रायश्चित्तवर्णनम्४०३
२२३तत्तन्नक्षत्रेषु तत्तद्देवादिपूजनवर्णनम्३९८"२३५रहस्यप्रायश्चित्तनिर्देशः४१०"
२२४अष्टावक्रादिक्संवादे तया स्त्रीस्वभावादिवर्णनं भार्गवेण मुनिनिष्ठावक्त्राय स्वसुताया दिशो दानञ्च३९९२३६पापप्रशमनाश्राद्धजपादिच्छिद्रच्छद्मवर्णनम्""
२२५पुरुषसूक्तविधानेन संवत्सरपर्यन्तं हंसस्वरूपजनार्दनपूजनव्रतम्४००"२३७दानतपोवृद्धगवादिकर्मदानं भोगिनस्त्वग्ज्यामालादिकल्पकथनम्४११
२२६ऋतुतुगस्यान्ते दाम्पत्यव्यवहारप्रवृत्तैर्लोभदंभादिदोषमाकुले लोके हंस-रूपिनारायणेन मुन्यनुरोधेन ज्ञानोपदेशकथनमभिहितमासीत्""२३८निधनसूचकाङ्गारिष्टयोगवर्णनम्४१२
अथ हंसगीता।२३९अज्ञानेनापाज्ञानफलानि४१३
२२७वर्णाश्रमधर्मवर्णनम्"२४०पापफलदुःखवर्णनम्"
२२८ब्रह्मचर्यपालनपुरःसरं वेदस्वीकरणादन्यमावण्याद्गुरुकुले वासो गृहाश्रमस्वीकृतिर्वा""२४१कामासक्तिनिन्दाथार्थ्यपूर्वकं कामसेवनेन सुखम्""
२२९गृहस्थधर्मवर्णनम्४०१२४२चञ्चलं लक्ष्मीरस्वभावं निश्चित्य तन्नाशे न हृष्येत्४१४"
२३०भिक्षाभक्ष्यवर्णनम्""२४३मानदोषवर्णनम्""
२३१द्रव्यशुद्धिनिरूपणप्रसङ्गे मलमूत्रादीनां परिगणनम्"२४४मददोषवर्णनम्""
२३२अशौचविधिवर्णनम्""२४५लोभदोषवर्णनम्""
२३३हस्ते देवादि‍तर्पणानि जपादिकोले मनःप्रणिधानमक्रोधकार्याद्यावन्त-२४६क्रोधदोषवर्णनम्""
२४७नास्तिक्यस्य गुरुतरपापवर्णनम्""
२४८अहङ्कारस्य सर्वनाशकत्वम्४१५
२४९शौचवर्णनम्""

वि० ध० ॥ १८ ॥ अनु० ॥ ३८ ॥

अध्यायःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायःविषयाःपत्राङ्काःपृष्ठाङ्काः
२५०अशौचदोषाः४१५२६७शूरशौर्यवर्णनम्४२०
२५१अनृतदोषवर्णनम्,,२६८अहिंसागुणहिंसादोषवर्णने४२१
२५२हिंसादोषकथनम्४१६२६९क्षमागुणवर्णनम्,,,,
२५३कायवाङ्मनोजनितपापफलनिर्देशवर्णनम्,,२७०कृतज्ञता (आनृशंस्य) गुणवर्णनम्४२२
२५४ज्ञानमहत्त्ववर्णनम्४१७२७१आचारगुणवर्णनम्,,,,
२५५धर्मप्रशंसावर्णनम्,,,,२७२शौचप्रशंसा,,
२५६गृहस्थाश्रममाहात्म्यम्४१८२७३तीर्थानुसरणप्रशंसनम्,,,,
२५७स्वाध्यायप्रशंसा,,,,२७४उपवासप्रशंसावर्णनम्४२३
२५८ब्रह्मचर्यप्रशंसावर्णनम्,,२७५मनःशौचिनिरूपणम्,,
२५९सन्तानप्रशंसा,,,,२७६श्रद्धावर्णनम्,,,,
२६०कीर्तिप्रशंसावर्णनम्,,,,२७७ज्ञानमाहात्म्यवर्णनम्,,,,
२६१यशःप्रशंसावर्णनम्,,,,२७८जपप्रशंसावर्णनम्४२४
२६२यज्ञप्रशंसावर्णनम्४१९२७९जलान्तर्जपमाहात्म्यवर्णनम्,,
२६३शीलप्रशंसावर्णनम्,,,,२८०प्राणायाममाहात्म्यवर्णनम्,,,,
२६४दम (जितेन्द्रियत्व) प्रशंसनम्,,,,२८१प्रत्याहारवर्णनम्,,,,
२६५सत्यप्रशंसावर्णनम्,,२८२धारणातिरूपणम्४२५
२६६तपःप्रशंसावर्णनम्,,,,२८३ध्यानवर्णनम्,,,,
अध्यायाःविषयाःपत्रांकाःपृष्ठांकाः
२८४समाधिनिरूपणं सफलम्४२६
२८५व्यवसायाववर्णनम्४२६
२८६संकल्पवर्णनम्,,,,
२८७होमविधिवर्णनम्,,,,
२८८देवपितृपूजाफलवर्णनम्,,
२८९आतिथ्यपूजामहत्त्वकथनम्४२७
२९०ब्राह्मणमहत्त्ववर्णनपुरस्सरं तच्छुश्रूषाफलम्४२८
२९१गोमहत्त्वप्रदर्शनपुरस्सरं तच्छुश्रूषणम्,,
२९२दयामहत्त्ववर्णनम्४२९
२९३दाक्षिण्यनिरूपणम्,,
२९४प्रियंवदप्रशंसा,,,,
२९५आलस्यदोषप्रकटनपुरस्सरं यत्नस्य कार्यसाधकतावर्णनम्,,,,
२९६उदकमहत्त्वप्रदर्शनपुरस्सरं तडागादिनिर्माणफलम्,,,,
२९७वृक्षारोपणपुण्यफलारामदिनिर्माणकर्तृणां तत्तल्लोके सुखनिवास-निरूपणम्४३०
२९८प्रपानिर्माणतज्जलाभ्यां पथिकतृषितजनितानि प्रपाकर्तृपञ्चारकयोः फलानि४३१
२९९तामसादिविभेदेन पुण्यफलोपदेशः, शुक्लकृष्णशबलव्याप्तिभेदेन धर्मादि-चाराश्च४३१
३००दानकालसम्पद्दानफलादिकथनम्४३२
३०१प्रतिग्राह्यपदार्थमितमहत्त्वमयतद्देवतादिवर्णनम्,,,,
३०२अभयप्रदानप्रशंसावर्णनम्,,
३०३वेदापवेदाङ्गधर्मशास्त्रार्थव्याख्यानस्य दुस्सङ्गिनिवारणस्य च फलम्४३४
३०४कन्यादानफलम्,,
३०५आरामजलाशयदेवताया विधिविशिष्टोप्रकारकर्मोविविधान्नमलाक्तसु-वस्त्र दाने फलानि४३५
३०६गोप्रदानशक्तपरमाह्लादिकफलानिरूपणम्,,
३०७घृतधेनुकल्पवर्णनम्४३७
३०८तिलधेनुविविधदानवर्णनम्,,
३०९जलधेनुविविधदानवर्णनम्४३८
३१०सुवर्णतिलादिविधाननिरूपणम्,,,,
३११आसनशय्यावितानच्छत्रोपानत्तथादिदानफलवर्णनम्,,
३१२नृवाहशिविकादासदास्यादिदानमाहात्म्यम्४३९
३१३रूपलावण्यधनसौभाग्यादिमदशमकापरसेविकादिदानवर्णनम्,,

वि० ध० | अनु०


[भाग १]

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
३१४सूर्य्याश्वदर्शकलैकादिमापकरफंशालियुगपञ्चकलामादिधान्यदानवर्णनम् ....४४०
३१५प्राणानामन्नमयत्वात्सर्वेषामपि जीवाना मन्नाधिकारित्वदाविर्विशेषेणान्नदानस्य माहात्म्यं तत्रापि भोजने ब्राह्मणानांगुणबाहुल्यम् ....
३१६पात्रविशेषेण दानविशेषफलवर्णनम् ....
३१७कालविशेषे दानविशेषफलवर्णनम् ....४४१
३१८तद्दानफलं नक्षत्रव्रतवर्णनम् ....४४२
३१९चैत्रादिपूर्णिमासु द्वादशीषु च व्रतोपवासदानादिफलवर्णनम् ....
३२०चैत्रपञ्चदश्यामुपवासादिचित्रवस्त्रादिपुरस्सरं नक्तैकभक्तादिनियमपालनपूर्वकं मासव्रतविधानम् ....४४३
३२१गृहीतविष्णुपञ्जरश्रवणादिना यमकुवेरादित्याद्यष्टकेषु प्रतिद्यत्सुखादिप्राप्तितत्तल्लोकान्त्यानुभावविवर्णनम् ....४४४
३२२पातिव्रत्यादिकर्म्मयनिरूपणम् ....४४५
३२३वर्णानां स्वेस्वे धर्मे स्थापनान्निरोग्यधर्मनिरूपणम् ....
३२४कुलश्रवणाद्याधिकृतगणानिर्याणपुरस्सरं वृद्धब्राह्मणैः सह गतो व्यवहारदर्शनवर्णनम् ....४४६
३२५विशुद्धागमपूर्वकस्य भूम्यादिभागस्य प्रामाण्यवचनम् ....४४७

[भाग २]

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
३२६व्यवहारेषु पौरुषद्दिव्ययोर्निर्णयोधौर्लिखितसाक्षिभेदेन द्विविधपौरुषेऽपि राजसाक्षिकससाक्षिकस्वहस्तलिखितभेदेर्कोविध्यं तत्र स्थावराणां लेख्येनैव सिद्धिरलेख्यस्य सोपध्ये दिव्यधैर्व्यव्यवस्था ....
३२७कृताकृतभेदेन साक्षिणामेकादशविधता, पूर्वपक्षीणां साक्षिषु पूर्वं प्रक्षा, साक्षिभेदवृत्तसाक्षिणोनिर्णयः, नृपतिशिल्पिश्रोत्रियादीनां साक्ष्यनिषेधः, आसानां सर्वेषांच साक्षित्वम् देवद्विजातिसन्निधावुदङ्मुखेन पूर्व्वाहे सशौचं साक्षिग्रहणम्, साक्ष्यारम्भे ब्राह्मणादीनां सत्यादिना शपनम् ....४४८
३२८कोशाद्यादिभेदेन दिव्यानामष्टविधता, तत्र कोशस्याशिरस्कता, विप्रवर्ज्यं वर्णानां कोशादानम्, देशकालाबधुभयं दिव्यदानम्, गजाश्वदेशकाण्टककानां निस्सारणं कर्त्तव्यम्, दिव्याहिर्डनऋनयम्, तुलायोग्यशुस्तलक्षणनिर्माणिप्रकारातद्वेक्षणशान्तिपुरस्सरं तदुपविष्टस्य शुद्धिज्ञानम्, वह्निसाध्यादिव्यद्यानां विधानप्रकारः ....
३२९ब्राह्मणादिवर्णानामष्टौ विवाहाः, कन्यादायोपच्छ्लोकांगपक्कोपदण्डा, ज्ञातिबलाद्विक्रयमंत्रिणोणिग्याः कटीरमाणदण्डः, भार्याया व्यभिचारे दण्डः, एकवगाय कन्यां दत्त्वाऽन्यस्मै क्षात्रे विनवृत्तयोंशाद्दण्डो राजा देयः। ऋतौ भार्यामगच्छतो भतृर्मातातथा अगच्छन्त्या भा-

॥११॥
॥१२॥

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःदिनयाःपत्राङ्काःपृष्ठाङ्काः
योग्याश्च दण्डः। ऋतुसत्या भर्त्रऽप्रतिपादिताया वर्षत्रयात्सत्यं विवाहाधिकारः।.... .... ....४५०३३७सीमाविवादे सामन्तस्थविरागोपकृषकादिद्वारा तन्निर्णयः, सस्यक्षेत्रेषु सस्यनाशकमाहिषादीनां स्वामिषु दण्डकल्पना .......
३३०औरसादिद्वादशविधपुत्राणां पित्ररिक्थाधिकारः, प्रतिलोमजातानां जडादीनाञ्च भरणमात्रं, पतितानामनधिकारः, क्रमागतभूम्यादौ पितापुत्रयोस्तुल्याधिकारः, पित्यूर्ध्वं विभागे मातापि समांशभागिनी, ब्राह्मणादीनां क्षत्रियादिपुत्राणामंशविभागः, अपुत्रधनभाजां निर्देशः, स्त्रीधनन्तदधिकारिनिरूपणञ्च .... ....४५१३३८धर्माद्यर्थकमूलं हि धनं नृणां बहिश्चराः प्राणास्तद्धर्तॄन्प्रजा वातयेत, ब्राह्मणांस्तु स्वराष्ट्राद्दिवासयेत्, महापातकात्साहसिकादीनामवश्यं दण्डयत् .... .... ......,,
३३१ऋणादानप्रसङ्गे चोत्तमर्णोधमर्णान्न धनं संवृद्ध्यावृद्धिं वा यथानियमं देयं, देवराजदोषादहृते चाधिभोक्ता सवृद्धिकरादिदेयः, एकस्याविभक्तस्मै दातुः प्राणदण्डः, पश्चाद्विचैत्तनां वा नष्टेऽपि धतिनोऽक्षतिः, द्विरूप्यपक्षादिषु वृद्धिनियमः, त्रिपुरुषपर्यन्तमृणदानम्, प्रातिभाव्ये ऋणदानव्यवस्था, अशक्तौ कर्मकरणम्, ....४५२३३९आत्मनो वलीपलितमपश्यस्य चापत्यं वीक्ष्य गृहं वानप्रस्थमाश्रयेत, तत्र च सभायां निर्लोभो वः नियम्रनीतुपाचन्वयेन च कन्दमूलादिना वर्त्तन्देवपित्रातिथीनभ्यज्ययथावलम्पञ्चाश्रितपक्षशणादिनाकालं नयेत्प्रमाशाद्दष्टा प्रासानानायोषावलाभेन विशेद्धिहाभे च न हृष्येद्दिस्वादिवानामश्यमंयोग दुग्कन्तपः कुर्यात् .......४६० २
३३२निक्षेपरक्षावर्णनेन याचित्तान्वाहितादीनामपि गतार्थता ...४५३३४०आयुषश्चतुर्थस्त्ये भागे यातिधममाश्रयेत. तत्र चेद्विप्रगुरूसरप्रशोगात्मनि समारोप्य ब्रह्मास्रमो भवेत् । ग्सारस्वादल्पमटो न स्यात. कर्मवाङ्मनोदण्डवान्भवेत्, 'दृष्टिपूतं न्यस्तपादं वस्त्रपूतं जलं पिवेत, सत्य पूतां वदेद्वाणीं मनः पूतसमाचरेत !, शङ्गाभिन्नादिषु समानभावं कुर्यात् .... .... ......,, ,,
३३३सम्भूयसमुत्थाने क्षयव्ययवृद्ध्यनुसारमंशकल्पना ...,,,,
३३४कायदेशकर्मार्थाधिककर्मकरादिदत्तनादिनियमः ...,,,,
३३५क्रयविक्रयनियमनिर्णयः ... ...४५५३४१विष्णुमाश्रित्य कृतानां धर्माणां फलवत्त्वम्, तत्स्मरणकीर्तनादिभिस्तिर्योन्गम्य सवार्थलाभकत्वम्, दुर्वालबत्रिमाय तद्दत्तपरमाणुसंख्या-
३३६पाषण्डनैगमादिविभागवर्णनम् ... ...,,,,
वि० धं०अनु०
॥२०॥॥२०॥
अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
वृक्षस्वरूपान्नं स्वर्गलोके पूज्यते देवालयेकृत । काष्ठामललोहताम्र-रौप्यरलनिर्मितप्रसादे विष्णुप्रतिमापूजनेऽनन्तपुण्यम् । देवप्रासादे सुधासंस्कार-चित्रकरण-गीतवाद्यनृत्यकरण-प्रक्षीणमद्यदानाभ्यर्थनामृक्षण-सम्मार्जनानुलेपन-पुष्पोपचय-जीर्णोद्धार-कीर्त्तन-सहस्रनामोच्चारणपूर्वकस्तवन-चतुर्वेदैस्तत्प्रकारामिभ्रुस्तवन-भक्तिभावूर्ध्वस्वरचित्तस्तवतवन-तन्माहात्म्यप्रतिपादकपुस्तकविवरण-तद्देहीभ्यस्तन्माहात्म्याश्रवण-तदालये शंखघण्टाकिंकिणीपताकादिप्रदान-विचित्रपुष्पसमलंकृतवाटिकानुकारिण्यादिनिर्माणरसङ्ख्यापुण्यफलभाक्त्वम् । एवंविधमहापूजया सकामस्यान्तकालपरिमितसुखभोगाभावापि न तादृग्भावतोपो यादृङ् निष्कामस्येति ...४५६सुखस्यापात् । स्वामरात्भयदर्शानि हगे रुष्टेऽधोलितं च गरुत्मति हरिणाङ्गिके तत्पृष्ठेऽध्यापयतःद्वारक्रान्तस्य तादृशस्य पक्षशान्तं बलहानिश्च समजर्नि, हरिश्चार्यमेव महिमा कोऽहं वराक इति गतगर्वाय खगेश्वराय भगवता प्रसादपुरस्सरमपमितबलप्रदायि...
३४४कश्यपकृतविष्णुस्तवः४६४
३४५भूविवरस्थराज्ञो ( उपरिचरवसोः ) रक्षणवर्णनम्
३४६वैष्णव्यपराजिताविद्यावर्णनपुरस्सरं वसुकृतगरुडस्तोत्रम्४६५
३४७वसुकृतं वासुदेवस्तोत्रम्४६६
३४८विष्णुना वसवे सत्यपालनपुरस्सरं ब्राह्मणापमानवर्जनेोपदेशकथनम्
३४९विश्वरूपदर्शनार्थं नारदस्य श्वेतद्वीपगमनम्४६७
३४२श्रीविष्णुतत्त्वान्ते मुनिदृष्टहंस ( विष्णु ) विश्वरूपदर्शनम्४६३३५०विश्वरूपदिदृक्षया श्वेतद्वीपं नारदकृतं स्तोत्रम्४६८
॥ इति हंसगीता ॥३५१श्वेतद्वीपे नारदस्य विश्वरूपदर्शनं तत्रत्यमहान्तर्यामीपीडिताप्तिश्च....
३४३गुणकथासात्स्यशक्त्या वरमार्थणाय नारदसहायं मातली निर्गते मुहुर्वाक्यं तावपश्यताम्, तत्रैव शक्रदर्शनानन्तरं तौ तांस्तान्स्वसाम्यमयाचताम्. अमिति शक्रोक्तावपि विष्णुमर्चय्य मातलिर्वेततयाऽभयं३५२सरःसन्निहिताश्वत्थविधन्धन्यान्मस्वा हृदये प्रदर्य हसन्तमष्टमण्डलं निम्माय मध्योऽष्टपत्रपद्मं लिखेत. तत्कर्णिकामध्ये श्वेतकानपत्रकर्णिकापद्मकमण्डलं, तदुपरि चन्द्रमण्डलं. तदुपरिभीमण्डलं पद्मपुष्पमण्डलंगं विष्ण्यमंतृ. कमलपुर्वोद्दिष्टश्वश्वकारिषु वासुदेवसंकर्षणादीन्न्यनेन. प्रपूर्वोद्दिष्टेषु वेनतयादींश्च न्यनिस्या बाह्यमूर्ध्वा पद्मावादींश्चमोंकारा-
संख्याःविषयाःपत्राङ्काःपृष्ठाङ्काःसंख्याःविषयाःपत्राङ्काःपृष्ठाङ्काः
कारादिक्रान्तिक्षामिनष्टेति वरुणकुवेरनेत्राभ्यां न्यसेत, यथाक्तारूपं ध्यायेत् । "ॐनमो भगवते वासुदेवायत्यनेन" ॐनमो नागयणेत्यनेन वा संविधि पूजयंत .... ....४६१३०७नागमंत्रानपुरस्सरं नारगादिविषूचपमानशान्तये क्कते निदेशः ....१७०
३०८लिङ्गमोटननृसिंहवर्णनम् .... .... ....
३५५श्रीमन्नृसिंहस्तोत्रवर्णनम् .... ....१७१

॥ इत्यनुक्रमणिका समाप्ता ॥


केके ह्यपूर्वविषयाः प्रतिपादिता न धर्मांतरेऽत्र महितै किल विष्णुपूर्व्वे ॥
तस्यातिसूक्ष्मविषयप्रतिपादकंच वोऽनुक्रमोऽकृत मया तनुबुद्धिभाजा ॥ १ ॥
सर्व्वांतरस्थितमहामहिमप्रतीतः सर्व्वेश्वरः सकलवाञ्छितसिद्धिदाता ॥
लक्ष्मीसहाय उरुगाययशाः प्रसीदेदित्यं प्रयाचति हृदा हरिदत्तशर्म्मा ॥ २ ॥

॥ इति श्रीविष्णुधर्मोत्तरमहापुराणविषयानुक्रमणिका समाप्ता ॥

॥ अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ॥

The provided image is completely blank and contains no text to transcribe.

श्रीगणेशाय नमः ॥ ॐ श्रीनारायणाय नमः ॥ अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ कृतवर्मा तथा भोजः श्वेतो माहिष्मतीपतिः ॥ कुलिन्दः सर्वदमनो मालवेन्द्रस्त्वधूर्द्धनः ॥ २ ॥ वत्सनामश्च बाणश्च नन्दीशो दरसत्पतिः ॥ प्रतिसारश्वित्रधनुस्सवौं वायुरथस्तथा ॥ ३ ॥ द्रविडः कुसुमापीड ओड्रश्च समरप्रियः ॥ शम्भुः किरातराजश्च ओरसो नन्दिवर्द्धनः ॥ ४ ॥ वटुमुलश्च तूनेशः शाल्वश्च जनमेजयः ॥ सुभ्राजो दीर्घकर्णो बाह्रीको दमनस्तथा ॥ ५ ॥ हिरण्यनामः कौसल्यो दशार्हो विजयस्तथा ॥ एते चान्ये च राजानः शतशो बहुदक्षिणाः ॥ ६ ॥ सम्पूर्र्णचन्द्रवदना गजराजकरोरवः ॥ उपासांचक्रिरे वज्रं सिंहासनगता नृपाः ॥ ७ ॥ बहुभिर्भूमिपालैश्च तथा वज्रेण धीमतां ॥ युधिष्ठिरण च सदा शोभिता शुशुभे सभा ॥ ८ ॥ राजानस्ते ततो दृष्ट्वा ऋषीन्दुंल्लभदर्शनान्॥ ब्रह्मलोकस्थमात्मानममन्यन्त यशोभृतः ॥ ९ ॥ ऊचुस्ते प्रणयाद्वाक्यं वज्रं भूरिसहस्रदम् ॥ यथा त्रेतायुगे राजन् द्वापरे च यथा नृपाः ॥ १० ॥ ब्राह्मणा ब्रह्मकल्पाश्च तथैव सुसमागताः ॥ १० ॥ अस्मिंस्तिष्ये च संप्रति तव राजन् प्रसादतः ॥ राजन् कृष्णसगोत्रोऽसि तेनेयन्ते सभा नृप ! ॥ ११ ॥ उपास्यते महाभागैर्ब्रह्मकल्पैस्तपोधनैः ॥......................न तथा वीर्यनिर्जिता ॥ १२॥ भक्त्या यथा तु तत्त्वेन कृष्णस्यामिततेजसः ॥ तेन कृष्णेन ये चक्रुर्व्यतीताः पूर्वपार्थिवाः ॥ १३ ॥ वर्त्तता तेन कृष्णेन ते राजन् मोक्षमाप्नुयुः ॥ अथ तिष्ययुगः प्राप्तो घोरः परमदारुणः ॥ १४॥ दुर्लभं दर्शनं यत्र नृपसवै महात्मनाम् ॥ १५ ॥ तत्सारवं राजशार्दूल प्रष्टुमहौ द्विजोत्तमान् ॥ वैष्णवान्विविधान्धर्मान्सरहस्यान्ससंग्रहान् ॥ १६॥ इत्येवमुक्तो वज्रस्तैस्त्यक्त्वा सिंहासनं तदा ॥ वज्र तु प्राञ्जलिं दृष्ट्वा सर्व एव नराधिपाः ॥ १७ ॥ वरासनान्युत्थायोशु तस्थुः प्राञ्जलयस्तदा ॥ वज्र उवाच ॥ भवद्भिर्नृपशार्दूलाः प्रार्थिता ये द्विजाः स्थिताः ॥ १८ ॥ अनुग्रहार्थं भूपानां जगतो हितकाम्यया ॥ भवन्तो वक्तुमर्हन्ति विष्णुधर्मान्सना तनान् ॥ १९ ॥ तस्मात्तिष्ययुगे नास्ति भवतो दर्शनं नृपैः ॥ ऋषय ऊचुः ॥ उत्तिष्ठ त्वं महीपाल अलङ्कुरु स्वमांसनम् ॥ २० ॥ श्रवणेपि वयं तस्य विशेषेणार्थिता नृप ॥ वज्र ते संशयान्सर्व्वाञ्छेत्स्यत्येष महामुनिः ॥ २१ ॥ इत्येवमुक्ता वज्रं ते ऋषयस्तपसि स्थिताः ॥ मार्कण्डेयमथोचुस्ते ब्रूहि धर्मान्महीपते ॥ २२ ॥ वैष्णवान्विविधान्धर्मान्मोक्षोकानांमघहारिणः ॥ तथा पार्थिवसंशस्य संशयान् मनसि स्थितान् ॥ २३ ॥ मार्कण्डेय उवाच ॥ ब्रह्मण्यः सत्यवान् धन्यः सर्वयज्ञनिबर्हणः ॥ यद्गत्पृच्छसि मां वज्र तत्तद्वक्ष्याम्यसंशयम् ॥ २४ ॥ सिंहासनस्थो भव भूमिपाल


१ ‘वरगो वत्सनामश्च’ इति बहुपुस्तके। २ ‘बालक्ष’ इति क०। ३—‘मूब्जा’ इति ख०। ४ ‘ऋषिंस्तेव महोद्धतान्’ इति ख०। ५ ‘तदासनम्’ इति ख०।

वि० ध० ॥ २ ॥ प्र० खं० अ० २

भवन्तु सर्वेऽपि तथा महीपाः ॥ सुखोपविष्टोऽसि महीपालैः स्वसंशयान् ब्रूहि यथाप्रकामम् ॥ २५ ॥ इत्येवमुक्तः स यदुप्रधाने भृगुप्रवरेण महर्षिमुख्ये ॥ प्रणम्य विप्रांस्तु जगाम राजा सिंहासनं रत्नसहस्रचित्रम् ॥ २६ ॥ सिंहासनस्थे नृपवर्यमुख्ये सिंहासनस्थाः क्षितिपा प्रधानाः ॥ सर्वे बभूवुः प्रणतास्तथा च शुश्रूषवो ब्राह्मणमुख्यवाक्यम् ॥ २७ ॥ वज्र उवाच ॥ आचक्ष्व मह्यं भृगुवंशचन्द्र समुद्भवं त्वं जगतो यथावत् ॥ शृण्वंति मे ब्राह्मणसंघमुख्या नरेंद्रमुख्याश्च वचस्त्वदीयम् ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कथाप्रस्तावने नाम प्रथमोऽध्यायः ॥ १ ॥

॥ मार्कण्डेय उवाच ॥

॥ नारायणं नमस्कृत्य सर्वभूतपरायणम् ॥ लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ॥ १ ॥ जगतोऽस्य समुत्पत्तिस्थितिनाशनैककारणम् ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ॥ २ ॥ वक्ष्यामि जगतां राजन् समुत्पत्तिं निबोध ताम् ॥ सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ॥ ३ ॥ नारायणोऽस्य जगतः सृष्टिंसंहारपालनम् ॥ करोति जगतांपाल यस्य सर्वमिदं महत् ॥ ४ ॥ वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ॥ अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥ ५ ॥ यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ॥ निमेषस्तु तथा रात्रिरितस्य कल्पं प्रकीर्तितम् ॥ ६ ॥ पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ॥ न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ॥ ७ ॥ न तस्य परिमाणं वा नचादिर्निधनं कुतः ॥ सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ ८ ॥ सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ९ ॥ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ तं च प्राप्य भवन्तीह युक्ताः पुरुषोत्तमाः ॥ १० ॥ सुरातिर्यङ्नृसिद्धानां तत्सात्म्यस्य सम्भवः ॥ तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ॥ ११ ॥ तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥ तस्मात्तेजस्ततश्चापस्तेभ्योऽण्डमभवत्किल ॥ १२ ॥ अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ॥ अङ्गग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥ १३ ॥ ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ॥ शरीरग्रहणं कृत्वा सृजतीदं चराचरम् ॥ १४ ॥ अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥ सप्तलोकान् सप्तपातालान् सप्तद्वीपार्णवां महीम् ॥ १५ ॥ सृष्टिं कृत्वा स भगवान् सात्त्विकीमाश्रितस्तनुम् ॥ अङ्गेऽङ्गे कृशता भूत्वा शेषभोगमयः प्रभुः ॥ १६ ॥ लक्ष्मीसहायो लोकांस्तु सदा पालयते सदा ॥ योगनिद्रां समास्थाय सर्वमन्वन्तराणि सः ॥ १७ ॥ शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ॥ अन्तकाले हरो भूत्वा जगत्संहरते पुनः ॥ १८ ॥ तामसीं तनुमास्थाय लीलयैव महायशाः ॥ रात्रिकाले तु जलमध्यगतां महीम् ॥ १९ ॥ दृष्ट्वोद्धरति यज्ञात्मा वाराहीमाश्रितां तनुम् ॥ ब्राह्मस्य मानं परिपाल्यं च विष्णोर्महात्मनो भवतीह नित्यम् ॥

॥ २ ॥


१ 'यतः' इति क० ख० ।

संहारकाले च हरत्येति त्रैधं विभ्रते स त्रिकालयोगात् ॥ २० ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्ति कथनो नाम द्वितीयोऽध्यायः ॥ २ ॥ मार्कण्डेय उवाच ॥ ब्रह्मरात्र्यां व्यतीतायां विबुद्धे पद्मसंभवे ॥ विष्णुः सिसृक्षुर्भूतानां ज्ञात्वा भूमिं जला- न्तगाम् ॥ १ ॥ जलक्रीडारुचिं शुभं कल्पादिषु यथा पुरा ॥ वाराहमस्थतो रूपमुज्जहार वसुन्धराम् ॥ २ ॥ वेदपाद्यूपदंष्ट्रश्च चतुर्वक्त्रश्चतुर्मुखः ॥ अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ ३ ॥ अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥ आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ ॥ ४॥ धर्मः सत्यमहाः श्रीमान्कर्मविक्रमसत्कृतः ॥ प्रायश्चित्तमयो धीरः प्रांशुजानुर्महाशयः ॥ उद्गात्रंत्रो होमलिङ्गः फलबीजमहौषधिः ॥ ५ ॥ वाय्वन्तरात्मा मन्त्रास्थिर्विकृतः सोमशोणितः ॥ वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ॥ ६ ॥ प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥ दक्षिणाहृदयो योगी महाक्रतुमयो महान् ॥ ७ ॥ उपाकर्मरुचिरः प्रवर्ग्यावर्त्तभूषणः॥ नानापत्निसहायो वै महाशृङ्ग इवोदितम् ॥८॥ महीं सागर- पर्यन्तां सशैलवनकाननाम् ॥ एकाणर्वजलभ्रष्टामेकापर्णकवार्णवतः प्रभुः ॥ ९ ॥ दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ॥ आदिदेवो महायोगी चकार जगतीं पुनः ॥ १० ॥ एवं ज्ञात्वा वराहेण भूत्वा भूतहितार्थिना ॥ उद्धृता पृथिवी देवी जलमध्यगता पुरा ॥ ११ ॥ उद्धृत्य भूमिं सविभुर्म- हात्मा वाराहरूपेण जलान्तरस्थाम् ॥ चक्रे विभागं जगतस्तदानीं यथातथा तच्छृणु राजनृसिंह ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वराहप्रादुर्भावो नाम तृतीयोऽध्यायः ॥ ३ ॥ मार्कण्डेय उवाच ॥ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ॥ प्रथमं तत्प्र- माणानां त्रसरेणुं प्रचक्षते ॥ १ ॥ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥ ता राजसर्षपास्तिस्रस्तावत्यो गौरसर्षपाः ॥ २ ॥ सर्षपाः पञ्च वो मध्ये अङ्गुलं च तदष्टकम् ॥ द्वादशाङ्गुलिकः शङ्कुस्तद्वयं हस्त उच्यते ॥३॥ तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ॥ क्रोशद्वयं च गव्युतिः योजनं तच्चतुष्टयम् ॥ ४ ॥ योजनानां प्रमाणेन वायुतानां शतत्रयम् ॥ अयुतानां च पञ्चाशच्छ्रेष्ठस्थानं मनोहरम् ॥ ५ ॥ स एव लोके वाराहः कथितश्च स्वयं प्रभुः ॥ वाराहरूपी भगवाञ्छत्रहस्त्यधरस्तथा ॥६॥ तत्रास्ते भगवान्विष्णुर्ऋषिभिः सह महात्मभिः ॥ लोकोऽयमुण्डसंलग्नश्छत्राकारः प्रकीर्तितः ॥ ७ ॥ स्वयं प्रसुर्विताजाः सर्वदुःखविवर्जितः ॥ एकान्तभावोपगतास्तं प्रयान्ति हरिं जनाः ॥ ८ ॥ सर्वावस्थादयं लोकः कथितस्ते मनोहरः ॥ तत्योपरिष्टादपरस्तावदेव प्रभाणतः ॥ ९ ॥ कालानिश्रृङ्गोलोकस्तु कथ्यतेऽग्निसमन्वितः ॥ एक एव स तत्रास्ते स्वप्रभाभास्वरा


१ 'पङ्गुजानुः' इति ख० । २ 'प्राग्वंशवर्त्ती' इति ख० । ३ 'तद्देशो' इति ख० ।

वि० ध० प्र० खं० अ० ४

त्मकः ॥ १० ॥ तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ॥ भस्मसात्कुरुते सर्वं यच्चाङ्गं यच्च नेङ्गते ॥ ११ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ पातालनामा पातालः प्रथमः परिकीर्तितः ॥ १२ ॥ योगमायां समास्थाय द्वितीयामास्थितस्तलम् ॥ सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ॥ ॥ १३ ॥ रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ॥ तस्मिन्त्स भगवानास्ते शेषपर्यङ्कमाश्रितः ॥ १४ ॥ नित्यं तालध्वजो वाग्मी वनमालाविभू- षितः ॥ धारयञ्छिरसा नित्यं रत्नांश्चित्रां फणावलीम् ॥ १५ ॥ लाङ्गली मुसली खङ्गी नीलाम्बरविभूषितः ॥ स्तूयमानः स गन्धर्वैर्नागैश्चापि वरेस्तथा ॥ १६ ॥ तातस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ सुतलसंज्ञः पातालः शिलाभासः समन्ततः ॥ १७ ॥ बलिरुतु भगवांस्तत्र बहिस्तिष्ठति संयतः ॥ रम्यं पुरवरं तस्य विष्णुना निर्मितं स्वयम् ॥ १८ ॥ निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ॥ सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत् ॥ १९ ॥ (फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ॥ तत्रास्ते स महाभागः श्रिया परमया युतः॥२०॥ तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ॥) तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा ॥ २१ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ आभासतल इत्येव पातालो नीलवृत्तिकः ॥ २२ ॥ तृतीयः स तु विख्यातः सुरम्यैश्च तिष्ठति ॥ द्विपञ्चवत्तथा तत्र चतस्रश्च तथा स्थिताः ॥ २३ ॥ सुभद्रा बहिरूपा च विश्वरूपा तथैव च ॥ रोहिणी च महाभागा याभिर्धृतमिदं जगत् ॥ २४ ॥ तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ॥ पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोहरम् ॥ ॥ २५ ॥ यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगास्तथा ॥ अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप ॥ २६ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ पीतभौमश्चतुर्थस्तु गभस्तिमत्तलसंज्ञितः ॥ २७ ॥ तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ॥ शशांकशतसंकाशः शातकौंभविभूषणः ॥ २८ ॥ पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ॥ (प्रह्लादस्यासुरेन्द्रस्य वाष्फलेश्च महात्मनः) ॥ २९ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ महा- तलेति विख्यातो रक्तभौमस्तु पञ्चमः ॥ ३० ॥ सरोवरं तस्य मध्ये योजनानां दशाश्रुतम् ॥ जंगमाजंगमैः सर्वैर्जलजैश्च विवर्जितम् ॥ ३१ ॥ तत्राङ्गेण वसति कूर्मरूपधरो हरिः ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ ३२ ॥ षष्ठश्चैव महाराज नाम्ना भीमबलस्तु सः ॥ तत्रापि सरसी दिव्या योजनानां शतं गता ॥ तस्यां च वसते देवो मत्स्यरूपधरो हरिः ॥ ३३ ॥ सप्तमः कृष्णभौमस्तु नाम्ना भीमबलस्तु सः ॥ तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः ॥ ३४ ॥ तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ॥ तथा दानववीराणां नगराणि पृथक्पृथक् ॥३५ ॥

॥ ३ ॥


१ कोष्ठकान्तर्गतः पाठः ख पुस्तके नास्ति । २ कोष्ठान्तर्गतः पाठो नास्ति ख पुस्तके । ३ 'महातेजेति' इति ख० । ४ 'योजनं दशसंख्यया' इति ख० ।