विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० ॥३६८॥
तृ० खं० अ० १०६
वाहयिष्यामि सर्वलोकसुखावहम् ॥ अर्थञ्चैहि महाभाग सर्वव्याधिनिवारक ॥ ५१॥ काममावाहयिष्यामि फलं सर्वस्य कारण ॥ काम शीघ्रं त्वम् अवेहि सर्वप्राणिदि स्थित ॥५२॥ रतिञ्चावाहयिष्यामि देवीं सर्वजनावियाम् ॥ अभ्येहि वरदे देवि रतिस्त्वमपराजिते ॥५३॥ निद्रामानवाहयिष्यामि सर्वलोकसुखप्रदाम् ॥ आगच्छ वरदे निद्रे त्रैलोक्यपरिपोषिनि॥५४॥ आवाहयिष्ये वरदां महादेवीं सरस्वतीम्॥शीघ्रं देवि त्वमभ्येहि सर्वकामवरप्रदे ॥ ५५ ॥ अहमावाहयिष्यामि तथा धन्वंतरिं प्रभुम् ॥ धन्वन्तरे त्वमभ्येहि क्षीरोदार्णवसम्भव ॥५६॥ अहमावाहयिष्यामि उग्रैःश्वसमसम्भवम् ॥ हयराज समभ्येहि क्षीरोदार्णवसंभव ॥ ५७॥ येषामावाहनं प्रोक्तं तेषां मन्त्रमिदं पठेत् ॥ अश्विनौ प्रणतः स्तोमि दर्पणोपनिरन्तरौतः ॥ ५८ ॥ आवाहनानां च गणं तयोक्तं महाशुभं पापहरं पवित्रम् ॥ आवाहिनोः सन्निहितास्त्ववश्यं देवा भवन्त्युत्तमवंशजाताः ॥ ५९ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे लोकपालावाहनवर्णनो नाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५॥ मार्कण्डेय उवाच ॥ आवाहनान्यतो वक्ष्ये यान्यहं यदुनन्दन ॥ तेषामन्ते पठेद्यो वै प्रत्येकस्य महाभुज ॥ १ ॥ याजकं यजमानं च श्रेयसाभ्येत्य योजय ॥ इदमर्घ्यमिदं पाद्यं धूपोयं प्रतिगृह्यताम् ॥ २ ॥ आवाहयान्यहं देवं वासुदेवं जगत्पतिम् ॥ असुप्तानाममेयात्मन् विबुधैरावृतां ३समम् ॥ ३ ॥ चतुर्वक्रं महाबाहुं चतुर्वेदमयं प्रभुम् ॥ चतुराश्रमगोप्तारं चातुर्वर्ण्यकरं तथा ॥ ४ ॥ चतुर्गुनं चतुष्केतं चतुर्मूर्तिधरं परम् ॥ चतुर्विश्रुतं नाथं चतुर्विधविभावनम् ॥ ५ ॥ जरायुजस्य कर्तारं तथा चाण्डोद्भवस्य च ॥ सर्वगं वरदं नित्यं सूक्ष्मं स्थूलमजं विभुम् ॥ ६ ॥ आत्मस्थं च बहिस्थं च दूरस्थं चान्तिकं च तव ॥ गुणाधारं गुणैर्हीनं गुणातीतं गुणोत्तमम् ॥ ७ ॥ सगुणं निर्गुणात्मानं चाजये जगतः परम् ॥ एहि मे पुण्डरीकाक्ष शरणागत वत्सल ॥८॥ शरत्पर्यन्तवक्त्रान्तानरस्तत्सुसमण्डल ॥ गदावर्णास्तरोभेदतनयगणेश्वर ॥९॥ उन्नुंछाश्चक्रम्भोविराजितकराम्बुज ॥ शङ्खनादोद्र बन्धासन्दंडितमहासुर ॥ १० ॥ मदीकरसमुज्जन्यस्तवरणद्वयराजित ॥ कौस्तुभोद्भूतगोजाह्लहतासुरविलोचन ॥ ११ ॥ वनमालाङ्कितोरस्क किरीटोद्भासितानन ॥ १२॥ यद्वाद्योपद्यश्राद्धयज्ञश्रोने जगद्गुरो ॥ १३ ॥ सर्वकामप्रदाविन्त्य सर्वशक्तिसमन्वित ॥ आवाहयाम्यहं देवं सङ्कर्षण मयोनिजम् ॥ १३ ॥ शशाङ्कशतासङ्काशं सज्जलाम्वुदवाससम् ॥ कौशाविशसिताशेषकल्पान्तसुवनत्रयम् ॥ १४ ॥ वाङ्मनःकायसम्मतसमलनि तयनरासनम् ॥ एहि संकर्षणैविन्त्य देव मक्तजनाप्रिय ॥ १५ ॥ लाङ्गूलाङ्कुशहृद्देन्दु दीनेक्षणनिरिक्षण ॥ मुसलाग्रविनिर्मुक्तमतोमूसितिविना ॥३६८॥
१ 'रतिम्' इति पुस्तकान्तरे । २ 'सर्वमविनाशनान्' इति पाठान्तरम् । ३ 'भासरसम्' इत्यपि पाठान्तरम् ।
आगच्छ वरदे सन्ध्ये सर्वभूतनमस्कृते ॥ २३ ॥ स्वाहामावाहयिष्यामि वह्निभागं विभावरीम् ॥ स्वाहेह्येहि महाभागे वरदे कामरूपिणि ॥ २४॥ वेदनानावाहयिष्यामि शुभ्ररूपधराम्नहम् ॥ आगान्तु वाहनत्वेन धूम्रकेतुर्व्यवस्थिताः ॥ २५ ॥ आवाहयिष्ये महिषं महाबलपराक्रमम् ॥ आगच्छ हे महाभाग सर्वदूतनिवारण ॥ २६ ॥ दण्डमावाहयिष्यामि सर्ववाहनपूजितम् ॥ एहि दण्ड महाभाग सर्वसत्वविनाशन ॥ २७ ॥ देवीमावाहयि- ष्यामि धूम्रोर्णां चारुलोचनाम् ॥ आगच्छ देवि धूम्रोर्णे सर्वलोकनमस्कृते ॥ २८ ॥ कालमावाहयिष्यामि सर्ववाहनपूजितम् ॥ कालम्येहि महाभाग सर्वसत्वभयङ्कर ॥ २९ ॥ सुद्युमावाहयिष्यामि देवीं सर्वदशामहम् ॥ देवि सुत्यो त्वमम्येहि सर्वगे कामरूपिणि ॥ ३० ॥ आवाहयामि वरदं चित्रगुप्तं सुखप्रदम् ॥ चित्रगुप्त समभ्येहि सर्वत्र समदर्शन ॥ ३१ ॥ अहमावाहयिष्यामि विष्टपादं महाबलम् ॥ विष्टपाल समभ्येहि निशा- चरगणेश्वर ॥ ३२ ॥ ऊष्मामावाहयिष्यामि महामोहमिति श्रुतम् ॥ ऊष्माभ्येहि महाभाग महाग्रीव महागते ॥ ३३ ॥ गौरीमावाहयिष्यामि जलाधिपतिसुन्दरीम् ॥ एहि गौरि महादेवि वरदे कामरूपिणि ॥३४॥ हंसानावाहयिष्यामि समुद्रेण सुपूजितान्॥ आगान्तु वरदा हंसा रसात्परम- विहङ्गमाः ॥ ३५ ॥ पारामावाहयिष्यामि सर्वकिल्विषतत्परम् ॥ पाराशभ्येहि महाभाग सर्वसत्ववशङ्कर ॥ ३६ ॥ गङ्गामावाहयिष्यामि सर्वकल्म- नाशिनीम् ॥ गङ्गे शीघ्रं त्वमभ्येहि पीयूषसदृशोदके ॥ ३७ ॥ अहमावाहयिष्यामि यमुनां च यमानुजाम् ॥ आगच्छ यमुने देवि सर्वकल्मष- नाशिनीनि ॥ ३८ ॥ शिवायामावाहयिष्यामि वायोः पत्नीं प्रभावतीम् ॥ शिवेभ्येहि महाभागे वरदे कामरूपिणि ॥ ३९ ॥ अहमावाहयिष्यामि शिशिकां परमाद्भताम् ॥ शिशिके त्वमिहाभ्येहि सर्वसत्वसुखङ्करि ॥ ४० ॥ नरमावाहयिष्यामि नराधिपतिवाहनम् ॥ नर शीघ्रं त्वमभ्येहि गथा नृपतिनायक ॥ ४१ ॥ शङ्खमावाहयिष्यामि निधिप्रवरसुत्तमम् ॥ शीघ्रं शङ्ख त्वमभ्येहि धनाधिपतिवल्लभ॥ ४२ ॥ पद्ममावाहयिष्यामि निधि- प्रवरसुत्तमम् ॥ पद्म शीघ्रं त्वमभ्येहि महाविभवकारक ॥ ४३ ॥ देवीमावाहयिष्यामि पार्वतीं हरवल्लभाम् ॥ देवि शीघ्रं त्वमभ्येहि महाविभव- कारिके ॥ ४४ ॥ अहमावाहयिष्यामि जयन्तं शक्रनन्दनम् ॥ जयन्त शीघ्रमभ्येहि सर्वासुरविमर्दन ॥ ४५ ॥ आवाहयिष्ये वरदं पुष्करं कामगं शुभम् ॥ पुष्कर त्वमिहाभ्येहि सर्वज्ञानप्रकाशक॥४६॥ ज्योत्स्नामावाहयिष्यामि त्रैलोक्यस्यैकसुन्दरी ॥ आगच्छ वरदे ज्योत्स्ने सर्वभूतसुखङ्करि ॥४७॥ अहमावाहयिष्यामि त्वममेव नलकूबरम् ॥ समभ्येहि महाभाग धनदस्यात्मसम्भव ॥ ४८॥ आवाहयिष्यामि तथा रविपुत्रं यमाग्रजम् ॥ सूर्यपुत्र समभ्येहि भक्तकल्याणकारक ॥४९॥ धर्ममावाहयिष्यामि सर्वलोकसुखावहम् ॥ धर्माभ्येहि महाभाग जगतां परिपालक ॥५०॥ अर्यमा
वि० ध० ॥३६७॥
तृ० खं० अ० १०६
लम् ॥१२०॥ ततः कर्तुं यथाराद्ध्या भवतां प्रतिपूजनम् ॥ वरदाः प्रयतिष्यामि तन्मेऽनुज्ञातुमर्हथ ॥ १२१ ॥ स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः ॥ उत्सादद्यन्तु सकल्यान्विघ्नान्समुपस्थितान् ॥ १२२ ॥ विनायका विघ्नकराः समेशा गृहद्रिक्षो ये पिशिताशनाश्च ॥ सिद्धाश्चयेवेत्रसमानकल्लेरम्यो निरस्ता विदिशः प्रयान्तु ॥ १२३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मादिदेवतावाहनवर्णनो नाम चतुरधिकशततमोऽध्यायः ॥१०४॥ मार्कण्डेय उवाच ॥ लोकानावाहयिष्यामि हंसारूढाम्महाद्युतिम् वर्णनाधारं महाद्युतिम् परमेश्वरम् ॥१॥ वृषमावाहयिष्यामि चतुष्पादं ककुद्मिनम् ॥ वृषाम्येहि महाभाग धर्मस्त्वं वरप्रदः ॥२॥ त्रिशूलमावाहयिष्यामि गुणाधारं महाद्युतिम् ॥ एहि शूल महाभाग दैत्यनाशनगणान्तक ॥ ३ ॥ अङ्गमावाहयिष्यामि देवं नन्दीश्वरं प्रभुम् ॥ अङ्ग्येहि नन्दिन्भगवन् सर्वलोकनमस्कृत ॥ ४ ॥ आवाहयामि वरदं वीरभद्रं महाबलम् ॥ अभ्येहि वीरभद्राय महागणागणेश्वर ॥ ५ ॥ ज्वरमावाहयिष्यामि त्रिपादं त्रिमूख प्रभुम् ॥ ज्वराम्येहि महाभाग सततं चरणोज्ज्वल ॥ ६ ॥ देवीमावाहयिष्यामि भद्रकालीं सुखप्रदाम् ॥ आगच्छ वरदे दुर्गे सर्वलोकनमस्कृते ॥ ७ ॥ आवाहयामि पौलोमीं वरदां नित्यनन्दिनीम् ॥ शक्रपत्नि त्वमम्येहि वरदे कामरूपिणि ॥ ८ ॥ नागमावाहयिष्यामि तक्षकाशेषसंज्ञितम् ॥ इहाम्येहि महाभाग शक्रनाग जयावह ॥ ९ ॥ वज्रमावाहयिष्यामि सर्ववेदकमङ्गलम् ॥ शीघ्रं वज्र त्वमम्येहि सर्वदानवनिर्बण ॥ १० ॥ हयानमावाहयिष्यामि छन्दोरूपानमनोहरान् ॥ आगच्छन्तु ममांब्रिह तुरगा व्योमसंचराः ॥ ११ ॥ अङ्गमावाहयिष्यामि दुष्टसंक्षं बलोककृत् ॥ दृढं शौघ्रमिहाभ्येहि महाबलपराक्रम ॥ १२॥ अङ्गमावाहयिष्यामि पिङ्गलै सुमहाबलम् ॥ लोकसाक्षित्वमम्येहि पिङ्गलत्व महाबल ॥ १३ ॥ ध्वजमावाहयिष्यामि चित्रं सूर्यसमप्रभम् ॥ दर्श शौघ्रं त्वमभ्येहि सूर्यध्वजगतान्युत ॥ १४ ॥ देवीमावाहयिष्यामि सुप्रभां कामरूपिणीम् ॥ देवि त्वं तूर्णमागच्छ सर्वलोकनमस्कृते ॥ १५ ॥ रात्रीमावाहयिष्यामि सूर्यपत्नीं सुरूपिणीम् ॥ आगच्छ वरदे रात्रि जगत्प्रतीरण श्रिते ॥१६॥ अङ्गमावाहयिष्यामि सूर्यपत्नीं सुवर्चसाम्॥ ध्याये देवि त्वमागच्छ कृताकृतीविधारिणि ॥१७॥ अङ्गमावाहयिष्यामि दारुवन्दमसो हयान् ॥ सर्वं शौघ्रमहाद्यन्त चन्द्राश्वाः कामरूपिणः ॥१७८॥ अङ्गमावाहयिष्यामि कान्तिं त्रिदशवल्लभाम् ॥ कान्ते शीघ्रं त्वमम्येहि शशाङ्कदयिते शुभे ॥ १७९॥ शोभाममावाहयिष्यामि काङ्क्षितां भुवनैश्वरीम् ॥ शोभे शीघ्रं त्वमभ्येहि सर्वलोकैकसुन्दरि ॥ २० ॥ दिनमावाहयिष्यामि समस्तध्वान्तनाशकम् ॥ दिन शीघ्रं त्वमम्येहि दारीतारिबलमण्डल ॥ ॥ २१ ॥ रात्रिमावाहयिष्यामि सर्वभूतसुखावहाम् ॥ रात्रि देवि त्वमम्येहि सर्वभूतवरप्रदे ॥ २२॥ सन्धयामावाहयिष्यामि देवीं ब्राह्मणपूजिताम् ॥
॥३६७॥
देशे भद्रप्रदोत्तराम ॥ एहि त्वं सुमहाभागे मम भद्रप्रदोत्तरे ॥ ९४ ॥ आवाहयाम्यहं देवं पूषणं पापनाशनम् ॥ पूषन्सभ्यागिहाभ्येहि सर्वकल्म- षनाशक ॥ ९५ ॥ ऋक्षमावाहयिष्यामि रेवतीं भूरिदर्शनाम् ॥ एहि रेवति चामङ्गे मुद्रुक्रमप्रसाधिके ॥ ९६ ॥ ऋक्षमावाहयिष्यामि दिग्भवाश्विनि संज्ञकम् ॥ एह्यश्विनि महाभागे वरदे कामदायिनि ॥ ९७ ॥ यममावाहयिष्यामि धर्मराजमथाच्युतम् ॥ एहि धर्मसुतां श्रेष्ठ वैवस्वत महाभुज ॥ ९८ ॥ ऋक्षमावाहयिष्यामि उग्रं भरणीसंज्ञकम् ॥ एहि त्वं देवि भरणि सुभगे चारुदर्शने ॥ ९९॥ प्राचीमावाहयिष्यामि सूर्योदयविभूषिताम् ॥ एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधिनि ॥ १०० ॥ दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम् ॥ वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे ॥ १०१ ॥ अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम् ॥ दक्षिणे त्वं समभ्येहि सर्वकर्मशुभप्रदे ॥ १०२ ॥ दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम् ॥ एहि त्वं नैर्ऋते देवि सततं भृतिवर्धिनि ॥ १०३ ॥ दिशमावाहयिष्यामि वारुणीं वरदां सदा ॥ आगच्छ पश्चिमे देवि वरदे वरुणप्रिये ॥१०४॥ आवाहयिष्यामि दिशं वायवीं पश्चिमोत्तराम ॥ वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे ॥ १०५ ॥ आवाहयामि धनदं देवं वैश्रवणं प्रभुम् ॥ राजराज समभ्येहि सर्वयज्ञेश्वराधिप ॥ १०६ ॥ दिशमावाहयिष्यामि सौम्यां धनदपालिताम् ॥ उत्तरे त्वं समभ्येहि सर्वकर्मफलप्रदे ॥ १०७ ॥ दिशमावाहयिष्यामि शुभां प्रागुत्तरा महम् ॥ एहि त्वं सुभगे देवि सततं शिवपालिते ॥ १०८ ॥ सर्वानवावाहयिष्यामि पूर्णकुम्भेषु सागरान् ॥ रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः ॥ १०९ ॥ ऐशान्यां दिशि यः कुम्भः पूर्वस्तस्यां तु सागरः ॥ अथाशु क्षीरसमुद्रस्तरङ्गोर्मिस- माकुलः ॥ ११० ॥ क्षीरोदमध्येह निलय यादसां पूर्वसागर ॥ तरङ्गशतसंक्रान्त बालभास्करमण्डल ॥ १११ ॥ आग्नेये च समायात दक्षिणे दक्षिणः शिवः ॥ बहुरत्नप्रभापुञ्जक्षोभित्थ सलिलाशय ॥ ११२ ॥ यादसां निलयाभ्येहि दिशं दक्षिणसागर ॥ तरङ्गोद्यौत- पादश्च त्रिकूटशिखराच्युत ॥ ११३ ॥ पश्चिमाशाः समायातु कूर्मे दक्षिणपश्चिमे ॥ रत्नपुञ्जमहाज्वालाविराजितमहोदके ॥ ११४ ॥ तरङ्गसण्डिताम्भोधि दिशं पश्चिमसागर ॥ अस्ताकबिम्बसंक्रान्तगगनमण्डलोद्देश ॥ ११५ ॥ उत्तरस्थ तथाम्येतु कुर्मे वै पश्चिमोत्तरे ॥ हिमाद्रिशिखरच्छायाक्षीरोदसदृशः प्रभुः ॥ ११६ ॥ महाऽविद्रुमसंश्लिष्ट शौघ्रमुत्तरसागर ॥ इहाभ्येहि महाभाग यजमानाभिवृद्धये ॥ ११७ ॥ आवाह्नितानां कर्तव्यं भूमौ कृत्वा ततः शिरः ॥ प्रणाममभिवादं च ततो मन्त्रानुदीरयेत् ॥ ११८ ॥ भवतां हि प्रसादेन भवतो प्रतिपूजने ॥ प्रधाविष्ये यथाशक्त्या त्वन्मण्डलमहार्हय ॥ ११९ ॥ युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि ॥ युष्मत्पूजाविहीनेन केन लभ्यं महत्फ-
नि० प्र० ॥ १६६ ॥
र्तिनीम् ॥ आग्नेयं त्वभिवाहयिष्ये दारुणं विजयप्रदे ॥ ६६ ॥ पितॄनावाहयिष्यसि मर्त्यमूर्तिभयानहम् ॥ आयन्तु पितरः शीघ्रं सुयुक्तैर्भ्युपयोज्य- याः ॥ ६७ ॥ मघामावाहयिष्यसि उग्रनक्षत्रसंज्ञसा ॥ एहि मे सुभगे देवि सर्वकार्यानिषूदिनी ॥ ६८ ॥ भगमावाहयिष्यसि भक्तसंभोगवर्धनम् ॥ एहि देवगणैरन्व्य भक्तसंकटनाशक ॥ ६९ ॥ ऋक्षमावाहयिष्यसि पूर्वफल्गुनसंजकम् ॥ एहि भागे महाभाग उग्रकर्मप्रसाधक ॥ ७० ॥ आवाहयिष्येऽव्ययं व्योममादित्यं तेजसां निधिम् ॥ अर्यमन्तरं सञ्चरेहि भर्गसङ्कटनाशन ॥ ७१ ॥ ऋक्षमावाहयिष्यसि उत्तराफल्गुनीं शुभाम् ॥ एहि त्वं सुभगे देवि ध्रुवे सर्वार्थसुन्दरी ॥ ७२ ॥ हस्तमावाहयिष्यसि सावित्रं क्षिप्रसञ्ज्ञसा ॥ एहि सावित्र धर्मज्ञ भक्तानां पापनाशक ॥ ७३ ॥ आवाहयाम्यहं देवं त्वष्टांसितसिताभितम् ॥ एहि मे भगवन्त्वष्ट्रः प्रजापालनतत्पर ॥ ७४ ॥ चित्रामावाहयिष्यसि चित्रमूर्त्ति मनोहराम् ॥ एहि मे वरदे देवि मृदुकर्मप्रसाधिके ॥ ७५ ॥ वायुमावाहयिष्यसि सर्वगं दीप्ततेजसम् ॥ देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय ॥ ७६ ॥ स्वाति- मावाहयिष्यसि नित्यमुत्सवसंवदाम् ॥ देवि स्वाति त्वमभ्येहि चरकर्मसु शोभने ॥ ७७ ॥ आवाहयिष्याम्यिन्द्राग्नी सहितौ दीप्ततेजसौ ॥ इंद्रा- ग्नि जगताञ्च रक्षार्थे विजयप्रद ॥ ७८ ॥ ऋक्षमावाहयिष्यसि विशाखाममृततेजसम् ॥ विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे ॥ ७९ ॥ मित्रं मावाहयिष्यामि देवं दीप्तांशुतेजसम् ॥ एहि मित्र महाभाग भक्तानामभयं कुरु ॥ ८० ॥ ऋक्षमावाहयिष्यसि त्वनुराधां वरप्रदाम् ॥ अनुराधे त्वमभ्येहि मृदुकर्मसु शोभने ॥ ८१ ॥ शक्रोस्यावाहने प्रोक्ते जयेष्टायाः शृणु पार्थिव ॥ ज्येष्ठामावाहयिष्यसि नक्षत्रं शक्रदैवतम् ॥ ८२ ॥ ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ॥ देवमावाहयिष्यसि निर्ऋतिं वैरिनाशनम् ॥ ८३ ॥ एहि देव विरूपाक्ष महाबल सदाश्रय ॥ मूलमावाहयिष्यसि नक्षत्रं दारुणं महत् ॥ ८४ ॥ एहि मूले महाभाग भक्तानामभयप्रद ॥ आपस्त्ववावाहयिष्यसि सर्वगा वरदाः शुभाः ॥८५॥ आस्तत्त्ववावाहयिष्यसि पूर्वाषाढेति संज्ञितम् ॥ एहि त्वसुभ्रे वरदे पूर्वाषाढेतिसंज्ञिते ॥ ८६ ॥ ऋक्षमावाहयिष्यसि जलदेविसिद्धये ॥ एहि विष्णुपवित्रेश क्षिप्रकर्मप्रसाधक ॥ ८७ ॥ ऋक्षमावाहयिष्यसि नाम्ना श्रवणं सर्वकामदम् ॥ प्रसन्नस्त्वं समभ्येहि चरकर्मप्रसाधक ॥ ८८ ॥ श्रविष्ठे त्वमिहाभ्येहि चरकर्मप्रसाधिके ॥ ८९ ॥ ऋक्षमावाहयिष्यसि नाम्ना शतभिषां शुभाम् ॥ आगच्छ त्वं शतभिषे चरकर्मसु शोभने ॥ ९० ॥ अजैकपादं वरदं रुद्राणामभयम्प्रदम् ॥ आगच्छ रुद्र भगदं त्रिगुणात्मकमायुध ॥ ९१ ॥ ऋक्षमावाहयिष्यसि पूर्वभाद्रपदामहम् ॥ एहि भाद्रपदे पूर्वे उग्रकर्मप्रसाधिनि ॥ ९२ ॥ अहिर्बुध्न्यं महाभागं रुद्रमावाहयाम्यहम् ॥ आर्हिबुध्न्य समभ्येहि जटाजूटोपशोभित ॥९३॥ ध्रुवमावाहयिष्यसि
वृ० सं० अ० १०१ ॥ १६६ ॥
ऐरावतग धर्मज्ञ दानवौघसूदन ।। जीवमावाहयिष्यामि देवैश्च पुरोहितम् ॥ ३८ ॥ बृहस्पतिं बृहद्रूपं वेदवेदांगपारगम् ॥ एहि जीव महाभाग जीवभूत महीतले ॥ ३९ ॥ सम्यग्दृष्टिस्तदाव्यासा सततं भीमदर्शन ।। देवींमावाहयिष्यामि पार्वतीं वरदामुमाम् ॥ ४० ॥ हरस्य दयितां भार्या चार्वाङ्गीं अतिकिलिपिनाम् ॥ एहि देवि जगन्मातर्नन्दहृन्दनन्दिनी ॥ ४१ ॥ पवित्रे वरदे सोम्ये नित्यं भक्तजनप्रिये। शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम् ॥ ४२ ॥ नित्यं सर्वधनप्रदम् ॥ तप्तमा द्योतितात्मानं ॥ एहि शुक्र महाभाग पोडशाचं वरप्रद॥४३॥प्रमुस्त्वं वरदो नित्यं उपविप्रस्य निर्भयोः॥ आवाहयाम्यहं देवं प्रजाध्यक्षमकरध्वजं ॥ ४४ ॥ आवाहयिष्यामि शनैश्चारिमच्युतम् ॥ ४५ ॥ तपस्विनमनाधृष्यं भक्तानामभयप्रदम् ।। एहि तीक्ष्णानुजान्वित्यं प्रजानामभयंकरम् ॥ ४६ ॥ त्वयि सर्वं समायातं राज्ञो भूमो युधाथुधम् ।। आवाहयाम्यहं देवं गजवक्रं गणेश्वरम् ।। ४८॥ विघ्नेशं विघ्नहर्तारं पार्वती हृदयनन्दनम् ।। एहि देव गणाध्यक्ष लंबोदर महाभुज ॥ ४९ ॥ कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम्। राहुमावाहयिष्यामि दैत्येन्द्रं ग्रहतां गतम् ॥५०॥ करालार्यं वीरं तपसा दग्धकिल्बिषम् ॥ एहीहि दैत्यप्रवर वरदाचिन्तयानघम् ॥ ५१ ॥ तमोमूर्ते दुराधर्षं विपरीताम्बराम्बर ॥ आवाह याम्यहं देवं त्रिदशार्तिप्रणाशनम् ॥ ५२ ॥ सर्वेशं देवतानां च सदा शिखण्डवर्द्धकम् ॥ एहि देवगणान्विन्त्य सर्वदोषप्रमर्दक ॥ ५३ ॥ एहि ईश्वरवाणिज्य सदा नित्यप्रवर्त्तक ॥ त्वयि सर्वेश सर्वषां कर्मणामाश्रिता गतिः ॥ ५४ ॥ केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम् ॥ब्राह्मण्यं सर्वधर्मज्ञं वरदानानमव्ययम् ॥ ५५ ॥ धूमकेतो दुराधर्षो हुताशनसमप्रभ ॥ शिखाकरालविक्रव धूम्रकान्तिविनाशन॥५६॥ आवाहयिष्यामि शुभ्रां शशिनंकोङ्कनिवासिनम् ॥ एहि साधारणे देवि जगते दृष्टये क्षमे॥५७॥ आवाहयिष्यामि वरदां रोहिणीं चन्द्रवल्लभाम् ॥ एहि रोहिणि धर्मज्ञे सुकर्मसु शोभने॥५८॥ आवाहयिष्यामि वराहासिंहरूपिणम्॥शशिवल्लभाम् ॥ एहि मे हरिके देवि सुकर्मसु शोभने॥५९॥ रुद्रानावाहयिष्यामि त्रिनेत्रं शूलपाणि नम् ॥ एहि शङ्कर सर्वज्ञसर्वभूतगणेश्वर ॥६०॥ आर्द्रामावाहयिष्यामि नक्षत्रे वाहसंज्ञितम् ॥ एकादं चारुसर्वाङ्गि दारुणे रुद्रसंमिते ॥६१॥ आवाहयिष्यामि दितिं तपसा दग्धकिल्विषाम् ॥ आदित्यानांमपि चमते एहि देवि महामते ॥ ६२ ॥ कद्रूमावाहयिष्यामि धर्मज्ञे तु पुनर्वसुम् ॥ पुनर्देवी महाप्राज्ञ वरकर्त्रीप्रसाधक ॥ ६३ ॥ तिष्यमावाहयिष्यामि नक्षत्रं विप्रसंमितम् ॥ एहि पुण्य महाभाग पोषं वर्धय सर्वतः ॥ ६४ ॥ सर्पानावाहयिष्यामि श्लेषास्थाननिवासिनान् ॥ आगच्छन्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु ते ॥ ६५ ॥ आवाहयिष्यामि चाश्लेषां भक्तानां श्रीविव
विष्णोरंगमसि निर्द्वन्द्वं मानवं जातमद्भुतम् ॥ १० ॥ पवनं प्रब्रूहि सौम्यं भक्तानां प्रीतिवर्धनम् ॥ यजकं यजमानं च पृष्ट्या विभज सर्वशः ॥ ११ ॥ इदमर्चनमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥ आवाहनानन्तरतो वक्ष्य सर्वषां पार्थिवोत्तम ॥ १२ ॥ सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्तितः ॥ प्रेषियन्पार्थिवानां सम्भूद् पद्मा यस्त्वया विनिर्मिताय ॥ १३ ॥ इदमर्चनमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥ ध्रुवमावाहयिष्यामि सर्वदेवगणेश्वरम् ॥ १४ ॥ निवद्धं भ्राम्यते येन भचक्रे वातज्जुभिः ॥ एहि मे ध्रुव देवेश केशवस्याचिन्त्यविक्रम ॥ १५ ॥ सर्वग्रहगणाध्यक्ष सर्वलोकनमोकृत ॥ आवाहयिष्याम्याकाशं विमानशतसण्डितम् ॥ १६ ॥ तृतीये देवदेवस्य पदं विष्णोर्महात्मनः ॥ एहि मे भगवन्व्योम निरालम्ब नभस्तल ॥ १७ ॥ अभ्रमालिनिधर्मार्थिन् वितानशतसण्डित ॥ उर्द्धावावाहयिष्यामि चानन्तं महतीं दिशम् ॥ १८ ॥ आवाहयाम्यहंस्त्वन्तु चन्द्रसूर्यगुणांजलिम् ॥ आगच्छेह महाभाग सततै सिद्धसेविते ॥ १९ ॥ अनन्ते विपुले सोमे निर्मले हितकारिणी ॥ आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ॥ २० ॥ नागदेवैरुपगणैः सततं च निषेविताम् ॥ गम्भीरे विपुले सोमे बहुस्थानतिथिमण्डिते ॥ २१ ॥ एहि मे रत्नबहुले बहुदोषे महाबले ॥ आवाहयिष्ये वरदं सहस्त्रांशुं दिवाकरम् ॥ २२ ॥ तेजोसंहितदुराधर्ष भक्तानामभयप्रदम् ॥ एहि देव जगन्नाथ अहस्सायमपांज्झो पते ॥ २३ ॥ त्रैलोक्यमण्डले दीप सर्वव्याधिनिवारण ॥ २४ ॥ आवाहयाम्यहं देवमादित्यं कुण्डलोपमम् ॥ २४ ॥ स्निग्धवैदूर्य्यसङ्काशं वरुणं शुभदृष्टितम् ॥ एहि देव जलाशयाध्यक्ष यादोगणगणेश्वर ॥ २५ ॥ नागदैत्योरगगणैः सततं सेवितोच्युत ॥ आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम् ॥ २६ ॥ ओषधीशां द्विजेशानं नयनानन्दकारकम् ॥ एहि मे भगवंश्चन्द्र शशाङ्क मृगलाञ्छन ॥ २७ ॥ भक्तांङ्किम्पनसततं सर्वैनवप्रपूजित ॥ सोममावाहयिष्यामि तेजसां तेजसां निधिम् ॥ २८ ॥ भृद्धसंतिनिनिर्देश्यं युक्तं रुधिरसम्भवम् ॥ एहि दे भगवन्भोम अङ्गारकसंप्रभम् ॥ २९ ॥ त्वयि सर्वं समापन्नं भूतलोऽसिप्रभुगुहाशुम् ॥ स्कन्दमावाहयिष्यामि षण्मुखं वरदं विभुम् ॥ ३० ॥ देवासुरसेनानायनेन पार्वत्यानन्दवर्धनम् ॥ एहि देव कुमाराय सहिषासुरतस्कर ॥ ३१ ॥ कार्तिकेय जगन्नाथ मयूखवरवाहन ॥ बुधमावाहयिष्यामि बोधनं जगदीश्वरम् ॥ ३२ ॥ चान्द्रि महाभाग्यं यशो दीप्तिं हुतासनम् ॥ एहि दीतोहुताशनिन्द् जगद्विष्णो जनार्दन ॥ ३३ ॥ महाबल महाभाग महाबाहो महाद्युते ॥ विष्णुमावाहयिष्यामि शाङ्ङ्ग चक्रगदाधरम् ॥ ३४ ॥ अतसीकुसुमश्यामं पीतवाससमच्युतम् ॥ एहि मे देवदेवेश प्रज्ञामिर्माणकारक ॥ ३५ ॥ नारायण शुद्धधार महेष्वास धनुर्धर ॥ शक्रमतावाहयिष्यामि देवं सुरगणेश्वरम् ॥ ३६ ॥ वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम् ॥ एहि देव सहस्राक्ष देवाखिलसुदूदन ॥ ३७॥
वीध्यस्तत्त्वाह्वयिष्यामि दिश्या नवग्रहादयः ॥ ४७ ॥ आयान्तु बोध्यः सकला ग्रहनक्षत्रमण्डिताः ॥ अहमावाहयिष्यामि मुहूर्तान्शुभलक्ष- णिनः ॥ ४८ ॥ मुहूर्ताः शीघ्रमायान्तु कालस्यावयवाः शुभाः ॥ ऋतूनावाहयिष्यामि षडहं भुवनेश्वरान् ॥ ४९ ॥ आयान्तु ऋतवः सर्वे जगच्चक्रप्रवर्तकाः ॥ आवाहयिष्यामि तथा पञ्चसंवत्सरान्नृणाम् ॥ ५० ॥ आयान्तु वत्सराः सर्वे कालचक्रप्रवर्तकाः ॥ युगान्यावाहयिष्यामि चतुरो दीप्तते- जसः ॥५१॥ आगच्छन्तु युगाः सर्वे चतुर्रीत्यव्यवस्थिताः ॥ अहमावाहयिष्यामि सर्वैश्च चतुर्दशा ॥५२॥ मन्वन्तराः समायन्तु त्रिदशाविधिसंस्थि- ताः ॥ कालमावाहयिष्यामि देवं सर्वमयं शुभम् ॥५३॥ आगच्छ भगवन्काल देवदेव जनार्दन ॥ देवानावाहयिष्यामि यज्ञमूर्तिधरानहम् ॥५४॥ देवाः सर्वेः समायन्तु वरदा बहुरूपिणः ॥ ग्रहास्तानावाहयिष्यामि विद्यास्थानान्यशेषतः ॥५५॥ सर्वाणिह समायन्तु लोकानां हितकाम्यया॥शास्त्राण्या- वाहयिष्यामि शास्त्रानङ्गैर्नवेद्यितान्॥५६॥ शास्त्राणि शीघ्रमायान्तु चतुर्ना मण्डनं परा॥ अङ्गान्यावाहयिष्यामि त्रैलोक्यस्य हितानि वै॥५७॥ सर्वे वेदं समायन्तु धर्मसेतुप्रवर्तकाः ॥ अङ्गसानावहयिष्यामि वेदशाखास्त्वनेकशः ॥ ५८ ॥ वेदशाखाः समायन्तु जगद्रक्षणतत्पराः ॥ अहमावाहयिष्यामि सर्वांस्त्रिदशवाहनान् ॥ ५९ ॥ इह सर्वे समायन्तु सर्वे त्रिदशवाहनाः ॥ नागाननावाहयिष्यामि देवपुत्राञ्महाबलान् ॥ ६० ॥ इहोपवाद्या नागेन्द्राः शीघ्रमायान्तु सत्वराः ॥ निधीनावाहयिष्यामि शङ्खपद्मपुरोगमान् ॥ आयान्तु निधयः सर्वे सर्वलोकैकसंभवा- नाः ॥६१ ॥ अज्ञानकाय यदि सङ्क्रमय्यार्ककस्य कार्यं युद्धरंगेनाथ ॥ कार्याथंहेता तु तदेकवत्सरयादाहोनमन्त्रस्य पृथक्रूपाः ॥ ६२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्टाकल्पे देवसंवादानं नाम त्र्युत्तरशततमोऽध्यायः ॥ १०३ ॥ मार्कण्डेय उवाच ॥ आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारकारणम् ॥ १ ॥ चतुर्वेदं चतुर्वक्त्रं चातुर्वर्ण्यप्रभुं प्रभुम् ॥ चतुराश्रम- मागोतासं वरदं भूतभावनम् ॥ २ ॥ पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम् ॥ ३ ॥ आत्मयोनिमनौपम्यं ब्रह्मवादं जगत्पतिम् ॥ ३ ॥ यज्ञेशं यज्ञहर्तारं च त्रैलोक्यप्रख्यैककारणम् ॥ सर्वगं नारदं सौम्यं परमं परमेश्वरम् ॥ ४ ॥ भूतभव्यभवोद्भवं योगज्ञेयं सनातनम् ॥ आगच्छ भगवन्ब्रह्म- न्युजशासनस्य बुद्धये ॥ ५ ॥ इदमर्घ्यमिदं पाद्यं ध्रुवं चेदं प्रगृह्यताम् ॥ आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥६॥ जगतोऽस्य समुत्पत्तिस्थिति- संहारकारकम् ॥ देवमूर्तिं तदाह्यारं सर्वदेवमुखं प्रभुम् ॥ ७ ॥ पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम् ॥ शुक्लयज्ञोपवीतं देवं सर्वारभणभूषितम् ॥ ८ ॥ सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ॥ तेजोमूर्तिं दुराधर्षं मताजिह्वं महाबलम् ॥ ९ ॥ सप्ताचिषं सप्तमुनिं समित्सक्तमच्युतम् ॥
वि० ध० ॥ ३६४ ॥ तृ० खं० अ० १०३
सर्वे गणस्यास्तु पृथक्पृथक् ॥ २३ ॥ आवाहयिष्यामि तथा सुपर्णान्बलवत्तरान् ॥ सुपर्णास्तु समायान्तु विष्णुतेजो-
बृंहिताः ॥ २४ ॥ आवाहयामि वरदान्सर्वानेव प्रजापतीन् ॥ प्रजाध्यक्षाः समायान्तु त्रैलोक्यपरिपालकाः ॥ २५ ॥ आवाह-
यामि देवेन्द्रान्वेद्युभुवननायकान् ॥ आयान्तु देवनाथा मे वरदाः कामरूपिणः ॥ २६ ॥ भूतनाववाहयिष्यामि प्रसूते जगतः
स्थितान् ॥ आयान्तु मनवः सर्वे तपसा नष्टकिल्बिषाः ॥ २७ ॥ आवाहयिष्यामोषधीश्च्यः सर्वौषधिधराः शुभाः ॥ ओषध्यश्च समा-
यान्तु सर्वाः कामप्रदाः शुभाः ॥ २८ ॥ ऋषीनावाहयिष्यामि तपसा द्योतितप्रभान् ॥ आयान्तु ऋषयः सिद्धाः सर्वे मे दीप्ततेजसः ॥
शैलानावाहयिष्यामि सर्वौषधिसमन्वितान् ॥ २९ ॥ आयान्तु सुधराः शैलाः सर्वे मे स्थावरेश्वराः ॥ द्रुमानावाहयिष्यामि नानारूपफलान्वितान्
॥ ३० ॥ द्रुमाः सर्वे समायान्तु मनोमारुतरंहसः ॥ आवाहयिष्यामि तथा पातालांन्सर्वगोचरान् ॥ ३१॥ आयान्तु सर्वे पाताला दैत्यस्थाना ह्य-
निन्दिताः ॥ द्वीपानावाहयिष्यामि सर्वानद्भुतधारिणः ॥ ३२ ॥ आयान्तु द्वीपा लोकानां स्थानभूता जगत्प्रियाः ॥ लोकानावाहयिष्यामि
स्थानभूताननेकशान् ॥ ३३ ॥ आयान्तु लोकाः सकलाः सर्वे मे भूतभावनाः ॥ आवाहयिष्यामि तथा समुद्रांश्चतः प्रियान् ॥ ३४ ॥
समुद्रा मे समायान्तु गम्भीरा जगत्प्रियाः ॥ वर्षानावाहयिष्यामि सर्वसत्वश्रयान्निधि ॥ ३५ ॥ आगच्छन्तु तथा चेह वर्षाः सर्वमनोहराः ॥
आवाहयिष्यामि तथा चतुरः सागरानहम् ॥ ३६ ॥ सागराः शीघ्रमायान्तु सर्वे तोयधरा मम ॥ नदीस्तास्त्वाहयिष्यामि वरदा लोकमातरः
॥ ३७ ॥ आयान्तु वरदा नद्यः सर्वपापहराः शुभाः ॥ आवाहयिष्यामि तथा सर्वान्नगानप्यहम् ॥ ३८ ॥ आयान्त्वभ्रा महाभागाः सर्वे चारु-
चरा मम ॥ आवाहयिष्यामि तथा पिशाचान्सर्वनादनान्॥ पिशाचास्तु समायान्तु सर्वे मे कामरूपिणः॥३९॥ आवाहयिष्यामि तथा स्कन्दस्य
पार्षदगानहम् ॥ ४० ॥ नानारूपाः समायान्तु स्कन्दस्य पार्र्षदा मम ॥ आवाहयिष्यामि तथा देवानां पार्षदगानहम् ॥ ४१ ॥
नानारूपाः समायान्तु देवानां पर्षदा मम ॥ आवाहयिष्यामि तथा हरस्य पार्षदगानहम् ॥ नानारूपाः समायान्तु हरस्य पा-
र्षदा मम ॥ ४२ ॥ आवाहयिष्यामि तथा मातरो लोकमातरः ॥ ४३ ॥ आयान्तु मातरो देव्यो वरदाः सर्वगाः शुभाः ॥ म्रदाना
वाहयिष्यामि सर्वलोकवरानहम् ॥ ४४ ॥ म्रदाः सर्वे समायान्तु दीप्ता भुवननायकाः ॥ आवाहयिष्यामि तथा नक्षत्रान्वरदानहम् ॥ ४५ ॥
आयान्तु सर्वे नक्षत्राः सर्वे भुवननायकाः ॥ दिशस्त्वावाहयिष्यामि प्रागाद्याः सुमनोहराः ॥ ४६॥ आगच्छन्तु दिशः सर्वाः सर्वसुखवहाः॥
॥३६४॥
त्तम्मभविष्यस्य प्रभुं लोकनमस्कृतम् ॥ ६ ॥ गुणागारं जगद्योनिं महद्धोपि महत्तरम् ॥ जीवदेव त्वमस्येहि प्रविशाचीमिमां स्वयम् ॥ ६ ॥ कुरुष्व देवदेवेश सजीवं च तथाऽनद ॥ इदमर्च्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ॥ ७ ॥ इति श्रीवि०पं०तृ०ख०मा०व०सं० जीवावाहनं नाम त्र्युत्तरशततमोऽध्यायः ॥ १०२ ॥ वृद्ध उवाच ॥ आवाहनानि मे ब्रूहि देवतानां भृगूत्तम ॥ भवन्त्यावाहिता मन्त्रैर्यैस्सात्सन्निहिताः सुराः ॥ १ ॥ मार्कण्डेय उवाच ॥ आवाहनानि ते वक्ष्ये देवानां भृगुनन्दन ॥ अथोर्द्धवर्गे केषांचित्केषांचित्पुनरेव ते ॥ २ ॥ सर्वेस्यावाहनस्थाने श्लोकार्थं परिकीर्तितम् ॥ इदमर्घ्यं च पाद्यं च धूपोऽयं प्रतिगृह्यताम् ॥ ३ ॥ आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ ॥ आगच्छेतां महाभागौ वरदौ शान्तिनौ भुवां ॥ ४ ॥ वसूनावाहयिष्यामि देवानद्यो भृगूद्वह ॥ आयान्तु वरदा देवा वसवः पापनाशनाः ॥ ५ ॥ विश्वानवाहयिष्यामि देवानद्भुततेजसः ॥ आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ॥ ६ ॥ आवाहयाम्यहन्दिसौ देवानद्भुततेजसः ॥ आयान्त्वङ्गिरसो देवा महाबलपराक्रमाः ॥ ७ ॥ रुद्रानावाहयिष्यामि त्रिनेत्रान्वृषवाहनान् ॥ आयान्तु वरदा रुद्रास्त्रैलोक्यवरदाः शुभाः ॥ ८ ॥ आवाहयिष्याम्यादित्यान् वरदानद्भुततेजसः ॥ आयान्तु वरदाः सूर्याः सर्वे ते तेजसोल्बणाः ॥ ९ ॥ भृगूनावाहयिष्यामि देवानद्भुततपोधनान् ॥ आयान्तु भृगवो देवा वरदा दीप्ततेजसः ॥ १० ॥ मरुतानावाहयिष्यामि मरुतस्तेजसाधिकान् ॥ आगन्तु मरुतो देवा वरदा भुवनेश्वराः ॥ ११ ॥ सुरानावाहयिष्यामि सर्वानैवै दिवाकसः ॥ आगच्छन्तु सुराः सर्वे मन्त्रपूजाभिलाषिणः ॥ १२ ॥ दैत्यानावाहयिष्यामि महाबलपराक्रमान् ॥ आगन्तु दैत्या धर्मिष्ठा देवशत्रुगुणा मम् ॥ १३ ॥ आवाहयिष्ये गन्धर्वान्द्र्पदर्पणसंयुतान् ॥ आयान्तु सर्वगन्धर्वा वरदाः कामरूपिणः ॥ १४ ॥ यक्षानावाहयिष्यामि धनाध्यक्षसमन्वितान् ॥ आयान्तु वरदा यक्षास्त्रैलोक्यविदिता मम ॥ १५ ॥ आवाहयिष्यामि तथा राक्षसान्विविधायुधान् ॥ आयान्तु राक्षसा वीरा देवशत्रुजयायिनः ॥ १६ ॥ आवाहयिष्यामि तथा विद्याधरगणानहम् ॥ विद्याधराः समायान्तु विविधाऽगनानङ्गुमाः ॥ १७ ॥ आवाहयिष्यामि तथा किन्नरान्देवगायनान् ॥ आयान्तु किन्नराः सर्वे सुस्वरास्तु सुलोचनाः ॥ १८ ॥ नागानवाहयिष्यामि भुजगान्सर्पगोचरान् ॥ आयान्तु वरदा नागास्त्रैलोक्यविदिता मम ॥ १९ ॥ अहमावाहयिष्यामि तथैवाप्सरसः शुभाः ॥ समायान्तु महाभागा देव्योह्यमलोञ्ज्वलाः ॥ २० ॥ अहमावाहयिष्यामि सर्वान्किन्नरपत्नयः ॥ आयान्तु वरदाः सर्वास्तास्त्विन्दुकरप्रभाः ॥ २१ ॥ आवाहयिष्यामि तथा वरदा देवमातरः ॥ आयान्तु वरदाः सर्वा सुवेशाः सुखदाः शिवाः ॥ २२ ॥ पितॄनावाहयिष्यामि सूक्ष्मान्भूधरगानहम् ॥ आयान्तु पितरः
वि० ध० ॥ १६६ ॥
च तथा मूलं श्रीसक्तमथवापरम् ॥ २॥ अभिज्ञां च पवित्रं च चरितं वैष्णवं तथा ॥ वादिदर्शनदौर्जन्यदर्शनोन्मिश्रितं तथा ॥ भूयश्चाङ्गानाम् । शौचं निवृत्तं त्वधिवासनं वै कार्यं सुरार्चासु यथाभियास्ये ॥ ३ ॥ इति श्रीविष्णु०ध० बृ० सं० मा० व०सं० अर्चाशौचकथनं नाम शततमोऽध्यायः ॥ १०० ॥ मार्कण्डेय उवाच ॥ अथार्चाशौचानन्तरं पवित्रकस्याचार्याः पश्चादधिवासनं कुर्यात् ॥ तत्र कमलकर्णिकायां ध्रुवा द्यौरिति मन्त्रेण दक्षिणशिरस्कं प्राक्शिरसं वा शय्यायां स्वापयेत्तोरतः पञ्चगव्यैः पञ्चशिरस्तत्पशस्तत्स्यता शुद्धान्वस्त्रैश्चादित्येतो ततो युवा सुवासा इति प्रच्छादनपटं दद्यात् ॥ गण्डोपधानं च । ततो गर्भास्त्रं सप्तशीर्षानन्तं नागं कुर्यात् । तं च शयने स्थापयेत् ॥ ततो जीवस्यावाहनं कुर्यात् शिवसंकल्पं योजयेत् । तत्परस्तन्मन्त्रस्यावाहनं प्रयोजयेत् । ततोऽर्घ्यपाद्याचमनीयमधुपर्कचन्दनमाल्यधूपप्रमथुकप्रकीर्णकमन्नाभिः प्रत्येकं मूर्त्तिनेपनान्यलङ्कुर्यात् ॥ ततः ऐरीणाम् । नमोऽस्तु सर्पेभ्य इति योगयोगेति मन्त्रं चोदीरयेत् ॥ अनन्तमाहात्म्यं च वा वदेत् ॥ ततो ध्रुवा द्यौरिति मन्त्रेणानन्तोपरि ॐमन्मन्तवर्च्च पवित्रके स्थापयेत् ॥ ततो जीवस्यावाहनं कुर्यात् । शिवसङ्कल्पं जपेत् । ततो भगवन्तमावाहयेत् । ततः सर्वे मुन्यप्सरोगणान्नवः प्रणामं कुर्युः आगच्छ भगवन्निति ब्रूयुः । ततः षाड्गुण्यैर्महौजोभ्यश्छन्दः पूज्येयुः । ततोऽर्घ्यपाद्याचमनीयस्नानीयोदकानुपलेपनामलयधूपदीपमधुपर्कापन्नक्रमन्नादानैः श्रीभगवन्तं प्रत्येकं संविभज्येत् । ततः स्वस्ति न इन्द्र इति जपेत् । ततो युवांसुवासा इति श्रीभगवन्तं महता वासोगुणेनाच्छादयेत् युक्तो मन इति पुष्पैरावकिरेत् । बोधयमा प्रतिबोधयैति सिद्धार्थैश्चावकिरेत् । प्रादुश्चेमानिविति वाचयत् । एवमधिवासनं कार्यम् ॥ अधिवासितं च भगवति अर्चाभ्यण्डिले वेदिं प्रतिष्ठाप्य आसनानि पाद्यादीनि च अर्चाशौचविधानेन वेदिमासन्नानि च शोधयेत् ॥ ततः शङ्करगीतोक्तविधिना इज्यां सारस्वतः कुर्यात् । इज्यासमाप्तिकालमेव होमस्थण्डिले होता होमं वेदीशीचमासन्नानां सङ्क्षेपं विधीते ॥ इज्याहोमौ च कर्तव्यौ प्रत्यहं त्वधिवासिते । पूजनं गीतनृत्यैश्च प्रतिष्ठा यावदागता । अधिवासनमन्तरो मया सम्यगुदाहृतम् ॥ १ ॥ इति श्रीविष्णु० ध० बृ० सं० मा० व० सं० अधिवासनवर्णनो नामैकाधिकशततमोऽध्यायः ॥ १०१॥छ॥ मार्कण्डेय उवाच ॥ अथावाहयन्वह्रै जीवे बीजे संवृतिं प्रभुम् ॥ पश्चाद्भावस्थिते देवे पश्या च स्थिते पुनः ॥ १ ॥ वत्त्वेन तु भावेन पश्याच स्थिते पुनः ॥ ३॥ आंन्येन तु भावेन पश्चाद्भावस्थिते प्रमुम् ॥ २ ॥ बाणेन च भावेन पश्चाद्भावस्थिते प्रभुम् ॥ सूतात्मकत्वेन तथा पशूद्भावस्थिते पुनः ॥ ३ ॥ परमात्मानमप्युन्मुञ्चेज् जगदीश्वरम् ॥ सर्वगं सर्वदातारं सर्वेशमपराजितम् ॥ ४ ॥ अन्त्यर्भसूक्ष्मं वरदं क्षेत्रज्ञं प्रसुमीश्वरम् ॥
बृ० सं० अ० १०२ ॥ १६६ ॥
प्रतिष्ठाकल्पे तर्पणवर्णनो नामाष्टानवतितमोऽध्यायः ॥९८॥ मार्कण्डेय उवाच॥ अथ पञ्चगव्यानि। तत्र कपिलाया गोः क्षीरम्। कृष्णायाश्च दधि । नीलायाश्च घृतम् । श्वेताया गोमयम् । ताम्रवर्णाया गोमूत्रम्। गायत्र्या गोमूत्रं गृहीयात्। गन्धद्वारेति गोमयम् । आप्यायस्वेति क्षीरम् । दधिक्राव्णेति दधि। घृतवती भुवनानामिति घृतम् । देवस्यत्वेति कुशोदकम्।अथर्षभशृंगेण संयोज्य गायत्रीमुदीरयेत् । ततस्तेन पञ्चगव्येन भवनमभ्युक्षयेत्ततोरणानि नि च, अर्घाशौचार्थमवस्थापयेत् ॥ बृहत्स्नपने तदेव स्यादन्यं वा कल्पयेत् ॥ अथाऽर्घ्यकल्पना । भवति तत्र राजते पात्रे शङ्खविल्वपद्मशोरीरदर्भमूलदूर्वाशालिशालिसिद्धार्थकपुण्ड्रालपुत्रकल्पयेत् । तीर्थोदकेन प्लावयेत् । रथ अक्षीति मंत्रमुदीरयेत् । द्रविणं पापमन्द्वः द्रुपदं पवित्रं शङ्खर्माणि ग्रैस्सूक्तैः काण्डात्काण्डोति पवित्रं च ततः शुभे दृढे स्वाञ्चिते भाण्डे पाव कुर्वीत् ॥ हिरण्यवर्णत्यस्य ऋक्सूत्रेण च पार्थिव ॥ १ ॥ आपोहिष्ठेति तिसृभिः शन्नोदेवीरिति चाप्यथ ॥ १ ॥ ब्रह्मजज्ञान सूत्रेण पवित्रेण तथैव च ॥ वाचेत्यत्र तीर्थमाहात्म्यमुत्तमम् ॥ २ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० व० सं० प्रतिष्ठाकल्पे पञ्चगव्यवर्णनोनामनानवनवतितमोऽध्यायः ॥ ९९॥ मार्कण्डेय उवाच ॥ अथाघाशौचं भवति। तत्र मुनयश्चाऽत्रकर्मकर्तारो च शौचयेत् । उभायोद्दर्भपवित्रके शौचं कुर्यादधिवासनं च गृह्यं तद्वन्योत्किरैश्चैवं चादावेव कुर्यात् । ततोम्बुना गायत्र्या कुर्यात् । आक्रम्येति द्वितीया मृदा अयं चात्रापरो मंत्रो भवति । अश्वक्रांन्ते रथक्रांन्ते विष्णुक्रांन्ते वसुन्धरे ॥ मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ १ ॥ उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ मृत्तिके त्वं प्रपृच्छेहं सर्वकामप्रदा भव ॥ तृतीयं शस्तियमिति भस्मना । इदं गाव इति चतुर्थं गोमयेन। विष्णोः पृथुस्सोति पञ्चमं गौरसर्षपैः ॥ बृहत्साम्ना षष्ठं श्वेतातिभस्मना ॥ शाकरेणेति सप्तमं पञ्चगव्येन ॥ मनसः काममाकूतिमित्युष्टमं कुष्ठेन । हिरण्यवर्णेति नवमं सुवर्णोदकेन ॥ तरत्समन्दीति दर्भैष्पिच्छेदंशमम् ॥ पावमानीभिरस्तीर्थशर्करेणेकादशम् । नदोमृदा द्वादशम् ॥ गिरयस्ते पर्वतामृदा त्रयोदशम् । ऋषभेण जातं¹शृङ्गोद्भूतसदा चतुर्दशम् ॥ अश्वक्रान्तेति लाङ्गलोद्भूतसृदा पञ्चदशम् ॥ कुप्याददीति वल्मीकामृदा पोडशम् ॥ पृथ्वीदेवीति मन्युना तीर्थमृदा सप्तदशम् ॥ सरोमृदा ब्रह्मज्ञानेत्यष्टदशम् ॥ दधिक्राव्णोति दध्ना एकोनविंशम् । घृतवती घृतेन विंशतितमम् ॥ अथर्षभेण रत्नोदकमेकविंशम् ॥ एवमेकोविंशत्यात्मक्रेन सोमेन तां शौचयित्वा परमपावना मन्त्रा जप्तव्याः ॥ अश्वमेषेण इंद्वंकेते शुद्धवत्यस्तत्सम्भाः ॥ कुष्माण्डाः पावमान्यश्च दुर्गा देवी सरस्वती ॥ १ ॥ चान्द्रायणं च ऋषभं वामदेवं रथन्तरम् ॥ पौरुषं
१ 'ऋषभम्' इति ख० ।
वि० ध० ॥ ३६२॥ तृ० खं० अ ०९८ ॥ ३६२॥
दक्षिणगतहस्ता, पश्चिमे द्वापरं, उत्तरे कलिरिति । एवं तोरणन्यासं कृत्वा युवा सुवासा इति दर्भैराश्वत्थपत्रैः सन्दाममिश्रै- स्तोरणचतुष्टकं चापि वेष्टयेत् । ततस्तोरणानामुपरि ध्वजाः कर्तव्याः । पूर्वेण पीतपताको गरुडः, दक्षिणेन नीलपता- कस्तालः, पश्चिमेन श्वेतपताको मकरः, उदक्पीतपताकः कुम्भः । गरुडस्य पार्श्वयोर्गदाचक्रे, तालस्य हलमुसले, मकरस्य धनुर्बाणौ, कुम्भस्य खड्गचर्म । तोरणानन्तरङ्गे आग्नेये दिग्भागे ध्वजम् । नैरऋत्यां वैजयन्तीं पताकाम् । वायव्यां ध्वजम् । ऐशान्यां दण्डम् । स्थण्डिलोपरि वितानकम् । तोरणं प्रतिषट्षड्भादशं च । इन्द्राम्यन्दिले वितानकम् । तत्र च वटिलीलताः प्रतीहाराः सुभद्रभद्रौ पूर्वेण । अपाद्भटधातांतौ दक्षिणेन । जयविजयौ पश्चिमेन । मोदप्रमोदौ उत्तरेण । एतत्कृत्वा ध्रुवाद्यौविदमुदाहरेत् । मधुरं च मन्त्रं व्यात्तगहेति । ततः कलशोदकेन पवित्रमन्त्रेण यजमानमृत्विजो मोगंमांश्चाभ्युक्ष्य गायत्रीं जपेत् । या ओषधीश्वेति तैश्चेशानीदिक प्रभृतिषु संवत्सरार्विदोऽष्टौगन्धैर्द्वारपालो निवेशयेत् । तेषां नामानि । कन्दर्पः, सोमनः, दुर्धरः, शिखरः ॥ तेषां चत्वारो लोकपालाः इन्द्रयम वरुणधनदाः । तेषां च निवेशने काण्डात्काण्डादित्युदीरयेत् ॥ ततः पञ्चरङ्गं सूत्रं काण्डात्काण्डेति वेष्टयात् । तेनैव दिशः परिधारयेत् । पञ्च गव्येनाप्यभ्युक्ष्य पञ्चब्रह्माह्वयंमयं संसारसूत्रम् । नीले पृथ्वी, श्वेतायापः, रक्ताग्निः, पीतं वायुः, कृष्णमन्तरिक्षम् । तदन्वेन द्रुपदाद्वेति मन्त्रो भवति । इन्द्राण्यो वातिति सूक्रमिति, च ततः कुण्डे मुखेषु स्थण्डिलाभ्यन्तरेण चतुर्षु दिक्षु चत्वारः पूर्णकुम्भान् प्रतिष्ठापयेत् । ते चत्वारः सागरा ज्ञेयाः । तथाऽष्टास्वप्यन्याभ्यां दिशि पृथक् कुम्भं प्रतिष्ठापयत् । ततः क्रमेणान्यान् ॥ तेषां नामानि सहस्रवीर्यः, विमलः, शतधारः, प्रमन्दनः ॥ तांश्च सहिरण्यगन्धचन्दनाम्रसुमान्सवनस्पतिकलान्कुर्यात् । तत्र शन्न आप इति प्रथममभिमन्त्रयेत् । शन्नो देवीरिति द्वितीयम् ॥ आपोहिष्ठेति तृतीयम् । इदमापः प्रव्रत इति चतुर्थम् ॥ ततः पूर्णेन लाजापूर्णं पात्रं स्थापयेत् । दक्षिणेन तिलपात्रम् । पश्चिमेन सिद्धार्थपात्रम् । उदग्घृतपा- त्रम् । पात्रविशेषेण आवन्ताश्चन इत्युदीरयेत् । ततश्चतसृषु विदिक्षु कुम्भानामभ्यन्तरे चत्वारो दीपा देयाः । ते च वेदा ऐशानीप्रभृति ऋग्यजुस्सा माथर्वाणः । तेषां च निवेशने तेजोसिशुक्रमित्युदीरयेत् । ततः पुनरपि स्तोत्रमन्त्रैः सिद्धार्थैर्विकीरणं कुर्यात् । ये देवाः पुरः सदोभिरिति जपेत्तावद्ग्राहं प्रादुर्भावं च वाचयेत् । श्रीसूक्तमुदीरयेत् । ततस्तेन पञ्चगव्येन सुवन्समुत्सृजेत्तोरणानि च (अर्चां शौचार्थं च स्थापयेत् । दृष्टस्तन्पते तदेवं स्याद्द्वयं नावेकल्पयेत् ।) अथाघर्घ्यं एवं तोरणविन्यासे कृते भूपतिस्सप्तमाऽसौ विप्राः क्षयं यान्ति परा वृद्धिञ्च जगतो॥ इति श्रीविष्णु०ध०तृ०खं०मा०सं०
यावत्तोयञ्चवित्रेत्यं यजमानः सुसञ्चितः ॥ १ ॥ ब्रह्मचारी हविश्याशी जितक्रोधो विमत्सरः ॥ अधःशायी च राजेन्द्र नित्यस्नायी तथैव च ॥ २ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्ठाकल्पे दीक्षाध्यायो नाम सप्तनवतितमोऽध्यायः ॥ ९७॥
मार्कण्डेय उवाच ॥ अथ प्रासादलक्षणम् ॥ पुण्ये वा सुशुभे भूभागे स्थण्डिलद्वयं परिकल्पयेत् । गृह्यावोक्तमृदा ससिक्ततया । ततः स्थण्डिलद्वयमपचितगोमयेनोपलिम्पेत् । तत्र मध्योधिवासनस्थण्डिलम् । तद्दक्षिण इज्यास्थण्डिलम् । तद्गृह्योक्तमस्यस्थण्डिलम् । ततोऽधिवासनस्थण्डिले चत्वारस्तोरणाः परिकल्प्यन्ते । सर्व स्थण्डिलाः चतुरस्त्राश्चेद्धस्तोच्छ्रयास्तोरणविस्तारोर्ध्वभागविस्तीर्णाः ॥
स्थण्डिलद्वय आग्नेयिभिः पताकाभिः प्रतिसरिभिश्च परिवेष्टयेत् । वनप्रवेशोक्तेन विधिना प्रशस्तवृक्षाणामन्यतमस्य वृक्षस्य तोरणार्थं काष्ठान्यानीय स्थण्डिलद्वय उपकल्पयित्वा । न तोरणं काष्ठद्वयं कुर्यात् । न कुब्जम् । तोरणानि सर्वे समप्रमाणाः । आदावधिवासनस्थण्डिलस्य पश्चिमभागे। प्राङ्मुखः कल्पकः [स्वामी न स्यात्]$^१$ कृत्यकर्त्तादक्षिणे भागे प्राङ्मुख एव साम्वतः स्यात्। तस्यापि दक्षिणे भागे प्राङ्मुख एव ऋग्वेदविद्भवेत्।
कल्पकस्याग्रभागे प्राङ्मुख एव यजमानः। तस्य वामतः प्राङ्मुख एव अध्वर्युः स्थण्डिलाद्वहितो दक्षिणाभिमुखो यजुर्वेदवित् । स्थण्डिले पूर्वतः पश्चिमाभिमुखः सामवेदवित् । तस्य दक्षिणतो वंशवादकः । तस्यापि दक्षिणतो वाचकः । तस्योदग्भागमन्तःपुटे वादनकर्त्तनर्त्तकाः । स्थण्डिला दक्षिणतः उत्तराभिमुखोध्वजदंडवित् ।
होमस्थण्डिले प्राङ्मुख अगारात्पश्चिमतॊ होता । चतुरस्रः । समन्ताद्धस्तमानश्चागारः समेखलः । तन्मध्याद्वन्धपरिहिता द्रव्यरक्षिता च । इज्यास्थण्डिले इज्याकृतप्राङ्मुखतः । तद्दक्षिणतः उत्तराभिमुखौ मन्त्ररक्षिता द्रव्यरक्षिता च । संवत्सरो न्यवकल्पितश्चित्तग्रहणार्हताः स्युरतः । स्थापतेरन्यतमः ।
ततः सौवर्णं रजतं ताम्रं मृण्मयमकर्कशमलं वा कलशं अच्छिद्रं तीर्थोदकपूर्णं सर्वोषधिभिः सर्वगन्धैः सर्वबीजैः सर्वैरत्नैः सहिरण्येन चन्दनेन फलैश्च संयुतं कृत्वा अनुलेपनादिनिमित्ते पवित्रसूत्रे सति सूत्रमाल्यग्रीवं कल्पकः पुरतः प्रतिष्ठापयेत् । कलशः पूर्वेण । स्थण्डिलमध्ये अष्टपत्रं कमलमलिखेत् ॥
ततः कूर्म्मार्च्चनं कुर्यात् । प्रणवव्याहृतिपूर्विकां गायत्रीं सशिरस्कां जपेत् । ॐकार नमस्कारं कूर्म्मार्च्चनं पवित्रं चेति । ततस्तोत्रं कश्चिद्वाचयेत् ॥ ततो श्लोकैर्मन्त्रैर्दिक्षु विदिक्षु च सिद्धार्थकांन्न्यसेत् । ततो द्वादशाङ्गुले खाते वनस्पते बीड्व इति प्राच्यादिक्रमेण तोरणन्यासं कुर्यात् ॥ तोरणाश्चत्वारो युगा भवन्ति । पूर्वतः कृतयुगः,
$^१$ कोष्ठगतान्तः पाठः खपुस्तके नास्ति ।
नरेन्द्रं नियोजयेत् ॥ १३८ ॥ एवं ज्ञात्वा शुभे काले प्रयत्नेन तु दैववित् ॥ छायाभूमिः प्रयत्नेन गृहीयादवधारितः ॥ १३९ ॥ शुभेऽह्नि पूर्वं युञ्जीत तन्काले प्रतिमां स्वयम् ॥ समां तु पीठिकां गर्तं स्थपतिर्निविवेशयेत् ॥ १४० ॥ तत्कालमेव कुर्वीत नाम चास्याः समाहितः ॥ तन्नाम न तु नृणां स्यान्नो देव्यापी प्रतिमा भवेत् ॥ १४१ ॥ केतुवन्ताः स्त्रियः कार्या नायकान्तो ब्राह्मणो भवेत् ॥ ईश्वराणां हरन्तोक्ता सिद्धि- दान्ता नृणां स्मृता ॥ १४२ ॥ अन्येषां देवनाम्नास्याः क्षुराणां प्रतिमाः स्मृताः ॥ सूक्ष्मा तु प्रतिमा कार्या द्वितीया चाधिवासने ॥ १४३ ॥ चित्र- मृत्तिका या वा कल्प्या या तथा भवेत् ॥ तस्याः पवित्रकं कार्यं तथा देवाधिवासनम् ॥ १४४ ॥ संवत्सरं तु कर्तव्यं षण्मासानथ वा पुनः ॥ त्रिन्द्वावथैकं वा मासं ज्ञेयमेव वा ॥ १४५ ॥ एकाहात्पञ्चरात्रं वा यथावदधिवासनम् ॥ विश्वकर्मनतिर्महता गीतनृत्यैः सुशोभनैः ॥ १४६ ॥ विष्णुपूजाऽर्चनं कार्यं प्रतिष्ठागरिष्ठेव च ॥ विष्णुमभ्यर्च्यदोषेण कर्तव्यमधिवासनम् ॥ १४७ ॥ ततः प्रतिष्ठा कर्तव्या काले संवत्सरोचिते ॥ यज्ञे काले हुता सा तु परा वृद्धिकरी भवेत् ॥ १४८ ॥ राज्ञो प्रजानां कर्तुश्च तथा कालविदो नृप ॥ ऋत्विजं च महाराज शुभलक्षण- विन्वितम् ॥ १४९ ॥ सुलक्षणा लक्षणसंयुता च देशे कृता शास्त्रविदा तु सम्यक् ॥ काले शुभे लोकसुखावहा स्यात्कर्तुः प्रशस्ता वरदानसौम्या ॥ १५० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० प्रतिमाप्रतिमालक्षणकलिनिर्देशो नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ व्यास उवाच ॥ भगवन्केन विधिना प्रतिष्ठा कृता भवति ॥ मार्कण्डेय उवाच ॥ अथ सुप्रतिष्ठापने षोडशर्त्विजो भवन्ति ॥ एतद्यथा दीक्षितमभितः कल्पकः याजकः यजुर्वेदविदर्थवाद् यजुर्वेदविदगृहपतिः ऋग्वेदविदथर्ववेदवित्साामवेदविदथर्ववेदविदिति चत्वारः कलशधाराणः चत्वारः सोत्पवकाः तेषामेको मूर्त्तिधरः द्वितीयो देवकर्मवित् ॥ तृतीयो मन्त्ररक्षिता चतुर्थो द्रव्यरक्षितेति । तत्र कल्पश- धाराणां शतया सहायाः कर्तव्याः । सर्वे एव ऋत्विजोऽव्यङ्गा अनधिका अनधिकाङ्गाः स्वशाखापारिनिष्ठिताः ऋक्ष्णाः अपोनेभवा श्वेति वितेः प्रशस्तैरङ्गैिस्तैः सहदेवैः सुस्नातैः स्वडलिताङ्गैर्भयद्भिरित्यादिभिश्च अहताम्बरसम्वीतैः पवित्रपाणिभिः सह दीक्षां यजमानो गृह्णीयात् ॥ तस्य स्नातास्याहतानवस्त्रसंवीतस्य गोमयेनोपलिप्ते देशे ब्राह्मणाः स्वस्तिवाचनमवेदकबचनेन कल्पकः सितसूत्रेण सितवस्त्रेण सिद्धा- थैर्कनववारं बद्धा दक्षिणपाणौ प्रतिसरं कङ्कणं बध्नीयात् । ततः प्रभृति यावत्प्रतिष्ठाकालं प्रतिष्ठाकालादुपरि च समाप्तं तोवन्मां समग्रदात्रा ब्राह्मणैर्मन्त्रैर्देव्यामिनानार्चनवर्णैर्निवार्यानि भवन्ति ॥ भवति चात्र ॥ दीक्षादिनान्यूर्ध्वमथवे प्रतिमा समसे दिने ॥
धनसंयुता ॥ आयुःक्षयं चतुर्थस्थे पञ्चमे स्वजननाशनम् ॥ १७२॥ षष्ठे शत्रुविघातं च दारिद्यं सप्तमे भवेत् ॥ मरणं चाष्टमे मानो नवमे धर्मपाडनम्॥
॥१७३॥दशम सुतवृद्धिश्च लाभे लाभयुता भवेत् ॥ द्वादशे व्ययसंयुक्ता निर्धना तु तथा भवेत्॥१७४॥ चन्द्रे लग्नगते ज्ञेया सुहृदा मनुजोत्तम ॥
धनानन्विता द्वितीये तु तृतीये लाभसंयुता ॥ १७५॥ चतुर्थे बान्धवरहिता पञ्चमे सुतवृद्धिदा ॥ षष्ठे रिपुविनाशाय सप्तमे च धनावहा ॥ १७६॥
अष्टमे मरणायोक्ता नवमे धर्मपाडनम् ॥ दशमे कर्मदा प्रोक्ता लग्ने लाभप्रदा भवेत् ॥ १७७ ॥ व्यये व्ययवती राजंस्तथा धनविवर्जिता ॥
अथैषिमन्त्रादिषिं दीपे कसाद्भ्य निबोध मे ॥ १७८ ॥ चन्द्रे लग्नगते ज्ञेया दिङ्नाशा महद्भुज ॥ द्वितीये च दरिद्रा स्यात्तृतीये धनसंयुता
॥ १७९ ॥ वह्निनाशां चतुर्थे स्यात्पुत्रनाशाथ पञ्चमे ॥ षष्ठे रिपुविनाशाय मार्गनाशाय सप्तमं ॥ १८० ॥ अष्टमे मरणायोक्ता नवमे धर्मघा-
तिनी ॥ धनानन्विता स्याद्दशमे लाभे लाभवती भवेत् ॥ १८१ ॥ व्यये व्ययवती नित्ये दरिद्रा च तथा भवेत् ॥ लग्ने मृत्युकरे भौमस्तथा
ज्ञातिवधो धने ॥ १८२ ॥ कीर्त्ति स्त्रिसुवने शुभ्रां तृतीयस्थः करोत्यसौ ॥ चतुर्थे बन्धुनाशः स्यात्सुतनाशस्तथा सुते ॥ १८३ ॥ अरिनाश
जनन्या षष्ठे सप्तमेऽध्वे विनश्यति ॥ अष्टमे कर्तुमरणं नवमे देशविच्युतिः ॥ १८४ ॥ दशमे कर्मसिद्धिः स्याल्लाभे लाभवती भवेत् ॥ धनजाया
व्ययेऽनिष्ट्यं वियोगो व्ययगो भवेत् ॥ १८५ ॥ बुधो लग्ने धनयुतो द्वितीये च तथा भवेत् ॥ तृतीये वरदा प्रोक्ता प्रोक्ता चतुर्थे धनसंयुता ॥ १८६ ॥
कीर्त्तिश्च पञ्चमे ज्ञेया षष्ठे रिपुविनाशिनी ॥ सुखदा सप्तमे ज्ञेया नृपेष्टा च तथाऽष्टमे ॥ १८७ ॥ सौख्यदा नवमे राजन्दशमे कर्मवृद्धिदा ॥ स्थिरा
लाभगते ज्ञेया व्यये धनसमन्विता ॥ १८८॥ जीवे धनाढ्या लग्नस्थे द्वितीये च तथा भवेत् ॥ दृढारूढा तृतीये स्याच्चतुर्थे धनसंयुता ॥ १८९ ॥
पञ्चमे सुखदा प्रोक्ता षष्ठे शत्रुविनाशिनी ॥ सप्तमे राज्यदा कर्तुरष्टमे च ससिद्धिदा ॥ १९० ॥ कीर्त्तिदा नवमे ज्ञेया दशमे च ससिद्धिदा ॥
लाभस्थे लाभदा ज्ञेया व्यये लाभसमन्विता ॥ १९१॥ शुक्रस्थे निश्चला शुक्रे सर्वकामप्रदा भवेत् ॥ धनगे च धनं दद्यात्तृतीये भ्रातृवृद्धिदा
॥ १९२ ॥ चतुर्थे सुभगा ज्ञेया पञ्चमे सुतवृद्धिदा ॥ षष्ठे पूज्या तथा लोके सप्तमे धनवृद्धिदा ॥ १९३ ॥ अष्टमे सुखदा प्रोक्ता नवमे च सुखा-
र्व्विदा ॥ दशमे लोककान्ता स्यादादरान्नारास्तथाशुभौ ॥ १९४ ॥ तथा व्ययस्थे विज्ञेया सधन्या सधना तथा ॥ मृत्युदा लग्ने सोरो दरिद्रा स्याद्द्वि-
तीयगे ॥ १९५ ॥ तृतीये धनलाभाय चतुर्थे कर्त्तृमृत्युदा ॥ सुतगे सुतनाशः स्याद्दरिद्रनाशस्तथाशितौ ॥ १९६ ॥ जायानाशंस्तु जायास्थे मृत्युर्हे-
तुर्भुवेष्टमे ॥ धर्मगे धर्महानिः स्यात्कर्मर्द्धिस्तु कर्मगे ॥ १९७ ॥ महीलाभस्तु लाभस्थे व्ययगे च व्ययो भवेत् ॥ शून्यं विवर्जयेत्केन्द्रं गुफा
त्रि० भ०
॥६७०॥
बृ०सं०
अ०६६
॥३६०॥
शस्ता संभोजनेषु प्रमदा सा रक्षिता रत्या प्रसिद्धिसुता ॥७६॥ द्वितीयायां धनोपेता तृतीयायां वरप्रदा॥ चतुर्थ्यां नाशमाप्नोति यस्याश्च स्यात्सुखा-
वहा॥७७॥ विख्याता पञ्चम्यां तथा तत्र विनिन्दिता ॥ पञ्चम्यां श्रीयुता कान्ता वरदा च तथा भवेत् ॥ ७८ ॥ षष्ठ्यां लक्ष्मीयुता नित्यं सप्तम्यां
रोगसंयुता ॥ अष्टम्यां धान्यबहुला नवम्यां तु विनश्यति ॥ ७९ ॥ भद्रा काल्या कृता तत्र कर्तुर्भवति पुष्टिदा ॥ धर्मवृद्धिकरी ज्ञेया
दशम्य तृप्तदा हिता ॥ ८० ॥ एकादश्यां तथा शुक्ला द्वादश्यां सर्वकामदा ॥ त्रयोदश्यां तथा ज्ञेया चतुर्दश्यां विनश्यति ॥ ८१ ॥ कृष्णा
पक्षे पञ्चदश्यां कर्तुः शुभकरी भवेत् ॥ पञ्चदश्यां तथा शुक्ले सर्वकामकरी भवेत् ॥ ८२ ॥ उत्तरात्रे महाराज कर्तुर्भगदा भवेत् ॥ बृहत्पूर्वा
च विख्याता तथा दीर्घवती शुभा ॥ ८३ ॥ दिव्यान्तर्लक्ष्मीरक्षोभैस्त चोपसर्गेण तु या युता ॥ कर्तव्या विश्वगोप्तान्ता प्रतिष्ठा तु कृता भवेत् ॥ ८४ ॥
निषिद्धातोऽत्रं भोक्तृबुद्धी वृद्धिः प्रकीर्तिता ॥ शकुनौ दोषजननी चतुष्पदि तथानला ॥ ८५ ॥ नागे भवति पूज्या च किंस्तुघ्ने तु शुभप्रदा ॥
रवेर्हस्ता तथा विशा वाङ्गवे तु शुभप्रदा ॥ ८६ ॥ कौलवे वरदा प्रोक्ता तैत्तिले रोगनाशिनी ॥ गरादौ रोगजननी तथा वणिजि पुष्टिदा ॥ ८७ ॥
विष्टौ शून्या कर्तुर्नाराशोपकेनी तथा ॥ जन्मर्क्षबुधये केतुः स्थिरं नाशवती भवेत् ॥ ८८ ॥ द्वितीये धननाशाय तृतीये कर्तुवृष्टिदा ॥ चतुर्थे
बहुधान्याच पञ्चमे व्याधिदा भवेत् ॥ ८९ ॥ षष्ठे शत्रुविनाशाय सप्तमे धननाशिनी ॥ अष्टमे शुभदा ज्ञेया नवमे धर्मनाशिनी ॥ ९० ॥ दशमे
कर्मपूर्णा चोर्थे लाभे फलकरी भवेत् ॥ द्वादशे तु व्ययाय स्यात्तृतीया तु तथा कृता ॥ ९१ ॥ जन्मलग्नाद्व्यये श्रेष्ठा धनधान्यवती भवेत् ॥ जन्म-
राशिसंह सर्व श्रेयस्कराने तु निर्दिशेत् ॥ ९२ ॥ मेषोदये कृता दिशां नाशनाशोति पार्थिव ॥ वृषोदये स्थिरा प्रोक्ता धनधान्यवती तथा ॥ ९३ ॥
लोककान्ता च मिथुने बहुकल्याणकारिणी ॥ कुलीरे क्षिप्रनाशाः स्यात्सिंहे बहुवृद्धा भवेत् ॥ ९४ ॥ कन्यायां लोककान्ता स्यात्तुले भवति
शालिदा ॥ वृश्चिके च स्थिरा प्रोक्ता कल्याणाय धनुर्धरे ॥ ९५ ॥ मकरे क्षिप्रनाशा स्यात्कुम्भलग्ने दृढा भवेत् ॥ मीने पुण्यवहा कर्तुः
पापहृच्छुभा तथा भवेत् ॥ ९६ ॥ उषा स्यात्तुर्यभागेभ्यो सोमस्य सोमस्य कीर्तिता ॥ पापग्रहस्य द्रेष्काणे कर्तुनाशाय कीर्तिता ॥ ९७ ॥
सोमग्रहाणां शुभगा कर्तुर्भवति पुष्टिदा ॥ फलं यदेव लग्नेषु नवंशेषु तदेव तु ॥ ९८ ॥ द्वादशांशेषु विज्ञेयस्तदेव मुनिसत्तम ॥ कर्तुर्ना-
शाय विज्ञेया त्रिंशांशे भौमसौम्ययोः ॥ ९९ ॥ सिते जीवेंदुपुत्राणां कर्तुः कल्याणदा भवेत् ॥ शुभदंशे महाराज लग्ने पापफले शुभम् ॥ १०० ॥
लग्ने युक्तांशके ज्ञेयः पापदाः पापदा नृणाम् ॥ व्ययस्थे भाङ्गे कर्तुः हंता भवति भास्करे ॥ १०१ ॥ द्वितीयोर्ध्वस्य हानिः स्यात्तृतीये
सौम्या नवमे श्रीविवर्धिनी ॥ ५० ॥ कूर्म्माणं साधकी प्रोक्ता जन्मग्नाद्दशमे तु मे ॥ एकादशे सुतिकरी द्वादशेऽरिमयप्रदा ॥ ५१ ॥ ज्ञेया त्रयोदशे क्षेम्या रोगदा तु चतुर्दशे ॥ वृद्धिदा पञ्चदशके षोडशे निधनप्रदा ॥ ५२ ॥ सप्तदशे सुतिकरी व्रीडा चाष्टादशे भवेत् ॥ एकोनविंशतितमे कर्तु र्मरणदायिनी ॥ ५३ ॥ ततो द्वितीये धनदा तृतीयोऽरिमयप्रदा ॥ चतुर्थे क्षेमजननी पञ्चमे रोगवर्द्धिनी ॥ ५४ ॥ षष्ठे लक्ष्मीकरी ज्ञेया धनधान्य विवर्धिनी ॥ द्वितीये च चतुर्थे च पञ्चमे च तथाऽष्टमे ॥ ५५ ॥ द्वादशे नवमे चन्द्रे कर्तुर्दोषकरी भवेत् ॥ जन्मस्थश्च तृतीयश्च पञ्चमैकादशो स्तथा ॥ ५६ ॥ दशमः सप्तमश्चैव यदा विद्धौ मृगेन्द्रवैः ॥ पञ्चमैर्नवमैश्चैव द्वादशैश्च तथाष्टमः ॥ ५७ ॥ चतुर्थे वा द्वितीये वा क्रमात्पादफलो भवेत् ॥ विपर्ययेण वेरम्यो पापोऽपि शुभकृत्स्मृतः ॥ ५८ ॥ चन्द्राद्द्वादशमः सूर्यो द्वितीये वा मृगन्दः ॥ द्वादशेऽथ द्वितीये च भौमे दाहम वाप्नुयात् ॥ ५९ ॥ द्वादशे चेंदुद्वितीयगे वा सौरे मरणदा भवेत् ॥ पापमध्यगते चन्द्रे ध्रुवं मरणदा भवेत् ॥ ६० ॥ एकोऽस्मिन्सु यदा केन्द्रे चन्द्रः सूर्यमण्डलस्थितः ॥ केन्द्रत्रयमथान्यं स्याद्युक्तं सूरिसूर्यजौः ॥ ६१ ॥ तदा कर्तुविनाशाय प्रतिष्ठा स्यान्निरोषिध ॥ चन्द्रे सूर्के विनाशाय भौमे दाहसवाप्नुयात् ॥ ६२॥ ससौरे मृत्युदा ज्ञेया सराहो निधनप्रदा ॥ नक्षत्रे सोपरागे तु कर्तुर्मरणदायिनी ॥ ६३ ॥ परिवेषे तथा चन्द्रे मरणं तु प्रयच्छति ॥ सार्पान्त्यपादेगे चन्द्रे तथा ज्येष्ठांन्तपादगे ॥ ६४ ॥ पौष्णान्तपादगे चैव कर्तुर्निधनकारिणी ॥ यस्मिन्नृक्षे गृहेनोक्तं फलं भूपति सत्तम ॥ ६५ ॥ तद्देव फलं प्रोक्तं तन्नक्षत्रेऽपि याइद ॥ दिनमध्यगते सूर्ये मुहूर्त्तऽस्मिश्चितेऽथमे ॥ ६६ ॥ सर्वकामसमृद्धा स्यात्सर्वोपद्र वर्जिता ॥ सुरावस्तमय प्राप्ते नीचस्थे कर्तृघातिनी ॥ ६७ ॥ तस्माद्बलस्थे जीवे तु धनधान्यकरी भवेत् ॥ ब्राह्मे राश्ये हदा ज्ञेया प्राजापत्ये सुखावहा ॥ ६८ ॥ स्वर्गलोकमप्रदा स्वर्गे चक्रे चक्रवर्तिनी ॥ वानस्पत्ये तु वरदा ह्यात्रे चारुविवर्धिनी ॥ ६९ ॥ वांसे भवति वन्धाब्या काले मृत्युप्रदायिनी ॥ आग्नेये दाहमाप्नोति क्लेदामर्द्दन्दवे तथा ॥ ७० ॥ सौरे भवति सुस्फीता चान्द्रे च वरदा तथा ॥ नश्यते शम्भुदैवत्ये गौर्देवे वृद्धिमवाप्नुयात् ॥ ७१ ॥ वैष्णवे पुष्टिदा प्रोक्ता तथा भवति पूजिता ॥ कान्तारे वृद्धिमवाप्नोति पित्र्ये नाशं तथैव च ॥ ७२ ॥ वारुणे रोगदा प्रोक्ता शुभा चानन्तदैवते ॥ चला पवनदैवत्ये याम्ये मृत्युप्रदा भवेत् ॥ ७३ ॥ वार्द्धवेते सदा कान्ता श्रीशेषे श्रीयुता भवेत् ॥ धनदे धनसंयुक्ता सुहृदा शैलदैवते ॥७४॥ पृथ्वी देवी दृढा सौम्या शुभा स्याच्छैषदैवते ॥ पौरुषे तु तथा रौद्रे बहुधर्मविवर्धिनी॥७५॥कुटैः सुखावहा चैव तथा चाज्ञा
१ 'गृहेः' इति ख० । २ 'द्वादशे वा' इति ख० । ३ 'चामे' इति ख० । ४ 'गोदेव्ये' इति ख० ।
वि० च० ॥ ३६९ ॥
बृ० सं० अ० ९६ ॥ ३६९ ॥
यस्य पक्षस्य वृद्धिः स्यात्तस्मिन्सङ्गभवा भवेत् ॥ तेजस्विनी सूर्य्यदैवे चन्द्रे क्षमावहा भवेत् ॥ २६ ॥ सौम्यैर्दिना प्रवृद्धैस्तु बुधेन धनदा भवेत् ॥ गुरूणा च हृदा नित्यं लोकानन्दकरी सिते ॥ २७ ॥ आचन्द्रार्कस्थिरा सौरे प्रतिष्ठा समुदाहृता ॥ तेजस्विनी कृत्तिकासु ह्युतनिग्रहकारिणी ॥ २८ ॥ अग्निकश्चिहूता ततः काले पुनर्द्दहति वह्निना ॥ २९ ॥ वहेः सूर्य्यस्य सोमस्य कुमारस्य च मानदा ॥ २८ ॥ गान्धर्वाणां च कृता तत्र न दह्यति च वह्निना ॥ प्राजापत्ये हृदा नित्यं लोकानुग्रहकारिणी ॥ २९ ॥ सौम्ये तु वरदा प्रोक्ता मृगकेस्तु विनाशयेत् ॥ आद्रायां कर्तुर्विनाशः स्याद्भागानां च हिता भवेत् ॥ ३० ॥ पुनर्वसौ विनाशश्च संस्कां चामुयायुनः ॥ पुष्ये पुष्ये समाप्नोति धनेन यशसा तथा ॥ ३१ ॥ सार्पे कर्तुर्विनाशः स्याद्भागानां च हिता भवेत् ॥ ३२ ॥ पित्र्ये मरणदा कर्तुस्तथा नाशं च गच्छति ॥ ३२ ॥ लोकगम्या मघोद्भूतये कर्तुर्नाशावहातथा ॥ तत्रापि कामदेवस्य कर्तुः सौख्यवहा भवेत् ॥ ३३ ॥ अर्य्यम्णे सहिता स्फीता लोकानुग्रहकारिणी ॥ आज्ञायुता कृता हस्ते चिरमाश्रमवासयुता ॥ ३४ ॥ नित्यार्थच्युता लोके चिरायां च हितप्रदा ॥ स्वात्तौ तु वरदा सौम्या लोकानुग्रहकारिणी ॥ ३५ ॥ ऐन्द्राग्ने कर्तृनाशाय मैत्रे मैत्रिमभिवृद्धये ॥ १ ज्येष्ठायां तेजसा युक्ता धनधान्यवती भवेत् ॥ ३६ ॥ तयाविधा तथा मूले किन्तु भूतसमाश्रया ॥ आप्ये क्लेशमवाप्नोति वैश्वेदेवे सुखप्रदा ॥ ३७ ॥ श्रवणे धनधान्याढ्या वासवे वसुसंयुता ॥ वारुणे शौर्यनाशाय तथाऽलं मनुजोत्तम ॥ ३८ ॥ आहिर्बुध्ये हृदा स्फीता कर्तुःसौख्यप्रदा तथा ॥ धनधान्ययुता पौष्णे आश्विने रोगनाशिनी ॥ ३९ ॥ याम्ये मरणदा कर्तुर्यमस्य तु हितप्रदा ॥ नक्षत्रे सव्यतीपाते तथैव च संवैधृते ॥ ४० ॥ ज्ञेया मरणदा कर्तुः सन्नाशकरी तथा ॥ सार्के स्याच्छोकजननी संसारे मृत्युदायिनी ॥ ४१ ॥ ससोमे वह्निभयदा सतमस्के स्थिरा न तु ॥ केतुना संषिते ऋक्षे वह्निदाहमवाप्नुयात् ॥ ४२ ॥ केतूदर्ये भवेद्येन तेन दुर्भिक्षमाप्नुयात् ॥ सोमोदयो भवेद्येन तेन दूयति वह्निना ॥ ४३ ॥ सौरोदयो भवेद्येन तेन कल्पे विनश्यति ॥ नक्षत्रे सपरीवेशे परचक्रमयं वदेत् ॥ ४४ ॥ उल्काहते विनाशाय सम्कम्पे भयप्रदा ॥ उल्कापातो भवेद्यत्र तत्र व्याधिकरी भवेत् ॥ ४५ ॥ त्रिविधोत्पातयुक्ते भें न शुभा तु प्रकीर्तिता ॥ दिव्ये कर्तुर्विनाशाय भौमे चात्मविनाशिनी ॥ ४६ ॥ अन्तरिक्षे च विज्ञेया लोकनाशकरी तथा ॥ सर्वेषूत्पत्यतीपातिसमुत्स्र्कं विवर्जयेत् ॥ ४७ ॥ शीर्षेऽधिष्ठितया युक्ते यावदागमनोद्भवैः ॥ जन्मर्क्षक्षतिविहिता कर्तुः श्रेयस्करी भवेत् ॥ ४८ ॥ सम्पत्कर्त्री द्वितीये स्यात्तृतीयेऽभिरम्यप्रदा ॥ हेम्या चतुर्थे भवति पञ्चमे व्याधिवर्द्धिनी ॥ ४९ ॥ कार्यवृद्धिकरी षष्ठे सप्तमे निधनप्रदा ॥ अष्टमे वरदा
१ मित्राणां समूहो मैत्रम्, तद्विवृद्धये ।
इति श्रीवि० ध० तृ०मा०व० सं० प्रतिष्ठाकालप्रश्नाख्योद्धारो नाम पञ्चनवतितमोऽध्यायः ॥९५॥ वज्र उवाच ॥ कस्मिन्काले तु कर्तव्या प्रतिष्ठा भ्रातृहन् तव ॥
नन्दन ॥ कस्मिन्कस्मिन्कृता काले तदा भवति कीदृशी ॥ १ ॥ मार्कण्डेय उवाच ॥ शृणु कालं प्रवक्ष्यामि प्रतिष्ठाकरणे तव ॥
यस्मिन्सन्निहिता काले गृहा भवति यादृश ॥ २ ॥ नित्यं सन्निहिता लोक वैष्णवे तु युगे कृता ॥ धनधान्यवती स्फीता वरदा च तथा
भवेत् ॥ ३ ॥ सदा भवति विख्याता त्रिदशांशयुगेऽपि ॥ ऐन्द्रे तेजोवती स्फीता भूतवृद्धिकारिणी ॥४॥ तथाविधा तथाऽऽग्नेये भूतदाहप्रदाऽथवा ॥
नित्यमन्नैर्युता त्वार्द्रे रम्या लोकैरुपद्रवैः व ॥ ५ ॥ आहिर्बुध्न्ये सदा नित्यं लोकाशुभकारिणी ॥ पित्र्ये विनाशमाप्नोति कर्तुश्च मरणावहा ॥६॥
वैश्वे लोकहिता कर्तुर्लोकाग्र्या कृता भवेत् ॥ सौम्या सौम्ये तथा कान्ता वरदा च तथा भवेत् ॥ ७ ॥ ऐन्द्राग्ने नाशमाप्नोति कर्तुः कृत्वा विना-
शनम् ॥ अश्विनौ श्रीमती भूत्वा शीघ्रं नाशमवाप्नुयात् ॥ ८ ॥ लोकशिखाम्या भाग्ये स्यात्कर्तुर्दर्पवती भवेत् ॥ अनुराधेऽपि युगे कार्या
प्रतिष्ठा भृगुनन्दन ॥ ९ ॥ यस्मिन्कस्मिन्मुगे नायं दोषो देवः प्रकीर्तितः ॥ धनधान्यवती स्फीता कर्तुः श्रेयःप्रदा तथा ॥ १० ॥ संवत्सरा<sup>१</sup>
ऋतुः कर्तव्या नित्यमाज्ञादृता भवेत् ॥ परिपूर्वे तु सुतमो लोकख्याता तथैव चा ॥ ११॥ इडापूर्वे तथा सौम्या वरदा लोकसुन्दरी ॥ अनुपूर्वे तु वरदा धन-
धान्यवती भवेत्॥ १२ ॥ तत्पूर्वे नाशमाप्नोति कर्तुर्नाशप्रदा भवेत्॥ तत्रापि शेषमोत्येव यमस्य च हिता भवेत्॥ १३॥ उत्तरे अयने सौम्या धनवृद्धिकरी
भवेत्॥ धनधान्ययुता स्फीता लोकानन्दकरी भवेत्॥ १४॥ दक्षिणे त्वयने कर्तुः पापवृद्धिकरी भवेत् ॥ तत्रापि सुते देशे सर्वानर्थविवर्द्धिनी ॥ १५ ॥
शिशिरे लोककान्ता स्याद् हृष्टा च वसुधाधिप ॥ स्फीता वसन्ते सौम्या च वरदा च तथा भवेत् ॥ १६ ॥ ग्रीष्मे तेजस्विनी कान्ता भूतनिग्र-
हकारिणी॥ प्रावृट्काले कृता नाशं कर्त्रा सह समाप्नुयात् ॥ १७॥ शरत्काले कृता नाशं शीघ्रमेव प्रपद्यते॥ हेमन्ते वरदा सौम्या धर्मवृद्धिकरी भवेत् ॥
॥ १८ ॥ माघे कर्तुर्विनाशाय फाल्गुने सुभगा भवेत् ॥ लोकानन्दकरी चैत्रे वैशाखे धनसंयुता ॥ १९ ॥ आज्ञायुता तथा ज्येष्ठे आषाढे कर्तृवृद्धि-
दा ॥ श्रावणे धनहीना स्याद्योध्पादे विनश्यति ॥ २० ॥ आश्विने नाशमाप्नोति वन्दिता कार्तिके तथा ॥ सौम्ये सौभाग्यमतुल्यं पौषे पुष्टिरुत्त-
मा ॥२१॥ द्वादशाहविभागे स्यात्कर्तुस्तत्सम एव च ॥ कृष्णपक्षात्त्रिभागे तु प्रथम स्याच्छुभावहा ॥२२॥ मध्या द्वितीये भवति तृतीये कर्तृनाशिनी॥
शुक्ले त्रिभागे प्रथमे देशनाशाय कीर्तिता ॥२३॥ द्वितीये मध्यफलदा तृतीये च शुभावहा ॥ धनधान्यवती स्फीता वरदा च तथा भवेत् ॥ २४ ॥
१ 'ऋतं' इति क० ।