याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
Here is the complete line-by-line transcription of the page:
आचाराध्यायः | ८५ भाषा—अन्न के गौ द्वारा सूंघ लिये जाने पर, उसमें केश, मक्खी या चींटी आदि कीड़ा होने पर उसे शुद्ध करने के लिये उसमें जल, राख या मिट्टी डालनी चाहिए ॥ १८९ ॥ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च॑ ॥ १९० ॥ त्रपुप्रभृतीनि प्रसिद्धानि, तेषां क्षारोदकेनाम्लोदकेन वारिणा चोपघाता- पेक्षया समस्तैर्व्यस्तैर्वा शुद्धिः कार्या । कांस्यलोहानां भस्मोदकेन² । ‘ताम्र’- ग्रहणाद्रीतिकावृत्तलोहयोर्ग्रहणम्, एकयोनित्वात् । एतच्च ताम्रादीनामम्लोदका- दिभिः शुद्धयभिधानं न नियमार्थम् । ‘मलसंयोगजं तज्जं यस्य येनोपहन्यते । तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥' इत्यविशेषेण स्मरणात् । अतो न ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिना शुद्धिः³ कार्या । अत एव मनुना सामान्येनोक्तम्—(५।११४) 'ताम्रायः कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु—भस्मना शुद्ध्यते कांस्यं ताम्रमाम्लेन शुद्ध्यति' इति, तत्ताम्रादेः शौचस्य परां काष्ठां प्रतिपादयितुं नान्यस्य निषेधाय । यदा तूपघातातिशयस्तदाम्लोद- कादीनामावृत्तिः, 'गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्ध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥' (आपस्तंब) इति स्मरणात् । (⁴दशक्षारा- नाह—'तिलमुंष्ककशिश्रूणां कोकिलाक्षपलाशयोः । काकजङ्घा तथावङ्गाच्चित्राश्वत्थ- वटस्य च ॥ एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके ॥' ) शुद्धिः प्लावो- द्रवस्य त्विति । द्रवस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अ॑मेध्यसंस्पृष्टस्य च प्लावः प्लावनं समानजातीयेन द्रवद्रव्येण भावस्रवाभि- पूरणं यावन्निःसरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बहुलत्वं च देश- कालाद्यपेक्षयापि वेदितव्यम् । यथाह—बौधायनः—'देशं कालं तथा॑त्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥' इति । कीटाद्युप- हतस्य तूत्पवनम् । यथाह मनुः (५।११५)—'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्' इति । उत्पवनं चात्र वस्त्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यप- गमस्यासंभवात् । शूद्रभाण्डस्थितस्य तु मधूदकादेः पात्रान्तरानयनाच्छुद्धिः।— 'मधूदके पयस्तद्विकाराश्च पात्रान्पात्रान्तरानयने शुद्धाः' इति बौधायनस्मरणात् । मधुघृतादेर्वर्णोपलब्धहस्तात्प्राप्तस्य पात्रान्तरानयनं पुनः प॑चनं च कार्यम् । यथाह १. तु। २. दकवारिणा। ३. दकादिभिः। ४. इदं। पुस्तकेऽधिकम्। ५. अमेध्यद्रव्य। ६. तथात्मानं । ७. घृतादेर्हीनवर्णा। ८. पचनं कार्यं ।
८६ याज्ञवल्क्यस्मृतिः शङ्खः—'अभ्यवहार्याणां घृतेनाभिघारितानां पुनः $^१$पचनमेषं स्नेहानां स्नेहवद्द्र- सानां' इति ॥ १९० ॥ भाषा—पीतल, सीसा, ताँबा, खारे या अम्लजल से शुद्ध होता है । काँसे और लोहे की शुद्धि भस्म और जल से होती है । ( घी या तेल जैसे ) द्रव पदार्थ की शुद्धि उसके पात्र में वही द्रव इतना डालने पर होती है जितने से पात्र भरकर ऊपर गिरने लगे ॥ १९० ॥ एवं सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामप्युच्छिष्टस्नेहाद्युपघाते- शुद्धिमुक्त्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह— अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १९१ ॥ अमेध्याः शरीरजा मला वसाशुक्रादयः, 'वसा शुक्रमसृङ्मज्जामूत्रविट्कर्ण- विण्नखाः । श्लेष्माऽश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥' ( ५।१३६ ) तथा— 'मानुषास्थि शवं विष्ठा रेतो मूत्रार्तवं वसा । स्वेदादोऽश्रु दूषिका श्लेष्म मद्यं चामेध्यमुच्यते ॥' इति अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तैर्वसादि- रक्तलिप्तममेध्याक्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या $^२$गन्धापकर्षणात् । आदि- ग्रहणाल्लेपस्यापि ग्रहणम् । यथाह गौतमः ( १।४२ )—'लेपगन्धापकर्षणैः शौच- ममेध्यलिप्तस्य' इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादिमृत्तोयेर्न गच्छति तदान्येन, 'अशक्तावन्येन मृदद्भिः पूर्वं मृदा च' ( १।४३ ) इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपघाताय—'मद्यैर्मूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्धयेत पुनःपाकेन मृन्मयम् ॥' ( मनु० ५।१२३ ) इत्युपघाते विशेषाभिधानात्—'अमेध्यत्वं चैवैमेषां देहाच्चैव मलाव्युताः' इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरुर्ध्वं करव्यतिरिक्ताङ्गा$^३$नामप्यामध्यस्पर्शे स्नानम् । यथाह देवलः— 'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मज्जानं शोणितं स्पृष्ट्वा परस्य स्नान- माचरेत् ॥' इति—'तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्धयति' इति । तथा— 'ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमनुपहन्यते । तत्र स्नानमधस्तात् प्रक्षाल्याचम्य शुद्धयति ॥' इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुचि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बु- निर्णिक्तं यत्र प्रतिपादिता शुद्धिर्नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य १. पचनं । २. गन्धापकर्षणेन । ३. ङ्गानां मध्या ।
आचाराध्यायः ८७ प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं¹ न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाददृष्टदोषो नास्तीत्यर्थः । नैन्वेत्तद्विरुद्ध्यते, 'संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः। अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत्, प्रायश्चित्तस्य जग्धिविषयत्वात्, दोषाभावस्य³ चान्योपयोगविषयत्वात् ॥ १९१ ॥ भाषा—( मलमूत्र, वसा आदि ) दूषित शरीर की गंदगी से अशुद्ध वस्तु मिट्टी और जल से उतना साफ करने पर शुद्ध होती है जितने से उसको गन्ध ( और लेप ) द्वारा हो जाय । ( शुद्धि करने पर भी मन में सन्देह होने पर ) ब्राह्मण के कह देने पर शुद्ध समझना चाहिए; जल के छींटे से शुद्धि होती है । जिस वस्तु के शुद्ध या अशुद्ध होने का ज्ञान न हो वह सदैव शुद्ध रहती है ॥ १९१ ॥ शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् । ४नैशा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १९२ ॥ महीगतं भूमिस्थमुदकं एकगवीतृप्तिकरणसमर्थं चण्डालादिभिरस्पृष्टं प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं शुचि आचमनादियोग्यं भवति । 'महीगतम्' इत्यशुचिभूतगतस्य शुचित्वनिषेधार्थं नत्वन्तरिक्षोदकस्य शुद्धत्वव्यावृत्त्यर्थम् । माप्युद्धृतस्य—'उद्धृताश्चापि शुद्ध्यन्ति शुद्धैः पात्रैः समुद्धृताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादिकृते तडागादौ न दोषः, 'अन्यैरपि कृते कूपे सेतौ वाप्यादिके तथा । तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥' इति शातातपस्मरणात् । तथा मांसं श्वचण्डाल- क्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुक्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥ भाषा—पृथ्वी पर शुद्ध प्राकृतिक रूप में पड़ा हुआ ( चाण्डाल आदि द्वारा न छुआ गया ) एक गौ के पीने भर जल शुद्ध ( आचमनादि के योग्य ) होता है । कुत्ता, चाण्डल, मांसाभक्षी पक्षी द्वारा काटा गया या गिराया गया मांस शुद्ध होता है ॥ १९२ ॥ रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः । विप्रुषो मक्षिकाः स्पर्शो वत्सः प्रसवने शुचिः ॥ १९३ ॥ १. उपभुक्तं । २. ननु तद्धि । ३. भावस्य चान्यप्रयोग । ४. मागं मांसं ( = मृगादेर्मांसं ) । ५. रथवसुधानिलाः । ६. प्रस्रवणे ।
८८ याज्ञवल्क्यस्मृतिः रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजः अजादिसम्बन्ध- व्यतिरेकेण । तत्र—'श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंसर्शा- दायुर्लक्ष्मीश्च हीयते ॥' इति दोषश्रवणात्तत्स्पर्शे संमार्जनादि कार्यम् । छाया वृक्षादेः, गौः, अश्वः, वसुधा भूमिः, अनिलो वायुः, विप्रुषोऽवश्यायबिन्दवः, मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च, एते चण्डालादिस्पृष्टा अपि स्पर्शे शुचयः । वत्सः प्रस्स्रवने ऊधोगतदुग्धापकर्षणे शुचिः । 'वत्स'ग्रहणं बालस्योप- लक्षणार्थम्, 'बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किञ्चिच्छिष्यं मेध्यमिति स्थितिः ॥' इति वचनात् ॥ १९३ ॥ भाषा—( सूर्य आदि की ) किरणें, अग्नि, (अजादी से अछूती) धूल, छाया, गाय, अश्व, पृथ्वी, वायु बाष्प और मक्खी (चण्डाल आदि से स्पृष्ट होने पर भी) शुद्ध होते हैं, तथा दूध दुहते समय बछड़ा पवित्र होता है ॥ १९३ ॥ अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः । पन्थानश्च विशुद्ध्यन्ति सोमसूर्यांशुमारुतैः ॥ १९४ ॥ अजाश्वयोर्मुखं मेध्यम् । न गोः, न नरजा मलाः, 'नर'शब्दो लक्षणया देहमभिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः चण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुद्धयन्ति । दिवा तु सूर्याशुभिर्मारुतेन च ॥ १९४ ॥ भाषा—बकरे तथा घोडे का मुख शुद्ध होता है, गौ का मुख नही । मनुष्य शरीर से निकले हुए मल अशुद्ध होते हैं । (कुत्ता, चाण्डाल आदि के संसर्ग पर) मार्ग चन्द्रमा या सूर्य की किरणों और वायु के सम्पर्क से शुद्ध होता है ॥ १९४ ॥ मुखजा विप्रुषो मेध्यास्तथाऽऽचमनबिन्दवः । श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १९५ ॥ मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपत्तिता- श्चेदङ्गे । 'न मुखविप्रुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति' इति गौतम- वचनात् । तथा च ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु- बाह्यगतं मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमम्³ । तथा च गौतमः—'दन्तश्लिष्टं तु १. अजाश्वं मुखतो मेध्यं । २. पन्थानस्तु । ३. दन्तेभ्यः पतितं त्यजति गिलति वाऽप्यतावता शुद्ध्यति विना आचमनं इति ।
आचाराध्यायः ८६ दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राक् च्युतेरित्येके च्युतेष्वास्त्राववद्विद्यान्निगिरन्नेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरन्नेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलो- मकौ स्पृष्ट्वा वासो विपरिधाय च ॥' इति विष्णूक्ताचमननिषेधार्थः । 'ताम्बूल'- ग्रहणं फलाद्युपलक्षणार्थम् । यथाह शातातपः—'ताम्बूले च फले चैव भुक्ते स्नेहावशिष्टके । दन्तलग्नस्य संस्पर्शे नोच्छिष्टो भवति द्विजः ॥' इति ॥ १९५ ॥ भाषा—मुख से निकले हुए थूक के बिन्दु तथा आचमन के जल के बिन्दु शुद्ध होते हैं ( शरीर पर गिरने पर दूषित नहीं करते ) । दाढ़ी मूँछ पर सटे हुए मुँह में तथा दाँत में लगे हुए जूठे भोजन को साफ कर देने पर शुद्धि होती है ॥ १९५ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुङ्क्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १९६ ॥ स्नानपानक्षुतस्वप्नभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुनराचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनाम्भ चाँपल्यानृतोक्त्या- दिषु । तथा च वसिष्ठः—'सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत' इति । मनुरपि ( ५।१४५ )—'सुप्त्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्त्वोक्त्वानृतं वचः । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने स्वादावपि त्वादावपि द्विराचमनम्—'भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत' इत्यापस्तम्बस्मरणात् । स्नानपानयोरादौ सकृत् । अध्ययने त्वारम्भे द्विः । शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥ भाषा—स्नान करके, पानी पीकर, क्षुत, शयन, भोजन करके तथा रथ पर चलने के बाद ( विशेष रूप से ) वस्त्र धारण करके पुनः ( अर्थात् दो बार ) आचमन करे ॥ १९६ ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्ध्यन्ति पक्केष्टकचितानि च ॥ १९७ ॥ रथ्या मार्गमात्रम् , कर्दमः पङ्कः तोयमुदकम् , रथ्यास्थितानि कर्दम- तोयानि अन्त्यैश्चण्डालादिभिः श्वभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्ध्यन्ति शुद्धिमुपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्केष्टकादि- भिश्चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्ध्यन्ति १. निर्गिरन्नेव निगरन्नेव । २. भुक्ते । ३. चाल्पत्वानृतो । ४. पक्वेष्टिक- चितानि ।
६० याज्ञवल्क्यस्मृतिः एतच्च 'प्रोक्षणं संहतानाम्' ( मनु० ५।१५५ ) इत्युक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणमेवेति ॥ १९७ ॥ भाषा—मार्ग का कीचड़ तथा जल चाण्डाल, कुत्ता और कौए द्वारा छुए जाने पर वायु से ही शुद्ध होते हैं, पक्की ईंटों से बना हुआ घर आदि भी ( वायु से शुद्ध होते हैं ) ॥ १९७ ॥ इति द्रव्यशुद्धिप्रकरणम् । अथ दानप्रकरणम् इदानीं दानधर्मं प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थं तत्प्रशंसामाह— तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान्वेदगुप्तये । तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १९८ ॥ ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तप्त्वा ध्यानं कृत्वा १कान्सृजामीति पूर्वं ब्राह्मणान्सृष्टवान् । किमर्थम् ? वेदगुप्तये वेदरक्षणार्थम् । पितॄणां देवतानां च तृप्त्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थं च । अतस्तेभ्यो दत्तमक्षयफलं भवतीत्यभिप्रायः ॥ १९८ ॥ भाषा—ब्रह्मा ने ( कल्प के आरम्भ में ) तपस्या करके ( ध्यान करके ) वेद की रक्षा के लिये, पितरों और देवताओं की तृप्ति के लिए तथा ( अनुष्ठान एवं उपदेश द्वारा ) धर्म की रक्षा के लिये ब्राह्मणों की सृष्टि की ॥ १९८ ॥ सर्वस्य प्रभवो विप्राः श्रुताध्ययनशिलिनः । तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥ १९९ ॥ सर्वस्य क्षत्रियादेर्विप्राः प्रभवः श्रेष्ठा जात्या कर्मणा च । ब्राह्मणेभ्योऽपि श्रुताध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहिता- नुष्ठानशीलाः । तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमादियोगेनात्म- तत्त्वज्ञाननिरताः, 'श्रेष्ठा' इत्यनुषज्यते ॥ १९९ ॥ भाषा—( क्षत्रिय आदि ) सबों में ब्राह्मण ( जाति एवं ) कर्म से श्रेष्ठ हैं; उनमें भी वेदादि का अध्ययन करने वाले उत्कृष्ट होते हैं; उनसे भी उत्तम विहित क्रियाओं का अनुष्ठान करने वाले होते हैं और इन सबसे श्रेष्ठ अध्यात्मतत्त्व को पूर्णरूप से जानने वाले ब्राह्मण होते हैं ॥ १९९ ॥ १. कृत्वा मुख्यान्सृजामीति ।
आचाराध्यायः ६१ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनेकैकयोगेन¹ पात्रतामभिधायाधुनां तेषां समुच्चये संपूर्णं पात्रतामाह- न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ २०० ॥ केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । 'अपि' शब्दात्केवलेनानुष्ठानेन केवलया² जात्या वा नैव सम्पूर्णपात्रता । कथं तर्हि ? यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्तः च शब्दाद्ब्राह्मणजातिश्च तदेवं मन्वादिभिः सम्पूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ २०० ॥ भाषा-केवल (श्रुताध्ययन आदि) विद्या से अथवा केवल (शमदमादि) तपस्या से ही कोई सुपात्र नहीं होता । जिस पुरुष के आचरण में विद्या और तपस्या दोनों ही हों वही श्रेष्ठ पात्र होता है ॥ २०० ॥ सत्पात्रे गवादिदानं देयम्- गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता ॥ २०१ ॥ पूर्वोक्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं³ देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः सम्पूर्णफलमिच्छता किञ्चिदल्पमपि न दातव्यम् । श्रेयोग्रहणादपात्रदानेऽपि किमपि⁴ तामसं फलमस्तीति सूचितम् । यथाह कृष्णद्वैपायनः (गी० १७।२२)- 'अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥' इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्या- सन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्मै प्रतिश्रवणं वा कृत्वा समर्पयेत्, नत्वपात्रे दातव्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम्, 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥ भाषा-गाय, भूमि, तिल, सोना आदि पात्र व्यक्ति को ही विधिपूर्वक अर्चना के साथ (दान स्वरूप) देना चाहिए अपने सम्पूर्ण फल की इच्छा करने वाले, (पात्र अपात्र का ज्ञान रखने वाले) विद्वान को अपात्र (क्षत्रियादि एवं पतित ब्राह्मण) को अल्प (दान) भी नहीं देना चाहिए ॥ २०१ ॥ १. योगे पात्रतां । २. केवलजात्या । ३. दकपात्रादीति । ४. किञ्चित्तामसं ।
६२ याज्ञवल्क्यस्मृतिः अपात्रे दातुर्निषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह— विद्यातपोभ्यां हीनेन नै १ तु ग्राह्यः प्रतिग्रहः । गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ २०२ ॥ विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्यादिहीनः प्रतिगृह्णन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२ ॥ भाषा—जो व्यक्ति विद्यासम्पन्न और तपस्वी न हो उसे दान नहीं लेना चाहिए । यदि ऐसा ( विद्या और तपस्या से हीन ) व्यक्ति दान लेता है तो वह अपने को और दाता को भी नरक में डालता है ॥ २०२ ॥ गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह— दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ २०३ ॥ प्रतिदिवसं शक्त्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्नेन दातव्यम् । याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्त्या दातव्यम् । 'याचितेनापि दातव्यम्' इति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यद्दानं तन्महाफल- मुक्तम् । तथा च स्मरणम्—'गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् । सहस्रगुणमाहूय याचिते तु तदर्द्धकम्' इति ॥ २०३ ॥ भाषा—( शक्ति के अनुसार ) प्रतिदिन ( गौ आदि ) पात्र को दान देना चाहिए । ( चन्द्रग्रहण या सूर्यग्रहण जैसे ) अवसर पर विशेष रूप से दान देना चाहिए । माँगने पर भी ( सत्पात्र को ) श्रद्धा के साथ यथाशक्ति दान देना चाहिए ॥ २०३ ॥ गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह— हेमशृङ्गी शफै ३रौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ २०४ ॥ हेममये शृङ्गे यस्याः सा हेमशृङ्गी । शफैः खुरैः रौप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरा४ सुशीला गौर्यथाशक्तिदक्षिणासहिता दातव्या ॥ २०४ ॥ भाषा—सोने से सींग और चांदी से खुर मढ़ाकर, वस्त्र ओढ़ाकर दूध देने वाली सीधी गाय, कांसे के दुग्धपात्र एवं दक्षिणा के साथ दान देना चाहिए ॥ २०४ ॥ १. नैव । २. पूतं च शक्तितः । ३. खुरै रूप्यैः । ४. बहुक्षीरा गौर्यथा ।
आचाराध्यायः ६३ गोदानफलमाह— दाताऽस्याः स्वर्गमाप्नोति वत्सरांरोमसंमितान् । कपिला चेत्तारयति भूयश्चासप्तमं कुलम् ॥ २०५ ॥ अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमाप्नोति दाता । सा यदि कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आसप्तमं सप्तम- मभिव्याप्य पित्रादीन्षट् आत्मानं च सप्तमम् । अप्यर्थे 'भूयः' शब्दः ॥ २०५ ॥ भाषा—जितने रोएँ (गौ के शरीर में) होते हैं उतने वर्ष तक उस गौ का दाता स्वर्ग प्राप्त करता है। और यदि वह गाय कपिला हो तो वह न केवल दाता को अपितु उसकी सातवीं पीढ़ी तक को तार देती है ॥ २०५ ॥ उभयतोमुखीदानफलम्— सवत्सारेामतुल्यानि युगान्युभयतोमुखीम् । दाताऽस्याः स्वर्गमाप्नोति पूर्वेण विधिना ददत् ॥ २०६ ॥ सवत्सारेामतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोममुल्यानि वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतो- मुखीं ददत्स्वर्गमाप्नोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥ भाषा—पूर्वोक्त विधि से उभयतोमुखी गाय का दान देने वाला व्यक्ति उतने युग तक स्वर्ग प्राप्त करता है जितने रोएँ गौ और बछड़े के शरीर में मिलाकर होते हैं ॥ २०६ ॥ का पुनरुभयतोमुखी कथं तावत्प्रदानं महाफलमित्यत आह— यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ २०७ ॥ गर्भाग्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावत्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी । यावत्कालं गर्भं न मुञ्चति तावत्सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ २०७ ॥ भाषा—(गर्भ से निकलते हुए) बछड़े के दो पैर और मुख जब तक योनि में दिखाई पड़ते हैं (तब तक वह उभयतोमुखी होती है) जब तक गौ बछड़े का प्रसव नहीं करती तब तक (इस स्थिति में) उसे पृथिवी के समान समझना चाहिए ॥ २०७ ॥ १. भूय आ। २. मुखी। ३. द्वौ पादौ। ४. प्रदृश्यते।
६४ याज्ञवल्क्यस्मृतिः सामान्यगोदाने फलम्— यथाकथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा । अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ २०८ ॥ यथाकथंचित् हेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोक्तेन विधिना धेनुं दोग्ध्रीं अधेनुं वा अवन्ध्यां अरोगां रोगरहितां अपरिक्षिष्टां अत्यन्तादुर्बलां गां दत्त्वा दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥ भाषा—जिस किसी प्रकार हो ( सोने से सींग और चाँदी से खुर मढ़ाये बिना भी ) दूध देने वाली या अवन्ध्या, रोगहीन, और दुर्बल गाय का दान करने वाला व्यक्ति स्वर्ग में पूजा जाता है ॥ २०८ ॥ गोदानसमान्याह— श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥ २०९ ॥ श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परि- चर्या यथाशक्त्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्यादि- भिराराधनम् । पादशौचं द्विजानां समानानामधिकानां च । तेषामेवोच्छिष्टस्य संमार्जनम् । एतान्यन्तरोक्तेन गोदानेन समानि ॥ २०९ ॥ भाषा—थके हुए के खेद को ( आसन, बिस्तर आदि देकर ) दूर करना, रोगी की सेवा, देवताओं की ( माला पुष्प आदि से ) पूजा, द्विजों का पैर धोना और उनका जूठा साफ करना ये सभी कर्म गोदान के तुल्य होते हैं ॥ २०९ ॥ भू^१दीपांश्चान्नवस्त्राम्भस्तिलसर्पिः प्रतिश्रयान् । नैवेशिकं^२ स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ २१० ॥ भूः फलै^३प्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासिनामाश्रयः । निवेशानार्थं गार्हस्थ्यार्थं यत्कन्या दीयते तन्नैवेशिकम् । स्वर्णं सुवर्णम् । धुर्यो भौर^४सहो बलीवर्दः, शेषं प्रसिद्धम् , एतान्भूदीपादीन्दत्त्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । 'यत्किंचित्कुरुते पापं ज्ञानतोऽज्ञानतोऽपि वा । अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥' तथा मनुः (४।२२९) —'वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टां दीपश्चक्षुरुत्तमम् ॥ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अन- १. भूदीपान्नान्नवस्त्रा । २. नैवेशिकस्वर्णधुर्यान् । ३. भूःकृषिफलप्रद । ४. भारवाहो ।
आचाराध्यायः ६५ ङ्कुदः श्रियं पुष्टां मोदो ब्रध्नस्य विष्टपम् ॥' इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्- 'सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दश तान्येव गोचर्म दत्त्वा स्वर्गे महीयते ॥' इति ॥ २१० ॥ भाषा-( उर्वर ) भूमि, दीपक, अन्न; वस्त्र, जल, तिल, घी, परदेशी को आश्रयस्थान ( गृहस्थाश्रम के लिये ) कन्या, सोना और भार ढोने वाले बैल का दान देकर दाता स्वर्ग में सम्माननीय स्थान पाता है ॥ २१० ॥ गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वाऽत्यन्तं सुखी भवेत् ॥ २११ ॥ गृहं प्रसिद्धम्, धान्यानि च शालीगोधूमादीनि, अभयं भीतत्राणम्, उपानहौ, छत्रम्, माल्यं मल्लिकादेः, अनुलेपनं कुङ्कुमचन्दनानि, यानं रथादि, वृक्षं उपजीव्यमाम्रादिकम्, प्रियं यद्यस्य प्रियं धर्मादिकम्, शय्यां च दत्त्वा, अत्यन्तमतिशयेन सुखी भवति । न च हिरण्यादिवद्धस्ते दातुमशक्यत्वाद्धर्मस्य¹ दानासम्भवः । भूमिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात्- 'देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित् ॥' अपुण्यदाने² तदेव वर्धते प्रतिग्रहीतुर्दाप लोभादिना प्रवृत्तस्य, 'यः पापमबलं³ ज्ञात्वा प्रतिगृह्णाति दुर्मतिः । गर्हिताचरणात्तस्य पापं तावत्समाश्वयेत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ॥' इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद्देयविशेषात्- 'दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिग्रहीतृवृत्तिविशेषाच्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥ भाषा-घर, और धान्य का दान, ( डरे हुए को ) अभयदान, जूता, छाता कुङ्कुमचन्दन आदि लेपन, रथ इत्यादि सवारी, ( आम्रादि फल वाले ) वृक्ष, अभीष्ट वस्तु तथा शय्या का दान देकर दाता अत्यन्त सुखी होता है ॥ २११ ॥ दानात्फलमुक्तमिदानीं दानफलावाप्तिहेतूनाह- सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः । तद्दत्समवाप्नोति ब्रह्मलोकम⁴विच्युतम् ॥ २१२ ॥ यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्य- धिकं अतस्तद्ददध्यापन द्वारेण ब्रह्मलोकमवाप्नोति । अविच्युतं च्युतिर्यथा न भवति । आभूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः । अत्र च ब्रह्मदाने परस्वत्वापादनमात्रं दानम् ; स्वत्वनिवृत्तेः कर्तुमशक्यत्वात् ॥ २१२ ॥ १. धर्मादीनामसंभवः । २. दानेन । ३. प्रबलं ज्ञात्वा । ४. मविच्युतः ।
६६ याज्ञवल्क्यस्मृतिः भाषा—सब धर्मों के ज्ञान से युक्त होने के कारण वेद का दान सभी दानों से बढ़कर होता है । इसका दान करने वाला ब्रह्मलोक में अचल होकर सतत निवास करता है ॥ २१२ ॥ १दाने फलमुक्तम्, इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर्हेतुमाह— प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥ २१३ ॥ यः पात्रभूतोऽपि प्राप्तं प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोति, असौ यद्यत्प्राप्तं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्तान्समग्रानाप्नोति ॥ २१३ ॥ भाषा—जो व्यक्ति दान लेने का पात्र होते हुए भी दान नहीं लेता वह उन सभी लोकों को प्राप्त कर लेता है जो लोक दान देने वाले को मिलते हैं ॥ २१३ ॥ इदानीं सर्वप्रतिग्रहप्रवृत्तिप्रसङ्गेऽपवादमाह— कुशाः शाकं पयो मत्स्याः गन्धाः पुष्पं दधि क्षितिः । मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ २१४ ॥ धानाः भृष्टा यवाः, क्षितिर्मृत्तिका, शेषं प्रसिद्धम् । एतत् कुशादिकं स्वयमुपानीतं न प्रत्याख्येयम् । चकाराद्गृह्यादि (मनुः ४।२५०)—'शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णुदेत् ॥' तथा—'एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णी- यान्मध्वथाभयदक्षिणाम् ॥' ( ४।२४७ ) इति मनुस्मरणात् ॥ २१३ ॥ भाषा—कुश, शाक, दूध, मछली, सुगन्धि, फूल, दही, भूमि, मांस, शय्या, आसन, भूने हुए धान, और जल ये सब बिना माँगे ही मिले तो अस्वीकार न करना चाहिए ॥ २१४ ॥ किमिति न प्रत्याख्येयमित्याह— अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥ २१५ ॥ यस्माद्याचितमेतत्कुशाद्याहृतं दुष्कृतकारिणोऽपि संबन्धि ग्राह्यं, किमुत यथोक्तकारिणः । तस्मान्न प्रत्याख्येयम् । अन्यत्र कुलटाषण्ढपतितेभ्यः शत्रोश्च । कुलात्कुलमटन्तीति कुलटाः स्वैरिण्यादिकाः, षण्ढस्तृतीयाप्रकृतिः ॥ २१५ ॥ १. दातुः फलमुक्त्वेदानों । २. भ्रष्टतण्डुलाः । ३. मध्वाज्याभय । ४. षण्ड ।
आचाराध्यायः ६७ भाषा—बिना माँगे ही दुराचारी व्यक्ति द्वारा भी लाई हुई (कुशादि) वस्तुएँ ग्रहण करने योग्य होती हैं; किन्तु कुलटास्त्री, नपुंसक एवं पतित व्यक्ति द्वारा स्वयं लाई गई (ये वस्तुएँ भी) द्विज न ग्रहण करे ॥ २१५ ॥ प्रतिग्रहविवृत्तेरपवादान्तरमाह— देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा । सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ २१६ ॥ देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थम १नात्मकारणात् । पतिताद्यत्यन्तकुत्सित- वर्जं सर्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः, भृत्याः भरणीयाः भार्यापुत्रादयः ॥ २१६ ॥ भाषा—देवता और अतिथि की पूजा एवं सत्कार के लिये अथवा माता पिता आदि गुरुजनों एवं स्त्री पुत्रादि आश्रित जनों के लिए तथा अपनी वृत्ति के लिए सभी स्थानों से दान लेना विहित है ॥ २१६ ॥ इति दानप्रकरणम् । अथ श्राद्धप्रकरणम् इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः। तच्च द्विविधं—पार्वणमेकोद्दिष्टं चेति। तत्र त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च त्रिविधं-नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदि- तमहरहरमावास्याष्टकादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्र- जन्मादिषु । फलकामनोपाधौ विहितं२ काम्यं यथा स्वर्गादिकामानां कृत्तिकादि- नक्षत्रेष्ठ, तिथिषु च। पुनश्च पञ्चविधम्—'अहरहः श्राद्धं पार्वणं वृद्धिश्राद्धमे- कोद्दिष्टं सपिण्डीकरणं चे'ति । तत्राहरःश्राद्धं—'अन्नं पितृमनुष्येभ्यः' इत्यादि- नोक्तम् । तथा च मनुः (३।८२)—'कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा। पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥' इति ॥ अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह— अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुंवत्सूर्यसंक्रमः ॥ २१७ ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥ २१८ ॥ १. मानापत्कारणात् । २. चोदितं । ३. विषुवः । ७ या०
९८ याज्ञवल्क्यस्मृतिः यत्र दिने चन्द्रमा न दृश्यते सा अमावश्या, तस्यामहर्द्वयव्यापिन्याम- पराह्नव्यापिनी ग्राह्या; 'अपराह्नः पितॄणाम्' इति वचनात् । अपराह्नश्च पञ्चधा विभक्ते दिने चतुर्थो भागस्त्रिमुहूर्तः । अष्टकाश्चतस्रः 'हेमन्तशिशिर- योश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः' (गृ. सू. २४।१) इत्याश्वलायनोक्ताः, वृद्धिः पुत्रजन्मादिः, कृष्णपक्षोऽपरपक्षः, अयनद्वयं दक्षिणोत्तरसंज्ञकम्, द्रव्यं १कृसर- माषादिकम्, ब्राह्मणसंपत्तिर्वक्ष्यमाणा, विषुवद्वयं मेषतुलयोः सूर्यगमनम्, सूर्यसंक्रमः आदित्यस्य राशेः राश्यन्तरगमनम्, अयनविषुवतोः संक्रान्तित्वे सिद्धेऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया—'यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । २यस्यां तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता ॥' इति परिभाषिता । हस्तिच्छा्येति केचित्, सेह न गृह्यते; कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरुपरागः । यदा च कर्तुः श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाद्युगादिप्रभृतयः । एते श्राद्धकालाः । यद्यपि—'चन्द्रसूर्यग्रहे नाद्यात्' इति ग्रहणे भोजननिषेधस्तथापि भोक्तुर्दोषः, दातुरभ्युदयः ॥ २१७-१८ ॥ भाषा—अमावश्या अष्टका (हेमन्त और शिशिर ऋतु के कृष्णपक्षों की चारों अष्टमी तिथियों) को, पुत्र जन्म के अवसर पर, कृष्णपक्ष में, दोनों (उत्तर एवं दक्षिण) अयनों में, द्रव्य (कृषरमाष) ब्राह्मणसम्पत्ति, मेष और तुला राशि पर सूर्यसंक्रमण, सूर्य की दूसरी राशि पर गमन, व्यतीपात (एक विशेष योग), गजच्छाया, चन्द्रमा और सूर्य ग्रहण के समय और जब करने की इच्छा हो तब श्राद्ध का काल होता है ॥ २१७-२१८ ॥ अहरहः श्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिमाह— अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ २१९ ॥ सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाप्यजस्रास्खलिताध्ययनत्तम अग्र्यः । श्रोत्रियः श्रुताध्ययनसंपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्ति असौ ब्रह्म- वित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोरर्थं वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषः, तदध्ययनाङ्गव्रतं च तद्व्रताचरणेन यस्तद- धीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशः, तद्व्रतं च तद्व्रताचरणेन ३तदधीते इति त्रिमधुः । त्रिसुपर्णं ऋग्यजुषोरेकदेशः, तद्व्रतं च तद्व्रताचरणेन यस्तदधीते स त्रिसुपर्णकः । 'एते ब्राह्मणाः श्राद्धसंपद' इति ४वक्ष्यमाणेन संबन्धः ॥ २१९ ॥ १. कृष्णसारमांसादि । २. याऽया तिथि तिथिवैश्ववणीया ( =त्रयोदशी) । ३. तदुत्थ्याञ्चौ । ४. वक्ष्यमाणक्रियासंबन्धः ।
आचाराध्यायः ६६ भाषा—सभी वेदों का ध्यानपूर्वक अध्ययन करने वाले, श्रुताध्ययनसंपन्न, ब्रह्मज्ञानी, युवक, वेद का अर्थ जानने वाले, ज्येष्ठसाम नाम के साममंत्रों का आचरणपूर्वक अध्ययन करने वाले, (ऋग्वेद के) त्रिमधु मन्त्रों को व्रता- चरण सहित पढ़ने वाले (ऋग्यजुस् के) त्रिसपर्ण मन्त्रों का नियम के साथ पारायण करने वाले ब्राह्मण—॥ २१९ ॥ स्वस्रीयक्रत्विग्जामातृयाज्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्रशिष्यसंबन्धिवान्धवाः ॥ २२० ॥ स्वस्त्रीयो भागिनेयः, ऋत्विगुक्तलक्षणः, जामाता दुहितुर्भर्ता, त्रिणाचिकेतं यजुर्वेदैकदेशः, तद्व्रतं च तद्व्रताचरणेन यस्तदध्यायी स त्रिणाचिकेतः । अन्य- प्रसिद्धम् । एते च पूर्वोक्तान्यश्रोत्रियाचभावे वेदितव्याः, ‘एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥’ (मनु. ३।१४७) इत्यभिधाय मनुना स्वस्त्रीयादीनामभिहितत्वात् ॥ २२० ॥ भाषा—भागिनेय, ऋत्विज्, दामाद, यजमान, श्वशुर मामा, (यजुर्वेद के) त्रिणाचिकेत का व्रत एवं अध्ययन करने वाले, दौहित्र (कन्या का पुत्र, नाती) शिष्य, सम्बन्धी, बान्धव— ॥ २२० ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥ २२१ ॥ कर्मनिष्ठा विहितानुष्ठानतत्पराः, तपोनिष्ठास्तपःशीलाः, सभ्यावसथ्यौ त्रेताग्नयश्च यस्य सन्ति स पञ्चाग्निः, पञ्चाग्निविद्याध्यायी च, ब्रह्मचारी उप- कुर्वाणको नैष्ठिकश्च, पितृमातृपरास्तत्पूजापराः, चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः श्राद्धेष्वक्षय्यफलसंपत्तिहेतवः ॥ २२१ ॥ भाषा—कर्मनिष्ठ (विहित अनुष्ठान में तत्पर रहने वाले), तपस्वी, पञ्चाग्नि का आधान करने वाले, ब्रह्मचारी, पिता-माता की सेवा करने वाले ब्राह्मण श्राद्ध में अक्षय फल के हेतु होते हैं (क्षत्रिय आदि नहीं) ॥ २२१ ॥ वर्ज्यानाह— रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ २२२ ॥ रोगी महारोगोपसृष्टः, हीनमतिरिक्तं वाऽङ्गं यस्यासौ हीनातिरिक्ताङ्गः, एके- नाक्ष्णा यो न पश्यति स काणः, एतस्मादेवान्धबधिरवृद्ध³प्रजनन⁴खलतिदुश्चर्म- १. ज्ञान । २. श्राद्धसंपदे (= श्राद्धस्य संपदे समृद्धये) । ३. वृद्धप्रजनन । ४. खलतिर्निष्केशशिराः खल्वाटः ।
प्रभृतयो निरस्ताः । पुनर्भूक्तलक्षणा, तस्यां जातः पौनर्भवः, अवकीर्णी ब्रह्मचर्य एव स्खलितब्रह्मचर्यः, कुण्डगोलौ—'परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः॥' (मनुः ३।१७४) इत्येवमुक्तलक्षणौ, कुनखी १कुत्सितनखः, श्यावदन्तकः स्वभावान्कृष्णदशनः । 'एते श्राद्धे निन्दिताः' इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥ भाषा—रोगी, अङ्गहीन या बढ़े हुए अंग वाला, काना, पुनर्भू (दुबारा व्याही गई स्त्री) का पुत्र, स्खलितब्रह्मचर्य, कुण्ड (पति के जीवित रहते दूसरे पुरुष के सम्बन्ध से उत्पन्न) पुत्र, गोलक (पति के मरने पर दूसरे पुरुष से उत्पन्न) पुत्र, भद्दे नाखूनों वाला, काले दाँतों वाला, ॥ २२२ ॥ भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ २२३ ॥ वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः, वेतनदानेन च योऽधीते सोऽपि, क्लीबो नपुंसकः, असद्भिः सद्भिर्वा दोषैर्यैः कन्यां दूषयति स कन्या- दूषी, सताऽसता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रध्रुक् मित्रद्रोही, परदोषसंकीर्तनशीलः पिशुनः, सोमविक्रयी यज्ञे सोमस्य विक्रेता, परिविन्दकः परिवेत्ता, ज्येष्ठेऽकृतदारेऽकृताग्निपरिग्रहे वा यः कनीयान्दारपरिग्रहमग्निपरिग्रहं वा कुर्यात्स परिवेत्तः । ज्येष्ठस्तु परिवित्तिः । तथाह मनुः (३।१७१)— 'दाराग्निहोत्रसंयोगं यः२ करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥' इति । एवं दातृ-याजकावपि—'परिवित्तिः परिवेत्ता यया च परि- विद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥' इति (३।१७२) ३मनु- वचनात् ॥ २२३ ॥ भाषा—वेतन लेकर पढ़ाने वाला, नपुंसक, कन्या पर झूठे या सही दोष लगाने वाला, ब्रह्महत्यादि के पाप से अभिशस्त, मित्रद्रोही, चुगलखोर, सोमलता का विक्रय करने वाला, बड़े भाई के अविवाहित रहते विवाह करने वाला ॥ २२३ ॥ ४मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ २२४ ॥ विना कारणेन मातापितृगुरून् यस्त्यजति स मातापितृगुरुत्यागी । एवं भार्यासुतत्याग्यपि, 'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्य- १. संकुचितनखः । २. कुरुते योऽग्रजे स्थिते । ३. इति समान- दोषश्रवणात् । ४. मातृपितृ, मातापित्रोगुरोः ।
[Page Header: आचाराध्यायः १०१]
कार्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत् ॥' (मनुः ११।११०) इति समाननिर्देशात् कुण्डस्यान्नं योऽश्नात्यसौ कुण्डाशी, एवं गोलकस्यापि; 'यस्तयोरन्नमश्नाति सा कुण्डाशी प्रकीर्तितः इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः, पर- पूर्वा पुनर्भूः, तस्याः पतिः, अदत्तादायी स्तेनः, कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात्सितवदेवलकप्रभृतयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । 'अग्र्याः सर्वेषु वेदेषु' ( आ. २१७ ) इत्यादिना श्राद्धयोग्यब्राह्मणप्रतिपादनेनैव तद्व्य- तिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषांचिद्रोग्यादीनां प्रतिषेधवचनमुक्त- बहुगुणब्राह्मणासंभवे प्रतिषेधरहितानां प्राप्त्यर्थम् ॥ २२४ ॥ भाषा—अकारण माता, पिता और गुरु का त्याग करने वाला, कुण्डे भर अन्न खाने वाला, अधर्मी का पुत्र, पुनर्भू का पति, न दी हुई वस्तु को ग्रहण करने वाला चोर, और शास्त्रविरुद्ध कार्य करने वाला —ये सभी श्राद्धकर्म में निषिद्ध होते हैं ॥ २२४ ॥ एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह— निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवाञ्शुचिः । तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥ २२५ ॥ पूर्वोक्तान्ब्राह्मणान् 'श्राद्धे १क्षणः क्रियताम्' इति पूर्वेद्युर्निमन्त्रयेत प्रार्थनया क्षणमभ्युपगमयेत् । अपरेद्युर्वा; 'पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान् यथोदितान् ॥' इति ( ३।१८७ ) मनुस्मरणात् । आत्म- वान् शोकोन्मादादिरहितश्चेत् दोषवान् भवति । यद्वा, —आत्मवाञ्जित्येन्द्रियो भवेत् । शुचिः प्रयतश्च । तैरपि निमन्त्रितैर्ब्राह्मणैः । मनोवाक्कायव्यापारैः संयतैर्नियतैर्भवितव्यम् ॥ २२५ ॥ भाषा—( श्राद्ध के ) पहले दिन स्वस्थ मन एवं पवित्र होकर ( पूर्वोक्त प्रकार के ) ब्राह्मणों को निमन्त्रित करे । उन निमन्त्रित ब्राह्मणों को भी मन, वाणी, शरीर एवं कर्म से पवित्रता रखनी चाहिये ॥ २२५ ॥ अपराह्ने समभ्यर्च्य स्वागतेनांगतांस्तु तान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ २२६ ॥ अपरा उक्तलक्षणे समभ्यर्च्य तान्निमन्त्रितान्ब्राह्मणानह्वय स्वागतवचनेन पूजयित्वा कृतपादधावनाचान्तान् क्लृप्तेष्वासनेषु पवित्रपाणिः पवित्रपाणीनुप- वेशयेत् । यद्यप्यत्र सामान्येन 'अपराह्ने' इत्युक्तं, तथापि कुतपे प्रारभ्य तदादि पञ्चमुहूर्तेषु परिसमापनं श्रेयस्करम्, 'अह्नो मुहूर्ता विख्याता दश पञ्च च
१. अवसर उत्सवो वा क्षणः । २. नागतान्द्दिजान् । ३. विज्ञेया ।
१०६ याज्ञवल्क्यस्मृतिः
सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ मध्याह्ने सर्वदा यस्मा- न्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥ ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥' (मात्स्य श्राद्ध. २२।८४-८५,८८) इति वचनात् । तथान्यदपि श्राद्धोपयोगि कुतपसंज्ञक- मुक्तम् , 'मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य संतापकारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥' (मात्स्य. २२।८६-८७) इति ॥ २२६ ॥ भाषा—उन आये हुए ब्राह्मणों की अपराह्न के समय स्वागत वचन द्वारा अर्चना करके (अपने) हाथों को शुद्ध करके उन्हें आचमन कराकर आसनों पर बैठावे ॥ २२६ ॥ युग्मान्दैवे यथाशक्ति ^१पित्र्येऽयुग्मांस्तथैव च । ^२परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ २२७ ॥ दैवे आभ्युदयिके श्राद्धे युग्मान् समान्ब्राह्मणानुपवेशयेत् । कथम् ? यथा- शक्ति शक्तिमनतिक्रम्य । तत्र वैश्वदेवे द्वौ द्वौ, मात्रादीनां तिसृणामेकैकस्या द्वौ द्वौ, तिसृणां वा द्वौ । एवं पित्रादीनामेकैकस्य द्वौ द्वौ, त्रयाणां वा द्वौ । एवं मातामहादीनां च वर्गत्रयेऽपि वैश्वदेवं पृथक्, तन्त्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान् विषमानुपवेशयेदिति संबध्यते । एतच्च परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिप्ते दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७ ॥ भाषा—दैव (आभ्युदयिक) श्राद्ध में अपनी शक्ति के अनुसार सम संख्यावाले और पित्र्य अर्थात् पार्वण श्राद्ध में विषम संख्या में ब्राह्मणों को चारों ओर से आसनों द्वारा ढके हुए (गोबर आदि से लीप कर) पवित्र किए गये, और दक्षिण की ओर झुके हुए स्थान पर बैठावे ॥ २२७ ॥ 'अयुग्मान्पित्र्ये' (श्लो. २२७) इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेऽप्ययुग्मप्रसङ्गे इदमारभ्यते— द्वौ दैवे ^३प्राक् त्रयः पित्र्य उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥ २२८ ॥ द्वौ दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मा- नित्यविशेषप्रसङ्गे विशेष उच्यते—त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय उदङ्मुखा उपवेश्याः । पक्षान्तरमाह—एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमे-
१. पित्र्ये युग्मान् । २. परिश्रिते ( = काण्डपटादिना परिवृते) । ३. प्राक्तु पित्र्ये त्रीन् ।
कमुपवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमन्त्रणादि । द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वेत्येव मतं पितृश्राद्धवत्कर्त्तव्यम् । पितृश्राद्धे मातामहश्राद्धे च वैश्वदेविकं पृथक् तन्त्रेण वा कर्त्तव्यम् । 'तन्त्र'शब्दः समुदाय- वाचकः । यदा तु द्वावेव ब्राह्मणौ लब्धौ तदा तु वैश्वदेवे पात्रं प्रकल्प्य उभय- त्रैकैकं ब्राह्मणं नियुञ्ज्यात् । यथाह वसिष्ठः ( ११।३०,३१ )—'यद्येकं भोजये- च्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवता- यतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे ॥' इति ॥ २२८ ॥ भाषा—दो ब्राह्मणों को विश्वदेवों की ओर पूर्वदिशा में मुख कराके, पित्रादिस्थान में विषम संख्या वाले ब्राह्मणों को उत्तर की ओर मुख कराके अथवा वैश्वदेव एवं पित्र्यस्थान में एक-एक ब्राह्मण को बैठावे । मातामह के श्राद्ध में भी ऐसा ही करे अथवा वैश्वदेविक पृथक् तन्त्र से करे ॥ २२८ ॥ पाणिप्रक्षालनं दत्त्वा १विष्टरार्थं कुशानपि । आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ २२९ ॥ तदनन्तरं वैश्वदेवार्थ ब्राह्मणस्ते जलं दत्त्वा विष्टरार्थं कुशांश्च युग्मान् द्विगुणितानासने दक्षिणतो दत्त्वा 'विश्वान्देवानावाहयिष्ये' इति ब्राह्मणान् पृष्ट्वा तैः 'आवाहत' इत्यनुज्ञातो 'विश्वे देवास आगत' ( ऋ. ४।८।१५ ) इत्यनयर्चा 'आगच्छंतु महाभागाः' इत्यनेन च स्मार्तेन मन्त्रेण तानावाहयेत् । एतच्च यज्ञोपवीतिना२ प्रदक्षिणं च कार्यम्, 'अपसव्यं सतः कृत्वा पितॄणामप्र- दक्षिणम्' ( आ. २३२ ) इति पित्र्ये विशेषस्मरणात् ॥ २२९ ॥ भाषा—तब ( विश्वदेव के लिये ) ब्राह्मण को हाथ धोने के लिये जल देकर ) बैठने के लिये ( जोड़ा ) कुश देकर, उनकी आज्ञा से 'विश्वेदेवास आगत' इत्यादि ऋचा द्वारा ( और आगच्छन्तु महाभागाः' स्मार्त मन्त्र से ) उनका आवाहन करे ॥ २२९ ॥ यवैरन्ववकीर्याथ भाजने सपवित्रके । शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २३० ॥ या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् । ततो ३वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते 'शं नो देवीरभिष्टय' ( ऋ. ७।६। ५४ ) इत्यनयर्चापः क्षिप्त्वा 'यवोऽसि धान्यराजोऽसि' इत्यादिना मन्त्रेण
पाद-टिप्पणी (Footnotes): १. विष्टरार्थान् । २. वीतिना सव्येन च । ३. विश्वेदेवार्थ ।
[Header] १०४ याज्ञवल्क्यस्मृतिः
यवान् ततो गन्धपुष्पाणि च क्षिप्त्वाऽनन्तरं अर्घ्यपात्रपवित्रान्तर्हिते ब्राह्मण- हस्ते 'या दिव्या आपः पयसा' इत्यादिना मन्त्रेण विश्वेदेवा इदं वोऽर्घ्य' इत्य- र्घ्योदकं विनिचिपेत् ॥ २३० ॥ भाषा—तब (वैश्वदेव के लिये) ब्राह्मणों के निकट भूमि पर जौ बिखेर कर पवित्र (दो कुश) से युक्त दो पात्रों में 'शंनो देवीरभिष्टये' इत्यादि मंत्र के साथ जल डालकर 'यवोऽसि धान्यराजो वा' इत्यादि मन्त्र से यव डाले (तब उसमें गन्ध, पुष्प डालकर) ॥ २३० ॥ दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ २३१ ॥ तथाच्छादनदानं च करशौचार्थमम्बु च । अथ करशौचार्थमुदकं दत्वा यथाक्रमं गन्धपुष्पधूपदीषदानं कुर्यात्, तथाच्छादनदानं च। गन्धादीनां स्मृत्यन्तरोको विशेषो द्रष्टव्यः—'चन्दन- कुङ्कमकर्पूरागुरुपद्मकान्युपलेपनार्थम्' इति विष्णूक्तम् । पुष्पाणि च—'श्राद्धे जात्यः प्रशस्ताः स्युर्मल्लिका श्वेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥' इत्युक्तानि । वर्ज्यानि च—'उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च। पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥', 'न कण्टकिजम्। १कण्टकिज- मपि शुक्लं सुगन्धि यत्तद्दद्यात्, न रक्तं दद्यात्, रक्तमपि कुङ्कुमजं जलजं च दद्यात्' (विष्णु. अ. ६६) इत्यादीनि द्रष्टव्यानि । धूपे च विशेषो विष्णूक्तः— 'प्राण्यङ्गं सर्वं धूपार्थे न दद्यात् । घृतमधुसंयुक्तंगुग्गुलं श्रीखण्डागरुदेवदारुसरलादि दद्यात्' इति । दीपे च विशेषः शङ्खेनोक्तः—'घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः। वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥' इति । आच्छादनं च शुभ्रं नव- महतं सदशं दद्यादिति । एतच्च सर्वं वैश्वदेवानुष्ठानकाण्डमुदङ्मुखः कुर्यात्। पित्र्यं काण्डं दक्षिणामुखः। यथाह वृद्धशातातपः—'उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्वं देवपूर्वं विधानतः ॥' इति ॥ २३१ ॥ भाषा—'या दिव्या आपः पयसा' इत्यादि मंत्र को कहते हुए ब्राह्मणों के हाथों पर अर्घ्य गिरावे । तदुपरान्त (हाथ धोने के लिए) जल देकर क्रमशः गन्ध, पुष्प, धूप, दीप दे ॥ २३१ ॥ अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ २३२ ॥ द्विगुणांस्तु २कुशान्दत्त्वा ३हुशन्तस्त्वेत्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ २३३ ॥ ततो वैश्वदेवकाण्डानन्तरम् । अपसव्यं यज्ञोपवीतं प्राचीनावीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयौ दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कु- १. अकण्टकिजं । २. कुशान्कृत्वा । ३. उशन्त ।