भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

१०६ याज्ञवल्क्यस्मृतिः भाषा—'अपहता असुरा रक्षांसि' इत्यादि मन्त्र को पढ़ते हुए चारों ओर तिल बिखेरे। इस समय (पहले) यव से किये जाने वाले सभी कर्म तिल द्वारा करने चाहिये और अर्घ्य इत्यादि पूर्वोक्त विधि से ही करना चाहिए (ब्राह्मणों के हाथ में) अर्घ्य देकर (उनके हाथ से) गिरते हुए जल को विधिपूर्वक पितृ पात्र में रोप कर उस पात्र को 'पितृभ्यः स्थानमसि' इत्यादि मन्त्र से उलटाकर दे (और उसके ऊपर अर्घ्यपात्र एवं कुशका पवित्र रखें ॥ २३४-२३५ ॥ अग्नौकरणमाह द्वाभ्याम्— अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ २३६ ॥ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु चँ विशेषतः ॥ २३७ ॥ अनन्तरमग्नौ करिष्यन्घृतप्लुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेत् 'अग्नौ करिष्ये' इति । 'घृत' ग्रहणं सूपशाकादिनिवृत्त्यर्थम् । ततस्तैः कुरुष्वेत्यभ्यनुज्ञातः प्राचीनावीती शुद्धमन्नमुपसमाधाय मेक्षणेनादायावदाकंसंपदा जुहुयात् 'सोमाय पितृमते स्वधा नमः, अग्नये कव्यवाहनाय स्वधा नमः' इति पिण्डपितृयज्ञ- कल्पेन अग्नौ हुत्वा मेक्षणमनुप्रहृत्य हुतशेषं मृन्मयवर्जं यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात्, न वैश्वदेवभाजनेषु । समाहितोऽ- नन्यमनस्कः । अत्र यद्यप्यग्नावित्यविशेषेणोक्तं तथाप्याहिताग्नेः सर्वाधानपक्षे औपासनाग्नेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्वणश्राद्धे विहृतैदक्षिणाग्नेः संविधानाद्दक्षिणाग्नौ होमः 'कर्म स्मार्तं विवाहाग्नौ' इत्यस्यापवाददर्शनात् । यथाह मार्कण्डेयः—'आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः । अनाहिताग्नि- स्त्वौपसथेऽन्यभावे द्विजेऽप्सु वा ॥' इति । अर्धाधानपक्षे त्वौपासनाग्निसद्भावा- दाहिताग्नेनाहिताग्नेरिवौपासनाग्नौकरणहोमः । एवमन्वष्टकादिषु त्रिष्वपि पिण्डपितृयज्ञकल्पोतिदेशात् । काम्यादिषु चतुर्षु ब्राह्मणपाणावेव होम । यथाहू- र्गृह्यकाराः—'अन्वष्टक्यं च पूर्वेद्युर्मासि मास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्या- मेकोद्दिष्टमथाष्टमम् ॥ चतुर्ष्वाद्येषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि ॥' अस्यार्थः—हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमी- ष्वष्टकाः' ( आश्व. गृ. सू. २।४।१ ) इत्यष्टका विहिताः। तत्र नवम्यां यत्क्रियते

१. करिष्य आदाय । २. तु । ३. वीतीध्ममुप- । वीत्यग्निमुप- । ४. विहित । ५. स्त्वौपासनेऽन्यभावे । ६. प्रेरप्यौपासना । ७. कल्पे- नेति निदेशात् ।

आचाराध्यायः १०७ तदन्वष्टक्यम् । सप्तम्यां तु क्रियमाणं पूर्वेद्युः । मासि मासि कृष्णपक्षे पञ्चमीप्रभृ- तिषु यस्यां कस्याञ्चित्तिथावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यायां पिण्ड- पितृयज्ञानन्तरं यद्विहितं तत्पार्वणम् । स्वर्गादिकामानां कृत्तिकादिनक्षत्रेषु यद्वि- हितं तत्काम्यम् । अभ्युदयेषु पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च यद्विहितं तदाभ्युदयिकम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्ट- शब्देन सपिण्डीकरणं लक्ष्यते, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे तदभावात् । अथवा, गृह्यभाष्यकारमते साक्षादेकोद्दिष्टेऽपि पाणिहोमस्य सद्भावा- त्सोन्चादेकोद्दिष्टमेव । एतेषामष्टानामाद्येषु चतुर्षु साग्निकस्याग्नौ होमः । उत्तरेषु चतुर्षु पित्र्यब्राह्मणहस्ते एव । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं नित्यमिति तस्यापि पाणावेव होमः, 'न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥' इति वचनात् । एवं काम्याभ्यु- दयिकाष्टकैकोद्दिष्टेषु पाणावेव होमः- 'अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्' इति (४।५१२) मनुस्मरणात् । पाणिदत्तस्य पृथग्ग्रासप्रतिषेधे उच्यते । यथाहु- र्गृह्यकाराः- 'अन्नं पाणितले दत्तं पृथगश्नन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषाश्नं न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते' इति ॥ २३६-२३७ ॥ भाषा-अग्नौकरण के लिये घी से सना हुआ अन्न लेकर (ब्राह्मणों से अग्नौकरण के लिए) आज्ञा माँगे, 'करो' ऐसा (ब्राह्मणों द्वारा) आदेश पाकर पितृयज्ञ के समान (उसका) अग्नि में हवन करे। हवन से अवशिष्ट (घृता अन्न) को एकाग्रचित्त होकर पितृपात्रों में रक्खे (वैश्वदेव पात्र में नहीं) जो अपनी सामर्थ्य के अनुसार चाँदी के बनवाये गये हो (मिट्टी के नहीं) ॥ २३६-२३७ ॥ अन्ननिवेदनम्- दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ २३८ ॥ अन्नमोदनसूपपायसघृतादिकं भाजनेषु दत्त्वा 'पृथिवी ते पात्रं' इत्यादिना मन्त्रेण पात्राभिमन्त्रणं कृत्वा 'इदं विष्णुर्विचक्रमे' (ऋ० १।२२।१२) इत्यनयर्चा अन्ने द्विजाङ्गुष्ठं निवेशयेत् । तत्र च वैश्वदेवे यज्ञोपवीती 'विष्णो हव्यं रक्ष' इति । पित्र्ये प्राचीनावीती 'विष्णो कव्यं रक्ष' इति, 'विष्णो हव्यं च कव्यं च ब्रूयाच्चेति वै क्रमात्' इति मनुस्मरणात् ॥ २३८ ॥ १. लक्षयति । २. सद्भावादेको । ३. प्रतिषेधश्च दृश्यते । ४. पूर्वमश्नन्त्यबु । ५. पात्रानुमन्त्रणम् । ६. कृत्वा ।

१०८ याज्ञवल्क्यस्मृतिः भाषा—( चावल, सूप, खीर, घी आदि ) अन्न पात्रों में रख कर 'पृथिवी ते पात्रं' इत्यादि मंत्र से पात्रों को अभिमन्त्रित करे और 'इदं विष्णुर्विचक्रमे' आदि मन्त्र पढ़ता हुआ ( उस अन्न में ) ब्राह्मण का अंगूठा डलवावे ॥ २३८ ॥ सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् । जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ २३९ ॥ अनन्तरं 'विश्वेभ्यो देवेभ्य इदमन्नं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः' इति यवो- दकेन दैवे निवेद्य, तथा पित्रे 'अमुकगोत्रायामुकशर्मणे इदमन्नं परिविष्टं परिवेक्ष्य- माणं चातृप्तेः' इति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपिताम- हाय च निवेदनान्तरमापोशनं दत्त्वा पूर्वोक्ताभिर्व्याहृतिभिः सहितां गायत्रीं 'मधु वाता' ( ऋ. १।९०।१८ ) इति तृचं मधु मधु मध्विति त्रिवारं जप्त्वा 'यथासुखं जुषध्वम्' इति ब्रूयात्, 'संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमज्जपः । श्राद्धं निवेद्यापोशनं जुषप्रैषोऽथ भोजनम् ॥' तथा—'गायत्रीं त्रिः सकृद्वापि जपेद्व्याहृतिपूर्विकां । मधु वाता इति तृचं मध्वित्येतत्त्रिकं तथा ॥' इति पारस्करादिवचनात् । भुञ्जीरंस्तेऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता मौनिनो भुञ्जीरन् ॥ २३९ ॥ भाषा—व्याहृतियों के साथ गायत्री का और मधुवाता' आदि तृच का जप करके आप लोग आनन्दपूर्वक भोजन करे ऐसा कहे और वे ( ब्राह्मण ) भी मौन होकर ( भोजन करे ) ॥ २३९ ॥ अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः । आ तृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ २४० ॥ अन्नं भक्ष्य-भोज्य-लेह्य-चोष्य-पेयात्मकं पञ्चविधं इष्टं यद्ब्राह्मणाय प्रेताय कर्त्रे वा रोचते । हविष्यं श्राद्धहविर्योग्यं व्रीहिशालियवगोधूममुद्गमाषमुद्गयज्ञकालशाक- महाशाकैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकर्पूरसैन्धवसांभरपनसनालिकेरकदलीबदर- गव्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । 'हविष्यं' इत्यनेनैवायोज्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्रवमसूरचणककुलित्थपुलाकनिष्पा- वराजमाषकूष्माण्डवार्ताक^१बृहतीद्वयोपोदकीवंशाङ्कुरपिप्पलीवचाशतपुष्पौषंध^२बिड- लवणमाहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । सक्रोधनः क्रोधहेतुसंभ- वेऽपि । अत्वरोऽव्यग्रश्च । आ तृप्तेर्दद्यादिति संबन्धः । 'तु' शब्दाद्यथा किंचिदुच्छि- ष्यते तथा दद्यात्, उच्छेषणस्य दासवर्गभागधेयत्वात्, 'उच्छेषणं भूमिगतमजि- ह्मस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥' इति ( ३।२४६ ) १. वृन्ताकबृहती । २. पुष्पौषधिबिड-क, पुष्पौषरबिड-।

आचाराध्यायः १०६ मनुस्मरणात् । तथा आ तृप्तेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जप्त्वा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सब्याहृतिकमित्युक्तं जपेत् ॥ २४० ॥ भाषा—जो अन्न ( भोजन ) और हविष्य ब्राह्मणों को रुचे उसे (क्रोध का अवसर आने पर भी ) क्रोधरहित एवं धैर्ययुक्त होकर देना चाहिए । जब तक वे तृप्त न हो जाय तब तक (पुरुष सूक्त पावमानी इत्यादि का) जप करे और ( वे तृप्तिपूर्वक भोजन कर ले तो ) व्याहृतियों सहित पूर्वोक्त जप करे ॥ २४० ॥ अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च । तदन्नं १विकीरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥ २४१ ॥ अनन्तरं सर्व २मन्नमादाय ‘तृप्ताः स्थ’ इति तान्पृष्ट्वा ‘तृप्ताः स्म’ इति तैरुक्तः ‘शेषमप्यस्ति किं क्रियताम्’ इति पृष्ट्वा ‘इष्टैः सतोषभुज्यताम्’ इत्य- भ्युपगम्य तदन्नं पितृस्थानब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणाग्रदर्भान्तरि- तायां भूमौ तिलोदकप्रक्षेपपूर्वकं—‘ये अग्निदग्धा’ इत्यनयर्चा निक्षिप्य पुन- स्तिलोदकं प्रक्षिपेत् । तदनन्तरं ब्राह्मणहस्तेषु पिण्डप्रदानम्–गण्डूषार्थं सकृत्स- कृदपो दद्यात् ॥ २४१ ॥ भाषा—तब सभी अन्न लेकर (उन ब्राह्मणों से) ‘आप लोग तृप्त हुए’ ऐसा पूछकर (‘हम तृप्त हैं, ऐसा उत्तर पाने पर), शेष के विषय में भी इसी प्रकार आज्ञा लेकर (‘जो शेष बचा है उसे क्या करें’ ऐसा पूछने पर ‘प्रियजनों के साथ ग्रहण करो’ ऐसी आज्ञा लेकर) उस अन्न को पृथिवी पर गिरा दे और (ब्राह्मणों के हाथों पर) थोड़ा थोड़ा जल गिरावै ॥ २४१ ॥ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ २४२ ॥ पिण्डपितृयज्ञकल्पातिदेशेन चहश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह सर्वमन्नमुपादायाग्निसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थं ४कृतमन्नं सर्वमुपादाय सतिलं तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ॥ २४२ ॥ भाषा—तब तिल के साथ सभी अन्न लेकर दक्षिण की ओर मुख करके उच्छिष्ट के निकट पिण्डपितृयज्ञ के समान ही पिण्डा देवे ॥ २४२ ॥ १. प्रकिरेत् । २. सार्ववर्णिकमन्न । ३. दद्याद्धि । ४. सार्ववर्णिकम- न्नमुपादाय ।

११० याज्ञवल्क्यस्मृतिः अक्षय्योदकदानम्— मातामहानामप्येवं दद्यादाचमनं ततः। स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ २४३ ॥ मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मैवमेव¹ कर्तव्यम् अनन्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं ततः कुर्यात् 'स्वस्ति ब्रूत' इति ब्राह्मणान्स्वस्ति वाचयेत् । तैश्च 'स्वस्ति' इत्युक्ते 'अक्षय्यमस्तु इति ब्रूत' इति ब्राह्मणहस्तेषूदकदानं कुर्यात् तैश्चाक्षय्यमस्त्विति वक्तव्यम् ॥ २४३ ॥ भाषा—मातामह आदि के लिये भी (विश्वेदेव का आवाहन से लेकर पिण्डदान तक के कर्म) इसी प्रकार होता है; इसके बाद ब्राह्मणों को आचमन करावे, तदुपरान्त स्वस्तिवाचन करे और ब्राह्मणों के हाथों पर जल देवे और वे तुम्हारा अक्षय्य (सब प्रकार से कल्याण) हो ऐसा आशीर्वाद देवें ॥ २४३ ॥ स्वधावाचनम्— दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ २४४ ॥ अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा 'स्वधां वाचयिष्ये' इत्युक्त्वा तैर्ब्राह्मणैः 'वाच्यताम्' इत्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च 'स्वधोच्यताम्' इति स्वधाकारमुदाहरेत् ॥ २४४ ॥ भाषा—इसके अनन्तर अपनी शक्ति के अनुसार (ब्राह्मणों को) दक्षिणा देकर उनसे स्वधावाचन की आज्ञा माँगे। 'स्वधावाचन करो' इस प्रकार की उनसे आज्ञा पाकर पिता आदि या मातामह आदि के लिये स्वधा का उच्चारण करे ॥ २४४ ॥ ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् । विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥ २४५ ॥ ते च ब्राह्मणाः 'अस्तु स्वधा' इति ब्रूयुः । तैरेवमुक्ते अनन्तरं कमण्डलुना उदकं भूमौ सिञ्चेत् । ततो 'विश्वे देवाः प्रीयन्ताम्' इति ब्रूयात्, ब्राह्मणैश्च 'प्रीयन्तां विश्वे देवा' इत्युक्ते इदमनन्तरोक्ष्यमानं जपेत् ॥ २४५ ॥ भाषा—वे ब्राह्मण भी 'स्वधा हो' ऐसा कहें, उनके ऐसा कहने पर (कमण्डलु से) भूमि पर जल छिड़के। तब 'विश्वेदेव प्रसन्न होवें', ऐसा कहे और ब्राह्मणों द्वारा भी ऐसा ही कहने पर आगे कही जाने वाली प्रार्थना का जप करे ॥ २४५ ॥ १. कर्मैवं कर्तव्यं ।

आचाराध्यायः १११ ब्राह्मणप्रार्थना— दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ २४६ ॥ दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्प- रया । श्रद्धा च पित्र्ये कर्मण्यास्था नोऽस्माकं मा व्यगमत् मा गच्छतु । 'न माङ्‌योगे' ( पा. ६।४।७४ ) इत्यडभावः । देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥ भाषा—हमारे कुल में ( हिरण्य आदि ) के दाता ( दानशील पुरुष ) अनेक होवें, ( अध्ययन-अध्यापन द्वारा ) वेद की और सन्तान ( पुत्र, पौत्र ) की वृद्धि होवे । पितृकर्म ( पितरों की पूजा ) आदि में हमारी श्रद्धा कम न होवें, ( सोना आदि ) दान देने योग्य वस्तुएँ प्रचुर मात्रा में बनी रहें ॥ २४६ ॥ २इत्युक्त्वोत्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे वाज इति प्रीतः पितृपूर्वं ३विसर्जनम् ॥ २४७ ॥ एवं पूर्वोक्तं प्रार्थना मन्त्रं जप्त्वा, उक्त्वा च प्रिया वाचः 'धन्या वयं भवच्च- रणयुगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनक्लेशमविगणय्य भवद्भिरनु- गृहीता वयम्' इत्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेदित्याह—'वाजे वाजेवत वाजिनो नः' ( ऋ. ५।४।५।८ इत्यनयर्चा पितृपूर्वं प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण 'उत्तिष्ठत पितरः' इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ २४७ ॥ भाषा—इस मन्त्र का जप करके, प्रियवचन कह कर ( पितरों को ) प्रणाम करके विसर्जित करे । 'वाजे वाजेवत वाजिनो नः' इस मन्त्र के साथ प्रसन्नचित्त होकर पितरों से आरम्भ करके ( विश्वेदेव तक का ) विसर्जन करना चाहिए ॥ २४७ ॥ ४यस्मिंस्तु संस्रवाः पूर्वमर्घ्यपात्रे५ निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ २४८ ॥ यस्मिन्नर्घ्यपात्रे पूर्वमर्घ्य६दानान्ते संस्रवा ब्राह्मणहस्तगलितार्घ्योदकानि निवेशिताः स्थापितास्तदर्घ्यपात्रं न्युब्जं तदुत्तानमूर्ध्वमुखं कृत्वा विप्रान्विसर्ज- १. रेव नः । २. इत्युक्त्वा तु । ३. विसर्जयेत् । ४. यस्मिंस्ते संस्रवाः पूर्वं । ५. पितृपात्रे । ६. दानानन्तरं ते संस्रवा ।

११२ याज्ञवल्क्यस्मृतिः येत् । एतच्चाशीर्मन्त्रजपादूर्ध्वं 'वाजे' इत्यतः प्राग्द्रष्टव्यम् ; 'कृत्वा विसर्ज- येत्' इति क्त्वाप्रत्ययश्रवणात् ॥ २४८ ॥ भाषा—पहले जिस अर्घ्यपात्र में ( ब्राह्मणों के हाथों से ) गिरा हुआ जल रोपा गया था उस औंधे किये गये ) पितृपात्र का मुँह ऊपर करे और ब्राह्मणों को बिदा करे ॥ २४८ ॥ प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ २४९ ॥ अनन्तरमासीमान्तं ब्राह्मणाननुव्रज्य तैः 'गम्यताम्' इत्यनुज्ञातस्तान्प्रदक्षिणी- कृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः सह भुञ्जीत । नियम एवार्थं, न परिसंख्या । 'मांसे तु यथारुचि' इति 'द्विजकाम्यया' ( आ० १७९ ) इत्यत्रो- क्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तृभिर्ब्राह्मणैः सह कर्ता ब्रह्मचारी भवेत् । तुशब्दात् पुनर्भाजनादिरहितोऽपि भवेत् ; 'दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत् सप्त वर्जयेत् ॥ पुनर्भाजन- मध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक्सप्त वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ भाषा—तब ब्राह्मणों को अपने गांव की सीमा तक पहुँचा कर उनकी आज्ञा मिलने पर प्रदक्षिणा करके लौटे और इष्ट जनों के साथ अवशिष्ट अन्न का भोजन करे । उस रात्रि ब्राह्मणों के साथ श्राद्धकर्ता ब्रह्मचारी होकर रहे ॥ २४९ ॥ एवं पार्वणश्राद्धमुक्त्वेदानीं वृद्धिश्राद्धमाह— एवं १प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्‍पितॄन् । यजेत २दधिकर्कन्धुमिश्रान्पिण्डान्यवैः क्रियाः ॥ २५० ॥ वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तेन प्रकारेण पितॄन्यजेत् पूजयेत् । तत्र विशेषमाह—प्रदक्षिणावृत्त इति । प्रदक्षिणा आवृत् अनुष्ठानपद्धतिर्यस्यासौ प्रदक्षिणावृत्कः, प्रदक्षिणप्रचार इति यावत् । 'नान्दीमुखान्' इति पितॄणां विशेषणम् । अतश्चावाहनादौ 'नान्दीमुखान्पितॄनावाहयिष्ये नान्दीमुखान्पिता- महान्' इत्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह—दधिकर्कन्धुमिश्रान् ।

  • मिश्रान्पिण्डान्दत्त्वा, 'यजेत' इति संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः क र्त्तव्याः । अत्र च ब्राह्मणसंख्या दर्शितेव 'युग्मान्दैवे यथाशक्ति' ( आ० २२७ ) इत्यत्र । प्रदक्षिणावृत्कादिपरि- १. प्रदक्षिणं कृत्वा । २. कर्कन्धुमिश्राः पिण्डा यवैः ।

आचाराध्यायः ११३ गणनमन्येषामपि स्मृत्यन्तरशोक्तानां विशेषधर्माणां प्रदर्शनार्थम् । यथाहाश्वला- यनः—‘अथाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञोपवीती स्या- त्प्रदक्षिणमुपचारो यवस्तिलार्थो गन्धादिदानं द्विर्द्विः ऋजुदर्भानासने दद्यात् । ‘यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीमुखा- न्पितॄन्माँल्लोकान्प्रीणयाहि नः स्वाहा’ इति यवावपनम् । ‘विश्वेदेवा इदं वोऽर्घ्यं, नान्दीमुखाः पितर इदं वोऽर्घ्यम्’ इति यथालिङ्गमर्घ्यदानम् । पाणौ होमोऽग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहेति । ‘मधु वाता ऋतायते’ (ऋ. स. १।६।१८) इति तृचःस्थाने ‘उपास्मै गायत’ (ऋ. सं. ६।७।३६) इति पञ्च मधुमतीः श्रावयेत् । ‘अक्षन्नमीमदन्त’ (ऋ. सं० १।६।३) इति षष्ठीम् । आचान्तेषु भुक्ताशयान्गोमयेनोपलिप्य प्राचीनाग्रान्दर्भान्संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डौ दद्यादित्यादि । यद्यपि ‘पितॄन्यजेत’ इति सामान्येनोक्तं, तथापि श्राद्धत्रयं क्रमश्च स्मृत्यन्तरादव- गन्तव्यः । यथाह शातातपः—‘मातुः श्राद्धं तु पूर्वं स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥’ इति ॥ २५० ॥ भाषा—पुत्रजन्म आदि प्रसन्नता के अवसर पर भी इसी प्रकार नान्दी मुख पितरों के लिये दाहिनी ओर से आरम्भ करके पूजन करना चाहिए । दही, बदरीफल मिश्रित पिण्ड देना चाहिए और (तिल से की जाने वाली) क्रियाएँ यव से की जानी चाहिए ॥ २५० ॥ एकोद्दिष्टमाह— एकोद्दिष्टं देवहीनमेकार्घ्येकपवित्रकम् । आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥ २५१ ॥ एकोद्दिष्टं एक उद्दिष्टो यस्मिन् श्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । ‘शेषं पूर्ववदाचरेत्’ (आ० २५४) इत्युपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेषोऽभि- धीयते । देवहीनं देवरहितं वैश्वदेवरहितं एकार्घ्यपात्रमेकदर्भपवित्रकं च आवाह- नाग्नौकरणहोमेन च रहितम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेना- नन्तरश्लोकाभ्युदयिके यज्ञोपवीतित्वं सूचयति ॥ २५१ ॥ भाषा—एकोद्दिष्ट नाम का कर्म बिना विश्वेदेव के एक अर्घ्यपात्र से एक कुशपवित्र से किया जाता है; इसमें आवाहन और अग्नौकरण नहीं होता एवं प्राचीनावीत (होके दाहिने कंधे पर यज्ञोपवीत करके) किया जाता है ॥ २५१ ॥ १. दैवहीनं । ८ या०

Here is the Devanagari text transcribed line by line from the image:

११४ याज्ञवल्क्यस्मृतिः उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने । अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥ २५२ ॥ किंञ्च, यदुक्तं ( आ० २४३)—'स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च' इति तत्राक्षय्यस्थान उपतिष्ठतामिति वदेत् । विप्रविसर्जने कर्तव्ये 'वाजे वाजे' इति जपामन्तरं 'दर्भान्वारम्भेण अभिरम्यताम्' इति ब्रूयात् । ते च 'अभिरताः स्मः' इति ब्रूयुः । ह इति प्रसिद्धौ । शेषं पूर्ववदिति यावत् । एतच्च मध्याह्ने कर्तव्यम्, तथाह देवलः—'पूर्वाह्णे दैविकं कर्म अपराह्ने तु पैतृकम् । एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ॥' इति । 'भुञ्जीत पितृसेवितम्' ( आ० २४९ ) इत्येकोद्दिष्टविशेषे निषेधो दृश्यते—'नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दंपत्योर्भुक्तशिष्टं च न भुञ्जीत कदाचन ॥' इति$^१$। नवश्राद्धं च दर्शितम्— 'प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा। नवमैकादशे चैव तन्नवश्राद्धमुच्यते ॥' इति ॥ २५२॥ भाषा—अक्षय्योदक के समय उपतिष्ठताम् ( 'आप लोग बैठे' ) ऐसा कहें । ब्राह्मणों के विसर्जन के समय 'अभिरम्यताम्' ( 'आप लोग आनन्दित हों ) कहे । वे ( ब्राह्मण ) भी हम आनन्दित हुए' ( अभिरताः' ) कहें ॥ २५२ ॥ सपिण्डीकरणमाह— गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ २५३ ॥ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ॥ २५४ ॥ गन्धोदकतिलैर्युक्तं पात्रचतुष्टयं अर्घ्यसिद्धयर्थं पूर्वोक्तविधिना कुर्यात् । तिलैर्युक्तं पात्रचतुष्टयमिति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिताः । वैश्वदेवे द्वौ स्थितावेव । अत्र प्रेतपात्रोदकं किंचिदवशेषं त्रिधा विभज्य पितृपात्रेषु सेच- येत् 'ये समानाः समनसः' इति द्वाभ्यां मन्त्राभ्याम् । शेषं विश्वेदेवावाहना- दिविसर्जनान्तं पूर्ववत्पार्वणवदाचरेत् । प्रेतार्थ्यपात्रावशिष्टोदकेन प्रेतस्थान- ब्राह्मणहस्तेऽर्घ्यं दत्त्वा शेषमेकोद्दिष्टवत्समापयेत् । पिण्डेषु त्रिषु पार्वणवदेव । एतत्सपिण्डीकरणमनन्तरोक्तमेकोद्दिष्टं च ततः प्रागुक्तं स्त्रिया अपि मातुरपि कर्तव्यम् । एवं वदता पार्वणे मातृश्राद्धं पृथक्कर्तव्यमित्युक्तं भवति । अत्र 'प्रेत'शब्दं पितुः प्रपितामहविषयं केचिद्वर्णयन्ति, तस्य त्रिष्वन्तर्भावेन सपिण्डी- करणोत्तरकालं पिण्डदानादिनिवृत्युपपत्तेः । समनन्तरं मृतस्य$^३$ तूत्तरत्र पिण्डोद- १. तिष्ठतामित्यन्यत्र । २. प्रसिद्धयेत् । ३. मृतस्य पिण्डोदक ।

आचाराध्यायः ११५ क्तदानानुवृत्तेरन्तर्भावो न युक्तः । अत एवाह यमः—'यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् । विधिघ्नस्तेन भवति पितृहा चोपजायते ॥' इति प्रकर्षेण इतः गतो प्रेत इति चतुर्थेऽपि 'प्रेत' शब्दोपपत्तेः । प्रेतेभ्य एव निपुणी- यात्' इति च प्रयोगदर्शनात् । अपि च—'सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत् । पितॄनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत् ॥' इति सपिण्डीकरणो- त्तरकालं प्रेतस्य, श्राद्धादिप्रतिषेधो दृश्यते, स चानन्तरमृतस्य न संभवति; अमावास्यादौ श्राद्धविधानात् । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' (मनः ५।६०) इत्येतदपि वचनं चतुर्थस्य त्रिष्वन्तर्भाव एव घटते, 'चतुर्थस्य पिण्डत्रयव्यापित्वं, पञ्चमस्य पिण्डद्वयव्यापित्वं, षष्ठस्यैकपिण्डव्यापित्वं सप्तमे निवृत्तिः' इति । पितृपात्रेष्वित्येतदपि पितृमुख्यशस्यत्वादास्मिन्नेव पक्षे घटते, नान्यथा, प्रपितामहप्रमुखत्वात् । तस्मात्पितृपात्रेषु तत्प्रेतपात्रं प्रसेचयेदिति पितुः प्रपितामहपात्रं पित्रादिपात्रेषु प्रसेचयेदिति,—तदयुक्तम् । नह्यत्र पिण्डसंयोजन- मुत्तरत्र पिण्डदानादिनिवृत्तिप्रयोजकम्, अपि तु पितुः प्रेतत्वनिवृत्त्या पितृत्व- प्राप्त्यर्थम् । प्रेतत्वं च क्षुत्तृष्णोपजनितात्यन्तदुःखानुभवावस्था । यथाह मार्कण्डेयः—'प्रेतलोके तु वसतिर्नृणां वर्षं प्रकीर्तिता । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन ॥' इति । पितृत्वप्राप्तिश्च वस्वादिश्राद्धदेवतासंबन्धः। प्राक्तनैकोद्दिष्ट- सहितेन सपिण्डीकरणेन प्रतत्वनिवृत्त्या पितृत्वं प्राप्नोतीत्यवगम्यते—'यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडशः। प्रेतत्वं सुस्थिरं तस्य दत्तः श्राद्धशतैरपि ॥' इति । तथा—' चतुरो निर्वपेत्पिण्डान्पूर्वं तेषु समावपेत् १ । ततःप्रभृति वै प्रेतः पितृसा- मान्यमश्नुते ॥' इत्यादिवचनात् । 'यः सपिण्डीकृते प्रेतम्' इत्यनेनापि मुख्यै- कोद्दिष्टविधानेन पिण्डदाननिषेधात्पार्वणविधानेन सह पिण्डदानमवगम्यते । तच्च सांवत्सरिकपाक्षिकैकोद्दिष्टविधौनेनापोद्यते । यदपि 'पुनः प्रेतं न निर्दिशेत्' इति, तदपि प्रेतशब्दं नोच्चारयेत्, अपि तु पितृशब्दमेवेत्येवमर्थम् । नच प्रकर्ष- गमनात्तत्रैव 'प्रेत' शब्दः । यतो विशिष्टदुःखानुभवावस्था 'प्रेत' शब्देन रूढ्या- भिधीयत इत्युक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोगः सोऽपि भूतपूर्वगत्या । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' इति च प्रथमस्य पिण्डस्य चतुर्थव्यापि- त्वात्, द्वितीयस्य पञ्चमव्यापित्वात्, तृतीयस्य षष्ठव्यापित्वात् , 'सप्तमे विनि- वर्तते' इत्येवमपि घटते । अपि च निर्वाप्यपिण्डान्वयेन न सापिण्ड्यं; वैय्या- र्थ्यकत्वात्, अपि त्वेकशरीरावयवान्वयेनेत्युक्तम् । पितृशब्दश्च प्रेतत्वनिवृत्त्या श्राद्धदेवताभूयंगतेषु वर्तत इति पितृपात्रेष्वित्यविरुद्धम् । तस्मादनन्तरार्थमेव १. समानयेत् समापयेत् । २. एतच्च । ३. विधानेनोपपद्यते विधानायोपपद्यते । ४. अव्यापित्वादपि तु । ५. देवताभूयङ्गतेषु ।

११६ याज्ञवल्क्यस्मृतिः

पूर्वपक्षद्वारेण परमतं दर्शितमित्यर्थः । मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनमिति स्थितम् । आचार्यस्तु परमतमेवोपन्यस्तवान् । एतच्च पितुः सपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे प्रपितामहे वा जीवति सपिण्डीकरणं नास्त्येव; 'व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता' इति वचनात् । यत्तु मनुवचनं ( ३।२२१ ) 'पिता यस्य निवृत्तः स्याज्जीवेद्वापि पितामहः पितुः स नाम संकीर्त्य कीर्तये- त्प्रपितामहम् ॥' इति, तदपि १शब्दप्रयोगनियमाय न पिण्डद्वयदानार्थम् । कथम् ? 'ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पिता यस्य तु वृत्तः स्याज्जी- वेद्वापि पितामहः ॥' सोऽपि पूर्वेषामेव निर्वपेदित्यन्वयः । पक्षद्वयेऽपि कथं निर्वपेदित्याह-'पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम्' ( मनुः ३।२२०- २१) इत्याद्यन्तग्रहणेन सर्वत्र पितृभ्यः, पितामहेभ्यः, प्रपितामहेभ्यः इत्येवं प्रयोगः, न पुनः कदाचिदपि पितामहस्य प्रपितामहस्य वाऽऽदित्वं वृद्ध- प्रपितामहस्य तत्पितुर्वाऽन्तत्वम् । अतश्च पितादिशब्दानां संबन्धिवचन- त्वात् ध्रियमाणेऽपि पितरि पितुः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति, पितामहे ध्रियमाणे पितामहस्य पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । अतश्च पिण्डपितृयज्ञे 'शुन्धन्तां पितरः' इत्यादिमन्त्राणामूहो न भविष्यति । यदपि विष्णुवचनं 'यस्य पिता प्रेतः स्यात्स पितृपिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्' इति, तस्यायमर्थः-पितामहे ध्रियमाणे प्रेते च पितरि पितुरेकं पिण्डमेकोद्दिष्टविधानेन निधाय पितुर्यः पितामहस्ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस्त्वात्मनः प्रपितामहः संप्रदानभूतः स्थित एवेति । प्रपिता- महाय ततः पराभ्यां द्वाभ्यां च दद्यादिति । शब्दप्रयोगनियमस्तु पूर्वोक्त एव । एवं गोब्राह्मणादिहतस्यापि सपिण्डीकरणाभावो वेदितव्यः । यथाह कात्यायनः- 'ब्राह्मणादिहते ताते पतिते संगवर्जिते । व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ॥' इति । गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तमुल्लङ्घ्य पिता महादिभ्यः पार्वणविधानमनुपपन्नमिति सपिण्डीकरणाभावोऽवगम्यते । स्मृत्यन्त- रेऽपि-'ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता । न चैतैः सह कर्तव्या- न्येकोद्दिष्टानि षोडश ॥' इति । मातुः सपिण्डे२नादौ गोत्रे विप्रतिपत्तिः; भर्तृगो- त्रेण पितृगोत्रेण वा दातव्यमिति, उभयत्र वचनदर्शनात् । 'स्वगोत्राद्भश्यते नारी विवाहात्सप्तमे पदे । स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥' इत्यादि- भर्तृगोत्रविषयं वचनम्, 'पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः । जन्मन्येव विपत्तौ च नारीणां पैतृकं कुलम् ॥' इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्ता-

१. पितृशब्द । २. पिण्डदानादौ ।

आचाराध्यायः ११७

चासुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रमेव, तत्र तत्र विशेषवचनात् दान- स्यानिवृत्तेश्च । ब्राह्मादिविवाहेषु व्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्र च—'येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ॥' इति ( मनुः ४।१७८) वचनात् वंशपरम्परायातसमा- चरणेन व्यवस्था । एवंविधविषयव्यतिरेकेणास्य वचनस्य विषयान्तराभावात् । यत्र पुनः शास्त्रतो न व्यवस्था, नाप्याचारस्तत्र 'आत्मनस्तुष्टिरेव वा' इति वच- नादात्मनस्तुष्टिरेव व्यवस्थापिका, यथा—'गर्भाष्टमेऽष्टमे वाब्दे' (आ० १४) इति । (यज्ञ) मातुः सपिण्डीकरणेऽपि १विरुद्धानि वाक्यानि दृश्यन्ते, तत्र पितामह्या- दिभिः सार्धं सपिण्डीकरणं स्मृतम्' । तथा भर्त्रापि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यमिति पैठीनसिरह—'अपुत्रायां मृतायां तु पतिः कुर्यात्स- पिण्डताम् । श्वश्रूवादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥' इति । पत्या सह सपिण्डीकरणं यम आह—'पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥' इति । उशनसा तु मातामहेन सह सपिण्डीकरणमुक्तम्—पितुः पितामहे यद्वत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिण्डता ॥' तथा—'पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः । माता मातामहे तद्विदित्याह भगवान्छिवः ॥' इत्येवंविधेषु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सापिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश्च माताम- हेनैव ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशसमाचारस्तदानीं तथैव कुर्यात् । वंशसमाचारोऽप्यनि- यतश्चेत्तदा 'आत्मनस्तुष्टिरेव च' इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्येऽपि यत्राष्टकादिषु मातृश्राद्धं पृथग्विहितम्,—'अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥' इति, तत्र पितामह्यादिभिरेव पार्वणश्राद्धं कर्तव्यम्; 'अन्यत्र पतिना सह' इति पतिसा- पिण्ड्ये तदंशभागित्वात् । मातामहसापिण्ड्ये तदंशभागित्वात्तेनैव सह । यथाह शातातपः—एकमूर्तित्वमायाति सपिण्डीकरणे कृते । पत्नी पतिपितॄणां च तस्मा- दंशेन भागिनी ॥' इति । एवं सति मातामहेन मातुः सापिण्ड्ये मातामहश्राद्धं पितृश्राद्धवन्नित्यमेव । पत्या पितामह्या वा मातुः सापिण्ड्ये मातामहश्राद्धं न नित्यम् । कृते अभ्युदयः, अकृते न प्रत्यवाय इति निर्णयः ॥ २५३–२५४ ॥ भाषा—गन्ध, जल और तिल से युक्त चार पात्र अर्घ्य के लिए बनाना चाहिए । 'ये समान। समनस;' इत्यादि दो मन्त्रों से प्रेत पात्र का जल पितृ-

१. विरुद्धानीव । २. मृता यदि तेनैक्यं ।

११८ याज्ञवल्क्यस्मृतिः

पात्रों में (तीन भाग करके) छोड़े। शेष कर्म पहले के समान ही करे। इस कर्म को सपिण्डीकरण कहते हैं। एकोद्दिष्ट कर्म स्त्री के लिए भी किया जाता है ॥ २५३-२५४ ॥ अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ २५६ ॥ संवत्सरादर्वाक् सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । 'अर्वाक्सं- वत्सरात्' इति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथा- ह्याश्वलायनः (०।३।११)—'अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति । कात्यायनोऽप्याह (३।३।११)—'ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदहर्वा वृद्धिरापद्येत' इति । द्वादशाहे, त्रिपक्षे, वृद्धिप्राप्तौ, संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साग्निकेन कार्यम्; सपिण्डी- करणं विना पिण्डपितृयज्ञासिद्धेः, 'साग्निकस्तु यदा कर्ता प्रेतो वाऽप्यग्निमान्भवेत् । द्वादशाहे तदा कार्यं सपिण्डीकरणं पितुः ॥' इति वचनात् । निरग्निकस्तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडश- श्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्तव्यानीति संशयः; उभयथा वचनदर्शनात् , 'श्राद्धानि षोडशादत्त्वा नैव कुर्या- त्सपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥' इति । षोडशश्रा- द्धानि च—'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥' इति दर्शितानि । तथा—'यस्यापि वत्सरादर्वाक्स- पिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥' इति । तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः, अप्राप्तकाल- त्वेन प्रागनधिकारात् । यद्यपि वचनं—'षोडशश्राद्धानि कृत्वैव सपिण्डीकरणं संव- त्सरात्प्रागपि कर्तव्यम्' इति, सोऽयमापत्कल्पः यदा त्वापत्कल्पत्वेन प्राक्सपि- ण्डीकरणात् प्रेतश्राद्धानि करोति, तदेकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्य- कल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् ; 'सपिण्डीकरणादर्वाक्कुर्वन् श्राद्धानि षोडश । एकोद्दिष्ट- विधानेव कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥' इति स्मरणात् । एतच्च प्रेतश्रा- द्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वप्येकेनैव कृतेनालं, न सर्वैः कर्तव्यम्; 'नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु


१. दद्याद्वर्षं द्विजन्मने । २. करणं भवेत् । ३. द्यते तदेति ।

आचाराध्यायः ११६ कार्याणि संविभक्तधनेष्वपि ॥' इति स्मरणात् । इदं च प्रेतश्राद्धसहितं सपिण्डी- करणं असन्न्यासिनां पुत्रादिभिर्नियमेन कर्तव्यम्, प्रेतत्वविमोक्षार्थत्वात् संन्या- सिनां तु न कर्तव्यम् । यथाहोशनाः—'एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा । अहन्नेकादशे प्राप्ते पार्वणं तु विधीयते ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥' इति पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैवादशाहान्तं तत्प्रेतकर्म कर्तव्यम्—'असगोत्रः सगोत्रो वा स्त्री दद्याद्यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समाप- येत् ॥' इति स्मरणात् । शूद्राणामप्येतत्कर्तव्यममन्त्रकं द्वादशेऽह्नि—'एवं सपि- ण्डीकरणं मन्त्रवर्ज्यं शूद्राणां द्वादशेऽह्नि'इति विष्णुस्मरणात् । सपिण्डीकरणादूर्ध्वं सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि, अन्येषामनियतानि ॥ २५५ ॥ भाषा—जिस (द्विज का) सपिण्डीकरण एक वर्ष की अवधि के पूर्व ही हुआ हो तो उसके लिए प्रत्येक दिन और प्रत्येक मास में एक वर्ष तक शक्ति के अनुसार एक घडे जल के साथ अन्न ब्राह्मण को देना चाहिए ॥ २५५ ॥ एकोद्दिष्टकालानाह— मृतेऽहनि ^२प्रकर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैत्रमाद्यमेकादशेऽहनि ॥ २५६ ॥ मृतेऽहनि प्रतिमासं संवत्सरं यावदेकोद्दिष्टं कार्यम् । सपिण्डीकरणादूर्ध्वं प्रति- संवत्सरमेकोद्दिष्टमेव कर्तव्यम् । आद्यं सर्वैकोद्दिष्टप्रकृतिभूतमेको^३द्दिष्टमेकादशेऽहनि । मृतदिवसापरिज्ञाने तच्छ्रवणदिवसे अमावास्यायां वा कार्यम् । 'अपरिज्ञाते मृते- ऽहनि अमावास्यायां श्रवणदिवसे वा'इति स्मरणात् । अमावास्यायामिति गमन माससंबन्धिन्यमावास्यायाम्—'प्रवासदिवसे देयं तन्मासेन्दुक्षयेऽपि वा' इति स्मरणात् । 'मृतेऽहनि'इत्यत्राहिताग्नेर्विशेषो जातूकर्ण्यनोक्तः—'ऊर्ध्वं त्रिपक्षाद्य- च्छ्राद्धं मृतेऽहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताग्नेर्द्विजन्मनः ॥' इति । तत्र त्रिपक्षादवर्वाक्प्रेतकर्म तद्दाहदिवसादारभ्याहिताग्नेः कार्यम्, त्रिपक्षादूर्ध्व यच्छ्राद्धं तन्मरणदिवस एवेत्यर्थः । अनाहिताग्नेस्तु सर्वं मृताह एव । 'आद्यमेका- दशेऽहनि'इत्या^३शौचोपलक्षणमिति केचित् ; 'शुचिना कर्म कर्तव्यं' इति शुद्धे- रङ्गत्वात्, 'अथा शौचापगमे' (२।११) इति सामान्येन सर्वेषां वर्णानामुपक्रम्य- कोद्दिष्टस्य विष्णुना विहितत्वाच्च । तदयुक्तम्,—एकादशेऽह्नि यच्छ्राद्धं तत्सा- मान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं च पृथक्पृथक् ॥' इति पैठीनसिस्मरण- विरोधात् , 'आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धि- १. यथाह शङ्खः । २. तु कर्तव्यं मृताहनि तु । ३. हनीति स्वशौचोप ।

१२० याज्ञवल्क्यस्मृतिः रशुद्धः पुनरेव सः ॥' इति शङ्खवचनविरोधाच्च । सामान्योपक्रमं विष्णुवचनं दशाहाशौचविषयमपि घटते । 'प्रतिसंवत्सरं चैवम्' इति प्रतिसंवत्सरं मृतेऽह- न्येकोद्दिष्टमुपदिष्टं योगीश्वरेण । तथा च स्मृत्यन्तरम् - 'वर्षे वर्षे तु कर्तव्या मातापित्रोस्तु सत्क्रिया । अद्वैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ॥' इति । यमो- ऽप्याह - 'सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेको- द्दिष्टं मृतेऽहनि ॥' इति व्यासस्तु पार्वणं प्रतिषेधति - 'एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः । अकृतं तद्विजानीयात्सँ भवेत्पितृघातकः ॥' इति । जमदग्निस्तु पार्वण- माह - 'आपद्य च सपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं माता- पित्रोः क्षयेऽहनि ॥' इति । शातातपोऽप्याह - 'सपिण्डीकरणं कृत्वा कुर्यात्पार्वण- वत्सदा । प्रतिसंवत्सरं विद्वांश्छागलेयोदितो विधिः ॥' इति । एवं वचनविप्रति- पत्तौ दाक्षिणात्या ह्येवं व्यवस्थामाहुः - 'औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यं, दत्तकादिभिरेकोद्दिष्टम्' इति; जातूकर्ण्यवचनात् 'प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥' इति,- तदसत्; नात्र क्षयाहवचनमस्ति, अपि तु प्रत्यब्दमिति । सन्ति च क्षयाहव्य- तिरिक्तानि प्रत्यब्दश्राद्धान्यक्षय्यतृतीयामाघीवैशाखीप्रभृतिषु । अतो न क्षयाह- विषयपार्वणैकोद्दिष्टव्यवस्थापनायाऽलम् । यत्तु पराशरवचनम् - 'पितुर्गतस्य देव- त्वमौरसस्य त्रिपौरुषम् । सर्वत्रानकगोत्राणामेकस्यैव मृतेऽहनि ॥ इति,- तदपि न व्यवस्थापकम् । यस्मादयमर्थः-- देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रौर- सेन त्रिपौरुषं पार्वणं कार्यम्, अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छ्राद्धं तदेकस्यैवकोद्दिष्टमेवेति । किं च, 'सपिण्डीकरणादूर्ध्वमप्येकोद्दिष्टमेव कर्त- व्यमौरसेनापि इत्युक्तं पैठीनसिना - 'एकोद्दिष्टं हि कर्तव्यमौरसेन मृतेऽहनि । सपिण्डीकरणादूर्ध्वं मातापित्रोर्न पार्वणम् ॥' इति । उदीच्याः पुनरेवं व्यवस्था- पयन्ति - अमावास्यायां भाद्रपदकृष्णपक्षे त्वामृताहे पार्वणम्, अन्यत्र मृताहे एकोद्दिष्टमेवेति, 'अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तत्र कर्तव्यं नकोद्दिष्टं कदाचन ॥' इति स्मरणात् । तदपि नाद्रियन्ते वृद्धाः । अनिश्चितमूले- नानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाममावा- स्याप्रेतपक्षामृताहविषयत्वेनातिसंकोचस्यायुक्तत्वात्, सामान्यवचाननर्थक्याच्च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारः, यत्र सामान्यविशेषसंबंधज्ञानेन वचनद्वयमर्थवत् । यथा 'सप्तदश सामिधेनीरनुब्रूयात्' इत्यनारभ्याधीतस्य विकृ- तिमात्रविषयस्य सप्तदशवाक्यस्य सामिधेनीलक्षणद्वारा संबन्धेनार्थवतो मित्र-

१. पृथक्कुर्यात् । २. जानीयाद्भवैव । ३. संकोचः स्यादित्ययुक्तत्वात् । ४. सप्तदशपदस्य ।

आचाराध्यायः १२१ विन्दादिप्रकरणपठितेन सामदश्यवाक्येन मित्रविन्दाद्यधिकारपूर्वसंबन्धबोधना- र्थवता मित्रविन्दादिप्रकरणं उपसंहारः। इह तु द्वयोर्मृताहमात्रविषयत्वान्नाथैव- त्तेति । अतोऽत्र पाक्षिकेकोद्दिष्टनिवृत्तिफलकतया पार्वणनियमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणवचनानां च तदन्यक्षयाह- विषयत्वेन व्यवस्था युक्ताः; उभयत्रापि मातापितृसुतग्रहणस्य विद्यमानत्वात्— 'सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृते- ऽहनि ॥' इति, तथा—'आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि ॥' इति । यद्यपि कैश्चिदुच्यते—मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान्निरग्निरोकोद्दिष्ट'मिति, —'वर्षे वर्षे सुतः कुर्यात्पा- र्वणं योऽग्निमान्द्विजः । पित्रोरनग्निमान्धीर एकोद्दिष्टं मृतेऽहनि ॥' इति सुमन्तु- स्मरणादिति, —तदपि सप्रतिपक्षत्वादुपेक्षणीयम् ; बह्वग्नयस्तु ये विप्रा ये चैकाग्नय एव च । तेषां सपिण्डनादूर्ध्वमेकोद्दिष्टं न पार्वणम् ॥' इति स्मरणात् । तत्रैवं निर्णयः—सन्यासिनां क्षयाहे सुतेन पार्वणमेव कर्त्तव्यम् ; 'एकोद्दिष्टं यतेर्नास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ॥' इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव, 'अमावास्या- क्षयो यस्य प्रेतपक्षेऽथवा पुनः' ( लघुशंख. १७) इत्यादिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोर्व्रीहियववद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थिते, असत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ भाषा—( एकोद्दिष्ट कर्म ) एक वर्ष तक प्रत्येक महीने में मृत्यु की तिथि को करना चाहिए तथा प्रत्येक वर्ष में करना चाहिए । प्रथम एकोद्दिष्ट कर्म मृत्यु के ग्यारहवें दिन होता है ॥ २५६ ॥ नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिदमभिधीयते— पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ २५७ ॥ पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियम्-गवे, अजाय, ब्राह्मणाय वा तदर्थिने पिण्डान्दद्यात् । अग्नावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु, भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन्नोद्वासयेत् ॥ २५७ ॥ भाषा—पिण्ड गाय, बकरा, ब्राह्मण के लिये अथवा अग्नि या जल में देना चाहिए । ब्राह्मणों के (भोजन स्थान पर) होने पर उनके उच्छिष्ट को नहीं झाड़ना चाहिए ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह— हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ २५८ ॥

१२२ याज्ञवल्क्यस्मृतिः ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ २५९ ॥ हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३।२६७)—'तिलैर्ब्रीहि- यवैर्माषैरद्भिर्मूलफलेन वा। दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥'१ इति । तदन्नं हविष्यान्नं तेन मासं पितरस्तृप्यन्तीत्यना^३ गतेनान्वयः। पायसेन गव्यपयःसिद्धेन संवत्सरम्; संवत्सरं तु गव्येन पयसा पायसेन च' इति (मनुः ३।२७१) स्मरणात् मत्स्यो अद्यः पाठीनादिस्तस्येदं मात्स्यम् । हरि- णस्ताम्रमृगः । एणः कृष्णः, 'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्या- युर्वेदस्मरणाद् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबंधि औरभ्रम् । शकुनि- स्तित्तिरिरितस्तत्संबंधि शाकुनम्, छागोऽजस्तदीयं छागम्, पृषच्चित्रमृगस्त- न्मांसं४ पार्षतम् । एणः कृष्णमृगस्तत्पिशितमैणम् , रुरुः शंबरस्तत्प्रभवं रौरवम्, वराह आरण्यसूकरस्तज्जं वाराहम् । शशस्येदं शाशम् , एभिर्मांसैः पितृभ्यो- 'दत्तैर्हविष्यान्नेन वै मासम्' इत्युक्तत्वात्तत ऊर्ध्वं यथाक्रममेकैकमासवृद्ध्या पितरस्तृप्यन्ति ॥ २५८-२५९ ॥ भाषा—पितामह (अर्थात् पितरगण) हविष्य अन्न से एक मास तक, और खीर से एक वर्ष तक तृप्त रहते हैं; पाठीन आदि मछली, ताम्रमृग, उरभ्र (भेँड़ा) तित्तिर, बकरा, चित्रमृग, कृष्णमृग, रुरु, जंगली सुअर और खरगोस के मांस श्राद्ध में देने पर क्रमशः एक-एक महीने अधिक समय तक तृप्त रहते हैं ॥ २५८-२५९ ॥ खड्गामिषं महाशल्कं मधु मुन्यन्नमेव^५ वा । लौहामिषं महाँशाकं मांसं वार्ध्रीणसस्य च ॥ २६० ॥ यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥ किंच, खड्गो गण्डकस्तस्य मांसम् , महाशल्को मत्स्यभेदः, मधु माक्षि- कम् । मुन्यन्नं सर्वमारण्यं नीवारादि, लोहो रक्तच्छागस्तदामिषं लौहामि- षम् । महाशाकं कालशाकम् । वार्ध्रीणसो वृद्धः श्वेतच्छागः—'त्रिपिबं त्विन्द्रि- यक्षीणं वृद्धं श्वेतंमजापतिम् । वार्ध्रीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥' इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशति सः, १. फलैस्तथा । २. मासं प्रीयन्ते । ३. अनागतत्वेना । ४. शाकुनं अद्यपष्टिसंबन्धि । ५. च । ६. कालशाकं । ७. वार्ध्रीणसस्य । ८. वर्षास्वेवं त्रयोदश्याम् । ९. श्वेतं वृद्धमजापतिं ।

आचाराध्यायः १२३ त्रिभिः पिबतीति त्रिपिबः, तस्य वार्ध्रीणसस्य मांसम् । यद्ददाति गयास्थश्च यत्किंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्गङ्गाद्वारादिषु च—'गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे। संनिहत्यां गयायां च श्राद्धमक्षय्यतां व्रजेत् ॥', 'आनन्त्यमश्नुते' इति १आनन्तफलहेतुत्वं प्राप्नोति । 'आनन्त्यमश्नुते' इति प्रत्येकमभिसंबद्ध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायुक्तायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्नुत इति गतेन संबन्धः ॥ अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शि- तानि, तथापि पुलस्त्योक्ता व्यवस्थादरणीया।—'मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥' इति । अस्यार्थः- मुन्यन्नं नीवारादि यच्छाद्धयोग्यमुक्तं तद्ब्राह्मणस्य प्रधानं समग्रफलदम् , यच्च मांसमुक्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षौद्रमुक्तं तच्छूद्रस्य । एतत्त्रितयव्य- तिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यच्च विहितं हविष्यं काल शाकदि, तत्सर्वेषां समग्रफलदमिति ॥ २६०-२६१ ॥ भाषा—जो खड्ग ( गैंडा ) का मांस, महाशल्क मछली, मधु, या तीनी का चावल, लाल बकरे का मांस, महाशाक, ( कालशाक ), श्वेतवर्ण के वृद्ध बकरे का मांस देता है और गया में ( श्राद्ध करते समय ) ये पदार्थ देता है, भाद्रपद मास की कृष्ण त्रयोदशी और विशेषतः महानक्षत्र होने पर इनका पिण्ड देता है वह सम्पूर्ण अनन्तफल का भोग करता है ॥ २६०-२६१ ॥ तिथिविशेषात्फलविशेषमाह— कन्यां कन्यावेदिनश्च पँशून्वै सत्सुतानपि । द्यूतं कृँषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥ २६२ ॥ ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा॥ २६३ ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ २६४ ॥ कन्यां रूपलक्षणशीलवतीम् , कन्यावेदिनो जामातरो बुद्धिरूपलक्षण- संपन्नाः । पशवः क्षुद्रा अजादयः, सत्सुता सन्मार्गवर्तिनः, द्यूतं द्यूतविजयः, कृषिः कृषिफलम् , वाणिज्या वाणिज्यलाभः, द्विशफा गवादयः, एकशफा अश्वादयः, ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं १. आनन्त्यफलं । २. पशून्मुख्यान्सुतानपि । ३. कृषिं च वाणिज्यं द्विशफैकशफांस्तथा । ४. सन्मार्गाः ।

१२४ याज्ञवल्क्यस्मृतिः

तद्वन्तः, स्वर्णरूप्ये हेमरजते, तद्व्यतिरिक्तं त्रपुसीसकादि कुप्यकम्, ज्ञाति- श्रैष्ठ्यं जातिषूत्कृष्टत्वम्, सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्वादयः, एतानि कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशीवर्जितासु चतुर्दशसु तिथिषु श्राद्धदो यथाक्रममाप्नोति। ये केचन शस्त्रहतास्तेभ्यः कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्यात्, यदि ब्राह्मणा- दिहता न भवन्ति; 'समत्वमागतस्यापि पितुः शस्त्रहतस्य वै। एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये ॥' इति स्मरणात्। समत्वमागतस्य सपिण्डीकृतस्य पितुर्महालये भाद्रपदकृष्णचतुर्दश्यां शस्त्रहतस्यैव श्राद्धं नान्यस्येति नियम्यते, न पुनः शस्त्रहतस्य चतुर्दश्यामेवेति। अतश्च क्षयाहादौ शस्त्रहतस्यापि यथा प्राप्तमेव श्राद्धम्। नच भाद्रपदकृष्णपक्ष एवायं विधिरिति मन्तव्यम्; 'प्रौष्ठ पद्यामपरपक्षे मासि मासि चैवम्' इति शौनकस्मरणात् ॥ २६२-२६४ ॥ भाषा-( रूपलक्षणशीलवती ) कन्या; योग्य जामाता, पशु, सदाचारी पुत्र, जुए में विजय, उत्तम फसल, वाणिज्य में लाभ, दो खुर वाले गाय आदि और एक खुर वाले अश्वादि पशु, वेदाध्ययन से तेजस्वी पुत्र, सोना, चांदी, तांबा, सीसा, जाति में प्रतिष्ठा और सभी इच्छाओं को श्राद्ध देने वाला व्यक्ति सदैव प्राप्त करता है। केवल एक चतुर्दशी को छोड़कर प्रतिपद आदि सभी तिथियों को श्राद्ध कर सकता है। जो लोग शस्त्र से मारे गये होते हैं उन्हीं के लिए इस दिन (चतुर्दशी को) श्राद्ध किया जाता है ॥ २६२-२६४ ॥ नक्षत्रविशेषफलविशेषमाह- स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा। पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां १शुभम् ॥२६५॥ प्रवृत्तचक्रतां चैव वाणिज्यप्रभतीनपि । अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ २६६ ॥ धनं ३वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ २६७ ॥ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः ४श्रद्दधानश्च व्यपेतमदमत्सरः ॥ २६८ ॥ कृत्तिकामादिं कृत्वा भरण्यंतं प्रतिनक्षत्रं यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीनायुःपर्यन्तान्कामानवाप्नोति, यश्चास्तिकः श्रद्दधानश्चेत् व्यपेतमद- मत्सरो भवति। आस्तिको विश्वासवान्, श्रद्दधान आदरातिशययुक्तः, व्यपेत-

१. ससौभाग्यं सुसौभाग्यं। २. सुतान्। ३. विद्यां। ४. श्रद्दधान- श्चेत् श्वाप्यपेतमदमत्सरः ।

आचाराध्यायः १२५ मदमत्सरः मदो गर्वः, मत्सर ईर्ष्या, ताभ्यां रहितः । स्वर्गं निरतिशयसुखम् । अपत्यमविशेषेण । ओज आत्मशक्त्यतिशयः । शौर्यं निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरम् , पुत्रो गुणवान् , श्रेष्ठ्यं जातिषु, सौभाग्यं जनप्रियता । समृद्धिर्धनादेः, मुख्यता अग्रयता, शुभं सामान्येन, प्रवृत्तचक्रता अप्रतिहताज्ञता, वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः, अरोगित्वं अनामययोगित्वम् , यशः प्रख्यातिः, वीतशोकता इष्टवियोगादिजनितदुःखाभावः, परमा गति- र्ब्रह्मलोकप्राप्तिः, धनं सुवर्णादि, वेदा ऋग्वेदादयः, भिषक्सिद्धिरौषधफलावाप्तिः, कुप्यं सुवर्णरजतव्यतिरिक्तं ताम्रादि, गावः प्रसिद्धाः, अजाश्च अवयश्च अश्वाश्च, आयुर्दीर्घजीवनम् ॥ २६५-२६८ ॥ भाषा—स्वर्ग, सन्तान ( पुत्र ), शक्ति, निर्भयत्व, उर्वर खेत, शारीरिक बल, गुणवान् पुत्र, जाति में प्रधानता, जनप्रियता, धनादि समृद्धि, नेतृत्व, सामान्य सुख, अजेयता, यश, शोकनाश, ब्रह्मलोक में परमपद, धन, वेदज्ञान, औषधि की सिद्धि ताम्रादि द्रव्य, गौवें, बकरे, भेंड़े, अश्व और दीर्घजीवन, इन सभी फलों को कृत्तिका से आरम्भ करके भरणी तक प्रत्येक नक्षत्र में श्रद्धापूर्वक एवं मानमत्सर छोड़कर विधिपूर्वक श्राद्ध देने वाला व्यक्ति प्राप्त कर लेता है ॥ २६५-२६८ ॥ 'मासवृद्धयाभितृप्यन्ति दत्तैरिह पितामहाः' ( आ० २५९) इत्यनेन पितॄणां श्राद्धेन तृप्तिर्भवतीत्युक्त,-तदनुपपन्नम् ; प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दत्तैरन्नपानादिभिस्तृप्त्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह— वसुरुद्रादितिसुता पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄञ्श्राद्धेन तर्पिताः ॥ २६९ ॥ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ २७० ॥ नह्यत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर्न शरीरमात्रं, नाप्या- त्ममात्रं, किंतु शरीरविशिष्टा आत्मान उच्यन्ते, एवमधिष्ठातृदेवतासहिता एव देवदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्ठातृदेवता वस्वाद्यः पुत्रादिभिर्द- त्तेनान्नपानादिना तृप्ताः सन्तस्तानापि देवदत्तादींस्तर्पयन्ति कर्तॄंश्च पुत्रादीन्फनले १. स्वर्गोऽतिशयसुखं । २. अनामयित्वं । ३. शुभाशुभफलकर्मविशे- षेण । ४. श्राद्धेषु । ५. नॄणां प्रीताः ।