भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

अथवा पिण्याकं¹ पिण्डितं त्रिसमा वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणा- स्तन्दुलेल²वास्तान्वा पूर्ववद्भक्षयेत् ।- एतच्च सकृदेव कार्यम् ; 'कणान्वा भक्ष- येदब्दं पिण्याकं वा सकृन्निशि' ( ११।९२ ) इति मनुस्मरणात् । अस्य च पिण्या- कादिभक्षणस्य भोजनकार्ये विहितत्वादशनान्तरपरित्यागः । एतच्चोदकबुद्ध्या सुरा- पाने छर्द्दनोत्तरकाले वेदितव्यम् ; 'एतदेव व्रतं कुर्यान्मद्यपश्छर्द्दने कृते । पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥' इति व्यासवचनात् । नच सुरासंसृष्टेषूद- पलब्धमानतद्गन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुरात्वस्या- नपायात् । यथाऽऽज्यत्वस्य पृषदाज्ये । अत एव 'आज्यपा इति निगमाः कार्याः न पृषदाज्यपाः' इत्येवमुक्तं न्यायविद्भिः । यत्पुनरापस्तम्बवचनम् ( १।२५ )- 'स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मित- भोजनोऽभ्युपेयात्सवनानुपशं स्थानासनाभ्यां विहरंस्त्रिभिर्वर्षैः पापं व्यपनुदति' इति । यच्चाङ्गिरोवचनम्- 'महापातकसंयुक्ता वर्षैः शुद्ध्यन्ति ते त्रिभिः' इति, तदुभयमपि 'पिण्याकं वा कणान्वा' इत्यनेनै कविषयम् । यदपि यमेन प्रायश्चित्तद्वय- मुक्तम् - 'बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पूतः । समत्वं ब्राह्मणैर्गच्छेदिष्ट्येषा वैदिकी श्रुतिः ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिबेत्तां तु संस्कृतः स विशुद्ध्यति ॥' इति, -तदुभयमपि पूर्वेण सहैकविषयम् । यद्वा अतिरिक्तदक्षिणाकतृत्वाश्रयणाद् द्वादशवार्षिकेन सह विकल्पते । अत्रापि बालवृद्धादीनां सार्धैकवर्षीयमनुपनीतानां तु नवमासिकमित्येवं कल्पना कार्या । यत्तु मनुवचनम् ( ११।९२ )- 'कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी ॥' इति, -तत्तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् । ननु च द्रवद्रव्यस्याभ्यवहरणं पानमित्युच्यते । अभ्यव- हरणं च कण्ठादधोनयनं न तालुवादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् ? उच्यते- येन तालुवादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महा- पातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूतान्यभिचारिताल्वादिसंयोगस्यापि प्रति- षिद्धत्वेन दोषस्य विद्यमानत्वादङ्गावस्थेव प्रायश्चित्तम् ।- 'चरेद् व्रतमहत्त्वाऽपि घातार्थं चेत्समागतः' इति । यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेरपि प्रति- षिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम् - 'त्रैमासिकममत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनरुपंनयनम्' इति; यच्च याम्यम् - 'सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्चान्द्रायणं चरेत् ॥' इति; यदपि बार्हस्पत्यम् - 'गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । १. पिण्याकपिण्डान् । २. तंदुलानवस्तान्वा । ३४ या०

तत्कृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥' इति,–तत्तितयमप्यनन्यौषधसाध्य- व्याध्युपशमार्थे पाने वेदितव्यम्; प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेवान्नं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः ( ११।१५० )— 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥' इति । यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात्—'सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति । यत्तु बौधायनीयम् (२।१।२१)—'सुरापानस्य यो भाण्डेऽष्वापः पर्युषिताः पिबेत् । शङ्ख- पुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत्त्र्यहम् ॥' इति,–तत्पर्युषितत्वादधिकम् । अकाम- तोऽभ्यासे पुनर्मुनुनोक्तम् ( ११।१४७ )—'अपः सुराभाजनस्था मद्यभाण्ड- स्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः ॥' इति; यत्तु विष्णूक्तम् ( ५२।२३ )–'अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति,–तन्मतिपूर्वकपाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह—'सुराभाण्डे स्थितं तोयं यदि कश्चित्पिबेद्द्विजः । स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । सुरापस्य मुखगन्धघ्राणे तु मानवम् ( ११।१४९ )—'ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥' इति,– तत्सोमयाजिन एवामतिपूर्वे; मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम्; साक्षात्सुरागन्धघ्राणस्य तु 'जातिभ्रंशकरेषु यत्' इति जातिभ्रंशकरत्वात्—'जाति- भ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' ( ११।१२४ ) इति मनूक्तं द्रष्टव्यम् ॥ २५४ ॥

भाषा—अथवा बकरा आदि के बाल से बना हुआ वस्त्र धारण कर एवं जटा रख के ब्रह्महत्या के लिए विहित व्रते करे । अथवा तीन वर्ष तक केवल रात्रि को पिण्याक (पिण्डी) या कण को भोजन करे ॥ २५४ ॥

एवं मुख्यसुरापाने प्रायश्चित्तमुक्तवा मद्यपाने प्रायश्चित्तमाह— अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५५ ॥

यः पुनरज्ञानादुदकबुद्धया सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयोऽपि द्विजातयो वर्णास्तत्तत्कृच्छ्रपूर्वकं पुनरुप- नयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनः संस्कारः स ब्राह्मणस्यैव; क्षत्रियविशोस्तदम्यनुज्ञानस्य दर्शितत्वात् । 'सुरा'शब्दश्चात्र मद्यपरः; प्रायश्चित्त- स्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अत


१ अज्ञानाद्दारुणीं पीत्वा ।

प्रायश्चित्ताध्यायः ५३३ एव गौतमेनात्र मद्यशब्दः प्रयुक्तः ( २३।२ )—'अमत्या मद्यपाने पयो घृत- मुदकं वा त्र्यहं तप्तानि पिबेत्स तप्तकृच्छ्रस्ततोऽस्य संस्कारो मूत्रपुरीषकुणपरेतसां प्राशने च'इति । यदप्यस्मिन्नेव विषये मनुनोक्तम् (११।१४६)—'अज्ञानाद्वारुणीं पीत्वा संस्कारेण विशुद्ध्यति' इति, -तदपि तप्तकृच्छ्रपूर्वकमेव गौतमवाक्यानुरो- धात् । पुनःसंस्कारश्च पुनरुपनयनम् । तच्चाश्वलायनोक्तक्रमेण कर्तव्यम् । यथो- क्तम्—'अथोपेत्तपूर्वस्य कृताकृतं केशवपनं मेधाजननं चानिरुक्तं परिदानं कालश्च तत्सवितुर्वृणीमह इति सावित्रीम्' इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्— 'मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनः संस्का- रश्च' इति । चान्द्रायणं वा शङ्खोक्तम्—'असुरामद्यपायी चान्द्रायणं चरेत्' इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम्—'अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा षड्रात्रेण विशुद्ध्यति ॥' इति ।-एतच्च तालादि- मद्यविषयम् । गौडीमाध्व्योः पुनरज्ञानतः पाने 'असुरायाः सुरायाश्चाज्ञानतः' इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनः संस्कारो घृतप्राशश्च द्रष्टव्यः । तयोर्मतिपूर्व- पाने तु 'पिण्याकं वा कणान्वा' (प्रा० २५४) इति त्रैवार्षिकम् । कामतस्तु तत्पाना- भ्यासे 'अभ्यासे तु सुराया अग्निवर्णां सुरां पिबेन्मरणात्पूतो भवति' इति वासिष्ठं मरणान्तिकं द्रष्टव्यम् । नात्र 'सुरा' शब्दः पैष्ट्यभिप्रायः; तस्याः सकृत्पानेऽपि मर- णान्तिकस्य दर्शितत्वात् । मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमे- नोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । कुशमूलविपक्वेन त्र्यहं क्षीरेण वर्तयेत् ॥' इति । अज्ञानतोऽभ्यासे तु वसिष्ठेनोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥ एतेषा- मुदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥' इति । ज्ञानतः पाने तु विष्णूक्तम्—'मद्य- भाण्डस्थितं तोयं पीत्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति । ज्ञानतोऽभ्यासे तु शङ्खेनोक्तम्—'मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्' इति । अत्यन्ताभ्यासे तु हारीतोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । एषु च वाक्येषु 'द्विज'ग्रहणं ब्राह्मणाभिप्रायम् ; क्षत्रियवैश्ययोरप्रतिषेधादिति दर्शितं प्राक् । इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं गुरुत्वात्प्रायश्चित्तस्य । तालादिमद्यभाण्डो- दकपाने तु कल्प्यम् ॥ २५५ ॥ भाषा—अज्ञान से सुरा, वीर्य, विष्ठा या मूत्र पीने पर तीनों द्विजाति वर्ण पुनः संस्कार करने योग्य हो जाते हैं । ( सुरापान में पुनः संस्कार केवल ब्राह्मण का ही होता है ) ॥ २५५ ॥

५३४ याज्ञवल्क्यस्मृतिः द्विजातिभार्यायां प्रत्याह— पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ २५६ ॥ या द्विजातिभार्या सुरां पिबति सा कृतपुण्याऽपि सती पतिलोकं न याति किंत्विहैव लोके श्वगृध्रसूकरलचितां तिर्यग्योनिं क्रमेण प्राप्नोति । 'ब्राह्मणी' ग्रहणं चात्र 'तिस्रो वर्णानुपूर्व्येण' ( आ० ५७ ) इति न्यायेन यस्य द्विजातेर्यास्त्य्रो भार्यास्तासामुपलक्षणम् । अत एव मनुः—'पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । पतिताधंशरीरस्य निष्कृतिर्न विधीयते ॥' इति । धर्मार्थकामेषु सहाधि- काराद्दम्पत्योरेकशरीरत्वमेव, अतो यस्य द्विजातेर्भार्या सुरां पिबति तस्य भार्या- रूपमर्धं शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर्न विधी- यते । तस्माद् द्विजातिभार्याया ब्राह्मण्याद्यया न सुरा पेया । 'तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्' इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणा- मपि प्रतिषेधे सिद्धे पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेध- प्राध्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् ; शूद्र- भार्यायास्तु शूद्रायाः शूद्रवदेव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धमित्युक्तं प्राक् ॥ २५६ ॥ भाषा—जो ब्राह्मणी स्त्री सुरापान करती है वह पतिलोक नहीं प्राप्त करती है; वह इसी लोक में कुतिया, गिद्धनी और सूकरी होकर जन्म लेती है ॥२५६॥ इति सुरापानप्रायश्चित्तप्रकरणम् । क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तमाह— ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् । स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥ २५७ ॥ ब्राह्मणस्वामिकं सुवर्णं योऽपहरत्यसौ सुवर्णस्तेयं मया कृतमित्येवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात्तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । 'अपहरण'शब्देन च समक्षं परोक्षं वा बलाच्चौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणमुच्यते । 'मुसलं समर्पयेत्'इति यद्यपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्या- योमयादेर्ग्रह्णम् । अत एव मनुनोक्तम् (८।३१५)—स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् । अंसि चोभयतस्तीक्ष्णमायसं दण्डमेव वा ॥' इति । शङ्खेना- प्यत्र विशेष उक्तः ( ११।१०० )—'सुवर्णस्तेनः प्रकीर्णकेश आईवासा आयसं १. शक्ति चोभयतस्तीक्ष्णामा ।

मुसलमादाय राजानमुपतिष्ठेत् 'इदं मया पापं कृतमनेन मुसलेन मां घातयस्व' इति स राज्ञा शिष्टः सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव कार्यम् । अत एव मनुनोक्तम् ( ११।१०० ) — 'ततो मुसलमादाय सकृद्ध- न्यात्तु तं स्वयम्' इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्धयेत् , मुक्तो वा मरणाजीवन्नपि विशुद्ध्येदिति यावत् । तथा च संवर्तेनोक्तम्—'ततो मुसल- मादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुद्ध्यति ॥' इति ॥ यथोक्तं ब्राह्मणवधे — 'मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति' इति । नन्वताडित एव राज्ञा मुक्तः स्तेनः शुद्धयेदित्ययमर्थः कस्मान्नोच्यते ? उच्यते,— 'अनघ्नन्नेनस्वी राजा' इति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् । भवतु राज्ञो दोषस्तथाप्यतिक्रान्तनिषेधेन राज्ञा स्नेहादिना मुक्तः स्तेनः कथं न शुद्धयेदिति चेत् ,—उच्यते — एवं च सति अकारणिका शुद्धिरापतेत् । अथो- च्यते—मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्ठानेन शुद्धयङ्गीकरणान्नाकारणिकेति,— तदप्यसुन्दरम् ; मुक्तः 'शुचिः' इति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाजीवन्नपि विशुद्ध्येदिति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषाद्यनुपादानात् क्षत्रियादीनां च महापात कित्वाविशेषात्प्राय- श्चित्तान्तरस्यानाम्नानाच्च । यत्पुनर्मानवे ( ११।९९ ) — 'सुवर्णस्तेयकृद्विप्रः' इति 'विप्र'ग्रहणं तन्नरमात्रोपलक्षणम् । 'प्रायश्चित्तीयते नर' इति तस्यैव प्रकृ- तत्वात् , 'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' ( मनुः ११।५४ ) इति निमित्तवाक्ये विशेषाद्यनुपादानाच्च । तत्सापेक्षनैमित्तिकवाक्ये 'सुवर्णस्तेयकृ- द्विप्रः' ( ११।९९ ) इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथा 'अभ्युदिते- ष्ट्यां यस्य हविः'इति वाक्ये 'तन्दुल'ग्रहणं हविर्मात्रस्य । इदं च राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य ; 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' ( ८ ३८० ) इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तनिषेधे राज्ञा हन्यते तथाऽपि शुद्धो भवति; 'वधेन शुद्ध्यति स्तेनो ब्राह्मणस्तपसैव वा' (मनुः ११।१०० ) इति ब्राह्मणस्यापि वधेन शुद्ध्यभिधानात् । नच 'तपसैव वा' इत्येवकारेण वधनिषेधः; तस्य केवलतपसाऽपि शुद्ध्यभिधानपरत्वात् । यदि वधो निषिद्धस्तर्हि 'तपसैव वा' इति विकल्पाभिधानमनुपपन्नम् । नच दण्डा- भिप्रायं विकल्पाभिधानम् ; तस्यानिर्दिष्टत्वात् । किंच 'एकार्थास्तु विकल्पेरन्' इति न्यायेनैकार्थानामेव विकल्पो व्रीहियवयोरिव । नच दण्डतपसोरेकार्थत्वम् ; दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच 'वधेन शुद्ध्यति स्तेन' इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः । नहि भवति 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय च'

५३६ याज्ञवल्क्यस्मृतिः

इति विकल्पस्तस्माद् द्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न निषेधः ; मनुना—‘सुवर्णस्तेयकृद्विप्र' ( ११।९९ ) इत्यभिधाय—‘गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।' ( ११।१०० ) इति सर्वनाम्ना प्रकृ- तब्राह्मणपरामर्शेनैव हननविधानात्—‘न जातु ब्राह्मणं हन्यात्' इत्यस्य प्राय- श्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्युपपत्तेः ।—एतच्च मरणान्तिकं मति- पूर्वसुवर्णस्तेयविषयम् । ‘मरणान्तिकं हि यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । यत्तु कामकृते पापे विज्ञेयं नात्र संशयः ॥' इति मध्यमाङ्गिरःस्मरणात् । अत्र च ‘सुवर्ण'शब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः । 'जाल- सूर्यमरीचिस्थं त्रसरेणु रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरस्तु ते त्रयः षड्भिर्यवो माषस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥' इति षोडशमाषपरिमिते हेमनि ‘सुवर्ण'शब्दस्य परिभा- षितत्वात् । अतो ‘ब्राह्मणसुवर्णापहरणं महापातकम्' इत्यादिप्रयोगेषु कृतपरि- माणस्यैव सुवर्णस्य ग्रहणं युक्तम् ; परिमाणकरणस्य दृष्टार्थत्वात् । न ह्यदृ- ष्टार्थंपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम् ; अतत्परत्वात्स्मृतिकार- प्रवृत्तेः । अत एवोक्तं न्यायविद्भिः—‘कार्यकाले संज्ञापरिभाषयो रुपस्थानम्' इति । तथा नामानि गुणफलोपबन्धेनार्थवदित्युकतं 'पञ्चदशान्येउक्थ्यानि' इत्यत्र । नच दण्डमात्रोपयोगिपरिमाणस्मरणमित्युक्तमिति युक्तम् ; तावन्मात्रार्थत्वे प्रमाणाभावात् । अतोऽविशेषात्सर्वशेषत्वमेव युक्तम् । किंच, दण्डस्य दमना- र्थत्वादमनस्य च परिमाणविशेषमन्तरेणापि सिद्धेर्नातीव परिमाणस्मरणमु- पयुज्यते । शब्दैकसमधिगम्ये तु महापातकितादावेकान्ततः स्मरणमुपयु- ज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्नि- मित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रि- यादिहेमहरणवदुपपातकमेवेति युक्तम् । किंच, सुवर्णान्न्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात्तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तमिति युक्तम् । तथा चोक्तं षट्त्रिंशन्मते—'वालाग्रमात्रेऽपहृते प्राणायामं समाचरेत् । लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥ राजसर्षपमात्रे तु प्राणायामचतुष्ट- यम् । गायत्र्यष्टसहस्रं च जपेत्पापविशुद्धये ॥ गौरसर्षपमात्रे च सावित्रीं वै दिनं जपेत् । यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥ सुवर्णकृष्णलं ह्येकमपहृत्य द्विजोत्तमः । कुर्यात्सान्तपनं कृच्छ्रं तत्पापस्यापनुत्तये ॥ अपहृत्य सुवर्णस्य माष- मात्रं १द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासैर्विशुध्यति ॥ सुवर्णस्यापहरणे वत्सरं यावकी भवेत् । ऊर्ध्वं प्राणान्तिकं ज्ञेयमथवा ब्रह्महव्रतम् ॥' इदं च वत्सरं यावकान्नं किंचिन्न्यूनसुवर्णापहारविषयम् ; सुवर्णापहारे मन्वादिमहा-

१. द्विजाधमः ।

स्मृतिषु द्वादशवार्षिकविधानात् । 'बलाद्ये कामकारेण गृह्णन्ति स्वं नराधमाः । तेषां तु बलहर्तृ णां प्राणान्तिकमिहोच्यते ॥' सुवर्णपरिमाणादर्वागपीत्यभि- प्रेतम् । इदं च स्तेयप्रायश्चित्तमपहृतधनं तत्स्वामिने दत्त्वैव कार्यम् । 'स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः। स्वामिनेऽपहृतं देयं हर्न्रा त्वेकादशाधि- कम् ॥' इति स्मरणात् । तथा—'चरेत्सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये' ( ११ । १६४ ) इति मनुस्मरणाच्च । दण्डप्रकरणेऽप्युक्तम्—'शेषेष्वेका- दशगुणं दाप्यस्तस्य च तद्धनम् ।' इति । यद्वाऽप्यशक्त्या राजा हन्तुमसमर्थस्तदा वसिष्ठोक्तं द्रष्टव्यम्—'स्तेनः प्रकीर्णकेशो राजानमभियाचेत् । ततस्तस्मै राजौ- दुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेत् मरणात्पूतो भवतीति विज्ञायते' इति । औदुम्बरं ताम्रमयम् । यदपि द्वितीयं प्रायश्चित्तं तेनोक्तम्—'निष्कालको गोघृ- ताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन्मरणात्पूतो भवतीति विज्ञा- यते' इति,–तदपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृ- विषयं वा । तत्र 'निष्कालक' इति निर्गतकेशश्मश्रुलोमाभिधीयते, तथाश्व- मेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकमभिधायोक्तम् — 'इष्ट्वा वाऽश्व- मेधेन गोसवेन वा विशुद्धयेत्' इति ।- एतच्च विट्क्षत्रियाद्यपहर्तृविषयम् ॥ २५७ ॥ भाषा- ब्राह्मण का सोना चुराने वाला अपने कर्म को बतलाते हुए राजा के हाथ में मूसल दे; राजा द्वारा ( मूसल से ) मारे जाने पर अथवा मुक्त कर दिये जाने पर भी वह शुद्ध हो जाता है ॥ २५७ ॥ प्रायश्चित्तान्तरमाह- अनिवेद्य नृपे शुद्धयेत्सुरापव्रतमाचरन् । आत्मतुल्यं सुवर्णं वा दद्याद्धां विप्रतुष्टिकृत् ॥ २५८ ॥ स्वीयं स्तेयं राजन्यनिवेद्य सुरापव्रतं द्वादशवार्षिकमाचरन् शुद्धयेत् । शवशिरोध्वजे तत्कपालधारणनिराकरणार्थं सुरापव्रतमित्युक्तम् ।-एतच्चाकामकार- विषयम् ; 'इयं विशुद्धिरुदिता प्रमाप्याकामतौ द्विजम्' (मनुः ११।८९) —इत्य- कामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । नन्वकामतोग्राार एव न संभवतीति कथं तद्विषयत्वम् ? उच्यते, - यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकम- ज्ञानादपहरति रजतादिद्रव्यान्तरबुद्धया वा हत्वाऽनन्तरमेवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्येवाकामतोग्राारः । यस्तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम् । मुख्यजातिसमवायाभावात् । नच मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्यपीदृशमेवासुवर्णं सुवर्णभ्रान्त्यापहरति, तथाऽपि नेदं प्रायश्चित्तम् । असुवर्णा- १. तन्निर्याप्यात्मशुद्धये । २. द्वै विप्रतुष्टिदम् ।

५३८ याज्ञवल्क्यस्मृतिः

पहारित्वादेव । न च 'सृष्टश्चेद् ब्राह्मणवधे अहत्वाऽपी'तिवदत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वादेव । न ह्यब्राह्मणः सृष्टश्चेदित्यस्य विषयः । यच्चेदं 'मनसा पापं ध्यात्वा प्रणवपूर्वकं व्याहतीर्मनसा जपेत् । व्याहृत्या प्राणायामं त्रिराच- रेत् । प्रवृत्तौ कृच्छ्रं द्वादशरात्रं चरेत्' इति,-तदपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशमज्ञानतः स्वर्णापहारः प्रायश्चित्तस्य निमित्तं, किंतु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्नेव विषये यदाऽपहर्ताऽत्यन्तमहाधनः तदात्म- तुलितं सुवर्णं दद्यात् । अथ तावद्धनं नास्ति तपश्चर्यायां चाशक्तस्तदा विप्र- तुष्टिकृद्विप्रस्य यात्रजीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिकं द्रव्यमपहरति, तदा 'एतदेव व्रतं स्तेनः पादन्यूनं समाचरेत्' इति व्यासेनोक्तं नववार्षिकं द्रष्टव्यम् । यदा पुनरीदृशमेव क्षुत्क्षामकुटुम्ब- परिरक्षणार्थमपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं 'स्वर्जिदादि वा क्रतुं कुर्या- त्तीर्थयात्रां वा', 'षडब्दं वाऽचरेत्कृच्छ्रं यजेद्वा क्रतुना द्विजः । तीर्थानि वा भ्रम- न्विद्वांस्ततः स्तेयाद्विमुच्यते ॥' इति । यदा त्वपहारसमनन्तरमेव हा कष्टं मया कृतमिति जातानुतापः प्रत्यर्पयति त्यजति वा तदापस्तम्बीयं चतुर्थकाल- मिताशनेन त्रिवर्षमवस्थानमाग्निरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् । ननु प्रत्यर्पणे त्यागे वाऽपहारधात्वर्थस्य निष्पन्नत्वात्कथं प्रायश्चित्तापत्त्वम् ? अथा- निष्पन्नस्तदा प्रायश्चित्ताभाव एवं स्यान्नतु प्रायश्चित्ताल्पत्वम्,-मैवम् ; अपहार- स्योपभोगादिफलपर्यन्तत्वादुपभोगात्प्राङ्निवृत्तौ च पुष्कलस्यापहारार्थस्याभावा- द्युक्तमेव प्रायश्चित्ताल्पत्वं पीतवान्त इवापेयद्रव्ये । नन्वेवं सति चौरहस्ता- द्बलादाकृष्य ग्रहणेऽपि तस्योपभोगलक्षणफलाभावात्प्रायश्चित्तापत्वप्रसङ्गः । मैवम् ; तस्य त्यागे स्वतःप्रवृत्त्यभावात्, फलपर्यन्तेऽपहारे स्वतः प्रवृत्तत्वाच्च । यस्तु रजतताम्रादिसंसृष्टसुवर्णपहारी, न तत्रेदं लघुप्रायश्चित्तम्; यतः संसर्गेऽपि सुवर्णत्वं नापैति भाज्यत्वमिव पृथदाज्ये । अतस्तत्र द्वादशवार्षिकमेवेति युक्तम् । अथ सुवर्णसदृशं द्रव्यान्तरमेवेति लघुप्रायश्चित्तमुच्यते । तर्हि न तशं तत्र त्रैवार्षि- कादिलघुप्रायश्चित्तादिविषयता असुवर्णत्वादेव, किंतूपपातकप्रायश्चित्तमेव । यदप्य- परमापस्तम्बोक्तम्-'स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रं सांवत्सरं चरेत्' इति,- तत्सुवर्णपरिमाणादर्वाङ्माषाद्याधिकपरिमाणद्रव्यविषयम् । यत्तूक्तं सुमन्तुना- 'सुवर्णस्तेयी मासं सावित्र्याऽष्टसहस्रमाज्याहुतीर्जुहुयात् । प्रत्यहं त्रिरात्र- मुपवासं तप्तकृच्छ्रेण च पूतो भवति' इति, तत्पूर्वोक्तमाषपरिमाणसुवर्णापहार- प्रायश्चित्तेन सह विकल्प्यते । यदप्यपरं तेनैवोक्तम्-'सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति'इति,-तन्मनसापहारे प्रवृत्तस्य स्वत एवोपरता पजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धह्यादिवल्पवर्धमेव प्रायश्चित्तं वेदितव्यम् । यानि

१. न तद्यंनन्तरम् ।

प्रायश्चित्ताध्यायः ५३६ च 'अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा' इत्यादिना सुवर्णस्तेयसमत्वेन प्रतिपादि- तानि, तेष्वर्धमेव कार्यम् । यत्पुनश्चतुर्विंशतिमतवचनम् - 'रूप्यं हृत्वा द्विजो मोहाच्चरेच्चान्द्रायणव्रतम् । गद्याणदशकादूर्ध्वमाशताद् द्विगुणं चरेत् ॥ आ सह- स्रात्तु त्रिगुणमूर्ध्वं हेमविधिः स्मृतः । सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥ धान्यानां हरणे कृच्छ्रं तिलानामैन्दवं स्मृतम् । रत्नानां हरणे विप्रश्चरेच्चान्द्रा- यणव्रतम् ॥' इति, -तदपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्त- प्रतिपादनार्थं न पुनस्तन्निवृत्त्यर्थम् । यदपि रत्नापहारे चान्द्रायणमुक्तं, तदपि गद्याणसहस्रादीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ २५८॥ भाषा-यदि राजा से निवेदन नहीं करता है तो सुरापान करने वाले महापातकी के लिये विहित व्रत का आचरण करते हुए अपने बराबर या जितने से ब्राह्मण सन्तुष्ट हो जाय उतना सोना दान देनेपर पातक से शुद्ध हो जाता है ॥ २५८ ॥ इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम् । उद्देशक्रमप्राप्तं गुरुतल्पप्रायश्चित्तमाह- तप्तेऽयःशयने सार्धमायस्या योषिता स्वपेत् । गृहीत्वोत्कृत्य वृषणौ नैर्ऋत्यां चोत्सृजेत्तनुम् ॥ २५९ ॥ 'समा वा गुरुतल्पग' (प्रा० २६०) इति वक्ष्यमाणश्लोकगतं गुरुतल्पग- पदमत्र संबध्यते । तप्तेऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते कार्ष्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुप्त्वा तनुं देहम् उत्सृजेत् , म्रियेतेति यावत् । शयनं च 'गुर्वङ्गनागमनं मया कृतम्' इत्येवं स्वकर्म विख्याप्य कुर्यात् ; 'गुरुंस्तल्पमभिभाष्यैनः' ( ११। १०३)-इति मनुस्मरणात् । तथा स्त्रियमालिङ्ग्य कार्यम्-'गुरुतल्पगो मृन्मयीमायसीं वा स्त्रियः प्रतिकृतिमग्निवर्णां कृत्वा कार्ष्णायसशयने ( अयो- मय्या स्त्रीप्रतिकृत्या कृत्वा) तामालिङ्ग्य पूतो भवति' इति वृद्धहारीतस्मरणात् । तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम् - 'निष्कालको घृताभ्यक्तस्तप्तां तां सूर्मीं मृन्मयीं वा परिष्वज्य मरणात्पूतो भवतीति विज्ञायते' इति वसिष्ठ- स्मरणात् । न च ( ११।१०३ ) - 'गुरुतल्पमभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुद्ध्यति ॥' इति मनुवाक्यानुरोधेन तप्तलोहशयनं तप्तलोहयोषिदालिङ्गनं च निरपेक्षप्रायश्चित्तद्वयमित्याशङ्कनीयम् । आयस्या योषिता स्वपेत् । कुत्रेत्याकाङ्क्षायां तप्तेऽयःशयन इति परस्परसापेक्ष- १. लोभात् । २. गुरुतल्पगमन । ३. सुप्यादायस्या । ४. तप्तपोऽभि- भाष्यैनः ।

५४० याज्ञवल्क्यस्मृतिः तयैकत्वावगमादेककल्परवमेव युक्तम् । अथवा वृषणौ सलिङ्गौ स्वयमुत्कृत्य छित्त्वाऽञ्जलिना गृहीत्वा नैऋत्यां दक्षिणप्रतीच्यां दिशि देहपातान्तमकुटिलग- तिर्गत्वा तनुमुत्सृजेत् । तथाह मनुः ( ११।१०४)-'स्वयं वा शिश्नवृषणा- वुत्कृत्याधाय चाञ्जलौ । नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥' इति । गमनं पृष्ठतोऽनीक्षमाणेण कर्तव्यम् ; 'क्षुरेण शिश्नवृषणावुत्कृत्यानवेक्षमाणो ब्रजेत्' इति शङ्खलिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते तत्रैव मरणान्तं तिष्ठेत् । 'सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणाभिमुखो गच्छेद्यूत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयात्' ( २०।१३) इति वसिष्ठस्मरणात् । दण्डोऽप्यत्रायमेव । यथाह नारदः ( १२।७५) - 'आसामन्यतमां गच्छन्गुरु- तल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' एवं दण्डार्थमपि लिङ्गाद्युत्कर्तनं पापक्षयार्थमपि भवति । इदमेव मरणान्तिकदण्डम- भिप्रेत्योक्तं मनुना ( ११।३१८) - 'राजभिर्धतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥' इति । धनदण्डेन पुनः प्रायश्चित्तं भवत्येव ; 'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्ख्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥' ( ९।२४० ) इति तेनैवोक्तत्वात् । अनयोश्च मरणान्तिकयोरन्यतरानुष्ठानेन गुरुतल्पगः शुद्ध्येत् । 'गुरु'शब्दश्चात्र मुख्यया वृत्त्या पितरि वर्तते ; 'निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥' ( २।१४२ ) इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर्जनकस्यैव गुरुत्वाभिधानात् । योगेश्वरेण च निषेकादिक- र्माभिप्रायेणोक्तम् । 'स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति' ( आ० ३४ ) इति । ननु 'गुरु'शब्दस्यान्यत्रापि प्रयोगो दृश्यते । 'उषनीय गुरुः शिष्यम्' इत्या- दिनाचार्ये ( मनुः २।१४९ ) - 'स्वल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात्' इत्युपाध्याये । व्यासेनाप्यन्यत्र प्रयोगो दर्शितः- 'गुरवो मातृपितृपत्न्याचार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्नदाता च' इति । न- चानेकार्थकल्पनादोषः, 'गुरु'शब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रा- नुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण ( आ० ३५ ) - 'एते मान्या यथापूर्वमेभ्यो माता गरीयसी' इति 'मान्या' इत्युपक्रम्य 'गरीयसी' इत्युपसंहारं कुर्वता । नच 'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता' ( मनुः २।१४५) इत्युपाध्यायादधिकाचार्यात्पितुरतिशयितत्त्ववचनात्स एव मुख्य इति वाच्यम् ; आचार्येऽप्यतिशयितत्वस्याविशिष्टत्वात् । 'उत्पादकबहादा- त्रोर्गरीयान्ब्रह्मदः पिता' ( मनुः २।१४६ ) - इति गौतमेनाप्युक्तम् (२।५०)- 'आचार्यः श्रेष्ठो गुरूणाम्' इति । किंच, यद्यतिशयितत्वमात्रेण मुख्यत्वमुच्यते तर्हि 'सहस्रम्' इति वचनान्मातुरेव गुरुत्वं स्यात् । तस्मात्सर्वे गुरवस्तत्पत्नी-

प्रायश्चित्ताध्यायः ५४१ गमनं गुर्वङ्गनागमनमिति युक्तम् । उच्यते,—'निषेकादीनि' ( २।१४२ ) इति मनुवचनं निषेकादिकर्तुर्जनकस्य गुरुत्वप्रतिपादनपरम् ; अनन्यपरत्वात् । यत्पु- नर्व्यासगौतमवचनं, तत्परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान्निषेकादीति मनुवचनात्पितुरेव मुख्यं गुरुत्वमिति स्थितम् । अत एव वसिष्ठेन ( २०।१५ )—'आचार्यपुत्रशिष्यभार्यासु चैवम्' इत्याचार्यदारेष्वातिदेशिकं गुरुतल्पप्रायश्चित्तमुक्तम् । तथा जातूकर्ण्यादि- भिरप्युक्तम्—'आचार्य्यादेस्तु भार्यासु गुरुतल्पव्रतं चरेत्' इत्यादि । आचार्यादेर्मुख्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेरतिदेशोऽनर्थक एव स्यात् । किंच,— संवर्तेन स्पष्टमेव पितृदारग्रहणं कृतम्—'पितृदारान्समारुह्य मातृवर्ज्यं नराधमः' इति । षट्त्रिंशन्मतेऽपि—'पितृभार्यां तु विज्ञाय सवर्णां योऽधि- गच्छति' इति । अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः । तच्च गुरुत्वं वर्णचतुष्टयेऽप्यविशिष्टम् ; निषेकादिकर्तृत्वस्याविशेषात् । अतः—'स विप्रो गुरु- रुच्यते' इति 'विप्र'ग्रहणमुपलक्षणम् । अतः पितृपत्नीगमनमेव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस्ततोऽर्वाङ्निवृत्तौ न महापात- कित्वम् । तत्र चेदं 'तप्तेऽयःशयने सार्धमायस्या' सार्धमायस्या' इत्याद्युक्तं मर- णान्तिकं प्रायश्चित्तद्वयम् ।-तच्च जनन्यामकामकृते, तत्सपत्न्यां तु सवर्णायामु- त्तमवर्णायां कामकृते द्रष्टव्यम् । 'पितृभार्यां तु विज्ञाय सवर्णां योऽधिगच्छति । जननीं चाप्यविज्ञाय नामृतः शुद्धिमाप्नुयात् ॥' इति षट्त्रिंशन्मतेऽभिधानात् । जनन्यां तु कामकृते वासिष्ठं 'निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्या- त्मानमवदाहयेत्' इति द्रष्टव्यम् । अकामतोऽभ्यासेऽप्येतदेव । ननु च 'मातुः- सपत्नीं भगिनीमाचार्यतनयां तथा । आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ॥' ( प्रा० २३२ ) इत्यतिदेशाभिधानान्मातृसपत्नीगमने त्वौपदेशिकं प्रायश्चित्तम- युक्तम् । उच्यते,—'पितृभार्यां सवर्णास्' इत्यस्मादेव वचनात्सवर्णग्रहणाद्धीनवर्ण- सपत्नीविषयमिदमातिदेशिकमिति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इत- रेषाम्पुनः पुत्रकार्यकरत्वमेव न पुत्रत्वम् । यथाह मनुः ( ९।१८० )—'क्षेत्र- जादीन्सुतानेतानेकादश यथोचितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनी- षिणः ॥' इति । तत्रोभयेच्छात्तः प्रवृत्तौ 'तप्तेऽयःशयने' इति प्रथमं प्राय- श्चित्तम् । स्वेन प्रोत्साहने तु 'गृहीत्वोत्कृत्य वृषणौ' इति द्वितीयम् ; अनु- बन्धातिशयेन प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोह- शयनज्वलत्सूर्य्यालिङ्गनयोरन्यतरं द्रष्टव्यम् । यत्तु शङ्खेन द्वादशवार्षिकमुक्तम्— 'अधःशायी जटाधारी पर्णमूलफलाशनः । एककालं समश्नीत वर्षे तु द्वादशे गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनैतेन शुद्ध्यन्ति महा- १. गुरुत्वस्येष्टत्वात् । २. समश्नन्वै ।

पातकिनस्त्विमे ॥' इति, - तत्समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तौ षड्वार्षिकम्; अकामतस्तु ° त्रैवार्षिकम् । जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तौ द्वादशवार्षिकम् । अकामतस्तु षड्वार्षिकमिति कल्प्यम् । यत्तु संवर्तेन - 'पितृदारान्समारुह्य मातृ- वञ्च नराधमः' इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः, स हीनवर्णगुरुदारेषु रेतःसेकादर्वाग्द्रष्टव्यः ॥ २५९ ॥ भाषा-गुरु-पत्नी का भोग करने वाला तप्त होकर लाल बनी हुई लोहे की शय्या पर जलती हुई लोहे की स्त्रीमूर्ति के साथ सोवे, अथवा लिङ्ग और अण्डकोष को काटकर हाथ में लेकर नैर्ऋत्य दिशा को चलता-चलता शरीर त्याग दे (तो शुद्ध होता है) ॥ २५९ ॥ प्रायश्चित्तान्तरमाह- प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः । चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ॥ २६० ॥ अथवा प्राजापत्यं कृच्छ्रं वक्ष्यमाणलक्षणं समाः वर्षत्रयं चरेत् । एतच्च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपत्नीं सवर्णां व्यभिचारिणीमबुद्धिपूर्वं गच्छति तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्तावौशनसं-'गुरुतल्पोभिगामी संवत्सरं ब्रह्महव्रतं षण्मासान्वा तप्तकृच्छ्रं चरेत्' इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्कीयं (प्रा० २३२)-'मातुः सपत्नीं भगिनीमाचार्यतनयां तथा'. इति गुरुतल्पव्रतातिदेशा- न्नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति; तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयमेवेति युक्तम् । तत्रैव कामतोऽभ्यासे मरणान्तिकम्; 'मत्या गत्वा पुनर्भार्या गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां रहितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥' इति कण्व- स्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति तदा 'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति याज्ञवल्कीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अत एव स्मृत्यन्तरम्- ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवमन्यवर्णा- स्वपि । अयमर्थः-ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्न्यां गमने पादन्यूनं द्वादश- वार्षिकं, नववार्षिकमिति यावत् । तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम् ; शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तमिति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षि- कम्; शूद्रायां तु षड्वार्षिकम् । एवमेव वैश्यापुत्रस्यापीति; वैश्यायां तु कामतोऽ- १. समाम् ।

प्रायश्चित्ताध्यायः ५४३ भ्यासे मरणान्तिकमेव; 'गुरुभार्यां तु यो वेश्यां मत्वा गच्छेत्पुनः पुनः । लिङ्गाग्रं छेदयित्वा तु ततः शुद्धयेत्स किल्बिषात् ॥' इति लौगाक्षिसमरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम् ; 'पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः । ब्रह्मचर्यमदुष्टात्मा संचरेद् द्वादशाब्दिकम् ॥' इत्युपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकमष्टमकालाश्रनं द्रष्टव्यम् । 'कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदा व्रती । स्थानासनाभ्यां विहरन्निरहोऽभ्युपयन्नपः । अधःशायी त्रिभिर्वर्षैस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकर्ण्योक्तं- 'गुरोः क्षत्रसुतां भार्यां पुनर्गत्वा त्वकामतः । अब्दमात्रं समुत्कृत्य शुद्धयेज्जी- वन्मृतोऽपि वा ॥' इति । वैश्यायां त्वकामतो गमने 'प्राजापत्यं चरेत्कृच्छ्रम्' (प्रा० २६०) इत्येतदेव याज्ञवल्कीयम् । तथा च वृद्धमनुः- 'गमने गुरुभा- र्यायाः पितृभार्यागमे तथा । अब्दद्वयमकामात्तु कृच्छ्रं नित्यं समाचरेत् ॥' इति । तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम् - 'अध्यस्य विप्रो वैश्यायां गुरो- रज्ञानमोहितः । षडङ्गं ब्रह्मचर्यं च स चरेद्यावदायुषम् ॥' इति । गुरुभार्यायां शूद्रायां त्वमतिपूर्वे मानवम् ( ११।१०५ ) - 'खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥' इति । अथवा 'गुरुदा- राभिगामी संवत्सरं कण्टकिनीं शाखां परिष्वज्याधःशायी त्रिषवणी भैक्षाहारः पूतो भवति' इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६ ) - 'चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकादर्वाङ्निवृत्तौ व्याघ्रोक्तम् - 'कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्राति- कृच्छ्रकम् । चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥' इति । अत्रेयं व्यवस्था- तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृच्छ्र- चरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छ्रातिकृच्छ्रानुष्ठानं च तावदेवेति । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्पूर्वं कण्वोक्तं द्रष्टव्यम् - 'चान्द्रायणं तप्तकृच्छ्रप्र- तिकृच्छ्रं तथैव च । सकृद्गत्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥' इति । तथा प्रोत्साहितस्यातिकृच्छ्रः, उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां तु चान्द्रायणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात्पूर्वं निवृत्तौ कण्वोक्तम् - 'तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः । भार्यां वैश्यां सकृद्गत्वा बुद्ध्या मासं चरेद् द्विजः ॥' इति । अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां पराकः, तया प्रोत्साहितस्य सान्तपनम् । अत्रैवाकामतः प्रवृत्तस्य प्रजापतिराह- 'पञ्चरात्रं तु नाश्नीयात्सप्तरात्रौ वा तथैव च । वैश्यां भार्यां गुरोर्गत्वा सकृदज्ञा- नतो द्विजः ॥' इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायामष्टरात्रम् । शूद्रायां तु कामतः प्रवृत्तस्य रेतः सेकात्पूर्वं निवृत्तौ जाबालिराह - 'अतिकृच्छ्रं तप्तकृच्छ्रं पराकं वा तथैव च । गुरोः

५४४ याज्ञवल्क्यस्मृतिः

शूद्रां सकृद्गत्वा बुद्ध्या विप्रः समाचरेत् ॥' इति । तथा प्रोत्साहितस्यातिकृच्छ्रः, उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम् -'प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् । गुरोः शूद्रां सकृद्गत्वा चरेद्विप्रः समाहितः ॥' इति । तया प्रोत्साहितस्य प्राजापत्यम् । उभयोरिच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशाऽन्येषामपि स्मृतिवचसां विषयव्यवस्थोहनीया । पुरुषवच्च स्त्रीणा- मप्यत्र महापातक्त्वमविशिष्टम् । तथा हि कात्यायनः- 'एवं दोषश्च शुद्धिश्च पतितानामुदाहृता । स्त्रीणामपि प्रसक्तानामेष एव विधिः स्मृतः ॥' इति । सतस्तस्या अपि कामतः प्रवृत्तौ मरणान्तिकमविशिष्टम् । अत एव पुरुषस्य मरणान्तिकमुक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम् ( प्रा० २३३ )-'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति । अकामतस्तु मनुनोक्तम्- ( ११।१८८ ) 'एतदेव व्रतं कार्यं योषित्सु पतितास्वपि' इति । द्वादशवार्षिकमे¹वार्थकल्पनया कार्यम् । यानि पुनर्गुरुतल्पसमानि-'सखिभार्या- कुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥' इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि 'पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ॥' इति प्रतिपादितानि,-तेष्वेकरात्रादूर्ध्वमेकाकतो- ऽभ्यस्तेषु यथाक्रमेण षड्‌वार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्नेव विषये कामतोऽत्यन्ताभ्यासे मरणान्तिकम् । तथा च बृहद्यमः-'रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥' इति । अन्त्यजाश्चात्र-'चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस्तथा । मागधा- योगवौ चैव सप्तैतेऽन्त्यावसायिनः ॥' इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । नतु 'रजकश्चर्मकारश्च' इत्यादिप्रतिपादिताः; तेषु लघुप्रायश्चित्तस्योक्तत्वात् । तथा-'चाण्डालास्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥' ( ११।१७५ ) इति चाण्डालादिसाम्यं प्रतिपादयता मनुनाऽपि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथा हि-अज्ञानतश्चण्डा- लीगमनाभ्यासे पतति, अतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽ- त्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधि³कं मरणान्तिकं कुर्यात् ।-एतच्च बहुकालाभ्यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् । तथाह मनुः ( ११।१७८ ) -'यत्करोत्येकरात्रेण वृषलीसेवनाद् द्विजः । तद्भैक्षभुग्ज- पन्नित्यं त्रिभिर्वर्षैरपोहति ॥' इति । अत्र 'वृषली'शब्देन चण्डाल्यभिधीयते- 'चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका । ऊढा या च सगोत्रा-

१. मेवात्र कल्पनया । २. दूर्ध्वं कामतो । ३. धिकारान्मरणा ।

प्रायश्चित्ताध्यायः ५४५

स्याद् वृषल्यः पञ्च कीर्तिताः ॥' इति स्मृत्यन्तरे चण्डालायां 'वृषलो'शब्दप्रयोग- दर्शनात् । बन्धकी स्वैरिणी । कथं पुनरत्राभ्यासावगमः ? उच्यते, -'यत्करोत्ये- करात्रेण' इत्यत्यन्तसंयोगापवर्गवाचिन्यास्तृतीयाया दर्शनात् । एकरात्रेण चात्य- न्तसंयोगो गमनस्याभ्यासं विनाऽनुपपन्न इति गमनाभ्यासोऽवगम्यते । अंत एवैकरात्राङ्गहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मर- णान्तिकं च । यदा पुनर्ज्ञानतोऽज्ञानतो वा चेण्डालाद्याः सकृद्गच्छति तदा 'चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञा- नादैन्दवद्वयम् ॥' इति यमाद्युक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । 'स्वयोनिष्वन्त्यजासु च' इत्येकवाक्यसमभिव्याहाराद्भगिन्यादिष्वपीथ- मेव व्यवस्था वेदितव्या । मरणान्तिकं चात्राग्निप्रवेशनम् । 'जनन्यां च भगिन्यां च स्वसुतायां तथैव च । स्नुषायां गमनं चैव विज्ञेयमतिपातकम् ॥ अतिपात- किनस्त्वेते प्रविशेयुर्हुताशनम् ॥' इति कात्यायनस्मरणात् । जनन्यां सकृद्गमने भगिन्यादिषु चासकृद्गमने अग्निप्रवेश इति द्रष्टव्यम् ; महापातकस्य जननी- गमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वा- योगात् । यत्तु बृहद्यमेनोक्तम्-'चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥ मातुलानीं प्रव्रजितां स्वगोत्रां नृपयोषितम् । शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणं चरेत् ॥' इति; यच्चाङ्गिरोवचनम्-'पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं कुर्वीत चान्द्रायणमथापि वा ॥' इति,-तदुभयमपि गुरुतल्पातिदेशविषयेषु का- मतः प्रवृत्तस्य रेतःसेकादर्वाङ्निवृत्तौ द्रष्टव्यम् ; यदपि संवर्तवचनम्-'भगिनीं मातुराप्तां च स्वसारं चान्यमातृजाम् । एता गत्वा स्त्रियो मोहात्सकृच्छ्रं समाचरेत् ॥' इति,-तदनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकाद- र्वाङ्निवृत्तौ द्रष्टव्यम् । यदा पुनरेता एवात्यन्तव्यभिचारिणीर्गच्छति तदापोदमेव प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रात्मकं क्रमेण कामतोऽकामतश्च प्रवृत्तौ द्रष्टव्यम् ; साधारणस्त्रीषु तु गुरुणोपभुक्तास्वपि गमने गुरुतल्पत्वदोषो नास्ति । 'जात्युक्तं पारदार्यं च कन्यादूषणमेव च । साधारणस्त्रियां नास्ति गुरुतल्पत्वमेव च ॥' इति व्याघ्रस्मरणात् । एवमन्यान्यपि स्मृतिवचनान्युच्चावचप्रायश्चित्तप्रतिपत्ति- पराण्यन्विष्य विषयव्यवस्थोहनीया, ग्रन्थगौरवभयान्न लिख्यन्ते ॥ २६० ॥

**भाषा—**अथवा गुरुपत्नी का भोग करने वाला तीन वर्ष तक प्राजापत्य कृच्छ्र व्रत करे अथवा तीन मास तक वेदसंहिता का जप करता हुआ चान्द्रायण व्रत करे ॥ २६० ॥

इति गुरुतल्पप्रायश्चित्तप्रकरणम् ।


१. चाण्डालाद्याम् ।

२४६ | याज्ञवल्क्यस्मृतिः एवं ब्रह्महादिमहापातकिप्रायश्चित्तमभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तमाह- एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः । एभिः पूर्वोक्तैर्ब्रह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि तत्समः । यो येन सहाचरति सोऽपि तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रा- यश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकत्वातिदेशार्थम् । तस्य 'यश्च तैः सह संवसेत्' (प्रा० २२३) इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यति- देशत्वे कृत्स्नमेव द्वादशवार्षिकं कार्यम्, साक्षान्महापातकिस्वात्संसर्गिणः । 'अपि'- शब्दाच्च केवलं महापातकिसंयोगी तत्समः किन्त्वतिपातकोपपातक्यादीनां मध्ये यो येन सह संसर्गं करोति, सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं कुर्यादिति दर्शयति अत एव मनुना सकलं प्रायश्चित्तजातमध्यायान्तेऽभिधाया- भिहितम् (११।१८१)-'यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥' इति । विष्णुनापि सामान्येनोपपातक्यादेरेनस्वि- मात्रसंसर्गे तत्प्रायश्चित्तभावत्वं दर्शितम्-'पापात्मना येन सह यः संसृज्येत स तस्यैव व्रतं कुर्यात्' इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः (११।१८९)-'एनस्विभिरनिर्णीतैर्नार्थं कंचित्समाचरेत्' इति । तथा-'न संसर्गं भजेत्सद्भिः प्रायश्चित्ते कृते सति' इति च ।- एतच्च द्वादशवार्षिकादिव्रति- तप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्; 'पतितेन सहोषित्वा जानन्संवत्सरं नरः । मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥' इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर्वसिष्ठोक्तम् (१९।४५,४६)-'पतितसंप्रयोगे तु ब्राह्मेण यौनेन वा शौवेन वा यास्तेभ्यः सकाशान्मात्रा उपलभ्येरंस्तासां परित्यागस्तैश्च न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते' इति । तथा-'ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥' इति, तैरिति तृतीया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्ट- यसंसर्गिण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् । ननु महापातकिसंसर्ग एव महापातकित्वे हेतुर्न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभि- चारात् । अतोऽत्र ब्रह्महादिसंसर्गिसंसर्गिणोऽपि महापातकिसंसर्गो विद्यत इति तस्यापि महापातकित्वं स्याच्च न प्रतिषेधः । उच्यते,-स्यादेवं यदि प्रमाणा- न्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तैस्मिन्नैव भवितुमर्हतीति । तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकि- त्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावोऽप्यहेतुः प्राप्यभावादेव ।

१. पातकिस्वा । २. अतिदेशकत्वे । ३. इति सर्वं निरवद्यम् । ४. तैरिति सर्वनाम । ५. तस्मिन्नेव ।

भतः संसर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर्न भवति, प्रायश्चित्तं तु भवत्येव । न च संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तमिति वाच्यम् ; 'एनस्विभि- रनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' ( ११।१८९ ) इति सामान्येनैनस्विमात्रप्रतिषेधेन महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्पातित्याभावेऽपियुक्तमेव प्रायश्चित्तम् । तच्च पादहीनम् ; 'यो येन संवसेद्वर्षं सोऽपि तत्समतामियात् । पादहीनं चरेत्सोऽपि तस्य तस्य व्रतं द्विजः ॥' इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्च- मयोरपि कामतः संसर्गिणोरर्धहीनं त्रिपाद्योनं च द्रष्टव्यम् । अतः साक्षाद् ब्रह्महा- दिसंसर्गीण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् । अत्र च ब्रह्महादिषु यद्यपि कामतो मरणान्तिकमुपदिष्टं तथापि संसर्गिणस्तन्नाति- दिश्यते । 'स तस्यैव व्रतं कुर्यात्' इति व्रतस्यैवातिदेशात् , मरणस्य च 'व्रत' शब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेपि संसर्गे द्वादशवार्षिकमकामतस्तु तदर्थम् । संसर्गश्च स्वनिबन्धनकर्मभेदादनेकधा भिद्यते । यथाह वृद्धबृहस्पतिः- 'एकशय्यासनं पङ्क्तिर्भाण्डं पङ्क्त्यन्नमिश्रणम् । याजनाध्यापने योनिरतथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह ॥' इति । देवलोऽपि- 'संलापस्पर्शनिःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम्॥' इति । एकशय्यासनमेकखट्वावासनमेकपङ्क्तिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन, अध्यापनं तस्य स्वस्य वा तेन, यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः, सहभोजनमेकामन्नभोजनम् , संलापः संभाषणम् , स्पर्शो गात्रसंमर्दः, निःश्वासः पतितमुखवायुसंपर्कः, सहयानमेकतुरगाद्यारोहणम् , एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमित्यपेक्षायां बृहद्विष्णुनोक्तम्- 'संवत्सरेण पतति पतितेन सहाचरन्नेकयानभोजनासनशयने, यौनस्रौवमुख्यैस्तु संबन्धैः सद्य एव' इति । अत्रैकभोजनमेकपङ्क्तिभोजनम् । एकासन्नभोजने तु सद्यःपातित्यम् ; 'याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥' इति देवलस्मरणात् । 'स्रौव'शब्देन याजन- मभिधीयते । 'मुख्य'शब्देन मुखभवत्वेनाध्यापनम् । यौनस्रौवमुख्यैरिति सत्यपि द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्यःपतनहेतुत्वम् ; 'यः पतितैः सह यौनमुख्य- स्रौवानां संबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्' इति सुमन्तुस्मरणात् । एकयानादिचतुष्टयस्य तु समुदितस्यैव पतनहेतुत्वम् ; 'एकया- नभोजनासनशयनैः' इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतन- हेतुत्वाभावेऽपि दोषहेतुत्वमस्त्येव; 'आसनाच्छयनाद्यानात्संभाषात्सहभोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥' इति पराशरवचनेन निरपेक्षा- णामपि पापहेतुत्वावगमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गि- ३५ या०

५४८ याज्ञवल्क्यस्मृतीः

कतया समुच्चितानामेव पतनहेतुत्वं न पृथग्भूतानामल्पत्वात्, पापहेतुत्वं पुनरस्त्येव; 'संलापस्पर्शनिश्वास' इति देवलवचनस्य दर्शितत्वात् । अतः संलापा- दिरहिते सहयानादिचतुष्टये कृते पञ्चमभागेन द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवं च सति एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति योगीश्वरवचनमपि सहयानादिचतुष्टयपरमेव युक्तम् । यतः संलापादीनां पृथक्पा- नित्यहेतुत्वं नास्ति । अत एव मनुना (११।१८०) — 'संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति यानादिचतुष्ट- यस्यैव संवत्सरेण १पातित्यहेतुत्वमुक्तम् । अत्र 'आसन' ग्रहणं शयनस्याप्युपलक्षणम् । अत्र च 'संवत्सरेण पतति पतितेन सहाचरन् ।' 'यानाशनाशनात्' इति व्यवहि- तेन संबन्धः; प्राग्दर्शितविष्णुवचनानुरोधात्, तथा—'संवत्सरेण पतति पतितेन सहाचरन् । भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥' इति देवल- वचनाच्च । न चान्वयदोषः; यानासनाशनादिहेतोराचरन्नाचारं कुर्वन्निति भेद- विवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येष्ट्वेति । यद्वा 'आचरन्' इति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनाशनादिति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद्यौना (त्सहभोजना) न्न तु संवत्सरेण पतति, किंतु सद्य एव प्राचीन- वचननिचयानुरोधादेव । अतो यौनादिचतुष्टयेन सद्यः पतति यानादिचतुष्टयेन तु संवत्सरं निरन्तराभ्यासेनेति युक्तं 'वत्सरं सोऽपि तत्समः' इति अत्यन्तसंयोग- वाचिन्या द्वितीयया दर्शनादन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकशत- त्रयदिवसव्यापित्वं संसर्गस्य भवति, ततो न्यूने तु न पतितप्रायश्चित्तं, किंत्वन्य- देव । तथाह पराशरः—'संसर्गमाचरन्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥ मासार्धं मासमेकं वा मासत्रयमथापि वा । अब्दार्धमेकमब्दं वा भवेदूर्ध्वं तु तत्समः ॥ त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमा- चरन् । चरेत्सान्तपनं कृच्छ्रं तृतीये पक्ष एव तु । चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे ततः । षष्ठे चान्द्रायणं कुर्यात्सप्तमे त्वैन्दवद्वयम् ॥ अष्टमे च तथा पक्षे षण्मासान्कृच्छ्रमाचरेत् ॥' इति । कामतः संसर्गे पुनर्विशेषः स्मृत्यन्तरेऽभिहितः— सुमन्तुः—'पञ्चाहे तु चरेत्कृच्छ्रं दशाहे तप्तकृच्छ्रकम् । पराकस्त्वर्धमासे स्यान्मासे चान्द्रायणं चरेत् ॥' इति । 'मासत्रये प्रकुर्वीत कृच्छ्रं चान्द्रायणोत्तरम् । षाण्मा- सिके तु संसर्गे कृच्छ्रं त्वब्दार्धमाचरेत् ॥ संसर्गे त्वाब्दिक्ये कुर्यादब्दं चान्द्रायणं नरः ॥' इति । अत्र चाब्दिक्ये संसर्गे इति किंचिन्न्यून इति द्रष्टव्यम्; पूर्णे तु वत्सरे मन्वादिभिर्द्वादशवार्षिकस्मरणात् । यत्तु बार्हस्पत्यं वचनम्—'षाण्मासिके तु संसर्गे याजनाध्यापनादिना । एकत्रासनशय्याभिः प्रायश्चित्तार्धमाचरेत् ॥' इति,


१. व्यस्तेनेति । २. मर्थंकृत्वा ।

प्रायश्चित्ताध्यायः ५४६ याजनाध्यापनयोनैकपात्रभोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम्; प्रकृष्टयाजनादिभिः सद्यःपातित्यस्योक्तत्वात् । एतद्दिगवलम्बनेनैव दुहि- तृभगिनीस्नुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकं, अकामतः सार्धचतुर्वा- र्षिकं कल्पनीयम् । सखिपतृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकम्, अकामतस्त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गीणामपि कामतस्तदीयमेव त्रैमासि- कम्, अकामतोऽर्धमित्यूहनीयम् । पुरुषवत्स्त्रीणामपि महापातक्यादिसंसर्गात्पा- तित्यमविशिष्टम् । यथाह शौनकः—'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ।' ब्राह्मणी हीनवर्णसेवायामधिकं पततीति; अतस्तासामपि महापात- किप्रभृतीनां मध्ये येन सह संसर्गस्तदीयमेव प्रायश्चित्तमर्धं क्लृप्त्यौ योजनीयम् । एवं बालवृद्धातुराणामपि कामतोऽर्धम्, अकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादोऽकामतस्तदर्धमित्येषा दिक् ॥ पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित्प्रतिप्रसवमाह— कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ २६१ ॥ एषां पतितानां कन्यां पतितावस्थायामुत्पन्नां सोपवासां कृततत्संसर्गकालो- चितप्रायश्चित्तामकिंचनामगृहीतवस्त्राद्यलंकारादिपितृधनामुद्वहेत् । 'कन्यां समुद्व- हेत्'इति वदन्स्वयमेव कन्यां त्यक्तपतितसंसर्गां समुद्वहेन्न पुनः पतितहस्तात्प्रति- गृह्णीयादिति दर्शयति । एवं च सति पतितयोनिसंसर्गप्रतिषेधविरोधोऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृत;—'पतितस्य तु कुमारीं विवक्षाम- होरात्रोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैते इति त्रिरुच्चैरभिदधानां तीर्थे स्वगृहे वोद्वहेत्' इति । तथा 'एषां कन्यां समुद्वहेद्' इति वचनात्स्त्रीव्यतिरिक्ततदीयापत्यस्य संसर्गानर्हतां दर्शयति । अत एव वसिष्ठः —'पतितेनोत्पन्नः पतितो भवति अन्यत्र स्त्रियाः, सा हि परगामिनी तामरि- क्थामुपेयात्' इति ॥ २६१ ॥ भाषा—इन महापातकियों के साथ जो एक वर्ष तक निवास करता है वह भी इनके समान महापातकी हो जाता है । इन पातकियों की कन्या से उन्हें उपवास करा के पिता का ( वस्त्रादि ) कुछ भी न लेते हुए विवाह किया जा सकता है ॥ २६१ ॥ इति संसर्गप्रायश्चित्तप्रकरणम् । निषिद्धसंसर्ग प्रायश्चित्तप्रसङ्गान्नषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तमाह— चान्द्रायणं चरेत्सर्वानवकृष्टांन्निहत्य तु । अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास्तेषां प्रत्येकं हनने चान्द्राय- णम् । तथा च शङ्खः—'सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्' इति । यद्वा-

५५० याज्ञवल्क्यस्मृतिः ङ्गिरसोक्तम्—'सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः स्यादित्याङ्गिरसभाषितम् ॥' इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् , अकामतस्तु सूतवधे पराकः, वैदेहकवधे पादोनम् , चण्डालवधे द्विपादः, मागधवधे पादोनः पराकः, क्षत्तरि द्विपादः, आयोगवे च पादद्वयम्, अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत्तु ब्रह्मगर्भद्वचनम्— 'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति,–तदावृत्तिविषयम् । तत्र सूतवधे षण्मासाः, वैदेहकवधे चत्वारः, चण्डालवधे द्वाविति योग्यतयान्वयः । तथा मागधवधे चत्वारः, क्षत्तरि द्वैमासिकं, आयोगवे च द्वैमासिकमिति व्यवस्था । नैमित्तिकव्रतानां जपादिसामग्र्यत्वाद्दिद्याविरहिणां च शूद्रादीनां तदनुपपत्ते- राज्यावेक्षणादिसाध्येऽग्विबान्धानामनधिकारमाशङ्कयाह— शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्ध्यति ॥ २६२ ॥ यद्यपि शूद्रो जपाद्यधिकारहीनस्तथाप्यनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुद्ध्यति । 'शूद्र'ग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्यपि तस्य गायत्र्यादिजपासंभवस्तथापि नमस्कारमन्त्रजपो भवति । अत एव स्मृत्यन्तरेऽभिहितम्—'उच्छिष्टं चास्य भोजनमनुज्ञातोऽस्य नमस्कारो मन्त्रः' इति । यद्वा वचनबलाज्जपादिरहितमेव व्रतं कुर्यात्—'तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इत्याङ्गिरः- स्मरणात् । तथाऽपरमपि तेनैवोक्तम्—'शूद्रः कालेन शुद्धयेत गोब्राह्मणहिते रतः । दानैर्वाऽप्युपवासैर्वा द्विजशुश्रूषया तथा ॥' इति । यत्तु मानवम् ( ४।८०)—'न चास्योपदिशेद्धर्मं न चास्य व्रतमाचरेत्' इति शूद्रस्य व्रतोपदे- शनिषेधपरं वचनं,–तददुपसन्नशूद्राभिप्रायम् । यदपि स्मृत्यन्तरवचनम्— 'कृच्छ्राण्येतानि कार्याणि सदा वर्णत्रयेण तु । कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ॥' इति,–तत्काम्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद् व्रताधिकार इति सिद्धम् । यत्तु गौतमवचनम् (४।२५)—'प्रति- लोमा धर्महीनाः' इति,–तदुपयननादिविशिष्टधर्माभिप्रायम् ॥ २६२ ॥ भाषा—सभी अवकृष्टों (सूत, मागध आदि उच्चवर्ण की स्त्री से निम्न- वर्ण के पुरुष द्वारा उत्पन्न) में किसी की हत्या करने पर चान्द्रायण व्रत करे । यद्यपि शूद्र को जप आदि करने का अधिकार नहीं होता तथापि वह निर्धारित समय तक व्रत करने पर पाप से शुद्ध हो जाता है ॥ २६२ ॥ इति महापातकप्रायश्चित्तप्रकरणम् ।