याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
५५० याज्ञवल्क्यस्मृतिः ङ्गिरसोक्तम्—'सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः स्यादित्याङ्गिरसभाषितम् ॥' इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् , अकामतस्तु सूतवधे पराकः, वैदेहकवधे पादोनम् , चण्डालवधे द्विपादः, मागधवधे पादोनः पराकः, क्षत्तरि द्विपादः, आयोगवे च पादद्वयम्, अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत्तु ब्रह्मगर्भद्वचनम्— 'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति,–तदावृत्तिविषयम् । तत्र सूतवधे षण्मासाः, वैदेहकवधे चत्वारः, चण्डालवधे द्वाविति योग्यतयान्वयः । तथा मागधवधे चत्वारः, क्षत्तरि द्वैमासिकं, आयोगवे च द्वैमासिकमिति व्यवस्था । नैमित्तिकव्रतानां जपादिसामग्र्यत्वाद्दिद्याविरहिणां च शूद्रादीनां तदनुपपत्ते- राज्यावेक्षणादिसाध्येऽग्विबान्धानामनधिकारमाशङ्कयाह— शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्ध्यति ॥ २६२ ॥ यद्यपि शूद्रो जपाद्यधिकारहीनस्तथाप्यनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुद्ध्यति । 'शूद्र'ग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्यपि तस्य गायत्र्यादिजपासंभवस्तथापि नमस्कारमन्त्रजपो भवति । अत एव स्मृत्यन्तरेऽभिहितम्—'उच्छिष्टं चास्य भोजनमनुज्ञातोऽस्य नमस्कारो मन्त्रः' इति । यद्वा वचनबलाज्जपादिरहितमेव व्रतं कुर्यात्—'तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इत्याङ्गिरः- स्मरणात् । तथाऽपरमपि तेनैवोक्तम्—'शूद्रः कालेन शुद्धयेत गोब्राह्मणहिते रतः । दानैर्वाऽप्युपवासैर्वा द्विजशुश्रूषया तथा ॥' इति । यत्तु मानवम् ( ४।८०)—'न चास्योपदिशेद्धर्मं न चास्य व्रतमाचरेत्' इति शूद्रस्य व्रतोपदे- शनिषेधपरं वचनं,–तददुपसन्नशूद्राभिप्रायम् । यदपि स्मृत्यन्तरवचनम्— 'कृच्छ्राण्येतानि कार्याणि सदा वर्णत्रयेण तु । कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ॥' इति,–तत्काम्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद् व्रताधिकार इति सिद्धम् । यत्तु गौतमवचनम् (४।२५)—'प्रति- लोमा धर्महीनाः' इति,–तदुपयननादिविशिष्टधर्माभिप्रायम् ॥ २६२ ॥ भाषा—सभी अवकृष्टों (सूत, मागध आदि उच्चवर्ण की स्त्री से निम्न- वर्ण के पुरुष द्वारा उत्पन्न) में किसी की हत्या करने पर चान्द्रायण व्रत करे । यद्यपि शूद्र को जप आदि करने का अधिकार नहीं होता तथापि वह निर्धारित समय तक व्रत करने पर पाप से शुद्ध हो जाता है ॥ २६२ ॥ इति महापातकप्रायश्चित्तप्रकरणम् ।
प्रायश्चित्ताध्यायः ५५१. महापातकादिपञ्चकमध्ये महापातकातिपातानुपपातकप्रायश्चित्तान्युक्त्वा- ऽधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावदाह— पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुद्ध्यति ॥ २६३ ॥ कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः । दद्यात्त्रिरात्रं २चोपोष्या वृषभैकादशास्तु गाः ॥ २६४ ॥ गां हन्तीति गोघ्नः, मूलविभुजादित्वात्कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् ? पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथा- विधि मिश्रितानि पिबन्, आहारान्तरपरित्यागेन भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद्दिवा च स्वापप्रतिषेधाद्रात्रौ गोशालायां शयानः । गा अनुगच्छति तदस्य व्रतमिति गोऽनुगामी । व्रते- ऽणिनिः । अतश्च यासां गोष्ठे शेते सन्निधानात्त एव गाः प्रातर्वनं प्रतिचरन्तीरनु- गच्छेत् । अनुगच्छेदिति वचनाद्यदा ता गच्छन्ति तदैव स्वयमनुगच्छेत् । यदा तु तिष्ठन्त्यासते वा तदा पश्चाद्गमनस्याशक्यकरणत्वात्स्वयमपि तिष्ठेदासीत वेति गम्यते । अनुगमनविधानादेव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशोऽ- प्यर्थसिद्धः । एवं कुर्वन्मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर्गोहत्यायाः शुद्ध्यतीत्येकं व्रतम् । मासं गोष्ठेशयो गोऽनुगामीति चानुव- र्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानादेव । अतश्च मासं निरन्तरं कृच्छ्रं समाहितश्चरेदित्यपरम् । अत एव जाबालेन मासं प्राजापत्यस्य पृथक् प्रायश्चित्त- त्वमुक्तम्—'प्राजापत्यं चरेन्मासं गोहन्ता चेदकामतः । गोहितो गोऽनुगामी स्याद्गोप्रदानेन शुद्ध्यति ॥' (प्रा० २६०) इति । अतिकृच्छ्रं वा तथैव समाच- रेदित्यन्यत् । कृच्छ्रातिकृच्छ्रयोर्लक्षणमुत्तरत्र वक्ष्यते । अथवा त्रिरात्रमुपवासं कृत्वा वृषभ एकादशो यासां गवां ता दद्यादिति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा वृषभैकादशगोदानसहितत्रि- रात्रोपवासो द्रष्टव्यः । विशिष्टस्वामिकाया विशिष्टगुणवत्याश्च वधे गुरुप्रायश्चि- त्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासं पञ्चगव्या- शित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वात्तन्मासोपवासतु- ल्यत्वम् । ततश्च षड्भिः षड्भिरुपवासैरेकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्या- म्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौरेकेति षट् धेनवो भवन्तीति वृष- भैकादशगोदानसहितत्रिरात्रव्रताल्लघीयस्त्वम् । कथं पुनर्ब्राह्मणगवीनां गुरुत्वम् ? 'देवब्राह्मणराज्ञां तु विज्ञेयं द्रव्यमुत्तमम्' इति नारदेन तद्द्रव्यस्योत्तमत्वाभिधा- १. प्राजापत्यं वाऽतिकृच्छ्रम् । २. वोपोष्य ।
५५२ याज्ञवल्क्यस्मृतिः
नात्, गोषु ब्राह्मणसंस्थास्विति दण्डभूयस्त्वदर्शनाच्च । वैश्यसंबन्धिन्यास्तु तादृ- ग्विधे व्यापादने मासमतिकृच्छ्रं कुर्यात् । अतिकृच्छ्रे त्वाद्ये त्रिरात्रत्रये पाणिपूरान्न- भोजनमुक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासव्रते क्रियमाणे षड्रात्रमुपवासो भवति । चतुर्विंशत्यहे च पाणिपूरान्नभोजनम् । ततश्च कृच्छ्रप्रत्या- म्नायकल्पनया किंचिन्न्यूनं धेनुपञ्चकं भवतीति पूर्वस्माद् व्रतद्वयाल्लघिष्ठत्वेन वैश्य- स्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिद- धिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छूद्रविषयतोचिता । अथ चैतत्प्राय- श्चित्तचतुष्टयं साक्षात्कर्तृनुग्राहकप्रयोजकानुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत्तु वैष्णवं व्रतत्रयम् - 'गोघ्नस्य पञ्चगव्येन मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥' इति, यच्च काश्यपीयम् - 'गां हत्वा तच्चर्मणा प्रावृतो मासं गोष्ठेशयस्त्रिषवणस्नायी नित्यं पञ्चगव्याहारः' इति, यच्च शातातपीयम् - 'मासं पञ्चगव्याहारः' इति, तत्प- ञ्चकमपि याज्ञवल्कीयपञ्चगव्याहारसमानविषयम् । यच्च शङ्खप्रचेतोभ्यामु- क्तम् - 'गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रमुपवसेत्सशिखं वपनं कृत्वा गोच- र्मणा प्रावृतो गाश्चानुगच्छन् गोष्ठेशयो गां च दद्यात्' इति । एतच्च याज्ञ- वल्कीयमासातिकृच्छ्रव्रतसमानविषयम् । 'दद्यात्त्रिरात्रं चोपोष्य' इत्येतद्विषयं वाऽत्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं 'मासं पञ्चगव्येने'ति प्रतिपाद्य 'षष्ठे काले पयोभक्षो वा गच्छन्तीष्व- नुगच्छेत्तासु सुखोपविष्टासु चोपविशेन्नातिप्लवं गच्छेन्नातिविषमेणावतारयेन्ना- ल्पोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेनुं दद्यात्' इति द्रष्टव्यम् । अन्ना- प्यशक्तस्य 'गोघ्नो मासं यवागूं प्रसृतितन्दुलशृतां भुञ्जानो गोभ्यः प्रियं कुर्वन् शुद्ध्यति' इति पैठीनसिनोक्तं वेदितव्यम् । यत्तु सौमन्तम् - 'गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च' इति ; यच्च संवर्तेनो- क्तम् - 'सक्तुयावकभैक्षाशी पयो दधि घृतं सकृत् । एतानि क्रमशोऽश्नीया- न्मासार्धं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥' इति; यच्च बार्हस्पत्यम् - 'द्वादशरात्रं पञ्चगव्याहारः' इति तत्तितयमपि याज्ञवल्कीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्र- देशात्रासेन जनितव्याधितो मरणविषयं वा वेदितव्यम् । तदिदं सर्वं प्रागुक्तमका- मविषयम् । यदा पुनरीदृग्विधामविशिष्टविप्रस्वामिकामविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हविष्येण चतुर्थकालभोजनं,
१. प्रदेशाज्ञानजनित ।
प्रायश्चित्ताध्यायः ५५३ मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनमिति व्रतत्रितयमाम्नातम् । यथाह ( ११।१०८-११६ )—'उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत् । कृत- वापो वसेद्गोष्ठे चर्मणार्द्रेण¹ संवृतः। चतुर्थकालमश्नीयादक्षारलवणं मितम् । गोमूत्रेण चरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः ॥ आतुरामे²- भिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वोपायैर्विमोचयेत्³ ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्तीं न कथ- येत्पिबन्तं चैव वत्सकम् ॥ अनेन विधिना यस्तु गोघ्नो गा अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥' ( ११।१०८-११६ ) इति, एत- त्त्रितयं याज्ञवल्कीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकादशगोदानयुक्तत्रिरा- त्रोपवासरूपव्रतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् । यच्चाङ्गिरसा मानवेतिकर्तव्य- तायुक्तं त्रैमासिकमभिधायाधिकमभिहितम्—'अक्षारलवणं रूक्षं षष्ठे कालेऽस्य भोजनम् । गोमतीं वा जपेद्विद्यामोङ्कारं वेदमेव च ॥ व्रतवद्धारयेद्दण्डं समन्त्रां चैव मेखलाम् ॥' इति, तन्मानवविषयम् । एवं पुष्टितारुण्यादिकिंचिद्गुणातिश- ययोगिन्यां द्रष्टव्यम् । 'अतिबालामतिकृशामतिवृद्धां च रोगिणीम् । हत्वा पूर्व- विधानेन चरेदधं व्रतं द्विजः ॥' इति पुष्टितारुण्यादिरहितायां गव्यर्धप्रायश्चित्त- दर्शनात् । यदा तु याज्ञवल्कीयमासातिकृच्छ्रव्रतनिमित्तभूतां गामविशिष्टस्वा- मिकां जातिमात्रयोगिनीं कामतो व्यापादयति तदा 'विहितं यदकामानां कामात्तद् द्विगुणं चरेत्'इति न्यायेन पूर्वोक्तमेवाकामविहितं मासातिकृच्छ्रव्रतं द्विगुणं कुर्यात् । यत्तु हारीतेन—'गोघ्नस्तच्चर्माध्वर्वालं परिधाय' इत्यादिना मानवीमितिकर्तव्यता- मभिधायोक्तम्—'वृषभैकादशाश्च गा दत्त्वा त्रयोदशे मासे पूतो भवति' इति तत्सवनस्थश्रोत्रियगोवधे अकामकृते द्रष्टव्यम् । यत्तु वसिष्ठेन—'गां चेद्धन्या- त्सस्याश्चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रातिकृच्छ्रान्वातिष्ठेद्दृषभवेहतौ दद्यात्' इति षाण्मासिकं कृच्छ्रातिकृच्छ्रानुष्ठानमुक्तम् , यदपि देवलेन—'गोघ्नः षण्मासां- स्तच्चर्मपरिवृतो गोप्रासाहारो गोव्रजनिवासी गोभिरेव सह चरन् प्रमुच्यते' इति,-तद् द्वयमपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्याय- नीयं त्रैवार्षिकम्—'गोघ्नस्तच्चर्मसंवीतो वसेद्गोष्ठेऽथवा पुनः । गाश्चानुगच्छेत्स- ततं मौनी चीरासनादिभिः ॥ वर्षशीतातपक्लेशवह्निपङ्कभयार्दितः मोचयेत्- १. तेन । २. अभि । ३. सर्वप्राणैर्विमोचयेत् ।
An exact transcription of the page in Devanagari script:
र्वयत्नेन पूयते वत्सरैस्त्रिभिः ॥' इति द्रष्टव्यम् । यच्च शाङ्खं त्रैवार्षिकम्—'पादं तु शूद्रहत्यायामुदक्यागमने तथा । गोवधे च तथा कुर्यात्परस्त्रीगमने तथा ॥' इति,—तदपि कात्यायनीयव्रतसमानविषयम् । यत्तु यमेनाङ्गिरसीमितिकर्तव्य- तामभिधाय 'गोसहस्रं शतं वापि दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेद- विद्भ्यो निवेदयेत् ॥' इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयमभि- हितम् , तत्र यदा सवनस्थश्रोत्रियादिदुर्गतबहुकुटुम्बिव्राह्मणसंबन्धिनीं कपिलां कर्माङ्गभूतां गर्भिणीं बहुक्षीरतरुणिमादिगुणशालिनीं निर्गुणो धनवान्सप्रयत्नं खङ्गादिना व्यापादयति तदा गोसहस्रयुक्तं त्रैमासिकं कुर्यात् ; 'गर्भिणीं कपिलां दोग्ध्रीं होमधेनुं च सुव्रताम् । खङ्गादिना घातयित्वा द्विगुणं व्रतमाचरेत् ॥' इति विशिष्टायां गवि बार्हस्पत्ये प्रायश्चित्तविशेषदर्शनात् ! अत एव प्रचेतसा— 'स्त्रीगर्भिणीगोगर्भिणीबालवृद्धवधेष्व भ्रूणहा भवति' इति । ईदृग्विधमेव गोवध- मभिसंधाय ब्रह्महत्याव्रतमतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं त्रैमा- सिकं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् । यत्तु गौतमेन ( २२।१८ ) वृषभैकशतगोदानसमुचितं त्रैवार्षिकं प्राकृतं ब्रह्मचर्यं वैश्यवधेऽभिधाय गोवधे- ऽतिदिष्टम्—'गां च हत्वा वैश्यवत्' इति । एतच्च त्रैवार्षिकव्रतप्रत्याम्नायभू- तनवतिक्षेनुभिः सार्धं वृषभैकशता गावो नवन्तूनं द्विशतं भवतीति गोसहस्रयु- क्तत्रैमासिकव्रतान्न्यूनत्वात्पूर्वोक्तविषये एव कामतो वधे । यद्वा तत्रैव विषये गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास्त्व- कामतो हननेऽपि कात्यायनीयमेव त्रैवार्षिकं कल्प्यम् । यत्तु यमेनोक्तम्— 'काष्ठलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि । प्रायश्चित्तं कथं तत्र शस्त्रेऽशस्त्रे विधीयते ॥ काष्ठे सान्तपनं कुर्यात्प्राजापत्यं तु लोष्टके । तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद् ब्राह्मणभोजनम् । त्रिंशद्गा वृषभं चैकं दद्यात्तेभ्यश्च दक्षिणाम् ॥' इति,—तत्पूर्वोक्तगोसहस्रशतादिदान- त्रैवार्षिकादिव्रतविषयेष्वेव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादि- पूर्वकत्वप्रतिपादनपरं, नतु निरपेक्षं ; लघुत्वाद् व्रतस्य । तथा वयोविशेषादपि प्रायश्चित्तविशेष उक्तः—'अतिवृद्धामतिकृशामतिबालां च रोगिणीम् । हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥ ब्राह्मगान्भोजयेच्छक्त्या दद्याद्धेम तिलांस्तथा ॥' इति । नीरोगादिवधे यद्विहितं तस्यार्धम् । बृहत्प्रचेतसा- प्यत्र विशेष उक्तः—'एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धिपूर्वे पुंसः स्याद् द्विपादस्तु द्विहायने ॥ त्रिहायने त्रिपादः स्यात्प्राजापत्यमतःपरम् ॥' इति । तथा गर्भिण्या वधे यदा गर्भोऽपि निहतो भवति तदा 'प्रतिनिमित्तं
१. सप्रतिज्ञम् । २. प्रायश्चित्तं पृथक्तत्र धर्मशास्त्रे विधीयते ।
'नैमित्तिकमावर्तते' इति न्यायेनाविशेषेण द्विगुणव्रतप्राप्तौ षट्त्रिंशन्मते विशेष उक्तः-पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते । पादोनं व्रत- मुद्दिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्णे गर्भे चेतःसमन्विते । त्रिगुणं गोव्रतं कुर्यादेषा गोघ्नस्य निष्कृतिः ॥' इति । बहुकर्तृके तु हनने संवर्तापस्तम्बौ विशेषमाहतुः- 'एका चेद्वहुभिः काचिद्दैवाद्यापादिता क्वचित् । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥' इति । यादृग्विधगोहत्यायां यद्व्रतमुपदिष्टं तत्पादं प्रत्येकं कुर्युर्वचनात् । 'एका चेत्' इत्युपलक्षणम् ; अतो बहुभिर्द्वयोर्बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् ।
- एतच्चाकामतो वधे द्रष्टव्यम्; दैवादिति विशेषणोपादानात् । कामकारे तु बहूनामपि प्रत्येकं कृत्स्नदोषसंबन्धात्कृत्स्नव्रतसंबन्धो युक्तः, सत्रणामिव प्रति- पुरुषं कृत्स्नव्यापारसमवायात्, 'एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः' इति प्रत्येकं दण्डे द्वैगुण्यदर्शनाच्च । यदा त्वेकेनैव रोधनादिव्यापारेण बहवो गावो व्यापादितास्तत्र संवर्तापस्तम्बौ विशेषमाहतुः - 'व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि वा । भिषङ्मिथ्योपचारे च द्विगुणं गोव्रतं चरेत् ॥' इति । बहुष्वपि व्यापन्नेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किंतु वचनबलाद् द्विगुण- मेव । तथा भिषगपि विरुद्धौषधदानेनैकस्या अप्यकामतो व्यापादने द्विगुणं गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलम् उपकारार्थं प्रवृत्तस्य स्वकामतः प्रति- कूलौषधदाने व्यास आह-'औषधं लवणं चैव पुण्यार्थमपि भोजनम् । अति- रिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥ अतिरिक्ते विपत्तिश्चेत्कृच्छ्रपादो विधीयते ॥' इति ॥ यत्त्वापस्तम्बेनोक्तम्- 'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥' इति, -तद्व्यवहितव्यापारिणो निमित्तकर्तुर्विज्ञेयं, न साक्षात्कर्तुः । साक्षात्कर्तृनिमित्तिनोश्च भेदस्तेनैव दर्शितः- 'पाषाणैलैकुंटैर्वाऽपि शस्त्रेणान्येन वा बलात् । निपातयन्ति ये गास्तु कृत्स्नं कुर्यु- र्व्रतं हि ते ॥ तथैव बाहुजङ्घोरुपार्श्वग्रीवाङ्घ्रिमोटनैः ॥' इति । एतदुक्तं भवति- पाषाणखङ्गादिभिर्ग्रीवामोटनादिना वा येऽङ्गानि पातयन्ति ते साक्षाद्धन्तारस्ते- ष्वेव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस्ते निमित्ति- नस्तेषां न कृत्स्नव्रतसंबन्धः किंतु तदवयवैरेव पादद्विपादादिभिरिति । तत्र च रोधादिना व्यवहितव्यापारत्वाविशेषेऽपि वचनात्क्वचित्पादः, क्वचिद् द्विपादः, पादोनं क्वचिदिति युक्तम् । अत्राह पराशरः- 'गवां बन्धनयोक्त्रैस्तु भवेन्मृत्युरका- मतः । अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्या- द् ब्राह्मणभोजनम् । अनडुत्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥' इति । अयं १. बन्धनादि । २. बन्धने तथा । ३. लगुडैर्वापि । ४. तत्रावरोधा- दिना !
५४६ याज्ञवल्क्यस्मृतिः च प्राजापत्यो यदि रोधादिकं कृत्वा तज्जन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः; 'अकामकृतपापस्य' इति विशेषणोपादानात् । यदा तु न प्रमादसंरक्षणं¹ करोति, तदा 'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥' इत्यङ्गिरोदृष्टं त्रैमासिकपादं किंचिदधिकं वा ²विंशत्यहर्गोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः- '³अतिदोहाति- वाहाभ्यां नासिकाच्छेदने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥' इति । लक्षणमात्रोपयोगिनि तु दाहे न दोषः; 'अन्यत्राङ्कनलक्ष्माभ्यां वाहने मोचने⁴ तथा । सायं संगोपनार्थं च न दुष्येद्रोधबन्धने ॥' इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम् , लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणार्थमपि नालिकेरादिभिर्बन्धने भवत्येव दोषः; 'न नालिकेरेण न शाणवा- लैर्न चापि मौञ्जेनं न बन्धशृङ्खलैः । एतैस्तु गावो न निबन्धनीया बद्ध्वा तु तिष्ठेत्परशुं गृहीत्वा ॥ कुशैः काशैश्च बध्नीयात्स्थाने दोषविवर्जिते ॥' इति व्यास- स्मरणात् । तथान्योऽपि विशेषस्तेनैवोक्तः- 'घण्टाभरणदोषेण विपत्तिर्यत्र गोर्भवेत् । कृच्छ्रार्धं⁶ तु भवेत्तत्र भूषणार्थं हि तत्स्मृतम् ॥ ⁷अतिदोहेऽतिदमने संघाते चैव योजने । बद्ध्वा शृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥' इति । पालनाकरणा- दिनोपेक्षायां क्वचित्प्रायश्चित्तविशेषस्तेनैवोक्तः,-'जलौघपल्वले मग्ना मेघविद्यु- द्धतापि वा । श्वभ्रे वा पतिताऽकस्माद्व्याघ्रेनापि च हिंसिता ॥ प्राजापत्यं चरेत्कृच्छ्रं गोस्वामी व्रतमूत्तमम् । शीतवाताहता वा स्याद्दुष्टश्वनहताऽपि वा ॥ शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥' इति । इदं तु कार्यान्तरविरहेऽप्युपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्वर्धम्-'पल्वलोघमृगव्याघ्रश्वापदा- दिनिपातने । श्वभ्रप्रपातसर्पाद्यैर्मृते कृच्छ्रार्धमाचरेत् ॥ अपालत्वात्तु कृच्छ्रं स्याच्छून्यागार उपप्लवे ॥' इति विष्णुस्मरणात् । तथा सत्यपि व्यापादने क्वचि- दुपकारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः- 'यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इति । यन्त्रणं ¹⁰व्याध्यादिनिर्यातनार्थं संदंशाङ्कुशादिप्रवेशनम् । तथा-'औषधं स्नेहमाहारं ददद्गोब्राह्मणे द्विजः । दीयमाने विपत्तिश्चेन्न स पापेन लिप्यते ॥ ग्रामघाते शरोघेण वेश्मभङ्गाग्निपातने । दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ॥ द्विजानां गोहितार्थं च प्रायश्चित्तं न विद्यते ॥' अत्र पराशरोऽप्याह-'ग्रामघाते शरोघेण वेश्मभङ्गाग्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥'
१. संरक्षणम् । २. द्वाविंशत्यहः । ३. अविदोहा । ४. मोचनेऽपि वा । ५. मौञ्जैर्न च शृङ्खलैश्च । ६. गोकृच्छ्रार्धं भवेत् । ७. अतिदोहातिदमने । ८. मृतापि वा । ९. गूढगर्भं । १०. व्याघ्रादि ।
प्रायश्चित्ताध्यायः ५५७ इति । तथा—'कूपखाते च धर्मार्थे गृहदाहे च या मृता । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥' इति । इदं तु बन्धनरहितस्यैव पशोः कथंचिद् गृहादिदाहेन मृतविषयम् । इतरथा त्वापस्तम्बेनोक्तम्—'कान्तारेष्वथ दुर्गेषु गृहदाहे खलेषु च । यदि तत्र विपत्तिः स्यात्पाद एको विधीयते ॥' इति । तथाऽस्थ्या- दिभङ्गे मरणाभावेऽपि क्वचित्प्रायश्चित्तमुक्तम्—'अस्थिभङ्गं गवां कृत्वा लाङ्गूल- च्छेदनं तथा । पाटनं दन्तशृङ्गाणां मासार्धं तु यवान्पिबेत् ॥' इति । यत्त्वा- ङ्गिसम्—'१शृङ्गदन्तास्थिभङ्गे वा चर्मनिर्मोचनेऽपि वा । दशरात्रं पिबेद्वज्रं स्वस्थापि यदि गौर्भवेत् ॥' इति 'वज्र'शब्दवाच्यं क्षीरादिवर्तनमुक्तं तदशक्त- विषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृशीं गां दत्त्वैव कार्यम् । तथाह पराशरः—'प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीद्यमः ॥' इति । मनुरपि ( ८।२८८ )—'यो यस्य हिंस्याद् द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ॥' इति । एतच्च पूर्वोक्तप्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर्वेदितव्यम् ; क्षत्रियादेस्तु हन्तुर्बृहद्विष्णुना विशेषोऽभिहितः—'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धं पाद एकस्तु शूद्रजातिषु शस्यते ॥' इति । यत्त्वङ्गि- रोवचनम्—'पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षदूच्च व्रतं स्मृतम् ॥' इति,–तत्प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् । तथा स्त्रीबालवृद्धादीनां वधे, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तमनुसंधे- यम् । स्त्रीणां पराशरेण विशेषोऽभिहितः—'वपनं नैव नारीणां नानुव्रज्या जपादिकम् । न गोष्ठे शयनं तासां न वसीरन्गवाजिनम् ॥ सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् । सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥' इति । पुरुषेषु च विशेषः संवर्तेन दर्शितः—'पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥' इति । पादप्रायश्चित्तार्हस्य कण्ठादधस्तना- ङ्गरोम्णामेव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणामपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानामपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य सकलकेशजातस्येति । एवमेतद्दिगवलम्बनेनान्येषामपि स्मृतिवचसां विषयो निरूपणीयः ॥ ३२३-२६४ ॥
भाषा—गाय की हत्या करने वाला पञ्चगव्य ( गोमूत्र, गोबर, दूध, दही, घृत ) पीवे और एक मास तक संयम के साथ रहे । वह गोशाला में सोना, गायों के पीछे चलने ( सेवा करने ) और ( मास के अन्त में ) एक गौ का दान करने पर शुद्ध होता है । अथवा सावधान होकर (एक मास तक)
१. शृङ्गभङ्गेऽस्थिभङ्गे वा । २. द्रव्याणि हिंस्याद्यो यस्य ।
इति गोवधप्रायश्चित्तप्रकरणम् ।
५५८ याज्ञवल्क्यस्मृतिः कृच्छ्र और अतिकृच्छ्र व्रत करे और तीन दिन-रात तक उपवास करके दस गायों और एक साँड का दान करे ॥ २६३-२६४ ॥ इति गोवधप्रायश्चित्तप्रकरणम् । अधुनाऽन्येषामुपपातकानां प्रायश्चित्तमाह- उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाथवा पुनः ॥ २६५ ॥ एवमुक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनान्येशां व्रात्यतादीनामुपपात- कानां शुद्धिर्भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसामर्थ्याद्द्रोचर्मवसनगोपरिचर्यादि- भिर्गोवधासाधारणैः कतिपयैर्न्यूनत्वमवगम्यते ।-एतच्च व्रतचतुष्टयमकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् ; कामकारे तु 'एतदेव व्रतं कुर्यु रुपपातकिनो द्विजाः । अवकीर्णिवर्ज्य शुद्धयर्थं चान्द्रायणमथापि वा ॥' (मनुः ११।११७) इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अत एव वचनादयं प्रायश्चित्तातिदेशः सर्वेषामुप- पातकगणपठितानामुक्तप्रायश्चित्तानामनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानामवि- शेषेण वेदितव्यः । अवकीर्णिनस्तु प्रतिपदोक्तमेव । नन्वनुक्तप्रायश्चित्तविषयतयै- वातिदेशस्य युक्तः; इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् । मैवम् ; तथा सत्युक्तनिष्कृतीनामुपपातकगणपाठोऽनर्थकः स्यात् । यदि परमुपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरमुच्यते । यथा- 'अयाज्यानां च याजनम् । त्रीन्कृच्छ्रानाचरेद् व्रात्ययाजकोऽविचक्षणपि ॥' इति स एव विषयः केवलं परिहियेत न पुनर्विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यन्न प्रायश्चित्त- मुच्यते सोऽपि यथा 'इन्धनार्थं द्रुमच्छेदः' 'वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्- शतम्' इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः सह 'उपपातकशुद्धिः स्यादेवम्' इत्यादिना प्रतिपादितव्रतचतुष्टयस्य समविषयता- कल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यतादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदमुक्तम् (११।१९१) -'येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन्कृच्छ्रान्यथा- विध्युपनाययेत् ॥' इति, यच्च यमेनोक्तम् (१३।१११)- 'सावित्री पतिता यस्य दश वर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः ॥ एकविंशतिरात्रं च पिवेत्प्रसृतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान्सप्त पञ्च च ॥ ततो यावक- शुद्धस्य तस्योपनयनं स्मृतम् ॥' इति, -तदुभयमपि याज्ञवल्कीयमासपयोव्रतविष- यम् । यत्तु वसिष्ठेनोक्तम्-'पतितसावित्रीक उद्दालकव्रतं चरेद् द्वौ मासौ याव- केन वर्तयेन्मासं पयसा पञ्चमामिच्छयाऽष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रम्-
प्रायश्चित्ताध्यायः ५५६ ऽभक्षोऽहोरात्रमुपवसेदश्वमेधावभृथं गच्छेद् व्रात्यस्तोमेन वा यजेत' इति । अत्रेयं व्यवस्था—यस्योपनेत्राद्यभावेन तत्कालातिक्रमस्तस्य याज्ञवल्कीयव्रतानामन्यतमं शक्त्यपेक्षया भवति । अनापद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदश- वर्षादूर्ध्वमपि कियत्कालातिक्रमे तूह्दालकव्रतं व्रात्यस्तोमो वेति । येषां तु पित्राद- योऽप्यनुपनीतास्तेषामापस्तम्बोक्तम् (ध० १।१।३२, ५;१।२।५।६)—'यस्य पितापितामहावनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपिता- महादेर्नानुस्मर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्' इति व्रात्यता । तथा स्तेयेऽप्युपपात कसाधारणप्राप्तव्रतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् (११।१६२)—'धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । सजातीयगृहा- देव कृच्छ्रार्धेन विशुद्ध्यति ॥' इति । द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुरिदम् । क्षत्रियादेस्त्वल्पं कल्प्यम् । 'अष्टापाद्यं स्तेय- किल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वम्' ( ।३।१५-१७) इति क्षत्रियादेरपहर्तुर्दण्डाल्पत्वस्य दर्शनात् । तथा—'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम्' इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रि- यपरिग्रहे चौर्ये षाण्मासिकम् । वैश्यपरिग्रहे त्रैमासिकं गोवधव्रतम् । शूद्रपरिग्रहे चान्द्रायणं कल्प्यम् । एवमुत्तरत्राप्यूहनीयम् ।-इदं च दशकुम्भधान्यापहारवि- षयम् । अधिके तु—'धान्यं दशभ्यः कुम्भेभ्यो हरंतो दम उत्तमः । पलसहस्रा- दधिके वधः' इति वधदर्शनात् । कुम्भश्च पञ्चसहस्रपलपरिमाणः । धान्यसाहच- र्यादन्नधने चैतावद्धान्यपरिमित्ते वेदितव्ये । 'अन्न'शब्देन तन्दुलादिकमभिधीयते । 'धन'शब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस्तु त्रैमासिकं गोवधव्रतम् । तथा—'मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणेन तु ॥' (मनुः ११।१६३ ) इति । सार्धश- तद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तमपीतरगोवधव्रतन्निवृत्त्यर्थं विधीयते; 'तावन्मूल्यजलापहारे पानीयस्य तृणस्य च । तन्मूल्याद् द्विगुणो दण्डः' इति पञ्चशतदण्डविधानात्तावत्परिमाणदण्डचान्द्रायणयोर्गोवधादौ सहचरितत्वात् । तथा 'कृच्छातिकृच्छ्रैन्द्वयोः पणपञ्चशतं तथा' इति चान्द्रायणविषये पञ्चशतप- णदण्डविधानाच्च । एतच्च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् ; ब्राह्मणसंबन्धिद्रव्या- पहारे तु 'निक्षेपस्यापहरणे नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्म- स्तेयसमं स्मृतम् ॥' (मनुः ११।५७ ) इति द्रष्टव्यम् । तथा—'द्रव्याणामल्प- १. यस्योपनयने आपद्भावेन । २. कृच्छाब्देन विशुद्धयति । ३. अष्टपाद्यम् । ४. हरतोऽभ्यधिको वधः ।
५६० याज्ञवल्क्यस्मृतिः
साराणां स्तेयं कृत्वाऽन्यवेश्मतः । चरेत्सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥' (मनुः ११।१६४) इत्यनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहारविशेषेण स्तेनसा- मान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमू- ल्यस्य पञ्चदशांशाधैत्रपुसीसाद्यपहारे प्रायश्चित्तम्, चान्द्रायणपञ्चदशांशत्वात्तस्य । तथा द्रव्यविशेषेणाप्युपपातकसामान्यप्राप्तव्रतापवादः—'भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥' (मनुः ११।१६५) इति । एकवारभोजनपर्याप्तभक्ष्यभोज्यापहार इदम् । द्वित्रिवारभोज- नपर्याप्ताहारे त्रिरात्रम् । यथाह पैठीनसिः—'भक्ष्यभोज्यान्नस्योदरपूरणमात्रहरणे त्रिरात्रमेकरात्रं वा पञ्चगव्याहरता' इति । यानादीनामप्येतत्साहचर्यादेतावन्मू- ल्यानामेवापहरणे एतावत्प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । यथा 'तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । तैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥' (मनुः ११।१६६) इति । एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात् तन्त्रिगुण- मूल्यार्धाणामेतत्प्रायश्चित्तम् । तथा—'मणिसुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयस्कांस्योपलानां च द्वादशाहं कंदन्नता ॥' (मनुः ११।१६७) इति । अत्रापि भक्ष्यादिद्वादशगुणप्रायश्चित्तदर्शनात् तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्य- पहार एतत्प्रायश्चित्तं द्रष्टव्यम् । तथा—'कार्पासकीटजौर्णानां द्विखुरैकखुरस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥' (मनुः ११।१६८) इति । अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्तत्त्रिगुणमूल्यानामपहार एवैतत्प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्ताल्यत्वमहत्त्वं कल्प्यमेव । इदं च स्तेयप्रायश्चित्तमपहृतद्रव्यदानोत्तरकालमेव द्रष्टव्यम् । यथाह विष्णुः— 'दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतमाचरेत्' इति । इति स्तेयम् । ऋणापाकरणे च 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इति विहितं तस्यानपाकरणे, तथा वैदिकस्य च 'जायमानो वै ब्राह्मणः' इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च 'उपपातकशुद्धिः स्यादेवम्' (प्रा० २६५) इत्यादिनापपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । प्रायश्चित्तान्तरमप्यत्र मनुनोक्तम् (११। २७)—'इष्टिं वैश्वानरीं चैव निर्वपेदब्दपर्यये । लुप्तानां पशुसोमानां निष्कृत्यर्थ- मसंभव ॥' इति । अब्दपर्यये संवत्सरान्ते । इति ऋणानपाकरणम् ।
तथाधिकृत्यस्यानाहिताग्नित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्य- पेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक्पुनर्वत्सरात् कार्ष्णा- जिनिविशेषमाह—'काले त्वाधाय कर्माणि कुर्याद्विप्रो विधानतः । तदकुर्वंश्चिरा-
१. र्णानामेव । २. कणाम्नाता । ३. क्लृप्तानाम् ।
प्रायश्चित्ताध्यायः ३६१ त्रेण मासि मासि विशुद्ध्यति ॥ अनाहिताग्नौ पित्रादौ यच्यमानः सुतो यदि । स हि व्रात्येन पशुना यजेत्तन्निष्क्रयाय तु ॥' इति । एकाग्नेरपि विशेषस्ते- नैवोक्तः- 'कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्षं प्रतिमासमहोऽपि वा ॥' इति । अनाहिताग्निता । (विक्रये यद् व्रतं प्रोक्तं हरणे द्विगुणं हि तत् । सुराविक्रये सौम्ये चतुष्टयं लाक्षालवणमांसमध्वउग्रतिलहेमानां चान्द्रायणत्रयं पयःपायसापूपदधिक्षुरस- गुडखण्डादिस्नेहपक्कादिषु पराकः । सिद्धान्नविक्रये प्राजापत्यम् । पनसस्य त्रिदिनम् । कदलोनारिकेरजम्बीरबीजपूरकनारङ्गानां पादकृच्छ्रम् । कस्तूरिकाविक्रये गन्धानां च कृच्छ्रम् । कर्पूरेऽर्धं हिङ्ग्वादिविक्रये दिनमुपवासः । शुक्लकृष्णपीतव- स्त्रविक्रये त्रिदिनम् । अजानामैन्दवम् । खराश्वतरकरभाणां पराकः । शुनां द्विगुणम् । एकाहाद्वेदविक्रये चान्द्रम् । अङ्गानां पराकः । स्मृतीनां कृच्छ्रम् । इतिहासपुराणानां सांतपनम् । रहस्यानां कृच्छ्रम् । गाथानां शिशिरातश्वविद्यानां पादम् ।) तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्रायश्चित्तविशेष उक्तः । यथाह हारीतः- 'गुडतिलपुष्पमूलफलपक्वान्नविक्रये सोमापानं सौम्यः कृच्छ्रः । लाक्षालवणमधुमांस- तैलक्षीरदधितक्रघृतगन्धचर्मवाससामन्यतमविक्रये चान्द्रायणम् । तथा ऊर्णा- केशकेलरिमूधेनुवेश्माश्मशस्त्रविक्रये च । अभक्ष्यमांसस्नाय्वस्थिशृङ्गनखशुक्तिवि- क्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ता- प्रवालवैणवतृन्मयेषु च तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिशवणस्नाय्यधःशायी चतुर्थकालाहारो दशसहस्रं जपन्संवत्सरेण पूतो भवति । हीनमानोन्मानसंकरसंकीर्णविक्रये चेति । एवमन्यैरपि शङ्खविष्णुवाद्युक्तवचनै- र्यन्न प्रायश्चित्तविशेषो नोक्तस्तत्रानापदि मानवमुपपातकसाधारणतः प्राप्तं त्रैमासिकम् । आपदि तु याज्ञवल्कीयं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । इति अपण्यविक्रयः । तथा परिवेत्तरि च वसिष्ठेन प्रायश्चित्तविशेष उक्तः (२०।८)— 'परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत तां चैवो- पयच्छेत' इति । परिविविदानः परिवेत्तोच्यते । तत्स्वरूपं च प्राग् व्या- ख्यातम् । असौ कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै ज्येष्ठाय तां स्वोढां दत्त्वा ब्रह्मचर्याहृतभैक्षवद्गुरुपरिभवपरिहारार्थं निवेद्य पुनरुद्वहेत् । कामित्यपेक्षाया- मुक्तं 'तामेवोपयच्छेत' इति । तामेव स्वोढां ज्येष्ठाय निवेदितां तेन चानुज्ञा- तामुद्वहेत् । यत्तु हारीतेनोक्तम् - ज्येष्ठेऽनिविष्टे कनीयान्निविशमानः परिवेत्ता भवति, परिवित्तिर्ज्येष्ठः, परिवेदनी कन्या, परिदायी दाता, परियष्टा याजकस्ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छ्रेण पावयेयुः' इति । यद्यपि शङ्खेनोक्तम्-
१. अधिकमिदम् । २. मानोन्नतसंकीर्ण ।
'परिवृत्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्' इति तदुभयमपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम् । प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्तामेव परिणयति तदा मानवं त्रैमासि- कम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्कीयं च व्रतचतुष्टयमज्ञातविषयम् । यमेनाप्यत्र विशेष उक्तः—'कृच्छ्रौ द्वयोः परिवेद्ये कन्यायाः कृच्छ्र एव च । अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत् ॥' इति । एतच्च पर्याहिताग्न्या- दीनामपि समानम् । एकयोगनिर्देशात् । यथाह गौतमः ( १५।१८ )—'परिवि- त्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिषूपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्' इति । अत एव वसिष्ठेनाग्रेदिधिषूपत्यादाविदमेव प्रायश्चित्तमुक्तम् ( २०।९, १० ) 'अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निर्विशेत तां चैवोपयच्छेत । दिधि- षूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर्निर्विशेत' इति । अग्रेदिधिष्वा- देर्लक्षणं स्मृत्यन्तरेऽभिहितम्—'ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । या साऽग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥' इति । तत्राऽग्रेदिधिषूपतिः प्राजापत्यं कृत्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्राति- कृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढे दत्त्वाऽन्यामुद्वहेदिति परिवे- दनम् । तथा भृतकाध्यापकभृतकाध्यापितयोश्च पयसा ब्रह्मसुवर्चलां पिबेदित्य- धिकृत्य विष्णुरोक्तम्—'भृतकाध्यापनं कृत्वा भृतकाध्यापितस्तथा । अनुयोग- प्रदानेन त्रीन्पक्षाञ्छियततः पिबेत् ॥' इति । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुयोगप्रदानम् । अत एव स्मृत्यन्तरे—'दत्तानु- योगानध्येतुः पतितान्मनुरब्रवीत्' इत्युक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः । इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् । तथा पारदार्येऽप्युपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतच- तुष्टयस्यापि गुरुदारादावपवाद उक्तः । तथाऽन्यत्रापि गौतमादिभिः पारदार्यविशे- षेणापवाद उक्तः । यथाह गौतमः—'द्वे पारदार्ये त्रीणि श्रोत्रियस्य' इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तूत्य तेनैवेदमभिहितम् 'उपपातकेषु चैवम्' इति । तत्रेयं व्यवस्था—ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यम् । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्म- चर्यम् । यद्वा, श्रोत्रियपत्न्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम् । तादृग्विधायामेव क्षत्रियायां द्वैवार्षिकम् । तादृश्यामेव वैश्यायां वार्षिकमिति व्यवस्था । एतत्स- १. अधीयानस्य नाशितम् ।
मानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अत एव शङ्खेन 'वैश्यामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्, क्षत्रियायां द्वे वर्षे, त्रीणि ब्राह्मण्यां वैश्यावच्च शूद्रायां ब्राह्मणपरिणीतायाम्' इति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिषु स्त्रीषु क्रमेण द्विवार्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्रयोर्वार्षिकषाण्मासिके । शूद्रस्य शूद्रायां परभार्यायां षाण्मासिकमेव । यत्त्वापस्तम्बीयम्—'सवर्णायामनान्य- पूर्वायां सकृत्संनिपाते पादः, पतत्येवमभ्यासे पादः, पादश्चतुर्थे सर्वम्' इति, तद्गौतमीयत्रिवार्षिकेन समानविषयम् । अन्यपूर्विकायां चतुरभ्यासे द्वादशवार्षि- कपायश्चित्तविधानादेकस्यामेव गमनाभ्यासे नेदं प्रायश्चित्तं, किंतु प्रतिगमनं पादपादन्यूनं कल्प्यम् । एतत्सर्वं कामकारविषयम् । अकामतः पुनरेतदेवार्ध- क्लृप्त्या पूर्वोक्तविषये योजनीयम् । अनुतुकाले तु जातिमात्रब्राह्मण्यां कामतो- गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिक्षीषु पुनरस्मिन्नेव विषये तदी- यान्येव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि । क्षत्रियादीनां च क्षत्रिया- दिक्षीषु द्वैमासिकादीन्येव । अकामतः पुनरेतासु क्षत्रियादितैर्वर्णिकानां याज्ञव- ल्कीयमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासवतमेवार्थक्लृप्त्या योजनीयम् । अत एव संवर्तः—'शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावका- हारस्तिष्ठेत्तैत्पापमुक्तये ॥' इति । अकामतोऽर्धमासिकमित्यभिप्रेतम् । 'ब्राह्मणश्वेदं प्रेक्षापूर्वकं ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मणः कृच्छ्रोऽनिवृत्तधर्मकर्मणोऽति- कृच्छ्र' इति तद्ब्राह्मणभार्यायां शूद्रायां द्रष्टव्यम् । द्विजातिस्त्रीषु च विप्रोढासु द्वित्रिपर्यभिचारितासु अबुद्धिपूर्वगमने वा । तथा च संवर्तः—'विप्रामस्वजनां गत्वा प्राजापत्यं समाचरेत्' इति । कामतस्तु—'राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥' इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु 'व्यभिचारस्य स्वैरिण्यां वृषल्यामवकीर्णः सचैलस्नात उदकुम्भं दद्याद् ब्राह्मणाय, वैश्यायां च चतुर्थकालाहारो ब्राह्मणान्भोजयेद्यवसभांरं च गोभ्यो दद्यात् , क्षत्रियायां त्रिरात्रोपोषितो यवाढकं । दद्यात् । ब्राह्मण्यां त्रिरात्रोपोषितो गां दद्याद्रोध्रववकीर्णः प्राजापत्यं चरेत् । 'अनूढायामवकीर्णः पलालभारं सीसमाषकं च दद्यात्' इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यास- विषयत्वं चास्य 'चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता' इति स्मृत्यन्तरादवगम्यते । अत्रैव विषये षट्त्रिंशन्मतेऽप्युक्तम्—'ब्राह्मणों बन्धकीं
१. मवकीर्णी । २. द्विवार्षिकवार्षिकषाण्मासिकानि । ३. त्रैवार्षिकाणाम् । ४. तिष्ठेत्तत्पापमोक्षतः इति । ५. भार्यायां द्रष्टव्यम् । ३६ या०
गत्वा किंचिद्दद्याद्द्विजातये । राजनयां चेदनुर्दद्याद्वैश्यां गत्वा तु चैल कम् ॥ शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवसोपोषितो वा स्याद्दद्याद्विपाय भोज- नम् ॥' इति ( अनुलोमव्यवाये गर्भे द्विगुणं, यदि सा अतिदूषिता न प्रतिलो- मगा भवति तदैव । अन्त्यजातिगमने द्वैगुण्यं, प्रतिलोमदूषितासु अन्त्यावसा- यिनीषु च चाण्डालीगमें यथा गुरुतल्पत्वं तथा किंचिन्न्यूनं तारतम्यं कल्प्यम् । चाण्डालीगमने वार्षिकम् । गर्भे गुरुतल्पत्वं तथैव ज्ञेयम् ।) इदं प्रायश्चित्तजातं गर्भाऽनुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तमुक्तं तदेव तत्र द्विगुणं कुर्यात् ।—'गमने तु व्रतं यत्स्याद्गर्भे तद्द्विगुणं चरेत्' इत्युशनःस्मरणात् । शूद्र्यां गर्भमादधतश्चतुर्विंशतिमते विशेष उक्तः—'वृषल्यामभिजातस्तु- त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुञ्जीत' इति । यत्तु मनुवचनम् (३।१७)—'शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥' इति,—तस्यापगौरवख्यापनपरम् । प्रातिलोम्य- व्यवाये तु सर्वत्र पुरुषस्य वध एव—'प्रातिलोम्ये वधः पुंसो नार्याः कर्णा- दिकर्तनम्' इति वचनात् ॥ यत्तु वृद्धप्रचेतोवचनम्—'शूद्रस्य ब्राह्मणीं मोहाद्गच्छतः शुद्धिरिच्छतः । पूर्णमेतद् व्रतं देयं माता यस्माद्धि तस्य सा ॥ पाद- हान्याऽन्यवर्णासु गच्छतः सार्ववर्णिकम् ॥' इति । द्वादशवार्षिकातिदेशकं, तच्च- भार्य्याभ्रान्त्या गच्छतो वेदितव्यम्; मोहादिति विशेषणोपादानात् । यत्तु संवर्त- वचनम्—'कथंचिद् ब्राह्मणीं गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छ्रं सान्तपनं वा स्यात्प्रा- जाप्त्यं विशुद्धये ॥ शूद्रस्तु ब्राह्मणीं गच्छेद्वकथंचित्काममोहितः । गोमूत्रयावकाहारो मासेनेकेन शुद्ध्यति ॥' इति,—तदत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजा- गमनेऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्—'रजकव्याधशैलूषवेणुचर्मापजीविनीः । एतास्तु ब्राह्मणो गत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । इदं ब्राह्मणस्य कामतः सकृद्गमनविषयम्, क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बे- नोक्तम्—'म्लेच्छीं नटीं चर्मकारी रजको बुरुंडी तथा । एतास्तु गमनं कृत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । अन्त्यजाश्च तेनैव दर्शिताः—'रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥' इति । ये तु चाण्डालादयोऽन्त्यावसायिनस्तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शि- तम् । एतासां चान्त्यजस्त्रीणां मध्ये यदेकस्यां व्यवाये प्रायश्चित्तमभिहितं तत्सर्वासु भवति; सर्वासां सदृशत्वात् । यथाङ्गिरसाः—'बहूनामेकधर्माणा मेकस्यापि यदुच्यते । सर्वेषां तद्भवेत्कार्यमेकरूपा हि ते स्मृताः ॥' इति । अकामतस्तु गमने—'चण्डालमेदश्वपचकपालव्रतचारिणाम् । अकामतः स्त्रियो गत्वा पराक-
१. कोष्ठान्तर्गतः क्वचिन्नास्ति । २. वहडी तथा ।
व्रतमाचरेत् ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्च संवर्तवचनम् —'रजकव्याधशैलूष- वेणुचर्मोपजीविनाम् । स्त्रियो विप्रो यदा गच्छेत्कृच्छ्रं चान्द्रायणं चरेत् ॥' इति,— तदप्यकामविषयम् । यत्तु शातातपेनोक्तम्—'कैवर्तीं रजकीं चैव वेणुचर्मोपजी- विनीम् । प्राजापत्यविधानेन कृच्छ्रेणैकेन शुद्ध्यति ॥' इति, —तद्वेतःसेकाप्राप्तिवृत्ति- विषयम् । यत्तुशनसोक्तम्—'कापालिकाञ्चभोक्तॄणां तन्नारीगामिनां तथा । ज्ञाना- र्कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्द्वद्वयम् ॥' इति, —तदभ्यासविषयम् । यदा तु चाण्डा- ल्यादिषु गच्छतो गर्भो भवति, तदा 'चाण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्' इत्युशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत्तु-'अन्त्यजायां प्रसूतस्य निष्कृतिर्न विधीयते । निर्वासनं कृताङ्कस्य तस्य कार्यमसंशयम् ॥' इत्यापस्तम्बवचनं, तत्कामकारविषयम् । स्त्रीणामपि सवर्णानुलोमव्यवाये यत्पुरुषस्योक्तं त्रैवार्षिकादि तदेव भवति । 'यत्पुंसः परदारेषु तच्चैनां चारयेद् व्रतम् ॥' ( ११।१७६ )— इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः (२१।२,३)—'शूद्रश्चेद् ब्राह्मणीमभिगच्छेद्धोरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् , ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां खरमारोप्य महा- पथमनुव्राजयेत्पूता भवतीति विज्ञायते' इति । तथा-'वैश्यश्चेद् ब्राह्मणीमभिगच्छेल्लो- हितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा- ऽभ्यज्य नग्नां गौरखरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते' इति । तथा 'राजन्यश्चेद् ब्राह्मणीमभिगच्छेदिक्षुरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां गौरखरमारोप्य महापथमनुसंत्राजये- त्पूता भवतीति विज्ञायते' इति । एवं वैश्यो राजन्यां शूद्रश्च राजन्यावैश्ययोरिति । पूता भवतीति वचनाद्राजवीथिपरिव्राजनमेव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनमिति दर्शयति । ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरमप्युक्तं संवर्तेन— 'ब्राह्मण्यकामा गच्छेच्चेत्क्षत्रियं वैश्यमेव वा । गोमूत्रयावकैर्मासात्तदर्थाच्च विशु- द्ध्यति ॥' इति । कामतस्तु तद्द्विगुणं कर्तव्यम् । 'कामात्तद्द्विगुणं भवेत्' इति वच- नात् । षट्त्रिंशन्मतेऽपि 'ब्राह्मणी क्षत्रियवैश्यसेवायामतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषितां ब्राह्मणराजन्यवैश्यसेवायाँ कृच्छ्रार्धं प्राजापत्यमतिकृच्छ्रम् । वैश्ययोषितां ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रपादं कृच्छ्रार्धं प्राजापत्यम् । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्वहोरात्रं त्रिरात्रं कृच्छ्रार्धम्' इति । शूद्रसेवायां तु विशेषो बृहत्प्रचेतसोक्तः—'विप्रा शूद्रेण संस्पृक्ता न चेत्तस्मात्प्रसूयते । प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥' एतदनिच्छन्त्यां स्वप्नप्रतिभान्त्या वा वेदितव्यम् । 'चान्द्रायणे द्वे कृच्छ्रश्च विप्राया वैश्यसेवने । १. द्वैन्द्वं स्मृतम् । २. वैश्यसंगमे ।
५६६ याज्ञवल्क्यस्मृतिः
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥ क्षत्रिया शूद्रसंपर्के कृच्छ्रं चान्द्राय- णद्वयम् । चान्द्रायणं सकृच्छ्रं तु चरेद्वैश्येन संगता ॥ शूद्रं गत्वा चरेद्वैश्या कृच्छ्रं चान्द्रायणोत्तरम् । आनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥' इति । प्रजाता- यांस्तु चतुर्विंशतिमते विशेष उक्तः— 'विप्रगर्भे पराकः स्यात्क्षत्रियस्य तथैन्दवम् । ऐन्दवश्च पराकश्च वैश्यस्याकामकारतः ॥ शूद्रगर्भे अवेक्ष्यागश्चाण्डालो जायते यतः । गर्भस्रावे धातुदोषैश्चरेच्चान्द्रायणत्रयम् ॥' इति । 'अकामकारतः' इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्वनिःसृतग- र्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः । 'ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥' इति वसिष्ठस्म- रणात् । यदा त्वाहितगर्भैव पश्चाच्छूद्रादिभिर्व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकालमेव प्रायश्चित्तं कुर्यात् ; 'अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना । प्रायश्चित्तं न कुर्यात्सा यावद्गर्भो न निःसृतः ॥ जाते गर्भे व्रतं पश्चा- त्कुर्यान्मासं तु यावकम् । न गर्भदोषस्तस्यास्ति संस्कार्यः स यथाविधि ॥' इति स्मृत्यन्तरदर्शनात् । यदा त्वौद्धत्यात्प्रायश्चित्तं न कुर्वन्ति, तदा नार्याः कर्णादिकर्तनमिति द्रष्टव्यम् । अन्त्यजादिगमनेऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम्—'रजकव्याधशैलूषवेणुचर्मोपजीविनाः । ब्राह्मण्येतान्यदा गच्छेदेकामा- दैन्दवत्रयम् ॥' इति । तथा चाण्डाल्याद्यन्त्यावसायिगमनेऽपि—'चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । ब्राह्मण्याकामतोगत्वा चान्द्रायणचतुष्ट- यम् ॥' इति 'अकामत' इति वचनात्कामतोगद्विगुणं कल्प्यम् । तथा—'चाण्डा- लेन तु संपर्क यदि गच्छेत्कथंचन । सशिखं वपनं कुर्याद्भुञ्जीयाद्यावकौदनम् ॥ त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् । आत्मना २संमिते कूपे गोमयोदकक- र्दमे ॥ तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् । शङ्खपुष्पीलता मूलं पत्रं वा कुसुमं फलम् । क्षीरं सुवर्णसंमिश्रं क्वाथयित्वा ततः पिवेत् ॥ एकभक्तं चरेत्पश्चा- द्यावत्पुष्पवती भवेत् । बहिस्तावच्च निवसेद् यावच्चरति तद्व्रतम् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद् ब्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुद्ध्यै स्वायंभुवोऽब्रवीत् ॥' इति ।-एतदप्यकामविषयमेव; 'यदि गच्छेत्कथंचन' इति वचनात् । ऋष्य- शृङ्गेणाप्यन्त्यज्यव्यवाये प्रायश्चित्तान्तरमुक्तम्—'संस्पृक्ता स्यादथान्त्यैर्या सा कृच्छ्रौन्दं समाचरेत्' इति ।-कामतः सकृद्गमने इदम् । यदा त्वाहितगर्भाया एव पश्चाच्चाण्डालादिव्यवायस्तदा तेनैव विशेष उक्तः—'अन्तर्वत्नी तु युवतिः संस्पृक्ता चान्त्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्गर्भो न निःसृतः ॥ न प्रचारं गृहे कुर्यान्न चाङ्गेषु प्रसाधनम् । न शयीत समं भर्त्रा न वा भुञ्जीत
१. दुकामादैन्दवद्वयम् । २. संमिते कर्दे ।
बान्धवैः ॥ प्रायश्चित्तं गते गर्भे विधिं कृच्छ्रादिकं चरेत् । हिरण्यमथवा धेनुं दद्याद्विप्राय दक्षिणाम् ॥' इति । यदा तु कामतोऽन्त्यन्तसंपर्कं करोति तदा - 'अन्त्यजेन तु संपर्के भोजने मैथुने कृते । प्रविशेत्संप्रदीप्तेऽग्नौ मृत्युना सा विशु- द्ध्यति ॥' इत्युशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया, वध्या वा भवेत् । 'हीनवर्णोपभुक्ता या साऽङ्कया वध्याऽथवा भवेत्' इति पराशरस्मरणात् । इति पारदार्यप्रकरणम् । तथा परिवित्तिप्राय- श्चित्तानामपि परिवेत्तृप्रायश्चित्तवद्व्यवस्था विज्ञेया । इयांस्तु विशेषः- 'परिवेत्तु- र्यस्मिन्विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यमिति । परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर्निविशेत् तां चैवोपयच्छेत्' इति वसिष्ठस्मरणात् । इति परिवित्तिप्रकरणम् । वार्धुष्यलवणक्रययोस्तु मनुयोगीश्वरोक्तसामान्योपपा- तकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ २६५ ॥ भाषा-उपपातकों की भी शुद्धि इसी प्रकार ( गोवध के प्रायश्चित्त से ) अथवा चान्द्रायण व्रत से या एक मास तक केवल दूध पीकर रहने या पराक व्रत करने से होती है ॥ २६५ ॥ लवणक्रयानन्तरं 'स्त्रीशूद्रविट्क्षत्रवध' ( प्रा० २३६ ) इत्युपपातकंमध्ये पठितं तत्र प्रायश्चित्तान्तरमप्याह - ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् । ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ २६६ ॥ वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् । षण्मासाञ्छूद्रहाप्येतद्धेनूर्दद्याद् दशाथवा ॥ २६७ ॥ एकमधिकं यस्मिन्सहस्रे तदेकसहस्रं, तस्य पूरण एकसहस्रः, ऋषभ एक- सहस्रो यासां गवां ताः ऋषभैकसहस्रास्ताः क्षत्रवधे दद्यात् । अथवा बृहत्प्रा- यश्चित्तं ब्रह्महत्याव्रतं वर्षत्रयं कुर्यात् । वैश्यघाती पुनरेतत् ब्रह्महत्याव्रतमेकवर्षं चरेत् । गवामृषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद्वा दशधेनूरचिरप्रसूताः सवत्सा दद्यात् । इदमकामतो जातिमात्रक्षत्रियादि- वधविषयम् ; 'अकामतस्तु राजन्यं विनिपात्य' ( मनुः ११।१२७ ) इति प्रक्रम्यैतेषामेव प्रायश्चित्तानां मानवेऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्य- वस्था । ईषद्वृत्तस्थयोस्तु विट्शूद्रयोः- 'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडश ॥' ( ११।१२६ ) इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । 'वृत्त'शब्देन चात्र गुणादिकमुच्यते । 'गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तकं १. वृषभैकसहस्रा । २. वैश्यहा ह्येतत् । ३. व्रतत्रयमेवतु ।
[Page-header: ५६८ याज्ञवल्क्यस्मृतिः]
हितानां च तत्सर्वं वृत्तमुच्यते ॥' इति मनुस्मरणात् । यत्तु वृद्धहारीतवचनम्- 'ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिकं द्विजः ॥ शूद्रं हत्वा चरेद्वर्षं वृषभैकादशाश्च गाः ॥' इति, -तत्कामकारविषयम् । श्रोत्रियक्षत्रियादिवधे तु-'तुरीयोऽनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् । अर्धं वैश्य- वधे कुर्यात्तुरीयं वृषलस्य तु ॥' इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत्तु वसिष्ठव- चनम्-'ब्राह्मणो राजन्यं हत्वाऽष्टौ वर्षाणि व्रतं चरेत् , षड् वैश्यं, त्रीणि शूद्रम्' इति,-तदपि हारीतीयेन समानविषयम् । क्षत्रिये त्वीषद्गुणन्यून इत्येतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश्च भवति तदा-'पूर्वयोर्वर्णयोर्वेदाध्यायिनं हत्वा' ( ध० १।२४।६ ) इत्यापस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयागे त्वश्रोत्रिये क्षत्रियादौ व्यापादिते 'यागस्थक्षत्रविट्घाती चरेद् ब्रह्महणि व्रतम्' इति द्रष्टव्यम् । श्रोत्रिये पुनर्यागस्थे क्षत्रियादौ 'ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश्च गा दद्यात् , वैश्यवधे त्रिवार्षि- कमृषभैकशताश्च गा दद्यात् , शूद्रवधे सांवत्सरिकमृषभैकादशाश्च गा दद्यात्' ( २२।१४-१६ ) इति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच्चामति- पूर्वविषयम् । 'पूर्ववदमतिपूर्वे चतुर्षु वर्णेषु प्रमाध्य द्वादश षट् त्रीन् संवत्सरं च व्रतान्यादिशेत्, तेषामन्ते गोसहस्रं च ततोऽर्धं तस्यार्धमर्धं च दद्यात्; सर्वेषामा- नुपूर्व्येण'इति स्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयमेव, किंचिन्न्यूनगु- णे क्षत्रिये गुणाधिकयोर्वैश्यशूद्रयोश्च द्रष्टव्यम् । 'स्त्रीशूद्रविट्क्षत्रवध' इत्युपपात- कमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वादुपपातकसामान्यप्राप्ता- न्यपि प्रायश्चित्तान्यत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस्तु योगी- श्वरोक्तं त्रिरात्रोपवाससहितमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतच्च प्रागुक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् ।-'अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । तथा ब्राह्मणराजन्यवधे षड्वार्षिकं तथा ॥ ब्राह्मणः क्षत्रियं हत्वा' ( ११।१२७ ) इत्यादिषु मनुगौतम- हारीतवसिष्ठवाक्येषु 'ब्राह्मण'ग्रहणात् । क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम् ; 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धमेकपादस्तु शूद्रजातिषु शस्यते ॥' इति वृद्धविष्णुस्मरणात् । 'यत्तु पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षदूच्च व्रतं स्मृतम् ॥' इत्याङ्गिरोवचनं तत्प्रातिलोम्येन वाग्दण्डपारुष्यविषयमित्युक्तं गोवधप्रकरणे । मूर्धावसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति; तेषां क्षत्रियादित्वाभावात् ।
१-२. वृद्धहारीतोक्तम् ।
प्रायश्चित्ताध्यायः ५६६ अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धह्रासौ कल्पनीयौ । दण्डस्य च वृद्धह्रासौ दर्शितौ—'दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः' (व्य० २०६) इत्यत्र ॥ २६६-२६७ ॥ भाषा—क्षत्रिय का वध करने पर प्रायश्चित्त कर्ता पुरुष एक साँड़ (प्रौढ़ बछवा) के साथ एक हजार गौओं का दान करे अथवा ब्रह्महत्याव्रत तीन वर्षों तक करे । वैश्य का वध करने वाला एक वर्ष तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ एक सौ गौओं का दान करे । शूद्र का वध करने वाला छै मास तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ नई ब्यायी दस सवत्सा गौवों का दान करे ॥ २६६-२६७ ॥ इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम् । स्त्रीवधे प्रायश्चित्तमाह— १दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ २६८ ॥ ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधार- चर्मकोशं, धनुः कार्मुकं, बस्तं छागं, अविं मेषं च, विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतौ वधविषयम् । कामतस्तु ब्रह्मगर्भ आह—'प्रतिकोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावित्येवं यथार्हंतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं २व्यापादयति तदा किंचिद्देयम् । 'वैशिकेिन किंचित्'० (२२।२७) इति गौतमस्मरणात् । वैशि- केन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कू- पेऽथ विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरःस्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गो- वधप्रायश्चित्तानि यथार्हं योज्यानि ॥ २६८ ॥ भाषा—ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र की व्यभिचारिणी स्त्री का वध करने पर प्रायश्चित्त कर्ता यथाक्रम (वर्णानुक्रम) से जल भरने वाला चमड़े का मशक, धनुष, बकरा तथा भेड़ का दान करे ॥ २६८ ॥ १. दुर्वृत्ता ब्रह्मन्नृपविट्शूद्रयोषाः । २. व्यापादितास्तदा ।