अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
| अभिज्ञानशकुन्तलम् | प्रथमोऽङ्कः | 107 |
|---|
अथवा काममप्रतिरूपमस्य वयसो वल्कलं न पुनरलङ्कारश्रियं न पुष्णाति। कुतः–
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति। इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥१-१९॥
[अपि च–
कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपं न मनसि रुचिभंगं स्वल्पमप्यादधाति। विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं निजमिव कमलिन्याः कर्कशं वृन्तजालम्॥१-२०॥]²³
शकुन्तला–(अग्रतोऽवलोक्य) सहीओ, एस वादेरिदपल्लवाङ्गुलीहिं किं पि वाहरेदि विअ मं चूदरुक्खओ। ता जाव णं संभावेमि। (इति तथा करोति) (सख्यौ, एषः वातेरितपल्लवाङ्गुलीभिः किमपि व्याहरतीव मां चूतवृक्षकः। तद्यावदेनम् सम्भावयामि)
प्रियंवदा–हला सउन्तले, इध ज्जेव मुहुत्तअं चिट्ठ। (सखि शकुन्तले, इहैव मुहूर्त्तकं तिष्ठ।)
शकुन्तला–किं णिमित्तं। (किं निमित्तम्।)
उर्दनरूप/तद्बर्धनरूप वाग्-व्यापाराच्च निरन्तरोत्पन्न-सात्त्विक-व्यभिचारिभावाच्च रसपुष्टिः। स्वोक्तम् आक्षिपति-अथवेति। अप्रतिमरूप(म्) मन्तव्यं अस्य वयसो यौवनस्येत्यर्थः। शङ्करस्तु वयो यौवनमित्याह। वयो यौवनमात्रके इति विश्वः। न पुष्णाति [इति] न, अपि तु पुष्णात्येव। निषेधस्य निषेधेन स्वायोगव्यवच्छेद इति चातुर्यम्, एवमना(न्य)त्र। अतुल्य सम्बन्धेऽपि शोभात्वे दृष्टेत्याह। सर०। (1-19)। मधुराणां निसर्गसुन्दरीणाम् आकृतीनां समर्थनामाह-किमिव हि इति।। सामान्येन विशेषसमर्थन-रूपो-ऽर्थान्तरन्यासः। स च शकुन्तला-सरसिजयोः सादृश्य-प्रतीतिहेतुकदीपकेन सङ्कीर्णः। स(श)ङ्करस्तु तुल्ययोगितामाह। इदञ्च माधुर्यं नाम यौवनालङ्कारः। तदुक्तम्-सर्ब्वावस्थाविशेषेण माधुर्यं रमणीयतेति।
कठिन०।। (1-20)। कान्तरूपमेतत् सङ्गादिति भावः। रुचिरिच्छा स्तोकेति ईषद्-दूखित/(विकच?)पुष्याऽधोभागम्। पद्यमिदं दाक्षिणात्य-तीरभुक्तीय ग्रन्थेषु न दृश्यते।।
सख्यौ, एष वातेरितपल्लवाङ्गुलीभिः किमपि मां व्याहरतीव वृक्षः, तस्मादेनं सम्भावयामि जन(ल)दानादिना पुरस्करोमि, प्राप्नोमि वा। सखि शकुन्तले, इहैव मुहूर्तं तिष्ठ। किं निमित्तम्। किमर्थम् मया स्थातव्यमित्यर्थः। त्वया समीपस्थितया लतासनाथ इवायं चूतवृक्षः प्रतिभाति। अत एव प्रियम्वु(यंव)देति, त्वम् उच्यसे।
२३. अंशोऽयं रिचार्ड पिशेलेन सम्पादिते बंगदेशीयपाठे न स्वीकृतः।
108 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
प्रियंवदा-तए समीवट्ठिदाए लदासणाधो विअ अअं चूदरुक्खओ पडिभादि। (त्वया समीपस्थितया लतासनाथः इव अयं चूतवृक्षकः प्रतिभाति।)
शकुन्तला-अदो ज्जेव पिअंवद त्ति तुमं वुच्चसि। (अतः एव प्रियंवदा इति त्वम् उच्यते।)
राजा-अवितथमाह प्रियंवदा, तथा ह्यास्याः
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्।।1-21।।
अनुसूया-हला सउन्तले, इअं सअंवरवहू सहआरस्स तए किदणामहेआ वणदोसिणि त्ति णोमालिआ। (हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनतोषिणी इति नवमालिका।)
शकुन्तला-(उपगम्यावलोक्य च सहर्षम्) हला अणसूए, रमणीओ क्खु इमस्स पादवमिधुणस्स वदिअरो संवुत्तो। इअं णवकुसुमजोव्वणा णोमालिआ, अअं पि बद्धफलदाए उवभोअक्खमो सहआरो त्ति। (इति पश्यन्ती तिष्ठति)
(सखि अनसूए, रमणीयः खल्वस्य पादपमिथुनस्य व्यतिकरः संवृत्तः। इयम् नवकुसुमयौवना नवमालिका, अयमपि बद्धफलतया उपभोगक्षमः सहकारः इति।)
प्रियंवदा-(सस्मितम्) अणसूए, जाणासि किं णिमित्तं सउन्तला वणदोसिणिं अदिमेदं पेक्खदि त्ति। (अनसूये, जानासि किंनिमित्तं शकुन्तला वनतोषिणीमतिमात्रं प्रेक्षते इति।)
अनुसूया-ण क्खु विभावेमि। कधेहि। (न खलु विभावयामि। कथय।)
प्रियंवदा-जधा वणदोसिणी सरिसेण पादवेण संगदा तथा अवि णाम अहं पि अत्तणो अणुरूवं वरं लहेअं ति। (यथा वनतोषिणी सदृशेन पादपेन सङ्गता, तथापि नामाहम् अप्यात्मनोऽनुरूपं वरं लभेयेति।)
अधरः०।। (1-21)। विटपः शाखी। शाखा तु विटपोऽस्त्रियामिति कोषः। लोभनीयं लोभजनकम्। कर्त्तव्यनीयः। पदोच्चयाख्यम् नाट्यलक्षणमिदम्। स योऽर्थानुरूपो यः पदानां, स पदोच्चय इत्युक्तेः। अत्र हि पद-पदार्थयोः सौकुमार्यं तुल्यमेव। उपमालङ्कारः।
सखि शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया “वनतोषिणी”ति नवमालिका तिष्ठतीत्यर्थः। स्वयंम्वरवधूः स्वातन्त्र्यविहितवल्लभा। एतेन तवापि स्वातन्त्रेण वल्लभलाभ इति सूचनमिति शङ्करः। रमणीयः खलु एतस्य पादपमिथुनस्य व्यतिकरः संपर्कः संवृत्तः। व्यतिकर इति स्थाने, काल इति पाठः क्वचित्। रमणीयत्वमेवाह, इयं नवकुसुमयौवना नवमालिका, अयमपि बद्धफलतया उपभोगक्षमः सहकारः। अनसूये, जानासि किं निमित्तं शकुन्तला वनतोषिणीम् अतिमात्रं पश्यति। दृशेः पुलअ-पेच्छ-निअहा इति प्राकृतसूत्रम्। न खलु विभावयामीत्यर्थात्। यथा वनतोषिणी सदृशेन पादपेन सङ्गता, तथाऽहमपि नामानुरूपं वरं लभेयमिति। वरं जामातारम्।
अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 109
शकुन्तला— एस अत्तणो दे चित्तगदो मणोरधो। (एषः आत्मनः ते चित्तगतः मनोरथः।)
(इति कलशमावर्जयति।)
अनुसूया— हला सउन्तले, इअं तादकण्णेण तुमं विअ सहत्थसंवड्ढिदा माहवीलदा। इमं विसुमरिदा सि। (सखि शकुन्तले, इयम् तातकण्वेन त्वमिव स्वहस्तसंवर्धिता माधवीलता। इमां विस्मृतासि।)
शकुन्तला— तदो अत्ताणं पि विसुमरिस्सं। (लतामुपेत्यावलोक्य च सहर्षम्) अच्छरीअं अच्छरीअं। पिअंवदे, पिअं दे णिवेदमि। (ततः आत्मानमपि विस्मरिष्यामि। आश्चर्यम् ... ... आश्चर्यम् ....... प्रियंवदे, प्रियं ते निवेदयामि।)
प्रियंवदा— सहि, किं मे पिअं। (सखि, किं मे प्रियम्।)
शकुन्तला— असमए क्खु एसा आ मूलादो मउलिदा माहवीलदा। (असमये खल्वेषा आमूलात् मुकुलिता माधवीलता।)
उभे— (सत्वरमुपगम्य) सहि,सच्चं सच्चं। (सखि, सत्यं सत्यम्।)
शकुन्तला— सच्चं, किं ण पेक्खध। (सत्यम्। सखि, किं न प्रेक्षेथे।)
प्रियंवदा— (सहर्षम् निरूप्य) तेण हि पडिप्पिअं दे णिवेदेमि। आसण्णपाणिग्गहणा सि तुमं। (तेन हि प्रतिप्रियं ते निवेदयामि। आसन्नपाणिग्रहणासि त्वम्।)
शकुन्तला— (सासूर्यम्) णूणं एस दे अत्तगदो मणोरधो। (नूनम् एषः ते आत्मगतः मनोरथः।)
प्रियंवदा— ण क्खु परिहासेण भणामि। सुदं खु मए तादकण्णस्स मुहादो तुए कल्लाणसूअअं इदं णिमित्तं ति। (न खलु परिहासेन भणामि। श्रुतं खलु मया तातकण्वस्य मुखात्त्व कल्याणसूचकम् इदं निमित्तम् इति।)
अनुसूया— पिअंवदे, अदो ज्जेव सउन्तला ससिणेहा माहवीलदं सिञ्चदि। (प्रियंवदे, अतः एव शकुन्तला सस्नेहा माधवीलतां सिञ्चति।)
शकुन्तला— जदो मे बहिणिआ भोदि तदो किं ति ण सिञ्चिस्सं। (यतः मे भगिनी भवति ततः किमिति न सेक्ष्यामि। (इति कलशमावर्जयति)
एष आत्मनस्ते चित्तगतो मनोरथः। सखि शकुन्तले, इयं तातकण्वेन त्वमिव स्वहस्तसंवर्द्धिता माधवीलता, तत्कथमेनां विस्मृतासि। गत्यार्थादि-सूत्रे चकारात् कर्तरि क्तः। अतः आत्मानमपि विस्मरिष्यामि। सहर्षम् इति। अस्याः कुसुमोद्गमोऽयं मम विवाहसूचक इति भावात्। आश्चर्यम् आश्चर्यम् द्विरुक्ती(किरि)व सावेशेन अकालकुसुमदर्शनाद् आश्चर्यम्। प्रियंवदे, प्रियं ते निवेदयामि। सखि, किम् मे प्रियम्। असमये खल्वेषा आमूलान्मुकुलिता माधवीलता। क्खु-शब्दः खल्वर्थः इति साहित्यरत्नाकरः। सखि, अपि सत्यं, सत्यं किं न पश्यथ। तेन हि प्रतिप्रियं ते निवेदयामि।
110 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
राजा- अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा भवेत्। अथवा कृतं सन्देहेन,
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ 1-22 ॥
तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला- (ससंभ्रमम्) अम्मो, णोमालिअं उज्झिअ वअणं मे महुअरो अहिलसदि।
(अम्भो, नवमालिकामुज्झित्वा वदनं मे मधुकरः अभिलषति।) (इति भ्रमरबाधां रूपयति)
राजा- (सस्पृहम्)
यतो यतः षट्चरणोऽभिवर्तते ततस्ततः प्रेरितवामलोचना।
विवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्रमम् ॥ 1-23 ॥
अपि च (सासूयमिव)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः।
तदेवाह-आसन्नपाणिग्रहणा त्वम्। सासूयमिति। असूया दोषेष्वपि गुणारोपः। नूनमेष ते आत्मगतो मनोरथः। न खलु परिहासेन भणामि। श्रुतं खलु मया तातकण्वस्य मुखात् तव कल्याणसूचकमेतन्निमित्तमिति। खलु वाक्यालङ्कारे। प्रियंवदे, अत एव शकुन्तला सस्नेहा माधवीलतां सिञ्चति। यतो भगिनी भवति, ततः किं न सिञ्चामि। “अपि नामे”ति निपातसमुदायः सम्भावनायाम्। असं(शयम्)०।। (1-22) परिग्रहः परिणयनं, आर्यम् समर्यादं, न सर्वगामीत्यर्थः आकाङ्क्षा मात्रेण कथं सस्नेहाभाव इत्याह-सतां हि इति। सन्देहाश्रयेषु मनोव्यापारा एव प्रमाणम्। अर्थान्तरन्यासः। अनुमानमिति शङ्करः। मतिर्नाम व्यभिचारीति भावः। तदुक्तं शास्त्रोक्तार्थानुसन्धानाद् अर्थनिर्धारणम् मतिः। इयं च प्रथमकामावस्था। तदुक्तं-प्रथमेऽभिलाषश्च स्यादिति।। सम्भ्रमस्त्रासः। अम्मो आश्चर्यम्। तदुक्तं भरतेन, विस्मये हे स्महे अम्मे(म्मो?) नित्यं स्त्रीभिः प्रयुज्यत इति।। नवमालिकामुज्झित्वा म(व)दनं मे मधुकरो मेऽभिलषति। शङ्करस्तु-सलिलसेकसम्भ्रान्तो मधुकरो वदनं मे अभिलषति पीडयतीति पाठान्तरम् आह। भ्रमराबाधां भ्रमरकृतपीडाम्। यतो०। (1-23) यतो यत्राभिवर्तते संमुखमागच्छति। ततस्तु एतस्माद् वा प्रेरितो लोचनाञ्चलः कटाक्षो यया। वामेति पाठे वाम सुन्दरं, विवर्तितभ्रूश्चालितभ्रूः, अकामाऽप्यननुभूतकामभावापीत्यर्थः। विभ्रमं विलासः, दृष्टिरियं शृङ्गारे, तदुक्तं सभ्रूक्रेपकटाक्षा च शृङ्गारे दृष्टिरिष्यत इति।।
चला(पाङ्गां)। (1-24)। रहस्याख्यायी सङ्गोऽप्यकथकः(?) रतिसर्वस्वं रतिनिधानं मधु सर्वस्वमिति क्वचित् पाठः। हताः शोच्या, ब्राह्मणी न वेति सन्देहे, नाहमेनां न कामये, त्वं पुनरसन्दिग्ध एनां कामयसे इति तव कृतार्थत्वम्। अन्योऽपि नागरो लोचनचुम्बनं, कर्णान्तिके लघुभाषणं, अधरपानञ्च करोति। अभिलाषरूपा प्रथमावस्थेयमिति शङ्करः। वाक्यार्थहेतुः काव्यलिङ्गालङ्कारः।
अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 111
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।। 1–24 ।।
शकुन्तला—हला, परित्ताअध मं इमिणा दुट्ठमहुअरेण अभिभूअमाणं। (सख्यौ, परित्रायेथाम् मामनेन दुष्टमधुकरेणाभिभूयमानाम्।
उभे—(सस्मितम्) काओ अम्हे परित्ताणे। एत्थ दाव दुस्सन्तं सुमर, जदो राउरक्खिदाईं तवोवणाईं। (के आवाम् परित्राणे। अत्र तावत् दुःषन्तं स्मर, यतः राजरक्षितानि तपोवनानि।)
राजा—अवसरः खल्वयम् आत्मानं दर्शयितुम्। न भेतव्यम् ...............। (इत्यर्धोक्ते) (अपवार्य) एवं राजाहमिति परिज्ञानं भवेत्। भवतु, अतिथिसमाचारमवलम्बिष्ये।
शकुन्तला—ण एसो दुव्विणीदो विरमदि। ता अण्णदो गमिस्सं। (पादान्तरे सदृष्टि-विक्षेपम्) हद्धी हद्धी। कधं इदो वि मं अणुसरदि। ता परित्ताअध मं।
(नैषः दुर्विनीतः विरमति, तदन्यतः गमिष्यामि। हा धिक्, हा धिक्, इतोऽपि मामनुसरति। तत्परित्रायेथाम् माम्।)
राजा—(सत्वरमुपगम्य) आः—
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ।। 1–25 ।।
(सर्वा राजानं दृष्ट्वा किं चिदिव सम्भ्रान्ताः।)
सख्यौ, परित्रायेथां मां मधुकरेणाऽभिभूयमानाम्। के आवां परित्राणे। अत्र तावद् दुःस्व(ष)न्तम् स्मर, यतो राजरक्षितानि तपोवनानि।। नैष दुर्विनीतो विरमति। तत्तस्माद् अन्यतोऽन्यत्र गमिष्यामि। हन्धी खेदे, हा धिगित्यर्थे वा। हन्धीत्यव्ययं खेदे इति प्राकृत-साहित्यरत्नाकरः। हन्धीति हा धिगित्यर्थे नित्यं स्त्रीभिः प्रयुज्यत इति नाट्यलोचनः। शङ्करस्तु आवेगाद् द्विरुक्तिः। प्राकृते हा धिगित्यर्थे "हन्धी" नित्यं द्विरुच्यत इति भरत इत्याह। कथमितोऽपि माम् अनुसरति, तत् परित्रायेथाम्।
आः कोपे। कः पौ०। मुग्धासु (1-25) निरपराधास्विति यावत्। कोऽयम् अज्ञातशीलः। अध्यवसाय नामा नाट्यालङ्कारोऽयम्। यदाह कार्येष्वध्यवसायो यश्च लनागर्भितं वचः इति शङ्करः। आर्य, न किञ्चिदत्याहितं महाभीतिः। किन्तु इयं नः प्रियसखी मधुकरेणाकुलीक्रियमाणा कातरीभूता अस्तीति शेषः। इदानीम् अतिथिविशेषलाभेन। तपो वर्धत इत्यनुषङ्गः च अनुवृत्तिर्नाम नाट्यालङ्कारोऽयम्।
| 112 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम् |
|---|
अनुसूया—अज्ज, ण किं पि अच्चाहिदं। किं तु इमं णो पिअसही महुअरेण आउलीअमाणा कादरीभूदा। (आर्य, न किमप्यत्याहितम्। किन्तु, इयम् नौ प्रियसखी मधुकरेणाकुलीक्रियमाणा कातरीभूता।) (इति शकुन्तलां दर्शयति।)
राजा—(शकुन्तलामुपेत्य) अयि तपो वर्धते। (शकुन्तला ससाध्वसम् अवनतमुखी तिष्ठति।)
अनुसूया—इदाणिं अदिधिविसेसलम्भेण। (इदानीमतिथिविशेषलाभेन।)
प्रियंवदा—साअदं अज्जस्स। हला सउन्तले, गच्छ उडआदो फलमिस्सं अग्घं उवहर। इदं पि पादोदअं भविस्सदि। (स्वागतमार्यस्य, सखि शकुन्तले, गच्छ कुटजात्फलमिश्रम् अर्घमुपहर। इदमपि पादोदकम् भविष्यति।)
राजा—भवति, सूनृतयैव वाचा कृतमातिथ्यम्।
अनुसूया—तेण हि इमस्सिं सहावसीदलाए सत्तवण्णवेदिआए उवविसिअ परिस्समं अवणेदु अज्जो। (तेन ह्यस्याम् स्वभावशीतलायां सप्तपर्णवेदिकायामुपविश्य परिश्रमम् अपनयतु आर्यः।)
राजा—ननु यूयमप्यनेन धर्मकर्मणा परिश्रान्ताः। तन्मुहूर्त्तमुपविशत।
प्रियंवदा—(जनान्तिकम्) हला सउन्तले, उइदं णो अदिधिपज्जुवासणं। ता एहि उवविसम्ह। (सखि शकुन्तले, उचितं नः अतिथिपर्युपासनम्। तत् एहि उपविशामः। (इति सर्वा उपविशन्ति।)
शकुन्तला—(आत्मगतम्) किं णु क्खु इमं जणं पेक्खिअ तवोवणविरोहिणो विआरस्स गमणीअ म्हि संवृत्ता। (किन्नु खलु इमं जनं प्रेक्ष्य तपोवनविरोधिनः विकारस्य गमनीया अस्मि संवृत्ता।)
राजा—(सर्वा अवलोक्य) अहो, समानवयोरूपरमणीयं सौहार्दमत्रभवतीनाम्।
तदुक्तं अत्र... दनुवर्तनमनुवृत्तिरिति। स्वागतमार्यस्य। सखि शकुन्तले, गच्छ कुटजात् फलमिश्रमर्घमस्मै उपहर। इदमपि पादोदकं भविष्यति। तेन हि अस्यां स्वभाव-शीतलायां सप्तपर्णवेदिकायाम् उपविश्य परिश्रममुपनयत्वार्यः। प्रच्छायशीतलायाम् इति शङ्करधृतः पाठः। सप्तपर्णतले या वेदिः परिष्कृतभूमि-विश्रामस्थानमिति यावत्।
जनान्तिकमिति। त्रिपताककरेणाऽन्यम् अपवार्यान्तरा कथाम् अन्योन्यामन्त्रणं यत् स्यात्, जनान्ते तज्जनान्तिकमिति। हस्तेन त्रिपताकेन संज्ञया यदुदीर्यते, बहूनां पुरतो मध्ये तज्जनान्तिकमुच्यते इत्यन्यत्र। सखि शकुन्तले, उचितं नोऽतिथि-पर्युपासनं, तदेह्युपविशामि(मः)।
किन्नु खलु इमं जनं प्रेक्ष्य तपोवन-विरोधिनो विकारस्य गमनीयाऽस्मि संवृत्ता। नु-शब्दो वितर्के। खलु-शब्दो निश्चये। अत्रभवतीनां श्लाघ्यानां भवतीनामित्यर्थः। सखि अनुसूये, क एष मधुरगम्भीरा-कृतिर्मधु[र] समालेपन प्रभुत्वदाक्षिण्यं विस्तारयति। गाम्भीर्य्यमाह भरतः। विकाराः
अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 113
प्रियंवदा- (जनान्तिकम्) हला अणुसूए, को णु क्खु एसो दुरवगाहगम्भीराकिदी महुरं आलवन्तो पहुत्तदक्खिण्णं वित्थारेदि। (सखि अणुसूये, को नु खल्वेषः दुरवगाह-गम्भीराकृतिः मधुरमालपन् प्रभुत्वदाक्षिण्यम् विस्तारयति।)
अनुसूया- हला, ममावि कोदूहलं। पुच्छिस्सं दाव णं। (प्रकाशम्) अज्जस्स महुरालावजणिदो विस्सब्भो मं आलावेदि। कदरो उण अज्जेण राएसिवंसो अलंकरीअदि कदरो वा देसो विरहपज्जुस्सुओ करीअदि। किं णिमित्तं अज्जेण सुउमारेण तवोवणागमणपरिस्समे अप्पा उवणीदो त्ति। (सखि, ममापि कौतुहलम्। प्रक्ष्यामि तावदेनम्। आर्यस्य मधुरालापजनितः विश्रम्भः मामालापयति। कतरः पुनरार्येण राजर्षिवंशः अलङ्क्रियते, कतरः वा देशः विरहपर्युत्सुकः क्रियते। किन्निमित्तमार्येण सुकुमारेण तपोवनागमनपरिश्रमे आत्मा उपनीतः इति।)
शकुन्तला- (आत्मगतम्) हिअअ, मा उत्तम्म जं तए चिन्तिदं तं अणुसूआ मन्तेदि। (हृदय, मा उत्ताम्य। यत्त्वया चिन्तितं तत् अनसूया मन्त्रयते।)
राजा- (स्वगतम्) कथमिदानीमात्मानं निवेदयामि, कथं वात्मनः परिहारं करोमि। (विचिन्त्य) भवत्वेवं तावत्। (प्रकाशम्) भवति, वेदविदस्मि राज्ञः पौरवस्य नगरधर्माधिकारे नियुक्तः पुण्याश्रमदर्शनप्रसङ्गेन धर्मारण्यमिदमायातः।
अनुसूया- सणाधा धम्मआरिणो। (सनाथाः धर्मचारिणः।)
(शकुन्तला शृङ्गारलज्जां नाटयति)
सख्यौ- (उभयोराकारं विदित्वा जनान्तिकम्) हला सउन्तले, जइ अज्ज तादो इध संणिहिदो भवे। (सखि शकुन्तले, यद्यद्य तातः इह सन्निहितः भवेत्।)
शकुन्तला- तदो किं भवे। (ततः किं भवेत्।)
सहजा यस्य हर्षशोकभयादिषु भावेषु नोपलभ्यन्ते तद् गाम्भीर्यमुदाहृतम् इति। प्रभुत्वदाक्षिण्यं प्रभुत्वेन सह दाक्षिण्यं, पाठान्तरे प्रभूतं बहुलम्। शङ्करस्तु चतुना(चतुरा) मनोहरा गंभीरा चेति पाठमाह। ममापि कौतुहलं ज्ञानोत्कण्ठा तत् प्रवेक्षामि तावदेनम्। प्रकाशमिति। सर्व्वश्राव्यम् प्रकाशं स्यादिति भरतः। आर्यस्य मधुरालापजनितो विस्रम्भो विश्वासो माम् आलापयति, अर्थयते भवन्तं पृच्छामीति शेष इति शङ्करः। कतरः पुनरार्य्येण राजर्षिवंशोऽलङ्क्रियते। कतरः च पुनर्वर्ण इति शङ्करसम्मतः पाठः। कतरो वा देशो विरहपर्युत्सुकः क्रियते। किं निमित्तं वा आर्येण सुकुमारेण तपोवनपरिश्रमे उपनीयते। तपोवनागमनं किं निमित्तमित्यर्थः। हे हृदय, मा उत्ताम्य। मा ग्लानं भव, यत् त्वया चिन्तितं तदनुसूया मन्त्रयते, पृच्छति।
क्रमेणानुसूया कृतप्रश्ने उत्तराण्याह-वेदविदिति। ब्राह्मणङ्कत्र(क्षत्रिय)योरेव सम्बद्धत्वात् सङ्गोपनं प्रकाशते बोद्धव्यं धर्माधिकारोत्युभयत्र संलगनमिति सर्वत्र सत्यवादि[त्व]म् अखण्डमेवास्छि(स्थि)तमिति भावः। सनाथा धर्मचारिणः। त्वङ्गे(मेवं) तपोवनमिदं अलङ्कृतवानसीति भावः।
114 चंद्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
उभे-तदो जीविदसव्वस्सेणावि इमं अदिधिविसेसं किदत्थं करेदि। (ततः जीवितसर्वस्वेनौपि इमम् अतिथिविशेषं कृतार्थं करोति।)
शकुन्तला- (सकृतक-कोपम्) अवेध, किं पि हिअए कदुअ मन्तेध। ण वो वअणं सुणिस्सं। (अपेतुम्, किमपि हृदये कृत्वा मन्त्रयेथे। न वां वचनं श्रोष्यामि।)
राजा- वयमपि तावद्भवत्यौ सखीगतं किं चित्पृच्छामः।
उभे-अज्ज अणुग्गहे वि अब्भत्थणा। (आर्य, अनुग्रहे अप्यभ्यर्थना।)
राजा-तत्रभवान् कण्वः शाश्वते ब्रह्मणि वर्तते, इयं च वः सखी तस्यात्मजेति कथमेतत्।
अनसूया-सुणादु अज्जो, अत्थि कोसिओ त्ति गोत्तणामहेओ महप्पहावो राएसी। (शृणोत्वार्यः, अस्ति कौशिकः इति गोत्रनामधेयः महाप्रभावो राजर्षिः।)
राजा-तत्रभवान्कौशिकः।
अनसूया-तं सहीए पहवं अवगच्छ। उज्झिदसरीरसंवड्ढणाए उण तादकण्णो से पिदा। (तं सख्याः प्रभवमवगच्छ। उज्झितशरीरसंवर्धनया पुनः तातकण्वः अस्याः पिता।)
राजा-उज्झित शब्देन जनितं नः कुतूहलम्। तदा मूलाच्छ्रोतुमिच्छामः।
अनसूया-सुणादु अज्जो, पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स कधं पि जादसङ्केहिं देवेहिं मेणआ णाम अच्छरा णिअमविग्धआरिणी पेसिदा। (शृणोत्वार्यः, पुरा किल तस्य राजर्षेः उग्ने तपसि वर्तमानस्य कथमपि जातशङ्कैः देवैः मेनका नामाप्सराः नियमविघ्नकारिणी प्रेषिता।)
राजा-अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्। ततस्ततः।
अनसूया-तदो वसन्तोदाररमणीए समए उन्मादइत्तं ताए रूवं पेक्खिअ।
शृङ्गारलज्जां शृङ्गारकृतलज्जां नाटयत्यभिनयति। आकारमाकृतिं चेष्टां वा, आकारस्त्विङ्गिताकृत्योरिति मेदिनी। सखि शकुन्तले, यद्यद्य तात इह सन्निहितो भवेत्ततः किं भवेत्।
वे(ले)शाख्योऽयमलङ्कारः। तदुक्तं यद्वाक्यं वाक्यकुशलैः सुश्लिष्टार्थं प्रयुज्यते। नैपुण्योद्घाट्यते यत्र स लेशः परिकीर्तितः।। इति शङ्करः।
ततो जीवितसर्वस्वेनापि इममतिथिविशेषं कृतार्थं करोति। अथ च जीवितसर्वस्वं तस्य त्वमेव। अपसरतम्, किमपि हृदये कृत्वा मन्त्रयेथे, न युवयोर्वचनं श्रोष्यामि। सखीगतं शकुन्तलागतम्। आर्य, अनुग्रहेऽप्यभ्यर्थना। शृणोत्वार्यः, अस्ति कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः। कौशिकस्यापत्यमिति, कुलक्रमागतं नामेत्यर्थः। तं सख्याः प्रभवं पितरमवगच्छ। स्याज्जन्महेतुः प्रभव इति शाश्वतः। उज्झितशरीरसम्बर्द्धनया। पुरस्तात् कण्वोऽस्याः पिता। शृणोत्वार्यः, पुरा किल तस्य राजर्षे उग्ने तपसि वर्तमानस्य कथमपि जातशङ्कैर्देवैर्मेनका नामाप्सरा नियमविघ्नकारिणी प्रेषिता। तस्यास्तत्र गमनानध्यवसायात् कथमपीत्युक्तम्। ततो वसन्तोदारे रमणीये समये उन्मादि उन्मादकारि,
अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 115
(ततो वसन्तोदाररमणीये समये उन्मादयितृकं तस्याः रूपं प्रेक्ष्य।)
(इत्योर्धोक्ते लज्जां नाटयति)
राजा-पुरस्तादवगम्यत एव। सर्वथाप्सरःसम्भवैषा।
अनुसूया-अध इं। (अथ किम्।)
राजा-उपपद्यते,
मानुषीभ्यः कथं नु स्यादस्य रूपस्य संभवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्।।1-26।।
(शकुन्तला सव्रीडाधोमुखी तिष्ठति)
राजा-(आत्मगतम्) हन्त, लब्धावकाशा मे मनोरथाः।
प्रियंवदा-(सस्मितम् शकुन्तलां विलोक्य) पुणो वि वत्तुकामो विअ अज्जो। (पुनः अपि वक्तुकामः इव आर्यः।) (शकुन्तला सखीमङ्गुल्या तर्जयति।)
राजा-सम्यगुपलक्षितं भवत्या। अस्ति नः सुचरितश्रवणलोभादन्यदपि प्रष्टव्यम्।
प्रियंवदा-तेण हि अलं विआरिदेण। अणिज्जन्तणणिओओ क्खु तवस्सिअणो। (तेन हि अलं विचारितेन। अनियन्त्रणनियोगः खलु तपस्विजनः।)
राजा-एतत्पृच्छामि-
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम्।
अत्यन्तमेव सदृशेक्षणवल्लभाभि-
राहो निवत्स्यति समं हरिणाङ्गनाभिः।।1-27।।
हेतुकशब्दो मतुबर्थः। तस्या रूपं प्रेक्ष्य दृष्ट्वा लज्जामिति रहस्यनिवेदनात्। अथ किं स्वीक्रिया नामे इति नाट्यलोचनः।
मानुषी। (1-26) अस्य परिदृश्यमानस्य प्रभावो हि तेजसो रूपमित्यागमः। तच्च रूपं सौरचान्द्रादि तेजस एव नान्यस्य। प्रभया तरलं प्रभातरलं वसुधातलात् पातालात्, किन्तु गगनादेरित्यर्थः। प्रभातरलं ज्योतिर्विद्युदिति केचित्। प्रतिवस्तूपमालङ्कारः। तदुक्तं प्रतिवस्तूपमा सा स्यात् वस्तुनो रूप्यमानयोः। एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथगिति। अर्थान्तरन्यास इति शङ्करभ्रमः। लब्धेति। असवर्णत्व निश्चयादिति भावः। पुनरपि वक्तुकाम इवार्यो लक्ष्यते। अङ्गुलि(ल्या) तर्जनञ्च। ललिताख्यो भावः। तदुक्तं कविकण्ठहारेण भ्रू-नेत्रादिक्रियाशाली सुकुमारविधानतः। हस्तपादादि-विन्यासस्तरुण्या ललितं मतमिति।। तेन हि अलं विचारितेन, अनियन्त्र[ण]नियोगः खलु तपस्विजनः, तेन हीति स्वीकारे। तेन हि स्वीकृतौ प्रोक्तम्। तथा हेतुविधानयोरिति कोषः इति शङ्करः। वैखा०।। (1-27) वैखानसं नियतारण्यवासरूपम् आप्रदानं वराय प्रदानपर्यन्तं, निवत्स्यति स्थास्यति। आहो विकल्पे मृगीभिः सह।
116 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
प्रियंवदा-अज्ज, धम्माअरणपरव्वसो अअं जणो। गुरुणो उण से अणुरूववरप्पदाणे संकप्पो। (आर्य, धर्माचरणपरवशोऽयं जनः। गुरोः पुनः अस्याः अनुरूपवरप्रदाने सङ्कल्पः।)
राजा- (आत्मगतं सहर्षम्)
भव हृदय साभिलाषं सम्प्रति सन्देहनिर्णयो जातः।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्।।1-28।।
शकुन्तला-(सरोषमिव) अणूसूए, गमिस्सं अहं। (अनुसूये, गमिष्याम्यहम्।)
अनुसूया-किं णिमित्तं। (किं निमित्तम्)
शकुन्तला-इमं असंबद्धप्पलाविणिं पिअंवदं अज्जाए गोदमीए गदुअ णिवेदइस्सं। (इमामसंबद्धप्रलापिनीम् प्रियंवदाम् आर्यायै गौतम्यै गत्वा निवेदयिष्यामि। (इत्युत्तिष्ठति)
अनुसूया-सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्जिअ सच्छन्ददो गमणं। (सखि, न युक्तं आश्रमवासिनः जनस्य अकृतसत्कारम् अतिथिविशेषम् उज्झित्वा स्वच्छन्दतः गमनम्। (शकुन्तला उत्तरम् अदत्त्वैव प्रस्थिता)
राजा- (अपवार्य) कथं गच्छति ......। (उत्थाय जिघृक्षुरिवेच्छां निगृह्य) अहो, चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः। अहं हि-
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः।
स्वस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः।।1-29।।
प्रियंवदा-(शकुन्तलामुपसृत्य) हला चण्डि ण लब्भदि गन्तुं। (सखि चण्डि न लभ्यते गन्तुम्)
शकुन्तला- (परिवृत्य सभ्रूक्षेपम्) किं ति। (किमिति।)
आर्य, धर्माचरण-वशः परतन्त्रोऽयं जनः। गुरोः पुनरनुरूपवरप्रदाने सङ्कल्पः। वरो जामातरि श्रेष्ठे इति शाश्वतः। आयत्ततायाम् आयत्ते प्रभुत्वं च वशं विदुरिति च। असवर्णत्व-निश्चयाद्योग(ग्य) वरप्रदाने श्रवणाच्च प्रमोदातिशयात्। स्वहृदयमुद्दिश्याह।
भव०।। (1-28) हे हृदय, साकाङ्क्षं भव। संप्रति प्रियमुं(यं व)दाकथानन्तरं सन्देहनिर्णयः सन्देहान्निश्चयो जातः। सन्देहे सति यो निर्णय इति शङ्करः। यद् वस्तु शकुन्तलारूपं ब्राह्मणीजत्वेनाग्निमाशंकसे, तत् स्पर्शयोग्यं रत्नमेव जातम्। अनुसूये, गमिष्याम्यहं। किं निमित्तम्। इमामसम्बद्धप्रलापिनीं प्रियमु(यं व)दाम् आर्यायै गौतम्यै गत्वा निवेदयिष्यामि। सखि, न पुनराश्रमवासिनो जनस्याकृतसत्कारम् अतिथिविशेषम् उज्झित्वा स्वच्छन्दतो गमनम्। शिक्षाख्यो नाट्यालंकारोऽयम्। शिक्षा स्याद् उपदेशनमित्युक्तेः। प्रतिरूपिका सदृशी। अहं। (1-28) सहसा अन्वयास्यन् कुलमर्यादया निवारित-स्वच्छन्दाचरणः गत्वेवेति। इव सम्भावनायाम्। चण्डि कोपने, न लभ्यते गन्तुं त्वयेति शेषः। सभ्रूक्षेपेति ललिताख्योऽयं हावविशेषः। तदुक्तं सुकुमारतया अङ्गानां विन्यासो ललितं मतमिति। किमिति, कथं न लभ्यते गन्तुमित्यनुषङ्गः।।
अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 117
प्रियंवदा—दुवे मे रुक्खसेअणके धारेसि। तेहिं दाव अत्ताणं मोओवेहि तदो गमिस्ससि। (द्वे मे वृक्षसेचनके धारयसि। ताभ्यां तावदात्मानम् मोचय। ततः गमिष्यसि।) (इति बलान्निवर्तयति)
राजा—वृक्षसेचनाद् एवात्रभवतीं परिश्रान्तामवगच्छामि। तथा ह्यस्याः- स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद् अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः। बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः।। 1-30 ।।
तदहमेनामनृणां करोमि। (इत्यङ्गुरीयकं ददाति)।। (सख्यौ प्रतिगृह्य नामाक्षराणि वाचयित्वा च परस्परमवलोकयतः।)
राजा—अलम् अन्यथासंभावनया। राज्ञः प्रतिग्रहोऽयम्।
प्रियंवदा—तेण हि णरिहदि इमं अङ्गुरीअविओअं कादुं अज्जो। अज्जस्स वअणादो ज्जेव अरिणा एसा भोदु। (तेन हि, न अर्हति इमम् अङ्गुरीयवियोगम् कर्तुमार्यः। आर्यस्य वचनादेवानृणा एषा भवतु।)
अनुसूया—हला सउन्तले, मोआविदा सि अणुकम्पिणा अज्जेव अध वा महाराएण। ता कहिं दाणिं गमिस्ससि। (सखि शकुन्तले, मोचितासि अनुकम्पिनार्येन, अथवा महाराजेन। तत्कुत्र इदानीं गमिष्यसि।
शकुन्तला—(आत्मगतम्) ण एदं परिहरिस्सं, जइ अत्तणो पहवे। (नैतत् परिहरिष्यामि यदि आत्मनः प्रभवामि।)
प्रियंवदा—संपदं किं ण गच्छीअदि। (साम्प्रतं किं न गम्यते।)
शकुन्तला—इदाणिं पि किं तुह आअत्त म्हि। जदा मे रोअदि तदा गमिस्सं। (इदानीमपि किं तवायत्तास्मि। यदा मे रोचते तदा गमिष्यामि।)
द्वे मे वृक्षसेचनके धारयसि। ताभ्यां तावदात्मानं मोचय। ततो गमिष्यसि।
स्रस्तां० ।। (1-30) लोहिततलौ रक्तकरोदरौ। जालकं समूहः। जालकं कोरके सङ्घे इति विश्वः। विकीर्णाः केशा एव करसंयमिता अनुमानमलङ्कारः। राज्ञ इति राज्ञो दत्तमिदमिति प्रतारणा। अथ च राज्ञा इदं ध्रियत एवेति सत्यमेव। तेन हि नार्हतीमम् अङ्गुरीयकवियोगं कर्तुम् आर्यः। आर्य्यस्य वचनादेवैषानृणा भवतु। सखि शकुन्तले, मोचितास्यनुकम्पिनार्य्येण, अथवा राजर्षिणा। तत् कुत्रेदानीं गमिष्यसि। पाठान्तरे तत् कृतार्थेदानीमसि। नेदं परिहरिष्यामि, यद्यात्मन प्रभवामि। पाठान्तरे नेदं विस्मरिष्यामि। किं साम्प्रतं न गच्छसि। इदानीमपि किं तवायत्तास्मि?, यदा मे रोचते तदा गमिष्यामि। अथ च तवाधीना किं?, किं तदुपकारिण एवेति भावः।
118 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
राजा-(शकुन्तलां विलोकयन्नात्मगतम्) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात्। अथवा लब्धावकाशा मे मनोवृत्तिः।
वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यवहिता मयि भाषमाणे। कामं न तिष्ठति मदाननसम्मुखीयं भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥1-31॥
(नेपथ्ये) भो भोस्तपस्विनः। तपोवनसन्निहितसत्त्वरक्षणाय सज्जीभवन्तु भवन्तः। प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुःषन्तः।
तुरगखुरहतस्तथा हि रेणुर्विटपनिषक्तजलाईवल्कलेषु। पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु॥1-32॥
राजा-(स्वगतम्) अहो धिक्, कथं मदान्वेषिणः सैनिकास्तपोवनमभिरुन्धन्ति। (पुनर्नेपथ्ये) भो भोस्तपस्विनः। पर्याकुलीकुर्वन् वृद्धस्त्रीकुमारकानेष प्राप्तः।
तीव्राघातादभिमुखतरुस्कन्धभग्नैकदन्त : प्रौढाकृष्टव्रततिवलयासञ्जातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं विरुजति गजः स्यन्दनालोकभीतः॥1-33॥
(सर्वाः श्रुत्वा ससंभ्रममुत्तिष्ठन्ति।)
राजा-अहो धिक्, कथमपराद्धस्तपस्विनामस्मि। भवतु तावत्, प्रतिगच्छामि।
सख्यौ-महाभाअ, इमिणा हत्थिसंभमेण पज्जाउलाओ म्ह। ता अणुजाणाहि णो उडअगमणे। (महाभाग, अनेन हस्तिसंभ्रमेण पर्याकुलाः स्मः। तदनुजानीहि नः उटज-गमने)
अनुसूया-(शकुन्तलां प्रति) हला सउन्तले, आउला अज्जा गोदमी भविस्सदि। ता एहि। सिग्धं एक्कत्थाओ होम्ह। (सखि शकुन्तले, आकुला आर्या गौतमी भविष्यति। तदेहि शीघ्रम् एकास्थाः भवामः।)
वाचं०।। (1-31) कामं यथेष्टम् यथा स्यात्। तथा चैवंविधवैदग्ध्य-प्रकाशनान्मदनुरक्ते वेयमिति भावः। अनुमानालङ्कारः। रसान्तराक्षेपमाह-नेपथ्य इति। अर्थोपक्षेपकाभेदैश्चूलिकेयम्। तदुक्तम्-अन्तर्जवनिका संस्थैः सूचनार्थस्य चूलिकेति। तुरग०।। (1-32) तथाहि शब्दो इत्यर्थः। विटपः शाखापल्लवसमुदायः, अरुणः सूर्यः। धिक् खेदे। तीव्रा। (1-33) तीव्राघातास्तीव्रा गमनात्, स्कन्धेत्यनेन गजस्योच्चैस्त्वमुक्तं व्रततिर्लताैरगनपाश इव। मूर्तो विघ्न इवेति। उत्प्रेक्षालङ्कारः। शारङ्गो हरिणः। प्रतिगच्छामि प्रतिनिवृत्य गच्छामि। महाभाग अनेन हस्तिसंभ्रमेण पर्याकुला स्मः। तदनुजानीहि नोऽस्मान् उटजगमनाय। उटजः पर्णशाला। सखि शकुन्तले, पर्याकुलास्मदनुसन्धायेत्यर्थः। आर्या गौतमी भविष्यति, तदेहि शीघ्रमकस्था भवामः।
प्रथमोऽङ्कः
अभिज्ञानशकुन्तलम्
प्रथमोऽङ्कः
119
शकुन्तला-(गतिसंरोधं रूपयित्वा) हद्धी हद्धी, ऊरुत्थम्भविअल म्हि संवुत्ता। (हा धिक्, हा धिक्, ऊरुस्तम्भविह्वलास्मि संवृत्ता।)
राजा-स्वैरं स्वैरं गच्छन्तु भवत्यः। वयमप्याश्रमबाधा यथा न भवति तथा प्रयतिष्यामहे।
सख्यौ-महाभाअ, विदिवभूइट्ठो सि। णं सम्पदं जं उवआरमज्झत्थदाए अवरद्धाओ म्ह तं मरिसेसि। असंभाविदसक्कारं भूओ वि पच्चवेक्खणणिमित्तं सपरिहारं अज्जं विण्णवेमो। (महाभाग विदित भूयिष्ठः असि। ननु साम्प्रतं यत् उपचारमध्यस्थतया अपराद्धा स्मः तत् मर्षिष्यसि। असम्भावितसत्कारं भूयोपि प्रत्यवेक्षणनिमित्तम् सपरिहारम् आर्यम् विज्ञापयामः।)
राजा-मा मैवम्। दर्शनेनैवात्रभवतीनां पुरस्कृतोऽस्मि।
शकुन्तला-अहिणवकुससूइपरिक्खदं मे चलणं, कुरुवअसाहापरिलग्गं च मे वक्कलं। ता पडिवालेध मं जाव णं मोआवेमि। (अभिनवकुशसूचिपरिक्षतं मे चरणं, कुरुबक-शाखापरिलग्नम् च मे वल्कलम्। तत्प्रतिपालयतं मां यावत् एतन् मोचयामि।)
(इति राजानमवलोकयन्ती सह सखीभ्यां निष्क्रान्ता।)
राजा-(निःश्वस्य) गताः सर्वाः। भवतु, अहमपि गच्छामि। शकुन्तलादर्शनादेव मन्दोत्सुकोऽस्मि नगरगमनं प्रति। यावदनुयात्रिकानतिदूरे तपोवनस्य निवेशयामि। न खलु शक्तोऽस्मि शकुन्तलाव्यापारादात्मानं निवर्तयितुम्। कुतः-
गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥1-34॥
(इति निष्क्रान्ताः सर्वे)
।। इति प्रथमोऽङ्कः।।
हा धिक् हा धिक् ऊरुस्तम्भ विह्वलास्मि संवृत्ता। महाभाग, विदितभूयिष्ठोऽसि ज्ञाततत्त्वोऽसीत्यर्थः। साम्प्रतं यदुपचार-मध्यस्थतया पूजाशैथिल्येनापराद्धाः स्मः, तन्मर्षिष्यसि। असम्भावितसत्कारं भूयः प्रत्यवेक्षण-निमित्तं सपरिहारमार्य्यं विज्ञापयामः। अभिनव-कुशसूचिपरिक्षतं मे चरणम्। कुरबकशाखाप्रतिलग्नं च मेऽञ्चलम्। तत् प्रतिपालयत मां यावदेतन्मोचयामि। गच्छ०।। / (1-34) गच्छति, न तु धावति। पुरोऽग्रे पश्चात् शरीरस्येत्यर्थात् धावति, शकुन्तलां लक्षीकृत्येऽर्थात् न तु गच्छति। चीनं वस्त्रभेदः, तस्य च सूक्ष्मत्वाद्वेग-गमनादुपमितम्। केतोर्ध्वजदण्डस्य प्रतिवातं वाताभिमुखम्। उपमालङ्कारः। एतेन पराङ्कसूचनाद् अङ्कावताराख्योऽर्थोपक्षेपक उक्तः। प्रत्यक्ष-नेतृ-चरितो रसभावसमुज्ज्वलः। अन्ते निष्क्रान्त-निखिलपात्रोऽङ्क इति कीर्तितः।।
।। इति महामहोपाध्याय-श्रीविष्णुपण्डित-तनुजन्म-श्रीचन्द्रशेखर-चक्रवर्ति-कृतावभिज्ञान-शकुन्तल-टीकायां प्रथमाङ्क-विवरणम्।।
॥ द्वितीयोऽङ्कः ॥ (ततः प्रविशति विदूषकः)
विदूषकः- (निःश्वस्य) ही माणहे भो। हदो म्हि एदस्स मिअआसीलस्स रण्णो वअस्सभावेण णिव्विण्णो। अअं मिओ अअं वराहो त्ति मज्झंदिणे वि गिम्हे विरलपादवच्छाआसुं वणराईसुं आहिण्डिअ पत्तसंकरकसाअविरसाइं उण्हकडुआईं पिबीअन्ति गिरिणदीसलिलाइं। अणिअदवेलं च उण्हण्हं मंसं भुञ्जीअदि। तुरअगआणं च सदेण रत्तिं पि णत्थि पकामसुइदव्वं। महन्ते ज्जेव पच्चूसे दासीएपुत्तेहिं साउणिअलुद्धेहिं कण्णोवघादिणा वणगमणकोलाहलेण पबोधीआमि। एत्तिगेणावि दाव पीडा ण वुत्ता जदो गण्डस्स उवरि विडआ संजाआ। जेण किल अम्हेसुं अवहीणेसुं तत्थभवदा मिआणुसारिणा अस्समपदं पविट्ठेण मम अधण्णदाए सउन् Provide-transcription: सउन्तला णाम का वि तावसकण्णआ दिट्ठा। तं पेक्खिअ संपदं णअरगमणस्स कथं पि ण करेदि। एदं जेव चिन्तअन्तस्स मम अच्छीसुं पहादा रअणी। ता का गदी। जाव णं किदाआर-परिकम्मं पिअवअस्सं पेक्खामि। (परिक्रम्यावलोक्य च) एसो बाणासणहत्थो हिअअणिहिदपिअअणो वणपुप्फमालाधारी इदो ज्जेव आअच्छदि पिअवअस्सो। भोदु। अङ्गमद्दविअलो भविअ चिट्ठिस्सं। एवं पि णाम विस्सामं लहेअं।।
(ही माणवे भोः। हतोऽस्मि एतस्य मृगयाशीलस्य राज्ञः वयस्यभावेन निर्विण्णः। अयं मृगः......, अयं वराहः...., इति मध्यन्दिने अपि ग्रीष्मे विरलपादपच्छायासु
विदूषक इति तल्लक्षणमाह भरतः। हास्यप्रधानवाक्येन कौतुकं वितनोति यः। नायकस्य सदा प्रीतः कथ्यते स विदूषक इति। अयञ्च नायकस्य नर्मसचिव उपनायकः। तदुक्तं-पीठमर्दो विटश्चैव विदूषक इति त्रिधा। स्यान्नर्मसचिवस्तस्य कुपितस्त्रीप्रसादक इति। अस्य च चरितं पताकाख्यप्रभृति, तदुक्तम्-“व्यापि प्रासङ्गिकं वृत्तं पताके” त्यभिधीयते। हीमाणहे²⁴-शब्दः प्राकृते खेदे। तदाह भरतः-हीमाणहे भये खेदे इति। ही ही भो इति च पाठः। ही ही भोः शब्दो विस्मये। यदाह भरतः-ही ही भो विस्मयार्थे तु प्रयुञ्जीत विदूषक इति। भो हतोऽस्मि। एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन। निर्विण्णोऽसुस्थः। अत्र हेतुमाह-अयं मृगोऽयं वराह इति मध्यन्दिनेऽपि ग्रीष्मे विरलपादपच्छायासु वनराजिषु आहिण्ड्य परिक्रम्य पत्रसंकरकषायविरसानि। संकरः साङ्कर्यम्, उष्णकटुकानि पीयन्ते गिरिनदीसलिलानि। अनियतवेलञ्च उष्णोष्णम् अत्युष्णं मांसं भुज्यते।
पाठान्तरे आर्द्रार्द्रं मांसभूयिष्ठमिति यदि पाठः, तदाऽनमित्यर्थात्। तुरगगजानाञ्च शब्देन रात्रावपि नास्ति प्रकामं स्वप्तव्यम्। महत्येव प्रत्यूषे दास्याः पुत्रैः शाकुनिकलुब्धकैः। पाठान्तरे आमिषलुब्धैः। कर्णोपघातिना वनगमन-कोलाहलेन प्रबोध्ये। दास्याः पुत्रैरिति “षष्ठ्याऽऽक्रोशे” (पा. 6-3-21) इति षष्ठ्यलुक्। एतत् सर्वम् वैद्यकविरुद्धम्। तथा च “ग्रीष्मे न पथ्यं कटुतिक्त”मित्यादि।
- हीनामहे इति 4117 इत्यत्र पठ्यते।
अभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः 121
वनराजीषु आहिण्ड्य पत्रसंकरकषायविरसानि उष्णकटुकानि पीयन्ते गिरिनदी- सलिलानि ।। अनियतवेलं च उष्णोष्णं मांसं भुज्यते। तुरगगजानां च शब्देन रात्रिमपि नास्ति प्रकामस्वप्तव्यं, महति एव प्रत्यूषे दास्याःपुत्रैः शाकुनिकलब्धैः कर्णोपघातिना वनगमनकोलाहलेन प्रबोध्ये। एतावतापि तावत्पीडा न वृत्ता, यतः गण्डस्योपरि विटकाः संजाताः। येन किल अस्मास्ववहीनेषु तत्रभवता मृगानुसारिणा आश्रमपदं प्रविष्टेन ममाधन्यतया शकुन्तला नाम कापि तापसकन्यका दृष्टा। तां प्रेक्ष्य साम्प्रतं नगरगमनस्य कथामपि न करोति। एतदेव चिन्तयतः मम अक्ष्णोः प्रभाता रजनी। तत् का गतिः। यावदेनं कृताचारपरिकर्माणं प्रियवयस्यं प्रेक्षे। एषः बाणासनहस्तः हृदयनिहितप्रियजनः वनपुष्पमालाधारी इतः एवागच्छति प्रियवयस्यः। भवतु, अङ्गमर्दविकलः भूत्वा स्थास्यामि। एवमपि नाम विश्रामं लभेय। (इति दण्डकाष्ठम् अवलम्ब्य स्थितः)
(ततः प्रविशति यथानिर्दिष्टो राजा)
राजा- (आत्मगतम्) कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि। अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते।। २-१।।
(स्मितं कृत्वा) एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयिता विप्रलभ्यते। कुतः- स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव।
एतावतापि पीडा न वृत्ता पीडावृद्धिर्न वृत्तेत्यर्थः। यतो गण्डस्योपरि विटकाः संजाताः। विस्फोटक^25 विटकस्त्रिष्वित्यमरः। शङ्करस्तु देश्यां पीडिकाशब्दो विस्फोटवाचकः। गण्डस्योपरि यो गण्डः, स विस्फोटक उच्यत इत्याह, तच्चिन्त्यम्। येनास्मासु सर्वेष्ववहीनेषु पश्चात् पतितेषु तत्रभवता मृगानुसारिणा आश्रमपदं प्रविष्टेन ममाधन्यतया शकुन्तला नाम कापि तापसकन्यका दृष्टा। तां प्रेक्ष्य साम्प्रतं नगरगमनस्य कथामपि न करोति। एतदेव चिन्तयतो ममाक्ष्णोः प्रभाता रजनी। जाग्रत एव वा निर्गता इत्यर्थः। का गतिः? कः प्रकारः कर्तव्य इत्यर्थः। यावदेनं कृताचारपरिकर्माणं प्रियवयस्यं प्रेक्ष्ये। यावद्वाक्यालङ्कारे। परिकर्मप्रसाधनम्। एष बाणासनहस्तो०। बाणासनं धनुः। हृदयनिहित- प्रियजनो वनपुष्पमालाधारी इत एवागच्छति प्रियवयस्यः। भवत्वङ्गभङ्गविकलो भूत्वा तिष्ठामि। एवम् अपि विश्रामं लभे। का०।। (2-1) कामं निश्चितम्। प्रिया शकुन्तला। तु पुनरर्थे भावः। शृङ्गारचेष्टा यदि दुर्लभैव सा, तदर्थं क[थ] मुत्कण्ठ स इत्याह। अकृतेति०। सम्भोगे सति कामस्य कृतार्थता। अतादृशेऽपि मनसिजे उभयस्य नायक-नायिकयोः प्रार्थना, न त्वेकप्रार्थना। तथा च सति शृङ्गारभोगः स्यादिति। रतिं प्रीतिं करोति। पाठान्तरे रतिराकस्मिकावलोकनोद्भूतप्रीतिरुभयप्रार्थनां कुरुते। दर्शनेनानुरागजननात् प्रार्थना जायत इत्यर्थः। भावनाख्या तृतीया कामावस्थेयम्। तदुक्तम्-मुहुर्मुहुर्निः श्वसितैर्मनोरथविचिन्तनैः। नैवाशने न शयने न हृष्यति न तिष्ठति। विलास-नामकं
^25. विस्फोटे इति 4117 इत्यत्र पठ्यते।
| 122 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम् |
|---|
मा गा इत्युरुद्धया यदपि तत्सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणम् अहो कामः स्वतां पश्यति॥२-२॥
विदूषकः—(तथा स्थित एव) भो राअं। ण मे हत्थो पसरदि। वाआमेत्तकेण जआवीअसि। (भो राजन्, न मे हस्तः प्रसरति। वाङ्-मात्रेण एव जाप्यसे।)
राजा—(विलाक्य सस्मितम्) कुतोऽयं गात्रोपघातः।
**विदूषकः—**कधं कुदो त्ति। सअं जेव अच्छिं भञ्जिअ अस्सुकारणं पुच्छसि। (कथं... कुतः इति। स्वयमेवाक्षिं भङ्क्त्वा अश्रुकारणं पृच्छसि।)
**राजा—**न खल्ववगच्छामि। भिन्नार्थमभिधीयताम्।
**विदूषकः—**जं वेदसो खुज्जस्स लीलं विडम्बेदि तं किं अत्तणो पहावेण अध णदीवेअस्स। (यद्वेतसः कुब्जस्य लीलां विडम्बयति तत्किमात्मनः प्रभावेण अथवा नदीवेगस्य।)
**राजा—**नदीवेगस्तत्र कारणम्।
**विदूषकः—**ममावि भवं। (ममापि भवान्।)
**राजा—**कथमिव।
**विदूषकः—**जुत्तं णाम एदं जं तए रज्जकज्जाइं तादिसं च अक्खलिदपदं पदेसं उज्झिअ वणचरवित्तिणा भविदव्वं ति। किं एत्थ मन्तीअदु। अहं उण वम्हणो पच्चहं सावदाणुसरणेहिं संखोहिदसंधिबन्धणाणं अत्तणो अङ्गाणं अणीसो म्हि। ता पसीद। एक्काहं दाव
प्रतिमुख-सन्ध्यङ्गम् इदम्। तदुक्तं-समीहा राजभोगार्था विलास इति कथ्यत इति। प्रार्थयिता याचकः विप्रलभ्यते प्रतार्यते कामेनेत्यर्थात्।
स्निग्धं०।। (२-२) तया शकुन्तलया सर्वत्र सम्बन्धनीयम्। नितम्बगौरवेण च यद्विलासादिव मन्दं गतम्। मा गच्छेति च कृतगतिव्याघातया यत् सखी सकोपं व्याहृता, तत् सर्वम् मत्परायणम्, मद्विषयकं, मदर्थं कृतम् एतदिति। अहो आश्चर्यम्। कामः स्वतामात्मीयतां, मत्कृतमेतत् सर्वमिति पश्यति। रतिं(तिः) भावजा स्निग्धेयं दृष्टिः। तदुक्तं भरतेन—सहर्षा साभिलाषा च मधुरान्तर्विकासिनी। स्मेरभावा च या²⁶ दृष्टिः स्निग्धा रत्याख्या भावजेति।। भो राजन्, न मे हस्तः प्रसरति। अतो वाङ्मात्रेणैव जाप्यसे। कथं, कुत इति। स्वयमेवाक्षिणी भित्वैाश्रुकारणं पृच्छसि। भिन्नार्थं स्फुटार्थम्। यद्वेतसः कुब्जस्य लीलां²⁷ सादृश्यं विडम्बयति तत् किमात्मनः प्रभावेण, अथवा नदीवेगस्य। अथशब्दः प्रकृते पक्षान्तरे। ममापि भवान्। तदेव व्याकरोति युक्तं नामेति। यत्त्वया राज्यकार्याणि तादृशञ्चास्खलितपदं प्रदेशं उज्झित्वा त्यक्त्वा वनचरव(वृ)त्तिना भवितव्यमिति। किमत्र मन्त्यताम्। अहं पुनर्ब्राह्मणः प्रत्यहं श्वापद-विसरणैः संक्षोभित-सन्धिबन्धनानामात्मनोऽङ्गानाम् अनीशोऽस्मि। तत् प्रसीद, एकाहमपि तावद् विश्राम्यतु भवान्।।
- त्वया इति 4118 इत्यत्र पठ्यते।
- कुब्जार्थस्य इति 4117 इत्यत्र पठ्यते।
अभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः 123
विस्समीअदु। (युक्तं नाम एतत् यत् त्वया राजकार्याणि तादृशं च अस्खलितपदं प्रदेशमुज्झित्वा वनचरवृत्तिना भवितव्यमिति। किमत्र मन्त्रयतामहं पुनः ब्राह्मणः प्रत्यहं श्वापदानुसरणैः संक्षोभितसन्धिबन्धनात्मनः अङ्गानामनीशोऽस्मि। तत्प्रसीद, एकाहम् तावद्विश्रम्यताम्।)
राजा- (स्वगतम्) अयमेवमाह। ममापि कण्वसुताम् अनुस्मृत्य मृगयां प्रति निरुत्सुकं चेतः। तथा हि-
न नमयितुमधिज्यमुत्सहिष्ये धनुरिदमाहितसायकं मृगेषु।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव लोचनकान्तिसंविभागः ।।२-३।।
विदूषकः- (राजानमवलोक्य) अत्थभवं किं पि हिअए कदुअ मन्तेदि। अरण्णे क्खु मए रुदिदं। (अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते। अरण्ये खलु मया रुदितम्।)
राजा- (सस्मितम्) किमन्यत्। अनतिक्रमणीयं सुहृद्वाक्यमिति स्थितोऽस्मि।
विदूषकः- (सपरितोषम्) तेण हि चिरं मे जीव। (तेन हि चिरं मे जीव।)
(इत्युत्थातुमिच्छति।)
राजा- तिष्ठ, शृणु मे सावशेषं वचः।
विदूषकः- आणवेदु भवं। (आज्ञापयतु भवान्।)
राजा- विश्रान्तेन भवता ममान्यस्मिन्ननायासे कर्मणि सहायेन भवितव्यम्।
विदूषकः- किं मोदअखज्जिकाए। (किं मोदकखादिकायाम्।)
राजा- यद्वक्ष्यामि।
विदूषकः- गहिदो खणो। (गृहीतः क्षणः।)
राजा- कः कोऽत्र भोः
(प्रविश्य) दौवारिकः- आणवेदु भट्टा। (आज्ञापयतु भर्ता।)
राजा- रैवतक, सेनापतिस्तावदाहूयताम्।
दौवारिकः- तथा। (इति निष्क्रम्य पुनः सेनापतिना सह प्रविश्य), एदु एदु अज्जो।
न [नमयितुम्०]। (2-3) आहितसायकमर्पितशरम्। (शाखाभोग 4118) संविभागोऽर्धवटनम्। अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते। अरण्ये खलु मया रुदितम्, कोऽपि न शृणोतीति भावः।
तेन हि चिरंजीव। आज्ञापयतु भवान्। किं मोदकखादिकायाम्। गृहीतः क्षणः। अवधानं कृतमित्यर्थः। निर्व्यापारस्थितिः क्षण इत्यमरः।। क्षण उत्सव इत्यनन्तार्णवः।
गृहीतः प्रणय इति शङ्करः पठति।
124 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
एस आलावदिण्णकण्णो भट्टा इदो ज्जेव चिट्ठदि। उवसप्पदु णं अज्जो। (तथा एतु एतु आर्यः। एषः आलापदत्तकर्णः भर्ता इतः एव तिष्ठति। उपसर्पत्वेनम् आर्यः।
सेनापतिः- (राजानमवलोक्य स्वगतम्) कथं दृष्टदोषापि मृगया स्वामिनि केवलं गुणायैव संवृत्ता। तथा हि देवः-
अनवरतधनुर्ज्यास्फालनक्रूरकर्मा रविकिरणसहिष्णुः स्वेदलेशैरभिन्नः। अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति॥२-४॥
(उपगम्य) जयति जयति स्वामी। स्वामिन्! गृहीतमृगप्रचारसूचितश्वापद्म् अरण्यम्। तत्किमन्यद् अनुष्ठीयताम्।
राजा- भद्रसेन, भग्नोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन।
सेनापतिः- (अपवार्य) सखे माधव्य, दृढप्रतिज्ञो भव। अहं तावत्स्वामिनाश्रितम् अनुवर्तिष्ये। (प्रकाशम्) देव, प्रलपत्वेष वैधेयः। ननु प्रभुरेव निदर्शनम्। पश्यतु देवः।
मेदश्छेदकृशोदरं लघु भवत्युत्साहयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः। उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्या हि व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः॥२-५॥
आज्ञापयतु भर्ता। भर्तेति सार्वभौमस्तु वाच्यः परिजनैः सदेति भरतः। यद्वा भट्टारके भर्तेति भाषाभेदः। रैवतकेति दौवारिकनाम। एतु एत्वार्यः, एष आलापदत्तकर्णो भट्टारक इत एव तिष्ठति। तस्माद् उपसर्पत्वेनमार्यः। देवो राजा।
अनवरतधनु०। (2-4) धनुर्ज्यारूढप्रतिपत्यर्थम्। धनुःशब्दः क्रूरं कठिनं कर्म यस्य। शङ्करस्तु क्रूरपूर्वमिति पठित्वा पूर्वः पूर्वभाग इत्याह। नैकैर्न त्वनेकैरित्यर्थत्वेन सहिष्णुतोक्तिः। क्षीणमपि व्यायतत्वात् कृतव्यायामत्वादलक्षणीयम्। व्यायतत्वाद् दैर्ध्यादिति शङ्करदुर्बोधः। प्राणः सारो यत्र नागो हस्ती जयतीत्याशंसायां लोट्। जयतेरनभिधानादित्यृत्वप्रतिषेधः।। प्रचारो गतिः, गृहीतमृगप्रचारं ज्ञातमृगपथं सूचितव्याघ्रादिकञ्चेति शङ्करः। अपवादिना निन्दकेन निषेधकेन वा। माधव्येति$^{28}$ विदूषकनाम। अपवार्येति विदूषकम् अर्थाद्विदूषकात् संगोप्यान्यत्र प्रकाशं वक्तीत्यर्थः। तदुक्तं तद्भवैदपवारितं रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते इति दर्पणः। वैधेयो मूर्खः।
मेद०। (2-5) मृगया व्यसनं मिथ्या वदन्ति, अर्थाज्जनाः। हि यतः। ईदृश आनन्दः कुतः, न कुतोऽपीत्यर्थः। यद्वा हिरवधारणे। मिथ्यैवेत्यर्थः। हेतुमाह मेद० इति शरीरस्थूलताकारको धातुभेदो मेदः। अत एव लघु, अत एवोत्साहयोग्यम्। सत्त्वानां सिंहादीनाम्। सिध्यन्ति सफला भवन्ति।
- माध्यदेति इति 4117 इत्यत्र पठ्यते।
अभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः १२५
विदूषकः- (सरोषम्) अवेहि रे उच्चाहहत्तआ अवेहि। अत्थभवं पइदिं आवण्णो। तुमं दाव दासीएपुत्तो अडईदो अडइं आहिण्ड जाव सिआलमिअलोलुवस्स कस्स वि जुण्ण-रिच्छस्स मुहे णिवडिदो होसि। (अपेहि रे उत्साहायितः, अपेहि। अत्रभवान् प्रकृतिमापन्नः, त्वं तावद्दास्याःपुत्रः अटवीतः अटवीम् आहिण्ड यावत् शृगालमृगलोलुपस्य कस्यापि जीर्णर्क्षस्य मुखे निपतितः भवसि।)
राजा- भद्रसेन, आश्रमसन्निकृष्टे स्थितोऽस्मीति वचस्ते नाभिनन्दामि। अद्य तावत्
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥ २–६॥
सेनापतिः- यथा प्रभविष्णवे रोचते।
राजा- तेन हि निवर्तय पूर्वगतानधनुर्ग्राहिणः। यथा च सैनिकास्तपोवनं नाभिरुन्धन्ति दूरात् परिहरन्ति च तथा निषेद्धव्याः। पश्य-
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः।
स्पर्शानुकूला अपि सूर्यकान्तास्ते ह्यन्यतेजोऽभिभवाद् दहन्ति॥२–७॥
सेनापतिः- यथाज्ञापयति स्वामी।
व्यसनं विपदि भ्रंशे दोषे कामजः कोपज इत्यमरः। काव्यलिङ्गमलंकारः। अप्रस्तुतप्रशंसेति शङ्करः। अपेहि रे उत्साहशालिन अपेहि। मतुबर्थे हेतुकशब्दः। हेतुक इति तु व्याख्यानमाकरम्। अत्रभवान् श्लाघ्यः राजेत्यर्थात्। प्रकृतिमापन्नः। त्वं तावद् दास्याः पुत्रोऽटवीतोऽटवीमाहिण्ड भ्रम, यावत् शृगालमृगलोलुपस्य कस्यापि जीर्णऋक्षस्य भल्लुकस्य मुखे निपतितोऽसि।।
गाह०। (२-६)। निपानेति कूपसमीपजलाशयजलं मुहुस्ताडितमिति जातिरलंकारः। कदम्बकं समूहः। भुक्तस्य पुनरुद्गीर्य चर्वणं रोमन्थः। अभ्यस्यतु पौनःपुन्येन करोतु। पूर्वन्तु कदाचिदेव रोमन्थ इति भावः। कुलस्यापि कुटुम्बघटनमकुतोभयता लक्षणम्। विश्रब्धैः निःशङ्कैः। पल्वलम् अल्पसरः। विश्रामं लभतां पशुहिंसादिकर्मण इत्यर्थः। आहावस्तु निपानं स्याद् उपकूपजलाशय इत्यमरः। अत्र महिषा इत्यादिना प्रथमान्तलोपक्रमात् वराहपतिभिरित्यनेन तत्यागात् पुनर्धनुरित्यनेन च तद् आदानान्माधुर्य व्यत्ययेन प्रक्रमभङ्ग इति। विश्रब्धा रचयन्तु कोलपतयो मुस्ताक्षति पल्वले इति वरमत्र पाठ इति प्राज्ञः। शङ्करस्तु न ह्यत्र प्रथमान्तेनोपक्रमः, किन्तु कर्तृमात्रनिर्देशः। स चाति हि तत्त्वेऽनति हि तत्वे च तुल्य एवेति समाधानमाह। अत्र वराहपतीनां परिवृत्य प्रभावचतुराणामपि स्वतन्त्रकर्तृतामात्रमपि धर्मव्यापारावसरे नासीदिति प्रतिपादनाय तृतीयेति तु केचित्।।
शम० (२-७)। हि हेतौ दृष्टान्तः। अर्थान्तरन्यास इति शङ्करः। भो उत्साहशालिन निष्क्राम। निष्क्राम उत्साहेताविति शङ्करस्याज्ञानम्। अशून्यं कुरु। द्वारस्थो भवेत्यर्थः। यन्महाराज आज्ञापयति।
126 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
विदूषकः- भो उच्चाहइत्तआ। णिक्कम णिक्कम। (भोः उत्साहितः, निष्क्राम निष्क्राम।)
(सेनापतिर्निष्क्रान्तः)
राजा- (परिजनमवलोक्य) मृगयावेषमपनयन्तु भवन्तः। रैवतक, त्वमपि स्वनियोगमशून्यं कुरु।
रैवतकः- जं महाराओ आणवेदि। (यत् महाराजः आज्ञापयति।) (इति निष्क्रान्तः)
विदूषकः- किदं भवदा णिम्मक्खिअं। ता इमस्सिं पादवच्छाआविरइदविदाणसणाधे सिलादले उवबिसदु भवं, जाव अहं पि सुहासीणो होमि। (कृतं भवता निर्मक्षकम्। तदेतस्मिन् पादप-च्छाया-विरचितवितानसनाथे शिलातले उपविशतु भवान् यावदहमपि सुखासीनः भवामि।)
राजा- गच्छाग्रतः।
विदूषकः- एदु एदु भवं। (एतु एतु भवान्।) (उभौ परिक्रम्योपविष्टौ।)
राजा- सखे माधव्य, अनवाप्तचक्षुःफलोऽसि, येन त्वया द्रष्टव्यानां परं न दृष्टम्।
विदूषकः- णं भवं जेव मे अग्गदो वट्टदि। (ननु भवानेव मे अग्रतः वर्तते।)
राजा- सर्वः खलु कान्तमात्मानं पश्यति। अहं तु तामेवाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि।
विदूषकः- (स्वगतम्) भोदु। ण से पसरं वड्डइस्सं। (प्रकाशम्) भो, जदो सा तावस-कण्णआ अणब्भत्थणीआ, तदो ताए किं दिट्ठाए। (भवतु, नास्य प्रसरं वर्धयिष्यामि। भोः यतः सा तापसकन्यका अनभ्यर्थनीया, ततः तया किं दृष्टया।)
राजा- मूर्ख,
निराकृतनिमेषाभिर्नेत्रपङ्क्तिभिरुन्मुखः । नवामिन्दुकलां लोकः केन भावेन पश्यति ।। २-४ ।।
न च परिहार्ये वस्तुनि दुःषन्तस्य मनः प्रवर्तते ।
कृतं भवता निर्मक्षिकं निर्जनमित्यर्थः। तदेतस्मिन् पादपच्छायाविरचित वितानसनाथे शिलातले उपविशतु भवान् यावदहमपि सुखासीनो भवामि। वितानो यज्ञ उल्लोचे विस्तारे पुंनपुंसकमिति मेदिनी। एतु एतु भवान्। ननु भवानेव ममाग्रतो वर्तते। अमेवेत्यनेन पूर्वकथनं व्यज्यते। ललामं भूषणम्। भूषावाजिप्रचारेषु ललामञ्च, ललाम चेति शाश्वतः।। भवतु नास्य प्रसरं प्रश्रयं वर्द्धयिष्यामि। भो यतः सा तापसकन्यका अनभ्यर्थनीया ततस्तया किं दृष्ट्या।।
नि०। (२-४)। भावेनाभिप्रायेण नवा प्रकाशकरणाक्षमां केवलं सौन्दर्यावलोकनसुखेन जनस्तामवलोकयति तद्वदत्रापीति भावः। अप्रस्तुतप्रशंसा। समासोक्तिरिति भावः शङ्करः। तत्कथय। अपरिहार्यत्वमाह।