अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 219
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति- स्तन्नैशं तिमिरमपाकरोति चन्द्रः ।। 6-36 ।।
स भवानात्तचाप एवेदानीं देवरथमारुह्य विजयाय प्रतिष्ठताम्।
राजा—अनुगृहीतोऽस्म्यनया मघवतः संभावनया। अथ भवद्भिर्माधव्यं प्रति किमेवं प्रयुक्तम्।
मातलिः—एतदपि कथ्यते। किंनिमित्तादपि मनस्तापादायुष्मान्विकलवो दृष्टः। पश्चात्कोपयितुम् आयुष्मन्तं तथा कृतवानस्मि। कुतः—
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते।
तेजस्वी संक्षोभात्प्रायः प्रतिपद्यते तेजः ।। 6-37 ।।
राजा—वयस्य, अनतिक्रमणीया दिवस्पतेराज्ञा। तद्गच्छ। परिगतार्थं कृत्वा मद्वचनाद् अमात्यपिशुनं ब्रूहि।
त्वन्मतिः केवला तावत्प्रतिपालयतु प्रजाः।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ।। 6-38 ।।
विदूषकः—जं भवं आणवेदि। (यदभवानाज्ञापयति।) (इति निष्क्रान्तः)
मातलिः—रथमारोहतवायुष्मान्। (राजा तथा करोति)
(इति निष्क्रान्ताः सर्वे)
।। षष्ठोऽङ्कः ।।
संभावना आदरः। अथ प्रश्ने। आयुष्मान् भवान्।।
ज्वल० ।। 6-37 ।। विप्प(प्र)कृतः पीडितः। संक्षोभात् भयनिमित्तात्।।
व्यापृतं० ।। (6-38) ।। व्यापृतिः(तं) व्यावृतम्।। यद् भवान्⁸⁷ आज्ञापयति। रथमिति परालंकारः(?) ।।
।। इति षष्ठाङ्क-विवरणम् ।।
- मातृका 4117 इत्यत्र यन्न वानाज्ञा० इति पठ्यते।
॥ सप्तमोऽङ्कः॥
(ततः प्रविशत्याकाशवर्त्मना रथारूढो राजा मातलिश्च)
राजा—मातले, अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये।
मातलिः—आयुष्मन्, उभयत्राप्यसंतोषमवगच्छ। कुतः—
उपकृत्य हरेस्तथा भवाल्लँघु सत्कारमवेक्ष्य मन्यते।
गणयत्यवदानसंमितां भवतः सोऽपि न सत्क्रियामिमाम्॥7-1॥
राजा—मा मैवम्। स खलु मनोरथानामप्यतिदूरवर्ती विसर्जनावासरे सत्कारः। मम हि दिवौकसां समक्षमधार्धासनोपविष्टस्य
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन।
प्रमृज्य वक्षो हरिचन्दनाङ्कं मन्दारमाला हरिणा पिनद्धा॥7-2॥
मातलिः—किमिव सुरेशादायुष्मान्नार्हति। पश्य—
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृत-दानवकण्टकम्।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः॥7-3॥
राजा—अत्र खलु शतक्रतोरेव महिमा। पश्य—
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
सम्भावनागुणमवेहि तमीश्वराणाम्।
किं प्राभविष्यदरुणस्तमसां वधाय
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्॥7-4॥
॥ अथ सप्तमाङ्क-विवरणम्॥
अयुक्तमनुपकारकम्⁸⁸। समर्थयेऽवगच्छामि। उभयत्र स्वविषये इन्द्रविषये च। उप०। (7-1) ।। तवोपकृत्य लघु मन्यते। अवदानमसाधारणं कर्म, तत्तुल्यं न गणयति।। विसर्जनं प्रस्थापनम्। अन्तर्गतति० (7-2)।। तन्माना नोथापनमित्यर्थः। हरिचन्दनेन, चन्दनभेदेन। वक्षः प्रमृज्य उपलिप्य। मयेति मस्तकस्थेनान्वयः। पारिजातमाला पिनद्धा। हरिचन्दनाङ्कमिति क्वचित्।। अथ नतेति० (7-3)।। पक्वता(?) सूचनार्थम्। पुरुषेति नृसिंहस्य।। सिध्यन्ति (7-4)।। कृतकृत्या भवन्ति। नियोज्याः सेवकाः। धुरि रथाग्रे।।
- मातृका 4117 इत्यत्र पठ्यते।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 221
मातलिः–सदृशं तवैतत्। (स्तोकमन्तरं गत्वा) आयुष्मन्! इतः पश्य नाकपृष्ठप्रस्थितस्य सौभाग्यमात्मयशसः।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतान्तरेषु।
संचिन्त्य गीतिक्षममर्थतत्त्वं दिवौकसस्त्वच्चरितं लिखन्ति॥७–५॥
राजा–मातले, असुरसंप्रहारोत्सुकेन पूर्वेद्युरधिरोहता न लक्षितोऽयं प्रदेशो मया। तत्कतमस्मिन्पथि वर्तामहे मरुताम्।
मातलिः–
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां
ज्योतींषि वर्तयति चक्रविभक्तरश्मिः।
तस्य व्यपेतरजसः प्रवहस्य वायो-
र्मार्गो द्वितीयहरिविक्रमपूत एषः॥७–६॥
राजा–अतः खलु मे सबाह्याकरणोऽन्तरात्मा प्रसीदति। (रथाङ्गमवलोक्य) शङ्के मेघपदवीमवतीर्णाः स्मः।
मातलिः–आयुष्मन्, कथमवगम्यते।
राजा–
अयमगविवरेभ्यश्चातकैर्निष्पतद्भि -
र्हरिभिरचिरभासां तेजसा चानुलिप्तैः।
गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते शीकरक्लिन्ननेमिः॥७–७॥
मातलिः–अथ किम्। अन्यच्च। क्षणादूर्ध्वमायुष्मानातमाधिकारभूमौ वर्तिष्यते।
विच्छि० (7-5) ।। विच्छित्तिरङ्गरागः। “विच्छित्तिरङ्गरागेऽपि हारविच्छेदयोरपीति” विश्वः। वर्णैश्चन्दनादिभिः। कल्पलतावस्त्रेषु लिखन्ति गीतिक्षमं गने(गान)योग्यम् अर्थतत्त्वं अर्थजातम् वा।।
तिस्रो० (7-6) ।। ति(त्रि)स्रोतसं गङ्गाम्। गगनेति आकाशस्थाम्। ज्योतींषि⁸⁹ सूर्यादीनि। वर्तयति दधातीत्यर्थः। चक्रेति-चक्रकोषेण ज्योतिषा विभक्ता रश्मयो येन। त्वत् स्यन्दनप्रान्तासन्नकिरणं यथा स्यादिति तु शङ्करः। रजो गुणः प्रवहनाम्नो वायोर्द्वितीयेन हरेः विक्रमेण विशिष्टपादक्षेपेण पूतः। विक्रमः पाद इत्यन्यः।। करणम् इन्द्रियम्।
अयमिति० (7-7) ।। अगाः पर्वताः। हरिभिरिन्द्राश्वैः। अचिरभासां विद्युताम्। जलगर्भमुदरं येषाम्।।
- मातृका 4117 इत्यत्र ज्योतींषि इति पठ्यते।
222 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
राजा- (अधोऽवलोक्य) मातले, वेगावतरणादाश्चर्यदर्शनः संपद्यते मनुष्यलोकः।
तथाहि-
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः।
सन्धानं तनुभागनष्टसलिलव्यक्त्या व्रजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते॥७-८॥
मातलिः-आयुष्मन्, साधु दृष्टम्। (सबहुमानमवलोक्य) अहो, उदग्ररमणीया पृथ्वी।
राजा-मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिष्यन्दी सांध्य इव मेघः सानुमान् अवलोक्यते।
मातलिः-आयुष्मन्, एष खलु हेमकूटो नाम किंपुरुषपर्वतः परं तपस्विनां सिद्धिक्षेत्रम्।
पश्य-
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः।
सुरासुरगुरुः सोऽस्मिन् सपत्नीकस्तपस्यति॥७-९॥
राजा-(सादरम्) तेन ह्यनतिक्रमणीयानि श्रेयांसि। प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि।
मातलिः-आयुष्मन्, प्रथमः कल्पः।
(रथावतरणं नाटयित्वा) एताववतीर्णौ स्वः।
राजा-(सविस्मयम्) मातले,
उपोढशब्दा न रथाङ्गनेमयः
प्रवर्तमानं न च दृश्यते रजः।
अभूतलस्पर्शंतया निरुद्धति-
स्तवावतीर्णोऽपि न लक्ष्यते रथः॥७-१०॥
मातलिः-एतावानेवायुष्मतः शतक्रतोश्च रथस्य विशेषः।
राजा-कतमस्मिन्प्रदेशे मारीचाश्रमः।
शैला० (7-8)।। शैलशिखरादवरोहतीव। पर्णेति पर्णसमूहलीनतामैक्यम्। कृशभागे नष्टस्य सलिलस्य भक्त्या तनुभावनष्टसलिला {व्यक्तमिति}। तनुभावः कृशता। व्यक्तं स्फुटमिति शङ्करः।।
उदग्रम् (7-9)।। अत्यर्थम्⁹⁰। सानुमान् पर्वतः। मरीचेर्मरीचिनाम्नो यो जातः कश्यप इत्यर्थः।।
उपो०। 7-10।। रथाङ्गं चक्रम्। नेमिः प्रान्तः।
- उदग्रमत्यर्थात् इति 4।18 इत्यत्र पठ्यते।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 223
मातलिः-(हस्तेन दर्शयन्) पश्य, वल्मीकार्द्धनिमग्नमूर्तिरुरगत्त्वग्ब्रह्मसूत्रान्तर : कण्ठे जीर्णलताप्रतानवलयेनात्यन्तसंपीडितः। अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः॥7-11॥
राजा-(विलोक्य) नमोऽस्मै कष्टतपसे।
मातलिः-(संयतप्रग्रहं रथं कृत्वा) एतावदितिपरिवर्धितमन्दारवृक्षकं प्रजापतेराश्रमपदं प्रविष्टौ स्वः।
**राजा-**अहो, स्वर्गादिदमधिकतरं निर्वृतिस्थानम्। अमृतह्रदमिवावगाढोऽस्मि।
मातलिः-(रथं स्थापयित्वा) अवतरत्वायुष्यमान्।
राजा-(साभिनयमवतीर्य) भवान् कथमिदानीम्।
**मातलिः-**समययन्त्रित एवायमास्ते रथः। तदयमप्यवतरामः। (तथा कृत्वा) आयुष्मन्, इतो दृश्यन्तामत्रभवतां सिद्धमुनीनां तपोवनभूमयः।
**राजा-**ननु विस्मयादुभयमप्यवलोकयामि। प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥7-12॥
**मातलिः-**उत्सर्पिणी खलु महतां प्रार्थना। (परिक्रम्याकाशे) वृद्धशाकल्य, किंव्यापारो भगवान्मारीचः। (आकर्ण्य) किं ब्रवीषि। एष दाक्षायण्या पतिव्रतापुण्यमधिकृत्य पृष्टस्तदस्यै कथयतीति। प्रतिपाल्यावसरः खलु प्रस्तावः।
(राजानमवलोक्य)
अस्यामशोकच्छायायामास्ताम् आयुष्मान् यावत्वामहमिन्द्रगुरवे निवेदयामि।
**राजा-**यथा भवान्मन्यते। (इति निष्क्रान्तो मातलिः।)
वल्मी०।। (7-11) सर्पकञ्चुक एव यज्ञोपवीतान्तरमस्य यज्ञोपवीती। यज्ञमृगेव यज्ञोपवीतं तदन्तरं यस्येति शङ्करः। "अन्तरम-वकाशा-वधि-परिधाना-न्तर्धि-तादर्थ्ये" इत्यमरः। नीडः कुलायः। स्थाणुः शाखादिशून्यवृक्षः। अभ्यर्कबिम्बं सूर्यमण्डलस्याभिमुखम्।। कथमिदानीमिति “अवतरिष्यामी"ति शेषः। तदा रथानवेक्षणादिति भावः। उभयं सुखं दुःखं चेत्यन्यः(?)।
प्राणा०।। (7-12) सत्कल्पवृक्षे०। विद्यमानकल्पतरौ। उत्सर्पिणी यथोत्तरवृद्धेति सुभेदः। दाक्षायण्यादित्या।
224 चंद्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
राजा- (निमित्तं सूचयित्वा)
मनोरथाय नाशंसे किं बाहो स्पन्दसे मुधा। पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते॥7-13॥
(नेपथ्ये) मा खु मा खु चवलत्तणं करेहि। जहिं तहिं जेव अत्तणो पइदिं दंसेसि। (मा खलु मा खलु चपलत्वं कुरु। यत्र तत्रैव आत्मनः प्रकृतिं दर्शयसि।)
राजा- (कर्णं दत्त्वा) अभूमिरियमविनयस्य। तत्को नु खल्वेवं निषिध्यते। (शब्दानुसारेणावलोक्य सविस्मयम्) अये, अयम् अनुरुध्यमानस्तापसीभ्याम् अबालसत्त्वो बालः।
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम्। विलम्बितं सिंहशिशुं करेणाहत्य कर्षति॥7-14॥
(ततः प्रविशति यथानिर्दिष्टो बालस्तापस्यौ च)
बालः- यिम्भ ले सिंहशावआ यिम्भ। दन्ताईं दे गणइश्शं। (जृम्भस्व रे सिंहशावक, जृम्भस्व। दन्तान् ते गणयिष्यामि।)
प्रथमा- अविणीद, किं ति णो अपच्चणिव्विसेसाईं सत्ताइं विप्पकरेसि। संपहरदि विअ दे संरम्भो। ठाणे क्खु मुणिअणेण सव्वदमणो त्ति किदणामधेओ सि। (अविनीत, किं इति नः अपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि। सम्प्रहरति इव ते संरम्भः। स्थाने खलु मुनिजनेन सर्वदमन इति कृतनामधेयः असि।)
राजा- किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे हृदयम्। (विचिन्त्य) आम्। नूनमनपत्यता मां वत्सलायति।
द्वितीया- एसा तुमं केसरिणी लङ्घेदि जइ से पुत्तअं ण मुञ्चेसि। (एषा त्वां केसरिणी लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि।)
मनो०।। (7-13) ।। परिवर्ततेऽद्येति शेषः। श्रेयो यत्तत्पूर्वमवज्ञातम् इदानीं दुःखमेवेति भावः। यद्वा पूर्वावज्ञात-कल्याणं दुःखं यथा स्यात्तथा परिवर्तते दुःखेनेति शङ्करः।।
“मा खलु मा खलु चपलतां कुरु”। यत्र तत्रैवात्मनः प्रकृतिं स्वभावं दर्शयसि। युवानस्तरुणाः।
[ अर्धपीतस्तनम०।। (7-14) ] अर्द्धवक्लिष्टे विपर्यस्तः केसरः। खलु बालः, विलम्बितं लम्बमानम्।।
जृम्भस्व रे सिंहशावक जृम्भस्व। मुख-व्यादानं विधेहि। दन्तांस्ते गणयिष्यामि। अविनीत किमिति नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकुरुषे, सोदरनिर्विशेषेषु एषु अस्मिन् वा दुःखं ते (?) संरम्भः। स्थाने खलु मुनिजनेन “सर्वदमन” इति कृतनामधेयोऽसि।
एषा त्वां केसरिणी लङ्घयति, भविष्यदर्थे लट्, यद्यस्याः पुत्रकं न मुञ्चसि। अम्मो विस्मये। बलवत् खलु भीतोऽस्मि। “बलिकम्” अव्ययमप्यर्थवाचीति शङ्करः।।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 225
बालः- (सस्मितम्) अम्मो, बलिअं खु भीदे स्मि। (अम्मो, बलीयः खलु भीतोऽस्मि।) (इत्यधरं दशति)
राजा- (सविस्मयम्)
महत्तस्तेजसो बीजं बालोऽयं प्रतिभाति मे।
स्फुलिङ्गावस्थया वह्निरेधःक्षय इव स्थितः॥7-15॥
प्रथमा- वच्छ, मुञ्च इमं बालमइन्दअं। अण्णं दे कीळणअं दाइस्सं। (वत्स, मुञ्चेमं बालमृगेन्द्रम्, अन्यं ते क्रीडनकं दास्यामि।)
बालः- कहिं शे। देहि मे। (कुत्र एषः, देहि मे।) (इति हस्तं प्रसारयति)
राजा- (हस्तं विलोक्य) कथं चक्रवर्तिलक्षणमनेन धार्यते। तथा हि-
प्रलोभ्यवस्तुप्रणयप्रसारितो
विभाति जालग्रथिताङ्गुलिः करः।
अलक्ष्यपत्रान्तरमिद्धरागया
नवोषसा भिन्नमिवैकपङ्कजम्॥7-16॥
द्वितीया- सुव्वदे, ण एसो सक्को वाआमेत्तकेण समइदुं। ता गच्छ, मम केरए उडए मङ्कणअस्स इसिकुमारअस्स केरओ वण्णअचित्तिदो मट्टिआमोरो चिट्ठदि। तं से उवहर।
(सुव्रते, नैषः शक्यः वाङ्मात्रेण शमयितुम्। तद्गच्छ। मदीये उटजे मङ्कणकस्य ऋषिकुमारकस्य वर्णकचित्रितः मृत्तिकामयूरः तिष्ठति। तमस्मै उपहर।)
प्रथमा- तथा। (तथा) (इति निष्क्रान्ता)
बालः- ताव इमिणा येव कीळ्इशं। (तावत् अनेनैव क्रीडिष्यामि।)
बीजं०।। (7-15)।। महतः कारणम्। शङ्करस्तु अयं बालो नोऽस्माकं तेजसः क्षत्रिय-रूपस्याहितमर्पितं बीजं रेतः प्रतिभातीत्याह। एधः क्षत्रिये काष्ठे क्षयार्थम्। एधः काष्ठे इति शङ्करः।।
मुञ्चेमं बालमृगेन्द्रम्। अन्यते क्रीडनकं दास्यामि। कुत्र मे देहि। चक्रवर्तिलक्षणं अङ्कुशादिरेखारूपम्। तदुक्तम्-अङ्कुशं कुण्डलं चक्रं यस्य पाणितले भवेत्। चक्रवर्ती भवेन्नित्यं सामुद्रकवचो यथा।। इति⁹¹।।
प्रलोभ्य ०।। (7-16)।। प्रणयः प्रार्थनम्। संहताङ्गुलिः संश्लिष्टाङ्गुलिः करवत्तापि महापुरुषत्व सूचिका नवो यदापि जले पदे भुजारिति नरनारा[य]ण विशेषणमुक्तम्। जलेति करे आवर्तभेद इत्यन्यः। अलक्ष्यमदृश्य पत्रमभ्यन्तरं उषसा सन्ध्या उषः प्रत्यूषसि क्लीबं पितृप्रस्वान्तेयोषितीति कोषः। मुञ्चते मुञ्चैनं। न एवं शक्यो वाङ्मात्रेण शमयितुम् तद् गच्छ मदीये उटजे मङ्कणकस्य⁹² ऋषिकुमारस्य वर्णकचित्रितो मृत्तिकामयूरस्तिष्ठति, तमस्मै उपहर। तावदेतेनैव क्रीडिष्यामि। मुञ्चैनम्।
- मैथिलपाठे शङ्करस्य टीकायाम् इतस्तः गृहीतोऽयम् [[कोष्ठे निवेशितः]] अंशः अत्र समाप्यते।
- देवनागरी-वाचनायां मार्कण्डेयस्येति पाठो दृश्यते।
226
चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
तापसी-(विलोक्य हसन्ती) मुच्च णं। (मुञ्चैनम्।)
राजा-स्पृहयामि खलु दुर्ललितायास्मै। (निःश्वस्य)
आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयानवहन्तो
धन्यास्तदङ्गरजसा परुषीभवन्ति ॥ 7-17 ॥
तापसी-(साङ्गुलितर्जनम्) भो, णं मं गणेसि। (पार्श्वमवलोकयन्ती) को एत्थ इसिकुमारआणं मज्झे। (राजानं दृष्ट्वा) भद्दमुह, एहि। मोआवेहि दाव इमिणा दुम्मोअहत्थग्गहेण डिम्भएण बाधीअमाणं बालमइन्दं।
(भोः न मां गणयसि। कोऽत्र ऋषिकुमाराणां मध्ये। भद्रमुख, एहि मोचय तावदनेन दुर्मोचहस्तग्रहेण डिम्भकेन बाध्यमानं बालमृगेन्द्रम्।)
राजा-तथा। (इत्युपगम्य सस्मितम्) अयि भो महर्षिपुत्रक।
एवमाश्रमविरुद्धवृत्तिना संयमी किमिति जन्मदस्त्वया।
सत्त्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ 7-18 ॥
तापसी-भद्दमुह, ण क्खु एसो इसिकुमारओ। (भद्रमुख, न खल्वेषः ऋषिकुमारकः।)
राजा-आकारसदृशं चेष्टितमेवास्य कथयति। स्थानप्रत्ययात्तु वयमतर्किणः।
(यथाभ्यर्थितमनुतिष्ठन्बालकस्य स्पर्शमनुभूयात्मगतम्)
अनेन कस्यापि कुलाङ्कुरेण
स्पृष्टेषु गात्रेषु सुखं ममैवम्।
कां निर्वृतिं चेतसि तस्य कुर्याद्
यस्यायमङ्गात्कृतिनः प्रसूतः ॥ 7-19 ॥
दुर्लङ्घं ललितमीप्सितं यस्य। आलक्ष्य० ॥ (7-17) अङ्के क्रोडे य आश्रयोऽवस्थानं तत्र प्रणयिणः प्रार्थकाः स्पृहा नाम नाट्यालंकारोऽयमिति शङ्करः। भो न मां गणयसि। कोऽत्र ऋषिकुमाराणां मध्ये तिष्ठतीति शेषः। भद्रमुख, एहि तावत्। मोचय एतेन दुर्मोचहस्तग्रहेण बाध्यमानं बालमृगेन्द्रम्।
एवं० ॥ (7-18) वृत्तिर्व्यवहारः संयमी व्रती जन्मदः पिता, पुण्याश्रमे⁹³ सुखं यस्य, पुण्याश्रमं सुखं यस्मादिति वा। कण्वस्य ते मलिनीक्रियते। भद्रमुख, न खल्वेष ऋषिकुमारकः।
अनेन० ॥ (7-19) ॥ कृतिनो भाग्यवतः॥
आश्चर्यमाश्चर्यम्। अस्य बालस्यासन्न(?)पि भद्रमुखे सम्वादिनी आकृति(तिः), विस्मितासि।
- पुण्याश्रमेण इति 4118 इत्यत्र पठ्यते।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 227
तापसी-(उभौ विलोक्य) अच्छरीयं अच्छरीयं। (आश्चर्यम् आश्चर्यम्।)
राजा-आर्ये, किमिव।
तापसी-इमस्स बालअस्स असंबद्धे वि भद्दुमुहे संवादिणी आकिदि त्ति विम्हिद म्हि। अवि अ वामसीलो वि भविअ अवरिचिदस्स ण दे पडिलोमो संवृत्तो।
(अस्य बालकस्य असंबद्धे अपि भद्रमुखे संवादिनी आकृतिः इति। विस्मितास्मि। अपि च वामशीलः अपि भूत्वा अपरिचितस्य न ते प्रतिलोमः संवृत्तः।)
राजा-(बालकमुल्लापयन्) आर्ये, न चेन्मुनिकुमारकोऽयं तत्कोऽस्य व्यपदेशः।
तापसी-पोरवो त्ति। (पौरवः इति)
राजा-(स्वगतम्) कथमेकान्वयोऽयमस्माकम्। अतः खलु सम्भाव्यते। (प्रकाशम्) अस्त्येतत्कुलव्रतं पौरवाणाम्।
भवनेषु सुधासितेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम्।
विहितैकयतिव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्॥7-20॥
कथं पुनरात्मगत्या मानुषाणामेष विषयः।
तापसी-जधा भद्दुमुहो भणादि। अच्छरासम्बन्धेण उण इमस्स बालअस्स जणणी देवगुरुणो तवोवणे पसूदा। (यथा भद्रमुखः भणति। अप्सरःसंबन्धेन पुनः अस्य बालकस्य जननी देवगुरोः तपोवने प्रसूता।)
राजा-(आत्मगतम्) हन्त, द्वितीयमिदमाश्वासनजनम्। (प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी।
तापसी-को तस्स धम्मददारपरिच्चाइणो णामं कित्तइस्यदि। (को तस्य धर्मदारपरित्यागिनः नाम कीर्तयिष्यति।)
राजा-(स्वगतम्) कथमियं कथा मामेव लक्षीकरोति। यदि तावदस्य शिशोर्नामतो मातरं पृच्छेयम्। (विचिन्त्य) अथवा अनार्यः परदारव्यवहारः।
अपि च, बालश्रील्पे(शीलो)पि भूत्वापरिचितस्य न ते प्रतिलोमः संवृत्तः। अपरिचितस्य ते वचनेन प्रकृतिस्थोऽयं संवृत्त इति पाठान्तरे।
उल्लापयन् चालयन् व्यपदिश्यते परिचीयतेऽनेनेति व्यपदेशो वंशादिः। पौरव इति।
भवने०।। (7-20) ।। उशन्ति इच्छन्ति कुर्वन्तीत्यर्थः। नियतमद्वितीयं मुनिव्रतं येषु। यथा भद्रमुखी भणति। अप्सरः सम्बन्धेन पुनरस्य जननी देवगुरोस्तपोवने प्रसूता।।
हन्त हर्षे। कस्तस्य धर्मदारपरित्यागिनो नाम कीर्तयिष्यति। परिभाषणं निर्वहणाङ्गमिदम्। तदुक्तम् वदन्ति परिभाषणं परिवादकृतं वाक्यमिति।
सर्वदमन पश्य, शकुन्तलावण्यम्। अथ च शकुन्तलावर्णं रूपम्। कुत्र सा मे आर्या माता।
228 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
(प्रविश्य मृन्मय-मयूरहस्ता तापसी) सव्वदमण, पेक्ख सउन्तलावण्णं।
(सर्वदमन, प्रेक्षस्व शकुन्तलावण्यम्।)
बालः- (सदृष्टिविक्षेपम्) कहिं शा मे अय्युआ। (कुत्र सा मे अज्जुका) (उभे प्रहसिते)
प्रथमा- णामसारिस्सेण उवच्छन्दिदो मादिवच्छलो। (नामसादृश्येन उपच्छन्दितः मातृवत्सलः।)
द्वितीया- इमस्स मोरस्स रमणीअत्तणं पेक्ख त्ति भणिदो सि। (अस्य मयूरस्य रमणीयत्वं प्रेक्षस्व इति भणितोऽसि।)
राजा- (स्वगतम्) कथं शकुन्तलेत्यस्य मातुराख्या। अथवा सन्ति पुनर्नामसादृश्यानि। अपि नाम मृगतृष्णिकेव नायमन्ते प्रस्तावो विषादाय कल्पेत।
बालः- अन्तिके लोअदि मे चडुलके एशे मऊलके। (अन्तिके, रोचते मे चटुलः एषः मयूरकः।) (इति क्रीडनकमादत्ते)
प्रथमा- (विलोक्य सावेगम्) अम्मो, रक्खागण्डओ से मणिबन्धे ण दीसदि। (अम्मो, रक्षागण्डकः अस्य मणिबन्धे न दृश्यते।)
राजा- आर्ये, अलमावेगेन। नन्वयमस्य सिंहशावकविमर्दात्परिभ्रष्टः। (इत्यादातुमिच्छति)
उभे- मा खु मा खु। (विलोक्य) कथं गहिदं जेव। (मा खलु मा खलु। कथं गृहीतमेव।) (उभे विस्मयादुरसि निहितहस्ते परस्परमालोकयतः)
राजा- किमर्थं भवतीभ्यां प्रतिषिद्धोऽस्मि।
प्रथमा- सुणादु महाभाओ। महप्पहावा एसा अवराइदा णाम सुरमहोसही इमस्स दारअस्स जादकम्मसमए भव्वदा मारीचेण दिण्णा। एदं किल मादापिदरे अत्ताणं च वज्जिअ अवरो भूमिपडिदं ण गेण्हदि। (शृणोतु महाभागः। महाप्रभावेषापराजिता नाम सुरमहौषधिः अस्य दारकस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरौ आत्मानञ्च वर्जयित्वा अपरः भूमिपतितां न गृह्णाति।)
अज्जुका शब्दो मातरि देशीय इति शङ्करः। नामसादृश्येन उपच्छिन्दितः प्रलोभितमातृवत्सलः। एतस्य मयूरस्य रमणीयत्वं प्रेक्षस्वेति भणितोऽसि। अन्तिके, रोचते मे चटुलक एष मयूरः। “अन्तिका भगिनी ज्येष्ठा अत्रार्तिकेत्यपि साध्वित्याभिधानिकाः।” अन्तिका धात्रीति शङ्करः। अम्मो कष्टे, रक्षागण्डकोऽस्य मणिबन्धे न दृश्यते। गण्डको वीद इति ख्यातो जातुषभेदः, मणिबन्धे करमूले। मा खलु मा खलु संप्रक्ष्यसीति शेषः। कथं गृहीतमेवानेन। शृणोतु महाभागः महाप्रभावा खल्वेषौपराजिता नाम सुरमहौषधिः, एतस्य दारकस्य जातकर्मसमये भगवता मारीचेन दत्ता, एतां किल मातापितरावात्मनो वर्जयित्वापरा भूमिपतितां न गृह्णाति। सा सर्पो भूत्वा तं दशति। अनेकशः। सहर्षमिति प्रहर्ष नामा नाट्यालङ्कारः।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 229
राजा—अथ गृह्णाति।
प्रथमा—तदा सप्पो भविअ तं दंसदि। (तदा सर्पः भूत्वा तं दंसति।)
राजा—अथात्रभवतीभ्यां कदाचिद् अन्यत्र प्रत्यक्षीकृतमिदम्।
उभे—अणेअसो। (अनेकंशः)
राजा—(सहर्षम्) तत्किं खल्विदानीं पूर्णामात्मनो मनोरथं नाभिनन्दामि। (इति बालकं परिष्वजते)
द्वितीया—सुव्वदे, एहि। इमं वृत्तन्तं णिअमवाउलाए सउन्तलाए गदुअ णिवेदेम्ह। (सुव्रते, एहि इमं वृत्तान्तं नियमव्याकुलायै शकुन्तलायै गत्वा निवेदयाव।) (इति निष्क्रान्ते)
बालः—मुञ्च मं। अय्युआशआशं गमिश्शं। (मुञ्च माम्। अज्जुकासकाशं गमिष्यामि।)
राजा—पुत्रक, मयैव सह मातरमभिनन्दयिष्यसि।
बालः—दुश्शन्ते मम तादे ण क्खु तुमं। (दुःषन्तः मम तातः, न खलु त्वम्।)
राजा—(सस्मितम्) एष विवाद एव मां प्रत्याययति।
(ततः प्रविशत्येकवेणीधरा शकुन्तला)
शकुन्तला—(सवितर्कम्) विआरकाले वि पडइत्थं सव्वदमणस्स ओसहिं सुणिअ ण मे आसङ्गो अत्तणो भाअधेएसुं। अथवा जधा मिस्सकेसीए मे आचक्खिदं तथा सम्भावीअदि एदं। (विकारकाले अपि प्रकृतिस्थां सर्वदमनस्योषधिं श्रुत्वा न मे आसङ्गः आत्मनः भागधेयेषु। अथवा यथा मिश्रकेश्या मे आख्यातं तथा सम्भाव्यते एतत्।)
(इति परिक्रामति)
राजा—(शकुन्तलां दृष्ट्वा सहर्षखेदम्) अये, इयमत्रभवती शकुन्तला—
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति॥७-२१॥
तदुक्तं प्रहर्षः प्रमदाद्वाक्यमिति। सुव्रते, एहि। इमं वृत्तान्तं नियमव्याकुलायै शकुन्तलायै निवेदयावः। मुञ्च मां, आर्या(अज्जुका) सकाशं गमिष्यामि। दुःष्म(ष)न्तो मम तातो। न खलु त्वम्। विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आसङ्क आत्मनो भागधेयेषु। आसङ्गमशचुः(शुचः) प्राकृते अश्वासार्थः। अथवा यथा मिश्रकेश्या मे आख्यातं तथा संभाव्यते इदम्। वसने०॥ (7-21) धूसरे मलिने रोलः केशविन्यासः तथा च भरतः अमलास्ववधारणमलकाञ्च कल्पनम्। अनुलेपनसंस्कारं न कुर्यात् पथिकाङ्गना। पाण्डुच्छायाङ्गुशतनुर्वेणीयूतशिरोरुहा। लम्बालकादीना केशाविवर्जित भूषणेति। न खल्वार्यपुत्रोऽयं तव। कः खल्वेष कृतरक्षामङ्गलं मे दारकं गात्रसङ्गेन दूषयति। दारकं बालकम्। आर्ये, एष कोऽपि पुत्रक इत्यालपति। हृदय, समाश्वसिहि। प्रहार्य निवृत्तमात्सर्येण अनुकम्पितास्मि दैवेन। आर्यपुत्र एवैषः।
230 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
शकुन्तला–(पश्चात्तापविवर्णं राजानमवलोक्य सवितर्कम्) ण क्खु अज्जउत्तो अअं। ता को णु क्खु एसो किदरक्खामङ्गलं मे दारअं गत्तसङ्गेण दूसेदि। (न खल्वार्यपुत्रोऽयम्। तत् कोऽनु खल्वेषः कृतरक्षामङ्गलं मे दारकं गात्रसङ्गेन दूषयति।)
बालः–(मातरमुपगम्य) अय्युए, एशे के वि पलकेलए मं पुत्तके त्ति आलवेदि। (अज्जुके, एषः कोऽपि परकीयः मां पुत्रकः इति आलपति।)
राजा–प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम्। तदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानमिच्छामि।
शकुन्तला–(स्वगतम्) हिअअ, समस्सस समस्सस। पहरिअ णिव्वुत्तमच्छरेण अणुकम्पिद म्हि देव्वेण। अज्जउत्तो ज्जेव एसो। (हृदय, समाश्वसिहि समाश्वसिहि। प्रहार्य निर्वृत्तमात्सर्यैणानुकम्पितास्मि दैवेन। आर्यपुत्रः एवैषः।)
राजा–
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि।
उपरागान्ते शशिनः समुपगता रोहिणी योगम्॥7–22॥
शकुन्तला–जअदु जअदु। (जयतु जयतु।) (इत्यर्धोक्ते बाष्पकण्ठी विरमति)
राजा–प्रिये।
बाष्पेन प्रतिषिद्धेऽपि जयशब्दे जितं मया।
यत्ते दृष्टमसंस्कारपाटलोष्ठमिदं मुखम्॥7–23॥
बालः–अय्युए, के एशे। (अज्जुके, कः एषः।)
शकुन्तला–वच्छ, भाअधेआईं पुच्छ। (वत्स, भागधेयानि पृच्छ।) (इति रोदिति)
राजा–
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः संमोहो मे तदा बलवानभूत्।
प्रबलतमसामेवंप्रायाः शुभेष्वपि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया॥7–24॥
(इति पादयोः पतति)
स्मृति० ।। (7–22) प्रमुखे सम्मुखे प्रतिवस्तूपमा।
बाष्पे० ।। (7–23) अलकः केशभेदः। लोला अलका यत्र पाटलौष्ठेति च पाठः। आर्ये, क एषः। वत्स, भागधेयानि पृच्छ। भाग्यमेव भागधेयम्।
सुतनु० ।। (7–24) प्रत्याख्यानेति निराकरणं विश्रियं, परिहाराख्य-नाट्यालङ्कारोऽयम्।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 231
शकुन्तला—उत्थेदु उत्थेदु अज्जउत्तो। णूणं मम सुहप्पडिबन्धअं पुराकिदं तेसुं दिअसेसुं परिणामसुहं आसि जेण साणुक्कोसो वि अज्जउत्तो तथा संवुत्तो। (उत्तिष्ठतु उत्तिष्ठतु आर्यपुत्रः। नूनं मम सुखप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामसुखम् आसीत्, येन सानुक्रोशः अप्यार्यपुत्रः तथा संवृत्तः।)
(राजा उत्तिष्ठति)
शकुन्तला—अध कधं अज्जउत्तेण सुमरिदो अअं दुक्खभाई जणो। (अथ कथमार्थपुत्रेण स्मृतः अयं दुःखभागी जनः।)
राजा—उद्धृतविषादशल्यः कथयामि।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बाष्पबिन्दुरधरं परिबाधमानः।
तं तावदाकुटिलपक्ष्मविलग्नमद्य
कान्ते प्रमृज्य विगतानुशयो भवामि॥7-25॥
(इति यथोक्तमनुतिष्ठति)
शकुन्तला—(प्रमृष्टबाष्पाङ्गुलीयकं विलोक्य) अज्जउत्त। तं इदं अङ्गुलीअअं। (आर्यपुत्र, तदिदमङ्गुरीयकम्।)
राजा—अथ किम्। अस्माद् अद्भुतोपलम्भान्मया स्मृतिरुपलब्धा।
शकुन्तला—संपादितं खु अणेण जं तथा अज्जउत्तस्स पच्चअकारणं दुल्लहं मे आसि। (सम्पादितं खल्वनेन यत् तथा आर्यपुत्रस्य प्रत्ययकारणम् दुर्लभं मे आसीत्।)
राजा—तेन हि, ऋतुसमागमशंसि प्रतिपद्यतां लता कुसुमम्।
शकुन्तला—ण से विस्ससामि। अज्जउत्तो ज्जेव णं धारेदु। (न अस्य विश्वसिमि। आर्यपुत्रः एव एतत् धारयतु।)
प्रविश्य मातलिः—दिष्ट्या, धर्मपत्नीसमागमेन पुत्रमुखसन्दर्शनेन चायुष्मान्वर्धते।
राजा—सुहृत्सम्पादितत्वात्साधुतरफलो मे मनोरथः। मातले, न खलु विदितोऽयम् आखण्डलस्यार्थः।
तदुक्तम्-परिहारः परिज्ञेयं कृतानुचितमार्जनमिति। उत्तिष्ठ उत्तिष्ठत्वार्यपुत्र। नूनं मम सुखप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणतमासीत्। येन सानुक्रोशोऽप्यार्यपुत्रस्तथा संवृत्तः। अथ कथमार्थपुत्रेण स्मृतोऽयं दुःखभागिनी जनः।
मोहा०।। (7-25) परिबाधमानः प्री(पी)डयन्। आर्यपुत्र तदिदम् अङ्गुरीयकम्। सम्पादितं खलु(ल्त्व)नेन यत्तदार्यपुत्रस्य प्रत्ययकारणं दुर्लभं मे आसीत्। नास्य विश्वसिमि। आर्यपुत्र एवैनं धारयतु। सुहृदां भवतां सम्पादितत्वात्। लज्जे खल्वार्यपुत्रेण सह गुरुजनसमीपं गन्तुम्।
232
चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
मातलिः- (सस्मितम्) किमीश्वराणां परोक्षम्। एहि। भगवान्मारीचस्ते दर्शनमिच्छति।
राजा- प्रिये, अवलम्ब्यतां पुत्रः। त्वामेव पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि।
शकुन्तला- लज्जामि क्खु अज्जउत्तेण सद्धं गुरुअणसमीवं गन्तुं। (लज्जे खलु आर्यपुत्रेण सार्धं गुरुजनसमीपं गन्तुम्।
राजा- आचरितमेतदभ्युदयकालेषु। तदेहि तावत्। (इति परिक्रामन्ति)
(ततः प्रविशत्यदित्या सहहासनोपविष्टो मारीचः)
मारीचः- (राजानमवलोक्य) दाक्षायणि।
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुःषन्त इत्यभिहितो भुवनस्य भर्ता।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः॥ ७–२६॥
अदितिः- सम्भावणीअप्पहावा खु से आकिदी। (सम्भावनीयप्रभावा खल्वस्य आकृतिः।)
मातलिः- भूपते, एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमेवावलोकयतः। तदुपसर्प।
राजा- मातले,
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम्।
यस्मिन्नात्मभुवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम्॥ ७–२७॥
मातलिः- अथ किम्।
राजा- (प्रणिपत्य) उभाभ्यामपि वां वासावनियोज्यो दुःषन्तः प्रणमति।
मारीचः- वत्स, चिरं पृथिवीं पालय।
अदितिः- जाद, अप्पदरधो होहि। (जात, अप्रतिरथः भव।)
(शकुन्तला पुत्रसहिता पादयोः पतति)
पुत्रस्य०।। (7-26) कोटिमत् ति(ती)क्ष्णाग्रेशालि आभरणं भूषणमेव, न तु तेन युक्तमाचरतीत्यर्थः। सम्भावनीयप्रभावा आपन्नाकृतिः।
प्राहुः०।। (7-27) द्वादशधेति सूर्यस्येत्यर्थः। यज्ञेति इन्द्रं आत्मभुवो ब्रह्मणः परः पुरुषो नारायणः।
जात भर्तुर्बहुम[ता] भव, यावताराय(?)। अप्रतिहतरथो भव।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 233
मारीचः-वत्से,
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः।
आशीरन्या न ते योज्या पौलोमीमङ्गला भव॥7-28॥
अदितिः-जाद, भत्तुणो बहुमदा होहि। अअं च दीहाऊ उहअपक्खं अलंकरेदु। ता एध उपविसध। (जात, भर्तुः बहुमता भव। अयं च दीर्घायुः उभयपक्षं अलङ्करोतु। तत् एत उपविशत।)
(सर्वे उपविशन्ति)
मारीचः-एकैकं निर्दिशन्।
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान्।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम्॥7-29॥
राजा-भगवन्, प्रागभिप्रेतसिद्धिः पश्चाद्दर्शनमित्यपूर्वः खलु वोऽनुग्रहः। पश्यतु भगवान्।
उदेति पूर्वं कुसुमं ततः फलं
घनोदयः प्राक्तदनन्तरं पयः।
निमित्तनैमित्तिकयोरयं विधि-
स्तव प्रसादस्य पुरस्तु सम्पदः॥7-30॥
मातलिः-आयुष्मन्, एवं विश्वगुरवः प्रसीदन्ति।
राजा-भगवन्, इमामाज्ञाकरीं वो गान्धर्वेण विधिनोपयम्य कस्य चित्कालस्य बन्धुभि-
रानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मद्गोत्रस्य कण्वस्य।
पश्चादेनामङ्गुलीयकदर्शनादूढपूर्वामवगतोऽस्मि। तच्चित्रमिव मे प्रतिभाति।
यथा गजे साधुसमक्षरूपे
कस्मिन्नपि क्रामति संशयः स्यात्।
पदानि दृष्ट्वाथ भवेत्प्रतीति-
स्तथाविधो मे मनसो विकारः॥7-31॥
अङ्ग०॥ (7-28) पौलोमीति अविधवा भवेत्यर्थः। शङ्करस्तु भर्ता इन्द्रतुल्यो भवतु, जयन्ततुल्यश्च पुत्रो भवत्वित्याह। आशीर्नाम नाट्यालङ्कारोऽयम्। जात, भर्तुर्बहुमता भव। अयञ्च ते दीर्घायुरुभयपक्षेऽलङ्करोतु। तदत्रोपविशतु।। दिष्ट्या०।। (7-29) दिष्ट्या आनन्दे श्रद्धा प्रसिद्धा वेदबोधिताचरणं विधिः।
उदेति०।। (7-30) प्रियोक्ति नाम नाट्यलक्षणमिदम्। तदुक्तं स्यात् संप्रीणयितुम् पूज्यं(?) प्रियोक्तिर्हर्षभाषणमिति। कस्यचित् कस्मिंश्चिदित्यर्थः। षष्ठी सप्तम्यो(म्य)भावात्।
यथा०।। (7-31) साधु आबाधितं समक्षं विद्यमानं रूपं यस्य। पदानि पदचिह्नानि।
234 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
मारीचः-वत्स, अलमात्मापराधशङ्कया। संमोहोऽपि त्वय्युपपन्न एव। श्रूयताम्।
राजा-अवहितोऽस्मि।
मारीचः-यदैवाप्सरस्तीर्थावतरणात्प्रत्याख्यानविक्लवां शकुन्तलामादाय दाक्षायणीमुपगता मेनका तदैव ध्यानादवगतवृत्तान्तोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणा प्रत्यादिष्टेति। स चाङ्गुलीयकदर्शनावसानः शापः।
राजा-(सोच्छ्वासमात्मगतम्) एष वचनीयान्मुक्तोऽस्मि।
शकुन्तला-(स्वगतम्) दिट्ठिआ। अकामपच्चादेसी अज्जउत्तो। ण उण सच्चं मं सुमरेदि। अथवा ण सुदो भवे अअं सुण्णहिअआए मए सावो, जदो सहीहिं अच्चादरेण संदिट्ठं भत्तुणो अङ्गुलीअअं दंसेसि त्ति। (दिष्ट्या। अकामप्रत्यादेशी आर्यपुत्रः। न पुनः सत्यं मां स्मरति। अथवा न श्रुतः भवेत् अयं शून्यहृदयया मया शापः, यतः सखीभिः अत्यादरेण संदिष्टं भर्तुः अङ्गुलीयकं दर्शयसि इति।)
मारीचः-वत्से, विदिताथार्सि। तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः करणीयः। पश्य-
शापादसि प्रतिहता स्मृतिलोपरूक्षे
भर्त्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे
शुद्धे तु दर्पणतले सुलभावकाशा॥ 7-32॥
राजा-यथाह भगवान्।
मारीचः-वत्स, कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकमादिक्रियः पुत्र एष शाकुन्तलेयः।
राजा-भगवन्, अत्र खलु मे वंशप्रतिष्ठा।
मारीचः-तथा शौर्यस्वभावेन चक्रवर्तिनमेनमवगच्छतु भवान्। पश्य-
रथेनानुद्धातस्तिमितगतिनोत्तीर्णजलधि :
पुरा सप्तद्वीपां अवति वसुधामप्रतिरथः।
दिष्ट्या अकामप्रत्यादेशी आर्यपुत्रः। न पुनः सत्यं मां स्मरति। अथवा न श्रुतो भवेदयं शून्यहृदयया शापः। लकारश्त्रकारौ। यतः सखीभिरत्यादरेण सन्दिष्टं भर्तुरङ्गुलीयकं दर्शयिष्यसीति। शापा० ।। (7-32) रूक्षे कलुषे अत्र हेतुः शापादिति। तमोऽज्ञानं मूर्च्छति स्फुरति।
रथेन० ।। (7-33) सप्तद्वीपां सप्तद्वीपवतीं पुरा अवति पालयिष्यति भविष्यति ल(लृ)ट्। अनया पितृदुहितुर्मनोरथसम्पत्त्या कण्वोऽपि तावद्विज्ञातार्थः क्रियताम्। मेनका पुनरत्र मां परिचरन्ती सुसपिहितेन। मम मनोरथो व्याहतो भवत्या विहायसा आकाशेन।
अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 235
इहायं सत्त्वानां प्रसभादमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ।। 7-33 ।।
राजा-भगवत्कृतसंस्कारेऽस्मिन्सर्वमाशंसे।
अदितिः-इमाए दुहिदिआए मणोरधसम्पत्तीए कण्णो वि दाव विण्णादत्थो करीअदु। मेणआ उण इध मं परिअरन्ती संणिहिदा जेव चिट्ठदि। (अनया दुहितुः मनोरथसम्पत्त्या कण्वः अपि तावत् विज्ञातार्थः क्रियताम्। मेनका पुनः इह मां परिचरन्ती सन्निहिता एव तिष्ठति।)
शकुन्तला-(स्वगतम्) मम मणोरधो वाहरिदो भअवदीए। (मम मनोरथः व्याहृतः भगवत्या।)
मारीचः-तपः प्रभावात्सर्वमिदं प्रत्यक्षं तत्रभवतः कण्वस्य। (विचिन्त्य) तथाप्यसौ दुहितुः सपुत्रायाः पत्या परिग्रहप्रियमस्माभिः श्रावयितव्यः। कः कोऽत्र भोः।
प्रविश्य शिष्यः-भगवन्, अयमस्मि।
मारीचः-गालव, मद्धचनादिदानीमेव विहायसा गत्वा तत्रभवते कण्ववाय प्रियमावेदय यथा पुत्रवती शकुन्तला दुर्वाससः शापनिवृत्तौ स्मृतिमतो दुष्यन्तेन गृहीतेति।
शिष्यः-यथाज्ञापयति भगवान्। (इति निष्क्रान्तः)
मारीचः-(राजानं प्रति) वत्स, त्वमपि सापत्यदारः सख्युराखण्डलस्य रथमास्थाय स्वां राजधानीं प्रतिष्ठस्व।
राजा-यथाज्ञापयति भगवान्।
मारीचः-सम्प्रति हि-
तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमपि विततयज्ञो वज्रिणं प्रीणयालम्।
युगशतपरिवृत्तैरेवमन्योन्यकृत्यै -
र्नयतमुभयलोकानुग्रहश्लाघनीयौ ।। 7-34 ।।
राजा-भगवन्, यथाशक्ति श्रेयसि प्रयतिष्ये।
मारीचः-वत्स, किं ते भूयः प्रियमुपकरोमि।
तव० ।। (7-34) बिडौजा इन्द्रः प्राज्यं प्रचुरम्। किं ते भूय इति निर्वहणाङ्ग काव्यसंहारोऽयम्। तदुक्तं वरप्रदानसंप्राप्तिः काव्यसंहार इष्यत इति।।
236 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
राजा-भगवन्, अतः परमपि प्रियमस्ति। तथाप्येतदस्तु।
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतिमहतां महीयताम्।
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः ।। 7-35 ।।
(इति निष्क्रान्ताः सर्वे)
।। इति सप्तमोऽङ्कः ।।
पुन० ।। (7-35) श्रुतिमतां वेदविदां महीयतां पूजिता भवतु। प्रसन्नेति यावत् नीललोहितः शिखः(वः) आत्मनाम्भावेन परिगता आश्रिता शक्तिः सकलभुवनशासनानुग्रहक्षमं सामर्थ्यं यस्तु नित्यशक्तिरित्यर्थः। यद्वा परिगतशक्तिः सगौरीकः आगमे शक्तिपदेन गौर्याविधानात्। आत्मभूरिति क्वचित् पाठः। प्रशस्ति (?) सामर्थ्यकम् इदं तदुक्तं.......भूपतेः शान्तिरस्तु प्रशस्तिरित्यभिधीयते इति।।
इति महामहोपाध्याय-श्रीविष्णुपण्डित-तनुजन्म
श्रीचन्द्रशेखर-चक्रवर्तिकृतावभिज्ञानशकुन्तलटीकायां
[ज्ञान]सन्दर्भदीपिकायां⁹⁴ सप्तमाङ्कविवरणं समाप्तम्।।
श्रीहरये नमः।। श्रीरामाय नमः।।
शकाब्दाः 1728 ।। ॐ गङ्गायै नमः ।।⁹⁵
।। शुभं भूयात् ।।
- मातृका 4117 इत्यत्रैव ज्ञानसन्दर्भदीपिकेति नाम पठ्यते।
- मातृका 4118 इत्यत्र लेखनकालो नैव लिखितः।।
परिशिष्ट-1
| सं० | चन्द्रशेखरेण निर्दिष्टाः श्लोकाः।। | अङ्कः | क्रमः | पृष्ठांकः |
|---|---|---|---|---|
| 1 | अक्लिष्टबालतरुपल्लव० | 6 | 23 | 210 |
| 2 | अतः समीक्ष्य कर्तव्यं विशेषात्० | 5 | 27 | 188 |
| 3 | अद्यापि नूनं हरकोपवह्नि० | 3 | 3 | 135 |
| 4 | अधरः किसलयरागः कोमल० | 1 | 21 | 108 |
| 5 | अध्याक्रान्ता वसतिरमुना० | 2 | 15 | 130 |
| 6 | अनवरतधनुर्ज्यास्फालन० | 2 | 4 | 124 |
| 7 | अनाघ्रातं पुष्पं किसलयमलूनं० | 2 | 11 | 128 |
| 8 | अनिर्द्योपभोग्यस्य रूपस्य० | 3 | 30 | 148 |
| 9 | अनिशमपि मकरकेतुर्मनसो० | 3 | 5 | 135 |
| 10 | अनुकारिणि पूर्वेषां युक्ति० | 2 | 17 | 131 |
| 11 | अनुमतगमना शकुन्तला सा तरुभि० | 4 | 12 | 167 |
| 12 | अनुयास्यन् मुनितनयां सहसा० | 1 | 29 | 116 |
| 13 | अनेन कस्यापि कुलांकुरेण० | 7 | 19 | 226 |
| 14 | अनेन लीलाभरणेन ते प्रिये० | 3 | 32 | 149 |
| 15 | अन्तर्गतप्रार्थनमन्तिकस्थं० | 7 | 2 | 220 |
| 16 | अन्तर्हिते शशिनि सैव कुमुद्वती० | 4 | 3 | 159 |
| 17 | अपयास्यति मे शोकः कथं० | 4 | 23 | 173 |
| 18 | अपराधमिमं ततः सहिष्ये यदि० | 3 | 24 | 145 |
| 19 | अप्यौत्सुक्ये महति दयित० | 3 | 27 | 147 |
| 20 | अभिजनवतो भर्तुः श्लाघ्ये० | 4 | 21 | 172 |
| 21 | अभिमुखे मयि संवृतमीक्षितं० | 2 | 12 | 128 |
| 22 | अभ्यक्तमिव स्नातः शुचिर० | 5 | 12 | 180 |
| 23 | अभ्युन्नता पुरस्तादवगाढा० | 3 | 9 | 136 |
238 \hfill चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
| सं० | चन्द्रशेखरेण निर्दिष्टाः श्लोकाः।। | अङ्कः | क्रमः | पृष्ठांकः |
|---|---|---|---|---|
| 24 | अमी वेदीं परितः क्लृप्तधिष्ण्याः० | 4 | 10 | 166 |
| 25 | अयं स ते तिष्ठति संगमोत्सुको० | 3 | 16 | 141 |
| 26 | अयं स ते श्यामलतामनोहरं० | 3 | 35 | 150 |
| 27 | अयं स यस्मात् प्रणयावधीरणा० | 3 | 17 | 141 |
| 28 | अयमगविवरेभ्यश्चातकैर्नि० | 7 | 7 | 221 |
| 29 | अरिहसि मे चुअङ्कुर दिण्णो० | 6 | 3 | 198 |
| 30 | अर्थो हि कन्या परकीय एव० | 4 | 24 | 174 |
| 31 | अर्धपीतस्तनं मातुरमर्दमक्लिष्ट० | 7 | 14 | 224 |
| 32 | अशिशिरतरैरन्तस्तापैर्विवर्ण० | 3 | 15 | 140 |
| 33 | असंशयं क्षत्रपरिग्रहक्षमा० | 1 | 22 | 110 |
| 34 | अस्मात् परं बत यथास्मृति० | 6 | 28 | 214 |
| 35 | अस्मान् साधु विचिन्त्य संयमध० | 4 | 19 | 170 |
| 36 | अस्यास्तुंगमिव स्तनद्वयमिदं० | 6 | 16 | 207 |
| 37 | अहन्यहन्यात्मन एव ताव० | 6 | 32 | 217 |
| 38 | अहिणवमहुलोहभाविओ० | 5 | 8 | 177 |
| 39 | आ जन्मनः शाठ्यमशिक्षितो० | 5 | 28 | 188 |
| 40 | आ परितोषाद् विदुषां न साधु० | 1 | 2 | 97 |
| 41 | आअम्बहरिअवेण्टं ऊससिअं विअ० | 6 | 2 | 197 |
| 42 | आखण्डलसमो भर्ता जयन्त० | 7 | 28 | 233 |
| 43 | आचार इत्यधिकृतेन मया० | 5 | 1 | 175 |
| 44 | आमूलशुद्धसंततिकुलमेतत्० | 6 | 29 | 215 |
| 45 | आलक्ष्यदन्तमुकुलान० | 7 | 17 | 226 |
| 46 | इतः प्रत्यादिष्टा स्वजनमनुगन्तुं० | 6 | 10 | 203 |
| 47 | इदं किलाव्याजमनोहरं वपु० | 1 | 17 | 106 |
| 48 | इदमनन्यपरायणमन्यथा० | 3 | 22 | 144 |
| 49 | इदमप्युपकृतिपक्षे सुरभि मुखं० | 3 | 37 | 152 |
| 50 | इदमुपनतमेवं रूपमक्लिष्ट० | 5 | 20 | 184 |
| 51 | इदमुपहितसूक्ष्मग्रन्थिना० | 1 | 18 | 106 |
| 52 | उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं० | 4 | 17 | 170 |
| 53 | उत्सृज्य कुसुमशयनं नलिनी० | 3 | 26 | 147 |