भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 199

मिश्रकेशी—णत्थि एत्थ संदेहो। महप्पहावो क्खु एसो राएसी। (नास्त्यत्र सन्देहः। महाप्रभावः खल्वेषः राजर्षिः।)

प्रथमा—अज्ज, कदि चि दिअसा मित्तावसुणा रट्टिएण भट्टिणो पादमूलं पेसिदाणं अम्हाणं इध पमदवणे चित्तकम्मं अप्पिदं। अदो ण सुदपुव्वो अम्हेहिं एसो वृत्तन्तो। (आर्य, कतिचिद्दिवसाः मित्रावसुना राष्ट्रियेण भर्तुः पादमूलं प्रेषितयोः आवयोः इह प्रमदवने चित्रकर्म अर्पयितुम्। अतः न श्रुतपूर्वः आवाभ्यामेषः वृत्तान्तः।)

कञ्चुकी—तेन हि न पुनरेवं प्रवर्तितव्यम्।

उभे—कोदूहलं णो। जइ इमिणा जणेण सोदव्वं ता कहेदु अज्जो किं णिमित्तं भट्टिणा वसन्तूसवो णिसिद्धो। (कौतूहलं नौ। यद्यनेन जनेन श्रोतव्यं तत्कथयत्वार्यः किंनिमित्तं भर्त्रा वसन्तोत्सवः निषिद्धः।)

मिश्रकेशी—ऊसवप्पिआ राआणो होन्ति। ता गुरुणा कारणेण एत्थ होदव्वं। (उत्सवप्रिया राजानः भवन्ति। तत् गुरुणा कारणेन अत्र भवितव्यम्।)

कञ्चुकी—(स्वगतम्) बहुलीभूतोऽयमर्थः किं न कथ्यते। (प्रकाशम्) अस्ति भवत्योः कर्णपथमागतं शकुन्तलाप्रत्यादेशकौलीनम्।

उभे—अज्ज, सुदं रट्टिअमुहादो अङ्गुलीअअदंसणं जाव। (आर्य, श्रुतं राष्ट्रियमुखाद् अङ्गुरीयकदर्शनं यावत्।)

कञ्चुकी—तेन हि स्वल्पं कथयितव्यम्। यदैवाङ्गुरीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा रहसि मया तत्रभवती शकुन्तला मोहात्प्रत्यादिष्टेति तदैव पश्चात्तापमनुगतो देवः।

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्योपान्तविवर्तनैर्गमयत्युन्निद्र एव क्षपाः।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा च भवति व्रीडाविलक्षश्चिरम्॥६–५॥


आर्य कतिचिद्दिवसान्(नि)? .......... मित्रावसुना राष्ट्रियेण भर्तुः पादमूलं प्रेषितयोरावयोरिह प्रमदवने चित्रकर्म अर्पयितुम्। राजश्यालस्तु राष्ट्रिय इत्यमरः। स(श)ङ्करस्तु कतिचिद्दिवसान् प्रेषिताभ्याम् आवाभ्यामिह वने चित्रकर्म्मसम्पादयितुमिति पठति। अतो न श्रुतपूर्व एष वृत्तान्त आवाभ्याम्।। आर्य्य, कौतूहलमावयोरद्य तेन जनेन न श्रोतव्यं यद्यावयोः श्रोतुमर्हतीत्यर्थः। तत् कथयत्वार्य्यः, किं निमित्तं भर्त्रा वसन्तोत्सवो निषिद्धः। ननूत्सवप्रिया राजानो भवन्ति। तद्गुरुणां(णा) कारणेनात्र भवितव्यम्। बहुलीकृतं प्रसिद्धं शकुन्तलानिराकरणरूपं कौलीनं परीवादः। श्रुतं राष्ट्रियमुखादङ्गुरीयदर्शनं यावत्। मोहादज्ञानात्।

रम्यं०।। (6-5) पद्मादिदर्शने दुःखलोभात् यथा पुरा सेवित इत्यर्थः। प्रकृतिभिः सचिवैः। दक्षिणे नायकभेदः, तद्भावो दाक्षिण्यम्। तदुक्तम्–यो गौरवं भयं प्रेम सम्भाव–पूर्व्वयोरिति। न

200 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

मिश्रकेशी—पिअं मे पिअं। (प्रियं मे प्रियम्।)
कञ्चुकी—अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः।
उभे—जुज्जदि। (युज्यते।)
(नेपथ्ये) एदु एदु भवं। (एत्वेतु भवान्।)
कञ्चुकी—(कर्णं दत्त्वा) अये। इत एवाभिवर्तते देवः। तद्गच्छतम्। स्वकर्मानुष्ठीयताम्।
(इत्युभे निष्क्रान्ते)
(ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च।)
कञ्चुकी—(राजानं विलोक्य) अहो, सर्वास्ववस्थासु रमणीयकमाकृतिविशेषाणाम्। तथा ह्येवं वैमनस्यपरीतोऽपि प्रियदर्शनो देवः। य एषः—

प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः।
चिन्ताजागरणप्रताम्रनयनस्तेजोगुणैरात्मन :
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६-६॥

मिश्रकेशी—(राजानमवलोक्य) ठाणे क्खु पच्चादेसविमाणिदा वि इमस्स कारणादो सउन्तला किलम्मदि। (स्थाने खलु प्रत्यादेशविमानिताप्यस्य कारणात् शकुन्तला क्लाम्यति।
राजा—(ध्यानमन्दं परिक्रम्य)

प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम्।
अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम्॥६-७॥

मिश्रकेशी—ईदिसाइं से तवस्सिणीए भाअधेआइं। (ईदृशान्यस्याः तपस्विन्याः भागधेयानि।)
विदूषकः—(स्वगतम्) भूओ वि लङ्घिदो एसो सउन्तलावादेण। ण आणे कधं चिकित्छिदव्वो भविस्सदित्ति। (भूयोऽपि लङ्घितः एषः शकुन्तलावातेन। न जाने कथं चिकित्सितव्यः भविष्यतीति।)


मुद्गत्यस्य चित्तोऽपि स ज्ञेयो दक्षिणे यथेति ।। अन्तःपुरेभ्योऽन्तःपुरस्त्रीभ्यः गोत्रेषु नामसु व्रीडेति लज्जानिष्क्रियः। प्रियं मे प्रियं प्रभवतो जायमानात्। युज्यते। एतु एतु भवान्।

प्रत्या०।। (6-6) श्लथं कार्श्यम्। एकमद्वितीयं प्रशस्तं वा। श्वासेति। श्वासविरक्ताधरः प्रतान्तं क्षीणं प्रताम्रेति शङ्करः। संस्कारार्थं टङ्केन घृष्टः मणेरिव स्थानम्। खलु प्रत्यादेशविमानितापि एतस्मात् कारणाच्छकुन्तला का(क्ला)म्यति।।

प्रथ०।। (6-7) अवशयः पश्चात्तापः। सदृशानि तस्यास्तपस्विन्या भागधेयानि। हूं क्रोधे। भूयोऽपि लङ्घित एष शकुन्तलावातेन। न जाने कथं चिकित्सितव्यः प्रतिकर्तव्यो भविष्यति। अन्तःपुरोद्यानं प्रमदवनं, विनोदो विहारः। वेत्रवतीति प्रतिहारीनाम। अमात्ये ख्यातो। यदैव आज्ञापयति। पार्ववतायन्ने(ने)ति कञ्चुकीसंज्ञा।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 201

कञ्चुकी- (उपगम्य) जयति जयति महाराजः। प्रत्यवेक्षिताः प्रमदवनभूमयः। यथाकामम् अध्यास्तां विनोदस्थानानि देवः।

राजा- वेत्रवति, मद्वचनादमात्यपिशुनं ब्रूहि। अद्य चिरप्रबोधान्न संभावितमस्माभिर्धर्मासनम् अध्यासितुम्। यत्प्रत्यवेक्षितमार्येण पौरकार्यं तत्पत्रमारोप्य प्रस्थाप्यतामिति।

प्रतीहारी- जं देवो आणवेदि। (यदेव आज्ञापयति।) (इति निष्क्रान्ता)

राजा- पार्वतायन, त्वमपि स्वनियोगमशून्यं कुरु।

कञ्चुकी- तथा। (इति निष्क्रान्तः)

विदूषकः- किदं भवदा णिम्मक्खिअं। संपदं सिसिरविच्छेदरमणीए इमस्सिं उज्जाणे अत्ताणं विणोदेहि। (कृतं भवता निर्मक्षिकम्। साम्प्रतं शिशिरविच्छेदरमणीये अस्मिन् उद्याने आत्मानं विनोदय।)

राजा- (निःश्वस्य) वयस्य, रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि। पश्य-

मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥६-८॥

अपि च-

उपहितस्मृतिरङ्गुलिमुद्रया प्रियतमामनिमित्तनिराकृताम्।
अनुशयादनुरोदिमि चोत्सुकः सुरभिमाससुखं समुपस्थितम्॥६-९॥

विदूषकः- भो वअस्स, चिट्ठ दाव जाव इमिणा दण्डअट्ठेण कन्दप्पवाणं णासेमि। (भोः वयस्य, तिष्ठ तावद्यावदनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयामि।)

(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति।)

राजा- (सस्मितम्) भवतु, दृष्टं ब्रह्मवर्चसम्। सखे, कुत्रेदानीमुपविष्टः प्रियायाः किंचिद् अनुकारिणीषु लतासु दृष्टिं विनोदयामि।


कृतं भवता निर्मक्षिकम्। मक्षिकाया अप्यभावो निर्जनमित्यर्थः। शिशिरविच्छेदरमणीये एतस्मिन् प्रमदवने आत्मानं विनोदय। मुनि० ।। (6-8) मुनिसुता शकुन्तला तमसा मोहेन युक्तं त्यक्तं। अन्यच्च [नाट्]यालंकारः। उप० ।। (6-9) अङ्गुलीमुद्रया अङ्गुरीयेकेण अनुलक्षीकृत्य सुरभिर्वसन्तः। अत्र रोदनमधिकमित्युक्तिपोषः। भो वयस्य, तिष्ठ तावदिति लोकोक्तिः। यावदेतेन दण्डकाष्ठेन कन्दर्पबाणान्नाशयामि।

ब्रा(ब्र)ह्मेति ।। वेदाध्ययन-न(ज)न्योत्कर्षः।

202चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

विदूषकः—णं भवदा आसण्णपरिचारिआ लिविअरी मेधाविणी आदिट्ठा। माहवीलदाघरए इमं वेलं अदिवाहइस्सं तहिं च मे चित्तफलए सहत्थालिहिदं तत्थभोदीए सउन्तलाए पडिकिंदिं आणेसु त्ति।

(ननु भवतासन्नपरिचारिका लिपिकरी मेधाविनी आदिष्टा। माधवीलतागृहके इमां वेलाम् अतिवाहयिष्यामि, तत्र च मे चित्रफलके स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय इति।)

राजा—ईदृशमेव मे हृदयप्रत्याश्वासनम्। तत्तदेवादेशय माधवीलतागृहम्।

विदूषकः—इदो इदो एदु भवं। (इतो इतो एतु भवान्।)

(इति परिक्रामतः। मिश्रकेशी अनुगच्छति।)

विदूषकः—एस मणिसिलापट्टसणाधो माहवीलदामण्डवो विवित्तदाए णीसद्दसाअदेण विअ पडिच्छदि तुमं। ता पविसिअ उवविसम्ह।

(एषः मणिशिलापट्टसनाथः माधवीलतामण्डपः विविक्ततया निःशब्दस्वागतेनेव प्रतीच्छति त्वाम्। तत् प्रविश्योपविशावः।)

(उभौ तथा कुरुतः)

मिश्रकेशी—लदाए अन्तरिदा पेक्खिस्सं दाव पिअसहीपडिकिंदिं। तदो से भत्तुणो अणुराअं बहुमदं णिवेदइस्सं।

(लत्यान्तरिता प्रेक्षिष्ये तावत् प्रियसखीप्रतिकृतिम्। ततः अस्याः भर्तुः अनुरागं बहुमतं निवेदयिष्यामि।) (तथा स्थिता)

राजा—(निःश्वस्य) सखे, सर्वमिदानीं स्मरामि। शकुन्तलायाः प्रथमदर्शनवृत्तान्तं कथितवान् अस्मि भवते। स भवान्प्रत्याख्यानकाले मत्समीपगत एव नासीत्। प्रथममपि तत्रभवत्याः कीर्तितं नाम मया। कच्चिद् अहमिव विस्मृतवांस्त्वमपि।

मिश्रकेशी—अदो ज्जेव महीवदीहिं खणं पि सहिअआ सहाआ ण विरहिदव्वा। (अतः एव महीपतिभिः क्षणमपि सहृदयाः सहायाः न विरहितव्याः।)


ननु भवता प्रसन्न परिचारिका लिपिकरी मेधाविनी सन्दिष्टा। मेधाविनीति यथार्थं नाम। माधवीलतागृहे इमां वेलाम् अतिवाहरि(यि)ष्यामि।

अत्र मे चित्रफलके स्वहस्तलिखितं तत्रभवत्याः प्रतिकृतिमानयेति। इत इत एतु भवान्। एष मणिपट्टशिलासनाथो माधवीलतामण्डपो, विविक्ततया निःशब्द आगतेन पृच्छति, अनुतिष्ठतीव त्वाम्। तत् प्रविशामः।

लतयान्तरितां(ता) प्रेक्षिष्ये तावत् प्रियसख्याः प्रतिकृतिम्। ततोऽस्या भर्तुरनुरागं बहुमतं निवेदयिष्यामि। बहुमुखं बहुप्रकारमिति शाङ्करः पाठः। तथा लतान्तरितेत्यर्थः।। विस्मृत इति कर्तरि [क्तः]। अत एव महीपति[ना] क्षणमपि सहृदयाः सहाया न विवाहयितव्याः।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 203

विदूषकः—भो। ण विसुमरामि। किं तु सव्वं कधिअ तए ज्जेव अवसाणे कधिदं। परिहासविअप्पो एसो ण भूदत्थो त्ति। मए मन्दबुद्धिणा तथा जेव गहिदं। अध वा भविदव्वदा एत्थ बलवदी। (भोः, न विस्मरामि। किं तु सर्वं कथयित्वा त्वयैवावसाने कथितं-परिहासविकल्पः एषः, न भूतार्थः इति। मया मन्दबुद्धिना तथैव गृहीतम्। अथवा भवितव्यतात्र बलवती।)

मिश्रकेशी—एवं णेदं। (एवं नु एतत्।)

राजा—(क्षणं ध्यात्वा) सखे, परित्रायस्व माम्।

विदूषकः—भो वअस्स, एदं किं उववण्णं तुह। ण कदा वि सप्पुरिसा सोअवत्तव्वा होन्ति। णं पवादे वि णिक्कम्पा जेव गिरीओ। (भोः वयस्य, एतद् किमुपपन्नं तव। न कदापि सत्पुरुषाः शोकवर्तव्याः भवन्ति। ननु प्रवाते अपि निष्कम्पा एव गिरयः।)

राजा—वयस्य, निराकरणविकलवायास्ते सख्यास्तामवस्थामनुस्मृत्य बलवदशरणोऽस्मि।
सा हि—

इतः प्रत्यादिष्टा स्वजनमनुगन्तुं व्यवसिता
स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम्॥६-१०॥

मिश्रकेशी—अम्हे, इमस्स ईदिसी अकज्जपरदा संतावेदि। (अम्महे, अस्य ईदृशी अकार्यता संतापयति।)

विदूषकः—भो। अत्थि मे तक्को। केण वि तत्थभोदी आआससंचारिणा णीद त्ति। (भोः अस्ति मे तर्कः। केनापि तत्रभवत्याकाशसञ्चारिणा नीतेति।)

राजा—वयस्य, कः पतिव्रतां तामन्यः परामर्ष्टुमुत्सहते। मेनका किल सख्यास्ते जन्मप्रतिष्ठेति सखीजनादस्मि श्रुतवान्। तत्सहचरीभिस्तया वा नीतेति मे हृदयमाशङ्कते।

मिश्रकेशी—संमोहो क्खु विम्हअणीओ, ण उण पडिबोधो। (संमोहः खलु विस्मयनीयः, न पुनः प्रतिबोधः।)


भो न विस्मरामि, किन्तु सर्वं कथयित्वा त्वयैवावसाने कथितं यथा परिहासविकल्पितम् एतन्न भूतार्थमिति, मया मन्दबुद्धिना तथैव गृहीतम्। अथवा भवितव्यता अत्र बलवती। एवमेतत्।।
भो वयस्य, किमिदमुपपन्नं तव। [न] कदाचित् स[त्] पुरुषा(षाः) शोकपरवशा भवति(न्ति)। ननु प्रवातेऽपि निष्कम्पा एव गिरयः। अशरणः परित्राणशून्यः। शल्यं शरफलं। अम्महे विस्मये। एतस्येदृशी अकार्यपरतां सन्तापयति। अस्ति ते तर्कः ज्ञानं, केन अत्रभवती आकाशसञ्चारिणा नीतेति। परामर्शः अकर्तुः प्रष्टर्वा। जन्मप्रतिष्ठा जन्मस्थानं। अ(स)म्मोहः खलु विस्मयनीयः, न पुनः प्रतिबोधः।

204 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

विदूषकः-भो। जइ एवं ता समस्ससदु भवं। अत्थि क्खु समागमो तत्थभोदीए। (भोः, यद्येवं तत् समाश्वसितु भवान्। अस्ति खलु समागमः तत्रभवत्याः।)

राजा-कथमिव।

विदूषकः-भो। ण हि मादा पिदा वा भत्तुविरहिदं चिरं दुहिदरं पेक्खिदुं पारेदि। (भोः, न हि माता पिता वा भर्तृविरहितां चिरं दुहितरं प्रेक्षितुं पारयति।)

राजा-वयस्य,

स्वप्नो नु माया नु मतिभ्रमो नु क्लृप्तं नु तावत्फलमेव पुण्यैः। असंनिवृत्त्यै तदतीव मन्ये मनोरथानामतटप्रपातम् ।।6-11।।

विदूषकः-भो, मा एवं भण। णं अङ्गुरीअअं जेव एत्थ णिदंसणं अवस्संभाविणो अचिन्तणीया समागमा होन्ति त्ति। (भोः मैवं भण। नन्वङ्गुरीयकमेवात्र निदर्शनम्, अवश्यंभाविनः अचिन्तनीयास्समागमाः भवन्तीति।)

राजा-(अङ्गुरीयकमालोक्य) इदं तदसुलभस्थानभ्रंशि शोचनीयमङ्गुरीयकम्।

तव सुचरितमङ्गुरीय नूनं प्रतनु ममेव विभाव्यते फलेन। अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु।।6-12।।


भो यत्ये(द्ये)वं तत् समाश्वसितु भवान्। न हि मातापितरौ भर्तृविरहितां दुहितरं चिरं प्रेक्षितुं पारयतः।

स्वप्नो०।। (6-11) तत्तस्मान्मनोरथानामतटं प्रपातं मन्ये। प्रपातस्त्व टतो भृगुरित्यमरः। मम मनोरथोऽत्युत्कण्ठापीडित इति भावः। असन्निवृत्तौ सत्यां अर्थात्तस्या न तु तद्दर्शनं स्वप्नो निद्रा नु। सर्व्वत्र नु वितर्के। दुष्टमनोजन्यस्थानं स्वप्नः।। माया इन्द्रजालादि...। (इतः परम् कोष्ठान्तर्गर्तोऽशः शङ्करस्य टीकारूपेण मैथिलपुस्तके गृहीतः) [[माया इन्द्रजालादिक्रिया, तया तद्दर्शनं जातम्तो न तत्समागमः$^{78}$। मतिभ्रमो नु। भ्रान्तो हि असदपि साक्षात्करोति शुक्तिकायां रजत[व]त्। पुण्यैस्तावत्....? ... तत्फलं दर्शनमात्रफलं क्लृप्तम्$^{79}$। दोषाय$^{80}$ संशयालङ्कार इति शङ्करः।। भो वयस्य, मैवं भण$^{81}$। ननु अङ्गुरीयकमेवात्र निदर्शनम् प्रमाणम्। अवश्यंभाविनोऽचिन्तनीयाः समागमा भवन्तीति। तव०। हे अङ्गुरीय, सुचरितं पुण्यं यद्यन्वहस्तगतं तावत्तदा सत्यम्। असुलभं दुर्लभं यत् स्थानं तस्या एवाङ्गुलिरूपं, तस्मात् यो भ्रंशः स्खलनं, तेन शोचनीयम्.....*।


  1. इतः परमेतदधिकम् पुस्तके। अत्रापि तर्क एव। उभयत्र स्वप्नेपि नानाकलितो दृश्यते। माया तु नानाव्यावम्बनी भवतीत्युपपत्तिम् आह।
  2. वाक्यमिदं “पुण्यैस्तावत् दर्शनमात्रफलं क्लृप्तम्” इति मैथिलपुस्तके।
  3. इतः पूर्वमेतदधिकम् पुस्तके, नु ऊहो वितर्क इत्युक्तः पदार्थेषु यथामतीति। संशयालंकारः निश्चयेन तु वाक्यस्य समाप्तिः संशयो यथा।
  4. इतः परमेतदधिकम् पुस्तके - एवं स्वप्नादिकम्। कुतस्तत्राह।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 205

मिश्रकेशी—जइ अण्णहत्थगदं भवे तदा सच्चं सोअणीअं भवे। सहि, दूरे वट्टसि। एआइणी जेव कण्णसुहाइं अणुभवामि। (यद्यन्यहस्तगतं भवेत् तदा सत्यं शोचनीयं भवेत्। सखि, दूरे वर्तसे। एकाकिन्येव कर्णसुखान्यनुभवामि।)

विदूषकः—भो, इअं णाममुद्दा केण उण उवुग्घादेण भवदा तत्थभोदीए हत्थसंसग्गं पाविदा। (भोः इयं नाममुद्रा केन पुनः उपोद्घातेन भवता तत्रभवत्याः हस्तसंसर्गं प्रापिता।)

मिश्रकेशी—मम विअ कोदूहलेण आलाविदो एसो। (ममैव कौतूहलेनालापितः एषः।)

राजा—वयस्य, श्रूयताम्। यदा तपोवनात्स्वनगराय प्रस्थितं मां प्रिया सबाष्पमिदमाह कियच्चिरेणार्यपुत्रः पुनरस्माकं स्मरिष्यतीति।

विदूषकः—तदो तदो। (ततस्ततः।)

राजा—अथेमां नाममुद्रामङ्गुल्यां निवेशयता मया प्रत्यभिहिता।

विदूषकः—किं ति। (किमिति।)

राजा

एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय यासि न यावदन्तम्।
तावत्प्रिये मदवरोधनिदेशवर्ती
नेता जनस्तव समीपमुपैष्यतीति॥६–१३॥

तच्च मोहाद् दारुणमनुष्ठितम्।

मिश्रकेशी—रमणीओ क्खु अवही विहिणा विसंवादिदो। (रमणीयः खल्ववधिः विधिना विसंवादितः।)

विदूषकः—अध कथं रोहिदमच्छस्स मुहं बडिसं विअ एदं पविट्ठं आसि। (अथ कथं रोहितमत्स्यस्य मुखं बडिशमिवैतत् प्रविष्टमासीत्।)

राजा—शचीतीर्थे सलिलं वन्दमानायास्तव सख्याः परिभ्रष्टम्।

विदूषकः—जुज्जदि। (युज्यते।)


......भवेत्। सखि, दूरे वर्तसे। एकाकिन्येव कर्णसुखान्यनुभवामि।
भो! इयं नाममुद्राङ्गुरीयकं केन पुनरुपोद्घातेनोपक्रमेण भवता तत्रभवत्या हस्तसंसर्गं प्रापिता। ममापि कौतूहलेनैव श्रवणोत्कण्ठयैव वादित एषः। पाठान्तरे व्यापारितः। कियच्चिरेण कियता कालेन। ततस्ततः। किमिति।
एकैकं (6–13)।। यासि यास्यसि। अन्तं नामाक्षरन्तरम्। मदवरोधेति (....) अन्तःपुरसेवकः नेता रसिकः।। रमणीयः खल्ववधिर्विधिना विसंवादितः। अथ कथं रोहितमत्स्यस्य बडिशमिव मुखं प्रविष्टमासीत्। युज्यते। एवमतः खलु तपस्विन्याः शकुन्तलायाः अधर्म-भीरोरमुष्य राजर्षेः परिणये

206 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

मिश्रकेशी—अदो क्खु तवस्सिणीए सउन्तलाए अधम्मभीरुणो राएसिणो परिणए सन्देहो। अथवा ण ईदिसो अणुराओ अहिण्णाणं अवेक्खदि। ता कधं विअ एदं। (अतः खलु तपस्विन्याः शकुन्तलायाः अधर्मभीरोः राजर्षेः परिणये सन्देहः। अथवा न ईदृशः अनुरागः अभिज्ञानमपेक्षते। तद् कथमिवैतद्।)

राजा—भवतु, उपालप्स्ये तावदिदमङ्गुरीयकम्।

विदूषकः—(सस्मितम्) अहं पि एदं दण्डअट्ठं उवालहिस्सं। कधं उज्जुअस्स मे कुडिलं तुमं सि त्ति। (अहमपि एतद्दण्डकाष्ठमुपालप्स्ये। कथम् ऋजोः मे कुटिलम् त्वमसीति।)

राजा—(अनाकर्णितनाटितकेन)

कथं नु तं कोमलबन्धुराङ्गुलिं
करं विहायासि निमग्नमम्भसि।
अथवा—
अचेतनं नाम गुणं न वीक्षते
मयैव कस्मादवधीरिता प्रिया॥6-14॥

मिश्रकेशी—सअं जेव पडिवण्णो जं म्हि वत्तुकामा। (स्वयमेव प्रतिपन्नः यदस्मि वक्तुकामा।)

विदूषकः—भो, सव्वधा अहं खु बुभुक्खाए मारिदव्वो। (भोः सर्वथा अहं खलु बुभुक्षया मारयितव्यः।)

राजा—(अनादृत्य) प्रिये, अकारणपरित्यागानुशयदग्धहृदयस्तावद् अनुकंप्यतामयं जनः पुनर्दर्शनेन।

प्रविश्य चित्रफलकहस्ता चेटी—भट्टा, इअं चित्तगदा भट्टिणी। (भर्तः, इयं चित्रगता भर्त्री।)

(इति चित्रफलकं दर्शयति)

राजा—(विलोक्य) अहो रूपमालेख्यस्य। तथा हि—

दीर्घापाङ्गविसारिनेत्रयुगलं लीलाञ्चितभ्रूलतं
दन्तान्तःपरिकीर्णहासकिरणज्योत्स्नाभिषिक्ताधरम्।


संदेहः। अथवा नेदृशोऽनुरागोऽभिज्ञानम् अपेक्षते। तत्कथमप्येतत्।। अहमपीदं दण्डकाष्ठमुपालप्स्ये। कथं किं ऋजुकस्य मे कुटिलमसि त्वम्।

बन्धू० ।। (6-14) ।। बन्धुरं रम्यम्। निमग्नमम्भसि आसीरित्यर्थः। नाम संभावनायाम्। मयैव चेतनेनैवेत्यर्थः। स्वयमेव प्रतिपन्नः यदहं वक्तुकामास्मि। रसान्तरकरणाय हेतोः-सर्वथाहं बुभुक्षया मारयितव्यः। अयम् अस्मद्रूपः। चित्रफलकं चित्रलेखपटी। भट्टारक इयं चित्रगता भट्टिनी शकुन्तला। भट्टिनी द्विजभार्यायां नाट्योक्तौ राज्योषितीति विश्वः।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 207

कर्कन्धूद्युतिपाटलोष्ठरुचिरं तस्यास्तदेतन्मुखं
चित्रेऽप्यालपतीव विभ्रमलसत्प्रोद्भिन्नकान्तिद्रवम्॥६-१५॥

[ तथा हि-

अस्यास्तुङ्गमिव स्तनद्वयमिदं, निम्नेव नाभिः स्थिता
दृश्यन्ते विषमोनताश्च वलयो भित्तौ समायामपि।
अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धप्रभावाच्चिरं
प्रेम्णा मन्मुखमीषद्रीक्षत इव स्मेरा च वक्तीव माम्॥६-१६॥]$^{82}$

विदूषकः- (विलोक्य) भो, भावमहुरा रेहा। खलदि विअ मे दिट्ठि णिण्णुण्णदप्पदेसेसुं। किं बहुणा। सत्ताणुप्पवेससङ्काए आलवणकोदुहलं मे जणेदि। (भोः भावमधुरा रेखा। स्खलति इव मे दृष्टिः निम्नोन्नतप्रदेशेषु। किं बहुना। सत्त्वानुप्रवेशशङ्कया आलपनकौतूहलं मे जनयति।)

मिश्रकेशी- अहो राएसिणो वत्तिआरेहाणिउणदा। जाणे पिअसही मे अग्गदो वट्टदित्ति। (अहो राजर्षेः वर्तिकारेखानिपुणता। जाने प्रियसखी मे अग्रतः वर्तते इति।)

राजा- वयस्य,

यद्यत्साधु न चित्रेऽस्मिन्क्रियते तत्तदन्यथा।
तथापि तस्या लावण्यं रेखया किंचिद् अन्वितम्॥६-१७॥

मिश्रकेशी- सरिसं पच्छादावगुरुणो सिणेहस्स। (सदृशं पश्चात्तापगुरोः स्नेहस्य।)

राजा- (निःश्वस्य)

साक्षात्प्रियामुपगतामपहाय पूर्वं
चित्रार्पितामहमिमां बहु मन्यमानः।
स्रोतोवहां पथि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम्॥६-१८॥


दीर्घेति०।। (6-15)। लीला शृङ्गारचेष्टा। अञ्चितं चञ्चलं पूजितं वा। कर्कन्धूः पक्व-कर्कन्धूरित्यमरः। तत्रैव पाटलता संगच्छते। रुचिरं सुन्दरं ओष्ठाभ्यां रुचिरं कान्तिजनकमिति शाङ्करः पाठः। आलपतीव मामर्थात्। विभ्रमो विलासः।। तस्याः०।। (6-16) तुङ्गमिव रेखानिपुणतया तथा भानात्। एवमग्रेपि। पद्यमिदमनतिमधुरं दाक्षिणात्य-पुस्तकेष्वेव दृश्यते।। भो भावमधुरा रेखा। भावोऽभिप्रायः। स्खलतीव मे दृष्टिर्निम्नोन्नत-प्रदेशेषु। आलिखितप्रदेशे इति च पाठः। किं बहुना, सत्त्वानुप्रवेश-शङ्कयालपनकौतुकं मे जनयति। अहो राजर्षेर्वर्त्तिकारेखानिपुणता। जाने प्रियसखी मेऽग्रतो वर्तत इति। यद्यदिति०।। (6-17)।। -अन्यथा क्रियते यद्यपीत्यर्थः। लावण्यं सौन्दर्यम्।। सदृशं पश्चात्तापगुरोः स्नेहस्य।

साक्षादिति०।। (6-18)-स्रोतोवहां नदीम्। मृगतृष्णा मरीचिका। निदर्शनालङ्कारः।।


  1. अंशोऽयं रिचार्ड पिशेलेन सम्पादिते बंगदेशीयपाठे न स्वीकृतः।

208 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

विदूषकः—तिण्णि आइदीओ दीसन्ति। सव्वाओ ज्जेव दंसणीआओ। ता कदमा तत्थभोदी सउन्तला। (तिस्रः आकृतयः दृश्यन्ते। सर्वैव दर्शनीयाः। तत् कतमा तत्रभवती शकुन्तला।)

मिश्रकेशी—अणहिण्णो एस तवस्सी सहीए रूवस्स। मोहचक्खुणो इअं ण गदा से पच्चक्खदं। (अनभिज्ञः एषः तपस्वी सख्याः रूपस्य। मोघचक्षुषः इयं न गतास्य प्रत्यक्षताम्।)

राजा—त्वं तावकतमां तर्कयसि।

विदूषकः—(निर्वर्ण्य) तक्केमि जा एसा अवसेअसिणिद्धपल्लवं असोअलदिअं संसिदा सिढिलकेसबन्धुव्वम्मन्तकुसुमेण बद्धसेदबिन्दुणा वअणेण विसेसणमिदसाहाहिं बाहालदिआहिं ऊससिदणीविणा वसणेण ईसिपरिसन्ता विअ आलिहिदा सा तत्थभोदी सउन्तला सेसाओ सहीओ त्ति। (तर्कयामि या एषा अवसेकस्निग्धपल्लवाम् अशोकलतिकां संश्रिता शिथिलकेशबन्धोद्द्मत्कुसुमेन बद्धस्वेदबिन्दुना वदनेन विशेषनमितशाखाभ्यां बाहुलतिकाभ्याम् उच्छ्वसितनीविना वसनेन ईषत्परिश्रान्तेवालिखिता सा तत्रभवती शकुन्तला, शेषे सख्यौ इति।)

राजा—निपुणो भवान्। अस्त्यत्र ममापि भावचिह्नम्।

स्विन्नाङ्गुलीनिवेशारेखा प्रान्तेषु दृश्यते मलिना।
अश्रु च कपोलपतितं लक्ष्यमिदं वर्णकोच्छ्वासात्॥6-19॥

चतुरिके, अर्धलिखितमेतद्विनोदस्थानमस्माभिः। तद्गच्छ। वर्तिकास्तावद् आनय।

चेटी—अज्ज माधव्व। अवलम्बसु चित्तफलं जाव गच्छामि। (आर्य माधव्य, अवलम्बस्व चित्रफलकं यावत् गच्छामि।)

राजा—अहमेवैनमवलम्बे। (इति यथोक्तं करोति, चेटी निष्क्रान्ता)

विदूषकः—भो। किं एत्थ अवरं आलिहिदव्वं। (भोः किमत्रापरमालिखितव्यम्।)


भोस्तिस्र आकृतयो दृश्यन्ते। सर्वा एव दर्शनीयाः। तत्कतमा तत्रभवती शकुन्तला। अनभिज्ञ एव तपस्वी सख्या रूपस्य। मोघचक्षुषोऽस्य इयं न गता प्रत्यक्षताम्। मोघत्वं शकुन्तलारूपादर्शनात्। निर्वर्ण्य दृष्ट्वा, तर्कयामि यैषा शिथिलकेशोद्गमत्कुसुमेन बद्धस्वेदबिन्दुना वदनेन विशेष-नमितं शाखाभ्यां बाहुलतिकाभ्यां उच्छ्वसित-नीविना वसनेनावसेकस्निग्धपल्लवामशोककलतिकां संश्रिता ईषत् परिश्रान्तेवालिखिता सा तत्रभवती, शेषे सख्याविति।

स्विन्नेति०।। (6-19) प्रान्तभागे मलिना रेखा दृश्यते। अश्रु सात्त्विकम्। वर्णको हरितालादिः। उच्छ्वास उन्नत-तनुम्⁸³।। आर्य माधव्य अवलम्बस्व चित्रफलकं यावद् गच्छामि। भोः किमत्रापरमभिलिखितव्यम्। यो यः प्रियसख्या अभिमतप्रदेशस्तमालिखितुकाम इति तर्कयामि।


  1. मैथिलीयपाठे (पुस्तके) - उन्नतत्वम्।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 209

मिश्रकेशी—जो जो पिअसहीए अहिमदो पदेसो तं तं आलिहिदुकामो त्ति तक्केमि। (यः यः प्रियसख्याः अभिमतः प्रदेशः तं तमालिखितुकाम इति तर्कयामि।)

राजा—सखे, श्रूयताम्।

कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी
पादस्तामभितो निषण्णचमरो गौरीगुरोः पावनः।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्॥ 6–20॥

विदूषकः—(अपवार्य) जधा मन्तेदि तथा तक्केमि पूरिदो अणेण चित्तफलओ आइदीहिं कुच्चाणदाणं तावसाणं ति। (यथा मन्त्रयते तथा तर्कयामि पूरितः अनेन चित्रफलकः आकृतिभिः कूर्चानतानां तापसानाम् इति।)

राजा—अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतमत्रालिखितुं विस्मृतमस्माभिः।

विदूषकः—किं विअ। (किमिव।)

मिश्रकेशी—वणवासस्स कण्णआभावस्स च सरिसं भविस्सदि। (वनवासस्य कन्यकाभावस्य च सदृशं भविष्यति।)

राजा

कृतं न कर्णापिर्तबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम्।
न वा शरश्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे॥ 6–21॥

विदूषकः—किं णु क्खु तत्थभोदी रत्तकुवलअसोहिणा अग्गहत्थेण मुहं ओवारिअ चकिदचकिदा विअ ठिदा। (दृष्ट्वा) आं एसो दासीएपुत्तो कुसुमरसपाडच्चरो धिट्ठमहुअरो तत्थभोदीए वअणकमलं अहिलसदि। (किन्नु खलु तत्रभवती रक्तकुवलयशोभिना अग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता। आम्। एषः दास्याःपुत्र कुसुमरेस-पाटच्चरः धृष्टमधुकरः तत्रभवत्याः वदनकमलमभिलषति।)


कार्येति०॥ (6–20)—सैकतं वालुकातटम्। पादः प्रत्यन्तपर्वतः कार्य इत्यनुषङ्गः। तामभितः मालिनीसमीपे गौरीगुरोर्हिमालयस्य। कृष्णमृगस्य⁸⁴ कृष्णसारस्य॥ यथा मन्त्रयति तथा तर्कयामि। पूरितोऽनेनेति चित्रफलक आकृतिभिः कूर्चानतानां तापसानाम्। कूर्चः श्मश्रुः। कूर्चो विकत्थने मध्ये भ्रुवोः श्मश्रूणि केतव इति विश्वः। किमिव, इव शब्दो वाक्यालङ्कारे। वनवासस्य कन्यकाभावस्य च सदृशं भविष्यति।

कृतमिति०॥ (6–21)॥ बन्धनं वृन्तम्। कोमलं रम्यम्॥ किं न खलु तत्रभवती रक्तकुवलयशोभिनाग्रहस्तेन मुखमपवार्य चकितेव स्थिता।


  1. मैथिलीयपाठे (पुस्तके) शब्दोऽयमस्ति।

210 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- ननु वार्यतामेष धृष्टः।

विदूषकः- तुमं जेव अविणीदसासणे पहवसि। (त्वमेवाविनीतशासने प्रभवसि।)

राजा- युज्यते। अयि भोः कुसुमलताप्रियातिथे। किमितः परिपतनखेदमनुभवसि।

  एषा कुसुमनिषण्णा तृषितापि सती भवन्मनुरक्ता।
  प्रतिपालयति भ्रमरी न खलु मधु त्वां विना पिबति॥६-२२॥

मिश्रकेशी- अहिजादं खु वारिदो। (अभिजातं खलु वारितः।)

विदूषकः- पडिसिद्धवामा खु एसा जादी। (प्रतिषिद्धवामा खल्वेषा जातिः।)

राजा- (सकोपम्) भोः। न मे शासने तिष्ठसि। श्रूयतां तर्हि संप्रति-

  अक्लिष्टबालतरुपल्लवलोभनीयं
  पीतं मया सदयमेव रतोत्सवेषु।
  बिम्बाधरं दशसि चेद् भ्रमर प्रियाया-
  स्त्वां कारयामि कमलोदरबन्धनस्थम्॥६-२३॥

विदूषकः- भो। एवं तिक्खदण्डस्स दे कधं ण भाइस्सदि। (प्रहस्यात्मगतम्) एसो दाव उम्मत्तओ अहं पि एदस्स सङ्गेण ईदिंसो ज्जेव संवृत्तो। (भोः एवं तीक्ष्णदण्डस्य ते कथं न भेष्यति। एषः तावदुन्मत्तोऽहमप्येतस्य सङ्गेन ईदृशः एव संवृत्तः।)

राजा- कथं निवार्यमाणोऽपि स्थित एव।

मिश्रकेशी- धीरं पि जणं रसो विआरेदि। (धीरमपि जनं रसः विकारयति।)

विदूषकः- (प्रकाशम्) भो चित्तं खु एदं। (भोः चित्रं खल्वेतत्।)


ही ही भो हास्योक्तौ। एष दास्याः पुत्रः कुसुमरसपाटच्चरो मधुकरोऽत्रभवत्या वदनकमल-मभिलषति। पाटच्चरश्चौरः। त्वमेवाविनीतशासने प्रभवसि।।

एषेति०।। (6-22)।। अथ च चन्द्रमरीचिप्रिया(?) शकुन्तलेति सूच्यत इति शङ्करः।। अभिजातमुचितं खलु वारितः। खल्वस्य व्याहृतमिति वा पाठान्तरे। प्रतिषिद्धवामा खल्वेषा जातिः।।

लोभनीयं०।। (6-23)।। रम्यम्। बिम्बेति मध्यमपदलोपी समासः।। भो एवं तीक्ष्णदण्डस्य ते कथं न भेष्यति। प्रहस्य हसित्वा। तदुक्तम् “सावष्टम्भं साश्रुनेत्रं विकृष्टस्वरसंयुक्तम्। करोपगूढपार्श्वं च उच्चप्रहसितं⁸⁵ भवेदिति”।। एष तावदुन्मत्तः। अहमप्येतस्य सङ्गेन ईदृश एव संवृत्तः। धीरमपि जनं रसो विप्रलम्भः व्याकुलयति। असंबद्धमधम् आलापादित्यर्थः। भोश्चित्रं खल्वेतत्। अहम् अपीदानीम् एव गृहीतार्थः(र्था), किं पुन-र्यथाचिन्तितानुभावी एषः।

दर्शन०।। (6-24)।। तन्मयेन शकुन्तलामयेन। इयं पञ्चमी कामावस्था। तदुक्तं-पञ्चमे तन्मयत्वं


  1. मैथिलीयपाठे (पुस्तके) - तत्प्रहासं।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 211

राजा— कथं चित्रम्।

मिश्रकेशी— अहं पि दाणिं जेव अवगदत्था, किं उण जधाचिन्तिदाणुभावी एसो। (अहमप्यदानीमेवावगतार्था, किं पुनः यथाचिन्तितानुभावी एषः।)

राजा— किमिदमनुष्ठितं पौरोभाग्यम्।

दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥६-२४॥
(इति बाष्पं विसृजति)

मिश्रकेशी— अम्मो, पुव्वावरविरुद्धो एसो विहिणो मग्गो। (अम्भो, पूर्वापरविरूद्धः एषः विधेः मार्गः।)

राजा— वयस्य, कथमविश्रामं दुःखमनुभवामि।

प्रजागरात्खिलीभूतस्तस्याः स्वप्नसमागमः।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥६-२५॥

मिश्रकेशी— सव्वधा वअस्स संमज्जिदं तए पच्चादेसदुक्खं पिअसहीए सउन्तलाए पच्चक्खं जेव सहीअणस्स। (सर्वथा वयस्य संमार्जितं त्वया प्रत्यादेशदुःखं प्रियसख्याः शकुन्तलायाः प्रत्यक्षमेव सखीजनस्य।)

प्रविश्य चतुरिका— भट्टा, वत्तिआकरण्डअं गेण्हिअ इदो अहं पत्थिद म्हि। (भर्तः, वर्तिकाकरण्डकं गृहीत्वा इतः अहं प्रस्थितास्मि।)

राजा— किं ततः।

चेटी— सो मे पिङ्गलिआदुदिआए देवीए वसुमतीए अहं जेव अज्जउत्तस्स उवणइस्सं ति भणिअ सबलक्कारं गहिदो। (सः मे पिङ्गलिकाद्वितीयया देव्या वसुमत्य अहम् एवार्थपुत्रस्य उपनेष्यामिति भणित्वा सबलात्कारं गृहीतः।)

विदूषकः— तुमं कधं विमुक्का। (त्वं कथं विमुक्ता।)

चेटी— जाव लदाविडवलग्गं देवीए परिचारिआ अञ्चलं मोआवेदी ताव णिण्हुविदो मए अप्पा।


चेति।। अम्मो विस्मये। पूर्वापरविरुद्ध एष विधेर्मार्गः।। प्रजागरादिति०।। (6-25) ।। खिलीभूतो दुर्लभः।।

सर्वथा वयस्य मार्जितं त्वया प्रत्यादेशदुःखं प्रियसख्याः शकुन्तलायाः प्रत्यक्षेण स सखीजनस्य, न ममेत्यर्थात्।। भट्टारक वर्तिका-करण्डिकां गृहीत्वा इतोऽहं प्रस्थितास्मि। करण्डिका पुष्पाद्याहार-पात्रविशेषः। सा च पिङ्गलिका-द्वितीयाया देव्या वसुमत्य अहमेवार्यपुत्रस्योपनेष्यामीति भणित्वा सबलात्कारं गृहीता सा करण्डिका।। पिङ्गलिका सखी। वसुमती देवी नाम। त्वं कथं विमुक्ता।

212चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

(यावत् लताविटपलग्नं देव्याः परिचारिका अञ्चलं मोचयति तावत् निह्नुतः मया आत्मा।)

(नेपथ्ये) एदु एदु भट्टिणी। (एत्वेतु भर्त्री।)

विदूषकः—(कर्ण दत्त्वा) भो अहिधावन्ती एसा अन्तेउरवग्घी मेधाविणिं मइं विअ कवलिदुं उवत्थिदा। (भोः अभिधावन्ती एषा अन्तःपुरव्याघ्री मेधाविनीं मृगीमिव कवलयितुमुपस्थिता।)

राजा—वयस्य, उपस्थिता देवी बहुमानगर्विता। तद्भवानिमां प्रतिकृतिं रक्षतु।

विदूषकः—अत्ताणअं पि किं ति ण भणसि। (चित्रफलकमादाय उत्थाय च) जइ भवं अन्तेउरवाउरादो मुच्चिस्सदि तदो मं मेहच्छण्णप्पासादे सहावेसि। एदं च तहिं गोवेमि जहिं पारावदं उज्झिअ ण को वि अण्णो पेक्खदि। (आत्मानमपि किं न भणसि। यदि भवानन्तःपुरवागुरातः मोक्ष्यते ततः मां मेघच्छन्नप्रासादे शब्दयसि। एतत् च तत्र गोपयामि यत्र पारावतमुज्झित्वा न कोऽप्यन्यः प्रेक्षते।)

(इति द्रुतपदं निष्क्रान्तः)

मिश्रकेशी—अम्मो, अण्णसंकन्तहिअओ वि पढमसंभावणं रक्खदि। थिरसोहिदो दाव एसो। (अम्मो अन्यसंक्रान्तहृदयः अपि प्रथमसम्भावनाम् रक्षति। स्थिरसौहृदः तावदेषः।)

प्रविश्य पत्रहस्ता प्रतीहारी—जअदु जअदु देवो। (जयतु जयतु देवः।)

राजा—वेत्रवति, न खल्वन्तरे दृष्टा त्वया देवी वसुमती।

प्रतीहारी—देव, दिट्ठा पत्तहत्थं मं पेक्खिअ पडिणिउत्ता। (देव, दृष्ट्वा, पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता।)

राजा—कालज्ञा देवी कार्योपरोधं मे परिहरति।

प्रतीहारी—देव, अमच्चो विण्णवेदि। अत्थजादस्स बहुलदाए एक्कं मए पोरकज्जं पच्चवेक्खिदं। तं देवो पत्तारोविदं पच्चक्खीकरेदु त्ति। (देव, अमात्यः विज्ञापयति। अर्थजातस्य बहुतया एकं मया पौरकार्यं प्रत्यवेक्षितम्। तद्देवः पत्रारोपितं प्रत्यक्षीकरोतु इति।)

राजा—इतः पत्रं दर्शय। (प्रतीहारी तथा करोति)


यावल्लताविटपलग्नं देव्याः परिचारिका अञ्चलं मोचयति तावन्निर्वाहितो मयात्मा। आत्मानमपि किमिति न भणसि। वयस्य, यदि भवानन्तःपुरकूटवागूरातो मोक्ष्यते ततोऽहं मेघच्छन्दप्रासादे आह्वयस्यते। मेघेति प्रासाद नाम। इदं चार्थान्चित्रफलकं तत्र गोपयामि यत्र पारावतं वर्जयित्वा न कोऽप्यन्यः प्रेक्षते।। अम्मो विस्मये। अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनां रक्षति। स्थिरसौहृदस्तावदेषः। जयति जयति देवः। अन्तरे मध्ये। देवं दृष्ट्वा(दृष्ट्य)। पत्रहस्तं मां प्रेक्ष्य प्रतिनिवृत्ता। उपरोधं प्रत्यूहम्।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 213

राजा-(वाचयति) विदितमस्तु देवपादानाम्। धनवृद्धिनामा वणिग्वारिपथोपजीवी नौव्यसनेन विपन्नः। स चानपत्यस्तस्यानेककोटिसंख्यं वसु। तदिदानीं राजार्थताम् आपद्यते। इति श्रुत्वा देवः प्रमाणमिति।

राजा-(सविषादम्) कष्टं खल्वनपत्यता। वेत्रवति, महाधनत्वादबहुपत्नीकेनानेन भवितव्यम्। तदन्विष्यतां यदि काचिद् आपन्नसत्त्वा तस्य भार्या स्यात्।

प्रतीहारी-इदाणिं जेव साकेदअपुरस्स सेट्ठिणो दुहिदा णिव्वुत्तपुंसवणा तस्स जाआ सुणीअदि। (इदानीमेव साकेतकपुरस्य श्रेष्ठिनः दुहिता निर्वृत्तपुंसवना तस्य जाया श्रूयते।)

राजा-ननु स गर्भः पित्र्यम् रिक्थमर्हति। गत्वैवममात्यं ब्रूहि।

प्रतीहारी-जं देवो आणवेदि। (यद्देवो आज्ञापयति।) (इति प्रस्थिता।)

राजा-एहि तावत्।

प्रतीहारी-(निवृत्य) एस म्हि। (एषास्मि।)

राजा-अथवा किमनेन संततिरस्ति नास्ति वा।

येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना।
स स पापादृते तासां दुःषन्त इति घुष्यताम्॥6-26॥

प्रतीहारी-इदं णाम घोसइदव्वं। (निष्क्रम्य पुनः प्रविश्य) देव, काले पवुट्ठं विअ सासणं अहिणन्दिदं महाजणेण देवस्स।
(इदं नाम घोषयितव्यम्। देव, काले प्रवृष्टमिव शासनमभिनन्दितं महाजनेन देवस्य।)

राजा-(दीर्घं निःश्वस्य) एवं भोः संततिविच्छेद्निरवलम्बना मूलपुरुषावसाने संपदः परमुपतिष्ठन्ते। ममाप्यन्ते पुरुवंशश्रिय एष वृत्तान्तः।

प्रतीहारी-पडिहदं अमङ्गलं। (प्रतिहतम् अमङ्गलम्।)

राजा-धिक् मामुपतन्श्रेयोऽवमानिनम्।

मिश्रकेशी-असंसअं पिअसहिं जेव हिअए कदुअ णिन्दिदो अणेण अप्पा भविस्सदि।
(असंशयं प्रियसखीमेव हृदये कृत्वा निन्दितः अनेनात्मा भविष्यति।)


देवामात्यो विज्ञापयति एकं मया पौरकार्यं प्रत्यवेक्षितं तद् देवः पत्रारोपितं प्रत्यक्षीकरोतु। नाविति⁸⁶ नाविकवृत्तिः। राजात्मजां राजसुताम्। आपन्नसत्त्वा गर्भवती। देव, इदानीं साकेतकपुरस्य श्रेष्ठिनो दुहिता निर्वृत्तप्रसवा (निर्वृत्तपुंसवना) तस्य जायेति श्रूयते। श्रेष्ठी वणिगादिकुलमुख्यः। रिक्थं धनम्। यद्देव आज्ञापयति। इयमस्मि।। येनेति०।। (6-26)।। प्रजा लोकाः। पापात् पापिष्ठात् ऋते विना।। एवं इदं वा नाम घोषयितव्यम्। देव काले प्रवृष्टमिव शासनमभिवर्धितं जनेन देवस्य। प्रतिहतममङ्गलम्। संशयं प्रियसखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा भविष्यति।।


  1. प्रकाशिते मैथिलपुस्तके वारिपथोपजीवी नाविकवृत्तिरिति पठ्यते।

214 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा। कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा।।6-27।।

मिश्रकेशी-अपरिच्चत्ता दाणिं दे भविस्सदि। (अपरित्यक्ता इदानीं ते भविष्यति।)

चेटी-(जनान्तिकम्) अज्जे, एदं पत्तं पेसअन्तेण दिउणाणुदावो किदो भट्ठा अमच्चेण। ता मेहच्छण्णावद्विदं संतावणिव्वावइत्तअं अज्जमाधव्वं गेण्हिअ आअच्छ। (आर्ये, एतत्पत्रं प्रेषयता द्विगुणानुतापः कृतः भर्ता अमात्येन। तन्मेघच्छन्नावस्थितं संतापनिर्वापयितारम् आर्यमाधव्यं गृहीत्वा आगच्छ।)

प्रतीहारी-सुट्ठु दे भणिदं। (सुष्ठु ते भणितम्।) (इति निष्क्रान्ता)

राजा-अहो, दुःषन्तस्य संशयमारूढाः पिण्डभाजः। अस्मात्परं बत यथास्मृति संभृतानि को नः कुले निवपनानि करिष्यतीति। नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुसेकमुदकं पितरः पिबन्ति।।6-28।।

मिश्रकेशी-सदि क्खु दीवे ववधानदोसेण अन्धआरं अणुभवदि राएसी। (सति खलु दीपे व्यवधानदोषेणान्धकारमनुभवति राजर्षिः।)

चेटी-भट्ठा, अलं संताविदेण। वअत्थो ज्जेव पहू अवरासुं देवीसुं अणुरूवपुत्तजन्मेण पुव्वपुरिसाणं अरिणो भविस्सदि। (आत्मगतम्) ण मे वअणं पडिच्छदि भट्ठा। अथवा अणुरूव जेव ओसधं आदङ्कं णिअत्तेदि। (भर्तः, अलं संतापितेन। वयःस्थः एव प्रभुः अपरासु देवीषु अनुरूपपुत्रजन्मना पूर्वपुरुषाणामनृणः भविष्यति। न मे वचनं प्रतीच्छति भर्ता। अथवा- अनुरूपमेवौषधम् आतङ्कं निवर्तयति।)


संरोपित इति।। (6-27)।। आत्मनि संरोपितेऽर्थात् तस्या गर्भे जाते इत्यर्थः। यदुक्तम् “आत्मा वै जायते पुत्र” इति। काले वर्षासु।। अपरित्यक्तेदानीं ते भविष्यति। आर्ये इदं पत्रं प्रेषयता द्विगुणानुतापः कृतो भर्तामात्येन। तन्मेघच्छन्नावस्थितं संतापनिर्वापकमार्य-माधव्यं गृहीत्वा गच्छ। श्रेष्ठं प्रशस्तं यत्त्वया भणितम्। पिण्डभाजः पितरः।।

अस्मात्०।। (6-28)।। दुष्म(ष्य)न्तात्। निवपनानि जलाञ्जल्यादीनि। मृतेद्देश्यकोदकदानं निवापः। प्रसिक्तं दत्तम्। धौतेति क्रियाविशेषणम्। विन्यासो नाम नाट्यालङ्कारः। तदुक्तं-“निर्वेद-वाक्यवचनं विन्यासस्तु प्रकीर्तितः“ इति शङ्करः।।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 215

राजा- (शोकनाटिकेन) सर्वथा—

आमूलशुद्धसंततिकुलमेतत्पौरवं प्रजावन्ध्ये।
मय्यस्तमितमनार्ये देश इव सरस्वतीस्रोतः॥६-२९॥

(इति मोहमुपागतः)

चेटी- (संसभ्रमम्) समस्ससदु समस्ससदु भट्टा। (समाश्वसितु समाश्वसितु भर्ता।)

मिश्रकेशी- किं इदाणिं जेव णं णिव्वुदं करइस्सं। अथवा सुदं मए सउन्तलं संभावअन्तीए देवजणणीए मुहादो जण्णभाअसमूसुआओ देवदाओ ज्जेव तथा करइस्सन्ति जधा सो भत्ता तुमं अइरेण धम्मवत्तिं अहिणन्दिस्सदि त्ति। ता ण जुत्तं मम एत्थ विलम्बिदुं। जाव इमिणा वुत्तन्तेण पिअसहिं सउन्तलं समस्ससेमि। (किमिदानीमेवेनं निर्वृतं करिष्यामि। अथवा श्रुतं मया शकुन्तलां संभावयन्त्याः देवजनन्याः मुखात् यज्ञभागसमुत्सुकाः देवताः एव तथा करिष्यन्ति। यथा सः भर्ता त्वामचिरेण धर्मपत्नीम् अभिनन्दिष्यतीति। तन्न युक्तं ममात्र विलम्बितुम्। यावदनेन वृत्तान्तेन प्रियसखीं शकुन्तलां समाश्वासयामि।

(इत्युद्भ्रान्तकेन निष्क्रान्ता।)

नेपथ्ये- भो, अव्वम्हण्णं अव्वम्हण्णं। (भोः अब्रह्मण्यम् .....। अब्रह्मण्यम्।)

राजा- (प्रत्यागतचेतनः कर्णं दत्त्वा) अये माधव्यस्येवार्तनादः।

चेटी- भट्टा, मा णाम सो माधव्वतवस्सी पिङ्गलियामिस्सिआहिं चित्तफलअहत्थो पाविदो भविस्सदि। (भर्तः, मा नाम सः माधव्यतपस्वी पिङ्गलिकामिश्राभिः चित्रफलक-हस्तः प्राप्तः भविष्यति।)

राजा- चतुरिके, गच्छ। मद्वचनादनिषिद्धपरिजनां देवीमुपालभस्व।

चेटी- जं देवो आणवेदि। (यद्देवो आज्ञापयति।) (इति निष्क्रान्ता)


सति खलु दीपे व्यवधानदोषेणान्धकारमनुभवति राजर्षिः। भट्टारक अलं संतापितेन। वयःस्थ एव प्रभुः, अपरासु देवीष्वनुरूपपुत्रजन्मना पूर्वेषाम् अनृणो भविष्यामि। न मे वचनं प्रतिगृह्णाति भर्ता अथवानुरूपमेवौषधमातङ्गं निवर्तयति।।

आमूलेति०।। (6-29)।। प्रजापत्यं तद् वन्ध्ये अत एवानार्ये पापिष्ठे। यथानार्येऽधमदेशे सरस्वतीनदीस्रोतः।। समाश्वसितु समाश्वसितु भर्ता। किमिदानीमेवैनं निर्वृतं करिष्यामि। अथवा मया श्रुतं शकुन्तलां संभावयन्त्या देवजनन्या मुखात् यज्ञभागसमुत्सुका देवा एव तथा करिष्यन्ति यथा भर्ता त्वामचिरेण धर्मपत्नीमभिनन्दिष्यति। तन्न युक्तं ममात्र विलम्बितुम्। यावदेतेन वृत्तान्तेन प्रियसखीं शकुन्तलां समाश्वासयामि। उद्भ्रान्तकेन ऊर्ध्वगतिभेदेन। भो अब्रह्मण्यम् अब्रह्मण्यम्। अवध्योऽहमित्यर्थः। “अब्रह्मण्यम् अवध्योक्तावि” त्यमरः।

216 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

नेपथ्ये—भो, अब्बम्हण्णं अब्बम्हण्णं। (भोः अब्रह्मण्यं अब्रह्मण्यम्।)
राजा—परमार्थतो भीतिभिन्नस्वरो ब्राह्मणः। कः कोऽत्र भोः।
प्रविश्य कञ्चुकी—आज्ञापयतु देवः।
राजा—निरूप्यतां किमेवं माधव्यमाणवकः क्रन्दतीति।
कञ्चुकी—यावदालोकयामि। (इति निष्क्रम्य ससंभ्रमं पुनः प्रविष्टः)
राजा—पार्वतायन। न खलु किं चिदत्याहितम्।
कञ्चुकी—एवम्।
राजा—तत्कुतोऽयं वेपथुः। तथा हि—

प्रागेव जरसा कम्पः सविशेषेण सम्प्रति।
आविष्करोति सर्वाङ्गमश्वत्थमिव मारुतः॥६-३०॥

कञ्चुकी—परित्रायतां सुहृदं महाराजः।
राजा—कस्मात्परित्रातव्यः।
कञ्चुकी—महतः कृच्छ्रात्।
राजा—अयि, भिन्नार्थमभिधीयताम्।
कञ्चुकी—योऽसौ दिगवलोकनप्रासादो मेघच्छन्नो नाम।
राजा—किं तत्र।
कञ्चुकी

तस्याग्रभागाद्गृहनीलकण्ठैरनेकविश्रामविलङ्घ्यशृङ्गात्।
सखा प्रकाशेतरमूर्त्तिना ते केनापि सत्त्वेन निगृह्य नीतः॥६-३१॥


भट्टारक, मा नाम स माधव्यतपस्वी पिङ्गलिका-मिश्रिताभिश्चित्रफलकहस्तः प्राप्तो भविष्यति। ताभिः स हन्यत इति भावः। नाम संभावनायाम्। मा काकौ। मा नामेत्यव्ययसमुदायः संभावनार्थ इति केचित्। भो अब्रह्मण्यम् अब्रह्मण्यम्। “माणवको हावभेदे बाले कुपुरुषेऽपि च” इति मेदिनी। अत्याहितं महाभीतिरित्यामरः।

प्रागेवेति०।। (6-30)।। स कम्पः सम्प्रति विशेषेणाविष्करोति प्रकटयति च तमेवेत्यर्थः। आविष्करोति चालयतीत्यन्यः।। परित्रायतां रक्षतु। अत्र पर्याप्नोत्विति पाठोऽमरटीकाकृद्भिर्धृतः। पर्याप्नोतु परित्रायताम्। स्यात् पर्याप्तिः परित्राणमित्यमरः। भिन्नार्थं व्यक्तार्थम्।।

तस्येति०।। (6-31)।। प्रकाशेति गुप्तशरीरेण अदृश्येनेत्यर्थः। सत्त्वेन प्राणिना।।

ममापीति गर्वाख्यो नाम नाट्यालङ्कारः। तदुक्तं “गर्बोऽवलेपजं वाक्यमिति”।।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 217

राजा- (सहसोत्थाय) आः। ममापि सत्त्वैरभिभूयन्ते गृहाः। अथ वा बहुप्रत्यवायं नृपत्वम्।

अहन्यहन्यात्मनः एव ताव- ज्ज्ञातुं प्रमादस्खलितं न शक्यम्। प्रजासु कः केन पथा प्रयाती- त्यशेषतः कस्य पुनः प्रभुत्वम्॥6-32॥

नेपथ्ये- अविद अविद भो। (अविद अविद भोः।)

राजा- (आकर्ण्य गतिभेदं रूपयन्) सखे, न भेतव्यं न भेतव्यम्।

नेपथ्ये- भो। कधं ण भाइस्सं। एसो मं को वि पच्छामोडिअ सिरोधरं इक्खुं विअ भग्गगन्ठिं करिदुं इच्छदि। (भोः कथं न भेष्यामि। एषः मां कोऽपि पश्चान्मोट्य शिरोधरम् इक्षुमिव भग्नग्रन्थिं कर्तुमिच्छति।)

राजा- (सदृष्टविक्षेपम्) धनुर्धनुस्तावत्।

प्रविश्य धनुर्हस्ता यवनी- भट्टा, एदं ससरं सरासणं हत्थावाओ अ।

(भर्ता, एतत् सशरं शरासनं हस्तावापः च। (राजा सशरं अनुरादत्ते)

नेपथ्ये-

एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम्। आर्तानां भयमपनेतुमात्तधन्वा दुःषन्तस्तव शरणं भवत्विदानीम्॥6-33॥

राजा- (सक्रोधम्) कथं मामेवोद्दिशति। आः। तिष्ठ तिष्ठ कौणपापसद। अयमिदानीं न भवसि। (चापमारोप्य) पार्वतायन, सोपानमार्गमादेशय।

कञ्चुकी- इत इतो देवः। (सर्वे सत्वरमुपसर्पन्ति)

राजा- (समन्तादवलोक्य) अये, शून्यमिदम्।

नेपथ्ये- परित्ताहि परित्ताहि। अहं भवन्तं पेक्खामि तुमं ण मं पेक्खसि। मज्जारगहिदो विअ उन्दुरो णिरासो म्हि जीविदे।


अहनीति०।। (6-32)।। प्रभुत्वं ज्ञातृत्वम्।। अभिधावेति अभिधावनं गतिभेदः। अतिशीघ्रं गच्छेत्यर्थः। भोः कथं न भेष्यामि। एष मां कोऽपि पश्चान्मोटित-शिरोधरभिक्षुमिव भग्नास्थिं कर्तुमिच्छति। मोटितं पाटितम्। उच्छुमिति उद्विक्षुवृश्विकयोरिति प्राकृतसूत्रात्।

भट्टारक इदं सशरं शरासनं हस्तावापश्च।।

एष०।। (6-33)।। चेष्टमानं करचरणादिप्रसारणशीलम्।।

218चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

(परित्राहि परित्राहि। अहं भवन्तं प्रेक्षे, त्वं न मां प्रेक्षसे। मार्जारगृहीतः इव उन्दुरः निराशः अस्मि जीविते।)

राजा–भोस्तिरस्करिणीगर्वित, किं मदीयमस्त्रमपि त्वां न पश्यति। स्थिरो भव। मा च ते वयस्यसम्पर्काद् विश्वासोऽभूत्। एष तमिषुं संदधे–

यो हनिष्यति वध्यं, त्वां रक्ष्यं रक्षिष्यति द्विजम्।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥६-३४॥

(इति शस्त्रं संधत्ते)
(ततः प्रविशति मातलिर्विदूषकश्च)

मातलिः–आयुष्यमन्

कृताः शरव्यं हरिणा तवासुराः
शरासनं तेषु विकृष्यतामिदम्।
प्रसादसौम्यानि सतां सुहृज्जने
पतन्ति चक्षूंषि न दारुणाः शराः ॥६-३५॥

राजा–(ससंभ्रममस्त्रमुपसंहरन्) अये, कथं मातलिः। स्वागतं देवराजसारथे।

विदूषकः–भो, मणं म्हि इमिणा अहं पसुमारणेण मारिदुं ण पारिदो। भवं उण इमं साअदेण अहिणन्ददि। (भोः मनाक् अस्मि अनेन अहं पशुमारणेन मारयितुं न पारितः। भवान् पुनः इमं स्वागतेन अभिनन्दति।)

मातलिः–(सस्मितम्) आयुष्मन्, श्रूयतां यदर्थमस्मि हरिणा त्वत्सकाशं प्रेषितः।

राजा–अवहितोऽस्मि।

मातलिः–अस्ति कालनेमिप्रसूतो दुर्जयो नाम दानवगणः।

राजा–श्रुतपूर्वो मया नारदात्।

मातलिः

सख्युस्ते स किल शतक्रतोरवध्य-
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता।


कौणपाः राक्षसाः। मृत्यावयं न भवसीति नाट्योक्तौ त्रिलोचनमिश्राः। सोपानमारोहणम्। परित्राहि। अहं भवन्तं प्रेक्षे। त्वं मां न प्रेक्षसे। तस्मान्मार्जारगृहीत इवोन्दुरुर्निराशोऽस्मि जीविते।। यः०।। (6-34) ।। शरः। अपो जलानि। हंसस्वभावोऽयम्।। कृतेति०।। (6-35)।। शरव्यं लक्ष्यम्। हरिणा इन्द्रेण। शरव्या इति शङ्करधृतः पाठः।। भो मनागस्मि एतेन पशुमारणेन मारितुं न पारितः। भवान् पुनरिमं स्वागतेनाभिनन्दति। मनागल्पेन।। सख्युरिति०।। (6-36) ।। अपाकरोति व्यसनयति। प्रतिवस्तूपमा।।