अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०१
भाष्यप्रकाशः ।
पुद्गलास्तिकायः, आकाशास्तिकायश्चेति । अनेकदेशवर्तिनि द्रव्ये अस्तिकायशब्दः । तत्र
जीवास्तिकायस्त्रिविधजीवात्मको व्याख्यातः । धर्मास्तिकायः प्रवृत्त्यनुमेयः । अधर्मास्तिकायः
स्थित्यनुमेयः । पुद्गलास्तिकायस्तु परमाणुव्यतिरिक्तानि चत्वारि भूतानि, स्थावरं जङ्गमं चेति ।
परमाणवस्तु नास्तिकाय इत्युच्यन्ते । परमाणवश्चैतेषां मते एकविधाः, न तु चतुर्विधाः ।
पृथिव्यादिभेदस्तु परिणामभेदकृतः । आकाशास्तिकायो द्वेधा । लोकाकाशोऽलोकाकाशश्चेति ।
तत्रोपर्य्युपरिस्थितानां लोकानामन्तर्वर्ती लोकाकाशः । तेषामुपरि मोक्षस्थानमलोकाकाशस्तत्र
हि न लोकाः सन्तीति । तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । जीवानां मोक्षोपयोगिनम-
परमपि सङ्ग्रहं कुर्वन्ति । जीवाजीवास्रवसंवरनिर्जराबन्धमोक्षा
१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ६ सू० ३३
भाष्यप्रकाशः।
कर्मबहुषु विप्रतिषिद्धेषु मोक्षमार्गेषु तीर्थंकरैरुपदिष्टेषु विशेषानवधारणं मोहनीयं कर्म ।
सन्मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तद्धि जीवगुणानां ज्ञानदर्शन-
वीर्यसुखानां घातकरमिति घातिकर्मेत्युच्यते । वेदनीयं नामिकं गोत्रिकमायुष्कमिति
चतुर्विधमघातिकर्म । तद्धि शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम् ।
तत्र वेदनीयं नाम शुक्रपुद्गलविपाकहेतुः । तन्निबन्धोपि न मोक्षपरिपन्थी ।
तत्त्वज्ञानाविघातकत्वात् । शुक्रपुद्गलारम्भकं वेदनीयकर्मानुगुणं नामिकं कर्म । तद्धि शुक्र-
पुद्गलसाद्यावस्थां कललबुद्बुदादिरूपामारभते । गोत्रिकं त्वव्याकृतं ततोऽप्याद्यं शक्ति-
रूपेणावस्थितम् । आयुष्कं तूत्पादद्वारेणायुष्कायति कथयतीति । तान्येतानि शुक्रपुद्गलाश्र-
यत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं पुरुषबन्धकत्वाद् बन्ध इत्युच्यते । मोक्षस्तु विग-
लितसमस्तक्लेशत्तद्वासनस्य अनावरणज्ञानस्य सुखैकतानस्य स्वरूपाविर्भावः । तादृशस्य उपरि-
देशावस्थानं वा । स च बन्धनिवृत्तौ नित्यसिद्धार्हदनुग्रहाद् भवतीति । एवं जीवाद्यः पदार्था
व्याख्याताः । एतत् सर्वं वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैका-
न्तिकमिच्छन्तः सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च
नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यः, स्यादस्ति च स्यान्नास्ति
चावक्तव्यश्चेति । स्याच्छब्दो निपातः । यथाहुः ।
रश्मिः ।
योग्यम् । कर्मेति । कर्माणि बहूनि येषु मार्गेषु । विप्रतीति यथाऽस्मन्मते कर्मचितशुद्धस्य
भक्तिः सा नास्तीत्येवं विप्रतिषिद्धेषु । ज्ञानेति यथाक्रमं बोध्यम् । शुक्रेति सलिलं शुक्र-
पुद्गलस्तस्य जाठराग्निवायुभ्यामीषद्धनीभावो विपाकस्तस्य हेतुः । तन्निबन्धः कललबुद्बुदावस्था
निबन्धः । तत्त्वेति शुक्रपुद्गले शरीरे तत्त्वज्ञानात् । अव्याकृतमित्यादि रूपनामभ्यामव्याकृ-
तम् । कललबुद्बुदादितोपीति ततोऽपीत्यस्यार्थः । शक्तीति तस्य तत्त्वज्ञानानुकूलदेहपरिणाम-
शक्तिर्गोत्रिकमिति रत्नप्रभा । उत्पादेति रत्नप्रभायां तु शुक्रशोणितमिश्रितमायुष्कम् ।
शुक्रपुद्गलः सलिलमिति व्याख्यातम् । मोक्ष इति विगलिताः समस्ताः क्लेशाः तद्वासनाः क्लेशजनक-
संस्कारा यस्य ज्ञानस्य पुंसः, न विद्यते आवरणं यस्य तस्य स्वाभाविकस्य, तादृशस्येति उक्तपुंसः ।
स चेति मोक्षः । अनैकान्तिकमिति अनिश्चितं वादकवलितमित्यर्थः । सप्तेति सप्तानां
भङ्गानां अस्तित्वादीनां समाहारः सप्तभङ्गी तस्या नयो न्यायस्तम् । अस्तित्वनास्तित्वविरुद्धधर्म-
द्वयमादायैकस्मिन्घटपटादौ योजयन्तीत्यर्थः । स्यात्पूर्वकाः षट् । सप्तमस्तु स्यात्पूर्वकः स्यान्मध्यमश्च
एते सप्तभङ्गा इति व्यवह्रियन्ते । स्याच्छब्दोऽभीष्टवचन इत्युक्तम् । अभीष्टं घटाद्यस्तीत्यर्थः ।
अभीष्टं घटादि नास्तीति द्वितीयमङ्गार्थः । यदि स्यात्कथंचिदर्थकं तदा घटत्वादिरूपेण कथंचिदस्ति ।
सदेकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्राप्तये यत्नो न स्यादतः प्राप्तत्वादिरूपेण कथंचिन्नास्तीत्यर्थः ।
वस्तुनोऽस्तित्ववाञ्छायामाद्यः स्यादस्तीति भङ्गः । प्रवर्त्तनास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयः ।
क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयः । युगपदुभयवाञ्छायामस्ति नास्तीति पदद्वयस्य
सकृदुक्तुमशक्यत्वात्स्यादवक्तव्यश्चतुर्थः । आद्यचतुर्थभङ्गयोर्वाञ्छायां पञ्चमः स्यादस्ति चाव-
क्तव्यः । द्वितीयचतुर्थमङ्गवाञ्छायां स्यान्नास्ति चावक्तव्य इति षष्ठः । तृतीयचतुर्थमङ्गवाञ्छायां
स्यादस्ति च स्यान्नास्ति चावक्तव्य इति सप्तमो भङ्गः, इति विभागो रत्नप्रभायां दर्शितः ।
1274
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०३
तद् विरोधेनासम्भवादयुक्तम् ॥ ३३ ॥
भाष्यप्रकाशः ।
'वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः' इति ।
तदिदं दूषयन्ति तद् विरोधेनासम्भवादयुक्तमिति । अयमर्थः । योऽयं सप्तभङ्गीनयो
नाम न्यायः सर्वत्रावतारितः स त्वयाभ्युपगतेषु जीवधर्माधर्मपुद्गलकालाकाशेषु तदवान्तरविधासु
अस्तिकायादिषु तद्धर्मेषु आस्रवसंवरनिर्जरेषु बन्धमोक्षसाधनेषु तत्तत्फले बन्धे मोक्षे चावतरन्
सर्वानैव त्वदुक्तान् पदार्थान् सत्त्वासत्त्वादिभिः स्वरूपतो नित्यत्वानित्यत्वादिभिर्धर्मतोऽवस्थातश्च
सन्दिग्धान् कुर्वंस्तद्दर्शनस्यातिपेलवत्वं तीर्थकरस्यार्हतश्च भ्रान्तिमेव द्योतयन् प्रेक्षावत्प्रवृत्तिमेव
निरुणद्धीत्युक्तम् । न च यथा घटो घटरूपेणास्ति, पटरूपेण नास्त्येवं सर्वं स्वरूपेणास्ति रूपान्तरेण
नास्तीति कथमसंभव इति वाच्यम् । एवं सति येन रूपेणास्ति तेन रूपेणास्त्येव, येन नास्ति तेन
नास्त्येवेति तत्तद्रूपे तत्तद्भेदे तद्विरुद्धभङ्गासंभवाद्, वस्तुतस्तु विषयभेदेनास्तिनास्त्योस्तत्रैकान्त्या-
द्भञ्जकतया भङ्गत्वस्यैवाभावाच्च सप्तभङ्गीनयस्यासार्वत्रिकप्रसङ्गः । यदि च तत्राप्यस्ति सप्त-
भङ्गी, तदा तत्पदार्थस्वरूपमस्तीत्यपि स्यान्नास्तीत्यपीति स्वरूपानध्यवसानप्रसङ्गः । किंच ।
ये भङ्गरूपाः सप्तार्थास्तत्रापि सप्तभङ्गीसद्भावादेकोनपञ्चाशद्भङ्गीति प्रसङ्गः । तेऽपि यथा त्वयो-
च्यन्ते तथाऽन्यथा वेत्यनध्यवसानप्रसङ्गश्च । नच सर्वमनैकान्तिकमित्यवधारणं निश्चितमे-
वेति वाच्यम् । अवधारणस्य सर्वमध्यपातेन तत्रापि सप्तभङ्ग्युपनिपातात् तस्याप्यनिश्चयप्रस-
ङ्गात् । अतो भङ्गानां परस्परविरोधेनैकस्मिन् धर्मिण्यसंभवादयुक्तमेवेदं दर्शनमिति । किंच ।
या एषा सप्तभङ्गी एकैकस्मिन् योज्यते सा केन प्रमाणेन, कुत्र वाऽवधृता इति वक्तव्यम् ।
प्रत्यक्षेणैव सर्वत्रेति चेन्न । सर्वत्रावध्रियमाणस्य सर्वजनीनत्वदर्शनान्न तत्र वादिनां विप्रति-
पत्तिः स्यात् । प्रत्यक्षस्य निश्चयाङ्गीकारे च तत्र नास्तीत्यादिभङ्गनिवृत्त्या त्वन्न्यायस्य सार्व-
त्रिकत्वं च भज्येत । कथनादवक्तव्यत्वं भज्येत । एवं प्रमाणान्तरेणावधारणेऽपि ज्ञेयम् ।
रश्मिः ।
वाक्येष्विति सप्तसु । गम्यं अस्ति नास्त्यादि । अर्थयोगित्वं अर्थविशेषणत्वम् । सर्वत्रेति
घटपटादौ । सत्त्वासत्त्वेति सत्त्वं स्यादस्ति असत्त्वं स्यान्नास्तीत्यादिपूर्वोक्तप्रकारेण ।
नित्यत्वेति नित्यत्वं स्यादस्ति अनित्यत्वं स्यान्नास्तीत्यादिप्रकारेण । सन्दिग्धानिति विरुद्धकोटि-
द्वयावगाहिज्ञानविषयान् । अतिपेलेति पिल क्षेपे चुरादिः परस्मैपदी अत्यन्ताक्षेपवत्त्वम् ।
अतिपेशलत्वं वा अतिक्रान्तपेशलवत्त्वम् । भ्रान्तिमिति । यथा रजुः सर्प इत्यत्र तामसे ज्ञाने
तमसि रजोवैशिष्ट्ये रजुर्वा सर्पो वेति संशयो विशेषदर्शनोत्तरमपि तथा । प्रेक्षावन्तः पण्डिताः ।
अयं दोषो नैयायिकप्रसिद्धिं विरुणद्धीति । वस्तुतस्तुपक्षमाहुः वस्तुत इति । विषयेति ।
स्यादस्तीत्यत्रास्तीत्यस्य विषयः स्यात्पदवाच्यो घटादिः सत्ताश्रय इत्यर्थः । स्यान्नास्तीत्यत्र नास्तीत्यस्य
विषयः प्रतियोगी स्याद्वाच्य इति विषयभेदेनेत्यर्थः । ऐकान्त्येति निश्चयामञ्जकतया । तत्रापीति ।
विषयभेदेऽपि । स्वरूपेति । अध्यवसानं निश्चयः । एकेनेति सप्तानामेकैकस्य सप्तधा विभागे
एकोनपञ्चाशद्भङ्गी भवतीति । समुदाये सप्तभङ्गयोजने यो दोषस्तमाहुः त इति सप्तभङ्गाः ।
अध्यवेति । निश्चयप्रसङ्गः प्रथमद्वितीयभङ्गाभ्यामित्यर्थः । अनैकान्तिकमनिश्चितस्वरूपम् ।
निश्चयेति स्यादस्तीति प्रथमभङ्गाङ्गीकारे । कथनादिति प्रत्यक्षेण स्यादस्तीति कथनादवक्तव्यत्वं
चतुर्थो भङ्गो भज्येत । प्रमाणान्तरेति अनुमानादिना प्रथमभङ्गाङ्गीकारे द्वितीयादिभङ्गनिवृत्ति-
1275
यदि च सर्वं वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वादिकं व्युत्पाद्यते ।
पर्यायात्मना च तद्विपरीतं व्युत्पाद्यते पर्यायाश्च द्रव्यस्यावस्थाविशेषास्तेषां भावाभावरूपत्वा-
दिकं सर्वमुपपन्नमित्युच्यते तदाप्येकस्य वस्तुन एकस्मिन् कालेऽस्तित्वनास्तित्वयोरसंभव एव ।
उत्पादविनाशशालित्वतद्वैपरीत्यरूपानित्यत्वनित्यत्वयोश्चासंभव एव । इदं च कालभेदेऽपि न
संभवतीत्ययुक्त एवायमभ्युपगमः । यत्तु कश्चिदनन्तवीर्यनामा स्याद्वादी ।
'तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यान्निषेधे विवक्षिते ॥
क्रमेणोभयवाञ्छायां प्रयोगः समुदायवान् । युगपद्विवक्षायां स्यादवाच्यमशक्तितः ॥
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥
समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते' ।
इति परेच्छाकृतव्यवस्थया सप्तभङ्गान् प्रतिपादयामास । युगपदस्तित्वनास्तित्वयोर्विवक्षायां
क्रमवर्तित्वादुभयं युगपदवाच्यम् । आद्यास्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्यः । अन्त्य-
श्वाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपश्चान्य एकैकेन सह युगपदवाच्य इति तदर्थ माह ।
अत्रोच्यते । ये एते सप्तभङ्गा विवक्षाभेदेनोपपादितास्ते किं वस्तुनो नैसर्गिका धर्मा,
आगन्तुका वा, आरोपिता वा, तद्विषया वा । नाद्यः । नैसर्गिकस्य धर्मस्य स्वभावत एव वस्तुपु
रित्यर्थः । अनुमानं तु सर्वः प्रथमभङ्गः स्यादस्ति, प्रकारान्तरदर्शनात् । घटादिवत् । न चात्र
पक्षतावच्छेदकसाध्यतावच्छेदकयोरैक्यमिति सिद्धसाधनमिति वाच्यम् । सिषाधयिषासत्त्वेन
सिषाधयिषाविरहविशिष्टयाः सिद्धेरभावो वर्तत इति पक्षतासत्त्वे सर्वत्वस्य पक्षतावच्छेदकत्वेन
तयोर्भेदात् । एवं शब्दप्रमाणेनावधारणं प्रथमभङ्गः स्यादस्तीति । एवमुपमानमपि । प्रथमभङ्ग-
स्तुतीयभङ्गसदृश इति प्रथमभङ्गपदार्थमजानन्तं प्रत्युक्ते प्रथमभङ्गदर्शने नास्ति चेत्यंशाभावादयं
प्रथमभङ्गपदवाच्य इत्युपमितिरिति । द्रब्येति । अवस्थात्र पर्यायः कललद्बुदुदादिः शक्तिरूपा
आयुःकथनरूपा च । इदं चेति उत्पादविनाशशालित्वरूपमनित्यत्वं तद्वैपरीत्यरूपं नित्यत्वं
चैकस्मिन्वस्तुनि कालभेदेपि न संभवतीत्यर्थः । तद्विधानेति वस्तुविधानकथनपरवाञ्छायाम् ।
स्यादस्तीति घटादिः कथंचिदस्तीति । तन्निषेध इति वस्तुनिषेधे । उभयेति वस्तुविधान-
निषेधवाञ्छायाम् । समुदायवान् तृतीयभङ्गवान् । चतुर्थमाह युगपदिति । तद्विवक्षायां
भावाभावविवक्षायाम् । पञ्चम इति स्यादस्ति चावक्तव्यः । अन्त्येति स्यादस्ति सान्नास्ती-
त्येनयोरन्त्यः स्यान्नास्तीति तस्यावाच्यविवक्षायाम् । षष्ठेति स्यान्नास्ति चावक्तव्य इत्यस्य भङ्गस्य
समुद्भवः । समुच्चयेनेति । षष्ठपञ्चमौ चकारेणोक्तौ अवक्तव्यसमुच्चये एकेनान्यकेनायुक्तः ।
सप्तम इति स्यादस्ति च स्यान्नास्ति चावक्तव्यः । परेच्छेति स्वस्वेच्छायां तु हृदये व्यवस्था
कृता स्यात् । क्रमेति उभयोः क्रमवर्तित्वात् । असत्त्वेति द्वितीयभङ्गेन । समुच्चितेति । षष्ठ-
पञ्चमावक्तव्यसमुच्चयरूपः । अन्य इति सप्तमः । एकैकेनेति आद्येन सहान्यस्यान्येन सहाद्यस्य ।
तदर्थमिति । युगपदिति कारिकाद्वयार्थः । नैसर्गिका इति घटत्वादय इव । आगन्तुका
इति सन्निद्वत्वादय इव । आरोपिता इति शुक्तिरजतादय इव । तद्विषया आरोपविषयाः ।
एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥
ननु कथं बहिरुदासीनस्य तद्दूषणमत आह । एवमपि सति आत्मनो
वस्तुपरिच्छेदादकार्त्स्न्यं न सर्वत्वम् । अथवा शरीरपरिमाण आत्मा चेत् तदा
सर्वशरीराणामतुल्यत्वादात्मनो न कार्त्स्न्यं न कृत्स्नशरीरतुल्यत्वम् ॥ ३४ ॥
भाष्यप्रकाशः।
सृष्ट्याया नियततया सप्तानामपि भङ्गानां विवक्षां विनापि सप्तप्रकारैर्विधानान्निवेशनस्य तत्राप्रयोजक-
त्वात् । न द्वितीयः । एकान्तस्य कस्यापि नैसर्गिकस्याभावे आगन्तुकस्यापि दृष्टविरोधेनाशक्य-
वचनत्वात् । अत एव न तृतीयोपि । आरोपितैर्धर्मैर्वास्तवधर्मैर्वैकान्त्यस्य कर्तुमशक्यत्वेन तस्य
वैयर्थ्याच्च । न तुरीयः । अनया भङ्गकल्पनया नैसर्गिकस्यानेकान्तित्वायोगात् । नाप्येशां नैसर्गिक-
त्वम् । परस्परविरोधप्रदर्शनेन प्राचीनैरेव दूषितत्वात् । अतः सप्तानां भङ्गानामितरेतरविरोघे-
नासंभवादयुक्तमेवैकत्र निवेशनम् ॥ ३३ ॥
एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति एव-
मित्यादि । एवमात्मनिष्ठतया तद्दूषणेऽङ्गीकृतेऽपि सति परमाणुभ्य एव सज्जङ्गीकारे-
णात्मनो वस्तुपरिच्छेदाङ्गीकाराद् अकार्त्स्न्यं सर्वत्वं न भवति । तथा च मोक्षदशायाम-
लोकाकाशवर्तित्वेन तत्कृतावरणसंभवाभिरावरणप्रतिज्ञाहानिः । किंच । सर्ववस्तुष्वारमाभा-
वादात्मनामस्तिकायतप्रतिज्ञाहानिरेवेत्यर्थः । अथाकाशावरणं नावरणम् । दिगम्बरेष्वना-
वृतत्वव्यवहारात् । आत्मनामसर्वत्वेपि जातित्वत् तत्र तत्र व्याप्तेः सुवचनत्वेन जीवास्ति-
कायस्य न हानिरित्याशङ्क्य पक्षान्तरमाहुः अथवेत्यादि । यथा बहिर्विरोधेन सप्तभङ्गामोघो
दूषणम्, एवमेव देहपरिमाणात्मवादाङ्गीकारेण देहानां सर्वेषां व्यक्तिभेदेनावस्थाभेदेन च
रश्मिः।
अप्रयोजकेति अप्रयोजकत्वापातात् । एकान्तस्येति निश्चितस्य धर्मस्येत्यर्थः । अभावे इति
यथा ब्राह्मण्यादेः 'त्रिभिर्नश्यति ब्रह्मत्वं हालाहलहलाहैः' इति वाक्यात् । दृष्टेति दृष्टान्तसिद्ध-
त्वादि । अत एवेति आरोपितानामागन्तुकत्वविशेषादेव । वास्तवधर्मैरिति शास्त्रधर्माणा-
मनिमित्तत्वस्य । तस्येति आरोपितभङ्गस्य । अनयेति आरोपविषयभूतया । नैसर्गिकस्येति
नैसर्गिकस्य घटत्वादेः । अनेकान्तिकत्वमनिश्चयविषयत्वं तस्यायोगात् । भङ्गानामेवारोपविषयत्वात् ।
आरोपविषयः सोऽनेकान्तिक इति शुक्तिरजतादौ दर्शनात् । तथा चानेकान्तिकवादार्थं भङ्गाङ्गीकारो
व्यर्थ इत्यर्थः । एषामिति भङ्गानाम् । प्राचीनैरिति । एकत्रेति यद्यपि तु सर्वं विरुद्धं संभवति ।
विद्वत्त्वस्यात् 'नहि विरोध उभयं भगवति' इति शब्दाच्च ॥ ३३ ॥
एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ तद्दूषणे तन्मते दूषणे । आत्मन इति । जगति
समवायाकाङ्क्षापूरणार्थेत्यर्थः । वस्तु शरीरं तेन परिच्छेदस्तत्सङ्गीकारात् । वस्त्वात्मा वा ।
सर्वत्वमिति । तथा च देहमात्रमात्मेति घटपटादिरूपताकाशरूपता च न भवति । आलोकेति
लोकोत्तराकाशवर्तित्वेन । तत्कृतेति भाकाशकृतेत्यर्थः । तत्र जीवमिश्रित्त्वावरणं संभवति ।
अस्तिकायत्वेति जीवोस्तिकायः जीवोनेकदेशवर्ति द्रव्यमिति प्रतिज्ञाया हानिः । जातित्वदिति ।
एष सामान्यं विकल्पमात्रमभ्युपगच्छति न वस्तु तस्य च विकल्पवदित्यर्थः । तत्र तत्र घठपटादौ ।
१४ ब्र० सू० २० 1277
यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:
१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ६ सू० ३५
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
शरीराणामवयवोपचयापचयानुसारेणात्मनोपि देवनिर्यङ्मनुष्येषु अव-
यवोपचयापचयाभ्यां तत्तुल्यता स्यात् । तथा सति पर्यायेणाविरोध इति न
वक्तव्यम् । तथा सति विकारापत्तेः । संकोचविकासेपि विकारस्य दुष्परि-
हरत्वात् ॥ ३५ ॥
भाष्यप्रकाशः।
अतुल्यत्वान्मनुष्यजीवस्य केनचित् कर्मणा गजशरीरे प्रवेशे शरीरैकदेश एव स जीवः
स्यादेकदेशान्तरं च जीवशून्यं स्यात् । न च सिद्धान्तवद्गुणव्याप्त्या दोषः परिहर्तव्य
इत्यपि युक्तम् । तथा सत्यणुत्वत्यागायोगात् । चकारात् पिपीलिकादिदेहे प्रविशँस्तत्र न
संमीयेतेत्यपि सूच्यते ॥ ३४ ॥
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ किंचिदाशङ्क्य परिहरतीत्या-
शयेन व्याकुर्वन्ति शरीराणामित्यादि । अयमर्थः । जीवो हि नानाविधेन कर्माष्टकेन ज्ञाना-
वरणीयादिना तत्तच्छरीरेषु प्रविशति ततो निर्गच्छति च । तानि च शरीराणि नानापरिमाणा-
नीति तेषां शरीराणामवयवोपचयापचयानुसारेण देवादिशरीरप्रविष्टस्य जीवस्याप्यवयवो-
पचयापचयाभ्यां तत्तच्छरीरपरिमाणता वक्तुं शक्यते । तथा सति पर्यायाख्येनावस्था-
विशेषेण क्रमिकेण प्रवेशेन वा परिमाणस्याविरोध इति सूत्रांशेनाशङ्क्य, न चेति परिहरति ।
एवं न वक्तव्यम् । कुतः । विकारादिभ्यः । विकारसावयवत्वानित्यत्वानां प्राप्तेर्लोकायत-
मतादविशेषः । किंच । तेऽवयवाः कुत्र गच्छन्ति, तिष्ठन्ति च महान्तं कालं, कुतश्चा-
यान्तीत्यपि निर्धारयितुमशक्यम् । अथ न ततोऽपगच्छन्ति, किंतु, स्वल्पशरीरप्राप्तौ घटे
रश्मिः।
जीवेति जीवोस्तिकायानेकदेशवर्ति द्रव्यं तस्येत्यर्थः । सिद्धान्तेति अस्मत्सिद्धान्तवत् । गुण-
चैतन्यम् तस्य व्याख्या । तथा सतीति अस्मत्सिद्धान्ताङ्गीकारे । अत्र पक्षे सौत्रश्चकारो नाप्यर्थः ।
अनन्वयप्रसङ्गादित्याशयेनार्यान्तरद्योतकत्वमाहुः चकारादिति । न संमीयेत इति असङ्कु-
चितावस्थां न लभेतेत्यर्थः । 'मीङ् गतौ' दिवादिरात्मनेपदी । उपसृष्टोन्यार्थः देहाद्वहिरपि
जीवेदित्यर्थः । सूच्यत इति । शंकराचार्यैरुक्तमर्थं मध्यमपरिमाणत्वं तेन चानित्यत्वं स्यादित्युक्तं
तदुपेक्ष्यम् । आत्मनोऽनित्यत्वापादने जैनेष्टापत्तिस्वीकारः स्यादिति ॥ ३४ ॥
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ कर्मेति नैकस्मिन्सूत्रे
बन्धस्त्वष्टविधं कर्मेत्यादिना दर्शितने । किंरूपेणेत्याकाङ्क्षायामाहुः ज्ञानावरणीयादिनेति ।
तथा सतीति भाष्यं विवृण्वन्ति स्म तथा सतीति । प्रवेशोनेति श्लथं रमसात् । परिमाणस्य
मध्यमपरिमाणस्य । न वक्तव्यमिति इति भाष्यार्थ इत्यर्थः । व्याख्येयसूत्रांशोपन्यासपूर्वकं तथा
सतीत्यादि भाष्यं विवरीतुमाहुः कुत इति । भाष्यस्थं विकारसम्बद्धमादिशब्दार्थेन सह व्याकुर्वन्ति
स्म विकारेति । अत्रेष्टापत्तिरपि कर्तुं न शक्यत इत्याहुः लोकायतेति, बृहस्पतिप्रणीतात् ।
त इति पिपीलिकादेहादधिका गजदेहाच्यूना मानवीयजीवस्यावयवाः । कालमिति अत्यन्तसंयोगे
'कालाध्वनोरत्यन्तसंयोगे' इति सूत्रेण द्वितीया । कुतश्चेति पुनर्मानवीयजीवस्य मानवीयदेहप्राप्तौ
च कुत आयान्तीत्यर्थः । संकोचेत्यादिभाष्यं विवरीतुमाहुः अथेति । तत इति जीवतः ।
1278
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥
अन्त्यावस्थितिर्मुक्तिसमयावस्थितिस्तस्माद्धेतोः। पूर्वदोषपरिहाराय च उभय-
नित्यत्वं भवेदणुत्वं वा, महत्त्वं वा । उभयथापि शरीरपरिमाणो न भवतीति
न तथार्थसिद्धिः ॥ ३६ ॥
इति द्वितीयाध्यायद्वितीयपादे षष्ठं नैकस्मिन्नसंभवादित्यधिकरणम् ॥ ६ ॥
भाष्यप्रकाशः।
दीपावयववद् गुच्छादिस्थितपटवद् वा संकुच्य तिष्ठन्ति, पुनर्हस्त्यच्छरीरप्राप्तौ विकासं प्राप्नु-
वन्तीति विभाव्यते, तदापि विकारवत्त्वं तु दुष्परिहरम् । तथा सत्यनित्यत्वापाताद् बन्ध-
मोक्षाङ्गीकारो बाध्यतेति ॥ ३५ ॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ दूषणान्तरं वदतीत्याशये-
नाहुः अन्त्येत्यादि । दिगम्बरैर्हि मोक्षावस्थागत
स्थातोऽविशेषः । उभयथापि जीवः शरीरपरिमाणो न सेत्स्यतीति न तवाभिमतार्थसिद्धि-
रित्यर्थः । एवमार्हतान् यौक्तिकानवगत्य कश्चिद्दर्शने श्रद्धां कुर्यादिति तस्यापि निवारणं कृतम् ।
एतेषु षट्स्वप्यधिकरणेषु ब्रह्म जगदुपादानं न वेति संदेहस्तत्तन्मतविरोधः संदेहबीजं,
नेति पूर्वः पक्षः सर्वसमयानामयुक्तत्वाद् ब्रह्मैवोपादानमिति सिद्धान्तो ज्ञेयः । षष्ठे तु ब्रह्मैव
विरुद्धधर्माधारं, नेतरदिति नियमो युक्तो न वेति संदेहे स्याद्वादिभिः सर्वत्र तथाभ्युपगमा-
नेति पूर्वः पक्षः । स्याद्वादस्यासंगतत्वाद् ब्रह्मैव तथेति नियमो युक्त एव श्रुत्या भक्तप्रत्यक्षेण च
प्रमितत्वादिति सिद्धान्त इति प्रकारान्तरमधिकं ज्ञेयम् ॥ ३६ ॥
इति षष्ठं नैकस्मिन्नसंभवादित्यधिकरणम् ॥ ६ ॥
पत्युरसामञ्जस्यात् ॥ ३७ ॥ अधिकरणमवतारयन्ति परेत्यादि । तथा च पत्यु-
रिति पदमेवात्राधिकरण
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०९
वेदोक्तादणुमात्रेऽपि विपरीतं तु यद् भवेत् ।
तादृशं वा स्वतन्त्रं चेदुभयं मूलतो मृषा ॥
तार्किकादिमतं निराकरोति ।
भाष्यप्रकाशः।
निराकरणं प्रस्तूयत इत्यर्थः । नन्वीश्वरवादस्य वेदानुसारित्वात् कुतस्तन्निराकरणमित्यत आहुः
वेदोक्तेत्यादि तादृशमिति । वेदोक्तात् सर्वप्रकारैर्विपरीतम् । तथा चेतो हेतोर्बाधाद्बाध-
निराकरणमित्यर्थः । पराभिप्रेतेश्वरनिराकरणेऽपि विशेषमाहुः तार्किकादीति । तार्किका
नैयायिकाः, वैशेषिकाश्च । आदिपदेन हैरण्यगर्भाः, पातञ्जलाः, कापालिकाः, कालामुखाः,
पाशुपताः, शैवाश्च । तत्र तार्किकमते नित्यज्ञानेच्छाप्रयत्नाख्यविशेषधर्मवान् स्वाभाविक-
शरीररहितो जीवादृष्टसंपादितं शरीरं भूतावेशन्यायेनाविश्य कार्यं जगत् करोति । हैरण्य-
गर्भादीनां मते 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' प्रधानपुरुषाभ्यामन्यस्तद्-
धिष्ठाता शुद्धसत्त्वशरीरो जगन्निर्मिमीते । कापालिकादीनां चतुर्णां मते तु निमित्तकारणं
पशुपतिरीश्वरः । सर्वेऽप्येत ईश्वरे जगदुपादानत्वं नेच्छन्ति । निमित्तकारणत्वमात्रमाहुः ।
तथा तार्किकाः प्रमाणादिषोडशपदार्थतत्त्वज्ञानाद् द्रव्यादिसप्तपदार्थानां साधर्म्यवैधर्म्यज्ञानाच्च
यथायथं मोक्षमाहुः । योगिनश्च नित्यानित्यवस्तुविवेकमात्रात् । कापालिकास्तु
रश्मिः ।
वदन्तीत्यस्यापि सत्त्वादेषां विष्णोर्ब्रह्मणि पर्यवसानात् पत्युरभावेन निराकरणप्रस्तावेन च स्मृति-
सिद्धस्येत्यर्थः । इत्यर्थ इति इतिप्रयोजनमित्यर्थः । अन्यथा भाष्ये व्यासो निराकरोति इत्यत्र
व्यासेन निराकरणं प्रस्तूयत इति विभक्तिविपरिणामापत्तेः । वेदोक्तेत्यादीति । अणुमात्र इति
ईश्वरमात्रादौ । वेदोक्तादिति । तादृशं स्वतन्त्रं प्रकारभेदभिन्नं चेद् वा यदि वा भवेदिति योजना ।
मूलतो युक्तिरूपात् मूलमालोच्येत्यर्थः । नैयायिका इति न्यायं सूत्राणि स्मृतिरूपाण्यधीयते
विदन्ति वा नैयायिकाः । 'क्रतूक्थादिसूत्रान्ताट्ठक्' । उक्थादिः । एतेषां लौकिकत्वेनानुमानसिद्ध
ईश्वरः पतिर्विष्णुः पातीति पतिरिति । न ब्रह्मा लौकिकत्वात् । 'अत एव चानन्याधिपतिः' इति पति-
मंत्रात्सूत्रेऽधिविशिष्टः । वैशेषिकाः प्रमाणद्वयवादिन इत्युक्तम् । उक्तसूत्राट्ठक् । हिरण्यगर्भेण पतञ्जलिना
च प्रणीतानधीयते विदन्ति ते तथोक्ताः । 'तदधीते तद्वेद' इत्यण् । एवं च सांख्यस्मृत्यनुसारिण
उभयेऽपि । कापालिका इति कपालमधीयते विदन्ति वा कापालिकाः । 'क्रतूक्थादि' सूत्रेण
ठक् । एते च महेश्वरप्रोक्तागमानुगामिनो माहेश्वरपदवाच्याः । कालामुखा इति कलामुखं
वक्ष्यमाणकपालपात्रेत्यादिकमभिदधति ये ते । शैषिकोऽण् । 'तदधीते तद्वेद' इति वाऽण् । एवं पशु-
पतिमभिदधति शिवमभिदधति पाशुपताः शैवाश्च 'तदधीते तद्वेद'इत्यण् वा । क्लेशेति इदं पातञ्जले
योगसूत्रप्रथमे समाधिपादेऽस्ति । प्रधानेति क्लेशेनापरामृष्ट इति प्रधानादन्यः । पुरुषविशेष
इति पुरुषादन्यः । तदधीति । पुरुषविशेषपदेन पुरुषो लभ्यते स चाधिष्ठाता सशरीरः । 'द्रष्टा दृशि-
मात्रः शुद्धोऽपि प्रत्ययानुपश्यः' इति सूत्रम् । जगदिति । कपिलसाङ्ख्यप्रवचनसूत्रवृत्तौ 'प्रधानाज्जग-
न्जायत' इति । 'उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात्' इति च सूत्रेऽत्र । योगिन इति
1281
११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ७ सू० ३७
पतिर्भवेदीश्वरस्तस्माद् भिन्नस्तथा विषमकरणाद् वैषम्यनैर्घृण्ये स्याताम् । कर्मापे-
भाष्यप्रकाशः।
‘रोचकं च काचकं चैव कुण्डलं च शिखामणिः । भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।
आभिर्मुद्रितदेहस्तु न भूय इह जायते । मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।
भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति’ इत्यादिकमाहुः ।
तथा कालामुखा अपि कपालपात्रभोजनशवभस्मस्नानतत्प्राशनलगुडधारणसुराकुम्भ-
स्थापनतदाधारदेवपूजादिकमैहिकामुष्मिकसकलफलसाधनमभिदधति । तथा शैवा अपि
'रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके । कपालं भस्मना स्नानम्' इत्याद्याहुः ।
तथा केनचित् क्रियाविशेषेण विजातीयानामपि ब्राह्मण्यप्राप्तिमुत्तमाश्रमप्राप्तिं चाहुः ।
'दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः' इति ।
पाशुपतशास्त्रमपि पशुपतिनेश्वरेण प्रणीतं पञ्चाध्यायी । तत्र पञ्च पदार्थाः ख्याप्यन्ते ।
कारणं, कार्यं, योगो, विधिः, दुःखान्तः, इति । कारणमीश्वरः । कार्यं प्रधानं महदादि च ।
योगोऽप्योङ्कारादि ध्यानधारणादिः । विधिश्चिपवणस्नानादिः । गूढचर्यावसानो दुःखान्तो मोक्षः ।
पशवः संसारिण आत्मानस्तेषां पाशो बन्धनम् । तद्विमोक्षो दुःखान्तः । पाशुपतवैशेषिक-
नैयायिककापालिकानां मुक्त्यवस्थायामाशेषविशेषगुणोच्छित्या पाषाणकल्पा आत्मानो भवन्ति ।
सांख्यशैव्योश्चैतन्यस्वभावास्तिष्ठन्तीति भेदः । ईश्वरं निमित्तकारणं मन्वानानामयमाशयः ।
चेतनस्य स्वस्वविज्ञातुः कुलालादेः स्वस्वकार्ये कुम्भादिरूपे निमित्तत्वमात्रं दृष्टं, न तूपादा-
नत्वमपि । अत ईश्वरोऽप्यधिष्ठाता जगतो निमित्तमेव, न तूपादानम् । एकस्यैकस्मिन्नेव
निमित्तत्वोपादानत्वयोर्विरुद्धत्वादिति प्राप्तम् । तत्रेदमभिधीयते ॥ पत्युरसामञ्जस्यादिति ॥
किमसामञ्जस्यमित्याकाङ्क्षायां विवृण्वते पतिर्भवेदित्यादि । ननु वैषम्यनैर्घृण्यसूत्रे कर्मसापेक्ष-
त्त्वेन स्वयमेव दोषः परिहृत इति कथं तत्कृतमसामञ्जस्यमिहोद्भाव्यत इत्यत आहुः
कर्मेत्यादि । तत्र हि, 'पुण्यः पुण्येन कर्मणा भवति' इति, 'एष उ एव साधु कर्म कार-
यति' इत्यादिश्रुतिसिद्धं विरुद्धधर्माश्रयत्वं ख्यापयितुं तथोक्तम् । एते तु न तथा वदन्ति,
रश्मिः।
हैरण्यगर्भाः । तदुक्तं मोक्षधर्मे 'हिरण्यगर्भो योगस्य वक्ता' इति वाक्यम् । काचकमिति । अत्र
पूर्वमक्षरत्रिकात्मकं पदं पुराणे मृग्यम् । रामानुजभाष्ये तु कणिका रुचकं चैवेति यज्ञोपवीतमिति च
पठ्यते । काचकं सिद्धान्तविशेषः । इत्यादिकमिति आदिशब्देन तच्छास्त्रप्रसिद्धं ग्राह्यम् ।
इत्याद्याहुरिति । शैवागमप्रसिद्धम् । ओङ्कारेति सामान्ये नपुंसकम् । त्रिसवणेत्यत्रापि । गूढेति ।
गूढचर्यायामवसानं यस्य 'पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिति-
शक्तिरिति' सूत्रम् । अत्र पञ्चपदार्थाः पशुपशविमोक्षणायेत्याहुः पाषाणेति । 'अहल्या पाषाण' इत्यु-
क्तिवन्न । एकस्येति कारणस्य । एकस्मिन् कार्ये । पतिर्भवेदिति तस्माद्भिन्न उपादानात् । विषम-
करणं कुष्ठाद्यादेर्बोध्यम् । न तु काणेन्ध्यादेर्भग्यादेश्व स्वस्वरूपत्वात्कार्यस्य । वैषम्येति प्रथमपादस्थं
सूत्रम् । विरुद्धेति कर्मसापेक्षत्वनिरपेक्षत्वरूपविरुद्धेत्यर्थः । तथेति विरुद्धधर्मीश्रयत्वम् ।
1282
' inside/below: that's ह्ण! With 'ा' = ह्णा!
Then ति!
YES! गृह्णाति!
Wait, look at गृ: it's 'ग' with 'ृ' = गृ! The top is a 'ग', the bottom is a 'ृ' loop!
And ह्णा: 'ह' with 'ण' below = ह्ण, with aa-matra = ह्णा!
So it is: गृह्णाति!
Wait, what about before गृह्णाति?
भजन्तस्तनुं or भजन्तस्तनून्?
Look at स्तनु: is it स्तनुं? There might be a dot or it's स्तनुं printed as स्तनुं or स्तनूं or स्तनु!
Wait, look between नु and गृ: there is no letter between them!
Wait, what about the dot above नु? There is none, or it's faint. But wait, could it be भजन्तस्तनुं गृह्णाति?
Wait, look at line 6 again:
ज्ञानेन भजन्तस्तनुं गृह्णाति च वाचं
Wait, look at the characters:
ज्ञा ने न [space] `भ
१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ७ सू० ३९
संबन्धानुपपत्तेश्च ॥ ३८ ॥
जीवब्रह्मणोर्विभुत्वादजसंयोगस्यानिष्टत्वात् पतित्वानुपपत्तिः । तुल्यत्वादप्य-
नुपपत्तिरिति चकारार्थः ॥ ३८ ॥
अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
स चेश्वरो जगत्कर्तृत्वेन कल्प्यमानो लौकिकन्यायेन कल्पनीयः । स चाधिष्ठित
भाष्यप्रकाशः।
संबन्धानुपपत्तेश्च ॥ ३८ ॥ दृष्टानुसारेण दूषणान्तरं वदतीत्याहुः जीवेत्यादि ।
निमित्तमात्रत्वाङ्गीकारेण जीवपरमाण्वादीनां प्रधानस्य च नित्यत्वाङ्गीकारेण तन्निरूपितसम-
वायस्य तदभिमतेश्वरे अभावात् समवायसंबन्धस्यानुपपत्तिः । जीवब्रह्मणोर्विभुत्वान्नव-
यवत्वाच्च कर्मजस्यावयवजस्य च संयोगस्य वक्तुमशक्यतया जन्यस्य तस्याभावादजसंयोग
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३
एवं किंचित् करोतीतीश्वरेप्यधिष्ठानमङ्गीकर्तव्यम् । तस्मिन् कल्प्यमाने
मतविरोधः, अनवस्था असंभवश्च ॥ ३९ ॥
भाष्यप्रकाशः ।
मान ईश्वरो लौकिकन्यायेनोपादानगोचरापरोक्षज्ञानचिकीर्षाप्रयत्नवत्ता कल्पनीयः ।
लौकिकश्च कर्ता शरीरमधिष्ठायैव करोतीतीश्वरेपि शरीराधिष्ठानमङ्गीकर्तव्यम् । न चाशरीरस्यैव
कर्तृत्वम् । मनसो नित्यत्वेप्यशरीरेषु मुक्तेषु मानसकार्यादर्शनात् तत्र दृष्टान्ताभावेन
न्यायानवतारात् । अतः शरीराधिष्ठानमवश्यमङ्गीकर्तव्यम् । अन्यथा दृष्टविरोधेन प्रतिवादिनं
पर्यनुयुञ्जानस्य तवैव निग्रहात् । तस्मिंश्च कल्प्यमाने नित्यानित्यविकल्पेन मत-
विरोधः । सावयवस्य शरीरस्य नित्यत्वे जगतोपि नित्यत्वाविरोधादीश्वरासिद्धेः । नच
तन्निरवयवम् । अदर्श
११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ७ सू० ४०
करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
करणवदङ्गीकारे असम्बन्धदोषः परिहृतो भवति । तन्न युक्तम् ।
भोगादिप्रसक्तेः ॥ ४० ॥
भाष्यप्रकाशः ।
करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ परोक्तं परिहारमाशङ्क्य दूषयतीत्याहुः करण-
वदित्यादि । करणवदिति द्वितीयार्थे वतिः । तथा च यथा शरीररहितोपि जीवः करण-
ग्रामं मनश्चक्षुरादिकमधितिष्ठति स्वस्वकार्ये प्रेरयति, तथा ईश्वरोऽप्यशरीरः सर्वाञ्जीवान-
धिष्ठास्यति । प्रधानपुरुषौ चाधिष्ठास्यति । अधिष्ठानं चात्र स्वस्वकार्ये नियोजनम् । एवं चासं-
बन्धदोषोपि परिहृतो भवति । श्रेणीमुख्यवत् स्वस्वामिभावेनैव निर्वाहादिति चेन्नेदं
युक्तम् । कुतः । भोगादिभ्यः भोगादिदोषप्रसक्तेः । यथा हि करणान्यधितिष्ठञ्जीवः
पुण्यपापाभ्यां सुखदुःखभोगभाग् भवति, तत्र रागद्वेषादिवांश्च । तथैवेश्वरोपि भवेत् । तत्र
तदसंसर्गे नियामकाभावात् । न चैश्वर्यस्य नियामकत्वम् । लौकिकैश्वर्यवत्स्वपि तेषां दर्शनात् ।
नापि निरतिशयितरूपाया ऐश्वर्यकाष्ठायाः । केवलाभिर्युक्तिमत्तस्या एवासिद्धेः । अतो नानेनापि
दृष्टान्तेनाधिष्ठानसंभव इत्यर्थः ॥ ४० ॥
रश्मिः ।
करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ परिहारमिति संबन्धानुपपत्तिसूत्रोक्तसंबन्धा-
नुपपत्तावपि संबन्धान्तरस्य स्वस्वामिभावस्याङ्गीकरणरूपपरिहारमाशङ्क्येत्यर्थः । द्वितीयार्थे इति ।
'तेन तुल्यं क्रिया चेद्वतिः' । 'तत्र तस्य' इति सूत्रद्वयेन तृतीयासप्तम्योपषष्ठ्यर्थेषु वतिर्विहित-
स्तथापि छान्दसोयं वतिरित्यर्थः । अत्र शंकराचार्यैर्द्वितीयाव्याख्याने षष्ठ्यर्थे वतिरुक्तः । करणानां
तुल्यमीश्वरस्यायतनं यदि तदा भोगादिदोष इति । रामानुजाचार्यैः प्रथमार्ये वतिरुक्तः । यथा
भोक्तुर्जीवस्य करणकलेवराद्यधिष्ठानमशरीरस्यैव दृश्यते तद्वत् ईश्वरस्याप्यशरीरस्य प्रधानाधिष्ठान-
मुपपद्यत इति । वस्तुतस्तु 'करणवदित्यारभ्य द्वितीयायाधिष्ठास्यति' इत्यन्त आर्पो ग्रन्थः । 'कर्मादी-
नामपि संबन्धसामान्यविवक्षायां षष्ठ्येव' इति सिद्धान्तात् । एवं च सर्वत्र द्वितीयास्थले षष्ठी
प्रयोक्तव्या । षष्ठ्यर्थे वतिरिति । करणग्रामस्य मनश्चक्षुरादिकस्य सर्वेषां जीवानां प्रधानपुरुषयोरिति ।
द्वितीया तु कर्मणोत्र संबन्धसामान्यविवक्षा नेतरस्येति । 'तदर्हम्'इति सूत्रेण द्वितीयान्ताद्वतिस्तु
न साध्यबोधं जनयति । 'विधिवत्पूज्यते हरिः' इत्यत्र विधिविषययोग्यतातत्कर्तृ हरिकर्मकं देवदत्त-
कर्तृकं पूजनमिति बोधात् । विग्रहस्तु विधिमर्हतीति विधिवदित्यन्यत्र विस्तरः । यद्वा वास्तु
छान्दसो वतिर्मास्तु चार्षो ग्रन्थः । किंतु करणमर्हतीति करणवदिति सूत्रभाष्ये व्याख्यातव्ये ।
अधितिष्ठतीत्यसार्थोत्यर्थः । अधिष्ठास्यतीत्यनयोरिर्हत्यतीत्यर्थः । शरीररहित इति 'कायेन
मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' इति गीतायां पञ्च-
मेऽध्याये । परोक्तौ ष्ठाधातुरत्र लिखितस्तदर्थमाहुः अधिष्ठानमिति । असंबन्धेति । संबन्धा-
नुपपत्तिसूत्रोक्तो योऽसंबन्धः स दोषः सोपि परिहृतो भवतीत्यर्थः । श्रेण्यां पङ्क्तौ मुख्यः स्वामी ।
अन्ये ते सेवकास्तद्वत् । तन्न युक्तमिति भाष्यार्थमाहुः नेवमिति । सूत्रव्याख्येयांशोपन्यास-
पूर्वकं भोगादीति भाष्यं विवृण्वन्ति स्म भोगादिभ्य इति । अधितिष्ठन्निति अर्हन्नित्यर्थः ।
तेषामिति दोषाणाम् । तथा चैश्वर्यस्य दोषासंसर्गनियमकत्वे दोषदर्शनं तस्मादिति भावः ।
तत्रेति ईश्वरे करणकृतदोषासंसर्गेः । असिद्धेरिति निरतिशयितैश्वर्यकाष्ठायाः कापीश्वरातिरिक्तऽ-
भावात् । दृष्टानुसारिणी युक्तिरिति भावः । अधिष्ठानेति स्वस्वकार्ये नियोजनसंभवः ॥ ४० ॥
1286
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५
अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
ईश्वरः प्रकृतिजीवनियमनार्थमङ्गीकृतः । तच्च तयोः परिच्छेदे संभवति ।
ततश्च लोकन्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्चानित्यतायां मोक्षशास्त्र-
वैफल्यम् । एतद्दोषपरिहाराय विभुत्वनित्यत्वेऽङ्गीक्रियमाणे संबन्धाभावादसर्व-
ज्ञता वा स्यात् । तस्मादसङ्गतस्तार्किकवादः ॥ ४१ ॥
इति द्वितीयाध्याये द्वितीयपादे सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥
भाष्यप्रकाशः।
अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ दूषणान्तरादपि तार्किकप्रतिपन्न ईश्वरो न युक्त
इत्याशयं स्फुटीकुर्वन्ति ईश्वर इत्यादि । अयमर्थः । न हि तैरिश्वरः श्रुतिभङ्ग्याङ्गीकृतः,
किंतु जीवानामनन्तत्वाच्चेतनतया स्वतन्त्रत्वाद्भानास्वभावत्वाच्च जगन्निर्माणं तैरै न भवति तेषां
भोगनियमश्च न संभवति । प्रकृतेरुपादानत्वेपि चेतनानधिष्ठिताया अकिंचित्करत्वान्न
तथापि केवलया जगन्निर्मितिः । यन्मते न प्रकृतिस्तन्मते परमाण्वादय इति जडचेतनयोः
प्रकृतिजीवयोर्नियमनार्थमङ्गीकृतः । तच्च नियमनं तयोर्जडचेतनयोः परिच्छेदे इयत्तायां
संभवति । न हीयत्ताशून्याः सर्वे नियन्तुं शक्यन्ते, नापि व्यापकाः । अतो नियमनसिद्धयर्थं
तेषामियत्ताङ्गीकार्या । ततश्च यदियत्तापरिच्छिन्नं तदन्तवत् यथा घटपटादिकमिति लोक-
न्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्च जीवानित्यतायां लल्लक्षणस्य मोक्षशास्त्रस्य
यदङ्गीक्रियते, तद्वैफल्यम् । यदि चैतस्स शास्त्रवैफल्यदोषस्य परिहाराय विभुत्वनित्यत्वम-
ङ्गीक्रियते जीवानां, तदा तस्मिन्नङ्गीक्रियमाणे तेष्वियत्तावच्छेदकदेशसंख्ययोः संबन्धाभावा-
दीश्वरस्यासर्वज्ञता स्यात् । यदपरिमितं तत् सर्वमज्ञेयमाकाशादिवदिति नियमात् ।
रश्मिः।
अन्तवत्त्वमसर्वज्ञता वा ॥४१॥ दूषणान्तरादिति अन्तवत्त्वरूपात्, असर्वज्ञतारूपाच्च ।
योगमते ईश्वरनियामकत्वमाहुः प्रकृतेरिति । अकिंचिदिति । 'अचेतनत्वेपि क्षीरवच्चेष्टितं प्रधानस्य'
इति कापिलसांख्यप्रवचनसूत्रवृत्तेः । एतेन चिदुपरागोपि प्रत्यूक्तः । न तयेति सेश्वरसारूय्मते अन्यथे-
श्वरवैयर्थ्यप्रसङ्गात् । यन्मत इति नैयायिकमते । नियमनेति परमाणुक्रियोत्पादकेच्छाद्वारा
नियमनार्थम्। पूर्वं भाष्यं विवृत्य तच्चेति भाष्यं विवृण्वन्ति स्म तच्चेति । नापीति । नियन्तुं
शक्यन्त इत्यन्वयः । ततश्चेति । एतदिति भाष्यं विवृण्वन्ति स्म यदि चेति । विभुस्त्वेति ।
समाहारद्वन्द्वः । तेष्वित्यादि तेषु व्यापकेषु जीवेषु इयत्ता परिच्छिन्नपरिमाणं तदवच्छेदकयोरन्यूना-
धिकदेशवर्तिनोर्द्देशसंख्ययोः । अयमर्थः । देश (ह) विशेषे स्थितो महत्त्वाणुत्वासमानाधिकरणसंख्याव-
च्छिन्नो घटादिर्विषयो न तु जीवा इति । जीवस्त्वितरथाङ्गीकृत इति तादृशदेशसंख्ययोरसंबन्धादित्यर्थः ।
असर्वज्ञतेति । सर्वज्ञत्वं च विषयज्ञानाभावत्वं विषयज्ञानं विषयेन्द्रियसंबन्धमन्तरा न भवति ।
ब्रह्मजीवयोस्तु विभुत्वात्संयोगः । संयोगस्य जन्यत्वात् । नापि समवायः । अयुतसिद्धत्वाभावात् ।
विशेष्यविशेषणभावस्त्वभावप्रत्यक्ष एव । एवं च षड्विधलौकिकसन्निकर्षाभावादसर्वज्ञता । लौकिक-
सन्निकर्षाभावेप्यलौकिकसन्निकर्षमाशङ्क्य व्याप्तिमाहुः यदिति । अपरिमितं अपरिच्छिन्नम् ।
अत्रैवं भावः । सामान्यलक्षणा ज्ञानलक्षणा योगजधर्मी चेति त्रिविधा प्रत्यासत्तिः । तत्र नान्त्यो
1287
५५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ८ सू० ४२
उत्पत्त्यसंभवात् ॥ ४२ ॥ ( २-२-८ )
भागवतमते कंचिदंशं निराकरोति ।
ते च चतुर्व्यूहोत्पत्तिं वदन्ति । वासुदेवात् संकर्षणस्तस्मात् प्रद्युम्नस्तस्माद-
निरुद्ध इति । तत्रैषामीश्वरत्वं सर्वेषामृत संकर्षणस्य जीवत्वम् । अन्यान्यत्वम् ।
उत्पत्तिपक्षे जीवस्योत्पत्तिर्न संभवति । तथा सति पूर्ववत् सर्वनाशः स्यात् ॥ ४२ ॥
भाष्यप्रकाशः ।
तस्मादेकदोषवारणे दोषान्तरसंभवादसंगतस्तार्किकाणां वाद इति ।
माध्वा रामानुजाश्चात्र केवलं माहेश्वरमतनिराकरणमेवाधिकरणप्रयोजनमाहुः ।
शैवास्तु पूर्वाचार्यव्याख्यां शिवस्य केवलनिमित्तत्वबोधकशिवागमैकदेशदूषणपरामुकत्वा
केवलेश्वरनिमित्तत्ववादिहिरण्यगर्भोक्तयोगस्मृतिमात्रनिराकरणपरामित्याहु । तदसङ्गतम् । केषां-
चिदाचाराणां शैवपुराणाविरुद्धत्वेपि पूर्वोपदर्शिताचाराणां विरुद्धत्वेनाप्रामाण्यादिति ।
मिश्रस्तु सांख्याद्युक्तेन विरोधितर्केणानुकूलतर्काभावेन श्रुतिप्रवृत्तेः प्राग्व्याप्तिग्रहाभावेन
केवलानुमानैरीश्वरसाधनं निराकर्तुमिदमधिकरणमासमाप्त्येकमित्याह ॥ ४१ ॥
इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥
उत्पत्त्यसंभवात् ॥ ४२ ॥ अधिकरणप्रयोजनमाहुः भागवतेत्यादि । ननु
श्रुत्यविरुद्धा स्मृतिः प्रमाणमिति स्थितिः । पञ्चरात्रे च परमात्मा वासुदेव एव जगत उपादानं
निमित्तं चोच्यते । योगश्च तत्प्राप्त्युपाय उपदिश्यते । अभिगमनोपादानेज्यास्वाध्याययोगै-
र्भगवन्तं वासुदेवमाराध्य क्षीणक्लेशस्तमेव प्रतिपद्यत इति । अयं च सर्वोपि प्रपञ्चः श्रुति-
प्रसिद्ध एवेति कुतो निराकरणमित्याशङ्कायां तमंशं स्फुटीकुर्वन्ति ते चेत्यादि । चतुर्व्यूहो-
रश्मिः ।
गुणत्रयातिरिक्तयोगस्येश्वरेऽनङ्गीकारात् । नाद्या । लक्षणं स्वरूपं तु इन्द्रियसंबद्धविशेष्यकज्ञाने
प्रकारीभूतं गृहीतम् । तत्रेन्द्रियसंबद्धेत्यत्रेन्द्रियसंबन्धश्च लौकिको गृहीत इत्यप्रसक्तेः । या द्वितीया
सुरभिचन्दनमित्यत्र सौरभस्य सामान्यलक्षणया ग्रहणात्सुरभित्वग्राहिका सा तु भवेत्परं व्याप्तिं प्रति-
रुन्ध्यादिति । तस्मादिति भाष्यं विवृण्वन्ति स्म तस्मादिति । अन्तवत्त्वदोषवारणेऽपि विभुत्वनित्यत्वा-
भ्यामसर्वज्ञता दोषान्तरसंभवात् । इतीति तर्काप्रतिष्ठानसूत्रात् समाप्तावितिः । केवलेति एतादृश-
निराकरणपरां तामाहेतीत्यन्वयः । इतिः शैवोक्तिसमाप्तौ । पूर्वेति पूर्वाचार्योपदर्शितानामाचाराणाम् ।
सांख्येति रचनानुपपत्तिसूत्रानूदितेन । श्रुतीति 'यतो वा इमानि' इति श्रुतिप्रवृत्तेः प्रागित्यर्थः ।
व्याप्तीति यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वमिति व्याप्तिस्तस्या ग्रहाभावेन । केवलेति
क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवदित्याद्यनुमानैरीश्वरसाधनं तन्निराकर्तुम् । आ-
समाप्तीति समाप्तिमभिव्याप्येत्यासमाप्ति ॥ ४१ ॥
इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥
उत्पत्त्यसंभवात् ॥ ४२ ॥ स्थितिरिति पूर्वतन्त्रे मर्यादा । अभीति अभिगमनं ज्ञानं
ज्ञानपादे । उपादानेज्या क्रियापादचर्यापादयोः । स्वाध्याययोगो योगपादे । तमिति
1288
त्पत्तिमिति चतुर्भ्यो व्यूहेभ्य उत्पत्तिम् । तथाचायमंशो निराकार्य इत्यर्थः । ननु 'एकोऽहं
बहु स्याम्' इति, 'स एकधा भवति' इत्यादिश्रुतावेकस्यानेकव्यूहता 'तस्माद्वा एतस्मात्' इत्यादौ
क्रमसृष्टिश्च श्रावितेवेति किमत्र विसंवादस्थानमित्यत आहुः तत्रेत्यादि । अन्यान्यत्वमिति
अन्वयोः प्रद्युम्नानिरुद्धयोरन्यत्वं जडत्वम् । तथा च श्रुतौ यत्रानेकव्यूहतोक्ता, न तत्रोच्च-
नीचत्वम् । यत्रोच्चनीचत्वं बोधितम्, तन्न नानेकव्यूहता । इह तु साम्यमुच्चनीचत्वं चोच्यते ।
अथवा यत्रानेकव्यूहता तत्र सा । अत्र तूभयमेकत्रेति विसंवादस्थानमित्यर्थः । ननु 'आसीनो
दूरं व्रजति' इत्यादौ विरुद्धधर्माश्रयत्वस्य ब्रह्मणि सिद्धत्वाद्, 'अजायमानो बहुधा विजायते' इति
श्रुत्यानेकव्यूहतायामप्युत्पत्तेः श्रावणाच्च नात्रापि श्रुतिविरोध इत्यत आहुः
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४४
न च कर्तुः करणम् ॥ ४३ ॥
कर्तुः संकर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकं मन उत्पद्यते इति । तल्लोके न
सिद्धम् । न हि कुलालाद्दण्ड उत्पद्यत इति । चकारादग्रिमस्य निराकरणम् ॥४३॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
अथ सर्वे परमेश्वरा विज्ञानादिमन्त इति तथा सति तदप्रतिषेधः ।
ईश्वराणामप्रतिषेधः । अनेकेश्वरत्वं च न युक्तमित्यर्थः । वस्तुतस्तु स्वातन्त्र्यमेव
दोषः ॥ ४४ ॥
भाष्यप्रकाशः ।
एवं संशोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ।
कापालं लागुडं वामं भैरवं पूर्वपश्चिमम् । पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः' इति ।
साम्बपुराणे च ।
'पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान्'
इति वाक्यात्तत्तोऽंशस्य बुद्धिपूर्वकमेव तत्र स्थापनात् । अतो न कश्चिद्दोषः ॥ ४२ ॥
न च कर्तुः करणम् ॥ ४३ ॥ अग्रिमस्येति अहंकारस्य । अत्रापि लोकश्रुत्योर्विरोध
एव दोषः । स्फुटमन्यत् ॥ ४३ ॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पक्षान्तरं प्रतिक्षिपतीत्याहुः अथे-
त्यादि । विज्ञानादिमन्त इति विज्ञानैश्वर्यशक्तिबलवीर्यतेजःप्रभृतिपारमेश्वरधर्मान्विताः ।
अप्रतिषेधः अनियमनम् । शेषं स्फुटम् ॥ ४४ ॥
रश्मिः ।
'पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्' इति मोक्षधर्मे वाक्यात् । स्थापनादिति
भगवता स्थापनात् । दोष इति अत्र नेत्युत्तरसूत्रादनुकृष्यते मण्डूकप्लुत्या वा पूर्वसूत्रादनुवर्तते ।
पञ्चरात्रोक्तजीवोत्पत्तिर्न उत्पत्त्यसंभवादिति सूत्रार्थः ॥ ४२ ॥
न च कर्तुः करणम् ॥ ४३ ॥ अहमिति अनिरुद्धरूपस्य मनोभेदत्वात् । लोकेति
लोको भाष्योक्तनिमित्तानिमित्तोत्पत्त्यभावः 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति
श्रुतिः । तयोर्विरोधः । दोष इति । अतो निराकरणमिति भावः । स्फुटमिति भाष्ये मनः इति
करणस्य व्याख्यानमित्येवं स्फुटमित्यर्थः ॥ ४३ ॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पक्षान्तरमिति वासुदेवात्परब्रह्मणः
संकर्षणो नाम जीव इत्याद्युक्तपक्षादन्यं पक्षम् । एषामीश्वरत्वं सर्वेषामित्युक्तम् । स चात्र सूत्रे वाशब्देन
द्योत्यते । आदिशब्दार्थं वक्तुमाहुः विज्ञानेति । एते तत्र प्रसिद्धाः । शेषमिति । भाष्ये तथा
सतीति एवंविधे विज्ञानादिभावे इत्यर्थः । न युक्तमिति 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतेर्न
युक्तमित्यर्थः । ननु युक्तं 'निरञ्जनः परमं साम्यमुपैति' इति श्रुतेः सार्ष्ट्यादिश्रुतेश्चेत्याहुः
वस्तुतस्त्विति । सत्यं साम्यं न स्वातन्त्र्यं भगवन्नियम्या एवेत्युपपादितमैतरेये । अत्र तु स्वातन्त्र्यमिति
दोष इत्यर्थः । एवकारेणेश्वरत्वं न दोष इत्युक्तम् । एवं शेषं स्फुटमित्यर्थः ॥ ४४ ॥
1290
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११9
विप्रतिषेधाच्च ॥ ४५ ॥
बहुकल्पनया वेदनिन्दया च विप्रतिषेधः । चकाराद् वेदप्रक्रियाविरोधः ४५
इति द्वितीयाध्याये द्वितीयपादे अष्टमं उत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये
द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥
भाष्यप्रकाशः ।
विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनेत्यादि प्रद्युम्नरूपं मनोऽनिरुद्धोऽहंकार इति
करणत्वमहंकारत्वं चाभिधाय सर्व एते वासुदेवा आत्मान एवेति परमेश्वरत्वादिकल्पनया,
शाण्डिल्यश्चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा इदं शास्त्रमधीतवानित्यादिरूपया वेदनिन्दया च स्वोक्त-
विरोधो वेदविरोधश्चेत्यर्थः । वेदप्रक्रियाविरोध इति तप्तचक्रादिधारणरूपसाधनप्रकारविरोधः॥८॥
एवं च मोक्षधर्मे नरनारायणीये
'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ॥
अपान्तरतमश्चैव वेदाचार्यः स उच्यते । प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः । ऊचिवानिदमव्यग्रो ज्ञानं पाशुपतं शिवम् ॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वपि नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥
यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । न चैनमेवं जानन्ति तमोभूता विशांपते ॥
रश्मिः ।
विप्रतिषेधाच्च ॥ ४५ ॥ एत इति संकर्षणादयः । इत्यादीति आदिशब्देन पञ्चापि
शास्त्राणि रात्रियन्तेऽत्रेति वेदनिन्दा । पञ्च शास्त्राणि तु वेदवेदान्तसांख्ययोगपशुपतिरूपाणि । विप्रति-
षेध इत्यस्यार्थमाहुः स्वोक्तेति स्वोक्तस्य सर्व आत्मानः इत्यस्य विरोधे गौरवप्रसङ्गात् । वेदेति वेदेषु
परं श्रेयोऽलब्ध्वेति वचनाद्वेदविरोधश्चेत्यर्थः । तप्तेति तच्च 'अतप्ततनूर्न तदामोऽश्नुते' 'गोविन्दु ईप्स
आयुधानि बिभ्रत्' 'चरणं पवित्रम्' 'प्रतद्विष्णोः' 'अब्जचक्रे सुतसे' इति श्रुतिषु वर्तते । तत्राद्यास्तिस्रस्तु
भगवल्लीलाबोधिकाः । चतुर्थी अप्रसिद्धापि पाद्मवाक्यादस्ति । न च 'शङ्खचक्रादिकं धार्यं मृदा
पूजाङ्गमेव तत्' इति निबन्धविरोध इति शङ्क्यम् । तप्तचक्रादिधारणस्यापि पूजामात्राङ्गत्वेन पूजा-
व्यक्ततापरिहारार्थत्वात्तस्य मृदा धारणेऽपि सिद्धे ब्राह्मणसाधारणमृदैव धारणात् । तप्तादिधारणे तु
द्विजकर्मणि तन्नाशयितुमशक्यत्वेनानधिकारप्रसङ्गात् । एतच्च शङ्खचक्रादिधारणवादे एतैः स्फुट-
मुक्तम् ॥ ८ ॥ इति श्रीति । अत्र पादस्तर्कपादः ब्रह्मसूत्रपुस्तके तथोल्लेखात् ।
भाष्ये-आकस्मिकैच्छिकमतनिराकरणवारणाय प्रमाणान्याहुः एवं चेति । वेदा इति वेदान्ता
अपि वेदशब्देन संगृहीताः । तथा च षट् शास्त्राणि व्यवस्थापितानीति नाकस्मिकैच्छिकत्वमिति
भावः । नानामतानि भगवत्क्रीडासाधनानि । अन्यानि प्रपञ्चरूपाणीति वा इत्युक्तम् । तेन
नानामतानां विरोधनिरकरणं पञ्चसु शास्त्रेषु विचारितेषु भवतीति तानि गृहीतानि । शाक्तत्वाय
कर्तृशुद्धिमाहुः सांख्यस्येति अपान्तरतमश्चावान्तरप्रलयाधारत्वमुत्पत्तिमत्त्वं च पुरातन इत्यर्थः ।
प्राचीनेति वेदगर्भम् । यथागममिति प्रकृत आगमा विषयवाक्यानि । न्यायाः सूत्राणि । निष्ठा
1291
१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५
भाष्यप्रकाशः।
तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः। निष्ठां नारायणमृषिं नान्येऽस्तीति वचो मम ।
निःसंशयेषु धर्मेषु नित्यं संवसते हरिः। ससंशये तु बलवान्बाध्यावसति माधवः ॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥
सांख्यं च योगश्च सनातनं वै वेदाश्च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम्' ॥
इति सर्वेषां भगवत्परत्वं वदतां पञ्चरात्रविदां भगवत्प्राप्तिं च वदताम् ।
'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः'
इति च वदतामपि वाक्यानां न विरोधः ।
'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंशः श्रुत्येकशरणैर्नृभिः ।
जैमिनीये चे'ति पराशरोपपुराणीयवाक्योक्तस्य श्रुतिविरुद्धांशस्य कौर्मादिवाक्योक्तस्य
विमोहनांशस्य च दूषणमुखेनात्र स्फुटीकरणात् । बहुषु भाष्येष्वेवं व्याख्यानदर्शनेन प्राचीन-
रश्मिः।
पराकाष्ठा भक्तिर्वा । अभेदान्वयात्सर्वात्मभावः । भूमत्वान्नारायणसर्वात्मभावयोरिति भूमत्वेनाभेदात् ।
ऋषिमिति सप्तर्षिरूपम् । संसंशय इति । संशयान्हेतुबलानिति क्वचित्पाठः । एकान्तेति निश्चितां
भक्तिमुपगताः । वेदाश्चेति पूर्ववेदेदान्तसंग्राहकाः । निखिलेनेति अङ्गेन । विश्वमिति सर्वम् ।
सर्वेषां शास्त्राणाम् । वेदा इति पूर्ववत् । वदतामिति प्रामाण्यं वदताम् । न विरोध इति
आकस्मिकैच्छिकतानिवारकत्वात् । श्रुतिविरुद्धांशत्यागः उक्तः तत्र प्रमाणमाहुः अक्षपादेति तेन
प्रच्छन्नबौद्धानां स्मृत्युक्तानां बाह्यानां च स्मारणात्तत्रापि श्रुतिविरुद्धोंशस्त्याज्यः सर्वं चेत्सर्वमि-
त्युक्तम् । जैमिनीय इति । न चास्य 'जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' इत्युत्तरान्वयेतेति-
वाच्यम् । निरीश्वरजैमिनीयस्य पूर्वान्वयितायाः । जैमिनीये विरुद्धांशो हि शब्दमयी देवता प्रातिपदि-
कार्थस्तु यः कश्चिदिति साध्यार्थपरता वेदस्येति च । न च 'भावार्थाः कर्मशब्दा' इत्यत्र व्याख्यानतो
विशेषप्रतिपत्तेः कुतो वेदविरोध इति शङ्क्यम् । व्याख्यानस्य निरीश्वरार्थत्वात् । श्रुतिविरुद्धेति
इदमुपलक्षणं श्रुतिविरुद्धांशस्य । कौर्मादीति । इमानि वाक्यानि 'उत्पत्त्यसंभवात्' इति
सूत्रसभायावुक्तानि । रामानुजाचार्यास्तु पञ्चरात्राप्रामाण्यमाशङ्कयात्र तन्निराक्रियत इत्याहुस्ते
च प्राचीनवृत्त्यनुसारिण इत्यमुत्पत्त्यसंभवसूत्रोक्तोंशोऽप्यप्रत्याख्येय इत्यत आहुः बहुष्विति ।
एतादृशेति प्राचीनवृत्तिरेतादृशव्याख्यानवती बहुषु भाष्येष्वेवं व्याख्यानदर्शनात् । अत्रैतादृश-
सूत्रव्याख्यानं साध्यम् । तत्कार्यं दर्शनं हेतुः ।'लाघवात् । साध्यं हेतुविषयः । एतादृशसूत्रव्याख्यान-
दर्शनमिति । भाष्यवत् । अत्र पक्षे साध्यहेतुमयाभावाद्वैत्वाभासत्वम् । 'पक्षे साध्याभावो बाधः' ।
यथा गौरश्वत्वात् । 'पक्षे व्याप्यत्वाभिमतस्याभावः स्वरूपासिद्धिः' । यथा ह्रदो द्रव्यं धूमादिति ।
तदुभयात्मकोऽयं हेत्वाभासः । अत्रोच्यते । हेतावेतादृशशब्दस्य सूत्रव्याख्यानादिभिः सदृशमित्यन्यथा-
व्याख्यानविशेषणं तद्वत्त्वं प्राचीनवृत्तावस्तीति न हेत्वाभासत्वम् । न चास्मिन्ननुमाने साध्यसिद्धिः
प्रतिबन्धिकेति वाच्यम् । सिषाधयिषाया उत्तेजिकायाः सत्त्वात् । यथा महानसो वह्निमानित्यनुमितिः ।
तेनेति । श्रुतिसूत्रस्मृतिविमर्शेन । षट्सु द्वयोरङ्गाङ्गिभाव उक्ते जिज्ञासाधिकरण एवेति चतुर्णां
1292