अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४५ भाष्यप्रकाशः। आहुः', 'वायुर्भूत्वा धूमो भवति' इत्यादिलोकवेदयोः प्रयोगबाहुल्येन अविभागस्यापि मुख्यभेद- त्वाद्भिदिर् विदारण इत्यनुशासनाच्च 'परमात्मा जगद्रूपी सर्वसाक्षी निरञ्जनः । भिन्नाभिन्नस्वरूपेण स्थितोऽसौ परमेश्वरः' ॥ इत्यादिस्मृतिशतवादपि भेदाभेदयोर्विरोधोऽप्रामाणिक इति । ननु भवत्वेवं भेदाभेदयो- रविरोधस्तथापि ब्रह्मणो निरवयवत्वाज्जीवस्य मुख्यं ब्रह्मांशत्वं न संभवतीति चेन्न । अंशत्वं हि सजातीयत्वे सति कदाचिद्विभक्तत्वमेव वाच्यम्, अन्यथा पुत्रचेतने पितृ- चेतनांशव्यवहारानुपपत्तेः । विभागश्च लक्षणान्यत्वम् । अभिव्यक्तधर्मभेद इति यावत् । ईदृश- श्चांशो निरवयवस्यापि संभवतीत्यदोषः । यदि चावयवत्वमेवांशत्वमिष्यते तथापि सजातीया- विभक्तत्वगुणेनैव जीवेऽशशब्दो गौणो युक्तो, न तु घटाकाशादिवत् प्रकारान्तरेण गौणः । भेद- ग्राहकश्रुत्यादिबलेनाग्निविस्फुलिङ्गादिदृष्टान्तानामेवादर्तव्यत्वादिति चाह, एतमर्थ मोक्षधर्मीयै- र्वैशम्पायनवाक्यैरुपष्टम्भयन् व्याससंमतत्वमस्य दृढीचकार । तदस्माकमपि संमतमेव । एतावान् परं विशेषो यदस्मत्सिद्धान्ते श्रुतीनामेव मुख्यत्वात् तयैव विरुद्धधर्माश्रयत्वं कर्तुमकर्तुमन्यथा- कर्तुं समर्थत्वमद्भुतकर्मत्वं महामहिमशालित्वं च निश्चित्य ब्रह्मसामर्थ्येनैव भेदाभेदाविरो- धोऽखण्डत्वं सांशत्वमन्यच्च यदनुपपद्यमानं लौकिकप्रमाणैस्तत् सर्वं समर्थ्यते । अनेन तु युक्तिभिः समर्थ्यत इति । रामानुजाचार्यास्तु—'ज्ञाऽज्ञौ द्वावजावीशनीशौ' इत्यादिश्रुतेरत्यन्तभिन्न इति माध्व- मतम्, उत परमेव ब्रह्माविद्यया भ्रान्तं जीवः, 'तत्त्वमसि', 'अयमात्मा ब्रह्म' इत्यादिश्रुतेरिति शांकरमतम्, अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीवः, तत्त्वमस्यादिवाक्येभ्यः, उपाधिश्च सत्य इति रश्मिः। कमुदाहरणम् । वायुरिति 'तस्माद्वा एतस्मात्' इत्यत्र 'आकाशाद्वायुः' 'वायुर्भूत्वा धूमो भवति' तस्मा- दग्निः । 'पार्थिवादारुणो धूमस्तस्मादग्निरुदीयतेः' इति वाक्यात् । दारु निमित्तम् । समवाय्याकाशः कार्यं वायुः । विदारण इति विदारणं विभाग इत्याशयः । सजातीयेति आत्मत्वेन साजात्यम् । कदाचिदिति सृष्टिपूर्वकाले मोक्षकाले च । लक्षणेति लक्षणादन्यत्वम् । लक्ष्यतेऽनेनेति लक्षण- मन्यत्वं भेद इत्याह । अभीति अभिव्यक्तेन धर्मेण भेदः । ईदृश इति अभिव्यक्तेन धर्मेण भेदो दृश्यते यत्र भिन्न इत्यर्थः । अदोष इति अंशत्वासंभवदोषो न । सजातीयेति सजातीयेना- विभक्तत्वमीश्वरगुणेनैव सिंहो माणवक इतिवत् । जीवो ब्रह्मांश इति जीवेऽंशशब्दो गौणः । घटेति आदिना मठाकाशः । प्रकारान्तरमौपाधिकं, जीवत्वमौपाधिकमिति तेन । भेदेति 'द्वा सुपर्णा'इति. 'य इह नानेव पश्यति' इति श्रुती 'परमात्मा जगद्रूपी' इत्युक्तस्मृतिश्च तदादिबलेन । अग्नीति आदिना पितापुत्रदृष्टान्तः । अन्योपि जलतरङ्गादिः वैशंपायनेति द्रष्टव्यं तत्र । ननु कथमवकारो दीयते भिदां 'मायामात्रमनूद्य' इति भेदो माया, सा 'न यत्र माया' इति 'प्रवर्तते यत्र रजस्तमः' इति वाक्याभ्यां निषिध्यते तत्राहः एतावानिति । अन्यथेति । चकारेण भेद- स्यैन्द्रियकत्वं मायिकत्वेऽपि । भ्रान्तमिति व्याख्यातम् । अयमात्मा जीवः । आदिना 'नेह नानास्ति १९ ब्र० सू० २० 1441
१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ५३ भाष्यप्रकाशः। भास्करं मतं चोपन्यस्य स्रष्टृत्वसृज्यत्वनियम्यत्वनियामकत्वादिरूपोभयथाव्यपदेशात् तत्तन्मत्सा- दावभेदेन व्यपदेशाच्च जीवो ब्रह्मणोऽंशः । नच भेदव्यपदेशानां प्रसिद्धार्थत्वेनान्यथासिद्धत्वं शङ्क्यम् । ब्रह्मसृज्यत्वतन्नियम्यत्वतच्छरीरत्वादीनां प्रत्यक्षाद्यप्रसिद्धार्थानां कथनेन सिद्धसं भेद- स्यान्यथासिद्धताया वक्तुमशक्यत्वात् । अत एव जगत्सृष्ट्यादिवादिनीनामपि, न मिथ्यार्थोपदे- शपरत्वमपीत्येवं पूर्वं दूषितमपि शांकरं भास्करं च मतं संक्षेपेण दूषयित्वा, ततः, 'प्रकाशादिव- नैवं परः' इति सूत्रे प्रकाशादिवज्जीवः परमात्मनोऽंशः, यथा भास्तोऽग्न्यादेर्भारूपः प्रकाशोंऽशो भवति । यथा गवाश्वादीनां गोत्वादिविशिष्टानां गोत्वादिकं विशेषणमंशः । यथा वा देहिनो देवमनुष्यादेर्देहोऽशस्तद्वत् । अंशत्वं चैकवस्त्वेकदेशत्वम् । अतो विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव, तथाच विवेचका विशिष्टे वस्तुनि विशेषणांशोऽयं विशेष्यांशोऽयमिति व्यपदिशन्ति, विशेषणविशेष्ययोरंशांशित्वेपि स्वभाववैलक्षण्यं दृश्यते, एवं जीवपरयोर्विशेषण- विशेष्ययोरंशांशित्वं स्वभावभेदश्वोपपद्यते । तदिदमुच्यते नैवं पर इति । एवंच जीवपरयो- र्विशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यमादाय भेदनिर्देशाः प्रवर्तन्ते अभेदनिर्देशास्तु पृथक्- स्थित्यनर्हविशेषणानां विशेष्यपर्यन्तत्वमादाय मुख्यत्वेनोपपद्यन्त इति व्याचक्षुः । शैवास्तु—'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतेन व्याप्तं सर्वमिदं जगत्' ॥ इति श्वेताश्वतरश्रुतिमुपन्यस्य प्रकृतिविशिष्टस्य ब्रह्मणोऽशो जीव इत्याहु । अंशत्वं च पूर्ववद् आह । अत्रापि सिद्धान्तादियान् भेदः । एतैर्विशेषणविशेष्ययोर्भेदस्तयोः स्वभावभेदश्च नैसर्गिक एवाङ्गीक्रियते । सिद्धान्ते तु 'प्रजायेय' प्रतीच्छाहेतुकः । नैसर्गिकपक्षेऽपि विरुद्धधर्माधारत्वात् सामर्थ्यादेव नैकत्वादिविरोध इति शुद्धाद्वैतं निरवद्यम् । अतो ये वादा यानि च दर्शनानि तानि सर्वाण्येत्येकदेशावलम्बीनीति बोध्यम् । माध्वास्तु—अंशान् द्विविधान् वदन्ति । केचिदभिन्नाः करचरणादिवत्, केचिद्भिन्नाः पुत्रादिवत् । तत्राद्या मत्स्याद्यवताराः । द्वितीया जीवाः । वनमालिदासस्तु—तद्भिन्नत्वे सति तत्सदृशत्वमंशत्वम् । यथा चन्द्रमण्डलाच्छतांशो गुरुमण्डल इति भिन्नांशस्वरूपमाह । रश्मिः। किंचन' इति श्रुतिः । व्यपदेशादिति 'अंशो नानाव्यपदेशात्' इति सूत्रस्य व्यपदेशानुवादोऽयम् । अंश इति सूत्रस्थांशपदानुवादोयम् । अन्यथेति श्रुतिभिन्नप्रकारेण सिद्धम् । ब्रह्मसृज्येत्या- यन्तर्यामिब्राह्मणे । आदिनान्तरत्त्वावेधत्वे । प्रत्यक्षादीति आदिनानुमानम् । अशक्येति । अनधिगतार्थगन्तृत्वप्रामाण्यासन्दिग्द्वेदबोधितत्वेन । सृष्ट्यादीति भेदनिवन्धनानाम् । अपीति व्यावहारिकसत्तासमयेऽपि । विशिष्ट इति माख्यानभिरित्यादौ । पूर्वमिति । .................... ............विशेष्येति । 'प्रकाशाश्रयवद्वा' इति न्यायेन । शैव इति भगवान् । मायामिति मायाशब्देनाचित् । मायिशब्देन चिदचिद्विशिष्टम् । अवयवभूतेन चिद्वस्तुना । पूर्ववदिति रामा- नुजमतवत् । विशेषणेति चिदचिद्विशिष्ट ईश्वर इत्यत्र । शुद्धाद्वैतमिति इदं द्वेधा भवति । यदा सर्वं ब्रह्मातिरिक्तं माया, भेदा वा सर्वं ब्रह्मातिरिक्तं कार्यं मन्वेति । अत इति शास्त्रा- र्थीयसर्वप्रकरणानुरोधेन सर्वक्रोडीकरणात् । एतदिति स्वमार्गीयांशांशिभावेकदेशावलम्बीनि । 1442
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४७ भाष्यप्रकाशः। तेन प्राचीनमाध्वमते राश्येकदेशत्वमंशत्वं फलति । वनमालिमते तु सादृश्याल्पत्व- बोधनार्थत्वादौपचारिकमंशत्वं फलति 'प्रकाशादिवन्नैवं परः' इति सूत्रव्याख्याने च, यथा तेजोऽशयोः कालाग्निखद्योतयोर्जलांशयोरमृतसमुद्रमूत्रयोः पृथिव्यंशयोर्मेरुपुरीषयोस्तत्तदंशत्वा- विशेपेऽपि यथा नैकप्रकारता, किंतु सदसत्तया विवेकस्तथा मत्स्यादीनां रूपांशानां भिन्नांशानां जीवानां च, एवं चांशत्वे तुल्येऽपि कालाग्नितेजसोरभिमानिदेवैक्यं खद्योतं चाभिमानिभेद इति तत्कृतं वैलक्षण्यमित्याहुः । अत्रेदभवधेयम् । सूत्रे, 'नैवं परः' इत्यनेन यत्प्रकारको जीवस्तत्प्रकारकत्वं परस्मिन्निषिध्यते प्रकाशादिदृष्टान्तेन । भवद्भिस्तु परस्वरूपविचारेण रूपांशानां तथात्व
१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ४३ भाष्यप्रकाशः। नैसर्गिक भेदे अवान्तरसृष्टाविवादिसृष्टावपि पूर्वमीश्वरे जीवानां पिण्डीभाव एव वाच्यो, न त्वैक्यम् । तथा सति तेषां भिन्नत्वेन, 'बहु स्याम्' 'नामरूपे व्याकरवाणि' इत्याद्युक्तं स्वस्य बहुभवनं नामरूपव्याकर्तृत्वमुत्तमपुरुषप्रयोगश्चोपपद्येत । अभिमानित्वे जीवतौल्यं चापद्येतेति । प्रकृतमनुसरामः ॥ स्मृतौ सूत्रे चांशशब्द उक्तः, श्रुतौ च पादशब्दः । उभावप्यनेका- र्थत्वात् संदिग्धौ । अंशशब्दस्तावदवयवे पुत्रे खण्डे विशिष्टवस्त्वेकदेशे राश्येकदेशे च प्रसिद्धः । श्रुतौ तु पश्यापि परंपरया, 'अर्धो वा एष आत्मनो यत् पत्नीः' इति । 'स आत्मानमेव द्वेधापातयत् ततः पतिश्च पत्नीचाभवतां तदेतदर्धं वृगलमिव' इति तथा अर्धत्वकथनादर्धशब्दस्य च कोशे 'पुंस्यर्धोऽर्धं समेंऽशके' इत्यंशविशेषे शक्तेः । पादशब्दोऽप्यवयव एकदेशे च । अवयवे तु प्रसिद्धः । एकदेशे तु 'विश्वो वैश्वानरः प्रथमः पादः' इति । यद्यप्येतेषु यस्य कस्याप्यर्थस्य ग्रहणे लक्षणादोषसंसर्गो न भवति, तथापि श्रुतावुर्णनाभतन्तून्मोरमिविस्फुलिङ्गयोश्च दृष्टान्तकथनात् तदनुकूल एवांशंशिभावो ग्राह्यः । तथा सति खण्डावयवादिरूपस्तन्नित्यत्वादिनोधकथ्रुत्यनु- रोधादविकृतस्वरूप एवांशः सिद्ध्यति, न नित्यभिन्नः केवलविशेषणरूपो वा । प्रलयदशायाम- विभागेन पिण्डीभाव ऐक्ये वा शिष्टत्वेनैव सत्त्वात् तदालिङ्गितस्य ब्रह्मणः स्वस्मिन्नहमितरभिन्न इति प्रतीतेरर्थसिद्धत्वात् सृष्टिप्राक्काले 'बहु स्याम्' इत्येकत्वबुद्धिपूर्वकस्य संकल्पस्य पीडाप्रसङ्गात् । रश्मिः। श्रुतयस्तु 'तत्त्वमसि' इत्यवताराभेदबोधिका । 'सत्यं भिदा ३ सत्यो जीवः ३ इति जीवेशयोर्भेदै । 'ज्ञाज्ञौ द्वावजावीशनीशौ' इति च । अनीशशब्दाकारलोपः । आदिना स्मृतयः । तास्तु 'कृष्णस्तु भगवान्स्वयम्' इत्यभेदे । 'जीवा भिन्नाः परो भिन्नस्तथापि ज्ञानरूपतः । प्रोच्यते ब्रह्मरूपेण वेदवादेषु सर्वशः' इति । 'परमात्मा जगद्रूपी' इत्यादिश्च । अस्मादिति । भेदस्य तद्घटकस्याचिन्त्यानेक- विरुद्धधर्मत्वे मायिकत्व इवार्थत्वे च प्रवेशरूपया । अभेदस्य च भक्तिकारणत्वेन प्रवेशरूपया । 'नृप त्वात्मैव वल्लभः' इति वाक्यात् । 'भजनस्यैव सिद्ध्यर्थं तत्त्वमस्यादिकं तथा' इति वाक्याच्च । भेदाभेदोपपत्तेः । पिण्डीभाव इति । सिकतायां तैजसानां पिण्डीभाववत् । उत्तमति स्यामि- त्युत्तमपुरुषप्रयोगश्च जीवानां भिन्नानां बहुभवनेनोपपद्येत । अभीति जीवरूप्यभिमानित्वे । परमिति ईक्षाविशिष्टस्वेच्छेत्येवंपारंपरया । पुरुषविधब्राह्मणे । पत्नीरिति पत्नीत्यपि पाठः । 'हलन्त्याब्भ्यो दीर्घात्' इति सूत्रात् । स इति ईक्षाविशिष्ट इच्छावान् । पत्नीश्वेति । पत्नी- चेत्यपि पाठः । अर्धेति अर्धखण्डितमिव । तस्या इति पत्न्याः । न चार्धनारीश्वरत्वं शङ्क्यम् । तम ग्लानौ तम अम्बिकाहायामेतयोरेकतराभावेन तत्त्वसाशक्यवचनत्वान्किंतु 'यथा स्त्री- पुमांसौ संपरिष्वक्तौ' इत्यस्यां श्रुतौ 'स इममेवात्मानम्' इति श्रुतेः पूर्वस्यां स्त्री जगत् पुमान् ईक्षाविशिष्ट इच्छावानिति कार्धनारीश्वरप्राप्तिः । तथा च यथा स्त्रीपुमांसावित्यस्याः पूर्वं श्रुतिः । 'स द्वितीयमैच्छत्' 'स हैतावानास' इति । एतावान्स्मीपतरवर्ती प्रपञ्चः । लक्षणेति । 'अंशो नाना- व्यपदेशात्' इति सूत्रेऽंशपदे । तन्नित्यत्वेति । 'अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा' इति श्रुतिः । आदिना 'यथाग्नेः क्षुद्रा विस्फुलिङ्गाः' इति श्रुतिरंशत्वबोधिका । केवलति जीवरूपव्यभिमानी- श्वर इत्यत्र । अर्थेति अर्थ आक्षेपः, अन्यथानुपपत्तिरिति यावत्, तत्सिद्धत्वादित्यर्थः । 1444
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९ भाष्यप्रकाशः। तस्या एकत्वबुद्धेर्भ्रमत्वप्रसङ्गेन महोपद्रवप्रसङ्गाच्च । असत्यत्वे तु मोक्षेऽपि चरण एवैक्यम् । 'वैद्ये च सात्वतपतेश्चरणं प्रविष्टे' इत्यादिवाक्यात् । अतोऽंशांशिभावः स्वामिसेवकभावो, 'यो यदंशः स तं भजेत्', 'नाऽरुद्रो रुद्रमर्चयेत्' इत्यादिवाक्यान्यैक्यं चेति सर्वं प्राञ्जलमुपपद्यते । एवं जीवानामंत्रत्वे जीवस्वरूपविचारेण नानात्मवादो, भगवत्स्वरूपविचारेण चैकात्मवाद इत्यपि प्राञ्जलमेव सिद्ध्यति । हस्तपादादीनां परस्परभेदपुरुषामेदयोर्लोकेऽपि दर्शनात् । एवं च मुक्तौ जीवानां भगवदैक्येऽपि तेषां तत्तदङ्गेष्वेव प्रवेशाद्भेदसहिष्णुरेवाभेदः । भगवन्नियम्यता च प्राञ्जलैव । यथा हस्तादीनां तत्तद्भागकत्वं तज्जीवानामंशानां जीवनामकत्वमात्मनामकत्वं च निर्बाधम् । स्वगतद्वैतं तु न दोषाय । भेदसहिष्णोरेवाभेदस्य सिद्धान्तेऽङ्गीकारात् । अत एव भीववसुदेवभगवत्संवादेऽपि, 'आत्मा ह्येकः स्वयंज्योतिः' इति श्लोके नानात्वस्यैरोपाधिकत्वेन भ्रान्तत्वं निरूप्य सजीवस्वरूपयोर्विचारेणैकात्म्यं बोधयता भगवता, 'खं वायुर्ज्योतिरापो भूसत्कृतेषु यथाशयम् । आविस्तरोऽल्पभूर्यैको नानात्वं यात्यसावपि' ॥ इति । श्लोके खादिपञ्चमहाभूतदृष्टान्तेनैकात्म्येऽपि नानात्वस्य वास्तवत्वमुपाधिव्यङ्ग्यत्वं च बोधितम् । अन्यथा पूर्वश्लोक एव नानात्वस्यैर्गुणोपाधित्त्वेन भ्रान्तत्वे बोधिते तत एव नानात्वस्य निवृत्तत्वात् खादिपञ्चमहाभूतदृष्टान्तेन नानात्वं न स्थापयेत् । केवलाकाशदृष्टान्तेनापि घटाकाशमहाकाशवदेकत्वसौपाधिकनानात्वस्य च सिद्धौ सांशानि भूतानि भूतान्तराणि न दृष्टान्तीकुर्यात् । अतोऽंशत्वेन नानात्वस्य विद्यमानत्वात् परापरभावघटित एवैकात्म्यवादो भग- वदभिमत इति सिद्ध्यति । तेन परममुक्तिदशायामैक्याभिव्यक्तावपि पुरुषस्य स्वाङ्गेष्विव भगवतो जीवेषु नियम्यता न विरुद्ध्यते । ननु परममुक्तेश्वर्यादित्वत्त्वे सिद्धे नियम्यतया किं वा कार्यमिति शङ्क्यम् । स्वस्य मुक्तोपसृप्यत्वात् स्वसेवास्वरूपभोक्तव्येच्छायां स्वसेवार्थं स्वेन सह तत्प्राप्तव्यमित्यादि बोध्यम् । नचैवं सति नानात्वनिन्दाबोधकश्श्रुतिविरोधः शङ्क्यः । तत्र हि 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः' इत्युपक्रम्य सर्वाधिदैविकत्वं वदन्, 'नेह नानास्ति किंचन' इति स्वरूपे नानात्वं निषेधति । तेन यथा जीवे प्राणादयो भिन्नाः स्वयं जीवस्तेभ्यो भिन्न इत्येवं नानात्वं, न तथा ब्रह्मणि, किंतु सर्वाधिदैविकत्वात्, 'प्राणस्यैव प्राणो भवति' इत्यादिश्रुत्युक्तं प्राणादिकार्यं रश्मिः। पीडेति जीवावास्तविकभेदे पीडाप्रसङ्गात् । भ्रमत्वेति एकत्वाभाववति ब्रह्मणि जीवपिण्डिते एकत्वबुद्धेर्भ्रमत्वम् । तदभाववति तत्प्रकारकत्वात् । महेरति ईश्वरस्य भ्रान्तत्वापत्त्या नाम- सङ्घप्रविशासेऽनिर्मोक्ष इत्यादिः । विधिनिषेधके वाक्ये आहुः यो यदंश इत्यादि । एतद्ग्रे तस्माद्वयमेव पक्षो निर्दुष्ट इत्येतावान्ग्रन्थः । एवं जीवानामंत्रत्वमित्यारभ्य संभवादित्यन्तो ग्रन्थः सम्यगायातो भेदाभेदवादोऽयं भास्कराचार्याणां शोभत इति सोऽपि व्याक्रियते अचिन्त्या- नन्तशक्तिमद्विरुद्धसर्वधर्माश्रययुक्त्यगोचरत्वेन ब्रह्मण आहुः एवं जीवानामिति । इदं न सजातीय- द्वैतं किंतु स्वगतद्वैतमित्याशयेनाहुः स्वगतेति । भेदसहीति भेदस्तु मायिको सिद्ध- धर्मान्तर्गत इवार्यों वेत्यसकृदुक्तम् । परापरेति परः पुरुषोत्तमः, अपरोऽक्षरः जीवसंघकः । मुक्तेति 'मुक्तोपसृप्यव्यपदेशात्' इति व्याससूत्रम् । भक्तपक्षपातेन स्वसेवास्वरूपप्राक्तव्येच्छार्या स्वेन सह ब्रह्मणो गौणत्वम् । 'सोश्नुत' इति श्रुतेः । इत्यादीति आदिना तत्तद्रधिकारिणां क्रीडायां 1445
स्वयं स्वरूपेणैव कुर्व्वन्नाना नेति नानात्वं निषिध्य तादृशे यः प्राणादिनानात्वं पश्यति तस्य निन्दा क्रियते । तेन भ्रान्तप्रतिपन्ननानात्वस्य दर्शन एव निन्दापर्यवसानं, न तु कार्यभेदेन ज्ञाते तस्मिन् 'प्राणन्नेव प्राणो भवति' इति श्रुत्यैव नानात्वस्याङ्गीकारात् । यथैकः पुरुषः पाचनपाठनादीनि नानाकार्याणि कुर्व्वन्नाना न भवतीति तद्वद् ब्रह्मापीत्यदोषात् । एतेनैव, 'न ह्यस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया अन्यदिव' इत्युत्तरतापनीयोक्तं समर्थितं ज्ञेयम् । अंशांशिभावेनैव नानाकार्यकरणेऽपि स्वरूपैक्यानपायात् । इदं च मत्कृतनृसिंहतापनीव्याख्याना- देवावगन्तव्यमिति नेह प्रपञ्च्यते । नच, 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति' इति श्रुतिविरोधः । अत्र भेददर्शने दोषस्यानुक्तत्वात्, कुरुते इति पदेन तथा निश्चयात् । क्रियासाध्यस्य तस्य भेदस्योपमानादिकरणे एव संभवात् । तस्मादयमेव पक्षो निर्दुष्ट इति ॥ ५३ ॥ इति षोडशं अंशो नानाव्यपदेशादित्यधिकरणम् ॥ १६ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य तृतीयः पादः ॥ २ ॥ ३ ॥ पातयित्वा तत्तदधिकारानुसारिणी क्रीडेति । नानात्वं पश्यतीति । ननु नानात्वं भेदस्तमिव पश्यतीत्युक्त्येवार्थो भेद इति श्रुतिविरुद्धमिति चेन्न । भेदस्यैवार्थत्वात् । इव इव पश्यतो दोषात् । इव इवात्यन्ताभेदः । 'अविभक्तं च भूतेषु' इति गीताविरोधात् । भ्रान्तेति भ्रान्ता नैयायिकादयः । तैः प्रतिपन्नं नानात्वं तद्यथा । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यत्र श्रुत्यां यः नाना इव पश्यति तस्य मृत्युर्भवति न तु नाना नामभेदं पश्यत इति । तथा नानेव पश्यति तस्य मृत्योर्मृत्युर्भवति किं पुनर्नानानामभेदं पश्यत इति । तस्य दर्शन इत्यर्थः । पर्यवेति नहि श्रुतिः श्रुत्येकशरणव्याख्यानं निन्दति किंतु स्वभाष्यवर्तमानानां स्वार्थवादत्वमङ्गीकुर्वतां च व्याख्यानमिति पर्यवसानपदम् । तस्मिन्निति भेदे । 'कार्यकारण- वस्त्वैक्यमर्षणम्' इति वाक्यात् । एवेति । गौणप्रमाणव्यवच्छेदः । अन्यदिवेति भेदवदिव । स्वरूपेति तत्त्वमस्यादिवाक्येभ्यः । उत् अरं स्वल्पमपि अन्तरं भेदम् । कुरुत इति करणार्थक- धातुपेदन । अभावादीति आदिना दुःखनाशौ । अयमिति मुख्यांशांशिपक्षः ॥ ५३ ॥ इति पञ्चदशं अंशो नानाव्यपदेशादित्यधिकरणम् ॥ १६ ॥ इति श्रीविठ्ठलेश्वरेश्वरधर्मनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण संपूर्णवेद्या विट्ठलरायभ्रात्रीयेण गोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ द्वितीयाध्यायस्य तृतीयः पादः संपूर्णतामगमत् ॥ २ ॥ ३ ॥ १. अरिस्वन्तरमते । 1446
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ द्वितीयोऽध्यायः । चतुर्थः पादः । तथा प्राणः ॥ १ ॥ जीवशरीरमध्यवर्तिनां प्राणादीनां विचारार्थं पादारम्भः । भाष्यप्रकाशः । तथा प्राणः ॥ १ ॥ पूर्वपादे जीवस्य स्थूलशरीरनिष्पादकानां भूतानामुत्पत्तिक्रमा- दिकं विचार्य ततो जीवरूपं विचारितम् । इन्द्रियाणां तु स्वरूपादिकं न विचारितमिति तुरीये पादेऽवसरसंगतिं बोधयन्तः पादप्रयोजनमाहुः जीवशरीरेत्यादि । जीवस्थूलशरीर- मध्यवर्तिनां लिङ्गशरीरघटकानामन्तर्बहिरिन्द्रियाणां प्राणानां च विचारार्थं पादारम्भ इत्यर्थः । अत्रैतेषां शरीरान्तरवर्तित्वोक्त्या शरीरान्व
१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ४ अ० १ सू० १ तत्र जीवं निरूप्य तादृशधर्मवत्त्वं प्राणे अतिदिशति । प्राणशब्दप्रयोगः प्रियत्वाय, प्राणा इन्द्रियाणि । भाष्यप्रकाशः । मित्याशयेन व्याचक्षते तत्र जीवमित्यादि । अतीतपादान्ते अदृष्टनियमेन परमतं निराकृ- तम् । यद्यपि तत्संनिहितं तथापि तद्वत् प्राणानां निराकार्यत्वाभावेनादृष्टधर्मस्यातिदेश्यत्वा- भावात् ततः पूर्वं प्रकृतो यो जीवः स एव वियदाद्यपेक्षया सन्निहित इति जीवसमानधर्मवत्त्वं प्राणेऽतिदिशतीत्यर्थः । नन्वान्तराणां सर्वेषामत्र विचार्यत्वात् तथा करणानीति वक्तव्ये कथं प्राण एवात्रोक्त इत्यत आहुः प्राणशब्देत्यादि । ननु तथापि मुख्ये तद्वाचके पदेऽनुक्ते कथं तेषामवगम इत्यत आहुः प्राणा इन्द्रियाणीति । 'अथ ह प्राणा अहं श्रेयसि व्यूदिरे' इत्यादिश्रुतौ प्राणशब्द इन्द्रियेषु प्रसिद्ध इति सोऽपि मुख्यप्राय इति ततोऽपि सुखेनावगम रश्मिः । कार्यत्वेनांशत्वे वा । संशयमुक्त्वा पूर्वपक्षमाहुः प्राणादीति । परमतमिति नैयायिकमतम् । अध्यायार्थसंगत्यर्थमुक्तम् । अत्रापि पूर्वपक्षादौ परमतं सिद्धान्तेन तन्निराकरणं च बोध्यम् । अधिकरणसंगतिः प्रसङ्गरूपेति च स्फुटिष्यति । 'स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः' इति वाक्यात् । तदिति परमतनिराकरणम् । तद्वदिति परमतवत् । नच शक्यताव- च्छेदकाननुगम इति शङ्क्यम् । दार्ष्टान्तिकान्वयानुरोधेन शक्यतावच्छेदकभेदाङ्गीकारात् । स एवेति एवकारेण परमतं तन्निराकरणं वा व्यवच्छिद्यते । सन्निहित इति । ननु सन्निहितत्व- स्यातिदेशकत्वं क्व सिद्धम् । पूर्वतन्त्रे तावल्लिङ्गात्साहश्यादीनामविदेशकत्वमुक्तमिति चेत्सत्यम् । त्यदादीनामुत्सर्गत्तः प्रधानपराम
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३ मनसो मुख्यत्वादेकवचनम् । उत्क्रान्तिगत्यागतीनामित्यारभ्य सर्वोपप- भाष्यप्रकाशः । इत्यर्थः । तर्हि कथमेकवचनप्रयोग इत्यत आहुः मनस इत्यादि । लिङ्गशरीरे तस्यैव प्राधा- न्यात् तथेत्यर्थः । ननु प्राणेषु वियदादिधर्मातिदेशे, 'स प्राणमसृजत' इति श्रुत्युक्तं सृज्य- त्वरूपं जन्यलिङ्गमतिदेशकम्, जीवधर्मातिदेशे किमतिदेशकमित्यत आहुः उत्क्रान्तीत्यादि । 'स यदाऽस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेत एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते । स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मा- दात्मनः प्राणा यथायतनं विप्रतिष्ठ
१५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० १ त्तिरत्रातिदिष्टा, चिदंशस्यापि तिरोभाव इति पृथङ् निरूपणम् । ननु तद्गुण- सारत्वाद्यः कथमुपदिश्यन्त इति चेन्न । सत्यम्, अस्ति तत्रापि, 'ये प्राणं ब्रह्मो- पासते' इति ॥ १ ॥ भाष्यप्रकाशः। तिदेशकत्वेनोपदिष्टेत्यर्थः । ननु सर्वोपपत्तिसाम्ये जीवधर्मातिदेशार्थादेव सिद्धेरिदं सूत्रं पूर्वपाद एव प्रणीतं स्यात् पृथक्पादान्तरे विचारस्य किं प्रयोजनमत आहुः चिदंशेत्यादि । तथाच जडत्वाद्वियदादितुल्यत्वं संभाव्येतेति तन्निवृत्त्यर्थं पृथग्विचार इत्यर्थः । अत्र जीव- साम्यमन्वानः पृच्छति नन्वित्यादि । ननु सर्वोपपत्तिमध्ये तद्गुणसारत्वतद्व्यपदेशौ गुणानां यावदात्मभावित्वमन्ये च धर्माः प्रविष्टास्ते च प्राणविषयका न प्रसिद्धास्ते कथमुच्यन्ते इत्यर्थः । अत्र समादधते नेत्यादि । अयं पर्यनुयोगो न कार्यः । बृहदारण्यके, 'प्राणा वै सत्यं तेषामेष सत्यम्' इति श्रुत्युक्तं सत्यमस्ति । तैत्तिरीये तत्र प्राणेष्वपि 'ये प्राणं ब्रह्मोपासते' इति व्यपदेशोऽस्ति । एवं षडाचार्यब्राह्मणे 'प्राणवाक्चक्षुःश्रोत्रमनोहृदयेषु प्राणो वै ब्रह्म वाग् वै ब्रह्म' इति व्यपदेशोऽस्ति । 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन इतरेण तु जीवन्ति रश्मिः। 'यत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः' इति । उदाहरणमपि 'यथा सर्वाणि भूतानि व्युच्चरन्तीत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते' इति । अस्माद्वयं पदघटितान्न्यायाद्भूयसां जीवधर्माणां स्वधर्मत्वविधानाज्जीवसमानधर्मातिदेशकत्वे- नोपपत्तिस्तथाशब्देन सूत्र उपदिष्टेत्यर्थः । यद्यपि धर्मवदुपपत्तिरतिदेष्टुं शक्या, तथापि धर्मेष्वति- दिष्टत्वं तथाशब्दे सौत्रेतिदेशकत्ववदुपदेशकत्वस्याप्यतिदेशकत्वाविरुद्धस्य वक्तुं शक्यत्वं मन्वानैरेव- मुक्तम् । एतदेवाशङ्कामुखेनाहुः नन्विति । सर्वोपपत्तीति प्राणस्य जीवसर्वोपपत्तिसाम्ये । जीवधर्मेति । न तूपपत्त्यतिदेशस्य । भाष्य उपपत्तिरतिदिष्टा धर्मातिदेशफलिका । अर्थादिति आक्षेपात् । एवकारेण पृथग्विचारो व्यवच्छिद्यते तदर्थम् । पूर्वेति जीवनिरूपणात् । एवका- रस्तु । 'अयमात्मा ब्रह्म' 'ये प्राणं ब्रह्मोपासते' इति श्रुत्योर्विरोधस्य परिहारेण पादार्थसंगतेः । तेन प्राथमिकतद्गुणसारत्वं समर्थितम् । वियदादीति आदिनाऽऽकृष्टम् । अन्य इति पुंस्त्वादि- सूत्रोक्ताः । प्रविष्टा इति अष्टमे पूर्वतन्त्रे हविर्गणाधिकरणे देवतासामान्यरूपं सादृश्यमतिदेशकमत्र धर्मैः सादृश्यरूपा सर्वोपपत्तिरित्येवं प्रविष्टा इत्यर्थः । उच्यन्त इति उपासनार्थमुपदेश्यत्वेन तथेति शब्देनोच्यन्त इत्यर्थः । उपदिश्यन्त इति भाष्ये उपदेशविषयाः क्रियन्ते यद्यपि तथाप्यन्यधातु- नापि विवरणदर्शनादुच्यन्त इति विवरणमुक्तम् । सत्यमन्त्रार्थाङ्गीकारे, नेत्याहुः । बृहदिति मूर्ता- मूर्तब्राह्मणे समाप्तौ । तेषामिति प्राणानाम् । सत्यमस्तीति सत्यमुपासनम् । सति साधुत्वात् । ननु प्राणानामेष सत्यमित्यत्रैतच्छब्देन समीपतरवर्त्युक्तः नोपासनमिति चेत्सत्यम् । तर्हि प्राणा वै सत्यमि- त्युक्तं सत्यमस्तु । प्राणानामुपासनं सत्यम् । 'आत्मानं रथिनं विद्धि' इत्युक्त्वा 'सदश्वा इव सारथेः' इत्युक्तेः । इन्द्रियेषु सत्त्वमुपासने साधुत्वं दैवीसंपत्त्वमिति यावत् । व्यपदेश इति तद्व्यपदेशः ब्रह्मत्वव्यपदेश इति यावत् । षडाचार्येति प्राणादयः षडाचार्याः । ननु मिताक्षरायां बृहदा- रण्यकटीकायां षडाचार्यकूर्चब्राह्मणमिति कथनाद्विरोध इति चेन्न । कूर्चब्राह्मणमेतस्मादग्रेऽस्ति तेन षडाचार्यकूर्चब्राह्मणमित्युक्तेः। सर्वान्तरगतानां गुणानां यावदात्मभावित्वं प्रपञ्चयन्ति स्म न प्राणेनेति । 1450
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५५ गौण्यसंभवात् ॥ २ ॥ ननु उत्क्रान्त्यादिश्रुतिर्गौणी भविष्यति । न । गौण्यसंभवात् । सा श्रुति- र्गौणी न संभवति । एकैव श्रुतिर्जीवे मुख्या प्राणे गौणीति कथं संभवति ॥ २ ॥ भाष्यप्रकाशः । यस्मिन्नेतावुपाश्रितौ' इति सर्वप्राणनरूपो ब्रह्मगुणः प्राणेऽस्ति । 'चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्' इति तेषां स्वकार्यक्षमत्वमपि ब्रह्मगुण एव तत्तदिन्द्रियेष्वस्ति । स एव च तेषु सारभूतो जडा- न्तरेभ्यो वैलक्षण्यसंपादकत्वात् । स च धर्मो यावत्स्थिति तेषु तिष्ठतीति कार्यबलादेवावगम्यते । इन्द्रियवधस्तु कार्याक्षमत्वमेव, न नाशः । पुनः शरीरान्तरेऽपि संनिधानात् । अतस्तद्गुणसार- त्वादयस्तत्रोपदिश्यन्ते इति न पर्यनुयोगावकाशः । तथाच जीवधर्माणां भूयस्त्वात् तेषामेवाति- देशो युक्तो न वियदादिधर्माणामित्यर्थः ॥ १ ॥ गौण्यसंभवात् ॥ २ ॥ अतिदेशमाक्षिपति नन्वित्यादि । ननु नित्यत्वस्याश्रवणा- दुत्क्रान्त्यागतिश्रुतिर्नाशोत्पत्तिपरतया सत्यत्वादिश्रुतिश्चोपासनापरतया गौणी भविष्यतीति न तासामतिदेशकत्वमित्यर्थः । अत्र समाधत्ते नेत्यादि । कुतः गौण्या असंभवो गौण्यसं- रश्मिः । एताविति प्राणापानौ । एतदुक्तं भवति आश्रयगुण एव प्राणापानयोरिति तदाहुः सर्व- प्राणेनेति । इति तेषामिति । श्रुत्युक्तप्रकारेण चक्षुःप्रकाशनसामर्थ्यमेवमादि व्यष्टिः । समष्टि- माहुः स्वेति । तत्स्थितीति तत्स्थितिमनातिक्रम्य यावत्स्थिति । तच्छब्देन कनीनिकादिकम् । कार्यबलादिति दर्शनादिबलात् । एवकारेणेच्छावादे औषधादिव्यवच्छेदः । इन्द्रियेति । वैलक्षण्याच्चेति वक्ष्यमाणसूत्रे स्पष्टः । मात्रापातसंभावनायां तु हीन्द्रियवेधो भेदाच्चेति सूत्रेऽस्ति । इदं च शांकरभाष्ये । असङ्गाद्ध्ये तु प्राणवदधिकरणेऽयं द्रष्टव्यः । यद्वा 'वेधाद्यर्थभेदात्' इत्यत्र द्रष्टव्यः । पुन- रिति जाग्रदवस्थायां शरीरान्तरेऽपि शरीरस्य क्षणिकत्वात् । अष्टमोपदेशे यत्र लीनानीन्द्रियाणि । तस्यानुप्रवेशे तु शरीरान्तरेऽपि । तद्गुणेति आदिना पूर्वोक्ता एव । कर्ता शास्त्रार्थवत्त्वाधिकरणोक्त- कर्तृत्वं तु नास्ति । इन्द्रियेषु न कर्तृत्वम् । तस्मादिन्द्रियादीनां करणत्वमेवेत्युपादानसूत्रभाष्यात् । अभ्युदयनिःश्रेयसफलकर्मकर्तृत्वं जीवानामेव बोध्यम् । तेनान्यविधकर्तृत्वं प्राणोस्तीन्द्रियाणि सन्ति । प्रश्नोपनिषदि 'प्राण उवाच मा मोहमापद्यथाहमेतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि' इति 'वाङ्मनश्चक्षुःश्रोत्रं ते प्रकाश्यमभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयाम' इत्यत्र न कर्तृत्वदोषः परात्तु तच्छ्रुतेः इत्यधिकरणं कर्तृत्वे प्रवर्ततेऽतो नात्र विचारणा 'अंशो नानाव्यपदेशात्' इत्यधिकरणे 'विस्फुलिङ्गा इवाग्नेर्हि जडजीवा विनिर्गताः' इत्यादिनांशत्वं प्राणानामप्युक्तप्रायम् । वियदादीति भाष्ये स्पष्टाः ॥ १ ॥ गौण्यसंभवात् ॥ २ ॥ तद्गुणसारत्वादीनप्रसिद्धान्विचायोत्क्रान्त्यादिषु किंचिद्विचारय- न्तीत्याशयेनाहुः अतीति सादृश्यम् । आक्षिपतीति उत्क्रान्त्यादिश्रुतिर्जीवे मुख्या प्राणे गौणीति सादृश्यं नास्तीत्याक्षिपति । जीवे तु श्रवणादिति भावः । उत्क्रान्त्यागतीति पाठः । नाश इति । उत्क्रान्तिर्नाशः । आगतिरुपत्तिः स्वप्नान्त आगतिर्नास्ति । सत्यत्वेति छान्दोग्यश्रुतिरुक्ता । गौणीति सिंहो माणवक इतिवत् सत्यत्वगुणयोगादित्यर्थः । 'प्राणा वै सत्यम्' इति प्राणेषु सत्यत्वम् । अतीति श्रुतिनिष्ठं सादृश्यं तत्प्रतिपाद्येष्वपि धर्मेषु । गौण्या इति न वियदधिकरणे गौणी, 1451
१५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० २ भाष्यप्रकाशः। भवस्तस्मात् । अत्र तथेति पूर्वस्मादनुवर्तते । एवमग्रेऽपि । तेन बुद्धिस्थहेतुशुद्ध्यर्थानि चत्वा- र्यग्रिमाणि सूत्राणीति फलति । असंभवं व्युत्पादयन्ति एकैवेत्यादि । स यदाऽस्मादित्यत्र द्वितीया । उत्क्रामतीति श्रुतिस्तु सर्वेषां सहभावं विधातुं पूर्वामेवोत्क्रान्तिमनुवदत्यतः पूर्वो- क्तैकैव श्रुतिर्जीवे मुख्या प्राणेषु गौणीति युगपद्वृत्तिद्वयविरोधान्न संभवतीति न तासामतिदेश- कत्वहानिरित्यर्थः । एतेनैव जीवे गौणी, प्राणेषु मुख्येति वदन्त एकदेशिनोऽपि प्रत्युक्ताः । वैरूप्यस्य तौल्यादिति बोध्यम् ॥ २ ॥ रश्मिः। असंभवादिति व्याख्यातम्, पूर्वपक्षसूत्रत्वात् । इह तु सिद्धान्तसूत्रत्वात्समासेन व्याकुर्वन्ति स्म गौण्या इति। तेने
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५७ तत्प्राक्श्रुतेश्च ॥ ३ ॥ जडत्वेनाधिकविचारोऽत्र क्रियते । सृष्टेः पूर्वमपि प्राणादीनां स्थितिः श्रूयते 'असद् वा इदमग्र आसीत् तदाहुः, किं तदसदासीदित्यृषयो वा व तेऽग्रे असदासीत् तदाहुः, के ते ऋषयः, प्राणा वा ऋषयः' इति । ननु 'सदेव सोम्ये- दमग्र आसीदेकमेवाद्वितीयम्' इति विरोध इति चेत् । न । स्वरूपोत्पत्तिरेवात्र भाष्यप्रकाशः। तत्प्राक्श्रुतेश्च ॥ ३ ॥ अत्रापि तथेत्यनुवर्तते । सूत्रप्रयोजनमाहुः जडत्वेनेत्यादि । जडानां भूतानां चिरस्थायित्वदर्शनात्तावतैव प्राणानामप्युत्क्रान्त्यादिः संभाव्यत इति तदभा- वाय प्राणानां नित्यत्वविचारः क्रियत इत्यर्थः । तमेवाहुः सृष्टेरित्यादि । श्रुतिस्तु वाजिनाम- ग्रिप्रकरणस्था । अत्र प्राणा
पि..." Wait, does it say "आरुण्यस्यैकहायन्या"? आ - रु - ण्य - स्ये - क - हा - य - न्या । Wait, look at line 23: "एकहायन्या इवारुण्येन ।" So line 22 has "आरुण्यस्यैकहायन्या ।"
Line : कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नञर्थेनान्वयायोगात् । एकहायन्या इवारुण्येन । अत
Line : एव प्राणैर्रनान्वेति । कारकोपसर्जनत्वात् । अतश्चान्यैरन्वयायोगान्नञर्थः प्रत्ययार्थेन संबध्यते । न Wait, "प्राणैर्रनान्वेति"? Look at: "प्राणै" then "र्" with "न" -> "प्राणैर्न" or "प्राणैर्रनान्वेति"? Look at the repha: there is a repha on 'र्न'? Wait, it is "प्राणैर्न नान्वेति" or "प्राणैर्नान्वेति"? It looks like "प्राणैर्नान्वेति": प्रा - णै - र्ना - न्वे - ति. Wait, let's look at: "प्राणैर्रनान्वेति" - there is a repha on 'र्ना': "प्राणैर्
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९ तस्यापि संपत्तिः श्रूयते स्थलान्तरे । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिर्विस्फुलिङ्गसदृशी ॥ ३ ॥ तत्पूर्वकत्वाद् वाचः ॥ ४ ॥ 'मनः पूर्वरूपं वागुत्तररूपम्' इति । 'तस्य यजुरेव शिर' इति । तथाच भाष्यप्रकाशः। एतस्मादित्यादि। तथा च विस्फुलिङ्गवाक्ये यथा व्युच्चरणं तथाऽत्र प्रादुर्भाव इति तत्सादृश्यम्। स्वरूपोत्पत्तेरपि विभागानन्तरभावित्वात् खाद्युत्पत्तेरपि न विरोधोऽतो न तस्या अपि पीडेत्यर्थः । विसर्गस्यापि विभागरूपत्वादयमेव न्यायः स प्राणमसृजतेत्यत्रापि द्रष्टव्यः । एतेन श्रुत्यविरोधप्रतिपादनरूपत्वादध्यायसंगतिरपि स्मारिता ज्ञेया ॥ ३ ॥ तत्पूर्वकत्वाद्वाचः ॥ ४ ॥ ननु सृष्ट्यादौ प्राणस्थितिश्रुतेरवान्तरप्रलये प्रागवस्थितप्रजापति- प्राणसत्ताप्रतिपादनेनाऽप्युपपद्यमानत्वान्न तथा प्राणनित्यत्वसिद्धिरिति शङ्कायामिदं सूत्रमाहेत्या- शयेन व्याकुर्वन्ति मन इत्यादि। पूर्वया श्रुत्या मनोवाचोः पूर्वोत्तरभावेऽन्यया च मनोमयस्य रश्मिः। तस्मात्प्राणा इत्यादिः श्रुतिः । प्रादुरिति जनी प्रादुर्भाव इति धातुपाठादिति भावः । तत्सादृश्यं जीवसादृश्यम् । विभागानन्तरभावित्वेन सादृश्यमाहुः स्वरूपेति अनिले जननरूपा । जीवे नित्ये परिच्छिन्ने समागमरूपाऽपिना गृह्यते । श्वादीति आदिना तादृशोऽन्यः । न पीति स्वरूपोत्पत्तित्वं स्त्रीपुंसयोरन्वयवत् सद्योऽविभागेपीति न विरोधः । एकदेशविकृतस्यानन्यत्वात् । विसर्गस्येति । 'विसर्गः पौरुषः स्मृतः' अपिशब्देन सर्गोऽपि । सर्गः कारणतत्त्वजन्मदो विभागः । तद्धेतूरुषविभागो विसर्गः । अयमिति विभागन्यायो व्युच्चरणरूपः । मध्वपादो संयोगन्यायः । मृत्पिण्डविभागस्यान्यथासिद्धत्वम्। 'इमामगृभ्णन्रशनामृतस्य' इत्यलौकिकं नान्यथा सिद्धं गर्दभरशनाग्रहणम् । स प्राणमिति । तथा च विस्फुलिङ्गवाक्ये यथा व्युच्चरणं तथाऽत्र विसर्ग इति तत्सादृश्यमिति भावः । द्रष्टव्य इति । मनोऽग्रे वाच्यम् । श्रुत्यपीति । असद्वा इदमित्यादीनां सदेव सोम्येत्यादिश्रुतीनां चाविरोधेत्यादिः । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुत्यविरोधेत्यादिर्वा । अध्यायेति प्रथमाध्यायेनाविरोधाध्यायस्य हेतुतासंगतिः प्रसङ्गो वेत्यर्थः । सदसत्त्वरूपविरुद्धधर्माश्रयत्वं प्राणेऽपु न तु सति प्राणे जगज्जन्मादिकर्तृत्वस्यातिव्याप्ति- रिति जन्माद्यधिकरणानिरोध इति । तेन न तृतीयपदार्थेऽसावातिव्याप्तिः ॥ ३ ॥ तत्पूर्वकत्वाद्वाचः ॥ ४ ॥ पूर्वसूत्रसंगत्या भाभासमाहुः प्राणेति । तथा च तथा- शब्दार्थसादृश्येऽसतो वैगुण्यमिलतिदेशकसद्भावरूपो हेतुरांशतः स्वरूपासिद्ध इति भावः । वाग्मनो- रूपप्राणयोर्नित्यत्वेन स्वरूपासिद्धयभावः फलिष्यति । अतो हेतुः शुद्धः । प्राणेन्द्रियेषु मनो मुख्यं वाक् नित्या वैयाकरणानामपीति मुख्यत्वात्ताभ्यां रूपाभ्यां प्रथमं निरूपणं कृतम् । आहेति तथा च भूयोघर्मान्तर्गतनित्यत्वं प्राणेपु पूर्वसूत्रोक्तमाश्रितं तेन च मनोवाचोर्नित्यत्वमाश्रिस- प्रायमेव मनस्त्वनिन्द्रियत्वपक्षेपि तेन च सादृश्यविरहात्सादृश्यार्थं पूर्वसूत्रज्ञेयोयमधिकविचार इति भावः । पूर्वयेति उक्तश्रुतिपूर्वया श्रुत्या । अन्यथेति अर्थक्रमवशेन । ऋक्सूक्तैः ॐ वेदः । इत्यार्थक्रमापेक्षा । एकरसत्वेन पूर्वोत्तरभावान्यन्याभावाभावात् । ततश्च मनोमयलक्षणमनः- १. रश्मौवाणीति प्रतीकम्स्ति । 1455
१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० ४-५ वेदानां स्वत उत्पत्त्यभावात् तत्पूर्वरूपमनसः कथमुत्पत्तिः ॥ ४ ॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्राम- न्ति' इति । इति पूर्वोक्तानां चक्षुरादीनाम्, 'अथारूपज्ञो भवतीत्येकीभवति न भाष्यप्रकाशः । वेदात्मकत्वे बोधिते मनोवाचोर्वृत्तिभेदादेव भेदो, न तु स्वरूपत इति सिद्धौ, निश्वसित- श्रुत्या, वाचा विरूप नित्ययेति श्रुत्या च वेदानां निश्वासरूपतया नित्यतया च स्वरूपत उत्पत्त्य- भावादुद्गममात्रमेव । तथा सति तत्पूर्वरूपस्य मनसः कथमुत्पत्तिः संभवति । तस्मान्न तस्याप्यु- त्पत्तिः किंतुद्गममात्रमेवातस्तयोर्नित्यत्वसिद्धिरित्यर्थः । नन्वेवं भगवन्मनोवाचोर्नित्यत्वे जैवानां कथं नित्यत्वसिद्धिरिति चेद् उच्यते । तद्व्यष्टित्वात् सिद्धिरिति । अत एवाग्रे 'श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निश्वसितानि' इत्युक्तम् । इदमेव चैकाद- शस्कन्धे 'स एष जीवो विवरप्रसूतिः' इत्यादिश्लोकत्रये स्फुटम् । अत एवाचार्यैरपि निबन्धे । 'अस्मदादिमुखेनापि क्रीडार्थं सर्वतो हरिः । शब्दभेदं वितनुते रूपेष्विव विनिश्चयः' ॥ इत्युक्तम् ॥ ४ ॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ एवं प्राणमनोवाक्त्वतिदेशिकाया उपपत्तेः सिद्धावपि चक्षुरादिषु न सा स्फुटेत्यतस्तदर्थं हेत्वन्तरं वदतीत्याशयेन व्याकुर्वन्ति तमित्यादि । एवाभ्यां रश्मिः । प्रचुरत्वाभावाच्चात्र ओङ्काररूपाया मनोमयत्वाभावे न श्रुतिविरोधः । अन्त्येनेति पाठे बोधित इत्य- नेनान्वयः । श्रुत्या बोधित इति पूर्वपाठेऽन्वयः । वृत्तीति । एवकारस्तु पूर्वोत्तरभावबोधकमाध्व- श्रुत्या 'एकादशामी मनसो हि वृत्तयः' । 'वाचोभिधायिनी नाम्नाम्' इति वाग्व्यापारोभिधा । एवेति श्रुतिमतत्वात् । संभवतीति । एतच्च प्रथमस्य तृतीये तदुपर्यपीत्यधिकरणे शब्द इति चेन्नातः प्रभवादिसूत्रेषु ह्युपपादितम् । तथा च स्वरूपलक्षणे सत्यं मनः 'तस्मात्केनाप्युपायेन' इति वाक्यात् । 'तन्मनोऽकुरुत' इति बृहदारण्यकाच्च । ज्ञानं ब्रह्म 'ज्ञानमात्रं परं ब्रह्म' इति वाक्यात् । गीतोक्तं ज्ञानं स्वयंप्रकाशं गोकुलाष्टके स्पष्टम् । तदुक्तमात्मबोधोपनिषदि । 'अनन्तं वाक्' । 'अनन्ता वै वेदा' इति श्रुतेः । एवेति । स्वरूपलक्षणे प्रयोक्तेः । एवकारेण जननरूपो- त्पत्तिर्व्यवच्छिद्यते । तयोर्मनोवाचोः । वैदिक्यां शब्दसृष्टौ नित्यत्वमुपपाद्य तद्विभागायां रूपसृष्टावपि प्रसङ्गात्कर्ता शास्त्रार्थवत्त्वादित्यधिकरणोक्तरीत्या जैवानां पृच्छति नन्वेवमित्यादिना । यतो व्यष्टित्वे- नाविद्वद्दशायामपि न भेदोतोऽग्रे मैत्रेयीति ब्राह्मणे उभयपरत्वेन श्लोका इत्यादिः । स्फुटमिति । जीवयतीति जीवः परमेश्वर इति श्रीधरं व्याख्यानम् । रूपेष्विति रूपेषु भेदमिव ॥ ४ ॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ एवं प्राणेति । प्राणत्वं सामान्यं मनस्त्वं वाक्त्वं च विशेषजातिः । अतिदेशिकाया इति अतिदेशकत्वं तथाशब्दस्य सौत्रस्योक्तम् । व्यापारस्या- नैकविधत्वेनोत्क्रान्त्यादिवाक्यचक्षुष्टत्त्वेरप्यतिदेशकत्वम् । 'तथा प्राणः' इति सूत्रभाष्यीयसर्वो- पपत्तिपदव्याख्याने व्याकृतोपपत्तिः । स्फुटेति गतसूत्रे प्राणनित्यत्वमाश्रित्य प्राणमनोवाक्षु प्रसाधितम्, अन्येषु विशेषरूपेण चक्षुरादिप्राणेषु न प्रसाधितेत्यस्फुटा । हेत्वन्तरमिति । प्राणः 1456
पश्यतीत्याहुः' इत्यादिभिर्जीवगतिः सप्तानां गतिभिर्विशेष्यते । सप्तगतयस्तेन विशेषिता एकीभवतीति । अतो जीवसमानयोगक्षेमत्वाज्जीववत्तुल्यतेति । भाष्यप्रकाशः। वाक्याभ्याम् । अथारूपज्ञ इत्यादिषु पूर्ववाक्येषूक्तानां चक्षुरादीनां सप्तानां मुख्यप्राणगत्युत्तरं गतिरुच्यते । सा सप्तगतिः । यद्यपि पूर्ववाक्येष्वष्टावुक्तास्तथापि मनोबुद्ध्योर्हृदिभेदोऽन्तःकरण- त्वेनैक्यमतः सप्तत्वमिति सप्तगतिः । किं च 'तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा' इत्यादिना उत्तरवाक्येन वक्ष्यमाणा या जीवगतिः सा, अथारूपज्ञ इत्यादिषु पूर्ववाक्येषु सप्तानां गतिभिर्विशेष्यते एकीभवतीति सप्तगतयो वा तेन जीवगमनेन विशेषिता एकी- भवतीति विशेषितत्वम् । अतः अनश्वरभावस्याजन्यत्वेन तथेत्यर्थः । चकारसूचितं हेत्वन्तर- रश्मिः। अतिदिष्टधर्मवान्, अतिदेशकसद्भावात्, प्रकृतिवद्विकृतिः कर्तव्येतिवत् । इत्यत्र हेतावतिदिष्टधर्मेषु चक्षुरादिचेतनतुल्यत्वमस्फुटमित्यप्रसिद्धातिदेशकसौत्रतथापदैकदेशतः स्वरूपासिद्धिरतो हेत्वन्तरं सूत्र- रूपं वदतीत्यर्थः । वाक्याभ्यामिति 'एकतिङ् वाक्यम्' इति वाक्यलक्षणम् । श्रुतयः शारीरक- ब्राह्मणस्थाः । इत्यादिष्विति । 'अथारूपज्ञो भवत्येकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुः' इत्येतासु । मनो- बुद्ध्योरिति । न विजानातीत्याहुरित्यरूपां अथाज्ञानज्ञो भवतीति पूर्वानुसारेण संभवादुद्विलाभः । वृत्तीति । एकस्या मननात्मिका द्वितीयस्याः विज्ञानात्मिका । न मनुते न विजानातीति श्रुतिभ्याम् । उत्तरेति एकार्थीभावाद्रेफमाश्रित्य णत्वम् । वक्ष्यमाणेत्यत्र टिड्ढाणञित्यनेन ङीप्भावः स्त्रीप्रत्यये सिद्धान्तकौमुद्यां साधितः । गतिभिरिति निरुक्ताभिः । विशेष्यत इति सप्तगतिवाक्यानां तस्य हैतस्येति महावाक्यस्य च या हेतुतासंगतिस्तत्रोपसंहारं जैवमुक्त्योच्यते तस्य हैतस्येत्युक्तक्रम- व्यापार इति हेतुता तथा विशेष्यविशेषणीभावः । तथाहि । तस्य लिङ्गोपाधिकस्य ह एतस्य प्रकृत- सोपसंहृतकरणस्य मुमूर्षोर्हृदयस्याग्रं हृदयाग्रं नाडीमुखं प्रद्योतते स्वप्न इव चैतन्यज्योतिषा, प्राप्यदेहविषयबुद्धिवृत्त्यात्मना प्रकाशते तेन प्रद्योतेन प्रद्योतित एष लिङ्गोपाधिक आत्मा निष्क्रामति निर्गच्छतीत्ययं जैवमुपसंहारमपेक्षते यत इति । कथं विशेष्यत इत्यत आहुः एकीभवतीति । चाक्षुषैक्यवानरूपज्ञः शारीर आत्मैवेनं विशेष्यत इति भावः । 'स यत्रैष चाक्षुषः पराङ् पर्यावर्ततेऽ- थारूपज्ञो भवत्येकीभवति' इति श्रुतेः । सप्तेति भाष्यं विवृण्वन्ति स्म सप्तेति । चेत्यवधारणे । अत्र पूर्वं जीवगतिः सप्तानां गतिभिर्विशेष्यते विशेष्यं क्रियत इति भाष्ये उक्तम् । एवं च विशेष्यपरा- मर्शकस्तच्छब्दस्तथा च भाष्ये तेनेत्यस्य विशेष्येणेत्यर्थः । तदाहुर्जीवगमनेनेति विशेष्यानुकूलं पदम् । तेनेति सामान्ये नपुंसकं वा । जीवगत्येत्यर्थः । विशेषिता इति विशेषणं विशेषः तदिताः । तारकादिभ्य इतच् । तारकादिराकृतिगणः । विशेष्यन्ते विशेषणीक्रियन्त इति विशेषिताः कर्मणि क्तः । यद्यपि विशेष्यत इति विशेषः क्रियत इत्येवार्थस्तथापि विशेषो विशेष्यरूपो विशेषण- रूपो वेत्यविशेषः । एकीभवतीति प्राणैक्यवान् शारीर आत्मन्येकीभावः । न जिघ्रतीत्या- हुरेकीभवतीत्याद्युक्तश्रुतिभ्यः । एतदेवाहुः विशेषितत्वमिति प्राणैक्येन शारीरात्मनो विशे- षितत्वं । शारीर आत्मा विशेष्यत इति कर्मणि क्तः । अत इति भाष्यं विवृण्वन्ति स्म अत इति । ३१ ब्र० सू० २० | 1457
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण है:
१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० ५ चकारात् तत्तदुपाख्यानेषु चक्षुःप्रभृतीनां देवतातत्वं संवादश्च । अतश्चेतन- तुल्यत्वम् ॥ ५ ॥ इति द्वितीयाध्याये चतुर्थपादे प्रथमं तथा प्राण इत्यधिकरणम् ॥ १ ॥ भाष्यप्रकाशः। प्राहुः चकारादित्यादि । तत्तदुपाख्यानेष्विति व्रतमीमांसाप्रभृतिषु । चेतनतुल्यत्व- मिति । स्वरूपतोऽचेतनत्वात् । 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' इति धर्मरूपज्ञानस्य श्रावणाच्च चेतनतुल्यत्वम् । एवमत्र प्राणपदवाच्यानां जीवतुल्यत्वं समर्थितम् । एतच्च सूत्रस्थो- रश्मिः। अत अनेत्यादिः स्मार्तः प्रयोगः । तथेत्यस्य पञ्चम्या लुका जीवसमानयोगक्षेमत्वादित्यर्थः । तत्रापि ह अत इति सार्वविभक्तिकस्तसिरिति तृतीयान्तेन विवरणमन्ध्वेत्यादि । जीवसमान- योगक्षेमत्वं चक्षुरादीनामजन्यत्वेनानश्वरभावत्वेन व्यासेर्वागादौ सिद्धा चक्षुरादिष्वप्युक्ताजन्यत्वे- नानश्वरभावत्वसिद्धिः । चक्षुरादिः अनश्वरभावः, अजन्यत्वात्, वागादिवदिति । यद्वा सिद्धमूर्त्तुः अत अनश्वरेत्यादिना । इदं वाक्यमतपसा भाष्यीयशब्दानुकरणं वा (प्रातिशाख्यप्रसाध्यमपि) अनश्वरभावस्य चक्षुरादिरूपस्यायारूपज्ञो भवतीत्यादिश्रुत्युक्तसाजन्यत्वेन तथानित्यत्वमित्यर्थः । अत्र मनु चक्षुरादिर्नातिदेशसद्भाववाननित्यत्वाद्वटवदित्यनुमानेन हेतोरतिदेशसद्भावरूपस्य स्वरूपा- सिद्धत्वमिति चेन्न चक्षुरादिर्नित्यः सप्तगतेर्विशेषितत्वात् । यन्नैवं तन्नैवं घटादिवदित्यनुमानेना- नित्यत्वस्यैव हेतोः स्वरूपासिद्धत्वात् । ततश्च चक्षुरादिस्तस्यातिदिष्टधर्मवानतिदेशसद्भावात्प्राणा- दिवदिति बुद्धिरथो हेतुः शुद्ध इत्येवमत्रापि तथेत्यनुवर्त्य सूत्रार्थो योजनीयः । तेन जीवसमानधर्मत्वं प्राणेषु प्रसाधनाय गौण्यसंभवसूत्रे उत्क्रान्त्यादिवाक्येष्वतिदेशकत्वं प्रसाध्य साध्यमतिदेशकत्वे नियामक मित्यतिदेशनियामकसिद्धयर्थं त्रिषु सूत्रेषु प्राणादीनां नित्यत्वमसद्भावत्साध्यर्थम् । यद्यपि 'तथा प्राणः' इत्यत्र प्रकाशेऽतीतपादान्तेऽष्टानियमेन परमतं निराकृतम् । यद्यपि तत्सन्नि- हितमित्यादिना सन्निहितत्वस्यातिदेशनियामकत्वं प्रोक्तम् । तथाप्युपलक्षणविधया पूर्वमीमांसो- क्तमप्युक्तं साध्यादि ह्यतिदेशनियामकम् । यद्वा सन्निहितमतिदेशकं परत्र साध्याद्यसमा- नाधिकरणमतः पूर्वमीमांसामुपायिरमदृस् । चकारेति पुनरर्थकश्चकारः समुच्चये वा । अतोऽति- देशकसद्भावरूपो हेतुः शुद्धः । अत उक्तं चकारसूचिमिति हेत्वन्तरं जीवतुल्यतायाम् । व्रतेति बृहदारण्यके सप्तान्नब्राह्मणेऽस्ति व्रतमीमांसा । 'अथातो व्रतमीमांसा प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्यहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्य- हमिति श्रोत्रमित्येवमन्यानि कर्माणि यथा कर्म' इति श्रुतेः । प्रभृतिशब्देन तृतीयस्कन्धेन्द्रियप्रसङ्गः संगृह्यते । तथाचायं सूत्रार्थः । जीवगतिः सप्तानां गतिः सप्तगतिस्तस्याः, एकत्वम- विवक्षितम् । हेतौ पञ्चमी न तु ल्यब्लोपांदाविति । सप्तानां गतिभिर्विशेष्यत इति विशेषिता तस्या भावः विशेषितत्वम् । टापो हस्वः पञ्चमीति । नन्वेतस्य सूत्रस्योत्तराधिकरणे संबन्धेऽतिदेशक- सद्भावरूपस्य हेतोः स्वरूपासिद्धत्वमक्षुण्णम् । सूत्रस्य नित्यत्वासाधकत्वेनानित्यत्वेन चक्षुराय- सादृश्यांशतः सौत्रतथाशब्दार्थसादृश्याभावे हेतुघटकातिदेशकसूत्रांशांशाभावात् । ततश्चक्षुरादौ सादृश्याद्यभावाहितातिदिष्टधर्मवत्त्वाभावेन 'तादृशधर्मवत्त्वं प्राणेतिदिश्यति' इत्यादि सूत्रभाष्याक्तप्रतिज्ञाया न्यूनता । एतदनुरोधेन पूर्वाधिकरणमात्रशेषत्वे तु गौण्यसंभवसूत्रीये तेन बुद्धिरूद्वेतुशुद्ध्यार्पानी- 1458
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६३
केचिदिदं सूत्रमुत्तरसूत्रपूर्वपक्षत्वेन योजयन्ति। तत्रायमर्थः। ते प्राणाः कतीत्याकाङ्क्षायां, 'सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः'। 'अष्टौ ग्रहा अष्टावतिग्रहाः' इति। 'सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ' इति। 'नव वै पुरुषे प्राणा नाभिर्दशमी'। 'दश वै पशोः प्राणा आत्मैकादशः' इत्येवमादिषु
भाष्यप्रकाशः।
चराधिकरणे संबन्धे तु, एते हेतवो व्याख्यातरीत्या उत्सूत्रमेव बोध्याः। तेन न कापि न्यूनता। अत्र सर्वेऽपि वियदाद्यतिदेशमङ्गीकृत्य इन्द्रियाणामुत्पत्तिं वदन्ति। सन्निहितजीवाति- देशानङ्गीकारे तु केचन जीवस्यानुत्पत्तिराख्याता, प्राणानां तूत्पत्तिराख्येयासीदित्यसंबद्धत्वं हेतुं वदन्ति। अपरे तु, उत्पत्त्यनुत्पत्तिबोधकयोः श्रुत्योः सद्भावेऽप्युत्पत्तिबोधकश्रुतीनां भूयस्त्वात् पूर्वतन्त्रे च 'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्वम्' इति निर्णयं हेतुमाहुः। अन्ये तु, असद्वेति वाजिश्रुतिमपि ब्रह्मपरत्वेन व्याकुर्वन्तः, प्राणा वा ऋषय इति बहु- त्वश्रुतिं च गौणीं वदन्तः, 'सदेव सोम्य' इति श्रुतेर्ब्रह्मातिरिक्तस्य प्रागवस्थानासम्भवमेव हेतुमाहुः। इतरे तु, 'एतस्माज्जायते प्राण' इति श्रुतिमेव हेतुमाहुः।
रश्मिः।
त्यादिभाष्यविभागे न्यूनतेलाकाङ्क्षायामाहुः एतस्येति। संबन्ध इति पूर्वपक्षत्वेन हेतुतासंबन्ध इत्यर्थः। सिद्धान्तपूर्वपक्षयोर्हेतुतासंबन्धात्। हेतव इति गौण्यसंभवादयः सूत्ररूपाः। उत्सूत्र- मिति सूत्राणि विहायोपरिष्टात्कर्तव्याः। उद् अधिकाः समीपे सूत्राणां बोध्याः। 'अव्ययं विभक्ति समीप' इति सूत्रेणाव्ययीभावः। कृष्णस्य समीपमुपकृष्णमितिवत्। तत्समृद्धौ वा, मद्राणां समृद्धिः सुमद्रमितिवत्। एवेति भाष्यादेवकारः। न्यूनतेति भाष्यभाष्यविभागयोर्न्यूनता। वियदादीति। यथाहुः शंकरभाष्ये। यथातीतानन्तरपादाद्युक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधि- गतास्तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यमिति सूत्रार्थ इति। केचनेति शंकराचार्याः। आख्येति आसमन्तात्कथयितुमिष्टा। अपर इति भास्कराचार्याः। उत्पत्तीति यथाहुः या पुनरस्मिन्प्रकरणश्रुतिः सा मुख्यार्था न। कथमवान्तरप्रलये सृष्टिसाधनानां शर्करादीनां सृष्टिर्वक्तव्येति तदर्थोऽसावुपक्रमः। तत्राधिकारी पुरुषः प्रजापतिरविनष्ट एव। त्रैलोक्यमात्रं प्रलीन- मतस्तदीयान्प्राणानालोक्य श्रुतिः प्रवृत्तेत्यनुत्पत्तिबोधकश्रुत्यविरोधः। अनुत्पत्तिबोधिका श्रुतिस्तु तत्प्राक्छ्रुतिसूत्रे उक्ता। उत्पत्तिबोधिकाः श्रुतयस्त्वेवमुदाजह्रुः। 'पुरुष एवेदं विश्वं कर्मतपोब्रह्म- परमामृतम्' इति 'ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इति। 'आत्मनो दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्' इति। 'उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति' इति यदा मुख्यार्थसंभवेऽपेक्षितार्थत्वेनान्यार्थ- कल्पनमयुक्तमिति। हेतुमिति जीवातिदेशानङ्गीकारे हेतुम्। अन्य इति रामानुजाचार्याः। असद्वा इदमित्यस्मिन्प्रकरणस्था तत्तच्छ्रुतिसूत्र उक्ता। व्याकुर्वन्त इति। यथाहुः असद्वा इदमग्र आसीदित्यादिवाक्येष्वपि 'प्राणशब्देन परमात्मैव निर्दिश्यते' इति तथा प्राण इति सूत्रे। गौणी- मिति। यथाहुः सूत्रद्वयमेकीकृत्य सर्वैः प्राणा इति बहुवचनश्रुतिर्गौणी बह्वर्थासंभवाद्ब्रह्मण एकत्वे-
Here is the line-by-line transcription of the page into Unicode Devanagari Markdown:
नानासंख्या प्राणानां प्रतीता। तत्र श्रुतिविप्रतिषेधे किं युक्तमिति संशये सप्तै- वेति प्राप्तम्। कुतः। गतेः। सप्तानामेव गतिः श्रूयते। 'सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त' इति। किंच। विशेषितत्वाच्च जीवस्यो- त्क्रमणसमये सप्तानामेव विशेषितत्वम्। अन्ये तु पुनरेतेषामेव वृत्तिभेदाद् भेदा इत्येवं प्राप्ते उच्यते। भाष्यप्रकाशः यत् सर्वमरोचिष्णु। श्रुत्या व्युच्चरणस्य जीवप्राणादिसाधारण्येनोक्तत्वात् तस्य स्वरूपो- त्पत्तिरूपत्वाभावेन तैत्तिरीये, 'तोयेन जीवान् व्यससर्ज भूम्याम्' इति जीवेऽपि केवलविसर्ग- भाषणात् तस्यापि पृथक्करणरूपतया व्युच्चरणानतिरेकेण जीववत् प्राणानामप्युत्पत्त्यभावाज्जीववत् प्राणानामनुत्पत्तेरेवाचिन्त्यत्वासित