भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिबृंहितम् । ३१९

सैव हि सत्यादयः ॥ ३८ ॥ (३-३-१३.) अथेदं विचार्यते। प्राप्तभक्तेः पुरुषस्य सत्यशमदमादयो विधीयन्ते, न भाष्यप्रकाशः। सकलशास्त्रव्याकुलीकरणानौचित्यस्य प्रागेवोक्तत्वाच्चेति । रामानुजाचार्यास्तु । 'सर्वं खल्विदं ब्रह्म', 'ऐतदात्म्यमिदं सर्वं तत्त्वमसी'त्यवगतसर्वा- त्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनार्थमपूर्वं किञ्चिदस्ति, तत्तु वक्ष्यति 'आत्मेति तूपगच्छन्ति ग्राहयन्ती'ति । नच सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानं जीवे च ब्रह्मत्वानुसन्धानं तथ्यं सम्भवति । तस्मादनादरणीयं तन्मतमित्याहुः । तदपि युक्तमेव । एतस्मिन्नधिकरणे वैराग्यतपःसमाधिपरिप्राकसिद्धस्य ब्रह्मात्माभेदज्ञानस्य भक्तिमार्गीयव्य- भिचारिभावतानिरूपणेन ब्रह्मभावप्राप्यवबोधकं पीतकौशाम्बरेण च विदितमिति विशेषणं प्रतिपादितं ज्ञेयम् । ज्ञानमार्गाणां तावतैव ब्रह्मभावात्मकफलसिद्धेरिति ॥ ३७ ॥ इति द्वादश- मन्तराभूतग्रामवदित्यधिकरणम् ॥ १२ ॥ सैव हि सत्यादयः ॥ ३८ ॥ फलतो भक्त्युत्कर्षं साधयित्वा साधनतोऽपि तत् रश्मिः। तदपेक्षया तदंशे तच्छब्दलक्षणेत्येवं एकदेशं तदिति अभेदसम्बन्धः। सकलशास्त्रेति । 'ऐतदात्म्यमिदं सर्व'मित्यादिवेदशास्त्रेत्यर्थः। तन्मूलान्यन्यशास्त्राणीति सकलशब्दः। प्रागेवेति । द्वितीयाध्याये तदनन्य- त्वाद्यधिकरणे । सर्वात्मेति । सर्वस्मिन्नात्मभावः सर्वात्मभावः । तद्विषयत्वात् । अस्येति । उक्तैतरेय- वाक्यस्य जाबालवाक्यस्य च। अपूर्वमिति । 'सर्वं खल्विद'मित्यादिप्रतिपादितं पूर्वं न भवतीत्यपूर्वम् । वक्ष्यतीति। फलाध्याये। तन्मतं पूर्वमतम्। षोडशाधिकरणप्रतिपाद्यमाहुः एतस्मिन्निति । 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजये'दिति भक्त्यनन्तरं योगसूत्रसिद्धमाहुः वैराग्येत्यादि । 'जन्मौ- षधिमन्त्रतपःसमाधिजाः सिद्धय' इति। तेन साधनसिद्धमभेदज्ञानमुक्तम्, न तु शाब्दज्ञानेनापरोक्षम् । ब्रह्मभावेति । अक्षरज्ञानप्राप्यवबोधकं सात्त्विकत्वेन सगुणाक्षरज्ञानप्राप्यः पीतकौशाम्बरो भाति । पीतकौशाम्बरं माया। गोपालतापनीये 'माया पीताम्बर'मित्युक्तम् । अत्र ब्रह्मभावानन्तरं भगवद्भावो ज्ञेयः 'अक्षरधिया'मिति सूत्रादनुवृत्तः। तेन पीतकौशेयाम्बरो विषयो नास्थूलादिमात्रश्रुतिविषयोऽक्षरः । ब्रह्मभावेत्यत्र ब्रह्मभावेन प्राप्यत्वं ब्रह्मभावप्राप्यत्वं तस्य बोधकमिति करणतृतीयासमासः । ननु क्वचिद्ब्रह्मभावविषयत्वमक्षरस्य क्वचित्पीतकौशेयाम्बरस्येत्यत्र व्यवस्थामाहुः ज्ञानमार्गाणामिति । मार्ग- भेदाद्व्यवस्थेति भावः । तावता अक्षरज्ञानमात्रेण । ब्रह्मभावत्वेनाक्षरात्मकत्वेन कार्यकारणभावादेवकारः। ब्रह्मभावस्य भगवद्भावद्वारत्वे तु पीतकौशेयाम्बरस्य ब्रह्मभावस्य सगुणत्वादितिभावः । अत्र सुबोधिनी । 'पीतं कौशं कौशेयं यदम्बरं तेन च विदितम् । अनेन ब्रह्मभावेपि ज्ञानमङ्गमिति तदेव विशेषणमाह पीतमिति। अहन्ताममताभावः। रूपत्रये शुक्ले पीतान्तर्भावात् । अहन्ताममता कृष्णा मायाकार्यत्वेन तमोरूपत्वात्तमसश्च नीलत्वात् । कौशमिति कुशसम्बन्धिनो यमनियमादयः । अम्बरमित्यवस्थापरित्यागेन निर्लेपता। एतानि ब्रह्मभावे ज्ञानसाधनानि । 'वैराग्यं च तपश्चैव समाधिरिति साधनम्' । एकमेवैतन्न प्रत्येकपर्यवसायि । चकारोऽनुक्तसमुच्चयार्थः । सर्वफलरूपो भगवानित्यर्थ' इति । अत्रालौकिकं व्याख्यानं भगवतोऽलौकिकत्वात् ॥ ३७ ॥ इति द्वादशमन्तरा भूतग्रामवदित्यधिकरणम् ॥ ११ ॥ सैव हि सत्यादयः ॥ ३८ ॥ फलत इति । ब्रह्मभावस्याक्षरं तद्भावस्य पुरुषोत्तम इति । 1875

३४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १३ सू० ३८.

वेति। फलोपकार्यान्तरङ्गसाधनत्वात् शुद्धौ सत्यामेव चित्ते भगवत्प्रादुर्भावसम्भ- वात् विधीयन्त इति पूर्वः पक्षः। तादृशस्य ते न विधीयन्त इति सिद्धान्तः। तत्र हेतुमाह। हि यस्माद्धेतोः, सैव भक्तिरेव सत्यादिसर्वसाधनरूपा। तस्यां सत्यां सत्यादयो ये ज्ञानमार्गे विहितत्वात् कष्टेन क्रियन्ते मुमुक्षुभिः, ते भक्तहृदि भगवत्प्रादुर्भावात् स्वत एव भवन्तीति न विधिमपेक्षन्त इत्यर्थः ॥ ३८ ॥

भाष्यप्रकाशः। साधयतीत्याशयेनाधिकरणं वदन्तोऽवतारयन्ति अथेत्यादि। यथा 'सत्यं परं पर५सत्य'मित्यादौ ज्ञानार्थम्, यथाच 'शान्तो दान्त' इत्यादौ ज्ञानोत्तरं सत्यशमदमादयो विधीयन्ते, तथा प्राप्तभक्तेः पुरुषस्य भक्त्युत्तरं ते विधीयन्ते, न वेति संशये, फलोपकार्यान्तरङ्गसाधनत्वात् फलस्य भगवत्प्रा- प्तेरुपकारी मुख्यं साधनं भगवदाविर्भावः, तस्यान्तरङ्गा चित्तशुद्धिः, तस्याः साधनानि सत्यादीनि, तस्मात्। एतदेव विवृणोति शुद्धौ सत्यामेव चित्ते भगवदाविर्भावसम्भवादिति । अतो यथा सम्परायाधिकरण उपन्यस्तैर्वाक्यैर्भक्तेः पूर्वं ते विधीयन्त इत्युन्नीयते, तथा भक्त्युत्तरमपि ते विधीयन्ते इति पूर्वपक्षः । तादृशस्य प्राप्तभक्तेस्ते सत्यादयो न विधीयन्ते, 'भक्त्या त्वनन्यये'ति वाक्ये अन्यसाधननिरपेक्षयैव भक्त्या ज्ञानदर्शनप्राप्तीनामुक्तत्वात् तयैव संसिद्धेरिति सिद्धान्तः । तत्र सिद्धान्ते युक्तिमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति हीत्यादि। 'यत् कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि । सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे'ति । 'धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति ही'ति च एकादशे भगवद्वाक्यात् सैव भक्तिरेव सर्वसाधनरूपा। अतस्तथेत्यर्थः ।

रश्मिः। साधनत इति । ज्ञानमार्गे साधनानि सत्यशमदमादीनि । ज्ञानानन्तरमनुवर्तनात् । वेदान्तशब्दस्तु प्रमाणं न साधनम् । प्रमाणावगतसाधने प्रवर्तते यतः । अतः सत्यशमदमादिभिः शाब्दापरोक्षं तद्वन्न भक्तिमार्गे, न सत्यशमदमादयो भगवद्रूपे फले साधनम्, किन्तु भक्तिरेवेति साधनतः सत्यशमदमादि- तोपि। तत् उत्कर्षम्। तदित्यव्ययम् । भक्त्युत्कर्षम्। तत्स्वरूपत्वं भक्तेः, न तु भक्तिरूपत्वं सत्यशम- दमादीनां ज्ञानसाधनत्वेप्यत्रेत्येवं साधनतोपि तत्साधयतीत्यर्थः। यथेत्यादि विचारो यथेत्यर्थः। भाष्य- सूचितं विषयवाक्यमाहुः सत्यं परमिति । इदं विषयवाक्यम् । 'सदेव सौम्येदमग्र आसीत्' 'सत्यं परं धीमहि' 'सत्यव्रतं सत्यपरं त्रिसत्य' मित्यादिषु सत्यज्ञानानन्तेषु सत्योपादानात् । अन्ययोरुपलक्ष्य- त्वात् । 'शान्तो दान्त' इति शारीरब्राह्मणेस्ति । 'अणुः पन्था विततः पुराणः' इति द्वितीयाध्याये भोक्त्रा- पत्तिसूत्रेऽणुः पठितः । महत् उपासनमाह । तथा चोपक्रमः । 'विरजः पर आकाशात् अज आत्मा महान्ध्रुवः' । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' । 'नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि त'- दिति । उपसंहारश्च 'स वा एष महानज आत्मा अजरोऽमरोऽमृतो ब्रह्माभयं वै ब्रह्माभयं ५ ह वै ब्रह्मा भवती'ति । ज्ञानोत्तरमिति । 'तस्मादेवंविच्छान्तो दान्त' इति पाठाद्विदो विशेषणीभूतज्ञाना- नन्तरम् । यतो वेत्तीति वित् ज्ञानानुकूलव्यापारवान् । ज्ञानं च साधनचतुष्टयसाध्यमिति विषयश्रुतौ सत्यशमदमादयः ज्ञानोत्तरं पूर्वं वा विधीयन्ते, तथा ज्ञानशब्दस्य भक्तिपरत्वे प्राप्तभक्तेर्भक्तेः पूर्वं स्वतःसिद्धसत्यशमदमादयो भक्त्युत्तरं विधीयन्ते न वेति संशय इत्यर्थः । फलेतिभाष्यं विवृण्वन्ति स्म फलेति । त इति । तर्तव्यपापादयः । त इति । सत्यशमदमादयः । तादृशस्येतिभाष्यं विवृण्वन्ति स्म तादृशस्येति । युक्तिमिति हेतुशब्दार्थः । अतस्तथेति । सैव भक्तिरेव सत्यादिसर्वसाधनरूपा ।


१. भगवदाविर्भाव इति प्रकाशपाठः ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३४१ भाष्यप्रकाशः । अत्र शाङ्करभास्कराचार्यौ, इदमेकसूत्रमधिकरणमङ्गीकृत्य, बृहदारण्यकोपान्ते, 'स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मे'त्युपक्रम्य, 'जयतीमान् लोका'निति फलमुक्तम् । अग्रे च 'आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्ते'ति प्रकृत्यानन्तरमुच्यते, 'तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषः, यश्चायं दक्षिणेक्षन् पुरुष' इत्यादि, ततो 'हन्ति पाप्मानं जहाति चे'ति फलमुच्यते, तत्र फलभेदाद्विद्याभेद इति प्राप्ते, सैव पूर्वोक्तेवेयं विद्या, द्विर्हेतौ, सत्यादयः पूर्वप्रकृता एवात्र 'तद्यत्तत्सत्य' मित्यनेन परामृश्यन्ते । स्थानविशेषसम्बन्धाच्चैकविध्यम् । फलं तूपनिषदो'रहरित्यह'मिति चोक्तयोः, न तु विद्यायाः, तस्माददोष इत्याहतुः । तदयुक्तम् । सौत्रस्यादिपदस्यासङ्गतेः । उत्तरस्मिन् वाक्ये हि 'तद्यत्तत्सत्य' मिति तत्पदेन सत्य- मात्रमाकृष्यते, न त्वन्यत्किञ्चिदादिपदबोधितं तस्मात् । नच पूर्ववाक्ये स्थानविशेषोक्तिर्येन तदैक्या- दैक्यं सम्भाव्यम्, किञ्च, सर्ववेदान्तप्रत्ययाधिकरणे शाखान्तराधिकरणोक्तास्त्रयो हेतव ऐकविद्यार्थ- माहतास्तत्कथं तत्रानुक्तात् स्थानविशेषात् तत्सिद्धिः । नापि केवलाद्रूपैक्यात्, 'चोदनाद्यविशेषा'- दित्यस्य व्यभिचारित्वापत्तेः। किञ्च, इयं सत्यविद्या पूर्वमुपनिषदोः प्रसङ्गे विचार्यमाणा पूर्ववाक्यो- क्तया सहैक्यमस्मारयन्ती कथम कस्मादत्र स्मारयेत् । अतः काल्पनिक एवायं विचार इत्युपेक्ष्यः । रामानुजाचार्यास्तु, 'न वा विशेषा'दित्यत्राक्ष्यादित्यस्थानभेदेन विद्याभेदसोत्तरवाक्ये साधितत्वादत्र च वाक्यद्वये फलभेदस्य दृश्यमानत्वादवस्थाभेदेन रूपभेदस्यापि सत्त्वादुत्तरवाक्य उपा- सनभेदे सति कथं पूर्ववाक्योक्तेनास्याभेदः सम्भवति, किञ्च, एकविद्यात्वे फलभेदस्योपनिषद्गुणनिब- न्धनत्वम्, तस्य तन्निबन्धनत्वेन बाधकनिवृत्तौ चैकविद्यात्वमित्यन्योन्याश्रय इति दूषणमाहुः ॥३८॥ रश्मिः । बृहदिति । बृहदारण्यकचतुर्थप्रपाठकोपान्ते यक्षपूज्यम् । फलभेदादिति । लोकजयपाप्महननभेदात् । स्थानेति । स्थानविशेषसम्बन्धैक्यप्राप्तमेकविद्यमित्यर्थः । फलभेदाद्विद्याभेदं वारयतः स्म त्रय इति । तृतीयान्त एकः । अधिकारादिति द्वितीयः । चकारोक्तस्तृतीयः । एवं त्रय आहताः । पूर्वतन्त्र- द्वितीयाध्यायीयशाखान्तराधिकरणे संयोगादयश्च तस्य हेतव उक्तास्तेष्वेकं संयोगं विहाय त्रय आहता इत्यर्थः । रूपैक्यादिति । विद्यारूपैक्यात् । प्रासङ्गिकोऽयं हेतुः । व्यभिचरित्वेति । सर्ववेदान्त- प्रत्ययत्वसाध्याभावेति सत्यत्वादिधर्मवति चोदनाद्यविशेषहेतोर्वृत्तित्वेनासाधारण्यात्तथा । फलं त्वित्या- द्युक्तं प्रत्युत्तरयन्ति स्म किञ्चेयमिति । उपनिषदोः प्रसङ्गे सत्यविद्या पूर्वं विचार्यमाणेत्यन्वयः । पूर्व- वाक्येति । हृदयब्राह्मणोक्त्या हृदयब्रह्मणः सर्वत्वेन अक्षरत्वेनोपासनं सर्वात्मभावरूपं त्र्यक्षरं तद्विषय- कम् । पूर्ववाक्यं 'य एवं वेदे'ति । तदुक्त्या हृदयविद्यया । स्मैक्यमिति । स्वस्या हृदयविद्यायाः पूर्वस्याः तदुत्तरसत्यब्राह्मणीयायाः 'तद्धैतदेतदेव तदा सत्यमेवे'ति श्रुतेः प्राप्तं स्वस्याः सत्यविद्याया ऐक्यम् । श्रुतेस्तु तत् हृदयं ब्रह्म । तदास्येत्यत्र तत् ब्रह्मेत्यर्थः । अकस्मादिति । वाक्यं विना । अग्रेति । अग्रेतन 'आप एवेदमग्र आसु'रिति ब्राह्मणे । स्मारयेदिति । नच 'ता आपः सत्यमसृजन्ते'ति 'ते देवाः सत्य- मित्युपासत' इति । 'तदेतत्र्यक्षर ५ सत्य' मितीति प्रत्यभिज्ञानमतो नाकस्मादिति वाच्यम् । पूर्ववाक्योक्तया सहैक्यसासारणे प्रश्नपर्यवसानात् । उत्तरवाक्य इति । 'आप एवेदमग्र आसु'रिति महावाक्ये । अत्र चेति । अधिकरणेयम् । अवस्थेति । बाल्यतदितररूपावस्थाभेदेन । पूर्वेति । सत्योपासनेन । अस्य द्वितीयवाक्योक्तोपासनस्य अभेद इत्यर्थः । फलभेदो विद्यैक्ये बाधकः । तस्य एकविद्यात्वे निवृत्ति- रुपनिषद्गुणे ऐक्येपि फलभेदसाधकः । अत एकविद्यात्वे फलभेदस्य तथा । तस्येति । उपनिषदूगणस्य फलभेदनिबन्धनत्वं तेनं । बाधकेति । बाधकः फलभेदस्तस्य निवृत्तौ ॥ ३८ ॥ 1877

कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वं भक्तेरुक्तम् । तद्दार्ढ्यार्थमधुना मुक्ति- प्रतिबन्धकत्वेन हेयत्वेनोक्तानां कामादीनामपि भगवत्सम्बन्धान्मुक्तिसाधकत्व- मुच्यते । भक्तिस्तु विहिताविहिता चेति द्विविधा । माहात्म्यज्ञानयुतेश्वरत्वेन प्रभौ निरुपधिस्नेहात्मिका विहिता । अन्यतोऽप्राप्तत्वात् कामाद्युपाधिजा सा त्वविहिता । एवमुभयविधाया अपि तस्या मुक्तिसाधकत्वमित्याह । इतरत्र विहितभक्तेरिति शेषः । कामाद्युपाधिजस्नेहरूपायां कामाद्येव मुक्तिसाधन- मित्यर्थः । भगवति चित्तप्रवेशहेतुत्वात् । आदिपदात् पुत्रत्वमसम्बन्धित्वादयः । स्नेहाभावेऽप्यविहितत्वभगवद्विषयकत्वयोरविशेषात् द्वेषादिरपि संगृह्यते । तेन भगवत्सम्बन्धमात्रस्य मोक्षसाधकत्वमुक्तं भवति । तत्र विहितभक्ता- वित्यर्थः । शास्त्रे सर्वथा हेयत्वेनोक्ता हि गृहाः। सर्वनिवेदनपूर्वकं गृहेषु भगवत्सेवां कुर्वतां तदुपयोगित्वेन तेभ्य एव मुक्तिर्भवतीत्यर्थः । एतादृशानां गृहा भग- वद्गृहा एवेति ज्ञापनायायतनपदम् । तेषु तथा प्रयोगप्राचुर्यात् । आदिपदेन भाष्यप्रकाशः । कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ सूत्रप्रयोजनमाहुः पूर्वेत्यादि । तद्दार्ढ्यार्थमिति । कैमुतिकन्यायेन तदर्थम् । तेनास्य प्रासङ्गिकत्वं बोधितम् । सूत्रं व्याकर्तुं पूर्वोक्तं विभजन्ति भक्तिरित्यादि । अन्यतोऽप्राप्तत्वादिति । शास्त्रव्यतिरिक्तहेत्वन्तरादप्राप्तत्वात् । व्याकुर्वन्ति इतरत्रेत्यादि । कामादेः कथं मुक्तिसाधनत्वमित्यपेक्षायां 'कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वा । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते' इति दशमस्कन्ध- वाक्यानुसारेण हेतुमादिपदस्यार्थं तत्कथनतात्पर्यं चाहुः भगवतीत्यादि । सूत्रशेषं व्याकुर्वन्ति तत्रेत्यादि । एतदग्रे, चकारार्थबोधिका माहात्म्यज्ञानेत्यादिका फक्किका उक्ता, सा लेखक- प्रमादात् पश्चात्पतितास्तीति ज्ञेयम् । ननु कामादीनां कथं तथात्वमित्याकाङ्क्षायां सौत्रं हेतुं व्याकुर्वन्ति शास्त्र इत्यादि । इदं चाग्रे 'गृहिणोपसंहार' सूत्रे सेत्स्यतीति ज्ञेयम् । अत्रायमेवाशय इत्यत्र गमकमाहुः एतादृशानामित्यादि । प्रयोगप्राचुर्यादिति । 'अण्डमुत्पादयामासुर्ममाय- रश्मिः । कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ कैमुतिकेति । यत्सम्बन्धेन कामा- दीनां मुक्तिसाधनत्वं तत्सम्बन्धेन सत्यशमदमादीनां मुक्तिसाधनत्वे किमु वक्तव्यमित्येवं कैमुतिकन्यायेन । पूर्वोक्तमिति । सूत्रे पूर्वमुक्तं कामादि इतरत्रेति च । न च विभागोऽस्त्वेवेति वाच्यम् । ग्रन्थप्रयोजनं प्रपञ्च्य विभागे इत्याशयात् । सौत्रकामादीतरत्रेत्यनयोः सप्रपञ्चं विभागं करे कुर्वन्तीत्यर्थः । विहितेति । विधिविषया । 'तं भजेदि'ति । विधिरपूर्व इति । भाष्ये । तदर्थमत्यन्ताप्राप्तिमाहुः शास्त्रेति । तत्कथ- नेति । तेन भगवदित्यादिभाष्येणादिशब्दकथनतात्पर्यम् । भाष्ये । भगवत्सम्बन्धमात्रस्येति । प्रमेयबलस्येति यावत् । उक्तेति । भाष्ये उक्ता । अत्र चकारोक्तेस्तत्सम्बन्धस्य युक्तत्वात् । शास्त्र इत्यादीति । 'गृहं सर्वात्मना त्याज्य'मित्यादिशास्त्रे । गृहा इति पुंस्त्वं स्मार्तम् । तेभ्य इति । आय- तनादिभ्यः । 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्यात् । एतादृशानामित्यादीति । भगवद्गृहा इति । एतेनैतादृशाः महाराजोपचारेण भक्तार इत्युक्तम् । महाराजो यावत्पर्यन्तं तिष्ठति १. रश्मौ उक्तेति पाठः ।

स्त्रीपुत्रपश्वादयः संगृह्यन्ते । एतेन ज्ञानादिमार्गादुत्कर्ष उक्तो भवति । बाध- कानामपि साधकत्वात् । माहात्म्यज्ञानपूर्वकस्नेहे सत्येव भर्तृत्वेन ज्ञाने कामोपि सम्भवतीति ज्ञापनाय चकारः ॥ ३९ ॥ इति तृतीयाध्याये तृतीयपादे त्रयोदशं शैव हि सत्यादय इत्यधिकरणम् ॥ १३ ॥ भाष्यप्रकाशः। तनमुत्तमम् ।' 'पञ्चायतनपूजे'त्यादौ तथात्वात् । पूर्वोक्तं प्रयोजनं निगमयन्ति एतेनेत्यादि । एतेनेति । पूर्वसूत्रे भगवद्भक्तिबलस्य, अत्र च 'गोप्यः कामा'दित्यादिसप्तमस्कन्धवाक्यात् कामा- दीनामविहितभक्तिहेतूनाम्, 'भक्तिरस्य भजन'मित्युक्त्वा, 'एतदेव च नैष्कर्म्य'मिति विहितभक्तेः संन्यासरूपतायास्तापनीये श्रावणात्, 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्यात् गृहादीनां च मुक्तिसाधनत्वस्य कथनेन । चकारसूचितमर्थमाहुः माहात्म्येत्यादि । इतिज्ञाप- नायेति । इतिहेतोर्विहितभक्तौ कामादपीति ज्ञापनाय । अत्रोभयोर्भक्त्योः स्वरूपबलसाधन- योर्विचारेण पुष्टिभक्त्याश्रितमर्यादाभक्तिबोधकं वाम उरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहं स्थितमिति विशेषणं प्रतिपादितं ज्ञातव्यम् । अन्ये तु, 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश' इत्युपक्रम्य, 'एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः रश्मिः। तावत्पर्यन्तं तद्गृह्यमिति । स्त्रीपुत्रेति । प्रमेयबलविषया एव । निगमयन्तीति । तस्मात्तथेतिवत् । अविहितेति । अस्य मुक्तिसाधनत्वस्येत्यनेनान्वयः । विहितेति । भजनस्य 'तं भजे'दिति गोपाल- तापनीये विहितत्वात् । संन्यासेति । नैष्कर्म्यं संन्यासो भवतीति तथा । निर्गतः कर्मणः निष्कर्मी संन्यासी तस्य भावो नैष्कर्म्यं संन्यासः । उपनिषद मावर्तयेत् आरणं वेति सकलकर्मनिषेधात् । गृहा इति बहुवचनार्थमाहुः गृहादीनामिति । आदिपदेन स्त्रीपुत्रपश्वादयः संगृह्यन्ते । दम्पत्योः सहाधि- कारात्स्त्रीः । भगवत्सेवार्थं वत्सानयनम् । 'पुत्रेण लोकं जयती'ति पुत्रः । 'पुत्रे कृष्णप्रिये रति'रिति । 'पय- साग्निहोत्रं जुहोती'ति । 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रय- तात्मन' इति । अत्राप्यादिपदेनारामोपवनादिः । अव्ययानां द्योतकत्वमाश्रित्याहुः चकारेति । विहि- तेति । 'माहात्म्यज्ञानपूर्वस्तु सुदृढ' इति वाक्याद्विहितत्वम् । कामादपीति । तत्र चेति सूत्रांशा- त्कामादपीत्यर्थः । षोडशाधिकरण्यो अर्थमाहुः अत्रोभयोरिति । विहिताविहितयोः । स्वरूपबलं साधनं च तयोः । स्वरूपबलं बाधकानां साधकत्वम् । पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वम् । पुष्टीति । अविहितभक्तिकामार्याश्रिताया मर्यादाभक्तेर्विहितभक्तेर्बोधकम् । बोधकत्वं तु 'भवत्पदाम्भोरुहनावम- त्रे'त्यत्र भगवत्पादयोर्भक्तित्वमुक्तम्, तत्र वाम ऊरुः पादसहित इति पुष्टिभक्त्याश्रितत्वस्य । 'दक्षिणा- ङ्घ्रिसरोरुह'मिति मर्यादाभक्तेः । अत्र पूर्ववाक्योक्त्येति भाष्यप्रकाश उक्तम्, तेन हृदयब्राह्मणोक्त- भूमसर्वात्मभावयोरुपासनासूचि । तथाहि । 'एष प्रजापतिर्यद्धृदय'मित्युपक्रमः । अत्र हृदयस्य प्रजाप- तित्वं विधीयते । कथमेवं स्यात् हृदयं सर्वात्मभावत्वेन वक्ष्यमाणं प्रजापती रजोधिष्ठातेति । एवं तु स्यात् । हृदि अयं रजोधिष्ठाता । वेदान्तत्वात् योगे तु प्रजानां पतिर्भगवान् । भूमा प्रजापतिः सर्वात्म- भावकरणेन सर्वात्मभावत्वाद्भूमा । 'एतद्ब्रह्मैतत्सर्वं'मिति ब्रह्मलिङ्गम् । सर्वात्मभावरूपत्वमाह 'तदेतत्त्र्य- क्षर ५ हृदयमिति'ति । 'हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेदे'ति । स्वाश्चेत्यत्र शसो डा । अन्ये चेति । हृ । सम्प्रदाने प्रत्ययः । हृञ् हरण इत्यस्मात् । हृदः सान्निध्यात् । स्वाश्चानिन्द्रियाणि वसवोऽभिमुखाभिहरन्त्यन्ये तदनुसारिणः । सर्वेन्द्रियाणां भगवत्परत्वं सर्वात्मभावः निरोधलक्षण- 1879

भाष्यप्रकाशः। सत्यसङ्कल्प' इति छान्दोग्ये आम्नायते । 'स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु,' 'य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान' इति वाजसनेयके । तयोरेकविद्यं परस्परगुणोपसंहारो भवेन्न वेति सन्देहे, कामादिसूत्रेणैकविद्यमुपसंहारं च सिद्धान्ती- कुर्वन्ति । कामादीत्यत्र कामपदं 'देवदत्तो दत्तः' 'सत्यभामा भामे'तिवन्नामैकदेशरूपम् । तेन सत्यकामाद्या वाजसनेयके वशित्वाद्याश्छान्दोग्ये उपसंहार्याः । हृदयायतनस्य, वेद्यस्येश्वरस्य, लोकासम्भेदप्रयोजनकसेतुत्वरूपेश्वरधर्मस्य च समानत्वादिति चाहुः । तच्चिन्त्यम् । श्रुतौ सत्यकामपदस्य यौगिकत्वेन नामत्वाभावात् तदेकदेशस्य कामादिपदस्य नामैकदेशतया वक्तुमशक्यत्वात् । अथ रूढत्वम्, तदापि तदेकदेशेन कामादिपदेन ब्रह्मैव समर्पणीयम्, न तु तद्गुणा अपि । दृष्टान्ते तथैव दर्शनात् । अथ योगरूढत्वम्, तदापि कामपदस्य सर्वकामादिपदैकदेशतायास्तुल्यत्वान्मनोमयादिवाक्योक्ता अपि धर्मा वाजसनेयके कुतो नोपसंह्रियेरन्, कुतो वा तस्यानेनैकविद्यात्वाभावः । हृदयस्यायतनस्य वेद्यसेश्वरस्य सत्यसंकल्प- त्वाकाशात्मत्वस्य समानधर्मस्य सत्त्वात् । किञ्च । यद्यायतनादिकमेतदेकविद्यत्वादिसम्पादकत्वेन व्यासचरणानामभिप्रेतं स्यात्, तदा कामादिरत्र वशित्वादि तत्रेति ब्रूयुः, न त्वेवं सन्दिग्धं वदेयुः । किञ्च । सर्ववेदान्तप्रत्ययाधिकरणे 'चोदनाद्यविशेषा'दित्यनेन शाखान्तराधिकरणोक्ता- श्चत्वारस्त्रयो वा हेतवो विद्यैक्यार्थं संगृहीताः । तत् यद्यायतनादिभिरङ्गीक्रियेत, तदा रश्मिः । अन्येपि । 'य एवं वेदे'त्युपासनम् । एवं 'द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेदे'त्यत्र । तथैव 'यमित्येकमक्षरमेति स्वर्गलोकं य एवं वेदे'त्यत्र । स्वर्गलोक आत्मसुखम् । व्युत्पत्तिस्तु एतीति यम् । एरच् । एकविधमित्यस्य कारणं परस्परेति । इति सन्देह इति । इति सन्देहो यस्मिन् ऐकविद्य- मिति पूर्वपक्षे स तथोक्तस्तस्मिन् । नैकविद्यं कार्यं न उपसंहारं कारणमस्ति । वाजसनेयक इति । उपसंहार्या इत्यन्वयः । सौत्रेतरत्र पदार्थः । छान्दोग्य इति । सौत्रतत्रपदार्थः । आयतनादिभ्य इत्यस्यार्थः । हृदयेति । हृदयमायतनं यस्येश्वरस्य । आदिपदार्थमाहुः लोकेति । 'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाये'त्युक्तो लोकासम्भेदः प्रयोजनमस्य सेतुत्वस्य तत्तथोक्तम् । तेन रूप्यते व्यवह्रियते यः स ईश्वरधर्मस्तस्य । समानत्वं छान्दोग्यवाजसनेयकयोर्ज्ञेयम् । सूत्रे कामशब्दो न नामैकदेश इत्याहुः श्रुताविति । नामत्वेति । पाचकपाठकवत् नामत्वाभावात् । विशेषणत्वात्त- थेति नोक्तम् । विष्णुरात्तः परीक्षित् इत्यत्र न विशेषणत्वेपि नामत्वात् । एवं वेदान्ते योगमादायोक्तम् । बाहुलकाग्रहवादिनं प्रत्याहुः अथेति । स्वमते रूढ्यभावः । दृष्टान्ते इति । 'देवदत्तो दत्त' इत्युक्ते पूर्वस्मिन् । वेदान्ते 'स्मृतेश्चे'तिसूत्रभाष्यानुरोधेन वेदत्वाग्रहवादिनं प्रत्याहुः अथ योगेति । स्वमते योगरूढिर्वेद एव, न वेदान्ते । सर्वकामादीति । छान्दोग्ये पञ्चमप्रपाठके 'मनोमयः प्राणशरीरो भारूपः (सत्यकामः) सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्य- नादर एष म आत्मा हृदये' इत्यत्र सर्वकामादिपदानि तेषामेकदेशतायाः । मनोमयेति । वाक्यमन्य- वहितपूर्वमुक्तम् । तस्येति । मधुविद्यान्तर्गतस्योक्तवाक्यार्थस्य । अनेन वाजसनेयकार्येण । एका विद्या एकविद्या तस्या भाव एकविद्यत्वं तस्याभावः । अत्र दहरविद्या निर्गुणविषया वाजसनेयकोक्ता सगुणविषया तयोर्भेद उपसंहारः परस्परं तत्र विद्याभेदो विरुध्यते 'अभेदानुपपत्तिभ्त्वा'दित्यादिविद्वन्मण्डनेन तद्वि- रोधाय सर्ववेदान्तप्रत्ययप्रपञ्चरूपत्वनिषेधमाहुः किञ्च सर्वेति । चत्वार इति । संयोगेन सह । अत्र इति । अत्रैव व्याख्यातम् । तद्यदीति । तत् विद्यैक्यम् । आयतनादिभिरिति । चोदनाद्यविशे-

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ३४५ आदरादलोपः ॥ ४० ॥ (३-३-१४.) ननु नित्यानां वर्णाश्रमधर्माणां भगवद्धर्माणां चैककाले प्राप्तौ युगपदुभयोः करणासम्भवादन्यतरबाधे प्राप्ते, कस्य स्यान्न कस्येति स्यात् संशयः। तत्र कर्मणां स्व- स्वकाले विहितानामकरणे प्रत्यवायश्रवणादितरत्रातथाश्रवणादन्यदापि तत्कृति- सम्भवात् सावकाशत्वेन तेषामेव बाधो युक्तः, न तु निरवकाशानामिति पूर्वः पक्षः। भाष्यप्रकाशः। तस्य हेतोर्व्यतिरेकव्यभिचारः प्रसज्येत, कतिपयैरङ्गीकारे यत्किञ्चिद्धेतुसत्त्वस्य यत्र क्वापि सौल- भ्याद्विद्याभेदश्चोच्छिद्येत । प्रकृते च चोदना भिद्यते, एकत्र 'अन्वेष्टव्यं विजिज्ञासितव्य'मिति वाक्यात्, अन्यत्र च 'य एवं वेदे'ति वाक्यात् । आख्या

३४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४०. तत्र सिद्धान्तमाह आदरादिति । ब्रह्मयज्ञप्रकरणे तैत्तिरीयकैः पठ्यते 'ॐमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरं तदेतदृचाभ्युक्तमृचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुर्यस्तन्न वेद किमुचा करिष्यति य इत्तद्विदुस्त इमे समासत्' इति । अत्र ऋक्सम्बन्धित्वेन वर्णात्मकं, वस्तुतस्तु परमव्योमात्मके अक्षरे ब्रह्मण्योङ्कारे वर्तमानं तल्लोकवेदप्रसिद्धं परं ब्रह्म यो न वेद, स किं ऋचा करिष्यतीत्यनेन तदज्ञाने वेदाध्ययनस्य निष्फलत्व- भाष्यप्रकाशः। भगवद्धर्मेषु । सिद्धान्तं विशदयितुं सूत्रं विवृण्वन्ति ब्रह्मयज्ञेत्यादि । ब्रह्मयज्ञप्रकरण इति । तैत्तिरीयाणामारण्यके स्वाध्यायब्राह्मणे । श्रुत्यर्थस्तु, ब्रह्मयज्ञेन यक्ष्यमाण ॐमिति प्रतिपद्यते, प्रणवाक्षरं प्रथममुच्चारयेत् । प्रतिपद्यत इति पञ्चमो लकारः । पूर्वोच्चारणे हेतुः । एतद्वै यजुस्त्रयीं विद्यां प्रति, अयं यजूरूपः प्रणवस्त्रयीं विद्यां लक्षीकृत्य प्रतिनिधिरूपो यतोऽस्ति । तथाथर्वणे स्फुटम्, 'तस्य वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदोऽथ द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः स सामभिः सामवेद' इति सायणभाष्ये । वस्तुतस्तु आथर्वणानां गोपथब्राह्मणे इन्द्रप्रजा- पतिसंवादे प्रजापतिना वेदत्रये एकाक्षरोऽथर्ववेदे मात्राभिर्युक्त इति व्यवस्थापनात्, तैत्तिरीये बृहन्नारायणे 'ॐमित्येकाक्षरं ब्रह्म'तिश्रवणादत्रामात्र एव । नच त्रयीप्रतिनिधित्वविरोधः । द्वादशस्कन्धे 'स सर्वमन्त्रोपनिषद्वेदबीजं सनातन'मिति बीजत्वबोधनात् यथा पुस्तकलिखनोत्तरं तन्मूलपुस्तके प्रतिव्यवहारः, तथा त्रयीमूलत्वात् प्रतित्वम् । एकादशस्कन्धे 'वेदः प्रणव एवाग्रे' इति प्रथमकृतयुगे तन्मात्रबोधनात्तदा सर्वं कार्यं प्रणवेनैवेति वा तस्य त्रयीप्रतिनिधित्वमित्य- दोषात् । 'एषा वा'गिति सर्ववाग्बीजत्वात् सर्ववाग्रूपम् । तथाच छन्दोगा आमनन्ति 'तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णे'ति । 'अश्वत्थादिपत्रेषु दृश्यमा- नास्तन्तुसदृशा अवयवाः शङ्कवस्तैर्यथा कृत्स्नानि पर्णानि व्याप्तानि, तद्वदोङ्कारेण सर्वा वाग्व्याप्ते'ति सायणभाष्ये । 'एतत्परममक्षर'मिति । 'एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं पर'मिति काठकश्रुतेः । तदेतदृचाभ्युक्तमिति । तदेतत्परमं ब्रह्मरूपमक्षरं वक्ष्यमाणयर्चा स्पष्टमुक्तमित्येवं ज्ञेयः । ऋचं पठित्वा व्याकुर्वन्ति अत्रेत्यादि । ऋक्सम्बन्धित्वेन वर्णात्मके, वस्तुतस्तु 'एतद्ध्ये- वे'ति काठकश्रुत्या 'यो वेद निहितं गुहायां परमे व्योम'न्निति तैत्तिरीयश्रुतेश्च परमव्योमात्मके ॐकारे, 'यस्मिन् देवा अधि विश्वे निषेदु'रिति देवनिषदनस्थानत्वाल्लोकात्मके अक्षरे ब्रह्मणि, रश्मिः। विधिव्याख्यानादाहुः प्रतिपद्यत इति । पञ्चम इति । लेट् । तद्वेति । प्रतिनिधिरूपत्वं च । आथ- र्वणमाहुः तस्य वा इति । अत्रेति । तैत्तिरीयके स्वाध्यायब्राह्मणे । एकाक्षरमिति । समष्ट्यधिकृ- तम् । एतदर्थं वस्तुतस्तुपक्षः । प्रतीति । प्रतिनिधिव्यवहारः । प्रतित्वं प्रतिनिधित्वम् । 'प्रतिप्रतिनि- धिप्रतिदानयो'रिति सूत्रादर्थः । श्रुतौ ऋच इति षष्ठ्यन्तम् । ऋक्सम्बन्धिनि वर्णात्मके इत्यर्थः । तदाहुः ऋक्सम्बन्धित्वेनेति । अर्थपरत्वेन वस्तुतस्तु पक्षेणाक्षरे परम इति श्रुतिं व्याकुर्वन्तीत्याशयेनाहुः वस्तुतस्त्विति । एतद्ध्येवेति । 'एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो 1882

मुच्यते । एवं सति तदुक्तकर्मणोपि तथात्वमायाति । एतेन 'भक्त्या मामभि- जानाती'ति वाक्यात् परब्रह्मस्वरूपज्ञानं भक्त्यैवेति भक्ताः सन्तः पुरुषोत्तमविदो ये, तेषामेव वेदाध्ययनादिकं फलप्रदम्, नान्येषामित्युक्तं भवति । अत एव श्रीभागवतेप्युक्तं 'ऋषयोपि देव युष्मत्प्रसङ्गविमुखा इह संञ्चरन्ति,' 'संसरन्ती'ति वा । अन्वये निदर्शनम् । ये इत् ईश्वरत्वेन ^त^त् पूर्वोक्तं परं ब्रह्म विदुः, त इमे भक्ताः सर्वापेक्षया सम्यक्प्रकारेण भगवन्निकटे श्रीगोकुलवैकुण्ठादिवासात् इति । तेनान्येषां सम्यगसत्त्वमर्थाक्षिप्तं भवति । पुरःस्थितार्थावाचीवंशब्दप्रयोगेण चान्येषामसत्तुल्यत्वं श्रुतेरभिमतमिति ज्ञायते । ऋक्शाखायामपि 'तमु स्तोतारः पूर्व्यं यथाविद् ऋतस्य गर्भं जनुषा पिपर्तन, आस्य जानन्तो नाम चिद्विवक्तन भाष्यप्रकाशः। उक्तश्रुतौ निहितत्वेन श्रावणाद्द्द्वितीयां 'तद्धाम परमं ममे'ति वाक्याच्च तत्र प्रतिपाद्यत्वेन स्वरूपेण च वर्तमानम्, तं 'अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम' इति गीतावाक्याल्लोकवेदप्रसिद्धं परं ब्रह्म यो न वेद, स किं ऋचा, ऋगिति वेदमात्रोपलक्षकम्, वेदेन किं करिष्यतीति । शेषं स्फुटम् । 'ऋषय' इति वाक्यं तु तृतीयस्कन्धे नवमाध्याये । अन्वये निदर्शनमिति । तदज्ञातुर्वेदनाध्यय- नसद्भावेपि तन्मुख्यफलाभावादन्वयव्यभिचारे निदर्शनं श्रुतिः श्रीभागवतवाक्यं चाहेत्यर्थः । अथवा, इदमग्रिमेण सम्बध्यते । तथाच वक्ष्यमाणेन वाक्यशेषेण श्रुतिज्ञानवतां भगव- त्प्राप्तिलक्षणं निदर्शनमाहेत्यर्थः । तदेव श्रुतिशेषं व्याकुर्वन्ति ये इदित्यादि । इदित्यवधारणे । तथाच प्रणवार्थभूतस्य भगवतो यज्ज्ञानं तस्यावश्यकत्वं तदज्ञानेऽध्ययनादिनेष्फल्यं च बोधय- न्यान्यर्चा भगवज्ज्ञानसाधनीभूतायां वरणसाध्यायां भक्तावादरो दर्शितः । एवं श्रुत्यन्तरे साधनभक्तावप्यादरः श्रूयते इत्याशयेनाहुः ऋगित्यादि । अर्थस्तु, हे स्तोतारो मद्युत्कर्षवर्ण- नपराः । इयं वेदानामुक्तिः । तं लोकवेदप्रसिद्धम्, पूर्व्यं पूर्वस्य कारणस्य सम्बन्धि सर्वकारण- कारणरूपम्, यथाविदः यथावत्तत्स्वरूपवेत्तारो भवन्तः, ऋतस्य सूनृतवाणीरूपस्य वेदस्य, गर्भं अन्तर्निहितम्, जनुषा स्वस्य सम्पूर्णजन्मना यावज्जीवमिति यावत् , पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत, सन्तोषयत । अत्र यथाविद्वचोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरणजीववि- नियोगं भगवत्तोषार्थं दर्शयति श्रुतिरिति भगवद्धर्मेषु श्रुतेरादरः स्फुटति । अथ भगवत्तोषाभावे किमपि न सिध्यतीत्याशयेन पूर्वोक्तकरणाशक्तावनुकल्पमाहोत्तरार्धेन । आसमन्तात् अस्य परमपुरुषस्य नाम अखण्डशब्दब्रह्मरूपत्वेन जानन्तः, विवक्तन विशेषेण वदत । नाम्नः स्वरूपं रश्मिः । यदिच्छति तस्य त'दिति श्रुत्या। उक्तश्रुताविति। तैत्तिरीयश्रुतौ। शेषमिति। एवं सतीत्यारभ्य वेत्यन्तं व्याख्येयम् । अत्र तदुक्तेति । वेदोक्तकर्मणः । 'पटोलपत्रं पित्तघ्नं नाडी तस्य कफापहे'त्यत्रेवात्रापि वेदाध्ययने वेदमात्रग्रहणम् । तथात्वं निष्फलत्वम् । एवं शेषं स्फुटम् । अन्वयेति । यत्र यत्र तदज्ञात्तु- वेंदाध्ययनसद्भावस्तत्रतत्र पुरुषोत्तमरूपमुख्यफलमित्यन्वयः, तस्य व्यभिचारे सति निदर्शनं दृष्टान्तम् । श्रीभागवतवाक्यं कर्तृ । निदर्शनमाहेत्यर्थः । निदर्शनं त्वेवम् । यत्र भक्ते संसाराभावस्तत्र पुरुषोत्तम- प्रसङ्ग इति । निदर्शनं न दृष्टान्तः, किंतु भगवत्प्राप्तिः करणव्युत्पत्त्या तत्राहुः अथवेति । अग्रिमेणे- ति । श्रुतिशेषेण । वाक्यशेषोऽप्ययम् । श्रुतिः 'ऋचो अक्षरे परमे व्योम'न्निति । य इदित्यादीति । य एवेश्वरत्वेन तत्पूर्वोक्तमित्यादिः । इम इतीदम् प्रत्यक्षगे रूपमत आहुः श्रीगोकुलेति । वैकुण्ठस्थेषु गोकुलस्यत्व एवेम इति प्रयोगः । प्रणवार्थेति । अयमर्थो गायत्र्यर्थकारिकासु श्रीमद्गोस्वामिभिः स्पष्टी-

५४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४१. महस्ते विष्णो सुमतिं भजामहे' इत्याद्यृग्भिरन्येभ्यो धर्मेभ्यः सकाशाद्भगवद्धर्मे- ष्वादरः श्रूयते इति तेषां अलोप एवेत्यर्थः । एतेन 'अकरणे प्रत्यवायश्रवणा'दित्यादि यदुक्तम्, तदपि प्रत्युक्तं वेदितव्यम् । करणेपि वैयर्थ्यात्तदपरिहारात् । एवं सति यदकरणे प्रत्यवायकथनम्, तेन तस्यावकाशं प्राप्य गौणकालेप्यकरणे तथेति तस्याशय इति ज्ञायते ॥ ४० ॥ नन्वेवं तात्पर्यकत्वे श्रुनेरुपनयनादिवत् कर्मोपयोगित्वं भक्तितज्ज्ञानयोः स्यादिति कर्मण एव प्राधान्यम्, न तु भक्तेः सिध्यतीत्याशङ्क्य, भक्तितज्ज्ञाना- वश्यकत्वबोधकश्रुतितात्पर्यमाह । उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥ भाष्यप्रकाशः। [L1

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३४९ तयोर्युगपत्करणेऽनुपस्थितेपि यदि पूर्वं भगवद्धर्मकरणमुच्यते, तदा त्वदुक्तं स्यात्, नत्वेवम्, किन्तूभयोर्युगपत्करण उपस्थिते बलाबलविचारे क्रियमाणे, भाष्यप्रकाशः । भगवद्धर्मादरे बोधिते भगवद्धर्मकरणे श्रुत्युक्तानां कर्मणां सार्थक्यं नान्यथेत्येवं श्रुतेस्तात्पर्येण उपनयनादिवल्लक्षण्येनैतदङ्गत्वं कर्मणश्च प्राधान्यं सिध्यतीत्याशङ्क्य भक्त्याद्यावश्यकत्वबोध- नतात्पर्यमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति तयोर्युगपदित्यादि । यजुर्ब्राह्मणश्रुतौ भगवज्ज्ञानस्या- वश्यकत्वं बोध्यते । तेन स्वाध्यायावर्तनदशायामपि तदावश्यकता आयाति । ऋक्संहिताश्रुतावपि 'यथाविद्' इति 'जानन्त' इति च स्तोतृविशेषणाद्विधेयस्य भगवद्धर्मस्य करणे ज्ञानस्याधिकारप्रयो- जकत्वं लभ्यते । मन्त्राणां विधायकत्वं तु 'वसन्ताय कपिञ्जलानालभेत'त्यत्र वरैरसङ्गतम् । 'वसन्ता- ये'त्यादीनां न मन्त्रत्वमिति स्वपक्षेपि मन्त्राणां स्वार्थे प्रामाण्यास्याङ्गीकाराद्विधिशक्तिकौण्ठ्याभावे विधायकत्वं न हीयते । अतो मुमुक्षूणां भगवद्धर्मा आवश्यकाः । कर्माणि तु 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण यज्ञेन तपसा श्रद्धया अनाशकेने'ति श्रुतेर्विविदिषायामेवे- पक्षीयानि । ज्ञानपर्यन्तत्वपक्षेप्यारादुपकारकाणीति विविदिषोक्त्यैव लभ्यत इति दूरापास्तं तत्प्राधान्यम् । एवं ज्ञानोत्तरं यत्र कथञ्चिद्वर्णाश्रमधर्मा भगवद्धर्माश्च युगपत्प्राप्ताः, तत्र प्रत्यवा- रश्मिः । सार्थक्यमिति । 'यदेव विद्यये'तिश्रुतेः पूर्वमीमांसाकाङ्क्षा । श्रुतेरिति । यजुर्ब्राह्मणश्रुतेः 'ॐमिति प्रतिपद्यत' इत्यादेः । सिध्यतीति । 'त इमे समासत' इत्यत्र यज्ञायेति शेषं पूरयित्वा सिध्यति । भक्त्यादीति । भक्तिमज्ज्ञानावश्यकत्वबोधनस्य तात्पर्यं ज्ञानकाण्डत्वा'त्तमेतं' मिति श्रौतं ज्ञानकाण्डीयं तात्पर्यमाहेत्यर्थः । तयोरित्यस्यार्थं ऋक्संहितायजुर्ब्राह्मणश्रुत्योरित्याहुः यजुर्ब्राह्मणेति । बोध्यते इति । यज्ञे बोध्यते । आयातीति । ब्रह्मयज्ञत्वादायाति । स्तोत्रिति । ज्ञानस्याधिकारित्यादौ हेतुः । विधेयस्येति । पिपर्तनेतिविधिविषयस्य भगवतोऽधोक्षजत्वाद्भगवद्धर्मस्य करणे ज्ञानस्य स्तोतृविशे- पणस्य । पिपर्तनेतिमध्यमपुरुषान्मन्त्रत्वम् । पूर्वतन्त्रे मध्यमपुरुषान्तस्य मन्त्रत्वोक्तेः । वदाहुः मन्त्रा- णामिति । स्वपक्ष इति । भावार्थपादभाष्ये । एतावता तयोरित्यस्यार्थ उक्तः । अत इति । कर्मणा पूर्तियुक्तं कुरुतेति पिपर्तनेत्यस्यार्थेपि ज्ञानकाण्डेन 'तमेतं वेदानुवचनेने'ति श्रुतिविषयत्वेन सेवाख्यक- र्मणा पूर्तियुक्तं कुरुतेत्यर्थादित्यर्थः । भगवद्धर्मा उक्ता ज्ञानविषयाः । आभासे श्रुतेरुपनायनादिवदित्यादि यदुक्तं तत्राहुः कर्माणि त्विति । 'विविदिषन्ती'त्यत्र रामानुजाचार्यवत्सन्प्रत्ययविवक्षायामाहुः ज्ञानप- र्यन्तत्वेति । आरात् समीप उपकारकाणि कर्माणीति । विविदिषोक्तिर्व्यञ्जनया । सन्प्रत्ययविवक्षोक्तेः । तत्प्राधान्यं कर्मप्राधान्यम् । भाष्यविवरणं तु अनुपस्थितेपीति । अपिनोपस्थिते । त्वदुक्तं कर्मणः प्राधान्यं स्यात्, शास्त्रस्य प्राथम्यात्, नत्वेवम्, शास्त्रप्राथम्यापेक्षया श्रुतिद्वयस्य प्राबल्यात् । 'तमेतं वेदानुवचनेने'ति 'यदेव विद्यये'ति श्रुतिद्वयम् । प्रकृते । किन्तूभयोरिति भाष्यविवरण- माहुः एवं ज्ञानेति । कर्मप्राधान्यज्ञानोत्तरम् । कथञ्चिदिति । कारणत्वेन प्रकारेण भगवति लोकसंग्राहका वर्णाश्रमधर्माः क्रियाशक्तिरूपाः भगवद्धर्मा ज्ञानशक्तिविषयभक्तिरूपाः । 'भगवान्पञ्च- शक्तिमानि'तिवाक्यात् । ज्ञानशक्तेः सविषयत्वात् भगवान्विषय इति चेदुक्ता अपि सन्तु, 'मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपी'ति वाक्यात् । प्राप्ता इति । भगवति प्राप्ताः । जीवे कथञ्चिन्मार्गग्रहेण प्राप्ताः । प्रत्यवायेति । यथा बलदेवे सूतवधानन्तरम् । आदिना 'मृगोर्ह्यस्त्युपैति स' इति जीवविषये 1885

३५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४१ . अत आदराद्धेतोस्तद्वचनाद्भगवद्धर्माणां बलवत्त्वेनालोपवचनात् न कर्माङ्गत्वमे- तेषां सिध्यतीत्यर्थः ॥ ४१ ॥ इति तृतीयाध्याये तृतीयपादे चतुर्दशमादरादलोप इत्यधिकरणम् ॥ १४ ॥ भाष्यप्रकाशः । यादिबोधकवाक्यैः प्रबलदुर्बलभावे वैपरीत्येन भाते तदपवादायादरः प्रकाश्यते । ततश्च भगवद्धर्माणां बाधाभावः सिध्यति । तथा सतीतरेषामादराभावेपि प्रत्यवायश्रवणवैय्यर्थ्य- परिहाराय तेषां गौणकाले करणमर्धाधानवद्व्यवस्थाप्यते, अतो न भक्त्यादीनां कर्माङ्गत्वमित्यर्थः । अत्र कर्मणामनादरव्युत्पादनेन भगवद्धर्माविरुद्धरीत्या तत्करणस्य व्युत्पादनेन च निष्कामनित्य- कर्मकृतिबोधकं अपाश्रितार्भकाश्वत्थमिति विशेषणं प्रतिपादितं ज्ञेयम् । रश्मिः । एकादशवाक्योक्तमृत्युप्राप्तेर्निन्दा । वैपरीत्येनेति । बलाबलविचारे ज्ञानकाण्डत्वादुपनयनादिवि- त्याभासोक्तं वैपरीत्यम्, तेन 'यदेव विद्यये'ति श्रुत्या भाते 'तमेतं'मितिश्रुत्या ज्ञानकाण्डत्वेन च तस्य वैपरीत्यस्यापवादाय 'ऋषयोपि देव युष्मत्प्रसङ्गविमुखा इह सम्भरन्ती'त्युपष्टम्भाद्भगवद्धर्मेष्वादरः प्रका- श्यते, नतु वर्णाश्रमधर्मे । इतरेषामिति । वर्णाश्रमधर्माणाम् । अर्धाधानेति । अर्धाधाने कृते कामनासद्भावेपि विधिबलादर्धाधानं क्रियते तस्यैव । गौणकालोऽनधिकारकालो विधिलभ्यः । तदेत- त्षष्ठस्य द्वितीयपादे तृतीयाधिकरणे स्पष्टम् । सूत्राणां न्यायरूपत्वात् । 'असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते । आद्यः प्रयोजनाभावान्नत्यो निन्दादिसंश्रवा'दिति । अत्र 'चित्रया यजेत पशुकामः' 'कारीर्या यजेत वृष्टिकामः' इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम् । तस्य च समाप्तेः प्रागेव केनापि निमित्तेन तत्तत्फलप्राप्तौ दोषदर्शनेन कामो निवर्तते । तदा कर्मानुष्ठाने प्रयोजनाभावात् न समापनीय- मिति चेत् । मैवम् । प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात् । 'देवताभ्यो वा एष प्रवृ- श्च्यते यो यक्ष्य इत्युक्त्वा न यजते' 'त्रैधातवीयेन यजेत न देवताभ्य आवृश्च्यते'ति तदुभयं श्रुतं तस्मा- त्समापनीयमित्यर्थः । ओ व्रश्चू छेदने । अत इति । वैपरीत्यापवादात् । तत्करणस्य कर्मकरणस्य । निष्कामेति । 'कर्माणि साधनत्वेन निरूपयती'ति सुबोधिन्याभासात् । 'अपाश्रितः आश्रितः अर्भका- श्वत्थो येन । आश्रितः पश्चादिति वा । अर्भाणां कं सुखं यस्मात् । बालकसुखदायी । अर्भकरूपः कोमलः अश्वत्थो वा । तस्यैवारणी भवतः । कर्माणि सर्वाणि तत्साधनान्येव । अपाश्रयपदेन च साधनत्वेनैव कर्मणामपेक्षा, नतु तद्गतं फलमप्यपेक्षत इति सूचितम् । अपाश्रिता अर्भका यस्मिन्निति बालाधिकारः कर्मणि सूचित' इति सुबोधिनी । आभासे साधननिरूपणं लोकसंग्रहार्थम् । पश्चादिति । मायाया निवृत्तेः पश्चात् । स चाश्वत्थो धर्मरूपोपि ऐश्वर्यधर्मरूपः अन्ययाकरणसमर्थः । अन्यथा ब्रह्मणा प्रार्थि- तोपि न स्वरूपमन्यथयेत् । वीर्यं तु नाश्येयम् । 'नैच्छद्वपु'रितिवाक्यात् । ननु नित्यानन्दे प्रभासली- लानुपपन्नेत्यत आहुः अर्भानामिति । ऐश्वर्याविशेषेऽधोक्षजो बाल इति न नित्यानन्दत्वविरोधः । धर्मोऽश्वत्थः 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति । स एवैश्वर्यमित्यर्भकरूपः । अधुना लोकसंग्रहार्थं कर्माश्रयणरूपं तेन बृहदारण्यकोक्तोऽश्वत्थः कालात्मा भगवाञ्जातोऽश्वत्थादमिरूपोपि, अश्वत्थे धर्मे तन्नि- ष्ठाश्चे च तिरोभवतीत्यश्वत्थाश्रयणेच्छाया आहुः तस्यैवेति । महीधर्यां वेदटीकायामश्वत्थगर्भशमीशाखा- हरणोक्तेः । तत्साधनानीत्यरणिकाष्ठानयनसाधनानि साक्षात्परम्परयेति बोध्यम् । अपाश्रित आश्रित इत्यर्थ उक्तोऽपररी अनर्थकाविति सूत्रात् । अधुनाऽपार्थ हीनं वदन्ति अपाश्रयेति । कर्मणा- 1886

An exact line-by-line transcription of the Sanskrit text from the provided image:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५१ तन्निर्धारणानियमस्तदृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥ (३-३-१५.) अथेवं विचार्यते । पुरुषोत्तमविदः कर्म कर्तव्यम्, न वेति । तत्र मार्गत्रयफलात्मके तस्मिन् सम्पन्ने पुनस्तस्य खतोऽपुरुषार्थस्य करणम- प्रयोजकमिति न कर्तव्यमेवेति पूर्वपक्षः । तत्र सिद्धान्तमाह तन्निर्धारणेत्यादिना । अत्रेद्माकूतम् । भक्तिमार्गे हि मर्यादापुष्टिभेदेनास्ति द्वैविध्यम् । तत्र मर्यादायां पुष्टौ चैतादृशस्य न कर्मकरणं सम्भवति । अत एव तैत्तिरीयोपनिषत्सु पठ्यते 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति । 'एत ँ ह वा व न तपति किमह ँ साधु नाकरवं किमहं पापमकरवमिती'ति । श्रूयते चोभयविधानामपि कर्मकरणमम्बरीषोद्धवपाण्डवा-

वीनाम् । एवं सत्युभयविधानां मध्ये, मम कर्मकरणे प्रभोरिच्छास्तीति यो निर्धारयति, स करोति । य एतद्विपरीतम्, स न करोति । यथा शुकजडादिः । एतन्निर्धारणश्च भगवदधीनः, अतो भक्तेष्वपि तन्निर्धारणानियमः, अतः कर्म कर्तव्य- मेवातन्निर्धारणे त्वाधुनिकानाम् । एवं सतीच्छाज्ञानवता तत्सन्देहवता च कर्म कर्तव्यमिति सिद्धम् । तत्रोभयोः फलं वदन्नादावाद्यस्याह तद्दृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्य स तथा । तस्य जीवकृतकर्मफलात् पृथक् भिन्नमीश्वरकृतकर्मणो यत्फलं वेदमर्यादारक्षा लोकसंग्रहश्च तत्फलमित्यर्थः । हिशब्देन 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्त- श्चिकीर्षुर्लोकसंग्रह'मिति भगवद्वाक्यरूपोपपत्तिः सूचिता । द्वितीयस्य मध्यमा- धिकारात् काले सङ्गादिजनितचित्तमालिन्येन भगवत्सांनिध्ये प्रतिबन्ध

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५३ अथवा । पूर्वसूत्राभ्यां भगवद्धर्मकृतेरावश्यकत्वमुक्तम् । सर्वात्मभाववतो भाष्यप्रकाशः। अत्र भगवत्स्वरूपविषयकपूर्णज्ञानवतामेव तदिच्छया वर्णाश्रमधर्मकरणतदकरणयोर्विभजनात् पूर्णज्ञानप्राप्यत्वबोधकं अकृशमिति विशेषणं प्रतिपादितं ज्ञेयम् । न कृशं यस्येति तदर्थादिति । एवमेतत्सूत्रव्याख्याने प्रत्यवायश्रवणादिना गौणकालेऽप्यवश्यकर्तव्यतया पूर्वाधिकरणे साधितानां कर्मणां वैयर्थ्यपरिजिहीर्षया फलस्य वक्तव्यत्वेन पृथग्ध्यप्रतिबन्धः फलमिति सूत्रभागसार्थक्यमायाति, न सम्पूर्णस्य सूत्रस्येत्यरुच्या व्याख्यानान्तरार्थं सूत्रमवतारयन्ति अथवेत्यादि । पूर्वसूत्राभ्यां भगवद्धर्माणां मोक्षफलानां श्रवणादीनां कृतेः करणस्यावश्य- कत्वमुक्तम्, यः पुनः सर्वात्मभाववान्, तस्य तूक्तभगवद्वचनात्, तं प्रति मोक्षसाध- रश्मिः। भगवदिति । इच्छाया भगवन्निष्ठत्वेन तन्निष्ठसत्ताया अपि परम्परया भगवन्निष्ठत्वेन विषयविधया भगवद- धीनत्वम्, मुख्यत्वात्, इतरयोश्च विशेषणत्वात् । ननु प्रभोरिच्छास्तीत्यत्र प्रभुसम्बन्धीच्छानिष्ठः सत्तानुकूलो व्यापार इति वैयाकरणबोधतः कथमितरयोर्विशेषणत्वमिति चेत् । न । अनौचित्याद्भगवतो विशेषणत्वे सखण्डब्रह्मवादेन । एतद्भगवदधीनपदेन सूच्यते । एतत्फलमाहुः अतो भक्तेष्विति । येषां पुनर्भग- वान् साधनं फलं च तेष्वपीत्यर्थः । तादृशेष्विच्छासत्तयोरभावात् । तथा चैतन्निश्चयस्य ज्ञानरूपस्य सकलभक्तसाधारणं भगवदधीनत्वमुररीकार्यमिति भावः । नचान्योन्याश्रयः भगवदधीनो निर्धारः निर्धा- राधीनो भगवान् साधनमिति ज्ञानमिति वाच्यम् । पूर्वं कर्मकरणनिर्धारेण कार्येणाधीनस्य भगवत्सा- धनमस्ति कारणं विना कार्याभावादिति भगवात्साधनमिति पश्चाज्ज्ञानस्य सम्भवेनान्योन्याश्रयाभावात् । भाष्ये । वेदेत्यादि । इदं गीतातृतीयाध्याये 'लोकसङ्ग्रहमेवापि संपश्यन्कर्तुमर्हसी'ति लोकसङ्ग्रहः । 'यद्यदाचरति श्रेष्ठ' इत्यारभ्य 'उपहन्यामिमाः प्रजा' इत्यन्तेन वेदमर्यादारक्षा । ननु 'न कुर्यां कर्म चे- दह'मितीश्वरं प्रति व्यतिरेकमुखेन विधिरस्ति तत्र गीतायां अर्जुनं प्रति लोकसंग्रहकथनवद्वेदमर्यादारक्षा- प्युक्ता न सर्वान्तर्याह्यसेत्याकाङ्क्षायां हिकारस्यार्थमाहुः हीति । अत्र विद्वांसं प्रत्याज्ञास्तीति नोक्तदोष इत्यर्थः । भगवद्वाक्येन रूप्यते व्यवह्रियत इति भगवद्वाक्यरूपा उपपत्तिः युक्तिः । यदीदं भगवद्वाक्यं न स्यात्, उक्तदोषः स्यादिति अव्ययानां वैयाकरणमते द्योतकत्वात्सूच्येतेति । प्रकृते । भगेत्यादि । पूर्णेति । 'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत' इति श्रुत्या पूर्वं पूर्णं भगवता भक्तमनोरथयानुरूपं पूर्तिकर्मज्ञानं तद्वताम्, विभजनात् अम्बरीषाद्युदाहरणसमर्थितात् । अकृ- शमिति । (अकृशमिति ज्ञानम्, पूर्णत्वात्, अन्येषां परिच्छेदरूपत्वात् । अनेन पूर्णमेव ज्ञानं साधनमिति, न तु खण्डब्रह्मज्ञानानि शारीरकादीनि । सर्वेषां भक्तानामुपसंहृतत्वात् दौर्बल्यमाशङ्क्य निराकृतम् । भक्तानां तत्रैव प्रवेशात् । अनेनान्येपि दैहिका धर्मा निवारिताः । उत्पत्तिकार्यंतपस्यादीनि चाक्षर- साम्यात् निवारितानि । 'अस् भुवि' 'डुकृञ् करणे' 'शम उपशमे' इति धात्वादयो गृहीताः । प्रपञ्च- कर्मज्ञानानि वा ज्ञानसाधनानि, ततः ससाधनं ज्ञानमुक्तं भवति ।) तथाचायं सूत्रार्थः । मम कर्म- करणेऽकरणे वा भगवदिच्छास्तीति निर्धारणाञ्जिज्ञासाद्यनुष्ठानिकानाम्, अतस्तैर्निष्कामतया कर्म कर्तव्यमेव । तदृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्याम्बरीषोद्धवयुधिष्ठिरादेस्तस्य पृथक् जीवकृतकर्मणो यत्फलं तस्माद्भिन्नं सन्मार्ग रक्षालोकसङ्ग्रहादिकं तदेव फलम्, न तु स्वर्गादिकम् । पूर्वोक्तनिष्कामकर्मकर्तुस्तु अप्रतिबन्धः कर्मजप्रतिबन्धाभावः फलं युक्तमिति । इदानीं मुख्यायाः एकादशसर्वस्वत्वेन सर्वनिर्णये उक्तायाः न्यूनताख्यनिग्रहस्थाननिवारिकायाः प्रसङ्गतः प्रस्तावनामाहुः य इति । उक्तेति । भाष्योक्तभग- ४५ ब्र० सू० २० 1889

३५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १५ सू० ४२. 'न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति भगवद्वचनाद्विधेयाभावादसम्भवाच्च कर्मज्ञानयोर्विहितभक्तेश्च करणं न सम्भवतीति तस्य किं फलमित्याकाङ्क्षापूरणाय तदनुवदति तन्निर्धारणेत्यादिना । तस्मिन् धर्मिण्येव, न तु धर्मेष्वपि दृष्टिरस्य स तथा । दृष्टिपदेन ज्ञानमात्रमुच्यते । तेन अन्यविषयकदर्शनश्रवणादिज्ञानाभाव उक्तो भवति । एतादृशस्य प्रभुसङ्गममात्रमपेक्षितम् । तत्र भगवदुक्तस्वसङ्गमाव- धिकस्य भक्तस्य सङ्गमसमयनिर्धारो भवति । अतादृशस्य तस्य स नेति तन्निर्धा- रणानियमः । एतेन फलप्राप्तेः प्रागवस्थोक्ता भवति । फलस्वरूपमाह पृथक्फल- मिति । अस्यानिर्वचनीयत्वादनुभवैकवेद्यत्वान्मोक्षान्तं यत्फलं शास्त्र उक्तं तस्माद्भिन्न

तत्फलस्यानिवार्य्यता युक्तैवेति हिशब्देनाह। ज्ञानमोक्षादिना तद्भावाप्रतिबन्धश्च फलमित्यर्थः । प्रासङ्गिकमेतत्सूत्रम् ॥ ४२ ॥ इति तृतीयाध्याये तृतीयपादे पञ्चदशं तन्निर्धारणाधिकरणम् ॥ १५ ॥ भाष्यप्रकाशः। बन्धाभावश्च फलमिति भक्तिविचारे मुख्यभक्तेरपि स्मृत्या प्रसङ्गत उक्तमित्यर्थः । अस्मिन् इदं केवलं सूत्रमेव, न त्वधिकरणम् । एतज्ज्ञापनायोक्तमेतत्सूत्रमिति । अत्रान्ये तु, 'ओमित्येतदक्षरमुद्गीथमुपासीते'त्यादीनि कर्माङ्गान्यपासनानि तत्तत्कर्मसु जुहूपर्णतादिवन्नित्यं क्रतुसम्बन्धीनि न वेति शङ्कायां न नित्यानीति सिद्धान्तयन्ति । 'अङ्गेषु यथाश्रयभाव' इत्यन्तिमाधिकरणं चैतस्यैव प्रपञ्च इत्याहुः । तत्तेनैवास्य गतार्थत्वाद्वैयर्थ्यमस्य सूत्रस्य तन्मते दुर्वारमिति ज्ञेयम् ॥ ४२ ॥ इति पञ्चदशं तन्निर्धारणाधिकरणम् ॥ १५ ॥ [

३५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १६ सू० ४३. प्रदानवदेव तदुक्तम् ॥ ४३ ॥ (३-३-१६.) अथेवं विचार्यते । सर्वात्मभावो विहितकर्मज्ञानभक्तिसाध्यः, न वेति । तत्र पुराणे 'तस्मात् त्वमुद्धवोत्सृज्ये'त्युपक्रम्य, 'मामेकमेव शरणमात्मानं सर्व- देहिनाम् । याहि सर्वात्मभावेन यास्यसे ह्यकुतोभय'मिति वाक्ये मुक्त्यात्मका- कुतोभयसाधनरूपशरणगमने प्रकारत्वेन सर्वात्मभावस्य कथनेन स्वप्रयत्नसाध्यत्वं गम्यते । अतः साधनसाध्य इति पूर्वः पक्षः । तत्र सिद्धान्तं वक्तुं तदुपदेशस्वरूपमाह प्रदानवदिति । यद्ययं साधनोपदेशः स्यात्, स्यात्तदा साधनत्वेन सर्वात्मभावेन शरणप्राप्तेः स्वकृतिसाध्यत्वम्, न त्वेवम्, किन्तु, तदुक्तं भगवदुक्तम् । प्रदानवत् । प्रकृष्टं दानं प्रदानं वरदानमिति

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिबद्ध लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५७ स्फूर्त्या तद्भावाभाव्येन गुणगानादिसाधनेषु कृतेष्वप्यप्राप्तौ स्वाशक्यत्वं ज्ञात्वा प्रभुमेव शरणं गच्छति, एतच्च न स्वकृतिसाध्यमिति सुष्टूक्तं प्रदानव- दिति । भक्तस्येप्सितोऽर्थो हि वरो भवति । सर्वात्मभावस्यानुभवैकवेद्यत्वेन भाष्यप्रकाशः। तत्तुल्यत्वमित्याकाङ्क्षायामाहुः भक्तस्येत्यादि । स्पष्टम् । नन्वेवमपि शरणगतेरेव स्वकृत्यसाध्यत्वं रश्मिः । स्म प्रकृष्टमिति । अयं न विग्रहः एकादशसर्वस्वत्वेनोक्तार्थजातस्य प्रकृष्टदानकर्मत्वेन प्रकृष्टदानतु- ल्यत्वाभावादत आहुः वरेति । वरस्य सिद्धस्य न तु साधनसाध्यस्य दानं वरदानमिति षष्ठीतत्पुरुषः । तथाच वरस्य सिद्धस्य कथनरूपदानमिव तदुक्तं भगवदुक्तं भगवत्कथनमिति यावदित्यर्थः । नच प्रकृष्टस्य दानमिति भाष्यापत्तिरिति वाच्यम् । प्रकृष्टं दानं वरस्य दानमित्यनयोः पर्यायत्वात् । एवेति । ‘आत्मानं च स्वयं वेद तस्मादन्यवचो मृषे’ति निबन्धात् । ननु वरदानं साधनमेव तेनापि फलवता वर्त्यत इति चेत् , तत्राहुः वरेणेति । स्वकृतिसाध्यसाधनत्वं साधनत्वम् । स्वकृत्यसाध्यसाधनत्वं तु न । अनुग्रहवद्वरदान- स्यापि भगवद्धर्मत्वात् । सर्वात्मभावे स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पादनं दानं न यतः । प्रकृष्टमभीष्ट- मिति यावत् । भगवतोऽभीष्टम् । ‘ईप्सितत्वासम्भवेपी’ति वक्ष्यमाणभाष्यात् । तथेति । साधनेतरत्व- प्रकारेण वरकथनरूपं दानम् । ‘युक्तं भगैः स्वरितरत्र चाध्रुवै’रिति वाक्यात् । वरदानं भगवन्निष्ठं साधनं भक्तनिष्ठमिति विभेदः । प्रायस्तत्तत्फलं प्रति तत्तन्निष्ठस्यैव साधनत्वम् । क्वचिदेव पितृनिष्ठ- प्रायश्चित्तेन पुत्रनिष्ठा शुद्धिः । ननु मुख्यभक्तावपि दाढ्यार्थं ‘कामादीतरत्र’सूत्रोक्तकामादीनां तेभ्य एव मुक्तिसाधकानां का गतिरिति चेत्, तत्राहुः शत्त्वित्यादि । शत्रुसंहाराभ्यां भयं तदादिना, आदिना द्वेषः । न पुरुषार्थत्वमिति । किन्तु क्रत्वर्थत्वम्, क्रतूपौष्कल्याय विधीयते, या प्रयाजादिवत् शरणाप्तिः, सा क्रत्वर्था भगवत्सम्बन्धरूपक्रत्वर्था । मुख्यभक्तिदार्ढ्यार्थत्वेन मुख्यभक्तिरूपक्रत्वर्था वा । ननु क्रतुर्धर्मो यज्ञ इति यावत्, तत् कथं मुख्यभक्तेः क्रतुत्वमिति चेत्, न, ‘अप्रतीकालम्बन’सूत्रे तत्क्रतुपदस्य ‘प्राचीनभगवद्भजनलक्षणक्रतुश्च नीयत’ इति भाष्यात् । नहि भयादिना शरणाप्त्या पुरुषस्य कश्चित् प्रीतिविशेष उत्पद्यते, येन पुरुषार्था भवेत् । मुख्यभक्तिलक्षणक्रतुस्तु न क्रत्वर्थः, स्वस्यैव क्रतुत्वात् । पुरुषप्रीतये विधीयमानाः पुरुषार्थाः यथा मुख्यभक्त्यादयः । प्रकृते । शत्त्वा- दीति । पुरुषार्थत्वमित्यन्वयः । यथा गोदोहनादेः पुरुषार्थत्वम्, न क्रत्वर्थत्वम्, चमसेनापि क्रतूपौ- ष्कल्यसिद्धेर्गोदोहनाभावेपि । एवं शत्त्वादिभयन्निवृत्त्यभावेपि तद्द्वयेन मुख्यभक्तिलक्षणक्रतूपौष्कल्य- सिद्धेः । एतच्च पूर्वमीमांसायां चतुर्थाध्याये स्फुटम् । अर्थस्येति । सर्वात्मभावेन मुक्त्यात्मकाकुतोभय- साधनरूपशरणप्राप्तिकथनरूपसुसिद्धच्यरूपवाक्यस्योक्तं कथनं स एवार्थस्तस्य । एकतिङ्वाक्यमिति पक्षे वाक्यद्वयोक्तार्थस्य । प्रदानेति । वरस्य यद्दानं तत्तुल्यत्वम् । यथा वरस्य सिद्धस्य दानं कथनं ‘मयेमा रंस्यथ क्षपाः’ इति कथनम् । तथा तादृशशरणगमने प्रकारत्वेन सर्वात्मभावस्य कथनमिति प्रदानतुल्यत्वम् । एतादृशमिति । ‘तानि पर’ इति सूत्रभाष्योक्तं भगवन्मतसिद्धं च शरणगमनं सर्वात्मभावस्य स्वकृत्य- साध्यत्वेन तत्पूर्वकरीत्या, न स्वकृतिसाध्यमित्यर्थः । प्रदानवदित्यत्र । डुदाञ् दाने भावे घञ् । प्रथ- मान्ताद्वतिः । तेन सर्वात्मभावेन मुक्त्यात्मकाकुतोभयसाधनरूपशरणप्राप्तिकथननरूपवाक्यस्योक्तं कथनम्, स एवार्थो वरदानेन ‘मयेमा रंस्यथ क्षपा’ इति वरस्य कथनेन तुल्यः । अस्येति । भावस्यास्येति योजना । भावस्य सर्वात्मभावस्य सम्बन्धिनोऽस्य प्रत्यक्षस्य कथनस्येत्यर्थः । प्रदानत्वं वरस्य दानत्वं कथनरूपम् । स्पष्टमिति । ईप्सितत्वासम्भवे भक्तेन मह्यं सर्वात्मभावं देहीति स्वानुभ- 1893

पूर्वमज्ञानेनेप्सितत्वासम्भवेपि स्वत एव कृपया ऽदानमिति वदित्युक्तम् । अथवा । 'सर्वात्मभावेन मां याही'ति सम्बन्धः । यद्वा । प्रदानवद्वित्यस्य पूर्ववदेव व्याकृतिः । तत्र साधनासाध्यत्वे प्रमाणमाह तदुक्तमिति । 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य' इति श्रुत्या वरणातिरिक्तसाधनाप्राप्यत्वमुक्तयत इति तत्तथैवेत्यर्थः । भाष्यप्रकाशः । सिद्ध्यति, न तु सर्वात्मभावसेत्यतो वाक्यस्य योजनान्तरमाहुः अथेत्यादि । शरणपदं मामित्यस्य विशेषणम् । तथाच सर्वात्मभावसैव प्रदानतुल्यत्वं निराबाधमित्यर्थः । यद्यपि 'गतेरर्थवत्त्व'मित्यारभ्य सर्वोपि वरणश्रुतेरेव प्रपञ्चः, तथाप्यत्र पुराणवाक्यमात्रस्य विषयत्वेनो- पन्यासेनापाततः पौराणत्वशङ्का अस्य विचारस्य स्यादिति तन्निरासाय सूत्रार्थं प्रकारान्तरेण