अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
संस्कृतटीका-भाषाटीकासहिता । (१९) कलाभिः श्रोत्रादिबुद्ध्यंताभिः सप्तदशभिरावृत आ- च्छादितस्तत्संघात इत्यर्थः अतएव लिंगदेहस्य निरव- यवत्वाद्यभावात् ज्ञानेन तत्कारणाऽज्ञाननिवृत्तौ निवृ- त्तिरन्यथाऽनिर्मोक्षप्रसंग इतिभावः एवमतिवैलक्षण्ये सत्यपि तयोरात्मदेहयोः प्रकाशतमसोरिवैक्यमैका- त्म्यं प्रपश्यंति तार्किकादयइत्यर्थः अतो विपरीतद- र्शनात्परमन्यदज्ञानं किमस्ति एतदेवाज्ञानमित्यर्थः विपर्ययरूपकार्यान्यथानुपपत्त्या तत्कारणं मूलाऽज्ञानं कल्प्यत इतिभावः ॥ १७ ॥ भा. टी. आत्मा विनिष्कल अर्थात् अवयवहीनहै इसी कारण एक है और देह बहुत अवयवोंसे बना है तबभी संसार बन्धनमें फँसेहुए पुरुष आत्मा और देहकी ऐक्यता कर व्यव- हार करते हैं इससे अधिक और क्या अज्ञान होगा ॥ १७॥ आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः ॥ तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥ सं. टी. पुनर्वैलक्षण्यमाह आत्मेति आत्मा नियाम- को नियंता च पुनरंतः पंचकोशांतरः देहस्तु नियम्यः सन् बाह्यः तयोरैक्यमित्युत्तरार्द्धं व्याख्यातं एवमग्रेपि ज्ञेयम् ॥ १८ ॥
(२०) अपरोक्षानुभूतिः । भा. टी. आत्मा अन्दर स्थित है और प्रेरणा करने वाला है देह बाहर और प्रेरित है तबभी संसार बन्धनमें फँसे हुए अज्ञानी पुरुष देह और आत्मांकी समता कर व्यवहार करें- हैं इससे अधिक और क्या अज्ञान होगा ॥ १८ ॥ आत्मा ज्ञानमयः पुण्यो देहो मांसम- योऽशुचिः ॥ तयोरैक्यं प्रपश्यन्तिकि- मज्ञानमतः परम् ॥ १९ ॥ सं. टी. अन्यदपि वैलक्षण्यमाह आत्मेति आत्मा ज्ञानमयः प्रकाशरूपोऽतएव पुण्यः शुद्धःदेहस्तु मांसा- दिविकारवानतएवाऽशुचिः एतेनात्मनः स्थूलदेहादपि वैलक्षण्यमुक्तं भवति तयोरैक्यमित्यादि पूर्ववत् ॥ १९ ॥ भा. टी. आत्मा ज्ञानमय है पवित्रहै और देह मांस रुधिर अस्थि चर्बी इत्यादिकोंसे बनाहुआ है इसी कारण अप- वित्र है तबभी संसार बंधनमें फँसे हुए अज्ञानी पुरुष देह और आत्माकी समताकर व्यवहार करें हैं इससे अधिक और क्या अज्ञान होगा ॥ १९ ॥ आत्मा प्रकाशकःस्वच्छो देहस्तामस उच्यते ॥ तयोरैक्यं प्रपश्यन्ति किम- ज्ञानमतःपरम् ॥ २० ॥ सं. टी. वैलक्षण्यांतरमाह आत्मेति आत्मा स्वयंप्र- काशः सन् सूर्यादिवदन्यसर्वप्रकाशकोऽतएवस्वच्छः
संस्कृतटीका-भाषाटीकासहिता । ( २१ ) प्राकाश्यगुणदोषसंबंधशून्यइत्यर्थः“असंगोह्ययं पुरुषः” इतिश्रुतेः देहस्तु तामसो घटादिवत्प्रकाश्यत्वेन जडः तयोरैक्यामत्यदि पूर्ववत् ॥ २० ॥ भा. टी. आत्मा सबका प्रकाशक ज्योतिःस्वरूपहै और स्वच्छ है ( अर्थात जिसमें रजोगुण सतोगुण तमोगुणरूप सृष्टि मरु मरीचिका की तरह मालूम होय वास्तवमें आत्मा निर्मलहै ) और देह सदा तमोगुण करके युक्त रहेहै तबभी संसारी पुरुष देह आत्माकी समता कर व्यवहार करें हैं इससे अधिक और क्या अज्ञान होगा ॥ २० ॥ आत्मा नित्यो हि सद्रूपो देहोऽनि- त्योह्यसन्मयः ॥ तयोरैक्यं प्रपश्य- न्ति किमज्ञानमतःपरम् ॥ २१ ॥ सं. टी. अत्र सर्वत्रपौनरुक्त्यंनाशंकनीयमात्मनोऽलौ- किकत्वेनात्यंतदुर्बोधत्वादेव बहुधा वैलक्षण्यं प्रदर्श्यते परमकारुणिकैः श्रीमदाचार्यैः आत्मेति आत्मा नित्यो ध्वंसाप्रतियोगी तत्रहेतुः हि यस्मात्सद्रूपः अबाध्यस्व- रूपःदेहस्तु ध्वंसप्रतियोगी अत्रापि हेतुः हियस्मादसन्म- योऽनित्यः विकारित्वेन बाध्ययोग्यइत्यर्थः यस्मादेवमा- त्मदेहयोरत्यंतवैलक्षण्यं तस्मात्तयोरैक्यदर्शनं केवल- मज्ञानमिति ॥ २१ ॥
( २२ ) अपरोक्षानुभूतिः। भा. टी. आत्मा नित्यहै अर्थात् आदि मध्य अन्त करके रहितहै, इसी कारण सद्रूप है अर्थात् सदा एकरस रहे है और देह अनित्य है अर्थात् उत्पन्नहोय है, बालक होयहै, युवा होय है, वृद्धहोयहै, रोगी होयहै, सुखदुःख करके ग्रसित रहै है और असत् है अर्थात् नाशवान् है तौभी संसारी पुरुष देह और आत्माकी समता कर व्यवहारकरे हैं इससे अधिक और क्या अज्ञान होगा ॥ २१ ॥ आत्मनस्तत्प्रकाशत्वं यत्पदार्थाव- भासनम् ॥ नाग्न्यादिदीप्तिवद्दीप्तिर्भ- वत्यान्ध्यं यतो निशि ॥ २२ ॥ सं. टी. नन्वात्मनः प्रकाशत्वं किं नामेत्यत आह आत्मनइति आत्मनस्तत् प्रकाशत्वं बोद्धव्यं किंतदि- त्यतआह यदिति यत्पदार्थावभासनं घटपटादिवस्तुवि- षयप्रकाश इदंतया निर्दिश्यमानविषयदर्शनमिति या वत् । तर्ह्यग्न्यादिप्रकाशवद्विकारित्वं स्यादित्यतआह नाग्न्यादिदीप्तिवद्दीप्तिरिति इयमात्मदीप्तिरग्न्यादिदी- प्तिवन्न कदाचिदुत्पत्तिविनाशादिविकारवतीत्यर्थः तत्र हेतुमाह भवतीति भवत्यांध्यं यतो निशि यतःकारणा- न्निशि रात्रावग्न्यादिप्रकाश एकस्मिन्देशेसत्यपितदन्य- त्रलोकस्यांध्यं रूपग्रहणाक्षमत्वं भवति नैतादृश्यात्मदी- प्तिरेकत्र विद्यमाना चैकत्राऽविद्यमाना परिच्छिन्ना चास्ति
संस्कृतटीका-भाषाटीकासहिता । (२३) किंतु दीपादिरूपस्याग्न्यादिप्रकाशस्य प्रकाशिका तद्भावे चांधकारस्य प्रकाशिका उत्पत्तिनाशरहि- ता च सदा सर्वत्र पूर्णेवास्ति यद्वा इयमात्मदीप्तिरग्न्या- दिदीप्तिसदृशी न कुतः यतः कारणात्निशि रात्रावांध्यमं- धकारोभवत्यतद्विलक्षणाऽऽत्मदीप्तिर्ज्ञेया यद्यात्म- दीप्तिरग्न्यादिदीप्तिसदृशीभवेत्तर्ह्यग्न्यादिदीप्त्या यथां- धकारस्य नाशोभवति तथात्मदीप्त्याऽप्यंधकारस्य ना शः स्यात् परंत्वात्मनः सत्ताप्रकाशाभ्यां सर्वत्र सर्वदा विद्यमानत्वेऽप्यंधकारस्य नाशो नभवत्यत आत्मदीप्ति- रग्न्यादिदीप्तिसदृशी न किंतु इयमग्न्यादिदीप्तिर्भातीद मांध्यंभातीत्याद्याकारेणाऽग्न्यादिदीप्तेरांध्यस्य चान्य- स्य सर्वस्य च प्रकाशिका चाविरोधिन्त्यात्मदीप्तिः स्वप्र- काशैवाभ्युपेतव्या सर्वैरात्मज्ञानारूढैरित्यर्थः तस्मा- दग्न्यादिदीप्तीनामपि दीपिकान्यसाधननिरपेक्षांयादी- प्तिः स आत्मप्रकाश इतिभावः ॥ २२ ॥ भा. टी. जिस प्रकार घटपटादि पदार्थ प्रकाश होय हैं तिसी प्रकार आत्माका प्रकाश होयहै सूर्य्य चन्द्र अग्निके प्रकाशकी तरह आत्माका प्रकाशविकारको नही प्राप्त होय है क्योंकि जब रात्रिमें सूर्यादिकका प्रकाश नहीं होयहै तब अन्धकार होय है इससे जानाजायहै कि अग्नि आदिका प्रकाश विकारको प्राप्त होय है किन्तु आत्माका प्रकाशक
( २४ ) अपरोक्षानुभूतिः । भी विकारको नहीं प्राप्त होयहै अर्थात् आत्माका प्रकाश सदा सब जगह रहेहै ॥ २२ ॥ देहोऽहमित्ययं मूढो धृत्वातिष्ठत्यहो जनः ॥ ममायमित्यपि ज्ञात्वा घटद्र- ष्टेव सर्वदा ॥ २३ ॥ सं. टी. तदेवं प्रकाश्य प्रकाशकत्वादिलक्षणवैलक्ष- ण्येसत्यपि आत्मानात्माभेददर्शिनमुपसंहरन्नुभयोर्भेदं स्पष्टयति देहइति अहमहंशब्दप्रत्ययालंबनः प्रत्यगा त्माऽयमिदंतयानिर्देश्यमानो घटादिवत्प्रत्यक्षतयादृ- श्यमानोदेहोऽस्मीत्युभयोर्द्रष्टृदृश्ययोरैक्यंकृत्वा मूढः स्वाज्ञानकार्यविपर्ययमोहव्याप्तोजनस्तिष्ठति कृतकृत्य बुद्ध्या निर्व्यापारोभवतीत्यर्थः एतदहो महदज्ञान मितिभावः किंकृत्वापीत्यत आह ममेति मम मत्संबंधी अयं देह इति सामान्यतो भेदं ज्ञात्वापि अतएवाश्चर्य- मिति तात्पर्यं कइव, सर्वदा घटद्रष्टेव यथा सर्वकाले घटद्रष्टा पुरुषो ममायं घट इति जानाति नत्वहं घट इति कदाचिदपि जानातीत्यर्थः ॥ २३ ॥ भा. टी. मनुष्यके पास एक घडा होयहै तब 'मेराघडा है' ऐसा व्यवहार करै है मैं घट हूं ऐसाःव्यवहार नहीं करै किन्तु यह देह मेरा है मैं हूं ऐसा संसारी पुरुष ज्ञान करैहै परन्तु वास्तवमें अज्ञानहै ॥ २३ ॥
संस्कृतटीका-भाषाटीकासहिता । (२५) ब्रह्मैवाहं समः शान्तः सच्चिदानन्दल- क्षणः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि- त्युच्यते बुधैः ॥ २४ ॥ सं. टी. नन्वतस्मिंस्तद्वुद्धिरिति लक्षणभ्रमापरप- र्यायमोहकार्य्यलिंगानुमेयमज्ञानमीदृक् तर्हि तन्निवर्त्तकं किमित्याकांक्षायां तद्विरोधित्वादात्मज्ञानमेवात्मा- ऽज्ञाननिवर्त्तकमित्यभिप्रेत्य तल्लक्षणमाह ब्रह्मेत्यादिपं- चभिः । अहमहंशब्दप्रत्ययालंबनः प्रत्यगात्मा ब्रह्मै- वास्मि एतयोस्तत्त्वंपदार्थयोरैक्ये हेतुगर्भितानि विशे- षणान्याह सम इति समः सत्ताप्रकाशाभ्यां सर्वा- भिन्नः पुनः किंलक्षणः शांतः निरस्तसमस्तोपा- धित्वाद्विक्षेपादिविकारशून्यः पुनः किंलक्षणः सच्चिदा- नंदलक्षणः । सच्चिदानंदैरनृतजडदुःखप्रतियोगिभिर्ल- क्ष्यते विरुद्धांशत्यागरूपया भागलक्षणया ज्ञायत इति सच्चिदानंदलक्षणः । ब्रह्मबोधे हि द्विविधं द्वारं विधिर्निषे- धश्चेति तत्र सत्यज्ञानादिसाक्षाद्वाचकशब्दप्रयोगलक्ष- णो विधिरुक्तः । इदानीमतन्निरसनलक्षणो निषेधः प्रद- र्श्यते नाहमिति अहमहंशब्दप्रत्ययालंबन आत्मा देहो नेत्यन्वयः देह इत्युपलक्षणं प्राणेंद्रियादीनामपि हीति विद्वज्जनप्रसिद्धं देहादेरनात्मत्वेहेतुमाह असदिति । अस- द्रूपोसद्वाध्यमनृतं तादृग्रूपं स्वरूपं यस्य स तथाविध २
( २६ ) अपरोक्षानुभूतिः । इत्येवंप्रकारम् "अहं ब्रह्मास्मि"इत्यादिमहावाक्यजन्या- ऽखंडाकारबुद्धिरूपं ज्ञानं बुधैरात्मतत्त्वज्ञैरुच्यते कथ्यत इत्यर्थः। एतद्विलक्षणः सर्वोऽज्ञानाभास इतिभावः॥२४॥ भा. टी. मैं सम अर्थात् सर्वमय प्रकाशद्वाराहूँ । और शान्तहूँ अर्थात् निर्विकारहूँ त्रिकाल में विद्यमान चैतन्य- स्वरूप आनन्दमयस्वरूप ब्रह्म हूँ । नाशवान् देह मैं नहीं हूं इस प्रकार ज्ञानको पण्डित जन तत्वज्ञान कहैं हैं ॥ २४ ॥ निर्विकारो निराकारो निरवद्योऽहम- व्ययः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि- त्युच्यते बुधैः ॥ २५ ॥ सं. टी. नन्वहं जातो मृतःसुखीदुःखीत्याद्यनेकविक। रत्त्वेनाहंशब्दप्रत्ययालंबनस्य प्रतीयमानत्वात् कथं तस्य ब्रह्मत्वमित्यत आह निर्विकार इति अहमहंशब्दप्र- त्ययालंबनः प्रत्यगात्मा निर्विकारोऽस्मीति शेषः निर्गतो विकारजन्मदायो यस्मात् स तथाविधः तेषां देहधर्म- त्वादिति भावः । तत्र हेतुः निराकारः देहाद्याकाररहितः अत एव निरवद्यो वातपित्तादिजन्याध्यात्मिकादि- तापत्रयरहितइत्यर्थः। अत एवाऽव्ययः अपक्षयादिरहित इत्यर्थः अहं मनुष्य इत्यादिप्रतीतेः । कथं निर्विकारत्व- मिति चेत्सा प्रतीतिः शुक्तिरजतादिवद्बाध्यत्वाद्भ्रांतिरि- त्याह नाहमिति । नाहमित्युत्तरार्द्धं व्याख्यातं पूर्वश्लोके
संस्कृतटीका-भाषाटीकासहिता । (२७) एवमुत्तरत्रापि ज्ञेयं पुनरुक्तिस्तु ज्ञानप्रतिबंधकस्य बु- द्धिमांद्यविपर्ययादेर्दाढर्यान्नाशंकनीया ॥ २५ ॥ भा. टी. मैं निर्विकारहूं अर्थात् सदा एकरूपहूं । निरा- कार अर्थात् मेरा कोई आकार नहीं है । मैं निरवयहूं अर्थात् आध्यात्मिक आधिदैविक आधिभौतिक इन तीन तापों करकै रहितहूं और अविनाशीहूं । नाशवान् देह नहीं हूं । इस प्रकार ज्ञानको पण्डितगण तत्त्वज्ञान कहैं हैं ॥ २५ ॥ निरामयो निराभासो निर्विकल्पोऽह- माततः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि- त्युच्यते बुधैः ॥ २६ ॥ सं. टी. पुनः किंलक्षणं ज्ञानमित्यत आह निरामय इति। अहं निरामयः सर्वरोगरहितःनिराभासो वृत्तिव्या- प्यत्वेपि फलव्याप्यत्वशून्यः निर्विकल्पः कल्पनाही- नः आततश्च व्यापकः ॥ २६ ॥ भा. टी. मैं रोगहीनहूं अर्थात् मुझे राजयक्ष्मादिरोग नहीं होयहैं मुझे फलकी अभिलाषा नहीं होयहै मैं कल्पना नहीं करूंहूं और सर्वव्यापीहूं । मैं नाशवान् देह नहींहूं इस प्रकार ज्ञानको पण्डित जन तत्त्वज्ञान कहैं हैं ॥ २६ ॥ निर्गुणो निष्क्रियो नित्यो नित्यमुक्तो ऽहमच्युतः॥ नाहं देहो ह्यसद्रूपो ज्ञान मित्यच्यते बुधैः ॥ २७ ॥
( २८ ) अपरोक्षानुभूतिः । सं. टी. पुनः किंलक्षणं ज्ञानमित्यत आह निर्गुण इति । अहं निर्गुणो गुणरहितः गुणानां मायामयत्वा- दित्यर्थः अत एव निष्क्रियः क्रियारहितः तथा नित्यो विनाशरहितः अत एव नित्यमुक्तः कालत्रयेपि बंधशून्यः तत्र हेतुः अच्युतः अप्रच्युतसच्चिदानंदस्वभावः ॥२७॥ भा. टी. मैं रजोगुण सतोगुण तमोगुणरूप तीन गुणों करके रहितहूं क्रिया करके रहितहूं नित्यहूं नित्यमुक्तहूं अर्थात् सर्वदाही बन्धशून्यहूं अच्युतहूँ अर्थात् सदा ज्ञानमयहूं मैं नाशवान् देह नहींहूं इस प्रकार ज्ञानको पण्डित जन तत्वज्ञान कहैं हैं ॥ २७ ॥ निर्मलो निश्चलोऽनन्तः शुद्धोऽहम- जरोऽमरः ॥ नाहं देहो ह्यसद्रूपो ज्ञान- मित्युच्यते बुधैः ॥ २८ ॥ सं. टी. पुनरपि ज्ञानलक्षणमाह निर्मल इति । अहं निर्मलः अविद्यातत्कार्यलक्षणमलरहितः अत एव निश्चलः व्यापकत्वादाकाशवन्निश्चल इत्यर्थः निश्च- लत्वे हेतुः अनंतः देशकालवस्तुपरिच्छेदशून्यः शुद्धः अशुद्धिरहितः पुनरजरः जरारहितः अमरो मरणरहि- तश्च सर्वधर्माणां देहत्रयवर्तित्वादिति भावः ॥ २८ ॥ भा. टी. मैं निर्मल अर्थात् सर्वदोषों करके रहितहूं और निश्चलहूं अर्थात् चलायमान नहीं होऊंहूं अनन्तहूं
संस्कृतटीका-भाषाटीकासहित । ( २९ ) अर्थात् मेरा अन्त नहीं है और शुद्धहूं और अजरहूं अर्थात् बूढा नहीं होऊंहूं और अमर हूं अर्थात् मेरी कभी मृत्यु नहीं होयहै नाशवान् देह नहींहूं ऐसा जो ज्ञानहै उसको पण्डितजन तत्त्वज्ञान कहैं हैं ॥ २८ ॥ स्वदेहे शोभनं संतं पुरुषाख्यं च सम- तम् ॥ किं मूर्ख शून्यमात्मानं देहा- तीतं करोषि भोः ॥ २९ ॥ सं. टी. नन्वात्मा प्रत्यक्षदेहरूपो न भवति तर्हि शून्यत्वमात्मनः स्यादित्याशंक्याह स्वदेहे इति । भो हे मूर्ख शून्यवादिन् स्वदेहे पुरुषाख्यं पुरि मनुष्यशरीरे उषति अहमाकारेण वसतीति पुरुष इत्याख्या नाम य- स्य तं अतएवशोभनं मंगलं शरीरविलक्षणत्वादतिमंगलं तथा संमतम् "अयमात्मा ब्रह्म" इत्यादिवाक्यनिर्णीतं चकारात् "उत्तमः पुरुषस्त्वन्यः " इत्यादि स्मृतिनि र्णीतं घटद्रष्टृवद्देहद्रष्टृत्वेन देहातीतमात्मानं सततं भावं संतं सर्वव्यवहाराधिष्ठानं शून्यं खपुष्पादिवत् अत्यंता- ऽभावरूपं किंकरोषि कथं मन्यसे मामन्यथा इति भावः। क्वचित् स्वदेहमिति द्वितीयांतः पाठस्तस्मिन् पक्षे देहात्मवाद्येव वदति उक्तलक्षणं मनुष्यदेहं त्यक्त्वा समानमन्यत् ॥ २९ ॥ भा. टी. हे संसारी मूढ ! तू अपने देहमें विद्यमान मङ्गलमय
( ३० ) अपरोक्षानुभूतिः। ब्रह्मरूप निर्णय किये हुए देहातीत आत्माको शून्य ज्ञान करै है ॥ २९ ॥ स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् ॥ देहातीतं सदाकारं सुदु र्दर्शं भवादृशैः ॥ ३० ॥ सं.टी. ननु शून्यवादिना एवाभावापत्तेः शून्यं मास्तु परंत्वात्मनो देहातीतत्वे प्रमाणाभावाद्देह एवात्मा स्यादित्याशंक्याह स्वात्मानमिति । भो मूर्ख देहात्मवा- दिन् चार्वाक त्वं स्वात्मनं स्वकीयमात्मानं पुरुषं देहा- तीतं देहातिरिक्तं श्रुत्या “तस्माद्वा एतस्मादन्नरसमया- दन्योंतर आत्मा”इत्यादिकया पुनर्युक्त्याच एकस्मिन्क र्तृकर्मविरोधइत्यादिरूपया शृणु अवधारय देहातीतत्वे किमाकार आत्मेत्यत आह सदाकारमिति । सदाका- रमस्तीत्येतन्मात्रान्यव्यवहारकारणभूत आकारो यस्य तं एवंविधोस्ति चेत्कुतो न दृश्यत इत्यत आह सुदुर्दर्शमिति भवादृशैः श्रुत्याचार्यश्रद्धाशून्यैः सुदुर्दर्शं सर्वथा दर्श- नायोग्यं तस्यादृष्टरूपत्वादेवेत्यर्थः यद्वा पूर्वश्लोकोक्त- द्वितीयापेक्षया देहात्मवादिनः समाधानात्थोंयं श्लोकः स्वात्मानमिति ॥ ३० ॥ भा. टी. युक्तियों करके और श्रुतियों करके आत्माको देहातीत निर्णय तौ कर । हे मूढ ! आत्मा तौ सदाकारहै
⸱संस्कृतटीका-भाषाटीकासहिता। (३१) 'आत्मा'है इसप्रकार व्यवहारके कारण आत्माका आकारभान होयहै परन्तु तुमसे मूर्खोंके दृष्टिगोचर नहीं होय है ॥ ३० ॥ अहंशब्देन विख्यात एक एव स्थितः परः॥ स्थूलस्त्वनेकतां प्राप्तः कथं स्या- देहकः पुमान् ॥ ३१ ॥ सं.टी. तदेवाह अहंमित्यादिसप्तभिः। परः देहादन्य आत्माऽहंशब्देन शब्द इत्युपलक्षणं प्रत्ययस्यापि वि- ख्यातः प्रसिद्धः किंलक्षण इत्यत आह एकइति एक एव स्थित एवेति प्रत्येकमवधारणं तुशब्दः पूर्वोक्तादात्मनः स्थूलदेहस्य वैलक्षण्यद्योतकः।स्थूलो देहकः देहएव देह- कः स्वार्थे कः प्रत्ययः कथं पुमान् पुरुषः आत्मा स्यान्न कथंचिदित्यर्थः देहस्यानात्मत्वे हेतुमाह अनेकतामिति अनेकतां परस्परं भिन्नतां प्राप्तः एवं तमःप्रकाशवदति विलक्षणत्वेपि देहस्यात्मत्वं ब्रुवन्नतिमूढत्वादुपेक्ष्य इति भावः ॥ ३१ ॥ भा. टी. अहं शब्द करिकै कहाजायहै और एकहै और सबसे उत्कृष्टहै तब किसप्रकार स्थूल अनेकताको प्राप्त देहमय होसकै है ॥ ३१ ॥ अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ॥ ममायमितिनिर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥
( ३२ ) अपरोक्षानुभूतिः । सं.टी.तदेवातिवैलक्षण्यं दर्शयति अहमिति । अह- महंशब्दप्रत्ययालंबन आत्मा द्रष्टृतया शब्दादिविषयप्र- काशकतया सिद्धः शब्दंशृणोमीत्यादिव्यवहारेण प्र- सिद्धः देहस्तु दृश्यतया शब्दादिवत्प्रकाश्यतया स्थितः तत्र हेतुमाह ममेति ममायं देह इति घटादिवत्स्वीय- संबंधितया निर्देशात् व्यवहारात् एवमुभयोर्वैलक्षण्ये सति कथं देहकः पुमान् स्यादिति व्याख्यातार्थश्चतुर्थ- पादः एवमग्रेपि बोद्धव्यम् ॥ ३२ ॥ भा. टी. यह मेरा है इस प्रकार निर्देश करनेसे आत्मा द्रष्टा ( देखने वाला ) देह दृश्य ( देखने लायक ) है.इसप्रकार प्रतीत होयहै। फिर आत्मा किसप्रकार देहमय हो सकै है ॥ ३२ ॥ अहं विकारहीनस्तु देहो नित्यं विकार वान् ॥ इति प्रतीयते साक्षात्कथं ० ॥ ३३ ॥ सं.टी. पुनर्वैलक्षण्यांतरमाह अहमिति अहं व्याख्या तार्थः विकारहीनः जायतेस्तीत्यादिषड्विकारहीनः तुवै- लक्षण्ये देहो नित्यं सर्वकालं विकारवान् अत्रकिंप्रमाण- मत आह इतीति इति साक्षात् प्रत्यक्षप्रमाणेन प्रतीयते अनुभूयते एवं सतिकथं स्याद्देहकः पुमानिति ॥ ३३ ॥ भा. टी. आत्मा विकाररहित है और देह सदा विकार- वान् है ऐसा साक्षात् प्रतीत होय् है फिर किस प्रकार आत्मा देहमय होसकै है ॥ ३३ ॥
संस्कृतटीका-भाषाटीकासहिता । ( ३३ ) यस्मात्परमिति श्रुत्या तयापुरुषलक्ष- णम्॥ विनिर्णीतं विमूढेन कथं०॥३४॥ सं.टी.एवं युक्त्या देहात्मनोर्वैलक्षण्यमुक्तवा श्रुत्या- प्याह यस्मादिति । “यस्मात्परं नापरमस्ति किंचिद्यस्मा- न्नाणीयो नज्यायोस्तिकश्चित् । वृक्षइव स्तब्धो दिवि ति- ष्ठत्येकस्तेनेदं पूर्णंपुरुषेण सर्वम् ” इति तया प्रसिद्धया तैत्तिरीयश्रुत्याकृत्वेति करणे तृतीया पुरुषस्यात्मनो ल- क्षणं विमूढेन विगतमूढभावेनातिचतुरेण श्रुत्यर्थविवेच- नकुशलेनेत्यर्थः इयं कर्तरितृतीया विनिर्णीतं विचार्य स्थापितं अन्यत्पूर्ववत् यद्वा श्रुत्येति कर्तृपदमस्मिन्प- क्षे विमूढेनेति देहात्मवादिनं प्रति संबोधन विमूढानां इन स्वामिन् मूर्खशिरोमणित्वादेव श्रुतिं नाद्रियस इ- तिभावः ॥ ३४ ॥ भा. टी. “ यस्मापरं नापरमस्ति किञ्चित् यस्मान्नाणीयो नज्यायोऽस्तिकश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्”इति श्रुतिः । अर्थात् जिससे पर अपर कुछ नहीं है जिससे और उत्कृष्ट नहीं है जिससे कोई सक्ष्म नहीं है जिससे कोई प्रधान नहीं है जो एक आत्मा वृक्षकी तरह स्तब्ध होकर स्वर्गमें वर्तमान है वही आत्मा इस सम्पूर्ण जगत्को परिपूर्ण रखताहै । इस श्रुतिसे परमात्माका लक्षण निर्णयकिया गया है फिर वह आत्मा किस प्रकार देहमय होसक्ताहै॥ ३४ ॥
( ३४ ) अपरोक्षाऽनुभूतिः । सर्वपुरुषएवेति सूक्ते पुरुषसंज्ञिते॥ अ- प्युच्यते यतः श्रुत्या कथं० ॥ ३५ ॥ सं. टी. नकेवलमनयैकया श्रुत्या विनिर्णीतं किंतु- न्ययापीत्याह सर्वमिति । यतो हेतोः श्रुत्या वेदाख्यपरदे- वतया ‘पुरुषएवेदंसर्वम्’ इति पुरुषसंज्ञिते सूक्तेऽप्युच्यते पुरुषलक्षणमिति पूर्वश्लोकादध्याहारः अतः कथं स्या- दितिपूर्ववत् ॥ ३५ ॥ भा. टी. “पुरुष - एवेदं सर्वं यद्भूतं यच्च भाव्यम्” इति श्रुतिः।जो कुछ दृष्टिगोचर होयहै सो सब आत्मस्वरूपहै और जो कुछ हुआ और जो कुछ होयगा सर्व आत्मस्वरूप है। इस श्रुतिसे कहा हुआ परमात्मा देहमय किस प्रकार होसकै है ३५ असंगः पुरुषः प्रोक्तो बृहदारण्यके ऽपिच॥अनंतमलसंश्लिष्टः कथं०॥३६॥ सं.टी.अपरयापि श्रुत्यैवमेव निर्णीतमित्याह असंग- इति । “असंगो ह्ययं पुरुषः” इति श्रुत्या बृहदारण्यके वाजसनेयोपनिषदि पुरुषः असंगः प्रोक्तः देहकस्त्वनं- तमलसंश्लिष्टः कथं पुमान्स्यादिति ॥ ३६ ॥ भा. टी, “असंयोगोयंपुरुषः” आत्मा सङ्गहीन है यह बृह दारण्यक उपनिषद्की श्रुति है इस श्रुतिसेभी आत्मा असंग सिद्ध होताहै और देह नानाप्रकारके मलोंकरकै लिपटा हुआ फिर किसप्रकार आत्मा देहमय होसकै है ॥ ३६ ॥
संस्कृतटीका-भाषाटीकासहिता । ( ३६ ) तत्रैव च समाख्यातः स्वयंज्योतिर्हि पू- रुषः॥ जडः परप्रकाश्योसौ कथं० ३७॥ सं. टी. तत्रैवान्यप्रकारेणापि देहात्मनोर्वैलक्षण्यं नि- रूपितमित्याह तत्रैवेति । तत्रैव बृहदारण्यक एवेत्यर्थः अत्रायं पुरुषः स्वयंज्योतिर्भवतीति श्रुत्या स्वयंज्योतिः पुरुषः समाख्यातः हीति विद्वत्प्रसिद्धिं द्योतयति असौ घटादिवद्दृश्योऽत एव परप्रकाश्यस्तत एव जडो देहकः कथं पुमान् स्यादिति व्याख्यातम् ॥ ३७ ॥ भा. टी. "पुरुषोज्योतिर्मयः" पुरुष स्वयंप्रकाश ज्योति- स्वरूपहै यह श्रुति उसी बृहदारण्यक उपनिषदमें लिखीहै इससे आत्मा तौ ज्योतिःस्वरूपहै और देह जड़है घटादिकोंकी तरह परप्रकाश्यहै फिर किसप्रकार आत्मा देहमय हो सकै है ॥ ३७ ॥ प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्वि- लक्षणः॥ नित्यश्च तत्फलं भुंक्ते देहपा- तादनंतरम् ॥ ३८ ॥ सं.टी.अथास्तामिदं ज्ञानकांडं कर्मकांडेपिदेहात्मनो भेद एवनिर्णीत इत्याहप्रोक्तइति।हियस्मात्कर्मकांडेनापि "यावज्जीवमग्निहोत्रं जुहुयात् " इत्यादिरूपेण कर्मप्र- तिपादकेन वेदभागेनेत्यर्थः आत्मा देहाद्विलक्षणः प्रोक्तः कथमित्यतआह नित्य इति नित्यत्वं च कुतइत्यतआह
( ३६ ) अपरोक्षानुभूतिः । तदिति देहपातादनंतरं तत्फलमनित्यं कर्मफलं यत आत्मा भुंक्तेऽतो नित्य इत्यर्थः चकारात् न्यायसांख्या दावप्येवमेव देहात्मनोर्भेदो वर्णित इति दर्शितम् ॥३८॥ भा. टी. "यावज्जीवमग्निहोत्रं जुहुयात्" "अहरहः सन्ध्या मुपासीत"। जबतक जिये अग्निहोत्र करै । प्रतिदिन सन्ध्या करै । इत्यादि कर्मकाण्डमेंभी आत्मा देहसे अलग नित्य देहपात होनेके अनन्तर कर्मोंके फलोंका भोगनेवाला कहाहै इसप्रकारभी आत्मा देहातीतसा प्रतीत होयहै ॥ ३८ ॥ लिंगं चानेकसंयुक्तं चलं दृश्यं विकारि च॥ अव्यापकमसद्रूपं तत्कथं स्यात्पु मानयम् ॥ ३९ ॥ सं.टी. नन्वेवंसति वेदांतिनामपसिद्धांतःस्यादित्यत आह लिंगमिति । लिंगं लिंगशरीरं तत्परोक्षादिधर्मवि- शिष्टं अयं नित्यापरोक्षस्वभावः पुमान् कथं स्यान्नकथं- चिदित्यर्थः चकारात्कारणशरीरमपि निराकृतं अनयो- रपिभेदे लिंगदेहस्य वैलक्षण्यसूचकानि विशेषणान्याह अनेकेति अनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरी- रसंबधयुक्तं यद्वा श्रोत्रादिबुद्ध्यंतसप्तदशकलासंयुक्तं तथा चलं चंचलं मनःप्रधानत्वादित्यर्थः पुनर्दृश्यं ममेदं श्रोत्रं ममेदं मन इत्यादिममतास्पदत्वेनात्मन उपस- र्जनभूतं च पुनर्विकारि उपचयादिमत् अव्यापकं परि-
संस्कृतटीका-भाषाटीकासहिता । ( ३७ ) च्छिन्नमसद्रूपमात्मज्ञानकबोध्यं च अत्रेद्माकूतं यद्यपि लिंगशरीराध्यासे नात्मनः कर्तृत्वभोक्तृत्वादिभावस्त- थाप्यात्मनः स्वतस्तदभावज्ञानेनाऽध्यासनिवृत्तावक- र्तृत्वाभोक्तृत्वादिभावसिद्धिरिति वेदांतिनां न किंचि दपसिद्धांतोऽन्यवदिति मंगलम् ॥ ३९ ॥ भा. टी. लिङ्ग और कारण इन दोप्रकारका शरीर नाना प्रकारके शरीरोंके सम्बन्ध करकै युक्त चञ्चल विकारी एक- देशमें रहनेवाला और असत्स्वरूप है फिर किसप्रकार देह मय आत्मा होसकै है ॥ ३९ ॥ एवं देहद्वयादन्य आत्मा पुरुषई- श्वरः॥ सर्वात्मा सर्वरूपश्च सर्वातीतो हमव्ययः ॥ ४० ॥ सं.टी. इदानीं पूर्वोक्तमर्थमुपसंहरति एवमिति । एवं पूर्वोक्तप्रकारेण देहद्वयात् स्थूलसूक्ष्मलक्षणादन्यो भिन्न आत्मा कोऽसावित्यत आह पुरुष इति पुरुषः शरी राधिष्ठाता तर्हि किं जीवः नेत्याह ईश्वर इति तत्र हेतुः सर्वात्मेति तर्ह्यद्वैतहानिः स्यादित्यत आह सर्वरूप इति एवंसति विकारित्वं स्यादित्यतआह सर्वातीत इति एता- दृश आत्माचेदस्ति तर्हि कुतो नोपलभ्यत इत्यतआह अहमिति अहंप्रत्यक्षोऽहंशब्दप्रत्ययालंबनत्वेन सर्वदो पलब्धिस्वरूप इत्यर्थः तर्ह्यहंकारः स्यान्नेत्याह अव्यय
( ३८ ) अपरोक्षानुभूतिः। इति अव्ययः अपक्षयादिविकारशून्यः अहंकारसाक्षीति भावः ॥ ४० ॥ भा. टी. इसप्रकार आत्मा स्थूल और सूक्ष्म दोनों प्रका रके देहोंसे अलगहै और ईश्वर है सर्वव्यापक है सर्वरूप है सर्वसे अतीतहै ( अर्थात् जिससे परे और कोई नहीं है सबसे श्रेष्ठ है ) अहम्शब्द करके कहा जाय है भूत भविष्यत वर्तमान तीनों कालमें एकरस है ॥ ४० ॥ इत्यात्मदेहभागेन प्रपंचस्यैव सत्य- ता ॥ यथोक्ता तर्कशास्त्रेण ततः किंपु- रुषार्थता ॥ ४१ ॥ सं.टी. अथेदानीमात्मनो देहद्वयातिरिक्तत्वप्रतिपा दनमनर्थकमिति शंकते इतीति । इति पूर्वोक्तप्रकारेण वर्णितेनात्मदेहविभागेन प्रपंचस्यैव सत्यता तथोक्ता यथा तर्कशास्त्रेण ततः प्रपंचसत्यत्वप्रतिपादनात्किंपु रुषार्थता कुत्सितपुरुषार्थत्वं भयनिवृत्त्यभावादित्यर्थः “द्वितीयाद्वै भयं भवति” इति श्रुतेः ॥ ४१ ॥ भा. टी. तर्कशास्त्र अर्थात् न्याय शास्त्रके माननेवालोंने इस आत्मा और देहमें भेदबुद्धिकरके न्याय शास्त्रमें जो प्रप- ञ्चकी सत्यता कही है ( अर्थात् परमाणुको नित्य मानकर ईश्वरको निमित्तकारण संसारकी उत्पत्ति मानी है ) उसको