भारतकोश
संग्रह पर लौटें

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

मेषादिगमुदगधं देवाः पश्यन्ति । तुलादिगं दक्षिणमर्धं नरकवासिनः पश्यन्ति । इत्यर्थः । केचिदेवं वदन्ति । ज्योतिष्चक्रस्योदगधं सव्यं सव्यगं मेरुस्था देवाः पश्यन्ति । दक्षिणमर्धमपसव्यगमसुराः पश्यन्ति । तथाच ब्रह्मगुप्तः । " सौम्यमपमण्डलार्ध मेषाद्यं सव्यगं सदा देवाः । पश्यन्ति तुलार्धं दक्षिणमपसव्यगं दैत्याः ॥ " इति । अत्रैवं योज्यम् । मेरुवडवामुखयोर्ज्योतिश्चक्रवद्भ्रमतां देवासुराणां सव्यगमपसव्यगञ्चेति । अपसव्यगशब्दो हि दक्षिणवाचकः । देवादीनां दिनप्र- माणमाह । भा०:—मेरुनिवासी ( देवगण ) ज्योतिष्चक्र के उत्तर गोलार्द्ध को देखते हैं और दक्षिण मेरुनिवासी ( प्रेत ) असुरगण दक्षिण गोलार्द्ध को देखते हैं । अर्थात् मेष, वृष, मिथुन, कर्क, सिंह, कन्या, इन छः राशि पर्य्यन्त भगोलार्द्ध को देवगण देखते, उस समय दक्षिण मेरुनिवासी ( असुर ) तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, राशि पर्य्यन्त दक्षिण गोलार्द्ध को देखते हैं ॥ १६ ॥ रविवर्षार्धं देवाः पश्यन्त्युदितं रविं तथा प्रेताः । शशिमासार्धं पितरश्शशिगाः कुदिनार्धमिह मनुजाः ॥१७ रविवर्षार्धे मेषमासादिकन्यामासान्तं देवासदोदितं रविं पश्यन्ति मेषा- दिकन्यान्तराशीनां मेरुक्षितिजादूर्ध्वगतत्वात् क्षितिजवच्चक्रमणाच्च । अतो मेषादिमासषट्कं देवानां दिनं भवति । तुलामासादि मीनमासान्तं देवा रविं कदाचिदपि न पश्यन्ति तुलादिराशिपट्कस्य मेरुक्षितिजादधोगतत्वात् क्षिति- जानुसारेण चक्रमणाच्च । अतस्तुलादिमासषट्कं देवानां रात्रिर्भवति । तथा प्रेताः । नरकवासिनश्च तथा रविवर्षार्धं रविं पश्यन्ति । किन्तु तुलामासादि मीनमासान्तं रविं पश्यन्ति । अतस्तदा तेषां दिनं भवति । मेषमासादि मीन- मासान्तं रविं कदाचिन्न पश्यन्ति ॥ अतस्तदा तेषां रात्रिर्भवति । मेरुबडवा मुखयोरूर्ध्वाधोदिशौ व्यत्यायाद्भवतः । अतस्तयोर्द्दिनरात्री च व्यत्ययेन भवतः ॥ मृगादिमासषट्कं देवानां दिनमिति यो व्यवहारस्स तु तत्र वैदिककर्मणां विहितत्वात् कृतः कर्कादिमासषट्के अविहितत्वात्तेषां रात्रिरिति च व्यवहारः कृतः । अत्र वराहमिहिरः । " मेषवृषमिथुनसंस्थे दिनमर्के कर्कटादिगे रात्रिः । मेरुस्थितदेवानामिनि यैरूक्तं नमस्तेभ्यः ॥ "

९८ गीतिकापादः ॥ ङति ॥ शशिगाःशशिमण्डलोर्ध्वभागगता पितरश्शशिमासस्य चान्द्रमास- स्यार्धं रविं पश्यन्ति । शशिमासस्यापरार्धं न पश्यन्ति। अतः पितॄणां चान्द्रमा- सार्धं दिनं भवति । तदर्धं रात्रिश्च । अमावास्यायां हि चन्द्रमण्डलादूर्ध्वगतो ऽर्को भवति । अतस्तदानीं पितॄणां दिनार्धं भवति । पौर्णमास्यां चन्द्रमण्ड- लादधोगतोऽर्कः । अतस्तदा पितॄणां रात्र्यर्धं भवति । अष्टम्यर्थयोरुदयास्त- मयौ च । कुदिनार्धमिह मनुजाः । मानुजास्तावन्दिनस्यार्धं रविं पश्यन्ति । अपरमर्धं न पश्यन्ति । गोलकल्पनामार्याद्वयेनाह । भा०:--मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, इन छः मास पर्य्यन्त देव गण सदा सूर्य्य को उदित देखते हैं, इस कारण देवताओं का छः मास का एक दिन होता है। और तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, इन छः मास पर्य्यन्त देवगण सूर्य्य को नहीं देखते अतएव इन छः मास की उनकी एक रात्रि होती है । और प्रेत या असुरगण तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, इन छः मास पर्य्यन्त सूर्य्य को सदैव उदित देखते इस लिये असुरों को छः मास का एक दिन होता है। एवं मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, इन छः मास पर्य्यन्त असुरगण सूर्य्य को नहीं देखते इस कारण इतने समय इनकी छः मास की एक रात्रि होती है । और पितृगण ( चन्द्रलोकनिवासी ) चान्द्र मास के आधे भाग पर्य्यन्त सूर्य्य को देखते हैं अतएव इनका हमारे १५ दिन का एक दिन होता एवं इतने ही (१५) की उनकी एक रात्रि होती है। क्यों कि अमावास्या को चन्द्रमण्डल के उपरले भाग में सूर्य्य दीख पड़ता इस का- रण पितृगण को उस समय मध्यान्ह होता है और पौर्णमासी को चन्द्रमण्डल से नीचे सूर्य्य रहता अतएव इस समय पितृगण की आधीरात होती है । और कृष्णपक्ष के अष्टमी को पितृ लोगों का सूर्य्योदय और शुक्लपक्ष की अष्टमी को सूर्य्यास्त होता है । मनुष्यों को सावन दिन के आधा भाग पर्य्यन्त सूर्य्य दीखता एवं अपरार्द्ध नहीं दीखता ॥ १७॥ पूर्वापरमधऊर्ध्वं मण्डलमथ दक्षिणोत्तरञ्चैव । क्षितिजं समपार्श्वस्थं भानां यत्रोदयास्तमयौ ॥ १८ ॥ वंशशलाकादिना निर्मितमेकं मण्डलं वृत्तं पूर्वापरमधऊर्ध्वं निदध्यात् । तत् सममण्डलं नाम भवति । तत्प्रमाणमेवापरं मण्डलं दक्षिणोत्तरमधऊर्ध्वं निदध्यात् । तद्दक्षिणोत्तराख्यं भवति । पुनरन्यन्मण्डलं तत्प्रमाणं समपार्श्वस्थं

तिर्यग्गतं दिक्‌चतुष्टयजनितस्वस्तिकं निदध्यात् । तत् क्षितिजं नाम । तस्मिन् क्षितिजे भानां नक्षत्राणामर्कादिग्रहाणाञ्चोदयास्तमयौ भवंतः ॥ भा०ः—वांस की शलाका आदि से मण्डल (वृत्त) बनावे, उस में पूर्व और पश्चिम भाग की क्रम से नीचे ऊपर रखे, वह 'सममण्डल', होगा । उसी के तुल्य दूसरा मण्डल दक्षिण, उत्तर क्रम से नीचेऊपर को रखे वह 'दक्षिणोत्तर मण्डल' होगा । पुनः एक तीसरा मण्डल उसी के बराबर तिरछे क्रम से दिक् चतुष्टय जनित स्वस्तिक रखे, उसका नाम 'क्षितिज' होगा । उस 'क्षितिज' में नक्षत्र ग्रहादिकों का उदय, अस्त का ज्ञान होगा ॥ १८ ॥ पूर्वापरदिग्लग्नं क्षितिजादक्षाग्रयोश्च लग्नं यत् । उन्मण्डलं भवेत्तत् क्षयवृद्धी यत्र दिवसनिशोः ॥१९॥ पूर्वप्रमाणमेवापरं मण्डलं • पूर्वापरस्वस्तिकयोस्तिर्यङ्निधायोत्तरस्वस्तिकगत- क्षितिजमण्डलादूर्ध्वमक्षाग्रेऽक्षज्यान्तरे दक्षिणोत्तरमण्डले लग्नं यथा भवति । तथा दक्षिणस्वस्तिकगतक्षितिजमण्डलादधश्चाक्षज्यान्तरे दक्षिणोत्तरमण्डले लग्नं यथा भवति तथा निदध्यात् । एतदुन्मण्डलं नाम भवति । दिवसनिशोः क्षय- वृद्धी अस्मिन्वेद्ये । एतत् खगोलनाम भवति । अस्यान्तर्गतं नक्षत्रगोलमप्यस्ति । तत्संस्थानन्तु । पूर्वापरमधरुध्वं तथा दक्षिणोत्तरमधऊर्ध्वञ्च समपार्श्वस्थं दिक्‌च- तुष्टयजनितस्वस्तिकञ्च बध्नीयात् । एतानि त्रीणि विषुवन्मण्डलानि । तेषु पूर्वापरं घटिकामण्डलाख्यं स्यात् । पुनरपरं मण्डलं पूर्वापरस्वस्तिकयोस्तिर्यङ्निधायाधस्स्व- स्तिकादुत्तरत उपरिस्वस्तिकाद्दक्षिणतश्च परमापक्रमतुल्यान्तरे दक्षिणोत्तरशला कयोर्बध्नीयात् पूर्वापरस्वस्तिकयोश्च बध्नीयात् । एतदपममण्डलं राश्याद्यङ्कितञ्च भवति । पुनर्घटिकामण्डलस्य दक्षिणत उत्तरतश्च स्वेच्छापक्रमान्तरेषु पूर्वापरा- यतानि तत्तत्स्थानसमानि मण्डलानि बध्नीयात् । तानीष्टस्वाहोरात्रमण्डलानि । पुनश्लक्ष्णामृज्वीमयश्शलाकां गोलस्य दक्षिणोत्तरस्वस्तिकद्वयाभिवेधिनीं निधा- य तदग्रयोर्द्वे शरद्वयिडके निश्चले निदध्यात् । पुनस्तद्वहिश्चरद्वयिडकयोरन्तरा- लतुल्यव्यास खगोलं कुर्यात् । पुनः खगोल उन्मण्डलदक्षिणोत्तरमण्डलसंपातद्वये वेधं कृत्वा तयोरयश्शलाकाग्रे प्रवेशयेत् । एवं स्वविषयगोलावस्थितिः । द्रष्टुव- शादधऊर्ध्वादिविभागः कार्यः । इत्याह । भा०ः—पूर्व 'अपर, और 'क्षितिज, रेखा के सङ्गम होकर दूसरा एक

८० गीतिकोपादः ॥ वृत्त रचना करे । वह स्वदेशीय अक्षांश परिमित उत्तर और दक्षिण ध्रुव से दूर अवस्थित होगां और इस वृत्त का नाम 'उन्मण्डल, होगा । इसी म- ण्डल, में सूर्य जब दीख पड़ता है उस समय दिन और रात्रि का ह्रास और वृद्धि होती है ॥ १९ ॥ पूर्वापरदिग्रेखाधश्चोधर्वा दक्षिणोत्तरस्था च । एतासां संपातो द्रष्टा यस्मिन् भवेद्देशे ॥ २० ॥ पूर्वापरदिग्गता या रेखा या चाधऊर्ध्वदिग्गता दक्षिणोत्तरदिग्गता च या तासां संयोगो द्रष्टृस्थाने भवति ॥ दृङ्मण्डलं दृक्क्षेपमण्डलञ्चाह । भा०:-पूर्वापर दिग्गत रेखा जो नीचे ऊपर को गई है, दक्षिणोत्तर दि- ग्गत है, उस का संयोग स्थान द्रष्टा का स्थान होता है ॥ २० ॥ ऊर्ध्वमधस्ताद्द्रष्टुर्ज्ञेयं दृङ्मण्डलं ग्रहाभिमुखम् । दृक्क्षेपमण्डलमपि प्राग्लग्नं स्यात्त्रिराश्यूनम् ॥२१ ॥ ऊर्ध्वाधोगतं द्रष्टृमध्यमिष्टग्रहाभिमुखं दृङ्मण्डलं भवति। पूर्वोक्तमण्डलानि भूमध्यमध्यानि । इदन्तु भूपृष्ठस्थितद्रष्टृमध्यं भवति । त्रिराश्यूनं प्राग्लग्नं दृ- क्क्षेपमण्डलं भवति । इत्यर्थः । दृङ्मण्डलदृक्क्षेपमण्डलयोर्लम्बनविधावुपयोगः गोलं यन्त्रेण भ्रामयन्ति केचित् । तत्रोपायं प्रदर्शयति । भा०:-ऊपर नीचे को गया हुआ द्रष्टा का मध्य इष्टग्रहाभि मुख दृङ्मण्डल होगा । पूर्वोक्त मण्डल सब भूमध्य मध्य है। यह तो भू पृष्ठस्थित द्रष्टा मध्य हुआ । अर्थात् तीन राशि ऊन प्राग् लग्न दृक्क्षेप मण्डल होता है ॥२१॥ काष्ठमयं समवृत्तं समन्ततस्समगुरुं लघुं गोलम् । पारत्तैलजलैस्तं भ्रमयेत्स्वधिया च कालसमम् ॥२२॥ काष्ठमयं वंशादिकाष्ठे निर्मितं न समवृत्तं सर्वतोवृत्तं समन्ततस्समगुरुं स- र्वावयवेषु समं गुरुत्वं यथा भवति तथा कृतम्। लघुमगुरुम् । एवंभूतं गोलं कृत्वा पारतादिभिस्तं स्वधिया च कालसमं भ्रमयेत् । अयमर्थः । भूमिष्ठदक्षिणोत्तरस्त- म्भयोरुपरि गोलप्रोतायश्शलाकाया अग्रे स्थापयेत् । गोलदक्षिणोत्तरच्छिद्रे च तैलेन सिञ्चेत् यथा निस्सङ्गो गोलो भ्रमति । गोलस्यापरतो गोलपरिधिसंमि- तदैर्घ्यं सार्धश्छिद्रं जलपूर्णां नलकां निदध्यात् ततो गोलस्यापरस्वस्तिके कीलकं निधाय तस्मिन्सूत्रस्यैकमग्रं बध्ध्वाथो विषुवन्मण्डलपृष्ठेन प्राङ्मुखं नीत्वा

आर्यभटीये- ८१ तत उपर्याकृष्य प्रत्यङ्मुखं तेनैव नीत्वा तदग्रबद्धं पारतपूर्णमलावु जलपूर्णे न- लके निदध्यात् ततो नलकस्याधश्छिद्रं विवृतं कुर्यात् तेन जलं निस्स्रवति। न- लकस्थजलमधो गच्छति। तद्दशाच्च तत्रस्थमलाबु पारतपूर्त्या गुरुत्वाज्जलेन स- हार्धो गच्छद् गोलं प्रत्यङ्मुखमाकर्षति। एवं त्रिंशद्घटिकाभिरर्धसम्मितं यथा जलं भवति गोलस्य चार्थे भ्रमति तथा स्वबुद्धया जलनिस्स्रावो योज्यः । इति । गोलोऽयं घटिकायन्त्रात् कालपरिच्छेदसाधनमेव नतु (ज्योतिश्चक्रभ्रमणसाधनम्) ज्योतिश्चक्रे हि समोदितौ गुरुचन्द्रौ प्रतिमुहूर्त्तं स्थानान्तरितौ दृश्येते । अस्मिन्न तन्ना दृश्येते । अतो घटिकायन्त्रसमोऽयं गोलः। नतु ज्यतिश्चक्रसमः । क्रान्ति भूज्यार्काग्राशङ्कुशङ्क्वग्रसमशङ्कादीनामुपपत्तिज्ञानं हि गोलप्रयोजनम् ॥ अथ ज्योतिश्चक्रस्थैर्ज्याधैः क्षेत्रविशेषान् प्रदर्शयिष्यन् क्षेत्रकल्पनाप्रकारमक्षावल- म्बकौ चाह । भा०:-वंश आदि काष्ठ का बन्द् डुंग्रा सब ओर से बराबर एवं सम गुरु ( भारी ) वृत्त (हल्का और बहुत भारी नहीं ) इस प्रकार काष्ठगोल बनाकर पारे से या अपनी बुद्धि से विचार कर किसी अन्य उपयुक्त वस्तु से काल के बराबर भ्रमण करावे । इस का अभिप्राय यह है कि-भूपृष्ठ के दक्षिण उत्तर स्तम्भ के ऊपर गोल प्रोत लोहे के शलाके के आगे में स्थिर करे । गोल के द- क्षिणोत्तर छिद्र में तैल से इस प्रकार सींचे जिस से निस्सङ्ग होकर भ्रमण करे । गोल के दूसरी ओर से परिधि सम्मित दीर्घ छिद्र के साथ जल से भरा नलक ( नल ) रक्खे, तदनन्तर गोल के अपर स्वस्तिक पर कीलक गाड़े,-एवं उस सूत्र के एक अग्रभाग को बांध कर, विषवन्मण्डल पृष्ठ द्वारा प्राङ्मुख लाकर ऊपर को खींच कर उसी से प्रत्यङ्मुख लाकर उस को अग्रभाग को बांधकर, पारे से भरी तुम्बी जल भरे हुए नलक में रक्खे, तब नलक के नीचे के छिद्र को फैलावे-उस से जल गिरता है । और नलक में जल नीचे जाता है, इस कारण वहां की तुम्बी पारे से भरे होने से भारीपन से जल के साथ नीचे जाती हुई गोल को पूर्व की ओर खींचती है । एवं ३० घटिका में आधे भाग गोल जितने जल में से गिरे उतना जल गिरने योग्य अपनी बुद्धि से रक्खे ॥२२॥ दृग्गोलार्धकपाले ज्यार्धेन विकल्पयेद्गोलार्धम् । विषुवज्जीवाक्षभुजा तस्यास्त्ववलम्बकः कोटिः ॥२३॥ दृग्गोलार्धकपाले दृश्ये गोलार्धभागे ज्यार्धेन तत्र गोलपादनिष्पन्नेन ज्या- र्थेनाक्षादिभुजात्मनावलम्बकादिकोट्यात्मना च स्थितेन भगोलार्धं विकल्पये- ११

८२ गीतिकापादः ॥ ज्यौतिश्चक्रार्धं विविधं कल्पयेत् । अक्षज्याशङ्कुभूज्याद्याश्रितैर्विविधैः क्षेत्रैर्युक्तं दृश्यं भगोलार्धं कल्पयेदित्यर्थः । सा वक्ष्यमाणाक्षादिषु क्षेत्रकल्पनयोपपत्तिर्ज्ञे- येत्युक्तं भवति । विषुवज्जीवाक्षभुजा । विषुवद्दिनमध्यान्हेऽर्कखमध्ययोरन्तरां- लज्या विषुवज्जीवा भवति । विषुवच्छा येत्यर्थः । साक्षभुजा भवति । अक्षज्येत्यर्थः अवलम्बकस्तस्याः कोटिः । अक्षज्यावर्गहीनत्रिज्यावर्गस्य पदमवलम्बक इत्यर्थः। विषुवन्मध्यान्हेऽर्कुरवलम्बकस्स्यात् । स्वाहोत्रार्धमाह । भा०:—दृश्य गोलार्द्ध भाग में, वहां गोल पाद से उत्पन्न ज्यार्द्ध द्वारा अक्षादि भुजात्मा व लम्बाकादि और कोट्यात्मा द्वारा विकल्प से ज्योति- श्चक्रार्द्ध को विविध प्रकार से कल्पना करे। अर्थात् अक्षज्या शङ्कु भूज्यादि आ- श्रित अनेक क्षेत्र द्वारा 'दृश्य भगोलार्द्ध की रचना करे । आशय यह है कि विषुवद् दिन के मध्याह्न में सूर्य्य और आकाश के बीच की ज्या को विषु- वज् जीवा (विषुवच्छाया) कहते हैं । वही अक्षभुजा होती है अर्थात् अ- क्षज्या होती है। उसकी अवलम्बक कोटि होती है । अर्थात् अक्षज्या वर्ग हीन त्रिज्यावर्ग का पद अवलम्बक होती है ॥ २३ ॥ इष्टापक्रमवर्गं व्यासार्धकृतेर्विशोध्य यन्मूलम् । विषुवदुदग्दक्षिणतस्तदहोरात्रार्धविष्कम्भः ॥२४ ॥ इष्टापक्रमज्यावर्गं व्यासार्धवगीद्विशोध्य शिष्टस्य मूलं विषुवन्मण्डलस्य घ- टिकाख्यास्योदग्दक्षिणगतयोस्स्वाहोरात्रमण्डलयोरर्धविष्कम्भो भवति । विष्क- म्भार्धमित्यर्थः । क्रान्तिभुजायास्स्वाहोरात्रार्धं कोटिः। व्यासार्धं कर्णः। गोलान्तर्ग- तमक्षभुजादिकं क्षेत्रं महाभास्करीयव्याख्यायां विस्तरेण प्रदर्शितम् । अतोऽत्र न व्याख्यास्यामः । निरक्षदेशे राश्युदयप्रमाणमाह । भा०:--इष्ट अपक्रमज्या वर्ग को व्यासार्द्ध वर्ग से घटाकर अवशिष्ट के मूल को घटिकानामक विषुवंन्मण्डल के उत्तर दक्षिण गत स्वाहोरात्रार्द्ध म- ण्डल का अर्द्ध विष्कम्भ होता है । क्रान्ति भुजा के स्वाहोरात्रार्द्ध कोटि होती है, व्यासार्द्ध कर्ण होता है ॥ २४ ॥ इष्टज्यागुणितमहोरात्रव्यासार्धमेव काष्ठान्त्यम् । स्वाहोरात्रार्धहृतफलमजालङ्कोदयप्राग्ज्या ॥ २५ ॥ स्वाहोरात्रव्यासार्धं स्वाहोरात्रार्धं, काष्ठान्त्यमपक्रमकाष्ठान्तगतम् । परमाप- .क्रम साधितस्वाहोरात्रार्धम् । सर्वरात्रिविक्षेपेऽपि परमापक्रमसिद्धस्वाहोरात्रार्धमेव निहन्यते । इत्येवशब्देनोक्तं परमापमसिद्धाहीरात्रार्ध शशिकृतशशिरामलूंख्वमि-

[PageHeader] आर्यभटीये ८३ [/PageHeader]

ष्टज्ययेष्ट भुजज्यया निहत्य तद्भुजज्यासाधितेनेष्टस्वाहोरात्रार्धेन हरेत्। तत्र लब्ध- मज्ञाङ्कलोदयप्राग्ज्या भवति। लङ्कायां तद्भुजाभागगतराश्युदयकालजाता प्राग्ज्या प्रागपरमण्डलज्या । घटिकामण्डलज्येत्यर्थः । सा चापितोदयास्तूमितिर्भवति । एवं भुजाभागस्योदयप्रमाणांनयनम् । प्रतिराशिमानन्तु। इष्टराशेराद्यान्त्यभुजा- ज्याभ्यां पृथग्राशिमानद्वयमानीय तयोरन्तरं कुर्यात् । तदिष्टराशेर्लङ्कोदयमानं भवति । मेषादितस्तूलादितश्च क्रमेण भुजायाः प्रवृत्तिः । अतस्तत्र राश्युदयाश्च क्रमेण भवन्ति। कन्यान्तान्मीनान्तच्चोत्क्रमेण भुजायाः प्रवृत्तिः । अतस्तत्र राश्युदया- श्चोत्क्रमेण भवन्ति। अत्रैवं त्रैराशिकम् । यदि त्रिज्यया परमापसिद्धस्वाहोरात्रार्ध- तुल्या कोटिर्लभ्यते तदेष्टज्यया कियतीतीष्टस्वाहोरात्रार्धगतेष्टकोटिर्लब्धिः । य- दीष्टस्वाहोरात्रार्धे इयती कोटिस्तदा व्यासार्धे कियतीति व्यटिकामण्डलगतरा- श्युदयज्यालब्धिः । अत्र प्रथमत्रैराशिके व्यासार्धं भागहारः । द्वितीये सगुणकारः तयोर्गुणकारहारयोस्तुल्यत्वात्तदुदयं विना कर्म क्रियते । दिननिशोः क्षयवृद्ध्या- नयनमाह। भा०:--परमापक्रम साधित स्वाहोरात्रार्द्ध को इष्ट भुजज्या से गुणन कर, उस भुजज्या से साधित इष्ट स्वाहोरात्रार्द्ध द्वारा भाग देवे भाग फल मेष राशि से लङ्कोदय प्राग्ज्या होता है ॥ २५ ॥ इष्टापक्रमगुणितामक्षज्यां लम्बकेन हृत्वा या। स्वाहोरात्रे क्षितिजा क्षयवृद्धिर्ज्या दिननिशोस्सा ॥२६॥ इष्टापक्रमज्ययाक्षज्या निहत्य लम्बके हृत्वा यल्लश्यते सा स्वाहोरात्रे स्वा- होरात्रमण्डलनिष्पन्ना दिननिशोः क्षयवृद्धिर्ज्या क्षितिजा क्षितिजमण्डलादुत्प- न्ना । क्षितिज्येत्यर्थः । अत्रैवं त्रैराशिकम् । यद्यवलम्बककोट्याक्षज्या भुजा तदा- पक्रमकोट्या का भुजेति ज्यालब्धिः । सा स्वाहोरात्रनिषण्णा । अतस्तां त्रिज्यया निहत्य स्वाहोरात्रेण विभजेत् । तत्र लब्धा चरदलज्या भवति । अत्रैवं त्रैराशि- कम् । यदा स्वाहोरात्र इयती ज्या तदा व्यासार्धमण्डले कियतीतिव्यासार्धमण्ड- ल्ज्यालब्धिः । चरदलाच्चापिताश्चरदलासवो भवन्ति । स्वदेशराश्युदयमाह । भा०:--इष्टापक्रमज्या से अक्षज्या को गुणनकर लम्बक से भाग दे, भाग फल को, स्वाहोरात्रार्द्ध में स्वाहोरात्रमण्डल निष्पन्न दिन रात्र के क्षय वृद्धि ज्याक्षितिजा, क्षितिज मण्डल से उत्पन्न क्षितिज होता है ॥ २६ ॥ उदयंति हि. चक्रपादश्चरदलहीनेन दिवसपादेन । प्रथमो ऽन्त्यश्चाथान्त्यौ तत्सहितेन क्रमोत्क्रमतः॥२७॥

८४ गीतिकापादः ॥ प्रथमश्चक्रपादो मेषवृषमिथुनाख्यश्चरदलहीनेन दिवसपादेन । चरदलहीना- भिः पञ्चदशघटीभिः । उदयति । अन्त्यश्च मीनघटमृगाख्यस्तथा चरदलहीनाभिः पञ्चदशघटिकाभिरुदयति । अतो मृगादिमिथुनान्तानां षण्णां लङ्कोदयास्तद्राशि- भवचरदलासुभिर्हीनास्स्वदेशोदया भवन्ति । अथान्त्यौ तत्सहितेन । कर्कसिंहक- न्याख्यस्तुलालिचापाख्यश्च चक्रपादौ चरदलसहितेन दिवसपादेनोदयतः । अतः कर्यादिचापान्तानां षण्णां राशीनां लङ्कोदयास्तत्तच्चरदलयुतास्स्वदेशोदया भव- न्ति । क्रमोत्क्रमतः । प्रथमपादे प्रथमराशेर्मेषस्य लङ्कोदये प्रथमराशिभवं चरद्- लं शोध्यम् । वृषस्य द्वितीयस्य लङ्कोदये द्वितीयराशिभवं चरदलं शोध्यम् । तृ- तीयस्य मिथुनस्य लङ्कोदये तृतीयराशिभवं चरदलं शोध्यम् । द्वितीयपादे तूत्क्र- मेण देयम् । कर्कटस्य तृतीयराशिचरदलं देयम् । सिंहस्य द्वितीयराशिचरदलं दे- यम् । कन्यायाः प्रथमराशिचरदलं देयम् । तृतीयपादे क्रमेण देयम् । चतुर्थपाद उत्क्रमेण शोध्यम् । इत्युक्तं भवति । गोलस्योत्तरोन्नतत्वान्मीनादयश्शीघ्रमुद्य- न्ति । अतस्तेषु चरदलं शोध्यम् । तस्मादेव कर्कटादयश्शनैरुद्यन्ति । अतस्तेषु चरदलं देयम् ॥ इष्टकाले शङ्कानयनमाह । भा०:—प्रथम चक्र पाद अर्थात् मेष, वृष, मिथुन नामक है । चरदल हीन द्वारा दिवसपाद से अर्थात् १५ घटिका करके उदय होता है । और अन्त्य अर्थात् मीन, कुम्भ, मकर, नामक पाद है, सो १५ घटिका करके उदय होता है , इसलिये मकर, कुम्भ, मीन, मेष, वृष, मिथुन, इन छः राशियों का उदयास्त १५ प्राण हीघटा करके स्वदेशोदय होता है ॥ और कर्क, सिंह, कन्या, तुला, वृश्चिक, धनु, क्रम से प्रथम तीन राशि द्वितीय पाद और दूसरा तीन राशि तृतीय पाद है । १५ घटिका जोड़ने से उदय होता है । अतएव कर्कादि धनु पर्य्यन्त छः राशियों का लङ्कोदय उस उस १५ प्राण के जोड़ने से स्वदेशोदय होता है । प्रथम पाद में प्रथम राशि मेष राशि के लङ्कोदय में प्रथम राशि से उत्पन्न चरदल घटावे । वृष राशि अर्थात् द्वितीय राशि के लङ्कोदय में द्वितीय राशि भव चरदल घटावे । तृतीय मिथुन राशि के लङ्कोदय में तृतीय राशि भव चरदल घटावे । और द्वितीय पाद में कर्कट राशि का तृतीय चरदल जोड़े । सिंह राशि के तृतीय राशि के चरदल जोड़े । चतुर्थ पाद में उत्क्रम करके घटावे । गोल के उत्तर उन्नत होने से मीन आदि राशि शीघ्र उदय होती है, अतएव उन में चरदल घटायी जाता है । और कर्कट आदि राशि धीरे २ उदय होती है इस लिये उन में चरदल जोड़ा जाता है ॥२१॥

आर्यभटीये- ८५ स्वाहोरात्रेष्टज्यां क्षितिजादवलम्बकाहतांकृत्वा । विष्कम्भार्धविभक्ते दिनस्य गतशेषयोश्शसङ्कुः ॥२८ ॥ क्षितिजात् क्षितिजमण्डलादुत्पन्नां स्वाहोरात्रेष्टज्यां पूर्वाह्ने दिनस्य गत- घटिकाभिरानीतामपराह्ने दिनस्य शेषघटिकाभिरानीतामवलम्बकेनाहतां कृत्वा पुनस्तस्मिन् राशौ विष्कम्भार्धेन विभक्ते सति शङ्कुर्भवति । इष्टकाले म- हाशङ्कुर्भवति । दिनस्य गतशेषयोश्शङ्कुः । अभीष्टदिनगतकालेऽभीष्टदिनैष्य- काले च शङ्कुर्भवति । दिनस्य गतशेषयोस्स्वाहोरात्रेष्टज्यामिति वा सम्बन्धः । अत्रैवं त्रैराशिकम् । यदि त्रिज्यामुल्यस्वाहोरात्रेष्टज्यया लम्बकतुल्यश्शङ्कुर्लभ्यते तदेष्टस्वाहोरात्रेष्टज्यया कश्शङ्कुरितीष्टशङ्कुलब्धिः । विषुवद्दिनमध्याह्ने हि त्रिज्या स्वाहोरात्रेष्टज्या । अवलम्बकशङ्कुः । स्वाहोरात्रेष्टज्यानयनन्तु । उत्तर गोले गतगन्तव्यासुभ्यश्चरदलादूनविशोध्य जीवामादाय स्वाहोरात्रार्धेन निहत्य त्रिज्यया विभज्य लब्धे भूज्यां प्रक्षिपेत् । सा क्षितिजादुत्पन्ना स्वाहोरात्रेष्टज्या भवति । दक्षिणगोले तु चरदलं प्रक्षेपभूज्यायाश्शोधनम् । इत्येवं विशेषः । शङ्- कुवर्गं त्रिज्यावर्गाद्विशोध्य शिष्टस्य मूलं त्स्य शङ्कोश्छाया भवति । शङ्कुच्छा- ययोर्भुजाकोटित्वादाभ्यां त्रैराशिकादिष्टच्छाया साध्या । छायाया नाडिकाकर- णन्तु । द्वादशाङ्गुलशङ्कुना त्रिज्यां निहत्येष्टच्छायाकर्णेन विभज्य लब्धं महा- शङ्कुर्भवति । तस्माच्छङ्कुविधिव्यत्ययकर्मणा गतगन्तव्यनाडिका भवन्ति ॥ शङ्कग्रानयनमाह । भा०:-क्षितिज मण्डल उत्पन्न स्वाहोरात्रेष्टज्या को पूर्वाह्न में दिन के गत घटिका द्वारा लाये अवलम्बक से गुणन कर, पुनः उस राशि में व्या- सार्द्ध से भाग देने पर दिन के गत और गम्य का शङ्कु होगा । अभीष्ट दिन के गत काल में और अभीष्ट दिन के गम्य काल में शङ्कु होता है ॥ २८ ॥ विषुवज्जीवागुंणितस्स्वेष्टश्शङ्कुस्स्वलम्बकेन हृतः । अस्तमयोदयसूत्राद् दक्षिणतस्सूर्यशङ्कग्रम् ॥ २९॥ स्वेष्टं महाशङ्कं स्वदेशविषुवज्जया निहत्य स्वदेशलम्बकेन विभजेत् । तत्र लब्धमस्तोद्यसूत्राद्दक्षिणतस्सूर्यस्य शङ्कग्रं भवति । नित्यदक्षिण शङ्कग्रं भवति गोलस्योत्तरन्नतत्वात् । सूर्यग्रहणं चन्द्रस्याप्युपलक्षणम् । अत्रैवं त्रैरा- शिकम् । यद्यवलम्बककोट्याक्षज्या भुजा तदा शङ्कुकोट्या का भुजेति । उभयत्र क्षेत्रस्याक्षनिमित्तत्वात्त्रैराशिकं घटते । अथवा। लम्बकशङ्कोरक्षज्या भुजा तदेष्ट- शङ्कोः का भुजेति त्रैराशिकम् ॥ अथार्काग्रानयनमाह ।

८६ गीतिकापादः ॥ भा०:—स्वेष्ट महाशङ्कु को स्वदेश विषुवज्ज्या से गुणनकर गुणनफल में स्वदेश लम्बक का भाग देवे, भागफल अस्तोदय सूत्र से दक्षिण से सूर्य्य का शङ्क्यग्र होता है । नित्य ही दक्षिण शङ्क्यग्र होता है, गोल के उत्तर उन्नत होने से । सूर्य्य ग्रहण कहने से चन्द्रग्रहण का भी उपलक्षण जानना ॥ २९ ॥ परमापक्रमजीवामिष्टज्यार्धाहतां ततोविभजेत् । ज्यालम्बकेन लब्धार्काग्रा पूर्वापरक्षितिजे ॥ ३० ॥ परमापक्रमजीवामिष्टज्यया सायनार्कस्य भुजज्यया निहतां कृत्वा ततो ज्यालम्बकेन लम्बकाख्यजीवया विभजेत् । अवलम्बकेनेत्येवार्थः । तत्र लब्धार्काग्रा भवति । पूर्वापरे क्षितिजे। पूर्वक्षितिजे यत्र रविरुदेति। अपरक्षितिजे यत्र चास्तं गच्छति । तत्स्थानद्वयस्य पूर्वापरस्वस्तिकस्य चान्तरालजाता क्षितिजमण्डलगता जीवार्काग्रेत्यर्थः । अत्रैवं त्रैराशिकम् । यदि त्रिज्यया परमापक्रमो लभ्यते तदे- ष्टज्यया कियानपक्रम इतीष्टक्रान्तिलब्धिः ।, यद्यवलम्बकोटिकस्य क्षेत्रस्य त्रिज्या कर्णस्तदेष्टक्रान्तिकस्य क्षेत्रस्य कः कर्णः, इत्यर्काग्रालब्धिः । प्रथमत्रैराशिके त्रिज्या हारः । द्वितीये त्रिज्या गुणाकारः । अतस्तदुभयं विना कर्म क्रियते ॥ अर्कस्य सममण्डलप्रवेशकाले शङ्कानयनमाह । भा०:--परमापक्रम जीवा को सायन सूर्य्य की भुजज्या से गुणनकर गु- णनफल में लम्बक नामक जीवा का भागदेवे, भागफल अर्काग्रा होता है । पूर्वापर क्षितिज में जहां पर सूर्य्योदय होता एवं अपर क्षितिज में जहां सू- र्य्यास्त होता है । अर्थात् उन दोनों स्थान से पूर्वापर स्वस्तिक के बीच से उ- त्पन्न क्षितिज मण्डलगत्त जीवा अर्काग्रा होती है ॥ ३० ॥ सा विषुवज्ज्योना चेद्विषुवदुदग्लम्बकेन सङ्गुणिता। विषुवज्ज्र्यया विभक्ता लब्धः पूर्वापरे शङ्कुः ॥३१॥ विषुवदुदक् विषुमण्डलादुद्गता । उत्तरगोलभवा सा.। अर्काग्रा । विषु- वज्ज्योनाचेत् । विषुवज्ज्र्योनया क्रान्त्या साधिता चेदित्यर्थः । विषुवज्ज्र्योन- क्रान्तिसिद्धासोद्गताकार्काग्रा लम्बकेन गुणिता विषुवज्ज्र्यया विभक्ता कार्या। तत्र लब्धं पूर्वापरसूत्रगतेऽर्के शङ् कुर्भवति। सममण्डलशङ् कुरित्यर्थः । 'सममण्डल गते ह्यर्केऽर्काग्रातुलितं शङ् कग्रम् । तत्रैवं त्रैराशिकम् । यद्यक्षतुल्येन शङ्कग्रेण लम्बकतुल्यश्शङ् कुर्लभ्यते तदार्काग्रातुल्येन शङ्कग्रेण कश्शङ्कुरिति सममण्डल शङ्कुलब्धिः ॥ मध्याह्नशङ्कुं तच्छायाञ्चाह ।

आर्यभटीये- ८१ भा०:- विषुवन्मण्डल से उत्तरगत अर्थात् उत्तर गोल से उत्पन्न अर्काग्रा, विषुवज्ज्या से ऊन क्रान्ति से साधित हो तो विषुवज्ज्या से ऊन क्रान्ति सिद्ध वह उदगपगतार्काग्रा लम्बक से गुणित विषुवज्ज्या से भाग देवे भाग फल, पूर्वापर सूत्रगत सूर्य्य में शङ्कु होता है। अर्थात् सममण्डल शङ्कु होगा ॥ ३१॥ क्षितिजादुन्नतभागानां या ज्या सा परो भवेच्छङ्कुः। मध्यान्नतभागज्या छाया शङ्कोस्तु तस्यैव ॥३२॥ मध्याह्नकाले दक्षिणक्षितिजादुत्तरक्षितिजाद्वा यावद्भिरंशैरुन्नतोऽर्को भवति तावतां भागानां या ज्या भवति सा परशङ्कुर्भवति । मध्याह्नशङ्कुरित्यर्थः ॥ खमध्याद्यावद्भिरंशैरवनतोऽर्को भवति तावतां भगानां या ज्या सा तस्य शङ्को- श्छाया भवति । मध्याह्नछायेत्यर्थः । दक्षिणगोले क्रान्तिचापाक्षचापयोर्योगो- ऽर्कावनतिः । उत्तरगोले तयोर्विवर मर्कावनतिः । अवनतिहीनं राशित्रयमुन्नतिः॥ दृक्क्षेपज्यानयनमाह । भा०:-मध्यान्ह काल में दक्षिण क्षितिज से या उत्तर क्षितिज से जि- तने अंशों करके सूर्य उन्नत हो उतने ही अंशों की ज्या होती है, वह शङ्कु होता है। आकाश मध्य से जितने अंशों करके सूर्य्य अवनत होता है, वह उस शङ्क की छाया होती है। (मध्यान्ह छाया) । दक्षिण गोल में क्रान्ति चाप और अक्षचाप का योग सूर्य्य की अवनति होती है। उत्तर गोल में क्रान्ति चाप और अक्षचाप के अन्तर सूर्य्य की अवनति होती है। अवनत हीन तीनों राशि उन्नति कहाती है ॥ ३२ ॥ मध्यज्योदयजीवासंवर्गे व्यासदलहृते यत् स्यात् । तन्मध्यज्याकृत्योर्विशेषमूलं स्वदृक्क्षेपः ॥ ३३॥ मध्यलग्नस्य दक्षिणार्पमधनुरक्षधनुषोर्योगस्य जीवा मध्यज्या । मध्यलग्न- स्योत्तरापमधनुरक्षधनुषोरन्तस्य जीवा मध्यज्या । क्षितिजे यत्र तत्कालग्रमु- दयति तत्स्थानपूर्वस्वस्तिकयोरन्तरालजीवा सोदयज्येत्युच्यते । सायनलग्नस्य भुजज्यापक्रान्तिहता लम्बकभाजितोदयज्या भवति । संवर्गः परस्परनिहति । मध्यज्योदयज्ययोस्संवर्गे व्यासार्धहृते यल्लभ्यते तस्य वर्गं मध्यज्यावर्गाद्विशोध्य शिष्टस्य मूलं स स्वदृक्क्षेपः । यस्य गृहस्य, रवेश्चशिनो वा मध्यलग्नं परिगृहीतं तस्य दृक्क्षेपज्या भवतीत्यर्थः । दृक्क्षेपलग्नखमद्धययोरन्तरालजीवा दृक्क्षेपज्ये- त्युच्यते । सूर्यग्रहणे रवेश्चन्द्रस्य च मध्यज्यादृक्क्षेपज्ये पृथक् साध्ये । युक्तिस्त्व-

An exact transcription of the page follows:

८८ गीतिकापादः ॥ त्र च्छेद्यके ज्ञेया । तदन्यत्र प्रदर्शितम् । मध्यलग्नन्तु पूर्वाह्णे नतासुभ्यो रविस्थि- तराशिभागादुत्क्रमेणं लङ्कोदयासून्विशोध्य तावतो राशीन् रवौ विशोध्य सा- ध्यम् । अपराह्णे तु नतप्राणेभ्यो रविस्थितभागात् क्रमेण लङ्कोदयासून्विशोध्य तावतो राशीन् रवौ प्रक्षिप्य साध्यम् । दृग्गतिज्वालम्बनयोजनानयनमाह । भा०:—मध्य लग्न का दक्षिण अपमधनु और अक्षधनु के योग की जीवा मध्यज्या है । मध्यलग्न के उत्तर अपमधनु और अक्षधनु के अन्तर जीवा मध्यज्या होती है । क्षितिज में जहां तत्काल लग्न उदय होता है । उस स्थान से और पूर्वापरस्वस्तिक के बीच की जीवा उदयज्या है । सायन लग्न की भुजज्या को अपक्रम क्रान्ति से गुणनकर, लम्बक से भागदेवे, भागफल उदयज्या होता है । मध्यज्या और उदयज्या के वर्ग में व्यासार्द्ध से भाग देवे भागफल के वर्ग को मध्यज्या वर्ग से घटावे, अवशिष्ट का मूल निकाले वह स्वदृक् क्षेप होगा । जिस ग्रह का या सूर्य या चन्द्रमा का मध्यलग्न ग्रहण किया जावे उसकी दृक्क्षेपज्या होगी । दृक्क्षेप लग्न और आकाश मध्य के बीच की जीवा दृक्क्षेपज्या होती है । सूर्य ग्रहण और चन्द्रग्रहण में मध्यज्या और दृक् क्षेपज्या भिन्न २ साधे ॥ ३३ ॥ दृग्दृक्क्षेपकृतिविशेषितस्य मूलं स्वदृग्गतिः कुवशात् । क्षितिजे स्वा दृक्छाया भूव्यासार्धं नभोमध्यात् ॥ ३४ ॥ दृग्भेदहेतुभूता स्वच्छायां दृग्ज्या वा स्वदृग्गतिज्या वा दृक्क्षेपज्यावेत्यर्थः। सा यदि क्षितिजे भवति नभोमध्यात् क्षितिजान्ता भवति । व्यासार्द्धतुल्या भव- तीत्यर्थः। तदा कुवशाद्भूमिर्शान्निष्पन्नो दृग्भेदो व्यासार्धं भवति । भूव्यासार्ध- तुल्यं दृग्भेदयोजनमित्यर्थः ।' अन्तराले ऽनुपातात् कल्प्यम् । अतो दृग्गतिज्यां भूव्यासार्धेन निहत्य त्रिज्यया विभज्य गतं दृग्भेदयोजनं भवति । ग्रहणे लम्बनं नंभवति । दृक्क्षेपज्यां भूव्यासार्धेन निहत्य त्रिज्यया विभज्य लब्धं ग्रहणे नति योजनं भवति । दृग्ज्यात एवं लब्धं दृक्मण्डलगंतं, कर्णरूपं लम्बनयोजनं भवति । अनेन ग्रहणो न व्यवहारः। युक्तिविषयोत्वेतदपि वेद्यम् । लम्बनयोजनं नतियोजनञ्च त्रिज्यया निहत्य स्वेन-स्वेन योजनव्यासेन विभजेत् । तत्र लब्धं तस्य तस्य लम्बनलिप्ता नतिलिप्ताश्च भवन्ति । अर्केन्दोर्नतिलिप्तान्तरं सूर्यग्र- हणे नतिर्भवति पर्वान्तकालाच्छोध्या । अपराह्णे देया । एवं संस्कृतं पर्वान्तं स्फुट- शशिमासान्तमित्युच्यते ॥ चन्द्रादीनामुदयास्तलग्नसिद्धये खस्वविशेषेण दृक्कर्मार्ह।

आर्य्यभटीये- ८९ भा०:--दृग् हेतुभूत अपनी छाया या दृग्ज्या या दृक् क्षेपज्या है। वह यदि क्षितिज में आकाश मध्य से क्षितिज के अन्त तक होती है। अर्थात् व्यासार्द्ध तुल्य होती है, तब भूमि वशतः निष्पन्न (उत्पन्न) दृग्भेद व्यासार्द्ध होता है। अर्थात् भूव्यासार्द्ध तुल्य दृग्भेद योजन होता है। बीज में त्रैराशिक से कल्पना करे। अतएव दृग्गतिज्या को भूव्यासार्द्ध द्वारा गुणन कर त्रिज्या से भाग देवे भागफल दृग्भेद योजन होता है। ग्रहण में वह लम्बन होता है। दृक्क्षेपज्या को भूव्यासार्द्ध से गुणन कर त्रिज्या से भाग देवे भागफल ग्रहण में नतियोजन होता है। दृग्ज्या से इस प्रकार लब्ध दृङ्मण्डल गत कर्णरूप ल- म्बन योजन होता है। इस के द्वारा ग्रहण में व्यवहार नहीं किया जाता ॥३४॥ विक्षेपगुणाक्षज्या लम्बकभक्ता भवेदृणमुदक्स्थे। उदये धनमस्तमये दक्षिणगे धनमृणं चन्द्रे ॥ ३५ ॥ विक्षेपगुणिताक्षज्या लम्बकभाजिता लिप्तात्मकं दृक्फलं भवति । उदक्स्थे । अपमण्डलादुदक्स्थे चन्द्रे । उदये ऋणम् । उत्तरविक्षेप उदयविषये तदृक्फलं चन्द्रे ऋणं कार्यमित्यर्थः । अस्तमयविषये तत्फलं चन्द्रे धनं कुर्यात् । दक्षिणगे धनमृणं चन्द्रे । दक्षिणविक्षेप उदयविषये तत्फलं चन्द्रे धनं कार्यम् । तत्काल- चन्द्रे एतत् क्रियते । एतदाक्षं दृक्कर्म ॥ आयनं दृक्कर्मोह । भा०:--विक्षेप गुणित अक्षज्या लम्बक से भाग देने पर भागफल लिप्तात्मक दृक्फल होता है। अपमण्डल से उदक्स्थ चन्द्रमा में, उदय में ऋण करना अ- र्थात् उत्तर विक्षेप में उदय विषय में उस दृक्फल चन्द्रमा में ऋण करना चाहिये। अस्तमय विषय में उस फल को चन्द्रमा में धन करे। दक्षिण वि- क्षेप उदय विषय में उस फल को चन्द्रमा में धन करे। इस को आक्षदृक् कर्म कहते हैं ॥ ३५ ॥ विक्षेपापक्रमगुणमुत्क्रमणं विस्तारार्धकृतिभक्तम्। उदग्ऋणधनमुद्गयने दक्षिणगे धनमृणं याम्ये॥ ३६॥ उत्क्रमणं विक्षेपापक्रमगुणम् । सायनचन्द्रस्योत्क्रमणं कोट्या उत्क्रमज्ये- त्यर्थः । तद्विक्षेपेण . परमापक्रमेण च निहत्य विस्तारार्धस्य व्यासार्धस्य कृत्या विभजेत् । तत्र लब्धं लिप्तात्मकदृक्फलं भवति ॥ उदगृणधनमुद्गयने दक्षिणगे । उदगयन उदग्विक्षेपे तत्फलं चन्द्रे ऋणं भवति । तत्र दक्षिणगे विक्षेपे तत्फलं चन्द्रे धनं भवति । उदग्दक्षिणगे च क्रमादृणम् । इति योज्यम् ॥ धनमृणं याम्ये । १२

९० गीतिकापादः ॥ दक्षिणायनगते चन्द्रे पूर्वक्रमाद्धनमृणञ्च भवति । उदग्विक्षेपे धनम् । दक्षिणवि- क्षेप ऋणमित्यर्थः । आचार्येण स्थूलरूपं दृक्फलद्वयमिह प्रदर्शितम् । नतु सूक्ष्म- रूपमिति वेद्यम् । अस्मात् स्थूलरूपात् सूक्ष्मरूपं युक्त्या सिद्ध्यतीति भावः । यस्य चन्द्रस्योदयास्तलग्नमपेक्षितं तत्र दृक्कर्मद्वयं कार्यं नतु ततोऽन्यत्र ॥ चन्द्रार्क- भूमिभूच्छायानामर्केन्दुग्रहणयोश्च स्वरूपमाह । भा०:—विक्षेप क्रमगुण अर्थात् सायन चन्द्रमा के उत्क्रमण को कोटी द्वारा उत्क्रमज्या लावे । उसके विक्षेप और परमापक्रम द्वारा गुणनकर व्या- सार्द्ध के कृति ( वर्ग ) से भाग देवे भागफल लिप्तात्मक दृक्फल होगा । उद- गयन उदग् विक्षेप में उसका फल चन्द्रमा में ऋण होता है; उस दक्षिणग विक्षेप में वह फल चन्द्रमा में धन होता है । उत्तर दक्षिणग विक्षेप में क्रम से ऋण होता है । दक्षिणायन गत चन्द्रमा में पूर्व क्रम से धन और ऋण होगा । उत्तर विक्षेप में धन होता है और दक्षिण विक्षेप में ऋण होता है ॥३६॥ चन्द्रो जलमर्को ऽग्निर्मृद्भूश्छायापि या तमस्तद्धि । छादयति शशी सूर्यं शशिनं महती च भूच्छाया ॥ ३७ ॥ चन्द्रो जलात्मकः । अर्कोऽग्निमयः । भूमिर्मृदात्मिका । तस्या भूमेर्या छाया भच्छायाख्या सा हि तमः । सूर्ये ग्रहणकाले शशी छादयति नतु राहुः । शशिनं ग्रहणकाले महती भूच्छाया छादयति नतु राहुः ॥ ग्रहणकालमाह । भा०:—जल स्वरूप चन्द्रमा, अग्निस্বরূপ सूर्य्य, मृत्तिकामय भूमि हैं भूमि की छाया का नाम अन्धकार है । सूर्य्य ग्रहण में चन्द्रमा सूर्य्य को आच्छा- दित ( ढक ) कर लेता है; राहु नहीं । और चन्द्रग्रहण में पृथिवी की छाया चन्द्रमा को ढक लेती है, राहु नहीं ॥ ३७ ॥ स्फुटशशिमासान्ते ऽर्कं पातासन्नो यदा प्रविशतीन्दुः । भूच्छायां पक्षान्ते तदाधिकोनं ग्रहणमध्यम् ॥ ३८ ॥ स्फुटशशिमासान्ते लम्बनसंस्कृतेऽमावास्यान्तकाले पातासन्नोऽल्पविक्षेप- श्चन्द्रो यदार्कं प्रविशति तदाधिकोनं ग्रहणमध्यम् । अधिककालस्याल्पकालस्य चन्द्रग्रहणस्य मध्यं तदा भवतीत्यर्थः । पक्षान्ते पौर्णमास्यन्ते यदा चन्द्रो भू- च्छायां प्रविशति तदा चन्द्रग्रहणस्य मध्यं भवति । कैश्चित्तु स्फुटशशिमासान्तं केवलममावास्यान्तं तत्र ग्रहणमूर्ध्वगतं भवति कदाचिदूनमधोगतं भवति । इतिव्या ख्यातम् । भूच्छायादैर्घ्यमाह ।

आर्य्यभटीये- ८९ भा०:—लम्बन संस्कृत अमावास्या काल में अल्पविक्षेप चन्द्रमा जब सूर्य्य मण्डल में प्रवेश करता है, तब न्यूनतर ग्रहणमध्य होता है । अर्थात् अधिक काल एवं अल्पकाल का चन्द्रग्रहण मध्य होता है । पौर्णमासी को जब चन्द्र- मा, भूच्छाया में प्रवेश करता है, तब चन्द्रग्रहण का मध्य होता है ॥ ३८ ॥ भूरविविवरं विभजेद्भूगुणितन्तु रविभूविशेषेण । भूच्छायादीर्घत्वं लब्धं भूगोलविष्कम्भात् ॥ ३९ ॥ भूरविविवरमर्कस्य स्फुटयोजनतुल्यं तद्भूगुणितं भूव्यासयोजनगुणितं कृत्वा रविभूविशेषेण रविव्यासयोरन्तरेण योजनात्मकेन, विभजेत् । तत्र लब्धं भूच्छा- याया दैर्घ्यं योजनात्मकं भवति । भूगोलविष्कम्भात् भूव्यासाधत् । भूगोलस्य मध्यात्प्रभृतीदं छायादैर्घ्यं भवतीत्यर्थः ॥ भच्छायायाश्चन्द्रकक्ष्याप्रदेशे व्यासो- जनानयनमाह । भा०:—पृथिवी और सूर्य्य का स्फुट योजन तुल्य भूव्यास योजन गुणित सूर्य्यव्यास और भूव्यास के योजनात्मक अन्तर से भाग देवे, भागफल भूच्छाया की चौड़ाई योजनात्मक होती है । पृथिवी के व्यासार्द्ध से अर्थात् भूगोल के मध्य प्रभृति से यह छाया दैर्घ्य होती है ॥ ३९ ॥ छायाग्रचन्द्रविवरं भूविष्कम्भेन तत् समभ्यस्तम् । भूच्छायया विभक्तं विद्यात्तमसस्स्वविष्कम्भम् ॥ ४० ॥ छायाग्रचन्द्रविवरं चन्द्रस्य स्फुटयोजनकर्णेन हीनं छायादैर्घ्यमित्यर्थः । तद्भूव्यासेन निहत्य भूच्छायादैर्घ्येण विभजेत् । अत्र लब्धं चन्द्रमार्गे तमसो भू- च्छायायास्स्वविष्कम्भो योजनात्मकव्यासो भवति । तं व्यासं त्रिज्याकर्णेन वि- भजेत् । तत्र लब्धं लिप्तात्मकस्तमोव्यासो भवति । अर्केन्द्रोश्च स्वयोजनव्यासं त्रिज्याकर्णेन निहत्य स्वस्फुटयोजनकर्णेन विभज्य लब्धं लिप्तात्मकस्वव्यासो भवति ॥ स्थित्यर्द्धानयनमाह । भा०:—चन्द्रमा के स्फुट योजन से कर्ण घटाकर अर्थात् छाया के लम्बाई को भूव्यास से गुणन कर गुणनफल में भूछाया के लम्बाई से भाग देवे; भागफल चन्द्रमा के मार्ग में तम (अन्धकार) अर्थात् भूछाया का स्वकीय विष्कम्भ अर्थात् यो- ज्ञनात्मक व्यास होगा । उस व्यास को त्रिज्या कर्ण द्वारा भाग देवे, भागफल लिप्तात्मक तमोव्यास होगा । सूर्य्य और चन्द्रमा के अपने २ योजन व्यास को

९२ गीतिकापादः ॥ त्रिज्याकर्ण से गुणन कर गुणनफल में अपने २ स्फुट योजन कर्ण द्वारा भाग देने से भागफल लिप्तात्मक अपना २ व्यास होगा ॥ ४० ॥ सम्पर्कार्धस्य कृतेश्शशिविक्षेपस्य वर्गितं शोध्यम् । स्थित्यर्धमस्य मूलं ज्ञेयं चन्द्रार्कदिनभोगात् ॥ ४१ ॥ सम्पर्कार्धस्य कृतेः । सूर्यग्रहणे सूर्येन्दोर्बिम्बयोगार्धस्य वर्गाच्छशिनो विक्षे- पस्य वर्गितं शोध्यम् । विशोधयेदित्यर्थः । चन्द्रग्रहणे चन्द्रतमसोर्बिम्बयोगा- र्धस्य वर्गात् केवलस्य चन्द्रविक्षेपस्य वर्गं विशोधयेत् । तत्र यच्छिष्टं तस्य मूलं स्थित्यर्धं भवति । स्थित्यर्धसाधनमित्यर्थः । तत् कथमित्यत्राह । चन्द्रार्कदिन- भोगादिति । तस्मान्मूलात् 'षष्टिघ्नादर्कैन्दोर्गत्यन्तरेण स्थित्यर्धनाडिका भव- न्तीत्यर्थः । चन्द्रग्रहणे तास्स्फुटा भवन्ति । सूर्यग्रहणे तु स्थित्यर्धकालसम्भूतैन लम्बनकालेन युतास्स्फुटा भवन्ति । मध्यकाललम्बनस्पर्शकाललम्बनयोरन्तरेण युतास्स्पर्शस्थित्यर्धनाडिकास्स्फुटा भवन्ति । तथा मोक्षकाललम्बनमध्यकाल- लम्बनान्तरण युता मोक्षस्थित्यर्धनाडिकांश्च स्फुटा भवन्तीत्यर्थः ॥ विमर्दा- र्धकालानयनमाह । भा०:—सूर्यग्रहण में सूर्य और चन्द्रमा के बिम्ब के योगार्द्ध के वर्ग से चन्द्रमा के विक्षेपवर्ग को घटावे । चन्द्रग्रहण में चन्द्रमा के तम बिम्ब के योगार्द्ध के वर्ग से केवल चन्द्र विक्षेपवर्ग को घटावे । उस से जो शेष बचे उ- सका मूल निकालने से स्थित्यर्द्ध होगा । उक्त मूल को ६० से गुणनकर-गुण- नफल को सूर्य और चन्द्रमा की गति से अन्तर करने पर स्थित्यर्द्ध नाडिका होगी । चन्द्रग्रहण में वे ही स्फुट होंगी । सूर्यग्रहण में तो स्थित्यर्द्ध काल स- म्भूत से लम्बन काल को जोड़ने पर स्फुट होंगी । मध्यकाल लम्बन और स्पर्श काल लम्बन से घटाकर जोड़े तो स्पर्श स्थित्यर्द्ध नाडिका स्फुट होंगी । और मोक्ष काल लम्बन और मध्यकाल लम्बन से घटाकर जोड़ने से मोक्ष- स्थित्यर्द्ध नाडिका स्फुट होंगी ॥ ४१ ॥ चन्द्रव्यासार्धोनस्य वर्गितं यत्तमोमयार्धस्य । विक्षेपकृतिविहीनं तस्मान्मूलं विमर्दार्धम् ॥ ४२ ॥ चन्द्रबिम्बार्धहीनं तमोबिम्बार्धं यत्तस्य .वर्गद्विक्षेपवर्गं विशोध्य यच्छिष्टं त- स्मान्मूलं विमर्दार्धं विमर्दसाधनं भवति । तस्मात् षष्टिघ्नादर्कैन्दोर्गत्यन्तरेण विमर्दार्धकालो नाडिकात्मको भवतीत्यर्थः ॥ ग्रस्तशेषप्रमाणमाह ।

आर्यभटीये - ८३ भा०:-चन्द्रबिम्बार्द्ध हीन तमोविम्बार्द्ध को जो उसके वर्ग से विक्षेप वर्ग को घटाकर बचे, उस का मूल विमर्दार्द्ध होता है, उसी को विमर्द साधन कहते हैं। उस को ६० से गुणनकर सूर्य और चन्द्रमा की गति से घटानेपर शेष- फल विमर्दार्द्ध नाडिका होंगी ॥ ४२ ॥ तमसो विष्कम्भार्धं शशिविष्कम्भार्धवर्जितमपोह्य । विक्षेपाद्यच्छेषं न गृह्यते तच्छशाङ्कस्य ॥ ४३ ॥ चन्द्रबिम्बार्धं तमोबिम्बार्धाद्विशोध्य शिष्टं विक्षेपादिशोधयेत् । तत्र य- च्छेषं तत्तुल्यश्चन्द्रस्य भागस्तमसा न गृह्यते । शेषलिप्तासमानलिप्ता न गृह्यन्ते । इत्यर्थः ॥ तात्कालिकग्रासपरिज्ञानमाह । भा०:-चन्द्रविम्बार्द्ध को तमोविम्बार्द्ध से घटाकर • शेषफल को विक्षेप से घटावे जो बचे उसके तुल्य चन्द्रमा का भाग अन्धकार से ग्रसित नहीं होता॥४३ विक्षेपवर्गसहितात् स्थित्यर्धादिष्टवर्जितान्मूलम् । सम्पर्कार्धाच्छोध्यं शेषस्तात्कालिको ग्रासः ॥ ४४ ॥ (विक्षेपकृतियुतादिष्टकालकोट्यूनास्थित्यर्धकोटेर्वर्गाद्यन्मूलं तत् सम्पर्कार्धकृ- तेर्विशोध्यम् । तत्र यच्छेषं तत् तात्कालिकग्रासप्रमाणं भवति ॥ स्पर्शमोक्षादि ज्ञानमाह । * भा०:-विक्षेप वर्ग जोड़ा हुआ, इष्टकाल कोटी से घटाकर स्थित्यर्द्ध कोटी के वर्ग से मूल कर उसे सम्पर्कार्द्ध वर्ग से घटावे-शेषफल तात्कालिक ग्रास होगा ॥४४॥ मध्याह्नात् क्रमगुणितो ऽक्षो दक्षिणतो ऽर्धविस्तरहतो दिक् स्थित्यर्धाच्चार्केंन्द्रोस्त्रिराशिसहितायनात् स्पर्शे ॥ ४५ ॥ ( मध्याह्नात् क्रमगुणितोऽक्षोऽर्धविस्तरहृतः । नृज्यया गुणिताक्षज्या त्रि- ज्यया भक्ता । तच्चापप्रमाणा दिग्भवति । ) आक्षवलनं भवति । दक्षिणतो दि ग्मध्याह्नात् ( पूर्वभागे ) दक्षिणां वलनं भवति । [ दक्षिणतो दिक् ] प्राक्कपाले रखेस्स्पर्शे दक्षिणावलनं भवतीत्यर्थः । पश्चात्कपाले उत्तरवलनम् । (मध्याह्ने) न दिग्भवति । चन्द्रस्य सूर्यविपरीतं सर्वत्र भवति । एतदक्षवलनं स्थित्यर्धाच्च । स्थित्यर्थशब्देन तन्मूलभूतो विक्षेप उच्यते सूर्यस्य स्फुटनतिश्च वलनं भवति । तस्य नतिवद्दिग्भवति स्पर्शे मोक्षे च । चन्द्रग्रहणे चन्द्रविक्षेपो वलनं भवति ।

  • पुस्तकद्वयेऽपि व्याख्यानं खण्डितम् । तस्मात्प्रकाशिकाव्याख्यानमिह लिखितम् । “स्थित्यर्थक्षेत्रमध्यप्रगतीतकालः । मध्य हालादूर्ध्वदृष्टकाल इष्ट- कालः स्थित्यर्थक्षेत्रादिष्टकाल” इति पुस्तकद्वयेऽप्यवशिष्टं खण्डवाक्यम् ।

९४ गीतिकापादः ॥ तस्य विक्षेपव्यत्ययात् स्पर्शे मोक्षे च दिग्भवति। अर्कैन्द्वोस्त्रिराशिसहितायनात् अयनशब्देनापक्रम उच्यते। त्रिराशिसहितादर्काच्चन्द्राच्च निष्पन्नोऽपक्रमोऽपि तयोरर्केन्द्वोर्वलनं भवति । स्पर्शे। इति ग्रहणे । इत्येवार्थतः। एतद्वायनावलनम् अस्य दिक्षु बिम्बस्य मुखेऽयनवद्भवति । चन्द्रस्य स्पर्शेऽयनवत् मोक्षेऽयनव्यत्य यात्। चन्द्राद्व्यत्ययेन सूर्यायनवलनं दिग्भवति । अक्षावलनायनचापयोस्तुल्य दिशोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा जीवामादाय सम्पर्कार्धेन निहत्य त्रि- ज्यया विभज्य लब्धे विक्षेपं संस्कुर्यात् । तत् स्फुटवलनं भवति । गृहीतबिम्ब- स्थानवर्णानाह । भा०:—( मध्यान्ह से क्रम गुणित अक्षाद्धं विस्तरहृत । नतज्या द्वारा गुणित अक्षज्या से त्रिज्या द्वारा भागदेकर भागफल चाप परिमाणा दिक् होगी) दक्षिण से मध्यान्ह में ( पूर्वकाल में) दक्षिण वलन होता है। अर्थात पूर्व कपाल में सूर्य के स्पर्श में दक्षिण वलन होता है। पश्चिम कपाल में उत्तर वलन होता है। चन्द्रग्रहण और सूर्यग्रहण में सर्वत्र उलटा होता है। स्थित्यर्द्ध शब्द से उस का मूलभूत विक्षेप कहा जाता और सूर्य की स्फुट नति वलन होता है। और स्पर्श और मोक्ष में उसके नति तुल्य होता है । चन्द्रग्रहण में चन्द्रविक्षेप वलन होता है । उस के विक्षेप के व्यतिक्रम ( उलटा ) से स्पर्श और मोक्ष में दिशा होती है। अयन शब्द से अपक्रम कहा जाता है। तीन राशि सहित सूर्य और चन्द्रमा से निष्पन्न अपक्रम भी सूर्य और चन्द्रमा का वलन होता है। ग्रहण में यह आयनवलन होता है। इस की दिशा तो बिम्ब के मुख में अ- यन के तुल्य होगी। चन्द्र ग्रहण के स्पर्श में अयन तुल्य होगा। मोक्ष में अ- यन के विपर्य्यय-से चन्द्रमा से व्यतिक्रम द्वारा सूर्य आयन वलन होता है। आक्ष वलन के दोनों चाप के तुल्य दिशा का योग कर और यदि भिन्न होतो अन्तर कर चाप लेकर सम्पर्कार्द्ध से गुणन कर त्रिज्या से भाग देवे, भागफल में विक्षेप संस्कार करे तो वह स्फुट वलन होगा ॥ ४५ ॥ प्रग्रहणान्ते धूम्रः खण्डग्रहणे शशी भवति कृष्णः। सर्वग्रासे कपिलस्स कृष्णताम्रस्तमोमध्ये ॥ ४६ ॥ प्रग्रहणे प्रारम्भे । अन्ते मोक्षे समाप्तौ च । चन्द्रो धूम्रो भवति । खण्डग्र- हणेऽर्द्धबिम्बे गृहीतप्राये कृष्णवर्णः। सर्वग्रासे विमर्दे जाते सति कपिलः । सर्व- ग्रहणेऽपि तमोमध्यं प्रविशति सति कृष्णताम्र (वर्णद्वयशी भवति) । चन्द्र- वदर्कस्यापि वर्ण इति प्रकाशिकायामुक्तम् ॥ सूर्य्यग्रहणेऽदृश्यभागमाह ।

आर्य्यभटीये- ९५ भा०:-चन्द्रग्रहण के प्रारम्भ (स्पर्श) और मोक्ष में चन्द्रमा धूम्र वर्ण होता है। खण्ड ग्रहण में अर्थात् बिम्ब के आधा भाग ग्रसित होने पर कृष्ण वर्ण होता, सर्वग्रास में कपिलवर्ण होता, सर्वग्रहण में भी तमोमध्य प्रवेश करने पर कृष्ण एवं ताम्बे का सारंग होता है ॥ ४६ ॥ सूर्येन्दुपरिधियोगे ऽर्काष्टमभागो भवत्यनादेश्यः । • भानोर्भासुरभावात् स्वच्छतनुत्वाच्च शशिपरिधेः ॥४७॥ सूर्येन्द्वोः परिधियोगे स्पर्शादावर्कबिम्बस्याष्टमभागो ग्रस्तोऽप्यनादेश्यः । द्रष्टुमशक्य इत्यर्थः । तत्र हेतुमाह भानोरिति । सूर्यस्यातिभासुरत्वात् जलम- यस्य शशिनः परिधेरत्यच्छत्वाच्च । आसन्नार्करश्मिभिश्चशशिपरिधेरच्छत्वं सम्भ- वति । अष्टमभागाधि के ग्रस्ते तेनाष्टमांशेन सह ग्रस्तभाग उपलभ्यते ॥ एवं स्वशास्त्रप्रतिपादितग्रहगत्यादेर्दृक्संवादात् स्फुटत्वमाह । भा०:-सूर्य्यग्रहण में-सूर्य्य और चंन्द्रमा की परिधि योग में सूर्य्य के अष्टमभाग ग्रस्त सूर्य्य का नहीं दीख पड़ता । इस का कारण यह है कि सूर्य्य के अत्यन्त प्रकाश और जलमय चन्द्रमा की परिधि की स्वच्छता होने से । क्योंकि सूर्य के किरण निकट होने से चन्द्रमा की परिधि की स्वच्छता का सम्भव होता है इसी कारण अष्टम भाग से अधिक ग्रस्त भाग की उपलब्धि होती है ॥४७॥ ' क्षितिरवियोगाद्दिनकृद्रवीन्दुयोगात्प्रसाधितश्चेन्दुः। शशिताराग्रहयोगात्तथैव ताराग्रहास्सर्वे ॥४८॥ इह तन्त्र उदितोऽर्को भूरवियोगात् प्रसाधितः । स्फुट इति कल्पितः । यथा पूर्वापरसूत्राग्रे रखेरुदयास्तमयाच्च गोलान्तर्गतोऽर्क इति कल्प्यते । दक्षिणे त्तरगतिनिवृत्त्यायनगतिश्चेति च पूर्वापरसूत्रगतशङ्क्वूच्छ्रायया दक्षिणोत्तरगतश- ङ्क्वूच्छ्रायया च तात्कालार्कस्साध्यते । एवं बहुभिः प्रकारैः परीक्ष्यात्रोदितोऽर्क- स्स्फुट इति कल्पितः । इत्यर्थः एवं प्रकाशिकायामुदितम् । एतैः प्रकारभेदैस्सा- धनार्क एव सिध्येत् नतु दृगानीतः । अयनचलनञ्च प्रतिकाsubscription भिन्नं युक्त्या तत्परिज्ञानञ्च गणिताकदेव भवति* ॥ शास्त्रस्य मूलमाह । भा०:-पूर्वापर रेखा के आगे सूर्य्य का उदय होने से गोलान्तर्गत सूर्य्य की ऐसी कल्पना कियी जाती है। और दक्षिण उत्तर के गति निवृत्ति

  • अंतः परं कतिचित्खण्डितवाक्याख्यानि पुस्तकद्वये दृश्यन्ते । तद्यथा । अतः केचिदेवमाहुः । कृत्तिकादितारकाणां शास्त्रोदितैः - - - वांशैश्च तासामु- दयलग्नं मध्यलग्नमस्तलग्नञ्च सस्यग्ज्ञात्वा पुनरर्कस्यार्द्धास्तमये घटिकायन्त्रं · संस्थाप्य तेन कृत्तिकादीनां - - द्येन कालेन विशे-

९६ गीतिकापादः ॥ द्वारा “ अयन ” होता है। पूर्वापर शङ्कुछाया में एवं दक्षिणोत्तर शङ्कुछाया द्वारा तात्कालिक सूर्य्य सिद्ध होता है। एवं बहुत प्रकार से परीक्षा किया हुआ स्फुट सूर्य्य होता है ॥ ४८ ॥ सदसज्ज्ञानसमुद्रात् समुद्धृतं देवताप्रसादेन । सञ्ज्ञानोत्तमरत्नं मया निमग्नंस्वमतिनावा ॥ ४९ ॥ सदसज्ज्ञानरत्नवतो ज्योतिषशास्त्रारव्यसमुद्रात् स्वमतिनावा स्वमत्याख्यां नावमारूढेन मया तन्मध्यं प्रविश्य तत्र निमग्नं सञ्ज्ञानाख्यमुत्तमरत्नं देवता- यास्स्वयंभुवः प्रसादेन सम्यगुद्धृतम् । स्वयंभुवोद्दिष्टार्थप्रकाशनमेव मया कृत- मित्यर्थः । संक्षिप्तत्वञ्चात्र सिध्यति ॥ अथोपसंहरति । भा०:–ज्योतिष् शास्त्र रूपी समुद्र में अपनी बुद्धिरूपी नौका पर सवार होकर समुद्र में निमग्न हो ब्रह्मा की कृपा से सद्ज्ञानरूप रत्न को मैं ने (आ- र्य्यभट) बाहर किया अर्थात् प्रकाशित किया ॥४९॥ आर्य्यभटीयं नाम्ना पूर्वं स्वायम्भुवं सदा सद्यत् । सुकृतायुषोः प्रणाशं कुरुते प्रतिकञ्चुकं यो ऽस्य* ॥ ५० ॥ पूर्वमादिकाले यज्ज्योतिश्शास्त्रं वेदात्समुद्धृत्य ग्रन्थेन लोके प्रकाशित- मासीत् सदा सर्वदा सद्भूतं तदेव मया नाम्नाऽार्य्यभटीयमिति तन्त्रं प्रकाशितम् । अस्य शास्त्रस्य यः प्रतिकञ्चुकं कुरुते । दोषोत्पादनेन तिरस्करणमित्यर्थः । तस्य सुकृतायुषोः प्रणाशस्स्यात् ॥ परमादीश्वराख्येन कृतेयं भटदीपिका । प्रदीप्यतां सदा ज्योतिषशास्त्रज्ञानां हृदालये ॥ इति भटदीपिकायां गोलपादः । इत्यार्यभटीयं समाप्तम् । भा०:–आदि काल में जिस ज्योतिषशास्त्र को वेद से निकाल कर लोक में प्रचार किया गया–उसी ज्योतिः शास्त्र को अर्थात् वैदिक ज्योतिष् शास्त्र को, मैं ने (आर्य्यभट) आर्य्यभटीय तन्त्र ” नाम से प्रकाशित किया है। इस शास्त्र में जो कोई व्यक्ति मिथ्यादोष दिखला कर इस का तिरस्कार करेगा–उस के सुकृत, पुण्य वा यश और आयु का नाश होगा ॥ ५० ॥ आर्य्य भटीय ज्योतिषशास्त्र पूरा हुआ । *प्रतिकञ्चुको योऽस्य । इति पठनीयम् । दीपिकाव्याख्याया व्याकरणविरुद्धत्वात् ।