आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
५२ गीतिकापादः ॥ रविभगणा रव्द्यब्दा रविशशियोगा भवन्ति शशिमासाः । रविभूयोगा दिवसा भावर्त्ताश्चापि नाक्षत्राः ॥ ५ ॥ यावता कालेन रवेर्भगणपरिवृत्तिस्तावत्कालो रव्द्यब्दाः । यावता कालेन रविशशिनोर्योगस्स्यात् तावत्कालश्चान्द्रमासः । एककालमारूह्य गच्छतोः पुंनर्यो- गकाल इत्यर्थः । रविभगणतुल्या युगे रव्द्यब्दाः । युगे रविशशियोगतुल्या युगे चान्द्रमासाः । रविभूयोगशब्देन रवेर्भूपरिभ्रमक्षममभिहितम् । युगे रवेर्भूपरिभ्रम- णतुल्या युगे भूदिवसाः । सावनदिवसा इत्यर्थः । युगे यावन्तो भावर्ता नक्षत्र- मण्डलस्य परिभ्रमणानि तावन्तो युगे नाक्षत्रदिवसाः । अत्र भचक्रभ्रमणसिद्धा नाक्षत्रदिवसा उक्ताः । नतु चन्द्रमतिसिद्धाः ॥ अधिमासावमदिनान्याह । भा०-जितने काल में सूर्य का भगण पूरा होता है उतने काल को १ ‘सौर वर्ष कहते हैं । जितने काल में सूर्य्य और चन्द्रमा का योग होता है- उतने काल को “ चान्द्रमास ” कहते हैं । तुल्य समय में चलने से पुनः योग काल होता है । सूर्य्यभगण के तुल्य युग में सौरवर्ष होते हैं । युग में सूर्य्य और चन्द्रमा के योग की बराबर युग में चान्द्रमास होते हैं । युग में सूर्य्य का पृथिवी भ्रमण के तुल्य सावन वा भूदिवस होते हैं । युग में जितने नक्षत्र मण्डल का आवर्त्त अर्थात् भ्रमण होता, उतने ही युग में नाक्षत्र दि- वस होते हैं ॥ ५ ॥ अधिमासका युगे ते रविमासेभ्यो ऽधिकास्तु ये चान्द्राः । शशिदिवसा विज्ञेया भूदिवसोनास्तिथिप्रलयाः ॥ ६ ॥ युगरविमासहीना युगचान्द्रमासा युगेऽधिमासास्स्युः । युगभूदिवसोना युगचान्द्रदिवसा युगे तिथिप्रलयाः। अवमदिवसा इत्यर्थः मनुष्यपितृदेवानां संवत्सरप्रमाणमाह । भा०:-युग के सौरमास से युग के चान्द्रमास को घटाने पर युग में अ- धिमास की संख्या निकल आवेगी । युग के सौरमास से युग के चान्द्र दिन घटाने पर युग में तिथि क्षय अर्थात् अवम वा क्षय दिन होंगे ॥ ६ ॥ रविवर्षं मानुष्यं तदपि त्रिंशद्गुणं भवति पित्र्यम् । पित्र्यं द्वादशगुणितं दिव्यं वर्षं समुद्दिष्टम् ॥ ७ ॥ रविवर्षं मानुष्यं वर्षं भवति । ( मानुष्यं वर्षं त्रिंशद्गुणितं पित्र्यं वर्षं 'भवति ) । पित्र्यं वर्षं द्वादशगुणितं दिव्यं वर्षं भवति । अत्र सौरमानेन पि- त्र्यमुदितं शास्त्रान्तरे तु चान्द्रेणोदितम् । तथाच मयः
आर्यभटीये— ५३ 'त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् । सू० सि० इति ॥ ग्रहाणां युगकालं ब्राह्मदिनकालञ्चाह । भा०:—सौर वर्ष को मानुष्य वर्ष भी कहते हैं । मानुष्य वर्ष को ३० से गुणन करने पर पित्र्यवर्ष होता है । और पित्र्यवर्ष को १२ से गुणन करने पर दिव्यवर्ष होता है । यहां सौरमान से पित्र्यदिन कहा है परन्तु सूर्यसि- द्धान्त आदि ग्रन्थों में चान्द्रमान से कहा गया है ॥७॥ दिव्यं वर्षसहस्रं ग्रहसामान्यं युगं द्विषट्कगुणम् । अष्टोत्तरं सहस्रं ब्राह्मो दिवसो ग्रहयुगानाम् ॥ ८ दिव्यं वर्षसहस्रं द्विषट्कगुणं द्वादशगुणितं ग्रहसामान्यं युगं भवति । सर्वे- षाम् ग्रहाणां युगमित्यर्थः । युगादौ सर्वेषां ग्रहाणा मण्डलादिगतत्वात्तेषां म- ध्यमानयने युगविशेषो नास्तीति सामान्यशब्देन द्योतितम् ॥ कालस्योत्सर्पि- ण्यादिविभागमाह । भा०:—१००० दिव्यवर्ष को १२ से गुणन कर गुणनफल ग्रह सामान्य युग होगा । अर्थात् सब ग्रहों का युग होगा । युग की आदि में सब ग्रहों को म ण्डल के आदि में होने से इन के मध्यामयन में कोई युग विशेष नहीं है ॥८॥ उत्सर्पिणी युगाधं पश्चादवसर्पिणी युगाधञ्च । मध्ये युगस्य सुषमादावन्ते दुष्षमेन्दूच्चात् ॥ ९ ॥ * अस्यार्थो व्याख्याकारेण न प्रदर्शितः । अतो भटप्रकाशिकायां यदुक्तं तदत्र लिख्यते । यस्मिन् काले प्राणिनामायुर्यशोवीर्यादीन्युपचीयन्ते स काल उत्सर्पिणीसंज्ञः । यस्मिन्नपचीयन्ते सोऽवसर्पिणीसंज्ञः । युगस्य पूर्वार्धमुत्सर्पि- णीकालः । अपरार्धमवसर्पिणीकालः । युगस्य मध्यमस्त्र्यंशः समकालः । आद्य- न्तौ ( सुषमा ) दुष्षमासंज्ञौ त्र्यंशौ । एतत्सर्वमिन्दूच्चात्प्रभृति प्रतिपत्तव्यम् । अस्यार्थोऽभियुक्तैर्निरूप्य वक्तव्यः । इति प्रकाशिकायां व्याख्यानम् । अत्र इन्दू च्चात्प्रभृति प्रतिपत्तव्यमित्यनेन किमुक्तमिति न जानीमः । उक्तार्थस्य ग्रहगणि- तोपयोगित्वमपि न पश्यामः । एवं वार्थः । इन्दूच्चात्प्रभृति गतिमतां गतिर्यु- गाद्यर्धे उत्सर्पिणी, अपरार्धेऽवसर्पिणी मध्ये समा च । मध्यकालावस्थिति- प्रदेशादूर्ध्वमधो वा ग्रहाणामवस्थितिर्युगान्तयोर्भवति । अतो मध्यमगतेर्भेद- स्यात् । तस्मात्काले-काले निरूप्य 'मध्यमसंस्कारः कार्य इत्यर्थः । अथवा ।'
- भटदीपिकापुस्तकदये सुषमा, चादावन्ते च दु० इत्यपपाठः ।
५४ गीतिकापादः ॥ इन्दूच्चात्प्रभृति यान्युच्चानि मन्दोच्चानि शीघ्रोच्चानि च भवन्ति तेषां यावस्थि- तिः । सा उत्सर्पिणी समा च स्यात् । मध्ये काले यत्रावस्थितिरुच्चानां भवति । तस्मात्प्रदेशादूर्ध्वमधो वा युगाद्यन्तयोरेव स्थितिर्भवतीत्यर्थः । तेन वृत्तभेदा- स्स्यात् वृत्तभेदात् स्फुटभेदस्स्यात् । अतः-काले काले निरूप्य वृत्तसंस्कारः कार्य इत्यर्थः । इति । शास्त्रप्रणयनकालं तत्काले स्ववयःप्रमाणञ्च प्रदर्शयति । भा०:—इस का अर्थ व्याख्याकार ने नहीं किया; इसलिये भटप्रकाशिका में जैसे लिखा है उसी प्रकार-भावार्थ यहां लिखा जाता है, जिस समय प्राणियों की आयु, यश, वीर्य्य आदि की वृद्धि होती है उस काल को “ उत्सर्पिणी ” काल कहते हैं और जिस समय प्राणियों के आयु वीर्य्य आदि का ह्रास होता है, उसे 'अपसर्पिणी' काल कहते हैं । युग के पूर्वार्द्ध को उत्सर्पिणी और अ- परार्द्ध को अपसर्पिणी कहते हैं । युग के मध्यम त्र्यंश को सम काल कहते हैं । आदि और अन्त को ( सुषमा ) दुषमा त्र्यंश कहते हैं, इन सब को “ इन्दू च्चात् प्रभृति प्रतिपत्तव्यम् ” इस वाक्य से क्या अभिप्रेत है सो नहीं ज्ञात होता और न इस पूरे सूत्र से गणित में प्रयोजन जान पड़ता है ॥ ९ ॥ षष्ट्यब्दानां षष्टिर्यदा व्यतीतास्त्रयश्च युगपादाः । त्र्यधिका विंशतिरब्दास्तदेह मम जन्मनो ऽतीताः ॥ १० ॥ इह वर्तमानेऽष्टाविंशे चतुर्युगे चतुर्थागत्रय षष्ट्यब्दानां षष्टिश्च यदा गता भवन्ति । तदा मम जन्मनः प्रभृति त्र्यधिका विंशतिरब्दा गता भवन्ति । वर्त- मानयुगचतुर्थपादस्य षट्छताधिकसहस्रत्रयसम्मितुषु सूर्याब्देषु गतेषु सत्सु त्र- योविंशतिवर्षेण मया शास्त्रमिदं प्रणीतमित्युक्तं भवति । अत्राह प्रकाशिका- कारः । अस्यायमभिप्रायः । 'अस्मिन् काले गीतिकोक्तभगणैस्त्रैराशिकैनानीता ग्रहमध्यमोच्चपातास्स्फुटारस्सुः । इत उत्तरं तथानीतेषु तेषु सम्प्रदायसिद्धस्सं- स्कारः कार्यः । इति । तथाच तच्छिष्यो लल्लाचार्यः । “शाके नखाब्धिरहिते शशिनोऽक्षदस्रै— स्तत्तुङ्गतः कृतशिवैस्तमसंष्षडङ्कैः । शैलाधिभिस्सुरगुरोर्गुणिते सितोच्चा— च्छोध्यं त्रिपञ्चकुहृतेऽभ्रशराग्निभक्ते ॥ स्तम्बेरमाम्बुधिहते क्षितिनन्दनस्य— सूर्यात्मजस्यगुणितेऽम्बरलोचनैश्च ।
आर्यभटीये- ५५ व्योमाग्निवेदनिहते विदधीत लब्धम् । शीतांशूसूनुकुजमन्दकलासु वृद्धिम् ॥" धीवृद्धिदतन्त्रे । इति । अभ्रशराग्नितुल्यस्सर्वेषां हारकः कुजशनिशशीघ्रकलासु वृद्धिर्योज्यं शेषकलाभ्यश्शोध्यम् । एष संस्कारश्शकाब्दाख्यान्नातीव भिन्नः । अत्र शकाब्दा- च्चन्द्रयमाठिशोधनं युक्तं तदनुक्तम् । नखाधिशोधनं यदुक्तं तदुक्तिस्सौकर्या- येति वेद्यमिति प्रकाशिकाकारेणोक्तम् । अयनसंस्कारश्च प्रदर्शितः । “कल्यब्दात् खखषट्कृतिहीनाद्वसुशून्यनागशरभक्तात् । शेषे द्विबाणशक्रैः पदं भुजाब्दा द्विसंगुणिताः ॥ शशिसूर्यहृता लब्धं भागादिफलं भुजाफलवत् । ऋणाधनमयनध्रुवयोः कुर्यात्ते दृक्समे भवतः ॥” इति । पदप्रदेशेषु द्विबाणशक्राब्देषु गतभाग ओज पदे भुजाब्दः। युग्मपदे त्वेष्यो भुजाब्दः । भुजाफलवत् । मेषादावृणं तुलादौ धनमित्यर्थः । अयनद्वय- गध्रुवयो राशित्रये राशिनवके चणर्धनमित्यर्थः । तथाभूतेऽर्केऽयनावसानमित्युक्तं भवति । युगाद्यारम्भकालसाम्यं कालस्यान्त्यञ्च प्रदर्शयति । भा०:-इस वर्त्तमान अट्ठाईसवीं चौयुगी के चतुर्थ भाग में से तीसरे भाग के ६० वर्ष बीतने पर मेरा ( आर्यभटका ) जन्म हुआ । और मेरे जन्म काल से २३ वर्ष बीते हैं । वर्त्तमान युग के चतुर्थ पाद के ३६०० सौर वर्ष बी- तने पर मेरी २३ वर्ष की उमर हुई-इसी समय मैं ने इस ग्रन्थ को रचा। इस पर प्रकाशिकाकार ने लिखा है कि इस गीतिकोक्त भगण द्वारा त्रैराशिक से लाये हुए-ग्रहमध्य उच्च, पात, और स्फुट होते हैं। इस के उसप्रकार लाने पर सम्प्रदाय सिद्धसंस्कार करना चाहिये ॥१०॥ . युगवर्षमासदिवसास्समं प्रवृत्तास्तु चैत्रशुक्लादेः । कालो ऽयमनाद्यन्तो ग्रहभैरनुमीयते क्षेत्रे ॥ ११ ॥ सर्वेषां मण्डलान्तगंतत्वाद्युगादौ सौरचान्द्रादीनां युगपत्प्रवृत्तिः ॥ अना- द्यन्तः कालः क्षेत्रे गोले स्थितैर्ग्रहैर्भैरप्यनुमीयते । एतदुक्तं भवति । यद्यप्यनाद्य- न्तः कालस्तथापि ज्योतिश्चक्रस्थैरुपाधिभूतैः कल्पमन्वन्तरयुगवर्षमासदिवसादि- रूपेण परिच्छिद्यत इति । ग्रहाणां समगतित्वमाह । भा०:-आकाशमण्डल में सब ही सौर, चान्द्र, आदि की एक साथ युग की आदि में प्रवृत्ति हुई। अनाद्यन्त,काल, गोल में स्थितग्रहों और नक्षत्रों
५६ गीतिकापादः ॥ द्वारा भी अनुमान होता है। यह कहा जाता है कि यद्यपि अनाद्यन्त काल है तथापि ज्योतिश्चक्रस्य उपाधिभूत द्वारा कल्प, मन्वन्तर, युग, वर्ष, मास, दि वस, आदि रूप से परिच्छिन्न है ॥११॥ षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहा भपरिणाहम् । दिव्येन नभःपरिधिं समं भ्रमन्तस्स्वकक्ष्यासु ॥ १२ ॥ सूर्याब्दानां षष्ट्या सर्वे ग्रहा भपरिणाहं नक्षत्रमण्डलं पूरयन्ति । तावता कालेन तत्तुल्ययोजनानि गच्छन्तीत्यर्थः । दिव्येन नभःपरिधिम् । दिव्येन युगेन ग्रहसामान्ययुक्तेन चतुर्युगेन, नभःपरिधिमाकाशकक्ष्यां परिपूरयन्ति । तत्तुल्यानि योजनानि गच्छन्तीत्यर्थः । समं भ्रमन्तस्स्वकक्ष्यासु । सर्वे ग्रहा दिने-दिने तुल्य योजनानि स्वकक्ष्यायां भ्रमन्तस्सन्तः एवं भपरिणाहं नभःपरिधिञ्च पूरयन्ति ॥ समगतीनां मन्दशीघ्रगतित्वं कक्ष्याभेदाद्भवतीत्याह । भा०:—६० सौर वर्ष में सब ग्रह नक्षत्रमण्डल को पूरा भ्रमण करते हैं अर्थात् इतने समय में उसके तुल्य योजन चलते हैं। दिव्ययुग द्वारा अर्थात् चतुर्युग करके आकाश कक्ष्या को पूरा करते हैं। अर्थात् उसके तुल्य योजन जाते हैं। सब ग्रह दिन २ तुल्य योजन अपनी २ कक्षा में परिश्रमरण करते २ इस प्रकार आकाश कक्षा को पूरा करते हैं ॥ १२ ॥ मण्डलमल्पमधस्तात् कालेनाल्पेन पूरयति चन्द्रः । उपरिष्टात्सर्वेषां महच्च महता शनैश्चारी ॥ १३ ॥ सर्वेषां ग्रहाणामधस्ताद्गच्छंश्चन्द्रस्स्वमण्डलमल्पयोजनमल्पेन कालेन पूर- यति । अन्यग्रहमण्डलापेक्षया मण्डलाल्पत्वम् । अन्यग्रहमण्डलपूरणापेक्षया का- लस्याल्पत्वञ्च । सर्वेषां ग्रहाणामुपरिष्टाद्गच्छञ्छनैश्चरस्स्वमण्डलं महदधिकयो- जनं महता कालेन पूरयति ॥ राशिभागादिक्षेत्राणां प्रमाणं तत्तन्मण्डलानुसा- रेणोच्यत आह । भा०:—सब ग्रहों के नीचे चलता हुआ चन्द्रमा थोड़े समय में अल्प योजन पूरा करता है, अन्य ग्रहों की अपेक्षा इसका मण्डल छोटा होने से मण्डल को पूरा करने में थोड़ा समय लगता है। सब ग्रहों के ऊपर चलता हुआ शनैश्चर अपने बड़े मण्डल के अधिक योजन के अधिक काल में पूरा करता है ॥१३॥ अल्पे हि मण्डलेऽल्पा महति महान्तश्च राशयो ज्ञेयाः । अंशाः कलास्तथैव विभागतुल्यास्स्वकक्ष्यासु ॥ १४ ॥
अल्पक्षेत्रे मण्डले राश्यादयोऽल्पक्षेत्राः । महति मण्डले राश्यादयो महा- न्तः । स्वकक्ष्यासु विभागंतुल्याः । स्वकक्ष्यायाः द्वादशांशतुल्यो राशिः । राशि- क्षेत्रत्रिंशांशतुल्यक्षेत्रो भागः । तथा कलादयः । एवं स्वकक्ष्यासु प्रकल्पितविभा- गतुल्या राश्यादयः । नक्षत्रमण्डलादधोगतानां ग्रहकक्ष्याणां क्रममाह । भा०:-अल्प क्षेत्र में मण्डल में राशि आदि अल्पक्षेत्र होते हैं । बड़े म- ण्डल में राशि आदि बड़ी होती है । अपनी कक्षा में विभाग तुल्य २ होते हैं। अपनी २ कक्षा के १२ वां अंश एक राशि के तुल्य होता है। राशि क्षेत्र ३० अंश के तुल्य है । एवं अपनी २ कक्षा में प्रकल्पित विभाग तुल्य राशि आदि हैं ॥१४॥ भानामधश्शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः । तेषामधश्च भूमिर्मेधीभूता खमध्यस्था ॥ १५ ॥ नक्षत्रकक्ष्यावस्थितानां भानामधः क्रमेण शनैश्चरादयस्स्वकक्ष्यायां चरन्ति । तेषां ग्रहाणामधस्स्थिता भूमिः खमध्यस्था । आकाशमध्ये तिष्ठति । तेषां ग्र- हाणां मेधीभूता भूमिः । मेधी नाम खलमध्ये स्थितो धान्यमर्दकानां बलीव- र्दकादीनां बन्धनार्थं स्थापितस्स्थूलशंकुः। यथा बलीवर्द महिषादयस्तं शंकुम् मध्यं कृत्वा तस्य परितो भ्रमन्ति । तथा भानि ग्रहाश्च खमध्ये स्थितां भूमिं मध्यं कृत्वा तस्याः परितो भ्रमन्ति । इत्यर्थः । अत्र निरक्षदेशमङ्गीकृत्योर्ध्वा- धोविभागः कृतः । ग्रहाणां मेधीभूताया भूमेः परितो भ्रमणतस्तु मेरुमध्यम- ङ्गीकृत्य । उक्तेन कक्ष्याक्रमेणैव कालहोराधिपत्यं दिनाधिपत्यञ्च प्रदर्शयति । भा०:-नक्षत्रकक्षा अवस्थित नक्षत्रों के नीचे क्रम से शनिचर, वृहस्पति, मङ्गल, शुक्र, बुध, चन्द्रमा, अपनी २ कक्षा में चलते हैं, इन ग्रहों के नीचे भूमि आकाश में है। इन ग्रहों के मेधीभूत भूमि है। जिस प्रकार कृषक (किशान लोग) लोग धान्य आदि को दैम्रन करने के लिये एक काष्ठ वा वांश का बड़ा लग्गा पृथिवी में गाड़ कर उस में दश वीस वा जितनी इच्छा हो बैलों को बांध देते हैं और बैल सब उसी मेधी वा मेहा को मध्यस्थ करके घूमते हैं, उसी प्रकार इस पृथिवी को मेधी मान कर उस के चारो ओर नक्षत्रादि और सब ग्रह भ्रमण करते हैं ॥ १५ ॥ सप्तैते होरेशाश्शनैश्चराद्या यथाक्रमं शीघ्राः । शीघ्रक्रमाच्चतुर्था भवन्ति सूर्योदयाद्दिनपाः ॥ १६ ॥ उक्ताश्शनैश्चरादयो यथाक्रमं शीघ्राः शीघ्रगतयो भवन्ति । कक्ष्याक्रमेणै- ८
५८ गीतिकापादः ॥ तत्सिध्यति । एवं यथाक्रमं शीघ्रासन्त एते शनैश्चरादयो यथाक्रमं होरेशाः कालहोरेशा भवन्तिं । वाराधिपस्य प्रथमहोरा । पुनस्तस्मादुक्तक्रमेण रात्री वाराधिपपञ्चमस्य प्रथमहोरा । पुनस्तस्मादुक्तक्रमेण । इत्यर्थः । उक्ताच्छीघ्रक्र- माच्चतुर्थोस्स्र्योदयमारभ्य दिनपा भवन्ति । शनैश्चरवारादुत्तरवार उक्तक्रमेण शनैश्चराच्चतुर्थोऽर्को वाराधिपः । तत उपरिगतवारेऽर्काच्चतुर्थश्चन्द्रो वाराधिपः । एवं परेष्वप्युक्तक्रमेण चतुर्थचतुर्थास्स्र्योदयमारभ्य वाराधिपा भवन्ति । मध्यमग्रहस्य दृग्वैषम्यात्तत्स्फुटीकरणमारभ्यते । तत्र दृग्वैषम्यकारणं प्रदर्शयति । भा०:—उक्त शनैश्चर आदि यथा क्रम से शीघ्र गति वाले होते हैं । कक्षा क्रम से यह सिद्ध होता है । एवं यथा क्रम से शीघ्र होने से ये शनैश्चर आदि यथा क्रम से 'होरेश', एवं काल होरेश होते हैं । वाराधिप की प्रथम होरा, पुनः उससे उक्त क्रम से रात्रि में वाराधिप पञ्चम की प्रथम होरा होती है । पुनः उससे क्रम से उक्त शीघ्र क्रम से सूर्योदय आरम्भ करके चतुर्थ दिनपति होता है । शनैश्चरवार से उत्तर वार उक्त क्रम से शनैश्चर से चतुर्थ सूर्य्य वारा- धिप होता है । उससे उपरिगति वार में सूर्य्य से चौथा चन्द्रमा वाराधिप हुआ । इस प्रकार पर में भी उक्त क्रम से चतुर्थ २ सूर्योदय से लेकर वार- धिप होते हैं ॥ १६ ॥ कक्ष्याप्रतिमण्डलगा भ्रमन्ति सर्वे ग्रहास्स्वचारेण । मन्दोच्छादनुलोमं प्रतिलोमञ्चैव शीघ्रोच्चात् ॥ १७ ॥ स्फुट एक एव ग्रहो भवति । तस्य विषमगतित्वात् तद्गतिसिद्धये समग तिर्मध्यमाख्यो ग्रहः पृथक् कल्प्यते । तत्र भूमध्यकेन्द्रे कक्ष्याख्यमण्डले मध्यम ग्रहस्सदा स्वचारेण मध्यमगत्या भ्रमति गच्छति । स्फुटग्रहस्तु भूमध्यादतिक्रा न्तकेन्द्रे प्रतिमण्डलाख्ये मण्डले स्वचारेण मध्यमगत्यैव भ्रमति गच्छति । अथवा स्वचारेण कक्ष्यामण्डलगतो मध्यमग्रहो मध्यमगत्या दृग्विषये चरति । प्रति- मण्डलगतस्स्फुटग्रहस्स्वचारेण स्फुटगत्या दृग्विषये चरति । इति योजना । म- न्दोच्चादनुलोमम् । यत्र-यत्र मन्दोच्चमवतिष्ठते तत्तत्स्थानादनुलोमं दिने-दिने केन्द्रभुक्त्या गच्छति । यत्र-यत्र शीघ्रोच्चमवतिष्ठते तत्तत्स्थानात्प्रतिदिनं स्वशीघ्रगत्यन्तरेण तुल्यकेन्द्रगत्या प्रतिलोमं गच्छति । प्रतिमण्डलप्रमाणं तत्स्थानञ्चाह । भा०:—स्फुट एक ही ग्रह होता है । उसकी विषम गतित्व से उस : गति की सिद्धि वा निश्चय के लिये “ समगति ” संख्यम नाम से ग्रह की
आर्यभटीये- ५९ पृथक् कल्पनां कियी जाती है । उसमें भूमध्य केन्द्र पर कक्षारूप मण्डल में म- ध्यमग्रह सदा अपनी मध्यमगति से चलता है। स्फुट ग्रह तो भूमध्य केन्द्र को अतिक्रम (नांघ कर) कर प्रति मण्डल वा वृत्ताभास में अपनी गति से भ्रमण करता है। अथवा अपनी गति से कक्षामण्डलगत मध्यमग्रह मध्यमगति से दृग्विषय में (देखने में) चलता है। ऐसी योजना है। जहां २ मन्दोच्च रहता है उस २ स्थान से अनुलोम (सीधी वा सम) गति से दिन २ केन्द्र भुक्ति से चलता है। और जहां २ शीघ्रोच्च ठहरता है। उस २ स्थान से प्रति- दिन स्व शीघ्र गत्यन्तर से तुल्य केन्द्र गति से प्रति लोम (विषम) गति से चलता है ॥ १७ ॥ कक्ष्यामण्डलतुल्यंस्वं-स्वं प्रतिमण्डलं भवत्येषाम् । प्रतिमण्डलस्य मध्यं घनभूमध्यादतिक्रान्तम् ॥ १८ ॥ कक्ष्यामण्डलं हि सर्वेषामाकाशकक्ष्यातस्स्वभगणैर्लब्धं स्यात् । प्रदर्शितञ्च तत् खयुगांशे ग्रहजव इति । (दशगीतिकायाम् ४) । स्वं-स्वं प्रतिमण्डलमपि स्वस्वकक्ष्यामण्डलतुल्यं भवति । कक्ष्यामण्डलस्य मध्यं घनभूमध्ये भवति । भू- मेरन्तर्गतो यो मध्यभागस्तत्रेत्यर्थः । प्रतिमण्डलस्य मध्यन्तु तस्माद्धनभूमध्या- दतिक्रान्तं भवति । घनभूमध्यादुच्चनीचवृत्तव्यासार्धतुल्यान्तरे । इत्यर्थः ।' तद्- ध्यति च। प्रतिमण्डल भूमध्ययोरन्तरालप्रमाणं मध्यस्फुटयोरन्तरालप्रमाणञ्चाह। भा०:-कक्षामण्डल सब ग्रहों का आकाशकक्षा से अपने २ भगणों द्वारा ज्ञात होता है। अपना २ प्रति मण्डल भी अपने २ कक्षामण्डल के तुल्य होता है। कक्षामण्डल के मध्य में घनभूत, मध्य में होता है अर्थात जहां भूमि के अन्तर्गत जो मध्य भाग हो वहां प्रतिमण्डल'का मध्यभाग तो घनभूमध्य से अति क्रान्त होता है। अर्थात् घनभूमध्य से उच्च नीच वृत्त व्यासार्द्ध तुल्य अन्तर पर होता है ॥ १८ ॥ प्रतिमण्डलभूविवरं व्यासार्धं स्वोच्चनीचवृत्तस्य । वृत्तपरिधौ ग्रहास्ते मध्यमचारं भ्रमन्त्येव ॥ १९ ॥ गीतिकासु यन्मन्दवृत्तमुक्तं तन्मन्दकर्मण्युच्चनीचवृत्तं स्यात् । तत्रोक्तं शीघ्र- वृत्तं शीघ्रकर्मण्युच्चनीचवृत्तं स्यात् । तस्य स्योच्चनीचवृत्तस्य व्यासार्धं प्रतिमण्ड- लभूमध्ययोरन्तरालमपि भवति । गीतिकोक्तवृत्तानि ज्याकर्णक्षेत्रसाधितानि । यतो भूमध्यं केन्द्रं कृत्वा त्रिज्याव्यासार्धेन कक्ष्यामण्डलमालिख्य तन्मध्यात्स्वो-
६० गीतिकापादः ॥ च्नीचवृत्तव्यासार्द्धान्तरे केन्द्रं कृत्वा त्रिज्यांतुल्यव्यासार्धेन वृत्तमालिखेत् । तत्प्र- तिमण्डलं भवति । प्रतिमण्डले व्योम्नि दृश्यमानस्साक्षाद्ग्रहश्चरति । कल्पितो मध्यमग्रहकक्ष्यामण्डले चरति । कक्ष्यामण्डले यत्र मध्यमग्रहोऽवतिष्ठते तत्र केन्द्रं कृत्वा स्ववृत्तव्यासार्धेन स्वोच्चनीचवृत्तमालिखेत् । तस्य परिधौ ग्रहा मध्य- मचारे भ्रमन्ति । मध्यमास्तस्मिन्वृत्ते मध्यमगत्या भ्रमन्ति चरन्ति । उच्चानि तस्मिन्स्वगत्या चरन्ति । इत्यर्थः । तस्मिन्वृत्त उच्चमध्यमयोरन्तरालभवा भुज- ज्यातत्प्रमाणा तत्प्रमाणा व्यासार्धमण्डले मध्यस्फुटयोरन्तरालभुजज्या भवति । क्षेत्रमानेनात्र तुल्यता नतु लिप्तादिसंख्यया । उच्चनीचवृत्ते मध्यमोच्चानां चारं प्रकल्प्य मध्यमोच्चयोरन्तरालभवभुजाज्यातुल्यं मध्यमस्फुटयोरन्तरालमिति प्र- कल्प्यम् । इत्यर्थः । गीतिकोक्तवृत्तानां (दशगीतिकायाम् ८ ।) कार्थापवर्त्ति- तत्वात्परिलेखनकर्मणि त्रिज्या कार्थापवर्तिता ग्राह्या स्यात्। तत्र भ्रमणप्रकारमाह। भा०:—गीतिकाओं में जो मन्दवृत्त कहा है वह मन्दकर्म में उच्च, नीच, वृत्त है । वहां का कहां शीघ्रवृत्त शीघ्रकर्म में उच्च, नीच, वृत्त में हो। उसके खोच्च नीच वृत्त का व्यासार्द्ध प्रतिमण्डल और भूमण्डल के बीच का भी होता है। गीतिकोक्त वृत्त सब ज्याकर्ण क्षेत्र साधित है। अतएव भूमध्य के केन्द्र करके त्रिज्याव्यासार्द्ध द्वारा कक्षामण्डल लिखकर उसके बीच से खोच्च नीच वृत्त व्यासार्द्धान्तर पर केन्द्र करके त्रिज्या तुल्य व्यासार्द्ध द्वारा वृत्त लिखे। वह प्रति मण्डल होगा। प्रतिमण्डल में आकाश में दृश्यमान साक्षात् ग्रह च- लता है। कल्पित मध्य ग्रह कक्षा मण्डल में चलता है। कक्षामण्डल में जहां मध्यमग्रह रहता है, वहां केन्द्र मानकर स्ववृत्त व्यासार्द्ध द्वारा खोच्च नीच वृत्त लिखे। उस के परिधि में मध्यमगति से ग्रह सब चलते दीखेंगे। और उच्च सब उसमें अपनी गति से चलते दीखपड़ेंगे ॥ १९ ॥ यश्शीघ्रगतिस्स्वोच्चात् प्रतिलोमगतिस्स्ववृत्तकक्ष्यायाम् अनुलोमगतिर्वृत्ते मन्दगतिर्यो ग्रहो भ्रमति ॥ २० ॥ यो ग्रहस्स्वोच्चाच्छीघ्रगतिर्भवति स्वस्वनीचोच्चवृत्ताख्यकक्ष्यायां प्रतिलोमग- तिर्भ्रमति । तत्र जाता गतिः प्रतिलोमेति कल्प्या । मध्यमादधोगतस्य स्फुट- स्य मध्यमस्य चान्तरं तत्र जाता गतिर्भुजेत्यर्थः । यो ग्रहस्स्वोच्चान्मन्दगतिर्भ- वति स स्ववृत्तेऽनुलोमं गच्छति । तस्मिन्वृत्ते जाता गतिर्भुजानुलोमेति कल्प्या। तत्र मध्यादुपरि स्फुटो भवतीत्यर्थः । अत्रोच्चादूर्ध्वगतर्राशषट्कस्थो ग्रहश्शी-
आर्यभटीये- ६१ ग्रगतिरित्युच्यते । अधोगतराशिषट्कस्थो मन्दगतिरिति च । इति द्रष्टव्यम् । मध्यमात्स्फुटस्य प्रतिलोमानुलोमगतित्वमुक्तम् । उच्चनीचवृत्तस्य भ्रमणप्रकारं तत्संख्यावस्थानञ्चाह । भा०:—जो ग्रह अपने उच्च से शीघ्रगतिवाला होता है, वह अपने २ नीचोच्च वृत्त नामक कक्षा में प्रतिलोमगति से भ्रमण करता है । उससे उत्पन्न गति प्रतिलोम करके कल्पना करनी चाहिये । मध्यम से नीचे का स्फुट और म- ध्यम के अन्तर से उत्पन्न गति ' भुजा , कहलाती है । जो ग्रह अपने उच्च से मन्दगति होता है-वह अपने वृत्त में अनुलोम चलता है । उस वृत्त में उत्पन्न गति का नाम ' भुजानुलोम , है । यहां मध्य से ऽ उपरिस्फुट होता है । यहां उच्च से ऊर्ध्वगति छः राशिस्थग्रह ' शीघ्रगति ' कहा जाता है । अधोगत छः राशिस्थ ग्रह ' मन्दगति , कहा जाता है । मध्यम से स्फुट का प्रतिलोम, अनु- लोम गति होना कहा गया ॥ २० ॥ अनुलोमगानि मन्दाच्छीघ्रात्प्रतिलोमगानि वृत्तानि । कक्ष्यामण्डललग्नस्स्ववृत्तमध्ये ग्रहो मध्यः ॥ २१ ॥ कक्ष्यामण्डले यत्र मध्यमग्रहस्तत्र केन्द्रं कृत्वा स्ववृत्तपरिलेखनं कार्यमि- त्यर्थः ॥ एवमुच्चवशात् स्फुटगतिः प्रतिदिनं भिन्ना । ततस्स्फुटगतिसिद्ध्यर्थं स्फुटकर्म क्रियते । तत्रैकोच्चयोस्सूर्येन्द्वोरेकमेव स्फुटकर्म । द्वयुच्चानां कुजादीना स्फुटकर्माणि द्वे भवतः।तत्र तेषां स्फुटकर्मद्वये कृतेऽपि कदाचिद्दृग्भेदस्सम्भवति । मन्द शीघ्रयोः कक्ष्यामण्डलभेदात् प्रतिमण्डलभेदाच्च संभवति। तद्द्दृग्भेदव्युदासार्थं मेवं क्रियते । कुजगुरुशनीनां प्रथमं मध्यान्मन्दफलमानीय तन्मध्यमे कृत्वा तस्माच्छीघ्रफलञ्चानीय तदर्धं तस्मिन्नेव कृत्वा तस्मान्मन्दफलं, सकलं केवलमध्ये कृत्वा तस्माच्छीघ्रफलञ्च सकलं तस्मिन्नेव क्रियते ।०सं स्फुटो ग्रहः । बुधशुक्रयो- स्तु प्रथमं मध्यमाच्छीघ्रफलमानीय तदर्धं मन्दोच्चे व्यस्तं कृत्वा तन्मन्दोच्चं म- ध्यमाद्विशोध्य मन्दफलमानीय तत्सकलं मध्यमे कृत्वा तस्माच्छीघ्रफलञ्च स- फलं तस्मिन्नेव क्रियते । स स्फुटस्स्यात् । इति । एतत्सर्वमार्यात्रयेण प्रदर्शयति । तत्र प्रथमं मन्दशीघ्रयोश्च साधनविभागमार्यार्धेनोक्त्वा सार्धेनार्याद्वयेन स्फुट- क्रमञ्चाह । भा०:--कक्षामण्डल में जहां मध्यग्रह रहता है वहां केन्द्र मानकर स्व- वृत्त लिखे । एवं उच्च वशतः स्फुटगतिः प्रतिदिन भिन्न २ होती है । उससे ० स्फुटगति के निश्चयार्थ स्फुट कर्म होता है । उसमें एक उच्च वाले सूर्य्य और
६२ गीतिकापादः ॥ चन्द्रमा का एक ही स्फुटकर्म्म होता है। और दो उच्च ( शीघ्रं मन्द ) वाले मङ्गल आदि के दो स्फुटकर्म्म होते हैं। उसमें उन के दो स्फुटकर्म्म करने पर भी कभी दृग्भेद सम्भव होता है। मन्द और शीघ्र के कक्षामण्डल भेद से एवं प्रतिमण्डल के भेद से सम्भव होता है। सो दृग्भेद के परित्याग (व्यु- दास) के लिये किया जाता है। मङ्गल, बृहस्पति, शनि, पहिले मध्य से मन्द फल लाकर उसको मध्यम करके और उस से शीघ्र लाकर उसका आधा उसी में करके उससे मन्दफल सब केवल मध्य में करके उससे शीघ्रफल सब उसी में आजाता है। वह स्फुटग्रह होता है। बुध और शुक्र का तो पहिले मध्यम से शीघ्र फल लाकर उसके आधे को मन्दोच्च में व्यस्त कर और उससे शीघ्र फल सब उसमें किया जाता है। वही स्फुट होता है ॥ २१ ॥ ऋणधनधनक्षयास्स्युर्मन्दोच्चाद्व्यत्ययेन शीघ्रोच्चात् । मन्दोच्चात् । मन्दोच्चहीनान्मध्यमादित्यर्थः । तस्मादुत्पन्ना जीवा पद- क्रमेण ऋणधनधनक्षयास्स्युः । व्यत्ययेन शीघ्रोच्चात् । मध्यमहीनाच्छीघ्रोच्चा- दुत्पन्ना जीवा व्यत्ययेन धनर्णार्णधनास्स्युरित्यर्थः । एतदुक्तं भवति । प्रथमपदे मन्दभुजायाः क्रमज्याफलमृणं भवति । द्वितीयपदे कोट्या उत्क्रमज्याफलम् । तृतीयपदगतसम्पूर्णभुजाफलसंस्कृते ऋणं भवति । शीघ्रे तु धनर्णव्यत्ययेन भवति । इति । मान्द्ये मेषादौ भुजाफलमृणं तुलादौ धनम्। शैघ्ये तूच्चान्मध्य- मस्य शोधन विधानान्मेषादौ धनं तुलादावृणमित्येवार्थः । भा०:—मध्यमहीन उत्पन्न जीवा पद क्रम से ऋण और धन मन्दोच्च से धन और ऋण होता है। मध्यम हीन शीघ्रोच्च से उत्पन्न जीवा विपरीत भाव से धन और ऋण, ऋण और धन होता है। इस का आशय यह है कि प्रथम पद में मन्दभुजा की क्रमज्याफल ऋण होता है। द्वितीय पद में कोटी द्वारा उत्क्रमज्या फल होता है। तृतीय पदगत सम्पूर्ण भुजफलसंस्कृत में ऋण होता है। शीघ्र में तो धन ऋण विपरीत भाव से होता है। मान्द्यकर्म में मेषादि में भुभाफल ऋण, तुलादि में धन होता है। शैघ्य में तो उच्च से मध्यम का शोधन विधान मेषादि में धन होता है, तुलादि में ऋण होता है ॥ शनिगुरुकुजेषु मन्दादर्धमृणधनं भवति पूर्वे ॥ २२ ॥ मन्दोच्चाच्छीघ्रोच्चादर्धमृणधनं ग्रहेषु मन्देषु ! मन्दोच्चात्स्फुटमध्याश्शीघ्रोच्चाच्च स्फुटा ज्ञेयाः ॥२३॥
आर्यभटीये- ६३ शनिगुरुकुजेषु मन्दोच्चात् सिद्धान्मन्दान्मन्दभुजाफलार्धं मेषादावृणं तुलादौ धनञ्च भवति । पूर्वं स्फुटकर्माङ्गेयमित्यर्थः । मन्दोच्चहीनान्मध्यमात्सिद्धान्मन्द- फलार्धं मध्यम ऋणं धनं वा यथाविधि कार्यमित्युक्तं भवति ॥ शीघ्रोच्चार्ध- स्रणधनं ग्रहेषु मन्देषु। शीघ्रोच्चान्मन्दफलार्धसंस्कृतमध्यहीनादुत्पन्नशीघ्रभुजा- फलार्धमृणं धनं वा यथाविधि मन्देषु ग्रहेषु मन्दफलार्धसंस्कृतेषु शनिगुरुकुजा- नां मध्यमेषु कुर्यात् । मन्दोच्चात्स्फुटमध्याः । मन्दोच्चात् मन्दोच्चसिद्धमन्दफ- लसंस्कारादित्यर्थः । मन्दफलार्धशीघ्रफलार्थाभ्यां संस्कृतान्मध्यमान्मन्दोच्चं वि- शोध्य तस्मादुत्पन्नेन मन्दफलेन कृत्स्नेन संस्कृतः केवलमध्यः स्फुटमध्यमाख्यो भवति । एवं शनिगुरुकुजानां स्फुटमध्या भवन्ति । शीघ्रोच्चाच्च स्फुटा ज्ञेयाः । शीघ्रोच्चात्स्फुटमध्यमहीनादुत्पन्नेन शीघ्रफलेन कृत्स्नेने संस्कृतस्स्फुटमध्यस्स्फु- टग्रहो भवति । एवं शनिगुरुकुजानां स्फुटा ज्ञेयाः ॥ भा०:-शनि, गुरु, मङ्गल में 'मन्दोच्च से सिद्ध मन्द से मन्दभुजाफलार्द्ध मेषादि में ऋण और तुलादि में धन होता है'। पूर्व ही स्फुटकर्म में मध्यम से मन्दफल से आधा मध्यम ऋण या धन यथाविधि करना चाहिये । आशय यह है कि शीघ्रोच्च से अर्द्ध ऋण, धन ग्रहों में मन्द में शीघ्रोच्च से मन्द फलार्द्ध संस्कृत मध्य हीन से उत्पन्न शीघ्र भुजाफल अर्द्ध ऋण या धन यथाविधि मन्द ग्रहों में मन्दफलार्द्ध संस्कृत में शनि, गुरु, मङ्गल के मध्य करना चाहिये । म- न्दोच्च सिद्ध मन्दफल संस्कारादि । मन्दफलार्द्ध शीघ्रफलार्द्ध द्वारा संस्कृत मध्य से मन्दोच्च को घटा कर उस से उत्पन्न कृत्स्न मन्दफल द्वारा संस्कृत केवल मध्य स्फुट मध्य नामक होता है। एवं शनि, गुरु, मङ्गल, का स्फुट मध्य होता है । शीघ्रोच्च से स्फुट मध्य घटाकर, जो उत्पन्न सम्पूर्ण शीघ्रफल, उसके द्वारा संस्कृत स्फुट ग्रहं होता है ॥ २२ । २३ ॥ शीघ्रोच्चादर्धोने कर्तव्यमृणंधनंस्वमन्दोच्चे । स्फुटमध्यौ तु भृगुबुधौ सिद्धान्मन्दात्स्फुटौ भवतः ॥२४॥ भृगुबुधयोस्तु शीघ्रोच्चान्मध्यमहीनादुत्पन्नं शीघ्रफलमर्थोनं स्वमन्दोच्चे मेषादावृणं तुलादौ धनञ्च कार्यम् । शीघ्रविधिव्यत्ययेनेत्यर्थः । स्फुटमध्यौ तु भृगुबुधौ 'सिद्धान्मन्दात् । एवं सिद्धान्मन्दान्मन्दोच्चाद्यन्मन्दफलं तेन सकलेन संस्कृतौ भृगुबुधमध्यमौ स्फुटमध्याख्यौ , भवतः । शीघ्रफलार्धसंस्कृतं मन्दोच्चं म- ध्यमाद्विशोध्य तस्मादुत्पन्नमन्दफलेन सकलेन संस्कृतो मध्यस्फुटो भवति । फ-
६४ गीतिकापादः ॥
लानयनप्रकारस्तु । मन्दकेन्द्रभुजाज्यां मन्दस्फुटवृत्तेन निहत्याशीत्या विभज्य लब्धस्य चापं मन्दफलं भवति । तथा शीघ्रकेन्द्रभुजज्यां शीघ्रस्फुटवृत्तेन निह- त्याशीत्या विभज्य लब्धं व्यासार्धेन निहत्य. शीघ्रकर्णेन विभज्य लब्धस्य चा- शीघ्रफलं भवति । कर्णास्तु तत्तत्केन्द्रादुत्पन्नभुजज्यां, कोटिज्याश्च स्ववृत्तेन निह- त्याशीत्या विभजेत् । तत्र लब्धे भुजाकोटिफले भवतः । कोटिफलं मृगादौ व्या- सार्धे निक्षिप्य कर्कादौ कोटिफलं व्यासार्थाद्विशोध्य वर्गीकृत्य तस्मिन् भुजाफ- लवर्गं प्रक्षिप्य मूलीकुर्यात्। सकर्णो भवति । एवं सकृत्कृत एव शीघ्रकर्णस्स्फुटस्स्या- त् । मन्दकर्णस्तु विशेषितस्स्फुटो भवति । तत्प्रकारस्तु । प्रथमसिद्धं कर्णं भुजा- कोटिफलाभ्यां निहत्य व्यासार्धेन विभजेत् तत्र लब्धे भुजाकोटिफले कर्णसिद्धे भवतः । पुनस्ताभ्यां व्यासार्धेन पूर्ववत् कर्णमानयेत् । तमपि कर्णं प्रथममशीत्या लब्धाभ्यां भुजाकोटिफलाभ्यामेव निहत्य व्यासार्धेन विभज्य भुजाफलं कोटि- फलञ्चानीय ताभ्यां कर्णं साधयेत् । एवं तावत्कुर्यात् यावदविशेषकर्णलब्धिः । अविशिष्टो मन्दकर्णस्स्फुटो भवति । वृत्तकर्म तु । भुजायामोजयुग्मपदवृत्तयो- रन्तरेण निहत्य व्यासार्धेन विभज्य लब्धमोजपदवृत्ते धनमृणं कुर्यात् । ओजवृ- त्तेऽन्यस्मान्नयूने धनम्। अधिके ऋणम् । तत् स्फुटवृत्तं भवति । एतत्सर्वं कक्ष्या- प्रतिमण्डलगा इत्यादिभिः प्रदर्शितमेवेति भावः ॥ “स्फुटविधियुक्तिस्सिद्धयेन्नैव विना छेद्यकेन विहगानाम् । तस्मादिह संक्षेपाच्छेद्यककर्म प्रदर्श्यते तेषाम् ॥ त्रिज्याकृतं कुमध्यं कक्ष्यावृत्तं भवेत्तु तच्छैघ्रम् । शीघ्रदिशि तस्य केन्द्रं शीघ्रान्त्यफलान्तरे पुनः केन्द्रम् ॥ कृत्वा विलिखेद्द्वृत्तं शीघ्रप्रतिमण्डलाख्यमुदितमिदम् । इदमेव भवेन्मान्दे कक्ष्यावृत्तं पुनस्तु तत्केन्द्रात् ॥ केन्द्रं कृत्वा मन्दान्त्यफलान्तरे वृत्तमपिच मन्ददिशि । कुर्यात्प्रतिमण्डलमिदमुदितं मान्दं शनीड्यभू पुत्राः । मान्दप्रतिमण्डलगास्तत्कक्ष्यायां तु यत्र लक्ष्यन्ते । तत्र हि तेषां मन्दस्फुटाः प्रदिष्टास्तथैव शैघ्रे तें । प्रतिमण्डले स्थितास्स्युस्ते लक्ष्यन्ते पुनस्तु शैघ्राख्ये । कक्ष्यावृत्ते यस्मिन् भागे तत्र स्फुटग्रहास्ते स्युः ॥ एवं सिध्यति तत्र स्फुट युग्मं तन्न भवति दृग्भेदः । यत्र खगा लक्ष्यन्ते तत्तस्या लक्षिता यतोऽन्यस्मिन् ॥”
-आर्यभटीये- ६५ क्रियंतेऽत्र तन्निमित्तं मध्ये मान्दार्थमपिच शैघ्रार्धम् । शैघ्रं मान्दं मान्दं शैघ्रम्वेति क्रमस्स्मृतोऽन्यत्र ॥ मान्दं कदयावृत्तं प्रथमं बुधशुक्रयोः कुमध्यं स्यात् । तत्केन्द्रान्मन्ददिशि मन्दान्त्यफलान्तरे तु मध्यं स्यात् ॥ मान्दप्रतिमण्डलस्य तस्मिन्न्यत्र स्थितो रविस्तत्र । प्रतिमण्डलस्य मध्यं शैघ्रस्य तस्य मानमपिच गदितम् ॥ शीघ्रस्ववृत्ततुल्यं तस्मिंश्चरतस्सदा ज्ञशुक्रौ च । स्फुटयुक्तिः प्राग्वत्स्याद्दूरभेदः पूर्ववद्भवैदिह च ॥ क्रियतेऽत्र तन्निमित्तं शैघ्रार्धं व्यत्ययेन सग्दीरुचे । तत्सिद्धं मान्दं प्राक् पश्चाच्छैघ्रञ्च सूरिभिः पूर्वैः ॥ . इति ॥ भूताराग्रहविवरानयनायाह । भा०:---शुक्र और बुध का तो मध्यम हीन शुक्नोच्च से उत्पन्न शीघ्रफल अर्द्धोन को स्वमन्दोच्च मेषादि में ऋण और तुलादि में धन करना चाहिये अर्थात् शीघ्रोच्च के नियम के उलटा इस प्रकार सिद्ध मन्दोच्च से जो मन्दफल उन सब के साथ संस्कृतशुक्र और बुध ( मध्यम ) स्फुट मध्य होते हैं । शीघ्र फलार्द्ध संस्कृत मन्दोच्च को मध्यम घटाकर उससे उत्पन्न मन्दफल सब के साथ संस्कृतमध्य स्फुट होता है। फलानयन प्रकार तो मन्दकेन्द्र भुजा की ज्या को मन्दस्फुट वृत्त के साथ गुणनकर ८० से भाग देवे, भागफल चापीय मन्दफल होगा। उसी प्रकार शीघ्रकेन्द्र भुजज्या को शीघ्रस्फुट वृत्त के साथ गुणनकर, गुणनफल में ८० का भाग देवे, भागफल शीघ्रफल होगा। कर्ण तो उस २ केन्द्र से उत्पन्न भुजज्या को एवं कोटीज्या को स्ववृत्त से गुणनकर ८० का भाग देवे भागलब्ध भुजाफल और कोटीफल होंगे । कोटीफल को सिंह ( राशि ) आदि में व्यासार्द्ध में मिलाकर, कर्कट ( राशि ) आदि में कोटीफल को व्यासार्द्ध से घटाकर, वर्गकर उसमें भुजावर्गफल को मिलाकर मूल करे तो कर्ण होगा। एवं एक बार करने ही से शीघ्रकर्ण स्फुट होता है। मन्दकर्ण तो विशेषित स्फुट होता है । उस प्रकार प्रथम सिद्धकर्ण को भुजा कोटी द्वारा गुणन कर व्यासार्द्ध में भाग देवे, भागफल भुजाफल, कोटीफल कर्ण सिद्ध होते हैं । पुनः उन दोनों से व्यासार्द्ध से पूर्ववत् कर्ण लावे। उस कर्ण को भी ८० द्वारा भाग देने पर लब्धि भुजाफल और कोटीफल ९ से गुणन कर व्यासार्द्ध से भाग देकर भुजाफल और कोटीफल को लाकर उनसे वर्ग मूल ९
६६ गीतिकापादः ॥ धन करे । यह क्रिया उस समय तक करे जब तक अविशेष कर्ण लब्ध न हो अवशिष्ट मन्दकर्ण स्फुट होगा। वृत्तकर्म तो भुजज्या को ओजपद औ युग्मपद के वृत्त के अन्तर से गुणन कर व्यासार्द्ध से भाग देवे, भागफल ओज पद वृत्त में धन को ऋण करे । ओजपद वृत्त में धन को ऋण करे । औ ओजवृत्त में अन्य से न्यून द्वारा धन और अधिक में ऋण । वह स्फुट वृत्त होता है ॥ २४ ॥ भूताराग्रहविवरं व्यासार्धहृतस्स्वकर्णसंवर्गः । कक्ष्यायां ग्रहवेगो यो भवति स मन्दनीचोच्चे ॥२५॥ अन्त्योपान्त्यस्फुटकर्मसिद्धयोश्शीघ्रकर्णमन्दकर्णयोस्संवर्गो व्यासार्धहृतो भूताराग्रहविवरं भवति । भूमेस्ताराग्रहणाञ्चान्तरालं कलात्मकमित्युक्तं भवति । ताराग्रहाणां विक्षेपानयने भूताराग्रहविवरं भागहारो भवति । तत्र स्वपातो- नभुजज्यां स्वपरमविक्षिप्त्या निहत्य स्वेन भूताराग्रहविवरेण विभजेत् । तत्र लब्धं स्वविक्षेपो भवति । तत्रास्य विनियोगः कक्ष्यायामिति । अत्र प्रकाशि- काकारः । भूताराग्रहविवरव्यासार्धविरचितायां कक्ष्यायां यो ग्रहस्य जवस्सम- न्दनीचोच्चे भवति । तावत्प्रमाणायां कक्ष्यायां ग्रहो मन्दस्फुटगत्या गच्छती- त्यर्थः । इत्याह । अस्मान् किन्त्वेतन्नोपपन्नमिति प्रतिभाति । अथवा योजना । कक्ष्यावृत्ते स्फुटग्रहस्य मध्यादधि भवति । एवं शीघ्रेऽपीति । अथवा कक्ष्यायां गच्छतो ग्रहस्य प्रतिमण्डलतो बहिरन्तर्वा यावती परमा गतिस्तावत्प्रमाणव्या- सार्धं मन्दनीचोच्चवृत्तं भवति । एवं शीघ्रेऽपीति ॥ भा०:—तारा और ग्रहों के विक्षेप लाने में भूतारा ग्रह विवर भाग हार होता है । उसमें अपने पात से ऊन भुजज्या को स्वपरम विक्षिप्ति से अन्तर गुणन कर अपने भूतारा ग्रह से भाग देवे भागफल स्वविक्षेप होता है । कक्षा वृत्त में स्फुट ग्रह का मध्य से होता है । एवं शीघ्र में भी अथवा कक्षा में चले ग्रह का प्रति मण्डल से बाहर या भीतर जितनी परमागति होती है उतने परिमाण व्यासार्द्ध मन्दनीचोच्च वृत्त होता है । इसी प्रकार शीघ्र में भी जानना ॥ २५ ॥ इति पारमेश्वरिकायां भटदीपिकायां कालक्रियापादस्तृतीयः । ───::0::───
आर्यभटीये- ६१ अथ गोलपाद आरभ्यते । तत्रापमण्डलसंस्थानमाह । मेषादेः कन्यान्तं सममुदगपमण्डलार्धमपयातम् । तौल्यादेर्मीनान्तं शेषार्धं दक्षिणेनैव ॥१॥ · मेषादिकन्यान्तै राशिभिरुपलक्षितमपमण्डलस्यार्धमुदगपयातम् । तौल्या- दिमीनान्तै राशिभिरुपलक्षितं शेषार्धं दक्षिणेनापयातम् । सममपयातम् । ए- तदुक्तं भवति । मेषादेः क्रमेण कन्यादेरुत्क्रमेण च सममपयाति । मेषसमं कन्या या अपयानम् । वृषसमं सिंहस्य । इत्यादि । अपयानं हि मण्डलस्य क्रमेण भ- वंति । तथा तुलासमं मीनस्यापयानम् । वृश्चिकसमं कुम्भस्य । इत्यादि । मेषादेः कन्यान्ताच्च त्रिराश्यन्तरे परमापयानं भवति । चतुर्विंशतिभागाः परमापयानम् । भापक्रमो ग्रहांशा इति गीतिकासूक्तं तत् ( श्लो० ३ । ) . अत्र मेषादिकन्यान्त- शब्दौ पूर्वस्वस्तिकापरस्वस्तिकयोगेतराविभागयोर्वाचकौ । अतो यदा धनात्मक। अयनसंस्कारभागाः पञ्चदश भवन्ति' तदा मीनमध्यं पूर्वस्वस्तिकगतं कन्यामध्य- मपरस्वस्तिकगतम् । तदा मीनमध्यात् कन्यामध्यान्तमर्धमुदगपयातं शेषमर्धं दक्षिणतोऽपयातम् । यदा ऋणात्मकाः पञ्चदशभागा अयनाख्यास्स्युस्तदा मेष- मध्यं पूर्वस्वस्तिकगतं तुलामध्यमपरस्वस्तिकगतम् । तदा मेषमध्यात्तुलामध्या- न्तमर्धमुदगपयातं शेषमर्धं दक्षिणतोऽपयातम् । इति वेद्यम् । अतएव मेषादितः प्रवृत्तेष्वपक्रममानयनायनसंस्कारः क्रियते ॥ अथापक्रममण्डलधारिण आह । भा०;-मेष राशि से कन्या तक अर्थात् मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, अपमण्डल का आधा भाग उत्तर की ओर ढलता है । और तुला से मीन राशि तक अर्थात् तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन तक अपमण्डल दक्षिण की ओर चलता है । सम अपयान का अर्थ यह है कि मेष राशि के तुल्य कन्या का अपयान, ( चलना ) वृष के तुल्य सिंह का, मिथुन के तुल्य । मेष राशि से कन्या राशि पर्य्यन्त तीन ३ राशि अन्तर पर परमापयान होता है । चौबीस २४ भाग परमापयान होता है । यहां मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, इन छः राशियों को अर्थात् राशि चक्र के आधे भाग को "पूर्वस्व- स्तिक " कहते हैं । और तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, इन छः रा- शियों को अर्थात् राशिचक्र के अपरार्द्ध को "अपरस्वस्तिक" कहते हैं । इस लिये जब धनात्मक अयन संस्कार १५ भाग होता है तो मीन मध्य 'पूर्वस्व- स्तिक, गत और कन्या मध्य अपरस्वस्तिगत होता है । तब मीन मध्य से कन्या मध्यांन्तर्गत आधा मण्डल उत्तर को चलता है और शेषार्द्ध दक्षिण को चलता है । जब ऋणात्मक १५ भाग अयन नाम होता है । तब मेष मध्य पूर्व
६८ गीतिकापादः ॥ स्वस्तिकगत एवं तुल्य मध्य अपरस्वस्तिकगत होता है। तब मेष के मध्य से तुला मध्यान्त-आधा उत्तर अपयान होता है और शेषार्द्ध दक्षिण से अप- यान होता है । इसलिये मेष की आदि से अपक्रम लाने का संस्कार होता है ॥ १ ॥ ताराग्रहेन्दुपाता भ्रमन्त्यजस्रमपमण्डलेऽर्कश्च । अर्काच्च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २॥ ताराग्रहाणां पाताश्चेन्दुपातश्चार्कश्च सदापमण्डले भ्रमन्ति। अर्काच्चमण्डलार्धे ऽपमण्डले भूच्छाया सदा भ्रमति। शशिकुजादयश्च स्वे-स्वे विक्षेपमण्डले चरन्ति॥ विक्षेपमण्डलस्य संस्थानमाह । भा०:-तारा, ग्रह, चन्द्रमा, इनके पात और सूर्य सदा अपमण्डल में भ्रमण करते हैं। सूर्य से मण्डल के आधे अपमण्डल में भूच्छाया सदा भ्रमण करती है। चन्द्रमा, मङ्गल आदि अपने २ विक्षेपमण्डल में चलते हैं ॥ २ ॥ अपमण्डलस्य चन्द्रः पाताद्यात्युत्तरेण दक्षिणतः । गुरुकुजकोणाश्चैवं शीघ्रोच्चेनापि बुधशुक्रौ ॥ ३ ॥ स्फुटचन्द्रो यदापमण्डलस्थपातसमो भवति तदा चन्द्रोऽपमण्डले चरति । ततः क्रमेणोत्तरेण याति । पातात्त्रिराश्यन्तरे परमविक्षेपसममुद्गमनम् । पा- तात् षड्राश्यन्तरे स्थितश्चन्द्रोऽपण्डले चरति । तत्र हि द्वितीयपातस्य स्थिति- रुक्ता । तस्माद्द्वितीयपातात् क्रमेण दक्षिणतो याति । तत्रापि पातात्त्रिराश्य- न्तरे परमविक्षेपसमं दक्षिणायनम् । एवं चन्द्राधारस्य विक्षेपमण्डलस्य संस्थान मुदितम् । परमविक्षेपस्तु कार्धमित्युक्तं (दशगीतिकायाम् ८।) सार्धाश्चत्वारोंऽशा इत्यर्थः ॥ गुरुकुजकोणाश्चैवम् । यथा मन्दस्फुटसिद्धश्चन्द्रस्स्वपातसमोऽपमण्डले च- रति तथा गुरुकुजकोणाश्च स्वमन्दस्फुटे पातसमेऽपमण्डले चरन्ति । ततः क्रमे- णोत्तरेण यान्ति । पातात्त्रिराश्यन्तरे मन्दस्फुटे परमविक्षेपसममुद्गमनम् । पा तात् षड्राश्यन्तरे मन्दस्फुटेऽपमण्डले चरन्ति । ततः क्रमेण दक्षिणतो यान्ति । तत्रापि त्रिराश्यन्तरे परमविक्षेपसमं दक्षिणगमनम् । एवं गुरुकुजमन्दानामा- धारभूतस्य विक्षेपमण्डलस्य संस्थानम् । शीघ्रोच्चेनापि बुधशुक्रौ । स्वशीघ्रोच्चे- नाप्यपमण्डलादुदग्दक्षिणतश्च चरतो बुधशुक्रौ । अपिशब्दान्मन्दस्फुटवशाच्च । एतदुक्तं भवति । बुधशुक्रयोस्स्वमन्दफलं स्वशीघ्रोच्चे व्यस्तं कृत्वा, तस्मात्स्वपातं विशोध्य विक्षेपस्साध्य इति । अतो मन्दफलसंस्कृते शीघ्रोच्चे स्वपातसमेऽपम- ण्डले चरतः । ततः क्रमेणोद्गयातः । पातात्त्रिराश्यन्तरे शीघ्रोच्चे परमविक्षेपस-
आर्यभटीये- ६९ तमुद्ग्गमनं षड्राश्यन्तरेऽपमण्डले चरतः। तस्मात् क्रमेण दक्षिणतश्चरतः। तत्रा- पे त्रिराश्यन्तरे परमविक्षेपसमं दक्षिणगमनम्। इति। एवं सर्वेषां विक्षेपम- ण्डलम् अपमण्डले स्वपातद्वयभागयोर्बद्धताभ्यां त्रिराश्यन्तरे उदग्दक्षिणतश्चापमण्ड- लात्परमविक्षेपान्तसितं भवति। परमविक्षेपस्तु शनिगुरुकुज खकगार्धं भृगुबुध ष इत्युक्तम्। (दशगीतिकायाम् ६।) केचिदाचार्या गुरुकुजशनीनां शीघ्रोच्चफलं स्वपातेऽपि ग्रहवत् कृत्वा तथाकृतं स्वपातं स्फुटग्रहाद्विशोध्य विक्षेपानयनं कुर्वन्ति बुधशुक्रयोस्तु स्वमन्दफलं स्वपाते कृत्वा तं पातं शीघ्रोच्चाद्विशोध्य विक्षेपं कुर्वन्ति। तथाच लल्लाचार्यः। "क्षितिसुतगुरुसूर्यसूनुपाताः स्वचलफलेन युता ग्रथा तथैव। शशिसुतसितयोः स्वपातभागाः स्वमृदुफलेन च संस्कृताः स्फुटाः स्युः॥" इति। अस्मिन् पक्षे कुजगुरुशनीनां स्फुटग्रहात्पातो नम्रं। इन्द्रादीनामर्क- क्षेपप्रकर्षसन्निकर्षकृतोदयास्तमयस्य परिज्ञानमाह। भा०:—स्फुट चन्द्रमा जब अपमण्डलस्थ पात सम होता है। तब क्रम से उत्तर ओर होकर जाता है। पात से तीन राशि के अन्तर पर परमविक्षेप सम-उत्तर गमन करता है। पात से ६ राशि के अन्तर पर स्थित चन्द्रमा अप- मण्डल में चलता है। उसी स्थान में दूसरे पात का सम्भव होता है। इस लिये उसकी स्थिति कही गयी। उस दूसरे पात से क्रमशः दक्षिण करके जाता है। वहां भी पात से तीन राशि के अन्तर पर परमविक्षेप सम दक्षिणायन होता है। एवं चन्द्राधार विक्षेपमण्डल का संस्थान कहा है। और परम विक्षेप ४ अंश ३० कला है (पा० ३। गी० ८) जिन राशियों का सम अप- यान होता उनकी निम्न लिखित चक्र द्वारा दिखलाया जाता है:— समअपयानचक्र ॥ ० जिन दो राशियों में सम अपयान होता। जिन दो राशियों में सम अपयान होता। राशि के | तुल्य || राशि के | तुल्य मेष | कन्या || तुला | मीन वृष | सिंह || वृश्चिक | कुम्भ मिथुन | कर्कट || धनु | मकर कर्कट | मिथुन || मकर | धनु सिंह | वृष || कुम्भ | वृश्चिक कन्या | मेष || मीन | तुला यह चक्र इसी पाद के दूसरी गी० के आशय से बना है।
४. गोल पाद (खगोल मण्डल, ग्रहण व उपसंहार)
७० गीतिकापादः ॥ भा०:—जिस प्रकार मन्दस्फुट चन्द्रमा स्वपात सम अपमण्डल में चलत है उसी प्रकार गुरु, कुज, और कोण स्वमन्दस्फुट पात सम अपमण्डल मे चलते हैं। तब क्रमशः उत्तर होकर जाता है। पात से तीन राशि के अन्तर पर मन्दस्फुट में परमविक्षेपसम उत्तर गमन करता है। पात से ६ राशि के अन्तर पर मन्दस्फुट अपमण्डल में चलते हैं। तब क्रम से दक्षिण से जाते हैं। वहां भी तीन राशि के अन्तर पर परम विक्षेप सम दक्षिण को जाता है। एवं गुरु, कुज, मन्द के आविर्भूत विक्षेपमण्डल का संस्थान है बुध और शुक्र के स्वमन्दफल को अपने शीघ्रोच्च में व्यस्त (उलटा) करके उससे अपने पात को घटाकर विक्षेप साधे। इसलिये मन्दफल संस्कृत शीघ्रोच्च स्वपात सम अपमण्डल में चलते हैं; तब क्रम से उत्तर जाते हुए पात से तीन राशि के अन्तर पर शीघ्रोच्च में परम विक्षेपसम उत्तर गमन छः राशि अन्तर पर अपमण्डल में चलने से। तब क्रम से दक्षिण जाते हुए वहां भी राशि के अ- न्तर पर परमविक्षेप सम दक्षिण गमन करतां है। इसीप्रकार सब का वि- क्षेपमण्डल अपमण्डल में स्वपात के दोनों भाग में बन्धा उन दोनों से तीन राशि के अन्तर पर उत्तर दक्षिण करके अपमण्डल से परम विक्षेपान्तमित होता है ॥ ३ ॥ चन्द्रोऽशैर्द्वादशभिर्विक्षिप्तोऽर्कात्तरस्थितैर्दृश्यः । नवभिर्भृगुर्भृगोस्तैर्द्वयधिकैर्द्वयधिकैर्यथाश्लक्ष्णाः ॥४॥ अविक्षिप्तो मृगाङ्कस्स्वार्कान्तरस्थितैर्द्वादशभिरंशैर्दृश्यः । (नवभिर्भृगुः । न वभिः कालांशैर्भृगुर्दृश्यः )। नवभिर्विनाडिकाभिरित्यर्थः । भृगोस्तैस्तैर्द्वयधि कैर्गुरुर्दृश्यः । एकादशभिः कालभागैरित्यर्थः । तैर्द्वयधिकैर्बुधो दृश्यः । त्रयोद शभिः कालभागैरित्यर्थः । तैर्द्वयधिकैश्शनिर्दृश्यः । पञ्चदशभिः कालभागैरि- र्थः । तैर्द्वयधिकैः कुजोदृश्यः सप्तदशभिः कालभागैरित्यर्थः । यथाश्लक्ष्णाः । थासूक्ष्मा इत्यर्थः । शुक्राद्गुरुस्सूक्ष्मः । ततो बुधः । ततो मन्दः । ततः कुजः । * गुरुबुधशनिभौमाशशिशिङअपानमांश्का इति (दशगीतिकायाम् ५ ।) ह्यदशात्र श्लोक्तः । विक्षिप्ते ग्रहे तु दर्शनसंस्कारयुतग्रहसूर्ययोरन्तरालग तैरंशैर्यथोक्तसं र्दृश्यो भवति । स्वतोप्रकाशस्य भूम्यादेः प्रकाशहेतुमाह । भा०:—सूर्य्य से १२ अंश दूर पर चन्द्रमा दृश्य होता है, ९ नौ काल अर्थात् विनाडिका से शुक्र दृश्य होता है, गुरु ११ कालांश, बुध १३ काल
आर्यभटीये- ७१ शनि १५ कालांश, मङ्गल १७ कालांश पर दृश्य होते हैं। जो २ ग्रह जैसे २ सूक्ष्म होते हैं। वह २ ग्रह वैसे २ अधिक कालांश पर दीख पड़ते हैं। शुक्र से गुरु सूक्ष्म, पुनः बुध, तब शनैश्चर, फिर मङ्गल है ॥ ४ ॥ · भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि। अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥५॥ भूमेश्चन्द्रादीनां ग्रहाणां भानामश्विन्यादितारकाणामितरतारकाणाञ्च गो- लार्धानि सर्वतोवृत्तानां स्वशरीराणामर्धानि स्वच्छायया विवर्णानि स्वभावसि- द्धेन रूपेण विवर्णानि । अप्रकाशात्मकानि । अथवा स्वच्छायया स्वशरीरेणार्क- करव्यवधानादुत्पन्ना या छाया तमोरूपा तया विवर्णानीति। सूर्याभिमुखा- न्यन्यान्त्यर्धानि यथासारं दीप्यन्ते । अल्पशरीरा अल्परूपा दीप्यन्ते महाश- रीरा महारूपा दीप्यन्ते इत्यर्थः । चन्द्रस्य चार्धं सदा प्रकाशवद्भवति । अमावास्यायां चन्द्रस्योध्वार्धं प्रकाशवद्भवति । तस्मादस्माभिस्तदर्धमदृश्यं भवति । प्रतिपदादिषु क्रमेण सितभागोऽधो लभ्यते । पूर्णायमधोऽर्धं सर्वं सितं भवति । तस्मादस्माभिर्दृश्यमर्धं सितं भवति । बुधशुक्रावर्कादधस्स्था- वपि तयोस्सूर्यस्यच्या सूर्यबिम्बस्य महत्त्वाच्च सदा सितमेव तयोर्बिम्बं भवति । कक्ष्यासंस्थान भूस्थानञ्चाह । भा०:-पृथिवी, चन्द्रमा, एवं अन्यान्य ग्रह, अश्विनी आदि तारागण के गो लार्ड् अर्थात् आधा भाग-अपने शरीर का आधा भाग अपनी छाया से (सूर्य्य के प्रकाश के कारण) अप्रकाशात्मक होता है। और शेषार्द्ध इनके सूर्य्य के सम्मुख होने से प्रकाशित होते हैं। अल्प शरीर वाले अल्प रूप से, बड़े शरीर वाले बड़े रूप से प्रकाशित होते हैं। चन्द्रमा का आधा भाग सदा प्रकाशवान् होता है ॥ ५ ॥ वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयो भूगोलस्सर्वतोवृत्तः ॥६॥ भपञ्जरो नक्षत्रकक्ष्यां । वृत्ताकारनक्षत्रकक्ष्याया मध्ये भूर्भवति । कक्ष्यापरिवे- ष्टितः । चन्द्रादीनां ग्रहाणां कक्ष्यामध्यगत इत्यर्थः । खमध्यगतः । ब्रह्माण्डक- टाहावच्छिन्नास्याकाशस्य मध्यगतः । मृज्जलशिखिवाय्वात्मकः सर्वतोवृत्तश्च भू- गोलो भूमिर्भवति । भानामध इत्यादि सिद्धस्य भूस्थानस्य पुनर्वचनं प्राणि- चारप्रदर्शनशेषतया एवंभूतायां भुवि सर्वत्र प्राणिनस्संचरन्तीतिप्रदर्शनार्थं तत्प्रा- ण संचारं प्रदर्शयति ॥