आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
अष्टमः खण्डः] अनाविलोपेते । २०३
अष्टमः खण्डः] अनाविलोपेते । २०३
दिव्या इति मन्त्रेण । केचित् सर्वान्तेऽनुमन्त्रणमिच्छन्ति । अन्ये प्रतिपुरुषम् ॥ ५ ॥
संस्स्रवान् समवनीय ताभिरद्भिः पुत्रकामो मुख- मनक्ति ॥ ६ ॥
अर्घ्यदानावाशिष्टा आपः संस्रवाः । तान् प्रथमे पात्रे समवनीय ताभिरद्भिः पुत्रकामश्चेन्मुखमनक्ति ॥ ६ ॥
प्रथमपात्रे विशेषप्रदर्शनार्थं यज्ञगाथे उदाहरति —
नोद्धरेत् प्रथमं पात्रं पितॄणामर्घ्यपातितम्¹ । आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् ॥ यदा वा तूद्धृतं पात्रं विवृतं वा यदा भवेत् । अभोज्यं तद् भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः ॥ ७ ॥
प्रथमं पात्रं यस्मिन् प्रदेशे पितॄणामर्घ्याय पातितं² नि- हितं तस्माद् देशान्नोद्धरेत् । यत आवृतास्तत्र पात्रे तिष्ठन्ति पितरः । क एवमाह — शौनकोऽब्रवीत् । आवृता इति वचनात् संस्स्रवान् समवनीय तत्पात्रं पिधातव्यं पात्रान्त- रेण । उद्धरणे विवरणे च पितृगणाः क्रुद्धा गच्छेयुः । ततश्च तैर्गतैस्तच्छ्राद्धमभोज्यं भवेत् ते तत्र न भुञ्जीरन् ॥ ७ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये अष्टमः खण्डः ।
१. ., २. 'दि' घ.पाठः.
२०४. आश्वलायनगृह्यसूत्रम् [ चतुर्थोऽध्यायः
अथ नवमः खण्डः ।
एतस्मिन् काले गन्धमाल्यधूपदीपाञ्जनाच्छाद- नानां प्रदानम् ॥ १ ॥
अर्घ्यदानान्तरं गन्धादीनि ददाति ॥ १ ॥
उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये क- रवै करवाणीति वा ॥ २ ॥
अथ स्थालीपाकादन्नमुद्धृत्य घृताक्तं कृत्वा ब्राह्मणा- ननुज्ञापयति अग्नौ करिष्ये इत्यादीनामन्यतमेन वाक्येन । अग्नावित्यस्य चोत्तराभ्यामपि सम्बन्धः अग्नौ करवै अग्नौ करवाणीति ॥ २ ॥
प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति ॥ ३ ॥
अथ ब्राह्मणानां प्रत्यभ्यनुज्ञा क्रियतामित्यादिभिर्यथा- संख्यम् ॥ ३ ॥
अथाग्नौ जुहोति यथोक्तं पुरस्तात् ॥ ४ ॥
अथानुज्ञानानन्तरमग्नौ जुहोति यथोक्तं पिण्डपितृयज्ञे सोमाय पितृमत इत्यादि ॥ ४ ॥
अनभ्यनुज्ञायां पाणिष्वेव ॥ ५ ॥
यत्राभ्यनुज्ञा नास्ति तस्मिन् विषये ब्राह्मणानां पा- णिष्वेव जुहुयात् ताभ्यामेव मन्त्राभ्याम् । क्वचाभ्यनुज्ञा नास्ति यत्रानुज्ञापनं नास्ति तत्र । क्वच तन्नास्ति यत्राग्नौ होमो नास्ति तत्र, अग्नौ करिष्य इत्येवंरूपत्वादद्नुज्ञापनस्य । क्वचाग्नौ होमो नास्ति आहिताग्नेः पार्वणे । तस्य पिण्ड-
नवमः खण्डः] अनाविलोपेत्म् । २०५
नवमः खण्डः] अनाविलोपेत्म् । २०५
पितृयज्ञे दक्षिणाग्नौ होमः कृतः पिण्डाश्च निवृत्ताः, केवलं ब्राह्मणभोजनमेव शिष्यते तत्र पाणिष्वेव होम इति। अपर आह — यस्य गृह्योऽग्निर्नस्ति तस्य विधुरादेरयमुपदेश इति ॥ ५॥
अथ पाणिहोमं स्तोतुं ब्राह्मणमनुकर्षति —
अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम् १ ॥ ६ ॥
तत्र पाणिहोमपक्षे विशेषमाह —
यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति ॥ ७ ॥
यदि पाणिषु होमः तदा ब्राह्मणेष्वाचान्तेषु पाणिषु हुतमन्नं भुक्तवत्सु अन्यदन्नमनुदिशति पात्रे कदलीपत्रादौ ॥ ७ ॥
अग्निपक्षे विशेषमाह —
अथाग्नौ हुतशेषमन्नमन्ने ॥ ८ ॥
अथाग्नौ होमः ततो भोजनार्थादन्नादुद्धृत्य तस्मिन्नन्ने हुतशेषमन्नं दद्यात् ॥ ८ ॥
सृष्टं दत्तमाध्र्णुकमिति ॥ ९ ॥
सृष्टं प्रभूतं दत्तम् आध्र्णुकम् ऋद्धिनिमित्तं कर्तुरिति विज्ञायते । तस्मात् प्रभूतं देयमिति । अपर आह — सृष्टमिति क्रियाविशेषणं सर्ग उत्साहः सृष्टमुत्साहवद् यथा तथा दत्तं श्रद्धया दत्तम् आध्र्णुकमिति ॥ ९ ॥
१. ‘खा वै पि’ घ. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
२०६ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
तृप्तान् ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्ते- ति च ॥ १० ॥
भुञ्जाना ब्राह्मणा यदा तृप्ता भवन्ति तदा तांस्तृप्तान् ज्ञात्वा मधुशब्दवतीर्मधु वाता ऋतायते इत्येता ऋचःश्रावयेद् ब्रूयाद् अक्षन्नमीमदन्तेत्येतां च ॥ १० ॥
सम्पन्नं पृष्ट्वा यद्यदन्नमुपभुक्तं ततस्ततः स्था- लीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ॥ ११ ॥
अथ सम्पन्नमिति ब्राह्मणान् पृच्छति । ते च सुसंपन्नमिति प्रतिब्रूयुः । ततो यद्यदन्नमुपभुक्तं ब्राह्मणैरुपभुक्तशिष्टमित्यर्थः, ततस्ततः स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषमन्नं ब्राह्मणेभ्यो निवेदयेत् । अस्मादेवानुवादाद् गम्यते अस्ति स्थालीपाको होमार्थ इति ॥ ११ ॥
अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पि- ण्डान् निदध्यात् ॥ १२ ॥
निवेदिते सति ब्राह्मणास्तदन्नमभिमन्यन्ते आत्मसात्कुर्वन्ति अस्मभ्यमेव देहीति अनुमन्यन्ते वा इष्टैः सहोपभुज्यतामिति । एवं तैरभिमतेऽनुमते वा भुक्तवत्सु तेष्वनाचान्तेषु पिण्डान् निदध्यात् निपृणीयात् पिण्डपितृयज्ञकल्पेन ॥ १२ ॥
आचान्तेष्वेके ॥ १३ ॥
एक आचार्या आचान्तेषु पिण्डान् निपृणन्ति ॥ १३ ॥
प्रकीर्यान्नमुपवीयीं स्वधोच्यतामिति विसृजेद- स्तु स्वधेति वा ॥ १४ ॥
निधाय पिण्डानन्नं भूमौ प्रकिरन्ति । तत्र मन्त्रमपि पठन्ति “ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।
नवमः खण्डः] अनाविलोपेताम् । २०७
नवमः खण्डः] अनाविलोपेताम् । २०७
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्” इति। एवम् अन्नं प्रकीर्य उपवीय उपवीतं कृत्वा । अस्मादेव वचनादेता- वन्तं कालं प्राचीनावीतीति विज्ञायते। उक्तं च— ‘प्रसव्ये- नेतरपाण्यङ्गुष्ठान्तरेणोपवीतत्वादि’ति। ततो यथाशक्ति द- क्षिणां दत्त्वा सामात्यः प्रदक्षिणीकृत्य ओं स्वधोच्यतामिति उक्त्वा विसृजेत्। अस्तु स्वधेति वा प्रत्युक्त्वा गच्छेयुः एकोद्दिष्टे शास्त्रान्तरोक्तो विशेषः —
“एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम्।
आवाहनाग्नौकरणरहितं त्वपसव्यवत् ॥”
इति। अन्ये तु — दक्षिणत उष्णं भस्म निरुह्य प्रेतायामु- ष्मै यमाय च स्वाहेति होममिच्छन्ति। अमुष्मा इत्यस्य च स्थाने प्रेतस्य नामनिर्देशश्चतुर्थ्या। शेषमत्र यथोक्तं तथा कर्तव्यम्। सपिण्डीकरणे प्रेतस्यैकोद्दिष्टकल्पनं पित्रादीनां पार्वणकल्पनम्। अर्घ्यप्रदानान्ते प्रेतपात्रं पितृपात्रेषु सेच- येद् ये समाना इति द्वाभ्याम्। अन्ये प्रपितामहपात्रमित- रपात्रेषु सेचयन्ति। एवं पिण्डेषु निपृतेषु प्रेतपिण्डं त्रिधा कृत्वा इतरेषु निदधाति ताभ्यामेव मन्त्राभ्याम्। अन्ये प्रपि- तामहपिण्डमितरेषु निदधति ॥ १४ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये नवमः खण्डः।
१. ‘स’ ग. पाठः.
| ३०८ | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः |
|---|
अथ दशमः खण्डः ।
अथ शूलगवः ॥ १ ॥
अथशब्दोऽधिकारार्थः । शूलगवो नाम रुद्रयज्ञो वक्ष्यते । शूलाङ्कितो गौः शूलगवः । तद्योगात् कर्मणि वृत्तिः ॥
शरदि वसन्ते वा ॥ २ ॥
एतयोर्ऋत्वोरन्यतरस्मिन् इदं कर्म भवति ॥ २ ॥
आर्द्राया ॥ ३ ॥
‘नक्षत्रे च लुपी’त्यधिकरणे तृतीया । आर्द्रायां कत्र्तव्यम् ॥ ३ ॥
श्रेष्ठं स्वस्य यूथस्य ॥ ४ ॥
सजातानां मध्ये यः श्रेष्ठः तम् । द्वितीयान्तानामभिषिञ्चतीति वक्ष्यमाणेन सम्बन्धः । शूलगव इत्युपसमस्तोऽपि गौः सम्बध्यते विशेष्यत्वेन । पुंलिङ्गनिर्देशाच्च पुंगवस्य ग्रहणम् ॥ ४ ॥
अकुष्ठिपृषत् ॥ ५ ॥
यो वर्णतः पृषद् भवति अकुष्ठी च तम् । सौत्रो लिङ्गव्यत्ययः द्वितीयाया वा लुक् ॥ ५ ॥
कल्माषमित्येके ॥ ६ ॥
एक आचार्याः कल्माषं चित्रवर्णमिच्छन्ति । अपर आहू — पृषन्ति बिन्दवः, यः कुष्ठी पृषद्भिः कल्माषश्च न भवति तम् । यूथश्रेष्ठो (न?) भवतु मा वा भूदिति ॥ ६ ॥
१. 'यः न द्वि' ग. ङ. पाठः.
२. 'ति यू' ख. ग. घ., 'तु मा' ख. पाठः.
दशमः खण्डः] अनाविलोपेसम् । २०९
दशमः खण्डः] अनाविलोपेसम् । २०९
कामं कृष्णमारोहवांश्चेत् ॥ ७ ॥
काममित्यभ्युपगतौ । कृष्णमपि कामं कुर्याद्, आरोहः ककुत् शरीरोच्छ्रायो वा तद्वांश्चेत् ॥ ७ ॥
व्रीहियवमतीभिरद्भिरभिषिञ्चति शिरस्तोऽध्या- भसदः ॥ ८ ॥
तमेवंभूतं पुङ्गवं शिरस्तोऽधि शिरस्त आरभ्य आभ- सदः भसदिति पुच्छप्रदेशाभिधानं गुह्याभिधानमित्यन्ये आ तस्मादभिषिञ्चति ॥ ८ ॥
रुद्राय महादेवाय जुष्टो वर्धस्वेति ॥ ९ ॥
एष मन्त्रः । ततस्तं शूलेनाङ्कयित्वोत्सृजति यावत् (सं?) पन्नदद् भवति । अन्ये तु रुद्रायेत्यादिनोत्सृजन्ति तू- ष्णीमभिषिञ्चन्ति । उत्सृजेदित्यनुक्तमपि गम्यते उत्तरत्र दर्श- नात् 'इष्ट्वान्यमुत्सृजति नानुत्सृष्टः स्यादि'ति ॥ ९ ॥
तं पन्नदतं वृषीभूतं वा यज्ञियस्यां दिश्यसन्द- र्शने ग्रामादूर्ध्वमर्धरात्रादुदित इत्येके वैद्यं चरित्रवन्तं ब्राह्मणमुपवेश्य सपलाशामाईंशाखां यूपं निखाय व- तत्त्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्य- तरयार्धशिरसि पशुं बद्ध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति ॥ १० ॥
तं शूलगवं पन्नदतं पन्नाः पतिता दन्ता यस्य तम् । “यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवती”ति ब्राह्मणम्।
१. 'वा नि' ग. पाठः.
११० आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
“योऽपन्नदन्मलं तत्पशूनामिति विज्ञायते” इत्यापस्तम्बः। वृषी- भूतं सेचनसमर्थम् एवंभूतं वा यज्ञियस्यां दिशि यज्ञार्हायाम् आविन्दितस्यामितिवच्छान्दसः स्यादागमः। ग्रामाद् बहिर्यत्र स्थिता ग्रामं न पश्यन्ति ग्रामे वा स्थित्वा यं न पश्यन्ति तस्मि- न्नसन्दर्शने देशे ऊर्ध्वमर्धरात्रादस्मिन् काले। उदित इत्येके एक आचार्या उदित इत्याहुः। तदा वैद्यं चरित्रवन्तं य एतां विद्या- मधीते यश्चैतत् कर्मानुष्ठितवान् तमेवं ब्राह्मणमुपवेश्य आज्य- भागान्ते शामित्रायतनाद्याग्निं दूतमित्येतदन्तं कृत्वा सपलाशां सपर्णीम् आर्द्रा चासौ शाखा च तामार्द्रशाखां यूपस्य पला- शादेः सम्बन्धिनीं यूपं निखाय द्वे व्रतत्यौ लते पशुबन्धनक्षमे कुशनिर्मिते वा रज्जू रशने करोति। तयोरन्यतरया यूपं परिव्य- यति। अन्यतरया अर्धशिरसि शिरस एकस्मिन् पार्श्वे पशुं- बद्ध्वा यूपे रशनायां वा तं पशुं नियुनक्ति यस्मै नम इति मन्त्रेण। रुद्रदेवत्योऽयं पशुः। तथाच रुद्राय जुष्टो वर्ध- स्वे'ति उत्सर्जनमन्त्रः। हराय कृपायित्यादिभिश्च द्वादशभि- र्देवनामभिर्होमः। तस्मादयमपि मन्त्रस्तद्देवत्य एव। लक्षण- तश्चैतद्देवत्यत्वम्। इदं हि देवस्य लक्षणं यस्मै नम इति । तथाच शिशुमारब्राह्मणे श्रूयते — “यस्मै नमस्तच्छिरो धर्मो मूर्धानं ब्रह्मोत्तराहनुर्यज्ञो धरे”त्यादि। अत्र हि देवतान्तराणां स्वशब्देनोक्तत्वाद् यस्मै नम इति देवस्यैव लक्षणतो नि- र्देशः॥ १० ॥
प्रोक्षणादि समानं पशुना ॥ ११ ॥
१. 'न्तं स' ङ. पाठः.
दशमः खण्डः] अनाविलेापेतम्। २११
दशमः खण्डः] अनाविलेापेतम्। २११
पशुकल्पोक्तं प्रोक्षणादिपदार्थजातमविकृतं कर्तव्यम् ॥
विशेषान् वक्ष्यामः ॥ १२ ॥
अत्र ये तु विशेषास्तान् वक्ष्यामः ॥ १२ ॥
पात्र्या पलाशेन वा वपां जुहुयादिति विज्ञा- यते ॥ १३ ॥
पात्र्या मृन्मय्या पलाशेन पर्णेन वा यज्ञियस्य वृक्षस्य वपां जुहुयादिति ब्राह्मणं भवति ॥ १३ ॥
हराय कृपाय शर्वाय शिवाय भवाय महादे- वायोग्राम पशुपतये रुद्राय शङ्करायेशानायाशनये स्वा- हेति ॥ १४ ॥
हरायेत्यादिभिः स्वाहाकारान्तो द्वादशभिर्देवनामभि- र्युक्त एको मन्त्रः वपाया अवदानानां स्थालीपाकस्य च भ- वति ॥ १४ ॥
षड्भिर्वोत्तरैः ॥ १५ ॥
अस्मिन्नेव वा पाठे उत्तरैः षड्भिरुग्रायेत्यादिभिर्जुहु- यात् ॥ १५ ॥
रुद्राय स्वाहेति वा ॥ १६ ॥
अयं वा होममन्त्रः ॥ १६ ॥
चतसृषु चतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र! पूर्वस्यां दिशि सेनास्ताभ्य एतं नमस्ते अस्तु मा मा हिंसीरिति ॥ १७ ॥
२१२ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
प्रधानहोमानन्तरं स्विष्टकृतः प्राक् चतसृषु दिक्षु च- तसृषु चतसृषु कुशसूनासु। वीप्सावचनात् प्रतिदिशं चतस्रः। कुशसूनाः कुशानां पुष्पमय्यः तासु बलिं हरेत्। तत्र पूर्वस्यां दिशि मन्त्रः— यास्ते रुद्र! पूर्वस्यां दिशीति। एवं सर्वासु दिक्षु बलिं हरेदित्यनुषङ्गः ॥ १७ ॥
प्रतिदिशं त्वादेशनम् ॥ १८ ॥
तस्यास्तस्या दिशो नाम त्वादेष्टव्यम्। यास्ते रुद्र! दक्षिणस्यां दिशिं प्रतीच्यां दिशि उदीच्यां दिशि इति ॥ १८ ॥
चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्राय इमा रुद्राय आ ते पितः इमा रुद्राय स्थिरधन्वन् इति ॥ १९ ॥
हृत्वा बलिं कद्रुद्रायेत्यादिभिश्चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत। यथासंख्यमित्येके। प्रतिदिशं चतुर्भिरिति वयं चतुर्भिरिति वचनात् सूक्तग्रहणात्। चत्वार्येव हि निर्दि- ष्टानि सूक्तानि च तानि सूक्तं सूक्तादौ हीने पाद इति वच- नात्(?)। तस्माच्चतुर्भिः सूक्तैः प्रतिदिशमुपस्थानं कर्त- व्यम् ॥ १९ ॥
सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ॥ २० ॥
अन्येष्वपि सर्वरुद्रयज्ञेषु आश्वयुजीकर्मादिष्वेतद् दिशामुपस्थानं कर्तव्यम् ॥ २० ॥
तुषान् फलीकरणांश्च पुच्छं चर्म शिरः पादा- वन्वावनुंप्रहरेत् ॥ २१ ॥
दशमः खण्डः ] अनाविलेापेतम् । २१३
दशमः खण्डः ] अनाविलेापेतम् । २१३
स्थालीपाके ये तुषाः ये च फलीकरणाः ये च पशोः पुच्छादयः तत्सर्वमग्नावन्वप्रहरेत् ॥ २१ ॥
भोगं चर्मणा कुर्वीतेति शाम्बव्यः ॥ २२ ॥
शाम्बव्यस्त्वाचार्यो मन्यते भोगं चर्मणा कुर्वीतेति चर्मणोऽनुभवे न दोष इति ॥ २२ ॥
उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छासिनीघोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽनेन वः प्रीणानीति ॥ २३ ॥
अथाग्नेरुत्तरतः दर्भवीता दर्भराजयः कुशसूनाः कुशपुष्पमय्यो वास्तीर्णा भवन्ति तासु पशोः शोणितं निनयेत् श्वासिनीरित्यादिना मन्त्रेण ॥ २३ ॥
अथोदङ्ङावृत्य श्वासिनीघोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽन्न तद्धरध्वमिति सर्पेभ्यो यत् तत्रासृगूवध्यं वावच्युतितं भवति ॥ २४ ॥
अथ यस्मिन् देशे पशुर्विशसितः तं प्रत्युदङ्मुख आवृत्य श्वासिनीघोषिणीरित्यादिमन्त्रेण यत्तत्र देशे असृग् रक्तम् ऊवध्यमान्त्रं वा अवच्युतितं क्षरितं भवति । सापेक्षत्वान्मन्त्रलिङ्गाच्च सर्पेभ्यो निवेदयतीति गम्यते ॥ २४ ॥
तद्धरन्ते सर्पाः ॥ २५ ॥
तदेव निवेदितं सर्पा हरन्ते ॥ २५ ॥
अथ देवस्य वैभवमुच्यते —
सर्वाणि ह वा अस्य नामधेयानि सर्वाः सेनाः सर्वाण्युच्छ्रय णानि ॥ २६ ॥
यावत् किञ्चिन्नामसंयुक्तं तत्सर्वमस्य देवस्य शेषभू-
२१४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
तम् । यावत्यश्च सेनास्ता अप्यस्यैव । सर्वप्रकाराणि चोच्छ्रय- णानि उच्छ्रूयाः ऐश्वर्याणि तान्यप्यस्यैव ॥ २६ ॥
एवंविद् यजमानं प्रीणाति नास्य ब्रुवाणं चन हिनस्तीति विज्ञायते¹ ॥ २७ ॥
य एवं देवं विदित्वा² याजयति स यजमानं प्रीणा- ति बलेन योजयति । यश्चास्यैवंविदो यजमानस्य ब्रुवाण उ- पदेष्टा³ भवति तमपि देवो न हिनस्तीति ब्राह्मणम्⁴ । चनश- ब्दोऽप्यर्थे । एवं याजयितुर्यजमानस्य च कर्माङ्गं ज्ञानमुप- दिष्टम् ॥ २७ ॥
नास्य प्राश्नीयुर्नास्य ग्राममाहरेयुरनभिमानुको हैष देवः प्रजा भवति⁵ ॥ २८ ॥
अस्य पशोः द्वितीयार्थे षष्ठी अस्य वा संबन्धि कि- ञ्चिदपि न प्राश्नीयुः (ना)स्य संबन्धि किञ्चिदनुपयुक्तमपि ग्राममाहरेयुः । कस्माद्, अनभिमानुको हैष देवः प्रजा भ- वति । अभिपूवों मन्यतिर्हिंसाकर्मा छान्दस उक(न्? ञ्) । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इत्युकान्तयोगे षष्ठीप्रतिषेधाद् द्वितीया । प्रजानामहिंसको भवति । इतरथा हिंस्यादित्युक्तं भवति ॥ २८ ॥
अमात्यानन्ततः प्रतिषेधयेत् ॥ २९ ॥
अमात्यान् पुत्रादीन् बालान् अस्य कर्मणोऽन्ततः समीपे प्रतिषेधयेत् यथा समीपे नागच्छेयुः तथा कुर्यात् ॥
१. ‘ते ॥ एवं’, २. ‘त्वा यो या’ ङ. पाठः. ३. ‘द्रष्टा’ ग. ङ. पाठः. ४. ‘णं भवति । च’ ख. ङ. पाठः. ५. ‘तीति ॥’ ङ. पाठः.
दशमः खण्डः] अनाविलोपेताम्। २१५
दशमः खण्डः] अनाविलोपेताम्। २१५
नियोगात् तु प्राश्नीयात् स्वस्त्ययन इति ॥ ३० ॥
यस्त्वेतस्मिन् कर्मणि नियुज्यते स प्राश्नीयादेव यस्मादस्यासौ स्वस्त्ययनः स्वस्तिप्राप्तेः साधनभूतः ॥ ३० ॥
अथास्य कर्मणः प्रशंसा —
स एष शूलगवो धन्यो लोक्यः पुण्यः पशव्य आयुष्यो यशस्यः ॥ ३१ ॥
धन्यः धनप्राप्तेर्निमित्तभूतः । धान्य इति च पठन्ति तदा धान्यप्राप्तेर्निमित्तभूतः । एवमुत्तरत्रापि सर्वत्र । तस्य निमित्त इत्यधिकारे 'गोद्व्यचो —' इति यत्प्रत्ययं संयोगोत्पातव्यतिरेकेणापि निमित्तमात्रे प्रयुञ्जते ॥ ३१ ॥
यस्मादेवं प्रशस्तः शूलगवः, तस्मात् —
दृष्ट्वान्यमुत्सृजेन्नानुत्सृष्टः स्यात् ॥ ३२ ॥
सर्वथा सकृदुत्स्रष्टव्य इत्युक्तं भवति ॥ ३२ ॥
न हापशुर्भवतीति विज्ञायते ॥ ३३ ॥
एवमेतत् कर्म कुर्वन्^१ अपशुर्न ह भवति पशुमानेव भवतीति ब्राह्मणं भवति ॥ ३३ ॥
शन्तातीयं जपन् गृहानियात् ॥ ३४ ॥
समाप्ते कर्मणि गृहानागच्छन् शन्तातीयं शं न इन्द्राग्नी इति सूक्तं जपैन् आगच्छेत् ॥ ३४ ॥
पशूनामुपताप एतमेव देवं मध्ये गोष्ठस्य यजेत ॥
१. 'त्रीयः प' ख. ग. पाठः.
२. 'न् नापशुर्भव' घ. पाठः.
३. 'पेदाग' ङ. पाठः.
२१६ | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः
पशूनां गवादीनामुपतापे रोगे उत्पन्ने एतमेव देवं रुद्रं गोष्ठस्य मध्ये यजेत ॥ ३५ ॥
स्थालीपाकं सर्वहुतम् ॥ ३६ ॥ जुहुयादिति शेषः । शूलगवस्य स्थाने स्थालीपाकः स च सर्वहुतो भवति । मन्त्रश्च पूर्वोक्त एव ॥ ३६ ॥
बर्हिराज्यं चानुप्रहृत्य धूमतो गाव आनयेत् ॥ बर्हिरादीन्युपयुक्तानि अग्नावनुप्रहृत्य यतो धूमस्ततो गाव आनयेत् । द्वितीयार्थे प्रथमा, गा आनयेत् यथैना धूमः प्राप्नुयात् ॥ ३७ ॥
ततः—
शन्तातीयं जपन् पशूनां मध्यमियान्मध्यमियात् ॥ ३८ ॥
पशूनां मध्यं प्रविशेत् । द्विरुक्तिरध्यायपरिसमाप्तिकृता ॥ ३८ ॥
नमः शौनकाय नमः शौनकाय ॥ ३९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
अनाविलायां चतुर्थाध्याये दशमः खण्डः ।
चतुर्थोऽध्यायः समाप्तः ।
येन प्रणीतमृषिणा सूत्रं स्वाचार्यसंमतम् ।
तमाश्वलायनं वन्दे विद्यानद्याः शिलोच्चयम् ॥
समाप्तोऽयं ग्रन्थः ।
शुभं भूयात् ॥
१. 'ष्टम' ख. ग. ङ. पाठः.
सूत्रसूची।
| सूत्राणि. | पृष्ठम्. | सूत्राणि. | पृष्ठम्. |
|---|---|---|---|
| अंसावाभिमृशति | ६१ | अथाग्निमुपसमा | ५८ |
| अकुष्ठिपृषत् | २०८ | अथाग्निमुपसमा | १९३ |
| अक्षतधानाः कृत्वा | १०२ | अथाग्नौ जुहो | २०४ |
| अक्षतसक्तूनां नवं | ,, | अथाग्नौ हुतशे | २०५ |
| अगदः सोमेन | १७२ | अथाचमनीयैना | १०० |
| अगमनीयां गत्वा | १५४ | अथातः पञ्चयज्ञाः | १३८ |
| अग्न आयूंषि पवस | १७ | अथातः पार्वण | १९६ |
| अग्नये स्वाहेति | ३५ | अथातोऽध्यायोपा | १४७ |
| अग्निं परिसमूह्य | ७९ | अथातो वास्तुपरी | १२६ |
| अग्निना वा कक्ष | ११४ | अथानवेक्षं प्रत्या | १९१ |
| अग्निमुखा वै देवा | २०५ | अथापराजितायां | १६८ |
| अग्निरिन्द्रः प्रजापति | १४ | अथापराजितायां दि | १९५ |
| अग्निर्मे होता स | ९० | अथापि विज्ञाय | १४६ |
| अग्निवेलायाम् | १९२ | अथाप्यृच उदा | ३ |
| अङ्गुष्ठोपकनिष्ठि | १८० | अथावदानानां | ११६ |
| अत ऊर्ध्वं पतित | ७३ | अथास्मिन्नन्न आसे | १३४ |
| अत ऊर्ध्वमक्षारलव | ८५ | अथास्यै मण्डला | ५६ |
| अत ऊर्ध्वमक्षारालव | ३२ | अथास्यै युग्मेन | ५८ |
| अतो वृद्धो जपति | १६५ | अथास्यै शिखे वि | २७ |
| अथ काम्यानां स्था | १५२ | अथैतानि पात्रा | १७५ |
| अथ खलु यत्र | १० | अथैतां दिशम | १७५ |
| अथ खलूच्चावचा | २२ | अथैतान्युपक | १५७ |
| अथ दधिसक्तून् | १४८ | अथैतैर्वास्तुं परी | १२९ |
| अथ पशुकल्पः | ४४ | अथैनं सारयमा | १६९ |
| अथ पार्वणः स्थाली | ३६ | अथैनच्छमयति | १३४ |
| अथ बलिहरण | ८ | अथैनमन्तर्वेदि | १७७ |
| अथर्षयः | १४४ | अथैनमन्वीक्षेत | १७० |
| अथ व्याधितस्या | १५३ | अथैनान् प्रोक्षति | ३७ |
| अथ शूलगवः | २०८ | अथैनामपराजितायां | २८ |
| अथ श्वोभूतेऽष्टका | ११३ | अथैनामुच्छ्रीयमाणा | १३३ |
| अथ सायंप्रातः | ६ | अथोदङ्ङावृत्य | २१३ |
| अथ स्वस्त्ययनं | ३३ | अथोपविशन्ति | १९५ |
| अथ स्वाध्यायम् | १४१ | अथोपेतपूर्वस्य | ८७ |
| अथ स्वाध्याय | १३९ | अधिके प्रशस्तम् | १३० |
| सूत्राणि. | पृष्ठम्. | सूत्राणि. | पृष्ठम्. |
|---|---|---|---|
| अदितिः केशान् | ६८ | अभिमतेऽनुमते | २०६ |
| अधिज्यं कृत्वा स | १७८ | अभिवादनीयं | ६३ |
| अध्येष्यमाणो | १४८ | अभ्युदियाच्चेद् | १५५ |
| अनभ्यनुज्ञायां | २०४ | अमात्यानन्ततः | २१४ |
| अनार्तस्य नार्तो | १६१ | अमात्येभ्य इतरा | १०४ |
| अनाहिताग्नेरपि | १०८ | अमा पुत्रो वृषदुप | १८० |
| अनिन्दितस्यां दि | ८६ | अमुष्मै स्वाहेति | १४ |
| अनिरुक्तं परिदा | ८८ | अमोहमस्मि सा | २४ |
| अनिष्ट्वा वा | १७३ | अयं तुभ्यमिति | ५२ |
| अनुप्रवचनीयमिति | ८३ | अयुग्मानितरेषु | १२२ |
| अनुस्तरणीं गा | १७५ | अयुजानि स्त्रीणाम् | ६३ |
| अनुस्तरणया वपा | १६१ | अयुजोऽमिथुनाः | १८८ |
| अनूषरमाविवादिष्णु | १२७ | अयुजो वा | १२२ |
| अन्तर्मृत्युं दध | १९३ | अरङ्गरो वावदीतीति | १३४ |
| अन्नपतेऽन्नस्य नो | ६५ | अर्यमणं नु देवं | २६ |
| अन्नं ब्राह्मणेभ्यः | ३३ | अलक्षणायां स्त्रियम् | १८८ |
| अन्यद्वा कौटुम्बम् | १२५ | अलङ्कृतं कुमारं कु | ७५ |
| अन्वञ्चं प्रेतमयु | १७५ | अलङ्कृत्य कन्यामु | २० |
| अन्वञ्चोऽमात्या | १७६ | अलाभेऽपः | १०० |
| अपरासु स्त्रीभ्यः | १२१ | अवदानैर्वा सह | ५० |
| अपरिणीय शूर्पं | २६ | अवप्लुतः स्यादा | १०३ |
| अपरेणाग्निं प्राक् | १४९ | अवसृष्टाः पराप | १७० |
| अपरेद्युरन्वष्टक्यम् | ११८ | अवहतांस्त्रिः फली | ३८ |
| अपामञ्जली पू | ७७ | अविच्छिन्नया चो | १३२ |
| अपामार्गः शाक | १२८ | अविदासिनी ह्रदात् | २० |
| अप्यनडुहो यवस | ११४ | अध्याधितं चेत् स्व | १५२ |
| अप्रच्छिन्नाग्रावनन्त | १२ | अश्मनस्तेजोऽसि | १६० |
| अप्रत्तासु च स्त्रीषु | १८६ | अश्नन्वतीरीयते संरभध्वमित्यर्थे | ३० |
| अप्रत्याख्यायिन | ८३ | अश्नन्वतीरीयते संरभध्वमित्यश्मा | १९५ |
| अप्रत्याख्यायिनी | ,, | अष्टमीमिपून् | १६९ |
| अभयं नः प्रजाप | ११० | अष्टमे वर्षे ब्राह्मण | ७२ |
| अभित आकाशम् | १७३ | अष्टौ पिण्डान् कृत्वा | १९ |
| अभिप्रवर्तमानकेषु | १२४ | अष्टावरानष्ट परान् | २१ |
| अभिप्रवर्तमाने | १६९ | अस्तमितेऽपां पू | १३० |
३
| सूत्राणि. | पृष्ठम्. | सूत्राणि. | पृष्ठम्. |
|---|---|---|---|
| अस्तमिते ब्रह्मौदन | ८४ | आ षोडशाद् ब्राह्म | ७३ |
| अस्तमिते स्थाली | १०३ | आसंचनवन्ति पृष | १८० |
| अस्माकमुत्तमं कृ | १२६ | आहवनीयश्चेत् पू | १८३ |
| अहं वर्ष्म सजातानां | ९७ | आहिताग्निश्चेद्वु | १७२ |
| अहिरिव भोगैः | १६९ | इतरेषु | १८७ |
| अहीनस्य | ९३ | इत्यनुपेतपूर्वस्य | ८७ |
| आक्रम्य वा पादौ | ९७ | इदं वत्स्यावो भो | १६४ |
| आगावीयमेके | १३६ | इध्मचितिं चिनो | १७७ |
| आग्नेयीमेके | ११४ | इध्मबर्हिषोश्च | ३६ |
| आचान्तेष्वेके | २०६ | इमं तस्मै बलिं | ५२ |
| आचान्तोदकाय | १०० | इममग्ने चमसं | १८२ |
| आचार्यः समन्वार | ८४ | इमं जीवेभ्यः | १९३ |
| आचार्यान् पितॄंश्च | १५२ | इममश्मानमारोहा | २५ |
| आचार्यश्वशुरपितृ | ९६ | इमे जीवा विष्ट | १८४ |
| आजमन्नाद्यका | ६४ | इमा नारीरविध | १९४ |
| आज्यभागौ हुत्वाज्या | १४७ | इरिणादधन्या | २० |
| आज्यशेषेण वानक्ति | ३२ | इष्ट्वान्यमुत्सृजे | २१५ |
| आत्मनि मन्त्रान् सं | १६० | इह प्रियं प्रजायां | ३१ |
| आत्वाहार्षमन्तरे | १६८ | उक्तं गृहप्रपदनम् | १३१ |
| आदित्यमीक्षयेद् | ७८ | उक्तं वृषले | १७८ |
| आदित्यो मेऽध्वर्यु | ९१ | उक्तानि वैतानिकानि | १ |
| आनडुहं गोमयं | ६६ | उत्तरतः पत्नीं | १७७ |
| आपूर्यमाणपक्षे | ५८ | उत्तरतोऽग्नेर्दभै | २१३ |
| आप्लुत्य वाग्यतः | ७१ | उत्तरतोऽग्नेर्ब्रीहि | ६६ |
| आयतचतुरश्रं वा | १३१ | उत्तरतोऽग्नेः शामि | ४४ |
| आयतीर्यासामू | १३६ | उत्तरपुरस्तात् | ४१ |
| आयुष्यमिति सू | १६२ | उत्तरपुरस्तादा | १८४ |
| आर्द्रया | २०८ | उत्तरमाग्नेयं दक्षिणं | ४० |
| आद्र्रामन्नाद्यका | १५९ | उत्तरया धनुः | १६८ |
| आवृत्तैव कुमार्यै | ६४, १५, ७० | उत्तरया पांसूनव | १८९ |
| आवृत्तैव पर्यग्निकृत्वो | ४६ | उत्तरां वाचयेत् | १६८ |
| आवृत्तैव हृदय | ५० | उत्तरामुत्तरया | २८ |
| आशंसन्त एनं | १७२ | उत्तरार्धात् सौवि | ४२ |
| आश्वयुज्यामाश्व | १०६ | उत्तरेणोत्क्रमयेत् | ३० |
४
| सूत्राणि. | पृष्ठम्. | सूत्राणि. | पृष्ठम्. |
|---|---|---|---|
| उदगयन आपूर्यमाण | १५ | एताश्चैव देवता | १५२ |
| उदरं वैश्यः | १६१ | एतेन गोदानं | ७० |
| उदरे पात्रीं समव | १८० | एतेनं माध्यावर्षं | १२१ |
| उदिते सौर्याणि | १९६ | एतेन वापनादि | ८७ |
| उद्धृत्य घृताक्त | २०४ | एतेनाग्ने ब्रह्मणा | ९५ |
| उपनिपदि गर्भ | ५४ | एवं त्रीन् प्रस्तृ | ५६ |
| उपरतेषु शब्देषु | १९२ | एवं प्रातः प्राङ्मुख | १५६ |
| उपरि समिधं कृत्वा | १५९ | एवं विद्व यजमा | २१४ |
| उपश्वास्य पृथि | १७० | एवमतिसृष्टस्य | १६५ |
| उपस्थं स्त्री | १६१ | एवमनाहिताग्नि | ९५ |
| उपस्थे शम्याम् अर | १८० | एवमितरे यथादे | ९२ |
| उभय।मुभयकामः | १५९ | एवमुत्तरतस्त्रिः | ६९ |
| उभयोः सन्निधाय | २९ | एपोऽवदानधर्मः | २५ |
| उरसि ध्रुवां शि | १७९ | एपोऽवभृथः पा | ४३ |
| ऊरू सरणर्जावि | १६१ | एषा मेऽष्टकेति | ११४ |
| ऊर्णास्तुके केश | २८ | ओंपूर्वा व्याहृतयः | १४१ |
| ऋचो यजूंषि सा | १४१ | ओंपूर्वा व्याहृतयः | १४९ |
| ऋतुदेवतामे | ११५ | ओदनं कृसरं | ११३ |
| ऋत्विजे वितते कर्म | २१ | ओप्योप्य हैके | २७ |
| ऋत्विजो वृणीते | ८९ | ओषधिवनस्पति | १२७ |
| ऋत्विजो वृत्वा मधु | ९५ | ओषधीनां प्रादु | १४७ |
| ऋषभं मा समाना | १२६ | कण्टकिक्षीरिण | १२७ |
| ऋषिभ्यस्तृतीयम् | ८५ | कण्टकिक्षीरिणस्त्विव | १७४ |
| एकक्षीरकेण | १६० | कपोतश्चेद्गा | १५६ |
| एकबर्हिरिध्मराज्य | १५ | कर्णयोः प्राशित्र | १८० |
| एकस्यां वा | ११२ | कर्णयोरुपनिधाय | ६१ |
| एकादश पशोरव | ४९ | कर्तारं यजमानः | ४७ |
| एकादशे क्षत्रियम् | ७२ | कर्ता नृपले जपेत् | १७८ |
| एकैकस्यावदानस्य | ५० | कर्तृष्ववकाः शीफाल | १३२ |
| एतत् तन्त्रम् | ४३ | कर्तृष्वेके द्वयोः | १२० |
| एतदुत्सर्जंनम् | १५२ | कलशात् सक्तूनां | १०४ |
| एतान्यान्यपि | १२५ | कल्मापमित्येके | २०८ |
| एतस्मिन्नेवाग्नौ | ४८ | कल्याणेपु देशवृक्ष | ३० |
| एतस्मिन् काले ग | २०४ | कल्याणैः सह सम्प्र | ९४ |
CC-0. Agamnigam Digital Preservation Foundation, Chandigarh
५
| सूत्राणि. | पृष्ठम्. | सूत्राणि. | पृष्ठम्. |
|---|---|---|---|
| कस्य ब्रह्मचार्यसि | ७८ | चतुर्थं संहाय सौ | १११ |
| कामं कृष्णमारो | २०९ | चतुर्थे गर्भमासे | ५७ |
| कामं तु व्रीहियव | ३५ | चतुर्भिः सूक्तैश्चत | २१२ |
| काम्या इतराः | ३७ | चतुष्पथाद् विप्र | २० |
| कालश्च | ८८ | चन्द्रमा मे ब्रह्मा | ९१ |
| किं पिबसि किं पिब | ५५ | चन्द्रमास्ते ब्रह्मा | ९२ |
| कुमारं जातं पुरा | ६० | चरवः | १५२ |
| कुलमग्रे परीक्षेत | १८ | चरितव्रतः सूर्याविदे | ३२ |
| कृताकृतं केशवं | ८८ | चरितव्रताय मेधा | ८६ |
| कृताकृतमाज्य | १३ | चैत्ययज्ञे प्राक् | ५१ |
| केशशब्दे तु इम | ७० | छित्त्वा वैकम् | १८० |
| केशश्मश्रुलोम | ७१ | जपित्वामिष्टे होता | ९१ |
| केशश्मश्रुलोम | १७४ | जानुमात्रं कर्तं खा | १२९ |
| क्षीरोदकेन शमी | १८८ | जायोपेयेत्येके | १५० |
| क्षुत्वा जृम्भित्वा | १५४ | जीमूतस्येव भव | १६८ |
| क्षुरतेजो निमृजेद् | ६९ | जीवं रुदन्तीति | ३० |
| क्षेत्रं प्रकर्षयेदुत्त | १३५ | ज्ञातौ चासपिण्डे | १८७ |
| क्षेत्रस्यानुवातं | १३५ | ज्यायान् ज्यायान् वान | ११० |
| क्षेत्राच्चेदुभयतः स | १९ | तं चतुष्पथे न्युप्य | ११० |
| गणानासामुपति- | १३६ | तं वह्यमानमनु | १८४ |
| गर्भाष्टमे वा | ७२ | तं दीपयमाना | १९२ |
| गाः प्रतिष्ठमाना | १३६ | तं पन्नदतं वृषी | २०९ |
| गार्हपत्यश्चेत् पूर्वे | १८३ | तच्छमीशाखयो | १३१ |
| गुरवे प्रसक्ष्यमा | १६४ | तत् सर्वसमृद्धम् | १२८ |
| गुरुणाभिमृष्टा अ | १९० | तत्स॑वितुर्वृ॑णीमह | ८८ |
| गुरौ चासपिण्डे | १८६ | तत् सहस्रसीतं | १३१ |
| गोमिथुनं दक्षिणा | ७१ | तथाज्यभागौ | १३ |
| गोमिथुनं दत्त्वोपय | २१ | तथोत्तमे आहुती | २७ |
| गोष्ठात् पशुमती | १९ | तथोत्सर्गे | १५० |
| ग्रहणान्तं वा | ८२ | तदाचार्याय वेद | ८४ |
| ग्रामकामा अन्नय | १७२ | तदेपाभियज्ञ | ९५ |
| घृतौदनं तेजस्कामः | ६५ | तद्वरन्ते सर्पीः | २१३ |
| घोषवदाद्यन्तर | ६२ | तद्यदग्नौ जुहोति | १३८ |
| चतसृषु चतसृषु | २११ | तद्दो दिवो दुहि | १२६ |
६
| सूत्राणि. | पृष्ठम्. | सूत्राणि. | पृष्ठम्. |
|---|---|---|---|
| तन्मावतु तन्मा वि | ९२ | दक्षिणमग्ने ब्राह्म | ९७ |
| तस्मिन् बर्हिरास्ती | १७७ | दक्षिणाप्रवणे | ११८ |
| तस्य दर्शपूर्ण | ३६ | दक्षिणाप्रवणे स | १२८ |
| तस्य पुरस्तादुल्मु | ४७ | दक्षिणे केशपक्षे | ६८ |
| तस्य वाससा पाणि | ८१ | दक्षिणे पार्श्वे स्फ्यं | १७९ |
| तस्यां जातो द्वादशाव | २१ | दक्षिणे हस्ते जुहूम् | " |
| तस्यामग्निहोत्रेण | ३४ | दधनि मध्वानीय | ९६ |
| तस्याध्यक्षंसौ पाणी | ७८ | दध्यन्यत्र सर्पिरा | १७४ |
| तस्यै तस्यै देवतायै | ३७ | दधिमधुघृतमि | ६५ |
| तस्यैतानि व्रता | १६३ | दशावरान् दश परान् | २१ |
| तस्यैव मांसस्य प्र | ११८ | दानाध्ययने वर्ज | १८६ |
| तां हैके वैश्वदेवीं | ११४ | दुर्ज्ञेयानि लक्षणानि | १९ |
| ताः प्रतिग्राहयि | २०२ | दृश्यमाने प्रविशे | १८५ |
| तानेतान् यज्ञान | १३८ | देवताश्रोपांशुया | ३६ |
| तानेव कामाना | १५३ | देवतास्तर्पयति | १४३ |
| तामुत्थापयेद् | १७८ | देवानां प्रतिष्ठे स्थः | १६१ |
| तासां गृहीत्वा नव | ६७ | देवनात् कितवी | २० |
| तासां पाययित्वा | ४६ | देवयज्ञो ब्रह्मयज्ञो | १३८ |
| तुषान् फलीकरणं | २१२ | देवस्य त्वा सवितुः | ९८ |
| तूष्णीमाघारावाघा | ४० | द्वादशरात्रं वा | १८६ |
| तूष्णीं वै प्रजाप | ७९ | द्वादशवर्षाणि वे | ८२ |
| तृतीये वर्षे चौलम् | ६६ | द्वादशे वैश्यम् | ७२ |
| तृप्तान् ज्ञात्वा मधु | २०६ | द्व्यक्षरं प्रतिष्ठाका | ६२ |
| तेजसा ह्येवात्मानं | ८० | धनुश्च क्षत्रियाय | १७८ |
| तेषां दण्डाः पालाशो | ७६ | धनुर्हस्तादाददानो | " |
| तेषां पुरस्ताच्चतस्र | १६ | धनेनोपतोप्यो | २२ |
| तेषां मेखला मौञ्जी | ७६ | धन्वन्तरियज्ञे | ५३ |
| तैत्तिरं ब्रह्मवर्चस | ६४ | ध्रुवमरुन्धतीं | २९ |
| त्रयः पाकयज्ञाः | २ | ध्रुवान्ते परिददा | १०५ |
| त्रिरात्रमक्षारालव | १८६ | ध्रुवासुं ते ध्रुवासुं | " |
| त्रिर्जामदग्नानाम् | २५ | नक्षत्रदेवतामेके | ११५ |
| त्वमर्यमा भवसि | १८ | न तृप्तिं गच्छेत् | ९९ |
| दक्षिणपूर्वं उद्धता | १७७ | न त्वेवानष्टकः | ११४ |
| दक्षिणपूर्वाभ्या | १२४ | न नक्तं छायात् न | १६३ |