भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ
२०२आश्वलायनगृह्यसूत्रम्[चतुर्थोऽध्यायः

नावीते सव्यः पाणिरुपवीतो भवति यथोपवीते दक्षिणः। ततश्च सव्यस्योपवीतत्त्वात् तेन दद्यादिति। दक्षिणेन (वा) पाणिना सव्योपगृहीतेन दद्यात्। एवं हि दक्षिणाङ्गकारिता चापरित्यक्ता भवति। उपवीतत्वं चानुगृहीतं भवति सव्योपग्रहणात्। पितरिदं तेऽर्घ्यमित्यादयो मन्त्राः। अप्पूर्वमिति क्रियाविशेषणं, शुद्धा अपः पूर्वं दत्त्वा पश्चादर्घ्यं दद्यादित्यर्थः। पात्रत्रित्वोपदेशादिह च मन्त्रानुपदेशाच्च विश्वेभ्यो देवेभ्योऽर्घ्यदानं नास्तीति केचित् ॥ ३ ॥

ताः प्रतिग्राहयिष्यन् सकृत् सकृन्निवेदयेत् स्वधार्ध्या इति ॥ ४ ॥

ता अर्घ्यभूता अपः प्रतिग्राहयिष्यन् सकृत् सकृन्निवेदयेत् स्वधार्ध्या इति। यदि पित्रर्था बहवस्तेभ्यः सर्वेभ्यः सकृत्। एवं पितामहार्थेभ्यः एवं प्रपितामहार्थेभ्यः। सकृदिति किम्। प्रतिपुरुषं मन्त्रावृत्तिर्मा भूत्। वीप्सावचनं प्रतिवर्गं मन्त्रावृत्त्यर्थम्। यत्र यत्र पुनरेवंविधो यत्नो नास्ति। तत्र तत्र प्रतिब्राह्मणमावृत्तिः, यथा अर्घ्यप्रदानमन्त्रस्य ॥ ४ ॥

प्रसृष्टास्वनुमन्त्रयेत या दिव्या आपः पृथिवी संबभूवुः या अन्तरिक्ष्या उत पार्थिवीर्याः हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योना भवन्त्विति ॥ ५ ॥

प्रसृष्टासु दत्तासु अर्घ्यासु ता एता अनुमन्त्रयेत या


१. 'यति स्व' घ. पाठः.

अष्टमः खण्डः] अनाविलोपेते । २०३

अष्टमः खण्डः] अनाविलोपेते । २०३

दिव्या इति मन्त्रेण । केचित् सर्वान्तेऽनुमन्त्रणमिच्छन्ति । अन्ये प्रतिपुरुषम् ॥ ५ ॥

संस्स्रवान् समवनीय ताभिरद्भिः पुत्रकामो मुख- मनक्ति ॥ ६ ॥

अर्घ्यदानावाशिष्टा आपः संस्रवाः । तान् प्रथमे पात्रे समवनीय ताभिरद्भिः पुत्रकामश्चेन्मुखमनक्ति ॥ ६ ॥

प्रथमपात्रे विशेषप्रदर्शनार्थं यज्ञगाथे उदाहरति —

नोद्धरेत् प्रथमं पात्रं पितॄणामर्घ्यपातितम्¹ । आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् ॥ यदा वा तूद्धृतं पात्रं विवृतं वा यदा भवेत् । अभोज्यं तद् भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः ॥ ७ ॥

प्रथमं पात्रं यस्मिन् प्रदेशे पितॄणामर्घ्याय पातितं² नि- हितं तस्माद् देशान्नोद्धरेत् । यत आवृतास्तत्र पात्रे तिष्ठन्ति पितरः । क एवमाह — शौनकोऽब्रवीत् । आवृता इति वचनात् संस्स्रवान् समवनीय तत्पात्रं पिधातव्यं पात्रान्त- रेण । उद्धरणे विवरणे च पितृगणाः क्रुद्धा गच्छेयुः । ततश्च तैर्गतैस्तच्छ्राद्धमभोज्यं भवेत् ते तत्र न भुञ्जीरन् ॥ ७ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये अष्टमः खण्डः ।


१. ., २. 'दि' घ.पाठः.

२०४. आश्वलायनगृह्यसूत्रम् [ चतुर्थोऽध्यायः

अथ नवमः खण्डः ।

एतस्मिन् काले गन्धमाल्यधूपदीपाञ्जनाच्छाद- नानां प्रदानम् ॥ १ ॥

अर्घ्यदानान्तरं गन्धादीनि ददाति ॥ १ ॥

उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये क- रवै करवाणीति वा ॥ २ ॥

अथ स्थालीपाकादन्नमुद्धृत्य घृताक्तं कृत्वा ब्राह्मणा- ननुज्ञापयति अग्नौ करिष्ये इत्यादीनामन्यतमेन वाक्येन । अग्नावित्यस्य चोत्तराभ्यामपि सम्बन्धः अग्नौ करवै अग्नौ करवाणीति ॥ २ ॥

प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति ॥ ३ ॥

अथ ब्राह्मणानां प्रत्यभ्यनुज्ञा क्रियतामित्यादिभिर्यथा- संख्यम् ॥ ३ ॥

अथाग्नौ जुहोति यथोक्तं पुरस्तात् ॥ ४ ॥

अथानुज्ञानानन्तरमग्नौ जुहोति यथोक्तं पिण्डपितृयज्ञे सोमाय पितृमत इत्यादि ॥ ४ ॥

अनभ्यनुज्ञायां पाणिष्वेव ॥ ५ ॥

यत्राभ्यनुज्ञा नास्ति तस्मिन् विषये ब्राह्मणानां पा- णिष्वेव जुहुयात् ताभ्यामेव मन्त्राभ्याम् । क्वचाभ्यनुज्ञा नास्ति यत्रानुज्ञापनं नास्ति तत्र । क्वच तन्नास्ति यत्राग्नौ होमो नास्ति तत्र, अग्नौ करिष्य इत्येवंरूपत्वादद्नुज्ञापनस्य । क्वचाग्नौ होमो नास्ति आहिताग्नेः पार्वणे । तस्य पिण्ड-

नवमः खण्डः] अनाविलोपेत्म् । २०५

नवमः खण्डः] अनाविलोपेत्म् । २०५

पितृयज्ञे दक्षिणाग्नौ होमः कृतः पिण्डाश्च निवृत्ताः, केवलं ब्राह्मणभोजनमेव शिष्यते तत्र पाणिष्वेव होम इति। अपर आह — यस्य गृह्योऽग्निर्नस्ति तस्य विधुरादेरयमुपदेश इति ॥ ५॥

अथ पाणिहोमं स्तोतुं ब्राह्मणमनुकर्षति —

अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम् १ ॥ ६ ॥

तत्र पाणिहोमपक्षे विशेषमाह —

यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति ॥ ७ ॥

यदि पाणिषु होमः तदा ब्राह्मणेष्वाचान्तेषु पाणिषु हुतमन्नं भुक्तवत्सु अन्यदन्नमनुदिशति पात्रे कदलीपत्रादौ ॥ ७ ॥

अग्निपक्षे विशेषमाह —

अथाग्नौ हुतशेषमन्नमन्ने ॥ ८ ॥

अथाग्नौ होमः ततो भोजनार्थादन्नादुद्धृत्य तस्मिन्नन्ने हुतशेषमन्नं दद्यात् ॥ ८ ॥

सृष्टं दत्तमाध्र्णुकमिति ॥ ९ ॥

सृष्टं प्रभूतं दत्तम् आध्र्णुकम् ऋद्धिनिमित्तं कर्तुरिति विज्ञायते । तस्मात् प्रभूतं देयमिति । अपर आह — सृष्टमिति क्रियाविशेषणं सर्ग उत्साहः सृष्टमुत्साहवद् यथा तथा दत्तं श्रद्धया दत्तम् आध्र्णुकमिति ॥ ९ ॥


१. ‘खा वै पि’ घ. पाठः.

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

२०६ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

तृप्तान् ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्ते- ति च ॥ १० ॥

भुञ्जाना ब्राह्मणा यदा तृप्ता भवन्ति तदा तांस्तृप्तान् ज्ञात्वा मधुशब्दवतीर्मधु वाता ऋतायते इत्येता ऋचःश्रावयेद् ब्रूयाद् अक्षन्नमीमदन्तेत्येतां च ॥ १० ॥

सम्पन्नं पृष्ट्वा यद्यदन्नमुपभुक्तं ततस्ततः स्था- लीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ॥ ११ ॥

अथ सम्पन्नमिति ब्राह्मणान् पृच्छति । ते च सुसंपन्नमिति प्रतिब्रूयुः । ततो यद्यदन्नमुपभुक्तं ब्राह्मणैरुपभुक्तशिष्टमित्यर्थः, ततस्ततः स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषमन्नं ब्राह्मणेभ्यो निवेदयेत् । अस्मादेवानुवादाद् गम्यते अस्ति स्थालीपाको होमार्थ इति ॥ ११ ॥

अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पि- ण्डान् निदध्यात् ॥ १२ ॥

निवेदिते सति ब्राह्मणास्तदन्नमभिमन्यन्ते आत्मसात्कुर्वन्ति अस्मभ्यमेव देहीति अनुमन्यन्ते वा इष्टैः सहोपभुज्यतामिति । एवं तैरभिमतेऽनुमते वा भुक्तवत्सु तेष्वनाचान्तेषु पिण्डान् निदध्यात् निपृणीयात् पिण्डपितृयज्ञकल्पेन ॥ १२ ॥

आचान्तेष्वेके ॥ १३ ॥

एक आचार्या आचान्तेषु पिण्डान् निपृणन्ति ॥ १३ ॥

प्रकीर्यान्नमुपवीयीं स्वधोच्यतामिति विसृजेद- स्तु स्वधेति वा ॥ १४ ॥

निधाय पिण्डानन्नं भूमौ प्रकिरन्ति । तत्र मन्त्रमपि पठन्ति “ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।

नवमः खण्डः] अनाविलोपेताम् । २०७

नवमः खण्डः] अनाविलोपेताम् । २०७

भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्” इति। एवम् अन्नं प्रकीर्य उपवीय उपवीतं कृत्वा । अस्मादेव वचनादेता- वन्तं कालं प्राचीनावीतीति विज्ञायते। उक्तं च— ‘प्रसव्ये- नेतरपाण्यङ्गुष्ठान्तरेणोपवीतत्वादि’ति। ततो यथाशक्ति द- क्षिणां दत्त्वा सामात्यः प्रदक्षिणीकृत्य ओं स्वधोच्यतामिति उक्त्वा विसृजेत्। अस्तु स्वधेति वा प्रत्युक्त्वा गच्छेयुः एकोद्दिष्टे शास्त्रान्तरोक्तो विशेषः —

“एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम्।
आवाहनाग्नौकरणरहितं त्वपसव्यवत् ॥”

इति। अन्ये तु — दक्षिणत उष्णं भस्म निरुह्य प्रेतायामु- ष्मै यमाय च स्वाहेति होममिच्छन्ति। अमुष्मा इत्यस्य च स्थाने प्रेतस्य नामनिर्देशश्चतुर्थ्या। शेषमत्र यथोक्तं तथा कर्तव्यम्। सपिण्डीकरणे प्रेतस्यैकोद्दिष्टकल्पनं पित्रादीनां पार्वणकल्पनम्। अर्घ्यप्रदानान्ते प्रेतपात्रं पितृपात्रेषु सेच- येद् ये समाना इति द्वाभ्याम्। अन्ये प्रपितामहपात्रमित- रपात्रेषु सेचयन्ति। एवं पिण्डेषु निपृतेषु प्रेतपिण्डं त्रिधा कृत्वा इतरेषु निदधाति ताभ्यामेव मन्त्राभ्याम्। अन्ये प्रपि- तामहपिण्डमितरेषु निदधति ॥ १४ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये नवमः खण्डः।


१. ‘स’ ग. पाठः.

३०८आश्वलायनगृह्यसूत्रम्[चतुर्थोऽध्यायः

अथ दशमः खण्डः ।

अथ शूलगवः ॥ १ ॥
अथशब्दोऽधिकारार्थः । शूलगवो नाम रुद्रयज्ञो वक्ष्यते । शूलाङ्कितो गौः शूलगवः । तद्योगात् कर्मणि वृत्तिः ॥

शरदि वसन्ते वा ॥ २ ॥
एतयोर्ऋत्वोरन्यतरस्मिन् इदं कर्म भवति ॥ २ ॥

आर्द्राया ॥ ३ ॥
‘नक्षत्रे च लुपी’त्यधिकरणे तृतीया । आर्द्रायां कत्र्तव्यम् ॥ ३ ॥

श्रेष्ठं स्वस्य यूथस्य ॥ ४ ॥
सजातानां मध्ये यः श्रेष्ठः तम् । द्वितीयान्तानामभिषिञ्चतीति वक्ष्यमाणेन सम्बन्धः । शूलगव इत्युपसमस्तोऽपि गौः सम्बध्यते विशेष्यत्वेन । पुंलिङ्गनिर्देशाच्च पुंगवस्य ग्रहणम् ॥ ४ ॥

अकुष्ठिपृषत् ॥ ५ ॥
यो वर्णतः पृषद् भवति अकुष्ठी च तम् । सौत्रो लिङ्गव्यत्ययः द्वितीयाया वा लुक् ॥ ५ ॥

कल्माषमित्येके ॥ ६ ॥
एक आचार्याः कल्माषं चित्रवर्णमिच्छन्ति । अपर आहू — पृषन्ति बिन्दवः, यः कुष्ठी पृषद्भिः कल्माषश्च न भवति तम् । यूथश्रेष्ठो (न?) भवतु मा वा भूदिति ॥ ६ ॥


१. 'यः न द्वि' ग. ङ. पाठः.
२. 'ति यू' ख. ग. घ., 'तु मा' ख. पाठः.

दशमः खण्डः] अनाविलोपेसम् । २०९

दशमः खण्डः] अनाविलोपेसम् । २०९

कामं कृष्णमारोहवांश्चेत् ॥ ७ ॥

काममित्यभ्युपगतौ । कृष्णमपि कामं कुर्याद्, आरोहः ककुत् शरीरोच्छ्रायो वा तद्वांश्चेत् ॥ ७ ॥

व्रीहियवमतीभिरद्भिरभिषिञ्चति शिरस्तोऽध्या- भसदः ॥ ८ ॥

तमेवंभूतं पुङ्गवं शिरस्तोऽधि शिरस्त आरभ्य आभ- सदः भसदिति पुच्छप्रदेशाभिधानं गुह्याभिधानमित्यन्ये आ तस्मादभिषिञ्चति ॥ ८ ॥

रुद्राय महादेवाय जुष्टो वर्धस्वेति ॥ ९ ॥

एष मन्त्रः । ततस्तं शूलेनाङ्कयित्वोत्सृजति यावत् (सं?) पन्नदद् भवति । अन्ये तु रुद्रायेत्यादिनोत्सृजन्ति तू- ष्णीमभिषिञ्चन्ति । उत्सृजेदित्यनुक्तमपि गम्यते उत्तरत्र दर्श- नात् 'इष्ट्वान्यमुत्सृजति नानुत्सृष्टः स्यादि'ति ॥ ९ ॥

तं पन्नदतं वृषीभूतं वा यज्ञियस्यां दिश्यसन्द- र्शने ग्रामादूर्ध्वमर्धरात्रादुदित इत्येके वैद्यं चरित्रवन्तं ब्राह्मणमुपवेश्य सपलाशामाईंशाखां यूपं निखाय व- तत्त्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्य- तरयार्धशिरसि पशुं बद्ध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति ॥ १० ॥

तं शूलगवं पन्नदतं पन्नाः पतिता दन्ता यस्य तम् । “यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवती”ति ब्राह्मणम्।


१. 'वा नि' ग. पाठः.

११० आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

“योऽपन्नदन्मलं तत्पशूनामिति विज्ञायते” इत्यापस्तम्बः। वृषी- भूतं सेचनसमर्थम् एवंभूतं वा यज्ञियस्यां दिशि यज्ञार्हायाम् आविन्दितस्यामितिवच्छान्दसः स्यादागमः। ग्रामाद् बहिर्यत्र स्थिता ग्रामं न पश्यन्ति ग्रामे वा स्थित्वा यं न पश्यन्ति तस्मि- न्नसन्दर्शने देशे ऊर्ध्वमर्धरात्रादस्मिन् काले। उदित इत्येके एक आचार्या उदित इत्याहुः। तदा वैद्यं चरित्रवन्तं य एतां विद्या- मधीते यश्चैतत् कर्मानुष्ठितवान् तमेवं ब्राह्मणमुपवेश्य आज्य- भागान्ते शामित्रायतनाद्याग्निं दूतमित्येतदन्तं कृत्वा सपलाशां सपर्णीम् आर्द्रा चासौ शाखा च तामार्द्रशाखां यूपस्य पला- शादेः सम्बन्धिनीं यूपं निखाय द्वे व्रतत्यौ लते पशुबन्धनक्षमे कुशनिर्मिते वा रज्जू रशने करोति। तयोरन्यतरया यूपं परिव्य- यति। अन्यतरया अर्धशिरसि शिरस एकस्मिन् पार्श्वे पशुं- बद्ध्वा यूपे रशनायां वा तं पशुं नियुनक्ति यस्मै नम इति मन्त्रेण। रुद्रदेवत्योऽयं पशुः। तथाच रुद्राय जुष्टो वर्ध- स्वे'ति उत्सर्जनमन्त्रः। हराय कृपायित्यादिभिश्च द्वादशभि- र्देवनामभिर्होमः। तस्मादयमपि मन्त्रस्तद्देवत्य एव। लक्षण- तश्चैतद्देवत्यत्वम्। इदं हि देवस्य लक्षणं यस्मै नम इति । तथाच शिशुमारब्राह्मणे श्रूयते — “यस्मै नमस्तच्छिरो धर्मो मूर्धानं ब्रह्मोत्तराहनुर्यज्ञो धरे”त्यादि। अत्र हि देवतान्तराणां स्वशब्देनोक्तत्वाद् यस्मै नम इति देवस्यैव लक्षणतो नि- र्देशः॥ १० ॥

प्रोक्षणादि समानं पशुना ॥ ११ ॥


१. 'न्तं स' ङ. पाठः.

दशमः खण्डः] अनाविलेापेतम्। २११

दशमः खण्डः] अनाविलेापेतम्। २११

पशुकल्पोक्तं प्रोक्षणादिपदार्थजातमविकृतं कर्तव्यम् ॥

विशेषान् वक्ष्यामः ॥ १२ ॥

अत्र ये तु विशेषास्तान् वक्ष्यामः ॥ १२ ॥

पात्र्या पलाशेन वा वपां जुहुयादिति विज्ञा- यते ॥ १३ ॥

पात्र्या मृन्मय्या पलाशेन पर्णेन वा यज्ञियस्य वृक्षस्य वपां जुहुयादिति ब्राह्मणं भवति ॥ १३ ॥

हराय कृपाय शर्वाय शिवाय भवाय महादे- वायोग्राम पशुपतये रुद्राय शङ्करायेशानायाशनये स्वा- हेति ॥ १४ ॥

हरायेत्यादिभिः स्वाहाकारान्तो द्वादशभिर्देवनामभि- र्युक्त एको मन्त्रः वपाया अवदानानां स्थालीपाकस्य च भ- वति ॥ १४ ॥

षड्भिर्वोत्तरैः ॥ १५ ॥

अस्मिन्नेव वा पाठे उत्तरैः षड्भिरुग्रायेत्यादिभिर्जुहु- यात् ॥ १५ ॥

रुद्राय स्वाहेति वा ॥ १६ ॥

अयं वा होममन्त्रः ॥ १६ ॥

चतसृषु चतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र! पूर्वस्यां दिशि सेनास्ताभ्य एतं नमस्ते अस्तु मा मा हिंसीरिति ॥ १७ ॥

२१२ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

प्रधानहोमानन्तरं स्विष्टकृतः प्राक् चतसृषु दिक्षु च- तसृषु चतसृषु कुशसूनासु। वीप्सावचनात् प्रतिदिशं चतस्रः। कुशसूनाः कुशानां पुष्पमय्यः तासु बलिं हरेत्। तत्र पूर्वस्यां दिशि मन्त्रः— यास्ते रुद्र! पूर्वस्यां दिशीति। एवं सर्वासु दिक्षु बलिं हरेदित्यनुषङ्गः ॥ १७ ॥

प्रतिदिशं त्वादेशनम् ॥ १८ ॥

तस्यास्तस्या दिशो नाम त्वादेष्टव्यम्। यास्ते रुद्र! दक्षिणस्यां दिशिं प्रतीच्यां दिशि उदीच्यां दिशि इति ॥ १८ ॥

चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्राय इमा रुद्राय आ ते पितः इमा रुद्राय स्थिरधन्वन् इति ॥ १९ ॥

हृत्वा बलिं कद्रुद्रायेत्यादिभिश्चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत। यथासंख्यमित्येके। प्रतिदिशं चतुर्भिरिति वयं चतुर्भिरिति वचनात् सूक्तग्रहणात्। चत्वार्येव हि निर्दि- ष्टानि सूक्तानि च तानि सूक्तं सूक्तादौ हीने पाद इति वच- नात्(?)। तस्माच्चतुर्भिः सूक्तैः प्रतिदिशमुपस्थानं कर्त- व्यम् ॥ १९ ॥

सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ॥ २० ॥

अन्येष्वपि सर्वरुद्रयज्ञेषु आश्वयुजीकर्मादिष्वेतद् दिशामुपस्थानं कर्तव्यम् ॥ २० ॥

तुषान् फलीकरणांश्च पुच्छं चर्म शिरः पादा- वन्वावनुंप्रहरेत् ॥ २१ ॥

दशमः खण्डः ] अनाविलेापेतम् । २१३

दशमः खण्डः ] अनाविलेापेतम् । २१३

स्थालीपाके ये तुषाः ये च फलीकरणाः ये च पशोः पुच्छादयः तत्सर्वमग्नावन्वप्रहरेत् ॥ २१ ॥

भोगं चर्मणा कुर्वीतेति शाम्बव्यः ॥ २२ ॥

शाम्बव्यस्त्वाचार्यो मन्यते भोगं चर्मणा कुर्वीतेति चर्मणोऽनुभवे न दोष इति ॥ २२ ॥

उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छासिनीघोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽनेन वः प्रीणानीति ॥ २३ ॥

अथाग्नेरुत्तरतः दर्भवीता दर्भराजयः कुशसूनाः कुशपुष्पमय्यो वास्तीर्णा भवन्ति तासु पशोः शोणितं निनयेत् श्वासिनीरित्यादिना मन्त्रेण ॥ २३ ॥

अथोदङ्ङावृत्य श्वासिनीघोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽन्न तद्धरध्वमिति सर्पेभ्यो यत् तत्रासृगूवध्यं वावच्युतितं भवति ॥ २४ ॥

अथ यस्मिन् देशे पशुर्विशसितः तं प्रत्युदङ्मुख आवृत्य श्वासिनीघोषिणीरित्यादिमन्त्रेण यत्तत्र देशे असृग् रक्तम् ऊवध्यमान्त्रं वा अवच्युतितं क्षरितं भवति । सापेक्षत्वान्मन्त्रलिङ्गाच्च सर्पेभ्यो निवेदयतीति गम्यते ॥ २४ ॥

तद्धरन्ते सर्पाः ॥ २५ ॥

तदेव निवेदितं सर्पा हरन्ते ॥ २५ ॥

अथ देवस्य वैभवमुच्यते —

सर्वाणि ह वा अस्य नामधेयानि सर्वाः सेनाः सर्वाण्युच्छ्रय णानि ॥ २६ ॥

यावत् किञ्चिन्नामसंयुक्तं तत्सर्वमस्य देवस्य शेषभू-

२१४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

तम् । यावत्यश्च सेनास्ता अप्यस्यैव । सर्वप्रकाराणि चोच्छ्रय- णानि उच्छ्रूयाः ऐश्वर्याणि तान्यप्यस्यैव ॥ २६ ॥

एवंविद् यजमानं प्रीणाति नास्य ब्रुवाणं चन हिनस्तीति विज्ञायते¹ ॥ २७ ॥

य एवं देवं विदित्वा² याजयति स यजमानं प्रीणा- ति बलेन योजयति । यश्चास्यैवंविदो यजमानस्य ब्रुवाण उ- पदेष्टा³ भवति तमपि देवो न हिनस्तीति ब्राह्मणम्⁴ । चनश- ब्दोऽप्यर्थे । एवं याजयितुर्यजमानस्य च कर्माङ्गं ज्ञानमुप- दिष्टम् ॥ २७ ॥

नास्य प्राश्नीयुर्नास्य ग्राममाहरेयुरनभिमानुको हैष देवः प्रजा भवति⁵ ॥ २८ ॥

अस्य पशोः द्वितीयार्थे षष्ठी अस्य वा संबन्धि कि- ञ्चिदपि न प्राश्नीयुः (ना)स्य संबन्धि किञ्चिदनुपयुक्तमपि ग्राममाहरेयुः । कस्माद्, अनभिमानुको हैष देवः प्रजा भ- वति । अभिपूवों मन्यतिर्हिंसाकर्मा छान्दस उक(न्? ञ्) । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इत्युकान्तयोगे षष्ठीप्रतिषेधाद् द्वितीया । प्रजानामहिंसको भवति । इतरथा हिंस्यादित्युक्तं भवति ॥ २८ ॥

अमात्यानन्ततः प्रतिषेधयेत् ॥ २९ ॥

अमात्यान् पुत्रादीन् बालान् अस्य कर्मणोऽन्ततः समीपे प्रतिषेधयेत् यथा समीपे नागच्छेयुः तथा कुर्यात् ॥


१. ‘ते ॥ एवं’, २. ‘त्वा यो या’ ङ. पाठः. ३. ‘द्रष्टा’ ग. ङ. पाठः. ४. ‘णं भवति । च’ ख. ङ. पाठः. ५. ‘तीति ॥’ ङ. पाठः.

दशमः खण्डः] अनाविलोपेताम्। २१५

दशमः खण्डः] अनाविलोपेताम्। २१५

नियोगात् तु प्राश्नीयात् स्वस्त्ययन इति ॥ ३० ॥

यस्त्वेतस्मिन् कर्मणि नियुज्यते स प्राश्नीयादेव यस्मादस्यासौ स्वस्त्ययनः स्वस्तिप्राप्तेः साधनभूतः ॥ ३० ॥

अथास्य कर्मणः प्रशंसा —

स एष शूलगवो धन्यो लोक्यः पुण्यः पशव्य आयुष्यो यशस्यः ॥ ३१ ॥

धन्यः धनप्राप्तेर्निमित्तभूतः । धान्य इति च पठन्ति तदा धान्यप्राप्तेर्निमित्तभूतः । एवमुत्तरत्रापि सर्वत्र । तस्य निमित्त इत्यधिकारे 'गोद्व्यचो —' इति यत्प्रत्ययं संयोगोत्पातव्यतिरेकेणापि निमित्तमात्रे प्रयुञ्जते ॥ ३१ ॥

यस्मादेवं प्रशस्तः शूलगवः, तस्मात् —

दृष्ट्वान्यमुत्सृजेन्नानुत्सृष्टः स्यात् ॥ ३२ ॥

सर्वथा सकृदुत्स्रष्टव्य इत्युक्तं भवति ॥ ३२ ॥

न हापशुर्भवतीति विज्ञायते ॥ ३३ ॥

एवमेतत् कर्म कुर्वन्^१ अपशुर्न ह भवति पशुमानेव भवतीति ब्राह्मणं भवति ॥ ३३ ॥

शन्तातीयं जपन् गृहानियात् ॥ ३४ ॥

समाप्ते कर्मणि गृहानागच्छन् शन्तातीयं शं न इन्द्राग्नी इति सूक्तं जपैन् आगच्छेत् ॥ ३४ ॥

पशूनामुपताप एतमेव देवं मध्ये गोष्ठस्य यजेत ॥


१. 'त्रीयः प' ख. ग. पाठः.
२. 'न् नापशुर्भव' घ. पाठः.
३. 'पेदाग' ङ. पाठः.

२१६ | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः

पशूनां गवादीनामुपतापे रोगे उत्पन्ने एतमेव देवं रुद्रं गोष्ठस्य मध्ये यजेत ॥ ३५ ॥

स्थालीपाकं सर्वहुतम् ॥ ३६ ॥ जुहुयादिति शेषः । शूलगवस्य स्थाने स्थालीपाकः स च सर्वहुतो भवति । मन्त्रश्च पूर्वोक्त एव ॥ ३६ ॥

बर्हिराज्यं चानुप्रहृत्य धूमतो गाव आनयेत् ॥ बर्हिरादीन्युपयुक्तानि अग्नावनुप्रहृत्य यतो धूमस्ततो गाव आनयेत् । द्वितीयार्थे प्रथमा, गा आनयेत् यथैना धूमः प्राप्नुयात् ॥ ३७ ॥

ततः—
शन्तातीयं जपन् पशूनां मध्यमियान्मध्यमियात् ॥ ३८ ॥
पशूनां मध्यं प्रविशेत् । द्विरुक्तिरध्यायपरिसमाप्तिकृता ॥ ३८ ॥

नमः शौनकाय नमः शौनकाय ॥ ३९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
अनाविलायां चतुर्थाध्याये दशमः खण्डः ।
चतुर्थोऽध्यायः समाप्तः ।

येन प्रणीतमृषिणा सूत्रं स्वाचार्यसंमतम् ।
तमाश्वलायनं वन्दे विद्यानद्याः शिलोच्चयम् ॥

समाप्तोऽयं ग्रन्थः ।

शुभं भूयात् ॥


१. 'ष्टम' ख. ग. ङ. पाठः.

सूत्रसूची।

सूत्राणि.पृष्ठम्.सूत्राणि.पृष्ठम्.
अंसावाभिमृशति६१अथाग्निमुपसमा५८
अकुष्ठिपृषत्२०८अथाग्निमुपसमा१९३
अक्षतधानाः कृत्वा१०२अथाग्नौ जुहो२०४
अक्षतसक्तूनां नवं,,अथाग्नौ हुतशे२०५
अगदः सोमेन१७२अथाचमनीयैना१००
अगमनीयां गत्वा१५४अथातः पञ्चयज्ञाः१३८
अग्न आयूंषि पवस१७अथातः पार्वण१९६
अग्नये स्वाहेति३५अथातोऽध्यायोपा१४७
अग्निं परिसमूह्य७९अथातो वास्तुपरी१२६
अग्निना वा कक्ष११४अथानवेक्षं प्रत्या१९१
अग्निमुखा वै देवा२०५अथापराजितायां१६८
अग्निरिन्द्रः प्रजापति१४अथापराजितायां दि१९५
अग्निर्मे होता स९०अथापि विज्ञाय१४६
अग्निवेलायाम्१९२अथाप्यृच उदा
अङ्गुष्ठोपकनिष्ठि१८०अथावदानानां११६
अत ऊर्ध्वं पतित७३अथास्मिन्नन्न आसे१३४
अत ऊर्ध्वमक्षारलव८५अथास्यै मण्डला५६
अत ऊर्ध्वमक्षारालव३२अथास्यै युग्मेन५८
अतो वृद्धो जपति१६५अथास्यै शिखे वि२७
अथ काम्यानां स्था१५२अथैतानि पात्रा१७५
अथ खलु यत्र१०अथैतां दिशम१७५
अथ खलूच्चावचा२२अथैतान्युपक१५७
अथ दधिसक्तून्१४८अथैतैर्वास्तुं परी१२९
अथ पशुकल्पः४४अथैनं सारयमा१६९
अथ पार्वणः स्थाली३६अथैनच्छमयति१३४
अथ बलिहरणअथैनमन्तर्वेदि१७७
अथर्षयः१४४अथैनमन्वीक्षेत१७०
अथ व्याधितस्या१५३अथैनान् प्रोक्षति३७
अथ शूलगवः२०८अथैनामपराजितायां२८
अथ श्वोभूतेऽष्टका११३अथैनामुच्छ्रीयमाणा१३३
अथ सायंप्रातःअथोदङ्ङावृत्य२१३
अथ स्वस्त्ययनं३३अथोपविशन्ति१९५
अथ स्वाध्यायम्१४१अथोपेतपूर्वस्य८७
अथ स्वाध्याय१३९अधिके प्रशस्तम्१३०
सूत्राणि.पृष्ठम्.सूत्राणि.पृष्ठम्.
अदितिः केशान्६८अभिमतेऽनुमते२०६
अधिज्यं कृत्वा स१७८अभिवादनीयं६३
अध्येष्यमाणो१४८अभ्युदियाच्चेद्१५५
अनभ्यनुज्ञायां२०४अमात्यानन्ततः२१४
अनार्तस्य नार्तो१६१अमात्येभ्य इतरा१०४
अनाहिताग्नेरपि१०८अमा पुत्रो वृषदुप१८०
अनिन्दितस्यां दि८६अमुष्मै स्वाहेति१४
अनिरुक्तं परिदा८८अमोहमस्मि सा२४
अनिष्ट्वा वा१७३अयं तुभ्यमिति५२
अनुप्रवचनीयमिति८३अयुग्मानितरेषु१२२
अनुस्तरणीं गा१७५अयुजानि स्त्रीणाम्६३
अनुस्तरणया वपा१६१अयुजोऽमिथुनाः१८८
अनूषरमाविवादिष्णु१२७अयुजो वा१२२
अन्तर्मृत्युं दध१९३अरङ्गरो वावदीतीति१३४
अन्नपतेऽन्नस्य नो६५अर्यमणं नु देवं२६
अन्नं ब्राह्मणेभ्यः३३अलक्षणायां स्त्रियम्१८८
अन्यद्वा कौटुम्बम्१२५अलङ्कृतं कुमारं कु७५
अन्वञ्चं प्रेतमयु१७५अलङ्कृत्य कन्यामु२०
अन्वञ्चोऽमात्या१७६अलाभेऽपः१००
अपरासु स्त्रीभ्यः१२१अवदानैर्वा सह५०
अपरिणीय शूर्पं२६अवप्लुतः स्यादा१०३
अपरेणाग्निं प्राक्१४९अवसृष्टाः पराप१७०
अपरेद्युरन्वष्टक्यम्११८अवहतांस्त्रिः फली३८
अपामञ्जली पू७७अविच्छिन्नया चो१३२
अपामार्गः शाक१२८अविदासिनी ह्रदात्२०
अप्यनडुहो यवस११४अध्याधितं चेत् स्व१५२
अप्रच्छिन्नाग्रावनन्त१२अश्मनस्तेजोऽसि१६०
अप्रत्तासु च स्त्रीषु१८६अश्नन्वतीरीयते संरभध्वमित्यर्थे३०
अप्रत्याख्यायिन८३अश्नन्वतीरीयते संरभध्वमित्यश्मा१९५
अप्रत्याख्यायिनी,,अष्टमीमिपून्१६९
अभयं नः प्रजाप११०अष्टमे वर्षे ब्राह्मण७२
अभित आकाशम्१७३अष्टौ पिण्डान् कृत्वा१९
अभिप्रवर्तमानकेषु१२४अष्टावरानष्ट परान्२१
अभिप्रवर्तमाने१६९अस्तमितेऽपां पू१३०

सूत्राणि.पृष्ठम्.सूत्राणि.पृष्ठम्.
अस्तमिते ब्रह्मौदन८४आ षोडशाद् ब्राह्म७३
अस्तमिते स्थाली१०३आसंचनवन्ति पृष१८०
अस्माकमुत्तमं कृ१२६आहवनीयश्चेत् पू१८३
अहं वर्ष्म सजातानां९७आहिताग्निश्चेद्वु१७२
अहिरिव भोगैः१६९इतरेषु१८७
अहीनस्य९३इत्यनुपेतपूर्वस्य८७
आक्रम्य वा पादौ९७इदं वत्स्यावो भो१६४
आगावीयमेके१३६इध्मचितिं चिनो१७७
आग्नेयीमेके११४इध्मबर्हिषोश्च३६
आचान्तेष्वेके२०६इमं तस्मै बलिं५२
आचान्तोदकाय१००इममग्ने चमसं१८२
आचार्यः समन्वार८४इमं जीवेभ्यः१९३
आचार्यान् पितॄंश्च१५२इममश्मानमारोहा२५
आचार्यश्वशुरपितृ९६इमे जीवा विष्ट१८४
आजमन्नाद्यका६४इमा नारीरविध१९४
आज्यभागौ हुत्वाज्या१४७इरिणादधन्या२०
आज्यशेषेण वानक्ति३२इष्ट्वान्यमुत्सृजे२१५
आत्मनि मन्त्रान् सं१६०इह प्रियं प्रजायां३१
आत्वाहार्षमन्तरे१६८उक्तं गृहप्रपदनम्१३१
आदित्यमीक्षयेद्७८उक्तं वृषले१७८
आदित्यो मेऽध्वर्यु९१उक्तानि वैतानिकानि
आनडुहं गोमयं६६उत्तरतः पत्नीं१७७
आपूर्यमाणपक्षे५८उत्तरतोऽग्नेर्दभै२१३
आप्लुत्य वाग्यतः७१उत्तरतोऽग्नेर्ब्रीहि६६
आयतचतुरश्रं वा१३१उत्तरतोऽग्नेः शामि४४
आयतीर्यासामू१३६उत्तरपुरस्तात्४१
आयुष्यमिति सू१६२उत्तरपुरस्तादा१८४
आर्द्रया२०८उत्तरमाग्नेयं दक्षिणं४०
आद्र्रामन्नाद्यका१५९उत्तरया धनुः१६८
आवृत्तैव कुमार्यै६४, १५, ७०उत्तरया पांसूनव१८९
आवृत्तैव पर्यग्निकृत्वो४६उत्तरां वाचयेत्१६८
आवृत्तैव हृदय५०उत्तरामुत्तरया२८
आशंसन्त एनं१७२उत्तरार्धात् सौवि४२
आश्वयुज्यामाश्व१०६उत्तरेणोत्क्रमयेत्३०

सूत्राणि.पृष्ठम्.सूत्राणि.पृष्ठम्.
उदगयन आपूर्यमाण१५एताश्चैव देवता१५२
उदरं वैश्यः१६१एतेन गोदानं७०
उदरे पात्रीं समव१८०एतेनं माध्यावर्षं१२१
उदिते सौर्याणि१९६एतेन वापनादि८७
उद्धृत्य घृताक्त२०४एतेनाग्ने ब्रह्मणा९५
उपनिपदि गर्भ५४एवं त्रीन् प्रस्तृ५६
उपरतेषु शब्देषु१९२एवं प्रातः प्राङ्मुख१५६
उपरि समिधं कृत्वा१५९एवं विद्व यजमा२१४
उपश्वास्य पृथि१७०एवमतिसृष्टस्य१६५
उपस्थं स्त्री१६१एवमनाहिताग्नि९५
उपस्थे शम्याम् अर१८०एवमितरे यथादे९२
उभय।मुभयकामः१५९एवमुत्तरतस्त्रिः६९
उभयोः सन्निधाय२९एपोऽवदानधर्मः२५
उरसि ध्रुवां शि१७९एपोऽवभृथः पा४३
ऊरू सरणर्जावि१६१एषा मेऽष्टकेति११४
ऊर्णास्तुके केश२८ओंपूर्वा व्याहृतयः१४१
ऋचो यजूंषि सा१४१ओंपूर्वा व्याहृतयः१४९
ऋतुदेवतामे११५ओदनं कृसरं११३
ऋत्विजे वितते कर्म२१ओप्योप्य हैके२७
ऋत्विजो वृणीते८९ओषधिवनस्पति१२७
ऋत्विजो वृत्वा मधु९५ओषधीनां प्रादु१४७
ऋषभं मा समाना१२६कण्टकिक्षीरिण१२७
ऋषिभ्यस्तृतीयम्८५कण्टकिक्षीरिणस्त्विव१७४
एकक्षीरकेण१६०कपोतश्चेद्गा१५६
एकबर्हिरिध्मराज्य१५कर्णयोः प्राशित्र१८०
एकस्यां वा११२कर्णयोरुपनिधाय६१
एकादश पशोरव४९कर्तारं यजमानः४७
एकादशे क्षत्रियम्७२कर्ता नृपले जपेत्१७८
एकैकस्यावदानस्य५०कर्तृष्ववकाः शीफाल१३२
एतत् तन्त्रम्४३कर्तृष्वेके द्वयोः१२०
एतदुत्सर्जंनम्१५२कलशात् सक्तूनां१०४
एतान्यान्यपि१२५कल्मापमित्येके२०८
एतस्मिन्नेवाग्नौ४८कल्याणेपु देशवृक्ष३०
एतस्मिन् काले ग२०४कल्याणैः सह सम्प्र९४

CC-0. Agamnigam Digital Preservation Foundation, Chandigarh

सूत्राणि.पृष्ठम्.सूत्राणि.पृष्ठम्.
कस्य ब्रह्मचार्यसि७८चतुर्थं संहाय सौ१११
कामं कृष्णमारो२०९चतुर्थे गर्भमासे५७
कामं तु व्रीहियव३५चतुर्भिः सूक्तैश्चत२१२
काम्या इतराः३७चतुष्पथाद् विप्र२०
कालश्च८८चन्द्रमा मे ब्रह्मा९१
किं पिबसि किं पिब५५चन्द्रमास्ते ब्रह्मा९२
कुमारं जातं पुरा६०चरवः१५२
कुलमग्रे परीक्षेत१८चरितव्रतः सूर्याविदे३२
कृताकृतं केशवं८८चरितव्रताय मेधा८६
कृताकृतमाज्य१३चैत्ययज्ञे प्राक्५१
केशशब्दे तु इम७०छित्त्वा वैकम्१८०
केशश्मश्रुलोम७१जपित्वामिष्टे होता९१
केशश्मश्रुलोम१७४जानुमात्रं कर्तं खा१२९
क्षीरोदकेन शमी१८८जायोपेयेत्येके१५०
क्षुत्वा जृम्भित्वा१५४जीमूतस्येव भव१६८
क्षुरतेजो निमृजेद्६९जीवं रुदन्तीति३०
क्षेत्रं प्रकर्षयेदुत्त१३५ज्ञातौ चासपिण्डे१८७
क्षेत्रस्यानुवातं१३५ज्यायान् ज्यायान् वान११०
क्षेत्राच्चेदुभयतः स१९तं चतुष्पथे न्युप्य११०
गणानासामुपति-१३६तं वह्यमानमनु१८४
गर्भाष्टमे वा७२तं दीपयमाना१९२
गाः प्रतिष्ठमाना१३६तं पन्नदतं वृषी२०९
गार्हपत्यश्चेत् पूर्वे१८३तच्छमीशाखयो१३१
गुरवे प्रसक्ष्यमा१६४तत् सर्वसमृद्धम्१२८
गुरुणाभिमृष्टा अ१९०तत्स॑वितुर्वृ॑णीमह८८
गुरौ चासपिण्डे१८६तत् सहस्रसीतं१३१
गोमिथुनं दक्षिणा७१तथाज्यभागौ१३
गोमिथुनं दत्त्वोपय२१तथोत्तमे आहुती२७
गोष्ठात् पशुमती१९तथोत्सर्गे१५०
ग्रहणान्तं वा८२तदाचार्याय वेद८४
ग्रामकामा अन्नय१७२तदेपाभियज्ञ९५
घृतौदनं तेजस्कामः६५तद्वरन्ते सर्पीः२१३
घोषवदाद्यन्तर६२तद्यदग्नौ जुहोति१३८
चतसृषु चतसृषु२११तद्दो दिवो दुहि१२६