भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

'? No, it has: द ् र व ्य ा न् त र - wait! Look at the letter after 'ा': It is 'न' with a reph? No, it's 'न्र्'? Wait, look at it: न् + त = न्त! Wait, above 'त' there is an anusvara? No, look at: द्र - व्या - न्त - र - स - यो - ग - जाः Wait, between 'व्या' and 'त', there is: A letter: look at the top: It has a reph? No, there is: न् + त = न्त. But wait! There is a diagonal stroke across the stem? Wait, let's look at "द्रव्यान्तरसंयोगजाः": Is there an anusvara on 'सं'? Wait! Look at: "सयोगजाः" - does 'स' have an anusvara? No! There is NO dot above 'स'! It is clearly 'सयोगजाः'! Wait, what about the word before it? Let's look at the letters: द् - र - व् - य - ा - then: न्र्त? Wait, look at that cluster: It has 'न', under which there is a virama or reph? No, it looks like: न् + र + त ? Or is it just a damaged type of 'न्तर'? Wait! Look at the letter: It's 'न्'

११० आयुर्वेदीयग्रन्थमाला । [ अध्यायः कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः । पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥ कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः । मेरुसानुपतज्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥ दिव्यौषधिमणिसस्पर्शादन्यद्भवति काञ्चनम् । एवं नानाविधानीह जायन्ते काञ्चनानि वै ॥ ९ ॥ उक्तं च— सुवर्णं पञ्चधा ख्यातं प्राकृतं सहजं परम् । वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ॥ १० ॥ ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् । ब्रह्मा येन सहोत्पन्नः सहजं हेम तत्स्मृतम् ॥ ११ ॥ वह्निजं तु समाख्यातमेतानि दुर्लभानि हि । मनु(१४)वर्णं लोकसिद्धं प्रायशः खनिजं हि यत् ॥ १२ ॥ तत्स्वर्णं मारणार्थं तु ग्राह्यं लक्षणलक्षितम् । वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु । विशुध्यति वरं किंचिद्वर्णवृद्धिश्च जायते ॥ १३ ॥ यया कुम्भकाराः भाण्डानि रञ्जयित्वा पाचयन्ति सा वर्णमृत्तिकेत्युच्यते, ‘कावीस’ इति भाषा । मतान्तरम्— वल्मीकमृत्तिका धूमं गैरिकं चेष्टिका पडु । इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १४ ॥ पिष्ट्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् । पुटेत्पृथुहसन्त्यां तु निर्वात विंशदुत्पलैः ॥ १५ ॥ अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते । इत्येवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥ १ मुनिशः सप्तवारम् ।

११.] आयुर्वेदप्रकाशः । १११ मतान्तरम् ।— मृत्तिकाः पञ्च लुङ्गाम्लैः पञ्चवासरभाविताः । सभस्मलवर्णा हेम्नः शोधन्यः पुटपाकतः ॥ १७ ॥ अन्यच्च— सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः । काञ्चनाररसे शुद्धं काञ्चनं जायते भृशम् ॥ १८ ॥ इति स्वर्णशोधनम् । अत्र केचित् ।— इयमेव सुवर्णस्य शुद्धिर्नान्या हि विद्यते । तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥। अथ स्वर्णनामानि— स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं कलधौतं गाङ्गेयं भर्म काञ्चनम् ॥ २० ॥ चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् । जाम्बूनदं जातरूपं महारजतमित्यपि ॥ २१ ॥ अथ सदसत्सुवर्णलक्षणम्— दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ २२ ॥ यच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् ॥ दाहे छेदे सितं, श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ २३ ॥ दलं नाम यद्धनाहतं स्फुटति । अथ स्वर्णगुणाः— स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्यदम् । प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियमिदं धत्ते नृणां धारणात् ॥२४॥ दाहेऽतिरक्तमथ यत्ससितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे ।

३. तृतीय अध्याय: शुद्ध धातु वर्ग (स्वर्ण, रजत, ताम्र, लोह, वंग, यशद) भस्म निर्माण

११२ आयुर्वेदीयग्रन्थमाला। [अध्यायः स्निग्धं च गौरवमुपैति च यत्तुलायां ग्राह्यं तदेव कनकं मृदु रक्तपीतम् ॥ २५ ॥ अन्यच्च— सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् । स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ २६ ॥ पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् । हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ॥ २७ ॥ विषद्वयक्षयोन्मादत्रिदोषज्वरशोकजित् । अपकमेव संशुद्धं, पक्वं तत्त रसायनम् ॥ २८ ॥ अत्र पकापकप्रयोगविवेको रसपद्धत्याम्।— पक्वं हेम रसायनं विदुरथापकं तु सद्योविष- प्रध्वंसि क्षयिबृंहणं कृमिहरं वर्ण्यं ज्वरिभ्यो हितम् । रूप्याद्येषु विमृश्यवादिभिरुपक्षिप्तोऽस्त्यपके गुण- स्ताम्रं चापि विपातिहिन्निगदितं वैद्यैरपरकं ध्रुवम् ॥२९॥ दृश्यते च वाग्भटे— विषमुक्ताय दद्याच शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ३० ॥ शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् । न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ३१ ॥ अथापकसुवर्णसेवने प्रकारद्वयमुक्तं तन्त्रान्तरे; तद्यथा— अपकं हेम संघृष्टं शिलायां जलयोगतः । द्रवरूपं तु तत्पेयं मधुना गुणदायकम् ॥ ३२ ॥ यद्वाऽपि तबका(वरका)ख्यं तु स्वर्णपत्रं विचूर्णितम् । मधुना संगृहीतं चेत्सद्यो हन्ति विषादिकम् ॥ ३३ ॥ इत्यादि ज्ञेयम् ॥

११. ] । आयुर्वेदप्रकाशः । ११३ अन्यच्च गुणविशेषादिकमाह— सर्वौषधिप्रयोगेण व्याधयो न गता हि ये । कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ ३४ ॥ शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ ३५ ॥ अथानुपानमाह— मध्वामलकचूर्णं तु सुवर्णं चेति तन्त्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंकटात् ॥ ३६ ॥ मेधाकामस्तु वचया श्रीकामः पद्मकेसरैः । शङ्खपुष्प्या वयोर्थी च विदार्या च प्रजार्थकः ॥ ३७ ॥ अथाशुद्धस्यासम्यङ्मारितस्य गुणाः— बलं च वीर्यं हरते नराणां रोगव्रजं पोषयतीह काये । असौख्यकार्यैव सदा सुवर्णमशुद्धमेतन्मरणं च कुर्यात्॥३८ असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् । करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ ३९ ॥ अथ स्वर्णादीनां मात्राकथनम् ।— यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं, रविः । तारं तद्विगुणं, लोहमन्यत्तु त्रिगुणाधिकम् ॥ ४० ॥ गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः । तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥ अथ स्वर्णादिमारणे कियती परिभाषोच्यते; उक्तं च— रसीभवन्ति लोहानि मृतानि सुरवन्दिते । विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ ४२ ॥ लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ ४३ ॥

११४ आयुर्वेदियग्रन्थमाला । [ अध्यायः अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥ ४४ ॥ नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् । पुटनात् स्याल्लघुत्वं च शीघ्रव्याप्तिश्च¹ दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ॥ ४५ ॥ अन्यच्च— स्वर्णरूप्यवधे ज्ञेयं पुटं कुक्कुटकादिकम् । ताम्रे काष्ठादिजो वह्निर्लोहे गजपुटानि च ॥ ४६ ॥ अथ स्वर्णादिधातूनां लोहत्वेन व्यवहार इत्याह रसपद्ध- त्तिकारः— रुक्मं रूप्यमयांसि शुल्बमुरगं वङ्गं घनं वर्तकं घोषं लोहमिदं त्रयं च चरमं नाम्नोपलोहं जगुः । अथैषां शोधनमाह— तक्रे काञ्जिकमूत्रयोस्तिलभवे तैले कुलित्थाम्भसि स्याच्छुद्धं परिवर्त्य लोहमखिलं त्रिःसप्तधा वापितम् ॥ अथ व्याख्या—रुक्मं सुवर्णं, रूप्यं रजतं, अयांसि कान्त- तीक्ष्णमुण्डाख्यानि, भेदाभिप्रायेण बहुवचनं, शुल्बं ताम्रं, उरगं सीसं, वङ्गं त्रपु, घनं कांस्यं, वर्तकं पित्तलजातिभेदः, घोषं पञ्चरसं, इदमखिलं लोहं; तत्र रुक्मादिषट्कं मुख्यं लोहं, अन्यत्त्रयं घनादि तूपलोहं जगुः रसज्ञा इत्यर्थः । परिवर्त्य द्रवीकृत्य । त्रिःसप्तधा एकविंशतिवारम् । अखिलं स्वर्णादि घोषान्तम् । मतान्तरम्— सुवर्णरूप्यताम्रायःपत्राण्यग्नौ प्रतापयेत् । कृत्वा कण्टकवेधीनि दृष्ट्वा वह्निसमानि च ॥ ४८ ॥ १ 'शीघ्रं व्याधेश्च नाशनम्' ग. ।

११.] आयुर्वेदप्रकाशः । ११५ निषिञ्चेत्तप्ततप्तानि तैले तक्रे गवां जले । काञ्जिके च कुलित्थानां कपाये सप्तधा पृथक् ॥ ४९ ॥ एवं स्वर्णादिलोहानां विशुद्धिः संप्रजायते । तीक्ष्णादिलोहकिट्टं तु संशोध्यं लोहवद्बुधैः ॥ ५० ॥ अथ नागवङ्गयोर्विशेषमाह— नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् । सच्छिद्रश्रावपिहिते हण्डिकास्थे द्रवे शनैः । सप्तधैवं विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ ५१ ॥ अन्यमतम्— सर्वलोहानि तप्तानि कदलीमूलवारिणि । सप्तधाऽभिनिषिक्तानि शुद्धिमायान्त्यथोत्तमम् ॥ ५२ ॥ अथ स्वर्णमारणम्— सिद्धलक्ष्मीश्वरोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥ शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्त धातवः । म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ ५४ ॥ इति सर्वधातुमारणं सामान्येन ॥ स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥ ५५ ॥ चूर्णीकृतं ततो रुद्ध्वा शरावद्वयसंपुटे । सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ॥ ५६ ॥ त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ ५७ ॥ इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम्— शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥

११६ आयुर्वेदीयग्रन्थमाला । [अध्यायः त्रिंशद्वनोपलैर्देयाः पुटा ह्येवं चतुर्दश । निरुत्थं हेमभस्म स्याद्गन्धो देयः पुनः पुनः ॥ ५९ ॥ अत्रानुक्तमपि ज्ञेयं गोलकीकरणे बुधैः । जम्बीरद्रवदानं तु सर्वत्रैवं विनिश्चयः ॥ ६० ॥ इति सरसं हेमभस्म । अथान्यः प्रकारः— सुवर्णेऽग्नौ द्रुते सूतं दद्यात्सीसं कलांशकम् । अम्लेन मर्दयेत्तत्तु चूर्णयित्वा शनैः शनैः ॥ ६१ ॥ पश्चात्तद्गोलकं कृत्वा तुल्यगन्धरजोगतम् । शरावसंपुटे स्थाप्यं संधिरोधं विधाय च ॥ ६२ ॥ त्रिंशद्वनोपलैः पच्यात्सप्तधैवं पुनः पुनः । अम्लेन गोलकं कृत्वा पचेत्स्वर्णमृतिर्भवेत् ॥ ६३ ॥ अथान्यः प्रकारः— रसस्य भस्मना वाऽथ रसेनालेप्य वै दलम् । हिङ्गुहिङ्गुलसिन्दूरशिलासाम्येन मेलयेत् ॥ ६४ ॥ संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाऽथ गोलकम् । तं भाण्डस्य तले दत्त्वा भस्मना पूरयेद्दृढम् ॥ ६५ ॥ अग्निं प्रज्वालयेद्गाढं द्युर्निशं स्वाङ्गशीतलम् । उद्धृत्य सावशेषं चेत्पुनर्देयं पुटद्वयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६६ ॥ इति हेमभस्म ॥ अथान्यप्रकारः— काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः । कज्जलीं हेमपत्राणि लेपयेत्समया तया ॥ ६७ ॥ काञ्चनाररजःकल्केर्मूषायुग्मं प्रकल्पयेत् । धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे ततः ॥ ६८ ॥ CCO, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri

११०] आयुर्वेदप्रकाशः । ११७ निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् । वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६९ ॥ इति हेमभस्म ॥ काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् । ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला ॥ ७० ॥ लाङ्गली कलिहारी । इति हेमभस्म ॥ शिलासिन्दूरयोश्चूर्णं समयोर्कदुग्धकैः । सप्तधा भावयित्वा तु शोषयेच्च पुनः पुनः ॥ ७१ ॥ ततस्तु गालिते हेम्नि कल्कोऽयं दीयते समः । पुनर्धमेतितरां यथा कल्को विलीयते ॥ ७२ ॥ एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् । इति रसवर्जं हेमभस्म । अथ स्वर्णभस्मपरीक्षा— जाम्बवाभं सुवर्णस्य भस्म प्राहुर्भिषग्वराः ॥ ७३ ॥ अथ सुवर्णद्रुतिः ।— चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः । भावितं सदृशं हेम करोति जलवद्द्रुतिम् ॥ ७४ ॥ मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः । प्रतीवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ७५ ॥ अथ रूप्यस्योत्पत्तिनामलक्षणगुणशोधनमारणानि । त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः । निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ७६ ॥ ततस्तूल्का समभवत्तस्यैकस्माद्विलोचनात् । अपरस्माद्वीरभद्रो गणो वह्निरिव ज्वलन् ॥ ७७ ॥ तृतीयो ह्यश्रुबिन्दुस्तु लोचनादपतद्भुवि ।

११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् । कृत्रिमं चापि भवति वङ्गादेः सूतयोगतः ॥ ७८ ॥ अन्ये तु— रूप्यं त्रिधा स्यात्सहजं कृत्रिमं खनिसंभवम् । कैलासादिस्थितं यद्धि सहजं रजतं हि तत् ॥ ७९ ॥ रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् । हिमाचलादिभूमौ च जायते खनिजं च तत् ॥ ८० ॥ मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् । गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षमम् ॥ ८१ ॥ वर्णाढ्यं चन्द्रवत्स्वच्छं रूप्यं नवगुणं शुभम् । कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ॥ ८२ ॥ गुणाः— रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ ८३ ॥ प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् । गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशिनी ॥ ८४ ॥ रसपद्धत्याम्— अपकरजतं नैव संयोज्यं स्वर्णवद्गदे । पक्वं भस्मापि तन्नैव योज्यं ताम्रादिभस्मवत् ॥ ८५ ॥ व्यवहाराभावतः किंच श्वेतकुष्ठहरं हि तत् । इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादिषु ॥ ८६ ॥ गुणग्रन्थेऽपि क्वचित्— प्रोक्तकर्मसु संयोज्यं रजतं हि विधानतः । इति ॥ अथाशुद्धरजतमारणे दोषमाह— तारं शरीरस्य करोति तापं विड्बन्धतां यच्छति शुक्रनाशम् । वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान् पोषयति ह्यशुद्धम् ॥

११.] आयुर्वेदप्रकाशः । ११९ अथ रजतमारणम् । तत्रास्य विशेषशोधनम् । उक्तं च— तैलतक्रादिशुद्धस्य रजतस्य विशेषतः । शोधनं मुनिभिः प्रोक्तं तद्यथावन्निगद्यते ॥ ८८ ॥ पत्रीकृतं तु रजतं प्रतप्तं जातवेदसि । निर्वापितमगस्त्यस्य रसे वारत्रयं शुचि ॥ ८९ ॥ तारं तप्तं त्रिधा क्षिप्तं तैले ज्योतिष्मतीभवे । खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ॥ ९० ॥ तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् । जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः । इत्थं संशोधितं रूप्यं मृतं योज्यं रसादिषु ॥ ९१ ॥ अथ मारणम्— विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् । तालं गन्धं समं शुद्धं तन्मर्द्यं निम्बुकद्रवैः ॥ ९२ ॥ गोलकीकृत्य संशुद्धं मूषायां स्वर्णवद्दृढम् । द्वित्रैः पुटैर्भवेद्भस्म योज्यमेतद्रसादिषु ॥ ९३ ॥ इति सरसं रूप्यभस्म । मतान्तरम्— हिङ्गुलेन च माक्षिकेण वलिना तुल्येन जम्भाम्भसा लिप्तं रौप्यदलं पुटेन पटुना स्याद्भस्म मूषास्थितम् ॥ ९४ ॥ पटुना पुटेन गजपुटेन । मतान्तरम्— तारपत्रं तुर्यभागं भागैकं शुद्धतालकम् । एतज्जम्बीरजद्रावैः कल्कीकृत्याखिलं भिषक् ॥ ९५ ॥ तेन तारस्य पत्राणि लेपयेच्छोषयेत्ततः । शरावसंपुटे तेषामूर्ध्वाधो गन्धकं क्षिपेत् ॥ ९६ ॥ तारतुल्यं ततस्तानि रुद्धा गजपुटे पचेत् । त्रिंशदुत्पलकैर्वाऽपि विंशद्भिस्तारपञ्चता ॥ ९७ ॥

१२० आयुर्वेदीयग्रन्थमाला । [अध्यायः भागैकं तालकं मर्द्यं याममम्लेन केनचित् । तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥ ९८ ॥ धृत्वा मूषापुटे रुद्ध्वा पुटेत्रिंशद्वनोत्पलैः । समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत् । एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥ ९९ ॥ इति रूप्यभस्म ॥ स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् । तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् । एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥ १०० ॥ इत्यपि रूप्यभस्म । इति रसं विना मध्यमं रूप्यभस्म । मतान्तरम्— सूतगन्धकयोस्तारतुल्ययोः कजलीं भिषक् । द्रवीकृत्य कुमार्यद्भिस्तारपत्राणि लेपयेत् ॥ १०१ ॥ शरावसंपुटे रुद्ध्वा त्रिंशदुत्पलकैः पचेत् । द्विवारं रजतस्याशु भस्म स्यात् प्रायशः सितम् ॥ १०२ ॥ इत्यपि रससंयुक्तं रूप्यभस्म । अथ द्रुतिः— शतधा नरमूत्रेण भावयेद्देवदालिकाम् । तच्चूर्णावापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥ १०३ ॥ अथ ताम्रस्योत्पत्तिनामलक्षणगुणशोधन- मारणानि — शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले । तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः ॥ १०४ ॥ ताम्रं तु द्विविधं प्रोक्तं नेपालं म्लेच्छनामकम् । अतिशोणं मृदुः, कृष्णं कठिनं, क्रमशः स्मृतम् ॥ १०५ ॥

११. ] आयुर्वेदप्रकाशः । १२१ नामानि— ताम्रमौदुम्बरं शुल्वमुदुम्बरमिति स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् ॥ १०६ ॥ लक्षणम्— जपाकुसुमसंकाशं स्निग्धं मृदु घनक्षमम् । लोहनागोज्झितं ताम्रं नेपालं मृत्यवे शुभम् ॥ १०७ ॥ कृष्णं रूक्षमतिस्तब्धं श्वेतं चापि घनासहम् । लोहनागयुतं शुल्वं म्लेच्छं दुष्टं मृतौ त्यजेत् ॥ १०८ ॥ अन्यच्च— न विषं विषमित्याहुस्ताम्रं तु विषमुच्यते । एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥ १०९ ॥ भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः । अरुचिश्चित्तसंताप एते दोषा विषोपमाः ॥ ११० ॥ तैलतक्रादिशुद्धस्य तद्दोषविनिवृत्तये । शुल्वस्य शोधनं प्राज्ञैर्विशेषात्समुदाहृतम् ॥ १११ ॥ यथा— स्नुह्यर्कक्षीरलवणैस्ताम्रपत्राणि लेपयेत् । अग्नौ प्रताप्य निर्गुण्डीरसे संसेचयेत्त्रिशः । स्नुह्यर्कक्षीरसेकैर्वा शुल्वशुद्धिः प्रजायते ॥ ११२ ॥ अन्यमतम्— गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ ११३ ॥ इति विशेषशुद्धिः । अथ मारणम्— सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः । वासरत्रयमम्लेन ततः खल्वे विनिःक्षिपेत् ॥ ११४ ॥ ११

१२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् । तत उद्धृत्य पत्राणि लेपयेद्विगुणेन च ॥ ११५ ॥ गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् । ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥ ११६ ॥ तत्कल्केन बहिर्गोलं लेपयेद्व्यङ्गुलोन्मितम् । धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥ ११७ ॥ वालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः । दत्त्वा भाण्डमुखे मुद्रां, ततश्चुल्यां विपाचयेत् ॥ ११८ ॥ क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् । स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सूरणद्रवैः ॥ ११९ ॥ यामैकं गोलकं तच्च निक्षिपेत्सूरणोदरे । मृदा लेपस्तु कर्तव्यः सर्वतोऽङ्गुलमात्रकः ॥ १२० ॥ पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् । वमनं च विरेकं च भ्रमं क्लममथारुचिम् । विदाहं स्वेदमूत्क्लेदं न करोति कदाचन ॥ १२१ ॥ चाङ्गेरी चतुष्पत्रा, मीनाक्षी हुनगुंदा पत्रशाकम् । इति ताम्रभस्म । अथान्यः प्रकारः— ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् । मर्दयेद्यामयुग्मं तु यावत्कजलिका भवेत् ॥ १२२ ॥ तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् । संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ १२३ ॥ निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । सन्धिरोधं द्वयोः कुर्यादम्बुभस्मविलेपनम् ॥ १२४ ॥ हण्डिकां पडुनाऽऽपूर्य भस्मना वा गलावधि । पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद्दृढम् ॥ १२५ ॥ चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ।

११. ] आयुर्वेदप्रकाशः । १२३ अम्लपिष्टं मृतं ताम्रं सूरणस्थं लिपेन्मृदा । पचेत्पश्चामृतैर्वाऽपि त्रिधा वान्त्यादिशान्तये ॥ १२६ ॥ अत्र गजपुटो बोध्यः । रसपद्धत्याम्— जम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् । पङ्कायमानं पुटयस्व युक्त्या वान्त्यादिकं यावदुपैति शान्तिम्॥ इति रससंयुक्तं ताम्रभस्म । रसपद्धत्याम्— अर्द्धांशेन रसेन तुल्यबलिना जम्ब्वाम्बुपिष्टेन च लिप्त्वा ताम्रदलानि संस्तरचितान्यर्कस्य पक्वच्छदैः । भाण्डे रन्ध्राणि तिन्तिणीकविटपत्वग्भस्मसंपूरिते घस्रैकं परिपाचितानि शुचिना तीव्रं म्रियन्ते सकृत्॥१२८॥ संस्तरचयनं तु—अर्धार्कपत्रं हण्डिकायां पक्वं दत्त्वा, तत्र कज्जलीं तदुपरि ताम्रपत्रं पुनस्तदुपरि कज्जलीं तदुपरि पक्वार्क- पत्रं, एवं क्रमेणेति भावः । हण्डिकायां पक्वं दत्त्वेत्ययमर्थः— आदौ रन्ध्रवति भाण्डे अम्लिकात्वग्भस्म चतुरङ्गुलं दृढं प्रसार्य, तत्र ताम्रसंस्तरं दत्त्वा, तदुपरि पुनर्भस्मचूर्णं कृत्वा, उपरि शरावमृत्कर्पटानि दत्त्वा, चुल्ल्यामारोप्य प्रहरचतुष्टयपर्यन्त- मग्निं तीव्रतरं दत्त्वा तानि म्रियन्ते, स्वाङ्गशीतानि ग्राह्याणि । शुचिरत्र वह्निः । अथान्यः प्रकारः— शुल्वपत्राणि सूतेन चतुर्थांशेन लेपयेत् । अम्लपिष्टं द्विगुणितमूर्ध्वाधो दापयेद्बलिम् ॥ १२९ ॥ चाङ्गेरीकल्कगर्भस्थं भाण्डे यामं पचेद्दृढम् । भस्मीभूतं ताम्रपत्रं सर्वयोगेषु योजयेत् ॥ १३० ॥ अन्यच्च— जम्बीररससंपिष्टरसगन्धकलेपितम् । ताम्रपत्रं शरावस्थं त्रिपुटैर्याति भस्मताम् ॥ १३१ ॥ १ ‘सर्वरोगेषु’ ग. ।

१२४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अन्यच्च— गन्धाश्मना वा शिलया रविदुग्धेन लेपितम् । जम्भाम्भसा च पुटनैस्ताम्रं भस्मत्वमाप्नुयात् ॥ १३२ ॥ इति रसरहितं ताम्रभस्म मध्यमपक्षीयम् । अथ सोमनाथी ताम्रभस्म— शुल्वतुल्येन सूतेन वलिना तत्समेन च । तदर्द्धांशेन तालेन शिलया च तदर्द्धया ॥ १३३ ॥ तदर्धं पारदार्धं तालं, तालार्धा मनःशिला ॥ विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसंनिभाम् । यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ॥ १३४ ॥ कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् । प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं समुद्धरेत् ॥ १३५ ॥ अथ गुणाः— तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं सं

: ११. ] आयुर्वेदप्रकाशः। १२५ दाहः स्वेदोऽरुचिर्मूर्च्छा क्लेदो रेको वमिर्भ्रमः । असम्यक्शोधिते दोषास्ताम्रेऽसम्यक्च मारिते ॥ १४० ॥ अथ वङ्गस्य नामलक्षणशोधनमारणानि । वङ्गं रङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि । खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ॥ १४१ ॥ खुरकं श्रेष्ठमुद्दिष्टं मिश्रकं चावरं स्मृतम् । खुरकं चन्द्ररूप्याभं खुराकारं च कीर्त्यते । एतल्लक्षणभिन्नं तु वङ्गं मिश्रकनामकम् ॥ १४२ ॥ गुणाः— रङ्गं लघु सरं रूक्षमुष्णं मेहकफकृमीन् । निहन्ति पाण्डुकं श्वासं चक्षुष्यं पित्तलं मनाक् ॥ १४३ ॥ सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् । देहस्य सौख्यं प्रवलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् १४४ अन्यत्रापि— वङ्गं तीक्ष्णोष्णरूक्षं कफकृमिवमिजिन्मेहमेदोऽनिलघ्नं कासश्वासक्षयघ्नं प्रशमितहुतभुङ्मान्द्यमाध्मानदारि । बल्यं वृष्यं प्रभाकृन्मनसिजजनकं सर्वमेहप्रणाशि प्रज्ञाकृद्वर्ण्यमुच्चैरलघुरतिरसस्यास्पदं बृंहणं च ॥ १४५ ॥ अन्यच्च— बल्यं दीपनपाचनं रुचिकरं प्रज्ञाकरं शीतलं सौन्दर्यैकविवर्धनं हितकरं नीरोगताकारकम् । धातुस्थौल्यकरं क्षयिक्षयहरं सर्वप्रमेहापहं वङ्गं भक्षयतो नरस्य न भवेत्स्वप्नेऽपि शुक्रक्षयः॥१४६॥ अशुद्धममृतं वङ्गं प्रमेहादिगणप्रदम् । गुल्महृद्रोगशूलार्शःकासश्वासवमिप्रदम् ॥ १४७ ॥ १ 'पाण्डुं कासं च' ग. ।

१२६ आयुर्वेद Bernard? No: आयुर्वेदीयग्रन्थमाला। [अध्यायः वङ्गभस्मकरणं-अस्य शोधनं विशेषशोधनं च प्रागुक्तम् ॥ शुद्धं वङ्गं क्षिपेद्धण्ड्यां चुल्लिकायां शनैः शनैः । तदधो ज्वालयेदग्निं द्रुते वङ्गे क्षिपेत्पुनः ॥ १४८ ॥ अपामार्गं चतुर्थांशं चूर्णं संचालयेदिदम् । स्थूलाग्रया लोहदर्व्या यावत्तद्भस्म जायते ॥ १४९ ॥ अत्र रहस्यम्— चूर्णप्रक्षेपणं कार्यं स्वल्पं स्वल्पं मुहुर्मुहुः । यावद्भस्म भवेद्वङ्गं तावच्चूर्णं समापयेत् ॥ १५० ॥ ततः शरावपिहितं स्थापयेत्तत्र तद्भिषक् । रजः सर्वं ततोऽधस्तात्कुर्यादग्निं तु तीव्रकम् ॥ १५१ ॥ यावदङ्गारवर्णं तद्रजः समुपजायते । स्वाङ्गशीतं ततो ग्राह्यं मारणाय रजः शुभम् ॥ १५२ ॥ प्रकारान्तरं रसपद्धत्याम्— वङ्गे घर्षणकाल एव भिषजः पीतायवानीरजो न्यस्यन्ति क्षणशः शिलाजतु तथा भस्माप्यपामार्गजम् । क्षिप्त्वा रङ्गदलान्यरुष्कपिशितैर्भाण्डे तु चिञ्चात्वचो भूत्या संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्मान्यपि १५३ घर्षणकाले वक्ष्यमाणपलाशदण्डादिना घर्षणे; पीता हरिद्रा, यवानी यवासा, अनयो रजः; क्षणशः क्षणं क्षणं यावत् पिष्टीभवति तावद्भिषजो न्यस्यन्ति; ततो भस्मनः शुद्धयर्थं शिलाजतुं क्षिपन्ति, शिलाजतुरात्र श्वेतो ग्राह्यः सोरकाख्यः; तथेति अपामार्गजं भस्म घर्षणकाले वा क्षिपन्ति । अत्र भस्मी- कृत्य तदुपरि शरावं दत्त्वा तीव्रतरं वह्निं कृत्वा यथाऽङ्गारवर्णं भवति तथा कर्तव्यम् । पश्चात्स्वाङ्गशीतं ग्राह्यम् । मारणार्थं तद्भस्म भवति । प्रकारान्तरं-क्षिप्त्वेति । संस्तरस्तु भस्म दत्त्वा तदुपरि पत्रं, एवं क्रमेण । पुटं गजपुटम् ॥

११.] आयुर्वेदप्रकाशः । १२७ प्रकारान्तरं तत्रैव— यद्वैतस्य दलानि विंशतिगुणे पिण्याकचूर्णेऽतसी- संभूते शणपट्टवर्तिनि पुनस्तद्वद्यवान्या अपि । कीर्णानि क्रमशो निबध्य सुदृढं रुद्ध्वा गजाव्हे पुटे स्युर्भस्म त्रपुणि स्थिते तु पुटतोऽपकेऽयमेव क्रमः १५४ व्याख्या—अतसीपिण्याकचूर्णयवानीचूर्णयोः समुच्चयः, शणपट्टवर्तिनीति उभयोर्विशेषणं; क्रमशः पटे उभयोश्चूर्ण तत्रैकं पत्रं पुनश्चूर्णमित्यादि । अथैवमन्यतमप्रकारेण निष्प- न्नस्य वङ्गभस्मनः पुनर्मारणेन निरुत्थीकरणमाह— अथैवं वङ्गजं भस्म शुद्धतालेन मेलयेत् । समेन वाऽङ्घ्रिणांशेन ह्यष्टमांशेन वा ततः ॥ १५५ ॥ मर्दयेन्निम्बुकद्रावैरथवा कन्यकाद्रवैः । यामैकं वा द्वियामं वा दृढं मर्द्याथ चक्रिकाम् ॥ १५६ ॥ कृत्वा घर्मविशुष्कां तां पिप्पलस्य त्वगन्तरे । संस्थाप्य पश्चादेवं तत्सप्तधा विपचेद्भिषक् ॥ १५७ ॥ सर्वोत्तमं वङ्गभस्म निरुत्थं खटिकाप्रभम् । सर्वकार्यकरं चैव जायते वैद्यजीवनम् ॥ १५८ ॥ द्वितीयादिपुटे तालं न देयं किन्तु घर्षणैः । प्रोक्तद्रव्येण चक्राभं कृत्वा शुष्कं पुटेन्मुहुः ॥ १५९ ॥ पिप्पलस्य त्वगन्तरे स्थापनविधिः— पिप्पलत्वग्भवं चूर्णं मध्यं स्थाप्यं शरावके । चक्रिकां तत्र संस्थाप्य शेषमूर्ध्वं न्यसेद्रजः ॥ १६० ॥ संपिधायाथ संरुध्य मृत्कर्पटविलेपितम् । शुष्कं गजपुटे क्षेप्यं रहस्यमिति कीर्तितम् ॥ १६१ ॥ केचिद्वदन्ति पुटनाद्यदा भस्म मृदुर्भवेत् । तदाऽन्तिमपुटान्यस्य स्वल्पच्छगणकानि हि ॥ १६२ ॥

१२८ आयुर्वेदीयग्रन्थमाला । [अध्यायः इति वङ्गरजसो निरुत्थीकरणेन भस्मत्वापादनम् । अथ प्रका- रान्तरम्— वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन तत्पुटेत् । शुष्काश्वत्थभवैर्वल्कैः सप्तधा भस्मतां व्रजेत् ॥ १६३ ॥ अथ मध्यमपक्षेण वङ्गमारणम्— रजनीरजसा वह्नौ स्थाप्य हण्ड्यां तु पूर्ववत् । वङ्गभस्म विधायथ सोरकं तत्र मेलयेत् ॥ १६४ ॥ वङ्गतुर्यांशकं तत्तस्याच्छरावेण पिधापयेत् । मन्दमग्निं घटीमेकां दत्त्वाऽथ स्वाङ्गशीतलम् ॥ १६५ ॥ कुन्देन्दुधवलं भस्म वङ्गं ग्राह्यं स्वकार्यकृत् ॥ १६६ ॥ अथान्यः प्रकारः— वन्योपलोपरिस्थे तु गोणीखण्डे क्षिपेद्रजः । तिन्तिणीवल्कलस्याथ तिलांस्तत्र विनिक्षिपेत् ॥ १६७ ॥ अङ्गुलार्धप्रमाणेन तत्र वङ्गदलं न्यसेत् । खण्डीकृतं पुनस्तेन क्रमेणैवाऽथ विन्यसेत् ॥ १६८ ॥ तिलतिन्तिणिवल्कं च, गोमयेनाग्निना दहेत् । स्वाङ्गशीतं ततो ग्राह्यं युक्त्या वङ्गस्य भस्म तत् । श्वेतं तु लवणाभासं सुसूक्ष्मं सर्वकार्यकृत् ॥ १६९ ॥ अत्र पक्षद्वये तालदानं प्राज्ञैरपेक्षितम् । इत्यपि वङ्गभस्म । मतान्तरम्— मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः । क्षिप्त्वा वङ्गचतुर्थांशमयोदर्व्या प्रचालयेत् ॥ १७० ॥ ततो द्वियाममात्रेण वङ्गभस्म प्रजायते । अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत् ॥ १७१ ॥ ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ।